Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

निदानसंयुक्त

Thông tin
GRETIL — C. Tripāṭhī: Fünfundzwanzig Sūtras des Nidānasaṃyukta. Berlin 1962 (Sanskrittexte aus den Turfanfunden, VIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

निदानसंयुक्त

सूत्र 1: वृक्ष इ (बौम्)

निद्स 1.1 श्रावस्त्यां निदानम् /

निद्स 1.2 तत्र भगवान् भिक्षून् आमन्त्रयति /

निद्स 1.3 उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतस् तृष्णा प्रवर्धते / तृष्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो समुदयो भवति ।

निद्स 1.4 तद्यथा वृक्षस्य नवस्य दहरस्य पुरुष उत्पद्येत अर्थकामो हितकामो योगक्षेमकामो यस् तं वृक्षं + + + + + + + + + + + + + + + + + + + + कालेन कालम् उत्कीलयेत् कालेन कालं शीतोष्ण + + + + + + + + + + कालेन कालम् उदकं दद्यात् । स वृक्षस् तन्निदानं वृद्धिं विरूढिम् विपुलताम् आपद्येत ।

निद्स 1.5 एवम् एव उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतस् तृष्णा प्रवर्धते पूर्ववद् यावत् समुदयो भवति ।

निद्स 1.6 उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस् तृष्णा निरुध्यते । तृष्णानिरोधाद् उपादाननिरोधः। उपादाननिरोधाद् भवनिरोधाह् । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति /

निद्स 1.7 तद्यथा तस्यैव वृक्षस्य नवस्य दहरस्य .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. पुरुष उत्पद्येत अनर्थकामो ऽहितकामो ऽयोगक्षेमकामो यस् तं वृक्षं मूलाच् छित्वा अग्र .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. वातातपाभ्यां परिशोषयेत् । वातातपाभ्यां परिशोषयित्वा अग्निना दहेत् । अग्निना दग्ध्वा .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ः /

निद्स 1.8 किं मन्यध्वे भिक्षवो ननु स वृक्षस् तन् निदानम् उच्छिन्नमूलस् तालमस्तकवद् अनाभवगतिक आयत्याम् अनुत्पादधर्मा /

निद्स 1.9 एवं भदन्त /

निद्स 1.10 एवम् एव उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस् तृष्णा निरुध्यते । तृष्णानिरोधाद् उपादाननिरोधः । उपादाननिरोधाद् भवनिरोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणनिरोधः । शोकपरिदेवदुःखौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निओधो भवति ।

निद्स 1.11 अथ ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन् । अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्ताः ॥

सूत्र 2: वृक्ष इइ (बौम्)

निद्स 2.1 श्रावस्त्यां निदानम् ।

निद्स 2.2 तत्र भगवान् भिक्षून् आमन्त्रयति /

निद्स 2.3 उपादानीयेषु भिक्षवो धर्मेष्व् आस्वानुदर्षिनो विहरतो हारकं विज्ञानं भवति नामरूपे / नाम रूपप्रत्ययं षडायतम् / षडायतनप्रत्ययः स्पर्शः / स्पर्शप्रत्यया वेदना / वेदनाप्रत्ययातृष्णा / तृष्णाप्रत्ययम् उपादानम् / उपादानप्रत्ययो भवः / भवप्रत्यया जातिः / जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति / एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति /

निद्स 2.4 तद्यथा महावृक्षस्य मुलावतः स्कन्धवतः सारवतः शाखापत्त्रफलोपेतस्य यानि चाधोगतानि मूलानि तान्य् तान्य् ऊर्ध्वम् ओजम् अभिहरन्ति / एवं हि स महावृक्षस् तदाहारस् तदुपादानो दीर्घम् अध्वानं तिष्ठति /

निद्स 2.5 एवम् एव उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतो हारकं विज्ञानं भवति नामरूपे / पूर्ववद् यायद् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति /

निद्स 2.6 उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गर्शिनो न हारकं विज्ञानं भवति नामरुपे / तस्य निरोधात् षडायतननिरोधः / षडायतननिरोधात् स्पर्शनिरोदः / स्पर्शनिरोधाद् वेदनानिरोधः / वेदनानिरोधात् तृष्णानिरोधः / तृष्णानिरोधाद् उपादाननिरोधः / उपादाननिरोधाद् भवनिरोधः / भवनिरोधाज् जातिनिरोधः / जातिनिरोधाज् जरामरणनिरोधः / शोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते / एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति /

निद्स 2.7 तद्यथा तस्यैव महावृक्षस्य मूलवतः स्कन्धवतः सारवतः शाखापत्त्रफलोपेतस्य पुरुष उत्पद्येत .............

निद्स 2.8 किं मन्यध्वे भिक्षवो ननु स महावृक्षस् तन्निदानम् उच्छिन्नमूलस् तालमस्तकवद् अनाभवगतिक आयत्याम् अनुत्पादधर्मा /

निद्स 2.9 एवं भदन्त /

निद्स 2.10 एवं एव उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनो न हारकं विज्ञानं भवति नामरूपे / तस्य निरोधात् षडायतननिरोधाः / पूर्ववद् यावन् निरोधो भवति /

निद्स 2.11 अथ ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन् / अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्ताः ॥

सूत्र 3 उन्द् 4: दीप इ उन्द् इइ (लम्पे)

निद्स 3.1 पूर्वं मे भिक्षवो ऽनुत्तरां सम्यक्संबोधिम् अनभिसंबुद्धस्यैकाकिनो रहसिगतस्यैवं चेतसि चेतःपरिवितर्क उदपादि /

निद्स 3.2 कृच्छ्रं बतायं लोक आपन्नो यद् उत जायते ऽपि जीर्यते ऽपि म्रियते ऽपि च्यवते ऽप्य् उपपद्यते ऽपि / अथ च पुनर् इमे सत्वा जरामरणस्योत्तरे निःसरणं यथाभूतं न प्रजानन्ति /

निद्स 3.3 तस्य ममैतद् अभवत् / कस्मिन् नु सति जरामरणं भवति / किंप्रत्ययञ् च पुनर् जरामरणम् / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / जात्यां सत्यां जरामरणं भवति / जातिप्रत्ययञ् च पुनर् जरामरणम् /

निद्स 3.4 तस्य ममैतद् अभवत् / कस्मिन् नु सति जातिर् भवति / किंप्रत्यया च पुनर् जातिः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / भवे सति जातिर् भवति / भवप्रत्यया च पुनर् जातिः /

निद्स 3.5 तस्य ममैतद् अभवत् / कस्मिन् नु सति भवो भवति / किंप्रत्ययश् च पुनर् भवः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / उपादाने सति भवो भवति / उपादानप्रत्ययश् च पुनर् भवः /

निद्स 3.6 तस्य ममैतद् अभवत् । कस्मिन् नु सत्य् उपादानं भवति । किंप्रत्ययञ् च पुनर् उपादानम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतस् तृष्णा प्रवर्धते । तृस्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।

निद्स 3.7 किं मन्यध्वे भिक्षवः । ....

निद्स 3.8 एवं भदन्त ।

निद्स 3.9 एवम् एव उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतस् तृषा प्रवर्धते तृष्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।

निद्स 3.10 तस्य ममैतद् अभवत् / कस्मिन् न्व् असति जरामरणं न भवति / कस्य निरोधाज् जरामरणनिरोधः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / जात्याम् असत्यां जरामरणं न भवति / जातिनिरोधाज् जरामरणनिरोध /

निद्स 3.11 तस्य ममैतद् अभवत् / कस्मिन् न्व् असति जातिर् न भवति / कस्य निरोधाज् जातिनिरोधः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उद्पादि भवे ऽसति जातिर् न भवति / भवनिरोधाज् जातिनिरोधः /

निद्स 3.12 तस्य ममैतद् अभवत् / कस्मिन् न्व् असति भवो न भवति / कस्य निरोधाद् भवनिरोधः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / उपादाने ऽसति भवो न भवति / उपादाननिरोधाद् भवनिरोधः /

निद्स 3.13 तस्य ममैतद् अभवत् / कस्मिन् न्व् असत्य् उपादानं न भवति / कस्य निरोधाद् उपादाननिरोधः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस् तृष्णा निरुध्यते । तृष्णानिरोधाद् उपादाननिरोधः । उपादाननिरोधाद् भवनिरोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते / एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।

निद्स 3.14 किं मन्यध्वे भिक्षवः । ...

निद्स 3.15 एवं भदनत ।

निद्स 3.16 एवम् एव उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस् तृष्णा निरुध्यते । तृष्णानिरोधाद् उपादाननिरोधः । पूर्ववद् यावन् निरोधो भवति ।

निद्स 3.17 अथ ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन् । अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्ताः ॥

सूत्र 4

निद्स 4.1 पूर्वं मे भिक्षवो ऽनुत्तरां सम्यक्संबोधिम् अनभिसंबुद्धस्यैकाकिनो रहसिगतस्यैवं चेतसि चेतःपरिवितर्क उदपादि /

निद्स 4.2 कृच्छ्रं बतायं लोक आपन्नो यद् उत जायते ऽपि जीर्यते ऽपि म्रियते ऽपि च्यवते ऽप्य् उपपद्यते ऽपि / अथ च पुनर् इमे सत्वा जरामरणस्योत्तरे निःसरणं यथाभूतं न प्रजानन्ति /

निद्स 4.3 तस्य ममैतद् अभवत् / कस्मिन् नु सति जरामरणं भवति / किंप्रत्ययञ् च पुनर् जरामरणम् / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / जात्यां सत्यां जरामरणं भवति / जातिप्रत्ययञ् च पुनर् जरामरणम् /

निद्स 4.4 तस्य ममैतद् अभवत् / कस्मिन् नु सति जातिर् भवति / किंप्रत्यया च पुनर् जातिः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / भवे सति जातिर् भवति / भवप्रत्यया च पुनर् जातिः /

निद्स 4.5 तस्य ममैतद् अभवत् / कस्मिन् नु सति भवो भवति / किंप्रत्ययश् च पुनर् भवः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / उपादाने सति भवो भवति / उपादानप्रत्ययश् च पुनर् भवः /

निद्स 4.6 तस्य ममैतद् अभवत् । कस्मिन् नु सत्य् उपादानं भवति । किंप्रत्ययञ् च पुनर् उपादानम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतस् तृष्णा प्रवर्धते । तृस्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।

निद्स 4.7 किं मन्यध्वे भिक्षवः । ....

निद्स 4.8 एवं भदन्त ।

निद्स 4.9 एवम् एव उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतस् तृषा प्रवर्धते तृष्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।

निद्स 4.10 तस्य ममैतद् अभवत् / कस्मिन् न्व् असति जरामरणं न भवति / कस्य निरोधाज् जरामरणनिरोधः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / जात्याम् असत्यां जरामरणं न भवति / जातिनिरोधाज् जरामरणनिरोध /

निद्स 4.11 तस्य ममैतद् अभवत् / कस्मिन् न्व् असति जातिर् न भवति / कस्य निरोधाज् जातिनिरोधः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उद्पादि भवे ऽसति जातिर् न भवति / भवनिरोधाज् जातिनिरोधः /

निद्स 4.12 तस्य ममैतद् अभवत् / कस्मिन् न्व् असति भवो न भवति / कस्य निरोधाद् भवनिरोधः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / उपादाने ऽसति भवो न भवति / उपादाननिरोधाद् भवनिरोधः /

निद्स 4.13 तस्य ममैतद् अभवत् / कस्मिन् न्व् असत्य् उपादानं न भवति / कस्य निरोधाद् उपादाननिरोधः / तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस् तृष्णा निरुध्यते । तृष्णानिरोधाद् उपादाननिरोधः । उपादाननिरोधाद् भवनिरोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते / एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।

निद्स 4.14 किं मन्यध्वे भिक्षवः । ...

निद्स 4.15 एवं भदनत ।

निद्स 4.16 एवम् एव उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस् तृष्णा निरुध्यते । तृष्णानिरोधाद् उपादाननिरोधः । पूर्ववद् यावन् निरोधो भवति ।

निद्स 4.17 अथ ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन् । अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्ताः ॥

सूत्र 5: नगरसूत्र

निद्स 5.1 सिद्धम् / एवं मया श्रुतम् एकस्मिन् समये भगवाञ् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे / तत्र भगवान् भिक्षून् आमन्त्रयति ।

निद्स 5.2 पूर्वं मे भिक्षवो ऽनुत्तरां सम्यक्संबोधिम् अनभिसंबुद्धस्यैकाकिनो रहसिगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरिवितर्क उदपादि ।

निद्स 5.3 कृच्छ्रं बतायं लोक आपन्नो यदुत जायतेऽपि जीर्यते ऽपि म्रियते ऽपि च्यवते ऽप्य् उपपद्यते ऽपि । अथ च पुनर् इमे सत्त्वा जरामरणस्योत्तरे निःसरणं यथाभूतं न प्रजानन्ति ।

निद्स 5.4 तस्य ममैतद् अभवत् । कस्मिन् नु सति जरामरणं भवति । किंप्रत्ययञ् च पुनर् जरामरणम् । तस्य मम योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि । जात्यां सत्यां जरामरणं भवति । जातिप्रत्ययञ् च पुनर् जारमरणम् /

निद्स 5.5 तस्य ममैतद् अभवत् । कस्मिन् नु सति जातिर् भवति । किंप्रत्यया च पुनर् जातिः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । भवे सति जातिर् भवति । भवप्रत्यया च पुनर् जातिः ।

निद्स 5.6 तस्य ममैतद् अभवत् । कस्मिन् नु सति भवो भवति । किंप्रत्ययश् च पुनर् भवः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादाने सति भवो भवति । उपादानप्रत्ययश् च पुनर् भवः ।

निद्स 5.7 तस्य ममैतद् अभवत् । कस्मिन् नु सत्य् उपादानं भवति । किंप्रत्ययञ् च पुनर् उपादानम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । तृष्णायां सत्याम् उपादानं भवति । तृष्णाप्रत्ययञ् च पुनर् उपादानम् ।

निद्स 5.8 तस्य ममैतद् अभवत् । कस्मिन् नु सति तृष्णा भवति । किंप्रत्यया च पुनस् तृष्णा । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । वेदनायां सत्यां तृष्णा भवति । वेदनाप्रत्यया च पुनस् तृष्णा ।

निद्स 5.9 तस्य ममैतद् अभवत् । कस्मिन् नु सति वेदना भवति । किंप्रत्यया च पुनर् वेदना । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । स्पर्शे सति वेदना भवति । स्पर्शप्रत्यया च पुनर् वेदना ।

निद्स 5.10 तस्य ममैतद् अभवत् । कस्मिन् नु सति स्पर्शो भवति । किंप्रत्ययश् च पुनः स्पर्शः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । षडायतने सति स्पर्शो भवति । षडायतनप्रत्ययश् च पुनः स्पर्शः ।

निद्स 5.11 तस्य ममैतद् अभवत् । कस्मिन् नु सति षडायतनं भवति । किंप्रत्ययञ् च पुनः षडायतनम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । नामरूपे सति षडायतनं भवति । नामरूपप्रत्ययञ् च पुनः षडायतनम् ।

निद्स 5.12. तस्य ममैतद् अभवत् । कस्मिन् नु सति नामरूपं भवति । किंप्रत्यञ् च पुनर् नामरूपम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । विज्ञाने सति नामरूपं भवति । विज्ञानप्रत्ययञ् च पुनर् नामरूपम् ।

निद्स 5.13 तस्य ममैतद् अभवत् । कस्मिन् नु सति विज्ञानं भवति । किंप्रत्ययञ् च पुनर् विज्ञानम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । संस्कारेषु सत्सु विज्ञानं भवति । संस्कारप्रत्ययञ् च पुनर् विज्ञानम् ।

निद्स 5.14 तस्य ममैतद् अभवत् । कस्मिन् नु सति संस्कारा भवन्ति । किंप्रत्ययाश् च पुनः संस्काराः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । अविद्यायां सत्यां संस्कारा भवन्ति । अविद्याप्रत्ययाश् च पुनः संस्काराः ।

निद्स 5.15 इत्य् अविद्याप्रत्ययाः संस्काराः । संस्कारप्रत्ययं विज्ञानम् । विज्ञानप्रत्ययं नामरूपम् । नामरूपप्रत्ययं षडायतनम् । षडायतनप्रत्ययः स्पर्शः । स्पर्शप्रत्यया वेदना । वेदनाप्रत्यया तृष्णा । तृष्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जतिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।

निद्स 5.16 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति जरामरणं न भवति । कस्य निरोधाज् जरामरणनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसनय उदपादि । जात्याम् असत्यां जरामरणं न भवति । जातिनिरोधाज् जरामरणनिरोधः ।

निद्स 5.17 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति जातिर् न भवति । कस्य निरोधाज् जातिनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि / भवे ऽसति जातिर् न भवति । भवनिरोधाज् जातिनिरोधः ।

निद्स 5.18 तस्य ममैतद् अहवत् । कस्मिन् न्व् असति भवो न भवति । कस्य निरोधाद् भवनिरोधः । तस्य मम योनिशो मनसि कुर्व्त एवं यथाभूतस्याभिसमय उदपादि । उपादाने ऽसति भवो न भवति । उपादाननिरोधाद् भवनिरोधः ।

निद्स 5.19 तस्य ममैतद् अभवत् । कस्मिन् न्व् असत्य् उपादानं न भवति । कस्य निरोधाद् उपादाननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमव उदपादि । तृष्णायाम् असत्याम् उपादानं न भवति । तृष्णानिरोधाद् उपादाननिरोधः ।

निद्स 5.20 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति तृष्णा न भवति । कस्य निरोधात् तृष्णानिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । वेदनायाम् असत्यां तृष्णा न भवति । वेदनानिरोधात् ट्ष्णानिरोधः ।

निद्स 5.21 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति वेदना न भवति । कस्य निरोधाद् वेदनानिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । स्पर्शे ऽसति वेदना न भवति । स्पर्शनिरोधाद् वेदनानिरोधः ।

निद्स 5.22 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति स्पर्शो न भवति । कस्य निरोधात् स्पर्शनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । षडायतने ऽसति स्पर्शो न भवति । षडायतननिरोधात् स्पर्शनिरोधः ।

निद्स 5.23 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति षडायतनं न भवति / कस्य निरोधात् षडायतननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । नामरूपे ऽसति षडायतनं न भवति । नामरूपनिरोधात् षडायतननिरोधः ।

निद्स 5.24 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति नामरूपं न भवति । कस्य निरोधान् नामारूपनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । विज्ञाने ऽसति नामरूपं न भवति । विज्ञाननिरोधान् नामरूपनिरोधः ।

निद्स 5.25 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति विज्ञानं न भवति । कस्य निरोधाद् विज्ञाननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । संस्कारेष्व् असत्सु विज्ञानं न भवति / संस्कारनिरोधाद् विज्ञाननिरोधः ।

निद्स 5.26 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति संस्कारा न भवन्ति । कस्य निरोधात् संस्कारनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । अविद्यायाम् असत्यां संस्कारा न भवन्ति । अविद्यानिरोधात् संस्कारनिरोधः ।

निद्स 5.27 इत्य् अविद्यानिरोधात् संस्कारनिरोधः । संस्कारनिरोधाद् विज्ञाननिरोधः । विज्ञाननिरोधान् नामरूपनिरोधः । नामरूपनिरोधात् षडायतननिरोधः । षडायतननिरोधात् स्पर्शनिरोधः । स्पर्शनिरोधाद् वेदनानिरोधः । वेदनानिरोधात् तृष्णानिरोधः । तृष्णानिरोधाद् उपादाननिरोधः / उपादाननिरोधाद् भवनिरोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनसोपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।

निद्स 5.28 तस्य ममैतद् अभवत् । अधिगतो मे पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैर् ऋषिभिर् यातानुयाता ।

निद्स 5.29 तद्यथा पुरुषो ऽरण्ये प्रवणे ऽन्वाहिण्डन्न् अधिगच्छेत् पौराणं मार्गं पौराणं वर्त्म पौराणीं पूटां पूर्वकैर् मनुष्यैर् यातानुयाताम् । स तम् अनुगच्छेत् । स तम् अनुगच्छन् स तत्र पश्येत् पौराणं नगरं पौराणीं राजधानीम् आरामसंपन्नां वनसंपन्नां पुष्करिणीसंपन्नां शुभां दापवतीं रमणीयाम् ।

निद्स 5.30 तस्यैवं स्यात् । यन्व् अहं गत्वा राज्ञ आरोचयेयम् / अथ स पुरुषो राज्ञ एवम् आरोचयेत् । यत् खलु देव जानीयाः । इहाहम् अद्राक्षम् अरण्ये प्रवणे ऽन्वाहिण्डन् पौराणं मार्गं पौराणं वर्त्म पौराणीं पुटां पूर्वकैर् मनुष्यैर् यातानुयाताम् । सो ऽहं तम् अनुगतवान् । सो ऽहं तम् अनुगच्छन्न् अद्राक्षं पौराणं नगरं पौराणीं राजधानीं वनसंपन्नां पुष्करिणीसंपन्नां शुभां दापवतीं रमणीयाम् । तां देवो नगरीं मापयतु ।

निद्स 5.31 अथ स राजा तां नगरीं मापयेत् । सा स्याद् अपरेण समयेन राजधानी ऋद्धा च स्फीता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च ।

निद्स 5.32 एवम् एव अधिगतो मे पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैर् ऋषिभिर् यातानुयाता ।

निद्स 5.33 कतमश् च स पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैर् ऋषिभिर् यातानुयाता ।

निद्स 5.34 यद् उतार्याष्टाङ्गो मार्गस् तद्यथा सम्यग्दृष्टिः सम्यक्संकैपः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः ।

निद्स 5.35 असौ भिक्सवः पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैर् ऋषिभिर् यातानुयाता ।

निद्स 5.36 तम् अहम् अनुगतवान् । तम् अनुगच्छञ् जरामरणं अद्राक्षम् । जरामरणसमुदयं जरामरणनिरोधं जरामरणनिरोधगामिनीं प्रतिपदम् अद्राक्षम् ।

निद्स 5.37 एवं जातिभवोपादानतृष्णावेदनास्पर्शषडायतननामरूपविज्ञानं संस्कारान् अद्राक्षम् । संस्कारसमुदयं संस्कारनिरोधं संस्कारनिरोधगामिनीं प्रतिपदम् अद्राक्षम् ।

निद्स 5.38 सो ऽहम् इमान् धर्मान् स्वयम् अभिज्ञाय साक्षीकृत्वा भिक्षूणाम् आरोचयामि । भिक्षूणीनाम् उपासकानाम् उपासिकानां नानातीर्थ्यश्रमणब्राह्मणचरकपरिव्राजकानाम् आरोचयामि ।

निद्स 5.39 तत्र भिक्षुर् अपि सम्यक्प्रतिपद्यमान आराधिको भवति / आराधयति न्यायं धर्मं कुशलम् । भिक्षूण्य् अप्य् उपासको ऽप्य् उपासिकापि सम्यक्प्रतिपद्यमाना आराधिका भवति । आराधयति न्यायं धर्मं कुशलम् ।

निद्स 5.40 एवम् इदं ब्रह्मचर्यं वैस्तारिकं भवति बहुजन्यं पृथुभूतं यावद् देवमनुष्येभ्यः सम्यक्सुप्रकाशितम् ॥

सूत्र 6: नडकलापिक (रोह्र्बुन्देल्)

निद्स 6.1 भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे ।

निद्स 6.2 तेन खलु समयेनायुष्माञ् छारिपुत्र आयुष्मांश् च महाकोष्ठिलो राजगृहे विहरतो गृध्रकूटे पर्वते ।

निद्स 6.3. अथायुष्माञ् छारिपुत्रः सायाह्ने प्रतिसंलयनाद् व्युत्थाय येनायुष्मान् महाकोष्ठिलस् तेनोपजगाम । उपेत्यायुष्मता महाकोष्ठिलेन सार्धं संमुखं सम्मोदनीं संरञ्जनीं कथां विविधाम् उपसंहृत्यैकान्ते न्यषीदत् । एकान्तनिषण्ण आयुष्माञ् छारिपुत्र आयुष्मन्तं महाकोष्ठिलम् इदम् अवोचत् /

निद्स 6.4 पृच्छाम आयुष्मन् महाकोष्ठिल कञ्चिद् एव प्रदेशम् । सचेद् अवकाशं कुर्याः प्रश्नस्य व्याकरणाय ।

निद्स 6.5 पृच्छायुष्मञ् छारिपुत्र । श्रुत्वा ते वेदयिष्यामि ।

निद्स 6.6अ किन् न्व् आयुष्मन् महाकोष्ठिल अस्ति जरा । अस्त्य् एवायुष्मञ् छारिपुत्र जरा ।

निद्स 6.6ब् किन् न्व् आयुष्मन् महाकोष्थिल अस्ति मरणम् । अस्त्य् एवायुष्मञ् छारिपुत्र मरणम् ।

निद्स 6.7 किन् न्व् आयुष्मान् महाकोष्ठिल स्वयंकृतं जरामरणम् । अहो स्वित् परकृतम् । अहो स्वित् स्वयंकृतञ् च परकृतञ् च । अहो स्विद् अस्वयंकारपरकारहेतुसमुत्पन्नं जरामरणम् । न ह्य् एवायुष्मञ् छारिपुत्र स्वयंकृतं जरामरणम् । न परकृतं । न स्वयंकृतञ् च परकृतञ् च । नाप्य् अस्वयंकारपरकारहेतुसमुत्पन्नं जरामरणम् । अपि तु जातिप्रत्ययं जरामरणम् । निद्स 6.8 एवं जातिर् भव उपादानं तृष्णा वेदना स्पर्शः षडायतनं नामरूपं वाच्यम् ।

निद्स 6.9 किन् न्व् आयुष्मन् महाकोष्ठिल स्वयंकृतं नामरूपम् । अहो स्वित् परकृतं । अहो स्वित् स्वयंकृतञ् च परकृतञ् च । अहो स्विद् अस्वयंकारपरकारहेतुसमुत्पन्नं नामरूपम् ।

न ह्य् एवायुष्मञ् छारिपुर्त स्वयंकृतं नामरूपम् । न परकृतं । न स्वयंकृतञ् च परकृतञ् च । नाप्य् अस्वयंकारपरकारहेतुसमुत्पन्नं नामरूपम् । अपि तु विज्ञानप्रत्ययं नामरूपम् ।

निद्स 6.10 किन् न्व् आयुष्मन् महाकोष्ठिल स्वयंकृतं विज्ञानम् । अहो स्वित् परकृतम् । अहो स्वित् स्वयंकृतञ् च परकृतञ् च / अहो स्विद् अस्वयंकारपरकारहेतुसमुत्पन्नं विज्ञानम् । न ह्य् एवायुष्मञ् छारिपुत्र स्वयंकृतं विज्ञानम् । न परकृतं / न स्वयंकृतञ् च परकृतञ् च । नाप्य् अस्वयंकारपरकारहेतुसमुत्पन्नं विज्ञानम् / अपि तु नामरूपप्रत्ययं विज्ञानम् ।

निद्स 6.11 इदानीम् एवं वयम् आयुष्मतो महाकोष्थिलस्य भाषितस्यार्थम् आजानीमः । न स्वयंकृतं नामरूपं । न परकृतं । न स्वयंकृतञ् च परकृतञ् च / नाप्य् अस्वयंकारपरकारहेतुसमुत्पन्नं नामरूपम् । अपि तु विज्ञानप्रत्ययं नामरूपम् । इदानीं च पुनर् नामरूपप्रत्ययं विज्ञानम् इत्य् आजानीमः । को न्व् आयुष्मन् महाकोष्ठिल अस्य भाषितस्यार्थो द्रष्टव्यः ।

निद्स 6.12 तेनास्यायुष्मञ् छारिपुत्र उपमां ते करिष्यामि । उपमया ह्य् अत्रैकत्या व्ज्ञपुरुषा भाषितस्यार्थम् आजानन्ति ।

निद्स 6.13 तद्यथा द्वौ नडकलापाव् आकाशे उच्छृतौ स्याताम् अन्योन्यं निशृतौ । अ ...... एताव् अन्योन्यं निशृत्य तिष्ठतः । यदुत विज्ञानप्रत्ययं नामरूपम् । नामरूपप्रत्ययं विज्ञानम् ।

निद्स 6.14 साधु साध्व् आयुष्मन् महाकोष्ठिल यथा श्रुतवतार्यश्रावकेण सम्यग् एव शास्तुः शासनम् आजानता सुविनीतेन विशारदेनामृतदृशा अमृतं धातुं कायेन साक्षीकृत्वोपसंपद्य विहरतायुष्मता महाकोष्ठिलेन इमा एवंरूपा गंभीरा गंभीरा प्रश्ना विमृश्य विमृश्य सम्यक्प्रज्ञया पृष्टेन व्याकृताः ।

निद्स 6.15 चैलोण्डुकम् इवायुष्मन्तं महाकोष्ठिलं ये सब्रह्मचारिणो मूर्ध्ना परिहरन्त आयुष्मतो महाकोष्ठिलस्य लभेरञ् च दर्शनं लभेरञ् च पर्युपासनं तेषां स्युर् लाभाः सुलब्धाः । अस्माकम् अपि लाभाः सुलब्धा ये वयम् आयुष्मतो महाकोष्ठिलस्य लभामहे च दर्शनं लभामहे च पर्युपासनम् ।

निद्स 6.16 साध्व् अत्रायुष्मता महाकोष्ठिलेन धर्मपर्यायो देशितः । इमम् अहम् उत्सहामि त्रिंशत् ........

निद्स 6.17 जरामरणस्य आयुष्मन् महाकोष्ठिल भिक्षुर् निर्विदे विरागाय निरोधाय धर्मं देशयति धर्मकथिको भिक्षुर् अलम् अस्य वचनाय । जातिभवोपादानतृष्णावेदनास्पर्शषडायतननामरूपविज्ञानस्य भिक्षुर् निर्विदे विरागाय निरोधाय धर्मं देशयति धर्मकथिको भिक्षुर् अलम् अस्य वचनाय । निद्स 6.18 जरामरणस्य भिक्षुर् निर्विदे विरागाय निरोधाय प्रतिपन्नो भवति धर्मकथिको भिक्षुर् अलम् अस्य वचनाय । यावद् विज्ञानस्य भिक्षुर् निर्विदे विरागाय निरोधाय प्रतिपन्नो भवति धर्मकथिको भिक्षुर् अलम् अस्य वचनाय ।

निद्स 6.19 जरामरणस्य भिक्षुर् निर्विदे विरागाय निरोधायानुपादायास्रवेभ्यः सम्यक्सुविमुक्तचित्तो भवति धर्मकथिको भिक्षुर् अलम् अस्य वचनाय । यावद् विज्ञानस्य बिक्षुर् निर्विदे विरागाय निरोधायानुपादायास्रवेब्यः सम्यक्सुविमुक्तचित्तो भवति धर्मकथिको भिक्षुर् अलम् अस्य वचनाय ।

निद्स 6.20 साधु साध्व् आयुष्मञ् छारिपुत्र यथा श्रुतवतार्यश्रावकेण सम्यग् एव शास्तुः शासनम् आजानता सुविनीतेन विशारदेनामृतदृशा

निद्स 6.21 पूर्ववद् यावत् पर्युपासनम् ।

निद्स 6.22 अथ किन् न्व् अस्योत्तरे करणीयम् इति तौ सत्पुरुषाव् अन्योन्यभाषितम् अभिनन्द्यानुमोद्य उत्थायासानात् प्रक्रान्तौ ॥

sūtra 7: markata (affe)

निद्स 7.1 बालो भिक्षवो ऽश्रुतवान् पृथग्जनश् चतुर्महाभौतिकात् कायान् निर्विद्येत विरज्येत विमुच्येत ।

निद्स 7.2 तत् कस्माद् धेतोः । दृश्यते भिक्षवो ऽस्य चतुर्महाभौतिकस्य कायस्य आचयो ऽप्य् अपचयो ऽप्य् आदानम् अपि निक्षेपणम् अपि ।

निद्स 7.3 यत् पुनर् इदम् उच्यते चित्तम् इति वा मम इति वा विज्ञानम् इति वा ततो नालं बालेनाश्रुतवता पृथग्जनेन निर्वेत्तुं वा विरक्तुं वा विमोक्तुं वा ।

निद्स 7.4 तत् कस्माद् धेतोः । दीर्घरात्रम् एतद् बालेनाश्रुतवता पृथग्जनेन केलायितं गोपायितं ममायितम् उपगतम् उपादत्तम् एतन् मम । एषो ऽहम् अस्मि । एष मे आत्मेति ।

तस्मात् ततो नालं बालेनाश्रुतवता पृथग्जनेन निर्वेत्तुं वा विरक्तुं वा विमोक्तुं वा ।

निद्स 7.5 वरं भिक्षवो बालेनाश्रुतवता पृथग्जनेनायम् एव चतुर्महाभौतिकः कायः आत्मत उपगतो न त्व् एव विज्ञानम् ।

निद्स 7.6 तत् कस्माद् धेतोः । दृश्यते चतुर्महाभौतिकः कायो दशापि वर्षाणि तिष्ठमानो विंशति त्रिंशच् चत्वारिंशत् पञ्चाशद् वर्षशतम् किञ्चिद् वा भूयो ऽपि तिष्ठमानः परिह्रियमाणः ।

निद्स 7.7 यत् पुनर् इदम् उच्यते चित्तम् इति वा मम इति वा विज्ञानम् इति वा तत् तेषां तेषां रात्रिदिवसानाम् अत्ययात् क्षणलवमुहूर्तानाम् अत्ययात् प्रवर्तते बहुनानाप्रकारम् ।

अन्यद् एवोत्पद्यमानम् उत्पद्यते अन्यद् एव निरुध्यमानं निरुध्यते ।

निद्स 7.8 तद्यथा मर्कटो वृक्षस्य शाखाम् आलंबेत । ताम् उत्सृज्यान्याम् आलंबेत । एवम् एव यत् पुनर् इदम् उच्यते चित्तम् इति वा मन इति वा विज्ञानम् इति वा तत् तेषां तेषां रात्रिदिवसानाम् अत्ययात् पूर्ववद् यावन् निरुध्यमानं निरुध्यते ।

निद्स 7.9 तत्र श्रुतवान् आर्याश्रावकः प्रतीत्यसमुत्पादम् एव साधु च सुष्ठु च योनिशः प्रत्यवेक्षते ।

निद्स 7.10 यद् उत सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते सुखा वेदना । स सुखं वेदयानः सुखां वेदनां वेदयामीति यथाभूतं प्रजानाति । अस्यैव सुखवेदनीयस्य स्पर्शस्य निरोधाद् या तज्जा सुखवेदनीयं स्पर्शं प्रतीत्योत्पन्ना सुखा वेदना सा निरुद्धा सा व्युपशान्ता सा शीतीभूता सा अस्तंगता ।

निद्स 7.11 एवम् एव दुःखवेदनीयं सौमनस्यवेदनीयं दौर्मनस्यवेदनीयम् ।

निद्स 7.12 उपेक्षावेदनीयं स्पर्शं प्रतीत्योत्पद्यते उपेक्षा । स उपेक्षकः समानो उपेक्षां वेदयामीति यथाभूतं प्रजानाति । अस्यैव उपेक्षावेदनीयस्य स्पर्शस्य निरोधाद् या तज्जा उपेक्षावेदनीयं स्पर्शं प्रतीत्योत्पन्ना उपेक्षा सा निरुद्धा सा व्युपशान्ता सा शीतीभूता सा अस्तंगता ।

निद्स 7.13 तस्यैवं भवति । इतीमा वेदनाः स्पर्शजाः स्पर्शसमुदयाः स्पर्शजातीयाः स्पर्शप्रभवाः । तस्य तस्य स्पर्शस्य समुदयात् तास् ता वेदनाः समुदयन्ति । तस्य तस्य स्पर्शस्य निरोधात् तास् ता वेदना निरुध्यन्ते व्युपशमन्ति शीतीभवन्त्य् अस्तंगच्छन्ति ।

निद्स 7.14. एवं पश्यन् श्रुतवान् आर्यश्रावको रूपाद् अपि निर्विद्यते वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञनाद् अपि निर्विद्यते । निर्विण्णो विरज्यते । विरक्तो विमुच्यते । विमुक्तस्य विमुक्तो ऽस्मीति ज्ञानदर्शनं भवति । क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामि ॥

sūtra 8: dvayaṃ kāṣṭhe (zwei hölzer)

निद्स 8.1 एतद् एव सूत्रं तावद् वक्तव्यं यावन् निरुध्यन्ते व्युपशमन्ति शीतीभवन्त्य् अस्तंगच्छन्ति ।

निद्स 8.2 तद्यथा द्वयोः काष्ठयोः संघटनात् सन्निपातात् समवायाद् अग्निर् जायते तेजः प्रादुर्भवति । अथ तयोर् एव द्वयोः काष्ठयोः नानाभावाद् विनाभावाद् य उष्मा सो ऽन्तर्हीयेत शीतीभवेतां काष्ठे ।

निद्स 8.3 एवम् एव तस्यैवं भवति । इतीमे वेदनाः स्पर्शजाः स्पर्शसमुदयाः स्पर्शजातीयाः स्पर्शप्रभवाः । तस्य तस्य स्पर्शस्य समुदयात् तास् ता वेदनाः समुदयन्ति । तस्य तस्य स्पर्शस्य निरोधात् तास् ता वेदना निरुध्यन्ते व्युपशमन्ति शीतीभवन्त्य् अस्तंगच्छन्ति ।

निद्स 8.4 एवं पश्यन् श्रुतवान् आर्यश्रावकः स्पर्शाद् अपि परिमुच्यते । वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानाद् अपि परिमुच्यते । परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः । परिमुच्यते दुःखाद् इति वदामि ॥

सूत्र 9: कांसी (मेस्सिन्ग्स्छले)

निद्स 9.1 तत्र भगवान् भिक्षून् आमन्त्रयति स्म ।

निद्स 9.2 संमृशथ यूयं मया देशितम् अन्तःसंमर्शम् ।

निद्स 9.3 अथान्यतरो भिक्षुर् उत्थायासनाद् एकाम्सम् उत्तरासंगं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् ।

निद्स 9.4 अहं त्व् एवं संमृशामि भगवता देशितम् अन्तःसंमर्शम् ।

निद्स 9.5 .................... इ व ............................................ नाराधयति तेन प्रश्नव्याकरणेन।

निद्स 9.6 तेन खलु समयेन ......

nidsa 9.w atīte 'py adhvani ye kecic chramaṇā vā brāhmaṇā vā yal loke priyarūpaṃ sātarūpaṃ tan nityataḥ samanvadrākṣuḥ | dhruvataḥ kṣemata ārogyata ātmata ātmīyataḥ samanvadrākṣus te tṛṣṇāṃ prāvardhayiṣuḥ | ye tṛṣṇāṃ prāvardhayiṣus te upadhiṃ prāvardhayiṣuḥ | ye upadhiṃ prāvardhayiṣus te duḥkhāṃ prāvardhayiṣuḥ | ye duḥkhaṃ prāvardhayiṣus tena parimucyante sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | na parimucyante sma duḥkhād iti vadāmi |

nidsa 9.x ye tu kecic chramaṇā vā brāhmaṇā vā yal loke priyarūpaṃ sātarūpaṃ tad rogataḥ samanvadrākṣuḥ | gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato 'nātmataḥ samanvadrākṣus te tṛṣṇāṃ prajahuḥ | ye tṛṣṇāṃ prajahus te upadhiṃ prajahuḥ | ye upadhiṃ prajahus te duḥkhaṃ prajahus te parimucyante sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | parimucyante sma duḥkhād iti vadāmi |{hs.: gaṇḍataḥ śalyato 'gato 'nityato}

निद्स 9.य् अनागतेऽ; प्य् अध्वनि ये केचिच् छ्रमणा वा ब्रह्मणा वा यल् लोके प्रियरूपं सातरूपं तन् नित्यतः समनुद्रक्ष्यन्ति । ध्रुवतः क्षेमत आरोग्यत आत्मत आत्मीयतः समनुद्रक्ष्यन्ति ते तृष्णां प्रवर्धयिष्यन्ति । ये तृष्णां प्रवर्धयिष्यन्ति ते उपधिं प्रवर्धयिष्यन्ति । ये उपधिं प्रवर्धयिष्यन्ति ते दुःखं प्रवर्धयिष्यन्ति । ये दुःखं प्रवर्धयिष्यन्ति ते न परिमोक्ष्यन्ते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः । न परिमोक्ष्यन्ते दुःखाद् इति वदामि ।

nidsa 9.z ye tu kecic chramaṇā vā brāhmaṇā vā yal loke priyarūpaṃ sātarūpaṃ tad rogataḥ samanudrakṣyanti | gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato 'nātmataḥ samanudrakṣyanti te tṛṣṇāṃ prahāsyanti | ye tṛṣṇāṃ prahāsyanti te upadhiṃ prahāsyanti | ye upadhiṃ prahāsyanti te duḥkhaṃ prahāsyanti | ye duḥkhaṃ prahāsyanti te parimokṣyante jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | parimokṣyante duḥkhād iti vadāmi || {hs.: gaṇḍataḥ śalyato 'gato 'nityato}

sūtra 10: kumbha (topf)

निद्स 10.1 कियता भिक्षवो भिक्षुः परिमीमांसमानः परिमीमांसेत सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै ।

निद्स 10.2 भगवन्मूलका भदन्त धर्माः पूर्ववद् यावद् भाषिष्ये ।

निद्स 10.3अ भिक्षुः परिमीमांसमानः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । अत्र चेत् सत्वानां दुःखं उत्पद्यमानम् उत्पद्येत बहुनानाप्रकारम् ।इदं दुःखं किन्निदानं किंसमुदयं किंजातीयं किंप्रभवम् । निद्स 10.3ब् स एवं परिमीमांसमानो जानाति । इदं दुःखम् उपधिनिदानम् उपधिसमुदयम् उपधिजातीयम् उपधिप्रभवम् । उपधिश् चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्येतापरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छेद् दुःखम् अप्य् अस्य निरुध्येत ।

निद्स 10.3च् स या च दुःखनिरोधगामिनी प्रतिपत् तां यथाभूतं प्रजानाति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उतोपधिनिरोधाय ।

निद्स 10.4अ पुनर् अपरं भिक्षुः परिमीमांसमानः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । उपधिः पुनः किन्निदानः किंसमुदयः किंजातीयः किंप्रभवः ।

निद्स 10.4ब् स एवं परिमीमांसमानो जानाति । उपधिस् तृष्णानिदानस् तृष्णासमुदयस् तृष्णाजातीयस् तृष्णाप्रभवः । तृष्णा चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्येतापरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छेद् उपधिर् अप्य् अस्य निरुध्येत ।

निद्स 10.4च् स या चोपधिनिरोधगामिनी प्रतिपत् तां यथाभूतं प्रजानाति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत तृष्णानिरोधाय ।

निद्स 10.5अ पुनर् अपरं भिक्षुः परिमीमांसमानः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । तृष्णा पुनः किन्निदाना किंसमुदया किंजातीया किंप्रभवा ।

निद्स 10.5ब् स एवं परिमीमांसमानो जानाति । तृष्णा वेदनानिदाना वेदनासमुदया वेदनाजातीया वेदनाप्रभवा । वेदना चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्येतापरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छेत् तृष्णाप्य् अस्य निरुध्येत ।

निद्स 10.5च् स या च तृष्णानिरोधगामिनी प्रतिपत् तां यथाभूतं प्रजानाति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत वेदनानिरोधाय ।

निद्स 10.6अ पुनर् अपरं भिक्षुः परिमीमांसमानः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । वेदना पुनः किन्निदाना किंसमुदया किंजातीया किंप्रभवा ।

निद्स 10.6ब् स एवं परिमीमांसमानो जानाति । वेदना स्पर्शनिदाना स्पर्शसमुदया स्पर्शजातीया स्पर्शप्रभवा । स्पर्शश् चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्येतापरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छेद् वेदनाप्य् अस्य निरुध्येत ।

निद्स 10.6च् स या च वेदनानिरोधगामिनी प्रतिपत् तां यथाभूतं प्रजानाति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत स्पर्शनिरोधाय ।

निद्स 10.7अ पुनर् अपरं भिक्षुः परिमीमांसमानः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । स्पर्शः किन्निदानः किंसमुदयः किंजातीयः किंप्रभवः ।

निद्स 10.7ब् स एवं परिमीमांसमानो जानाति । स्पर्शः षडायतननिदानः षडायतनसमुदयः षडायतनजातीयः षडायतनप्रभवः । षडायतनं चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्येतापरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छेत् स्पर्शो ऽप्य् अस्य निरुध्येत ।

निद्स 10.7च् स या च स्पर्शनिरोधगामिनी प्रतिपत् तां यथाभूतं प्रजानाति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत षडायतननिरोधाय ।

निद्स 10.8अ पुनर् अपरं भिक्षुः परिमीमांसमानः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । षडायतनं पुनः किन्निदानं किंसमुदयं किंजातीयं किंप्रभवम् ।

निद्स 10.8ब् स एवं परिमीमांसमानो जानाति । षडायतनं नामरूपनिदानं नामरूपसमुदयं नामरूपजातीयं नामरूपप्रभवम् । नामरूपं चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्येतापरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छेत् षडायतनम् अप्य् अस्य निरुध्येत ।

निद्स 10.8च् स या च षडायतननिरोधगामिनी प्रतिपत् तां यथाभूतं प्रजानाति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत नामरूपनिरोधाय ।

निद्स 10.9अ पुनर् अपरं भिक्षुः परिमीमांसमानः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । नामरूपं पुनः किन्निदानं किंसमुदयं किंजातीयं किंप्रभवम् ।

निद्स 10.9ब् स एवं परिमीमांसमानो जानाति । नामरूपं विज्ञाननिदानं विज्ञानसमुदयं विज्ञानजातीयं विज्ञानप्रभवम् । विज्ञानं चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्येतापरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छेन् नामरूपम् अप्य् अस्य निरुध्येत ।

निद्स 10.9च् स या च नामरूपनिरोधगामिनी प्रतिपत् तां यथाभूतं प्रजानाति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत विज्ञाननिरोधाय ।

निद्स 10.10अ पुनर् अपरं भिक्षुः परिमीमांसमानः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । विज्ञानं पुनः किन्निदानं किंजातीयं किंप्रभवं किंसमुदयम्

निद्स 10.10ब् स एवं परिमीमांसमानो जानाति । विज्ञानं संस्कारसमुदयं संस्कारजातीयं संस्कारप्रभवम् । स पुण्यान् अभिसंस्कारान् अभिसंस्करोति । पुण्योपगम् अप्य् अस्य भवति विज्ञानम् । अपुण्यान् अभिसंस्कारान् अभिसंस्करोति । अपुण्योपगम् अप्य् अस्य भवति विज्ञानम् । आनिज्यान् अभिसंस्कारान् अभिसंस्करोति । आनिज्योपगम् अप्य् अस्य भवति विज्ञानम् । तद् अनेनैव पर्यायेण वेदितव्यं यद् विज्ञानम् अपि संस्कारनिदानं संस्कारसमुदयं संस्कारजातीयं संस्कारप्रभवम् । संस्काराश् चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्येतापरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छेद् विज्ञानम् अप्य् अस्य निरुध्येत ।

निद्स 10.10च् स या च विज्ञाननिरोधगामिनी प्रतिपत् तां यथाभूतं प्रजानाति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत संस्कारनिरोधाय ।

निद्स 10.11अ पुनर् अपरं भिक्षुः परिमीमांसमानः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । संस्काराः पुनः किन्निदानाः किंसमुदयाः किंजातीयाः किंप्रभवाः ।

निद्स 10.11ब् स एवं परिमीमांसमानो जानाति । संस्कारा अविद्यानिदाना अविद्यासमुदया अविद्याजातिया अविद्याप्रभवाः । स पुण्यान् अभिसंस्कारान् अभिसंस्करोत्य् अविद्याप्रत्ययान् । अपुण्यान् अप्य् आनिज्यान् अप्य् अभिसंस्कारान् अभिसंस्करोत्य् अविद्याप्रत्ययान् । तद् अनेनैव पर्यायेण वेदितव्यं यत् संस्कारा अप्य् अविद्यानिदाना अविद्यासमुदया अविद्याजातीया अविद्याप्रभवाः । अविद्या चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्येतापारिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छेत् संस्कारा अप्य् अस्य निरुध्येरन् ।

निद्स 10.11च् स या च संस्कारनिरोधगामिनी प्रतिपत् तां यथाभूतं प्रजानाति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत अविद्यानिरोधाय ।

निद्स 10.12 किं मन्यध्वे भिक्षवो यस्य भिक्षोर् अविद्या विरक्ता भवति विद्योत्पन्ना अपि तु स पुनर् अपि पुण्यान् अभिसंस्कारान् अभिसंस्कुर्याद् अविद्याप्रत्ययान् । अपुण्यान् अप्य् आनिज्यान् अभिसंस्कारान् अभिसंस्कुर्याद् अविद्याप्रत्ययान् ।

निद्स 10.13 नो भदन्त । तत् कस्माद् धेतोः । यतश् च श्रुतवत आर्यश्रावकस्याविद्या विरक्ता विद्योत्पन्ना तस्याविद्यानिरोधात् संस्कारनिरोधः । संस्कारनिरोधाद् विज्ञाननिरोधः पूर्ववद् यावन् निरोधो भवतीति ।

निद्स 10.14 साधु साधु भिक्षवः । अहं चैवं वदामि यूयं चैवं प्रजानीध्वम् । यथा तेषां तेषां धर्माणाम् उत्पादात् ते ते धर्मा उत्पद्यन्ते । तेषां तेषां धर्माणां निरोधात् ते ते धर्मा निरुध्यन्ते व्युपशमन्ति शीतीभवन्त्य् अस्तंगच्छन्ति ।

निद्स 10.15 यतश् च श्रुतवत आर्यश्रावकस्याविद्या विरक्ता भवति विद्योत्पन्ना । स कायपर्यन्तिकां वेदनां वेदयानः कायपर्यन्तिकां वेदनां वेदयामीति यथाभूतं प्रजानाति । जीवितपर्यन्तिकां वेदनां वेदयानो जीवितपर्यन्तिकां वेदनां वेदयामीति यथाभूतं प्रजानाति । भेदाच् च कायस्योर्ध्वं जीवितपर्यादानाद् इहैवास्य सर्वाणि वेदयितव्यान्य् अपरिशेषं निरुध्यन्ते । अपरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छन्ति ।

निद्स 10.16 तद् यथा बलवान् पुरुषः सोष्मात् कुम्भकारपाकात् सोष्मं कुम्भं गृहीत्वा समे पृथिवीप्रदेशे उपनिक्षिपेत तस्य य उष्मा सो ऽन्तर्हीयेत शीतीभवेयुः कपालानि । एवम् एव यतश् च भिक्षोर् अविद्या विरक्ता भवति विद्योत्पन्ना स कायपर्यन्तिकां वेदनां वेदयानः कायपर्यन्तिकां वेदनां वेदयामीति यथाभूतं प्रजानाति पूर्ववद् यावत् परिक्षयं पर्यादानं गच्छन्ति //

sūtra 11: yo vadet (wenn einer sagt)

nidsa 11.1 vadeta bhikṣus tīrṇā me kāṃkṣā vigatā me kathaṃkathā | atrocchinno me dṛṣṭiśalyaḥ | {so ed.: namety utāvartate; cf. swtf s.v. pratyudāvṛt} na me pratyudāvartate mānasaṃ paritasyam upādāya | kathaṃ syād dhi me ātmā |

निद्स 11.2 तस्य भिक्षोर् धार्म्यां कथायां कथ्यमानायाम् आर्यायां लोकोत्तरायां

यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते ।

यद् उताविद्याप्रत्ययाः संस्काराः पूर्ववद् यावत् समुदयो निरोधश् च भवति ।

निद्स 11.3 इत्य् एवंरूपायां कथायां कथ्यमानायां भवति कांक्षा भवति विचिकित्सा अप्रप्ते प्राप्तसंज्ञ्य् अनधिगते ऽधिगतसंज्ञ्य् असाक्षाकृते साक्षाकृतसंज्ञी दुःखी दुर्मना विप्रतिसारी विहन्यते विगतम् आपद्यते ।

निद्स 11.4 तत् कस्माद् धेतोः । गंभीरम् इदं स्थानं यद् उत इदंप्रत्ययता प्रतीत्यसमुत्पादः । इदम् अपि सुदुर्दर्शतरं पदं यद् उत सर्वोपधिप्रतिनिःसर्गस् तृष्णाक्षयो विरागो निरोधो निर्वाणम् ।

निद्स 11.5 द्वयम् इदं संस्कृतञ् चासंस्कृतञ् च । तत्र संस्कृतस्योत्पादो ऽपि प्रज्ञायते व्ययो ऽपि स्थित्यन्यथात्वम् अपि । असंस्कृतस्य नैवोत्पादः प्रज्ञायते न व्ययो न स्थित्यन्यथात्वम् ।

निद्स 11.6 इति हि भिक्षवो दुःखाः संस्काराः । शान्तं निर्वाणम् । हेतुसमुदयाद् दुःखसमुदयः । हेतुनिरोधाद् दुःखनिरोधः । छिन्नं वर्त्म न प्रवर्तते । अप्रतिसन्धि निरुध्यते । एष एवान्तो दुःखस्य ।

निद्स 11.7 तत्र भिक्षवः कः परिनिर्वृतः अन्यत्र यद् दुःखं तन् निरुद्धं तद् व्युपशान्तं तच् छीतीभूतं तद् अस्तंगतम् । शान्तम् इदं पदं यद् उत सर्वोपधिप्रतिनिःसर्गस् तृष्णाक्षयो विरागो निरोधो निर्वाणम् //

सूत्र 12: निवृत (गेहेम्म्त्)

निद्स 12.1 अविद्यया निवृतस्य बालस्य तृष्णया संयुक्तस्यैवम् अयम् बालस्याश्रुतवतः पृथग्जनस्य सविज्ञानकः कायः समुदागतः । इत्य् अयञ् चास्य सविज्ञानकः कायो बहिर्धा च नामरूपम् । एवं द्वयम् ।

निद्स 12.2 द्वयं खलु प्रतीत्य स्पर्शः । षड् इमानि स्पर्शायतनानि यैः स्पृष्टः स्पृष्टो बालो ऽश्रुतवान् पृथग्जनः सुखदुःखं प्रतिसंवेदयति । अतो वा पुनर् उपादायैतेषां वान्यतमेन ।

निद्स 12.3 कतमानि षट् । चक्षुः स्पर्शायतनम् । श्रोत्रं घ्राणं जिह्वा कायो मनः स्पर्शायतनम् ।

निद्स 12.4 अविद्यया निवृतस्य पण्डितस्य तृष्णया संयुक्तस्यैवम् अयम् पण्डितस्य सविज्ञानकः कायः समुदागतः । इत्य् अयञ् चास्य सविज्ञानकः कायो बहिर्धा च नामरूपम् । एवं द्वयम् ।

निद्स 12.5 द्वयं खलु प्रतीत्य स्पर्शः । षड् इमानि स्पर्शायतनानि यैः स्पृष्टः स्पृष्टः पण्डितः सुखदुःखं प्रतिसंवेदयति । अतो वा पुनर् उपादायैतेषां वान्यतमेन ।

निद्स 12.6 कतमानि षट् । चक्षुः स्पर्शायतनं श्रोत्रं घ्राणं जिह्वा कायो मनः ।

निद्स 12.7 इति भिक्षवो को विशेसः को ऽभिप्रायः किन् नानाकरणं बालपण्डितयोर् ममान्तिके ब्रह्मचर्यवासाय ।

निद्स 12.8 भगवन्मूलका भदन्त धर्माः पूर्ववद् यावद् भाषिष्ये ।

निद्स 12.9 ययाविद्यया निवृतस्य बालस्याश्रुतवतः पृथग्जनस्य यया च तृष्णया संयुक्तस्यायं सविज्ञानकः कायः समुदागतस् तस्य सा च अविद्या अप्रहीणा सा च तृष्णा अपरिक्षीणा । स तस्या अविद्याया अप्रहाणात् तस्याश् च तृष्णाया अपरिक्षयात् कायस्य भेदात् परंमरणात् कायोपगो भवति । स कायोपगः सन् न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः । न परिमुच्यते दुःखाद् इति वदामि ।

निद्स 12.10 तत् कस्माद् धेतोः । नाचार्षीद् बालः पूर्वे ब्रह्मचर्येषणां सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । तस्मात् स कायस्य भेदात् परंमरणात् कायोपगो भवति । स कायोपगः सन् न परिमुच्यते पूर्ववद् यावद् दुःखाद् इति वदामि ।

निद्स 12.11 यया न्व् अविद्यया निवृतस्य पण्डितस्य यया च तृष्णया सम्युक्तस्य सविज्ञानकः कायः समुदागतस् तस्य सा च अविद्या प्रहीणा सा च तृष्णा परिक्षीणा । स तस्या अविद्यायाः प्रहाणात् तस्याश् च तृष्णायाः परिक्षयात् कायस्य भेदात् परंमरणान् न कायोपगो भवति । स न कायोपगः सन् परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः । परिमुच्यते दुःखाद् इति वदामि ।

निद्स 12.12 तत् कस्माद् धेतोः । अचार्षीत् पण्डितः पूर्वे ब्रह्मचर्येषणां सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । तस्मात् स कायस्य भेदात् परंमरणान् न कायोपगो भवति । स न कायोपगः सन् परिमुच्यते पूर्ववद् यावद् दुःखाद् इति वदामि ।

निद्स 12.13 अयं भिक्षवो विशेषो ऽयम् अभिप्राय इदन् नानाकरणं बालपण्डितयोर् ममान्तिके ब्रह्मचर्यवासाय //

सूत्र 13: न युष्माकम् (निछ्त् एउछ्)

निद्स 13.1 नायं भिक्षवः कायो युष्माकं नाप्य् अन्येषाम् । षड् इमानि स्पर्शायतनानि पूर्वम् अभिसंस्कृतान्य् अभिसञ्चेतितानि । पौराणं कर्म वेदितव्यम् इति वदामि ।

निद्स 13.2 कतमानि षट् । चक्षुः स्पर्शायतनम् । श्रोत्रं घ्राणं जिह्वा कायो मनः स्पर्शायतनम् ।

निद्स 13.3 तत्र श्रुतवान् आर्यश्रावकः प्रतीत्यसमुत्पादम् एव साधु च सुष्ठु च योनिशः प्रत्यवेक्षते ।

निद्स 13.4 यदुतास्मिन् सति षड् विज्ञानकाया भवन्ति । षट् स्पर्शकायाः षड् वेदनाकायाः षट् संज्ञाकायाः षट् चेतनाकाया भवन्ति । यदुतास्मिन् सत्य् एवम् आयत्यां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।

निद्स 13.5 एवं हि सहेतुः सप्रत्ययो लोकः समुदेति । एवं हि सहेतोः सप्रत्ययस्य लोकस्य समुदयो भवति ।

निद्स 13.6 यदुतास्मिन्न् असति षड् विज्ञानकाया न भवन्ति । षट् स्पर्शकायाः षड् वेदनाकायाः षट् संज्ञाकायाः षट् चेतनाकाया न भवन्ति । यदुतास्मिन्न् असत्य् एवम् आयत्याम् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।

निद्स 13.7 यतश् च श्रुतवतार्यश्रावकेण लोकसमुदयश् च लोकनिरोधश् च यथाभूतं सम्यक्प्रज्ञया सुदृष्टो भवति सुविदितः सुजुष्टः सुप्रतिविद्धः । अयम् उच्यते आर्याश्रावकः । आगत इमं सद्धर्मम् उपगत इमं सद्धर्मम् अवैति सद्धर्मम् इत्य् उच्यते ऽवगाढप्राप्तः पर्यवगाढप्राप्तः शैक्षेण ज्ञानेन शैक्षेण दर्शनेन लोकस्योदयास्तंगामिन्या प्रज्ञया समन्वागत आर्यया नैर्याणिकया नैर्वेधिकया निर्याति तत्करः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै ।

निद्स 13.8 तत् कस्माद् धेतोः । तथा हि श्रुतवतार्यश्रावकेण लोकसमुदयश् च लोकनिरोधश् च यथाभूतं सम्यक्प्रज्ञया सुदृष्टः सुविदितः सुप्रतिविद्धः //

सूत्र 14: (प्रतीत्य)

निद्स 14.1 प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्ये प्रतीत्यसमुत्पन्नांश् च धर्मान् । ताञ् छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ।

निद्स 14.2 प्रतीत्यसमुत्पादः कतमः । यदुतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यदुताविद्याप्रत्ययाः संस्कारा यावत् समुदयो भवति ।

निद्स 14.3 अविद्याप्रत्ययाः संस्कारा इत्य् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थिता एवेयं धर्मता धर्मस्थितये धातुः । तं तथागतः स्वयम् अभिज्ञायाभिसंबुद्ध्याख्याति प्रज्ञपयति प्रस्थापयति विभजति विवरत्य् उत्तानीकरोति देशयति संप्रकाशयति यदुताविद्याप्रत्ययाः संस्काराः । निद्स 14.4 यावज्

निद्स 14.5 जातिप्रत्ययं जरामरणम् इत्य् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थिता एवेयं धर्मता धर्मस्थितये धातुः । तं तथागतः स्वयम् अभिज्ञायाभिसंबुद्ध्याख्याति प्रज्ञपयति प्रस्थापयति विभजति विवरत्य् उत्तानीकरोति देशयति संप्रकाशयति यदुत जातिप्रत्ययं जरामरणम् ।

निद्स 14.6 इति यात्र धर्मता धर्मस्थितिता धर्मनियामता धर्मयथातथा अवितथता अनन्यथा भूतं सत्यता तत्त्वता याथातथा अविपरीतता अविपर्यस्तता इदंप्रत्ययता प्रतीत्यसमुत्पादानुलोमता अयम् उच्यते प्रतीत्यसमुत्पादः ।

निद्स 14.7 प्रतीत्यसमुत्पन्ना धर्माः कतमे । अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर् जरामरणं । इम उच्यन्ते प्रतीत्यसमुत्पन्ना धर्माः ।

निद्स 14.8 यतश् च श्रुतवतार्यश्रावकेण प्रतीत्यसमुत्पादश् च प्रतीत्यसमुत्पन्नाश् च धर्मा यथाभूतं सम्यक्प्रज्ञया सुदृष्टा भवन्ति ।

निद्स 14.9 स न पूर्वान्तं प्रतिसरति । किन् न्व् अहम् अभूवम् अतीते ऽध्वनि । अहो स्विन् नाहम् अतीते ऽध्वनि । को न्व् अहम् अभूवम् अतीते ऽध्वनि । कथं न्व् अहम् अभूवम् अतीते ऽध्वनि ।

निद्स 14.10 अपरान्तं वा न प्रतिसरति । किन् नु भविष्याम्य् अनागते ऽध्वनि । अहो स्विन् न भविष्याम्य् अनागते ऽध्वनि । को नु भविष्याम्य् अनागते ऽध्वनि । कथं नु भविष्याम्य् अनागते ऽध्वनि ।

निद्स 14.11 अध्यात्मं वाकथंकथीभवति । किं स्विद् इदम् । कथं स्विद् इदम् । के सन्तः के भविष्यामः । अयं सत्वः कुत आगतः । स इतश् च्युतः कुत्रगामी भविष्यति ।

निद्स 14.12 यानि तान्य् एकत्यानां श्रमणब्राह्मणानां पृथल्लोके दृष्टिगतानि तद्यथा आत्मवादप्रतिसंयुक्तानि सत्ववादप्रतिसंयुक्तानि जीववादप्रतिसंयुक्तानि कोतूहलमङ्गलवादप्रतिसंयुक्तनि तान्य् अस्य तस्मिन् समये प्रहीणानि भवन्ति परिज्ञातान्य् उच्छिन्नमूलानि तालमस्तकवद् अनाभवगतिकान्य् आयत्याम् अनुत्पादधर्माणि ।

निद्स 14.13 तत् कस्माद् धेतोः । तथा हि श्रुतवतार्यश्रावकेण प्रतीत्यसमुत्पादश् च प्रतीत्यसमुत्पन्नाश् च धर्मा यथाभूतं सम्यक्प्रज्ञया सुदृष्टाः सुजुष्टाः सुविदिताः सुप्रतिविद्धाः //

सूत्र 15: शून्यता (दिए लेएरे)

निद्स 15.1 कुरुषु निदानम् ।

निद्स 15.2 तत्र भगवान् भिक्षून् आमन्त्रयति ।

निद्स 15.3 धर्मं वो देशयिष्ये आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं यावत् प्रकाशयिष्ये । यद् उत महाशून्यतानाम धर्मपर्यायस् तच् छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ।

निद्स 15.4 महाशून्यताधर्मपर्यायाः कतमाः । यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यद् उताविद्याप्रत्ययाः संस्कारा यावत् समुदयो भवति ।

निद्स 15.5अ जातिप्रत्ययं जरामरणम् इति । तत्र को जरामरणं कस्य वा जरामरणम् इति हि स्युः प्रष्टार इति य एवं वदेद् अयं जरामरणम् अस्य वा जरामरणम् । यश् चैवं वदेत् तज् जीवं तच् छरीरम् अन्यज् जीवम् अन्यच् छरीरम् । उभयम् एतद् एकम् । व्यञ्जनम् अत्र नाना ।

निद्स 15.5ब् तज् जीवं तच् छरीरम् इति दृष्टौ सत्यां ब्रह्मचर्यवासो न भवति । अन्यज् जीवम् अन्यच् छरीरम् इति भिक्षवो दृष्टौ सत्यां ब्रह्मचर्यवासो न भवति । इत्य् एताव् उभाव् अन्ताव् अनुपगम्यास्ति मध्यमा प्रतिपद् आर्या लोकोत्तरा यथाभूता अविपरीता सम्यग्दृष्टिः । यद् उत जातिप्रत्ययं जरामरणम् ।

निद्स 15.6 एवं जातिर् भव उपादानं तृष्णा वेदना स्पर्शः षडायतनं नामरूपं विज्ञानम् ।

निद्स 15.7अ अविद्याप्रत्ययाः संस्कारा इति । तत्र कः संस्काराः कस्य वा संस्कारा इति हि स्युः प्रष्टार इति य एवं वदेद् अयं संस्कारा अस्य वा संस्काराः । यश् चैवं वदेत् तज् जीवं तच् छरीरम् अन्यज् जीवम् अन्यच् छरीरम् । उभयम् एतद् एकम् । व्यञ्जनम् अत्र नाना ।

निद्स 15.7ब् तज् जीवं तच् छरीरम् इति भिक्षवो दृष्टौ सत्यां ब्रह्मचर्यवासो न भवति । अन्यज् जीवम् अन्यच् छरीरम् इति दृष्टौ सत्यां ब्रह्मचर्यवासो न भवति । इत्य् एताव् उभाव् अन्ताव् अनुपगम्यास्ति मध्यमा प्रतिपद् आर्या लोकोत्तरा यथाभूता अविपरीता सम्यग्दृष्टिः । यद् उताविद्याप्रत्ययाः संस्काराः ।

निद्स 15.8अ यतश् च भिक्षोर् अविद्या विरक्ता भवति विद्योत्पन्ना

निद्स 15.8ब् तस्य को जरामरणं कस्य वा जरामरणम् ।

निद्स 15.8च् अविद्याविरागाद् विद्योत्पादाद् एवम् अस्य तज् जरामरणं प्रहीणं भवति परिज्ञातम् उच्छिन्नमूलं तालमस्तकवद् अनाभवगतिकम् आयत्याम् अनुत्पादधर्म ।

निद्स 15.9अ यतश् च भिक्षोर् अविद्या विरक्ता भवति विद्योत्पन्ना

निद्स 15.9ब् तस्य को जातिर् भव उपादानं तृष्णा वेदना स्पर्शः षडायतनं नामरूपं विज्ञानम् ।

निद्स 15.10ब् तस्य कः संस्काराः कस्य वा संस्काराः ।

निद्स 15.10च् अविद्याविरागाद् विद्योत्पादाद् एवम् अस्य ते संस्काराः प्रहिणा भवन्ति परिज्ञाता उच्छिन्नमूलास् तालमस्तकवद् अनाभवगतिकम् आयत्याम् अनुत्पादधर्माणः ।

निद्स 15.11अ यतश् च भिक्षोर् अविद्या विरक्ता भवति विद्योत्पन्ना

निद्स 15.11ब् तस्याविद्यानिरोधात् संस्कारनिरोधो यावन् महतो दुःखस्कन्धस्य निरोधो भवति ।

निद्स 15.12 अयम् उच्यते महाशून्यतानाम धर्मपर्यायः ।

निद्स 15.13 धर्मं वो देशयिष्ये आदौ कल्याणं मध्ये पूर्ववद् इति मे यद् उक्तम् इदं तत् प्रत्युक्तम् //

सूत्र 16: आदिसूत्र

निद्स 16.1 प्रतीत्यसमुत्पादस्य वो भिक्षव आदिञ् च देशयिष्ये विभङ्गञ् च । तच् छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ।

निद्स 16.2 प्रतीत्यसमुत्पादस्यादिः कतमः । यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यद् उताविद्याप्रत्ययाः संस्काराः पूर्ववद् यावत् समुदयो भवति । अयम् उच्यते प्रतीत्यसमुत्पादस्यादिः ।

निद्स 16.3 विभङ्गः कतमः ।

निद्स 16.4 अविद्याप्रत्ययाः संस्कारा इत्य् अविद्या कतमा । यत् तत् पूर्वान्ते अज्ञानम् अपरान्ते अज्ञानं पूर्वान्तापरान्ते अज्ञानम् अध्यात्मे अज्ञानं बहिर्धा अज्ञानम् अध्यात्मबहिर्धा अज्ञानं कर्मण्य् अज्ञानं विपाके अज्ञानं बुद्धे अज्ञानं धर्मे अज्ञानं संघे अज्ञानं दुःखे अज्ञानं समुदये निरोधे मार्गे अज्ञानं हेताव् अज्ञानं हेतुसमुत्पन्नेषु धर्मेष्व् अज्ञानं कुशलाकुशलेषु सावद्यानवद्येषु सेवितव्यासेवितव्येषु हीनप्रणीतेषु कृष्णशुक्लेषु प्रतिभागप्रतीत्यसमुत्पन्नेषु धर्मेष्व् अज्ञानम् । षट्सु वा पुनः स्पर्शायतनेषु यथाभूतम् असंप्रतिवेध इति । यत्र तत्राज्ञानम् अदर्शनम् अनभिसमयस् तमः संमोहो अविद्यानुशयः । अयम् उच्यते अविद्या ।

निद्स 16.5 अविद्याप्रत्ययाः संस्कारा इति संस्काराः कतमे । त्रयः संस्काराः । कायसंस्कारो वाक्संस्कारो मनःसंस्कारः ।

निद्स 16.6 संस्कारप्रत्ययं विज्ञानम् इति विज्ञानं कतरत् । षड् विज्ञानकायाः । चक्षुर् विज्ञानं श्रोत्रघ्राणजिह्वाकायमनो विज्ञानम् ।

निद्स 16.7 विज्ञानप्रत्ययं नामरूपम् इति नामरूपं कतरत् । चत्वारो ऽरूपिणः स्कन्धाः / वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धः । रूपस्कन्धः कतरत् । यत् किञ्चिद् रूपं सर्वं तच् चत्वारि महाभूतानि । चत्वारि च महाभूतान्य् उपादाय इतीदं च रूपं । पूर्वकं च नाम । तद् उभयं नामरूपम् । इत्य् उच्यते नामरूपम् ।

निद्स 16.8 नामरूपप्रत्ययं षडायतनम् इति षडायतनं कतरत् । षड् आध्यात्मिकान्य् आयतनानि । चक्षुर् आध्यात्मिकम् आयतनं श्रोत्रघ्राणजिह्वाकायमन आध्यात्मिकम् आयतनम् ।

निद्स 16.9 षडायतनप्रत्ययः स्पर्श इति स्पर्शः कतमः । षट् स्पर्शकायाः । चक्षुः संस्पर्शः । श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शः ।

निद्स 16.10 स्पर्शप्रत्यया वेदनेति वेदना कतमा । तिस्रो वेदनाः । सुखा वेदना दुःखा अदुःखासुखा च ।

निद्स 16.11 वेदनाप्रत्यया तृष्णेति तृष्णा कतमा । तिस्रस् तृष्णाः । कामतृष्णा रूपतृष्णा आरूप्यतृष्णा ।

निद्स 16.12 तृष्णाप्रत्ययम् उपादानम् इति उपादानं कतरत् । चत्वार्य् उपादानानि । कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानम् आत्मोपादानं च ।

निद्स 16.13 उपादानप्रत्ययो भव इति भवः कतमः । त्रयो भवाः । कामभवो रूपभव आरूप्यभवः ।

निद्स 16.14 भवप्रत्यया जातिर् इति जातिः कतमा । या तेषां तेषां सत्वानां तस्मिन् तस्मिन् सत्वनिकाये जातिः सञ्जातिर् अवक्रान्तिर् अभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलाभो धातुप्रतिलाभ आयतनप्रतिलाभो जीवितेन्द्रियस्य प्रादुर्भावः । इयम् उच्यते जातिः ।

निद्स 16.15 जातिप्रत्ययं जरामरणम् इति जरा कतमा । यत् तत् खालित्यं पालित्यं वलिप्रचुरता जीर्णता भग्नता कुब्जगोपानसीवङ्कता खुरुखुरुप्रश्वासकायता पुरतः प्राग्भारकायता दण्डविष्टंभनता तिलकाडरचितगात्रता धन्धत्वं हानिः परिहाणिर् इन्द्रियाणां परिपाकः परिभेदः संस्काराणां पुराणीभावो जर्जरीभावः । इयम् उच्यते जरा ।

निद्स 16.16 मरणं कतरत् । यत् तेषां तेषां सत्वानां तस्मात् तस्मात् सत्वनिकायाच् च्युतिश् च्यवनं भेदो ऽन्तर्हाणिर् आयुषो हानिर् उष्मणो हानिर् जीवितस्य निरोधः स्कन्धानां निक्षेपणं मरणं कालक्रिया । इदम् उच्यते मरणम् । इतीदञ् च मरणम् । पूर्विका च जरा । तद् उभयं जरामरणम् इत्य् उच्यते ।

निद्स 16.17 अयम् उच्यते प्रतीत्यसमुत्पादविभङ्गः ।

निद्स 16.18 प्रतीत्यसमुत्पादस्य वो आदिञ् च देशयिष्ये विभङ्गञ् च इति मे यद् उक्तम् इदं तत् प्रत्युक्तम् //

सूत्र 17: भिक्षु (म्öन्छ्)

निद्स 17.1 अन्यतरो भिक्षुर् येन भगवांस् तेनोपजगाम । उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् । एकान्तस्थितः स भिक्षुर् भगवन्तम् इदम् अवोचत् ।

निद्स 17.2 किन् नु भगवता प्रतीत्यसमुत्पादः कृत अहो स्विद् अन्यैः ।

निद्स 17.3 न भिक्षो मया प्रतीत्यसमुत्पादः कृतो नाप्य् अन्यैः ।

निद्स 17.4 अपि तूत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थिता एवेयं धर्मता धर्मस्थितये धातुः । तं तथागतः स्वयम् अभिज्ञायाभिसंबुद्ध्याख्याति प्रज्ञपयति प्रस्थापयति विभजति विवरत्य् उत्तानीकरोति देशयति संप्रकाशयति ।

निद्स 17.5 यदुतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यदुताविद्याप्रत्ययाः संस्कारा यावत् समुदयो निरोधश् च भवति //

सूत्र 18: ब्राह्मण

निद्स 18.1 अन्यतरो ब्राह्मणो येन भगवांस् तेनोपजगाम । उपेत्य भगवता सार्धं सम्मोदनीं संरञ्जनीं कथां विविधां उपसंहृत्यैकान्ते न्यषीदत् । एकान्तनिषण्णः स ब्राह्मणो भगवन्तम् इदम् अवोचत् ।

निद्स 18.2 किन् नु भो गौतम स करोति स प्रतिसंवेदयति । अव्याकृतम् इदं ब्राह्मण मया स करोति स प्रतिसंवेदयति ।

निद्स 18.3 किन् नु भो गौतम अन्यः करोत्य् अन्यः प्रतिसंवेदयति । एतद् अपि ब्राह्मण अव्याकृतं मया अन्यः करोत्य् अन्यः प्रतिसंवेदयति ।

निद्स 18.4 किन् नु भो गौतम स करोति स प्रतिसंवेदयतीति पृष्टो अव्याकृतम् इति वदसि । अन्यः करोत्य् अन्यः प्रतिसंवेदयतीति पृष्टो अव्याकृतम् इति वदसि । को नु भो गौतम अस्य भाषितस्यार्थो द्रष्टव्यः ।

निद्स 18.5 स करोति स प्रतिसंवेदयतीति ब्राह्मण शाश्वतत्वे परैति । अन्यः करोत्य् अन्यः प्रतिसंवेदयतीत्य् उच्छेदे परैति ।

निद्स 18.6 इत्य् एताव् उभाव् अन्ताव् अनुपगम्य मध्यमया प्रतिपदा तथागतो धर्मं देशयति ।

निद्स 18.7 यदुतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यदुताविद्याप्रत्ययाः संस्कारा इति यावत् समुदयो निरोधश् च भवति ।

सूत्र 19: कात्यायनः

निद्स 19.1 भगवान् नादिकायां विहरति गुञ्जकावसथे ।

निद्स 19.2 अथायुष्मान् सन्धाकात्यायनो येन भगवांस् तेनोपजगाम । उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् । एकान्तस्थित आयुष्मान् सन्धाकात्यायनो भगवन्तम् इदम् अवोचत् ।

निद्स 19.3 सम्यग्दृष्टिः सम्यग्दृष्टिर् इति भदन्त उच्यते । कियता सम्यग्दृष्टिर् भवति । कियता तथागतः सम्यग्दृष्तिं प्रज्ञपयमानः प्रज्ञपयति ।

निद्स 19.4 एवम् उक्तो भगवान् आयुष्मन्तं सन्धाकात्यायनम् इदम् अवोचत् ।

निद्स 19.5अ द्वयं निश्रितो ऽयं कात्यायन लोको यद् भूयसास्तिताञ् च निश्रितो नास्तिताञ् च । उपध्युपादानविनिबद्धो ऽयं कात्यायन लोको यद् उतास्तिताञ् च निश्रितो नास्तिताञ् च । एतानि चेद् उपध्युपादानानि चेतसो ऽधिष्ठानाभिनिवेशानुशयान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशत्य् आत्मा मेति ।

निद्स 19.5ब् दुःखम् इदम् उत्पद्यमानम् उत्पद्यते । दुःखं निरुध्यमानं निरुध्यते । अत्र चेन् न काङ्क्षति न विचिकित्सति । अपरप्रत्ययं ज्ञानम् एवास्य भवति ।

निद्स 19.6 इयता कात्यायन सम्यग्दृष्टिर् भवति । इयता तथागतः सम्यग्दृष्टिं प्रज्ञपय्मानः प्रज्ञपयति ।

निद्स 19.7 तत् कस्माद् धेतोः । लोकसमुदयं कात्यायन यथाभूतं सम्यक्प्रज्ञया पश्यतो या लोके नास्तिता सा न भवति । लोकनिरोधं यथाभूतं सम्यक्प्रज्ञया पश्यतो या लोके ऽस्तिता सा न भवति ।

निद्स 19.8 इत्य् एताव् उभाव् अन्ताव् अनुपगम्य मध्यमया प्रतिपदा तथागतो धर्मं देशयति ।

निद्स 19.9 यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यद् उताविद्याप्रत्ययाः संस्कारा इति पूर्ववद् यावत् समुदयो निरोधश् च भवति ।

निद्स 19.10 अस्मिन् खलु धर्मपर्याये भाष्यमाण आयुष्मतः सन्धाकात्यायनस्यानुपादायास्रवेभ्यश् चित्तं विमुक्तम् ।

सूत्र 20: अचेल (नच्क्त्ग्äन्गेर्)

निद्स 20.1 भगवान् राजगृहे विहरति गृध्रकूटे पर्वते ।

निद्स 20.2 अथ भगवान् पूर्वाह्णे निवस्य पात्रचीवरम् आदाय गृध्रकूटपर्वताद् अवतीर्णो राजगृहं पिण्डाय प्राविशत् ।

निद्स 20.3 तेन खलु समयेनाचेलकाश्यपो राजगृहं गोचराय प्रसृतो ऽभूत् केनचिद् एव करणीयेन । अद्राक्षीद् अचेलकाश्यपो भगवन्तं दूरत एव । दृष्ट्वा च पुनर् येन भगवांस् तेनोपजगाम । उपेत्य भगवन्तम् इदम् अवोचत् ।

निद्स 20.4 पृच्छाम भो गौतम कञ्चिद् एव प्रदेशम् । सचेद् अवकाशं कुर्यात् प्रश्नस्य व्याकरणाय ।

निद्स 20.5 अकालस् तावत् तव काश्यप प्रश्नस्य व्याकरणाय । राजगृहं तावत् पिण्डाय चरितव्यम् । बहिर् आरामं गच्छ । तत्र ते कालो भविष्यति प्रश्नस्य व्याकरणाय ।

निद्स 20.6 द्विर् अप्य् एवम् एव वाच्यम् ।

निद्स 20.7 त्रिर् अप्य् अचेलकाश्यपो भगवन्तम् इदम् अवोचत् । स्याद् भो गौतमास्माकं वान्तरायो भवति गौतमस्यान्यथात्वम् । इहैव वयं भवन्तं गौतमं पृच्छामः । सचेद् अवकाशं कुर्याः प्रश्नस्य व्याकरणाय ।

निद्स 20.8 पृच्छ काश्यप यद् यद् एवाकाङ्क्षसे ।

निद्स 20.9अ किन् नु भो गौतम स्वयंकृतं दुःखम् । अव्याकृतम् इदं मया काश्यप स्वयंकृतं दुःखम् ।

निद्स 20.9ब् किन् नु भो गौतम परकृतं दुःखम् । एतद् अपि काश्यप अव्याकृतं मया परकृतं दुःखम् ।

निद्स 20.9च् किन् नु भो गौतम स्वयंकृतञ् च परकृतञ् च दुःखम् । एतद् अपि काश्यप अव्याकृतं मया स्वयंकृतञ् च परकृतञ् च दुःखम् ।

निद्स 20.9द् किन् नु भो गौतम अस्वयंकारपरकारहेतुसमुत्पन्नं दुःखम् । एतद् अपि काश्यप अव्याकृतं मया अस्वयंकारपरकारहेतुसमुत्पन्नं दुःखम् ।

निद्स 20.10 किन् नु भो गौतम स्वयंकृतं दुःखम् इति पृष्टो ऽव्याकृतम् इति वदसि परकृतं स्वयंकृतञ् च परकृतञ् च अस्वयंकारपरकारहेतुसमुत्पन्नं दुःखम् इति पृष्टो ऽव्याकृतम् इति वदसि । किन् नु भो गौतम नास्त्य् एव दुःखम् ।

निद्स 20.11 न काश्यप नास्त्य् एव दुःखम् इति त्व् अस्त्य् एव दुःखम् ।

निद्स 20.12 साधु मे भवान् गौतमस् तथा धर्मं देशयतु यथाहं दुःखं जानेयं दुःखं पश्येयम् ।

निद्स 20.13अ सा एव काश्यप वेदना स वेत्तीति यस्यैवं स्यात् स्वयंकृतं दुःखम् एवम् अहं न वदामि ।

निद्स 20.13ब् अन्या वेदना अन्यो वेत्तीति यस्यैवं स्यात् परकृतं दुःखम् एवम् अहं न वदामि ।

निद्स 20.13च् वेदनाभिभूतस्यैवा सतः परे दुःखं समवदधतीति यस्यैवं स्यात् स्वयंकृतञ् च परकृतञ् च दुःखम् एवम् अप्य् अहं न वदामि ।

निद्स 20.13द् दसत्सु च प्रत्ययेषु दुःखानि सन्तीति यस्यैवं स्याद् अस्वयंकारपरकारहेतुसमुत्पन्नं दुःखम् एवम् अहं न वदामि ।

निद्स 20.14 इत्य् एताव् उभाव् अन्ताव् अनुपगम्य मध्यमया प्रतिपदा तथागतो धर्मं देशयति । यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते पूर्ववद् यावत् समुदयो निरोधश् च भवति ।

निद्स 20.15 अस्मिन् खलु धर्मपर्याये भाष्यमाणे ऽचेलकाश्यपस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम् ।

निद्स 20.16 अथाचेलकाश्यपो दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुः शासने धर्मेषु वैशारद्यप्राप्तो येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् ।

निद्स 20.17 अभिक्क्रान्तो ऽहं भदन्त अभिक्क्रान्तः । एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च । उपासाकं च मां धारयाद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतम् अभिप्रसन्नम् ।

निद्स 20.18 अथाचेलकाश्यपो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवत्पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः ।

निद्स 20.19 अथाचेलकाश्यपो ऽचिरप्रक्रान्तो भगवतो ऽन्तिकाद् गवा तरुणवत्सया जीविताद् व्यपरोपितः । तस्य मरणसमये विप्रसन्नानीन्द्रियाणि परिशुद्धो मुखवर्णः पर्यवदातस् त्वग्वर्णः ।

निद्स 20.20 अथ संबहुला भिक्षवः पूर्वाह्णे निवस्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविशन् । अश्रौषुः संबहुला भिक्षवो राजगृहं पिण्डाय चरन्तः । यो ऽसाव् अचेलकाश्यपो भगवन्तं राजगृहे प्रश्नं पृष्टवान् सो ऽचिरप्रक्रान्तो भगवतो ऽन्तिकाद् गवा तरुणवत्सया जीविताद् व्यपरोपितः । तस्य मरणसमये विप्रसन्नानीन्द्रियाणि परिशुद्धो मुखवर्णः पर्यवदातस् त्वग्वर्णः ।

निद्स 20.21 श्रुत्वा च पुना राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद्भक्तपिण्डपातं प्रतिक्रान्ताः । पात्रचीवरं प्रतिशम्य पादौ प्रक्षाल्य येन भगवांस् तेनोपजग्मुः । उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदन् । एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तम् इदम् अवोचन् ।

निद्स 20.22 इह वयं भदन्त संबहुला भिक्षवः पूर्वाह्णे निवस्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविशाम । अश्रौष्म वयं संबहुला भिक्षवो राजगृहं पिण्डाय चरन्तः पूर्ववद् यावत् पर्यवदातस् त्वग्वर्णः । तस्य भदन्त का गतिः कोपपत्तिः को ऽभिसंपरायः ।

निद्स 20.23 द्रव्यजातीयः स भिक्षवः कुलपुत्रः । प्रत्यभिज्ञासीच् च मे धर्मेष्व् अनुधर्मम् । न च मे विहेठितवान् धर्माधिकारिकीं कथां व्याकृतां स कुलपुत्रः । कुरुत तस्य शरीरे शरीरपूजाम् इति । निद्स 20.24 तत्र भगवान् अचेलकाश्यपं परमं व्याकरणम् अकार्षीत् //

सूत्र 21: तिम्बुरुक

निद्स 21.1 एतद् एव सूत्रं तिम्बुरुकपरिव्राजकम् ।

निद्स 21.2 सुखदुःखं पृच्छतीति विशेषणम् ।

सूत्र 22: भूमिक

निद्स 22.1 भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे ।

निद्स 22.2 तेन खलु समयेनायुष्मान् भूमिको राजगृहे विहरति गृध्रकूटे पर्वते ।

निद्स 22.3 अथ संबहुला अन्यतीर्थिकपरिव्राजका येनायुष्मान् भूमिकस् तेनोपजग्मुः । उपेत्यायुष्मता भूमिकेन सार्धं संमुखं संमोदनीं संरञ्जनीं कथां विविधाम् उपसंहृत्यैकान्ते न्यषीदन् । एकान्तनिसण्णाः संबहुला अन्यतीर्थिकपरिव्राजका आयुष्मन्तं भूमिकम् इदम् अवोचन् ।

निद्स 22.4 पृच्छाम भो भूमिक कञ्चिद् एव प्रदेशम् । सचेद् अवकाशं कुर्याः प्रश्नस्य व्याकरणाय ।

निद्स 22.5 पृच्छत भवन्तः । श्रुत्वा ते वेदयिष्यामि ।

निद्स 22.6अ किन् नु भो भूमिक स्वयंकृतं सुखदुःखम् । अव्याकृतम् इदं भदन्त भगवता स्वयंकृतं सुखदुःखम् ।

निद्स 22.6ब् किन् नु भो भूमिक परकृतं स्वयंकृतञ् च परकृतञ् च अस्वयंकारपरकारहेतुसमुत्पन्नं सुखदुःखम् । एतद् अपि भदन्त अव्याकृतं भगवता परकृतं स्वयंकृतञ् च परकृतञ् च अस्वयंकारपरकारहेतुसमुत्पन्नं सुखदुःखम् ।

निद्स 22.7 किन् नु भो भूमिक स्वयंकृतं सुखदुःखम् इति पृष्टो ऽव्याकृतम् इति वदसि । परकृतं स्वयंकृतञ् च परकृतञ् च अस्वयंकारपरकारहेतुसमुत्पन्नं सुखदुःखम् इति पृष्टो ऽव्याकृतम् इति वदसि । कथं समुत्पन्नं भगवता गौतमेन सुखदुःखं प्रज्ञप्तम् ।

निद्स 22.8 प्रतीत्यसमुत्पन्नं भवन्तो भगवता सुखदुःखं प्रज्ञप्तम् ।

निद्स 22.9 अथ संबहुला अन्यतीर्थिकपरिव्राजका आयुष्मतो भूमिकस्य भाषितं नाभिनन्दन्ति न प्रतिक्रोशन्ति । अनभिनन्द्याप्रक्रोशाश् चोत्थायासनात् प्रक्रान्ताः ।

निद्स 22.10 तेन खलु समयेनायुष्माञ् छारिपुत्र आयुष्मतो भूमिकस्य नातिदूरे निषण्णो ऽभूद् अन्यतरं वृक्षमूलं निश्रित्य ।

निद्स 22.11 अथायुष्मान् भूमिको ऽचिरप्रक्रान्तान् संबहुलान् अन्यतीर्थिकपरिव्राजकान् विदित्वा येनायुष्माञ् छारिपुत्रस् तेनोपजगाम । उपेत्य यावद् एवास्याभूत् संबहुलैर् अन्यतीर्थिकपरिव्राजकैः सार्धम् अन्तराकथासमुदाहारस् तत् सर्वम् आयुष्मतः शारिपुत्रस्य विस्तरेणारोचयति । एवं चाह ।

निद्स 22.12 कश्चिद् अहम् एवम् आयुष्मञ् छारिपुत्र व्याकुर्वाणो नो च भगवन्तम् अभ्याचक्षे । नातिसरामि । उक्तवादी चाहं भगवतो धर्मवादी च । धर्मस्य चानुधर्मं व्याकरोमि । न च मे कश्चिद् आगच्छेत् परतः सहधर्मेण वादानुवादं गर्हस्थानीयो धर्मः ।

निद्स 22.13 तत्थ्यं त्वम् आयुष्मन् भूमीक व्याकुर्वाणो नो च भगवन्तम् अभ्याख्यासीः । नातिसरसि । उक्तवादी च त्वं भगवतो धर्मवादी च । धर्मस्य चानुधर्मं व्याकरोषि । न च ते कश्चिद् आगच्छेत् परतः सहधर्मेण वादानुवादं गर्हस्थानीयो धर्मः ।

निद्स 22.14 तत् कस्माद् धेतोः । प्रतीत्यसमुत्पन्नम् आयुष्मन् भूमिक भगवता सुखदुःखं प्रज्ञप्तम् ।

निद्स 22.15अ तत्रायुष्मन् भूमिक ये ते श्रमणब्राह्मणाः स्वयंकृतं सुखदुःखं प्रज्ञपयन्ति तद् अपि प्रतीत्यसमुत्पन्नम् । तद् बत प्रतीत्यसमुत्पन्नं भविष्यति । नेदं स्थानं विद्यते ।

निद्स 22.15ब् परकृतं स्वयंकृतञ् च परकृतञ् च अस्वयंकारपरकारहेतुसमुत्पन्नं सुखदुःखं प्रज्ञपयन्ति तद् अपि प्रतीत्यसमुत्पन्नम् । तद् बत प्रतीत्यसमुत्पन्नं भविष्येति । नेदं स्थानं विद्यते ।

निद्स 22.16अ तत्रायुष्मन् भूमिक ये ते श्रमणब्राह्मणाः स्वयंकृतं सुखदुःखं प्रज्ञपयन्ति तद् अपि स्पर्शप्रत्ययम् । तद् बत अन्यत्रस्पर्शात् प्रतिसंवेदयिष्यन्ति । नेदं स्थानं विद्यते ।

निद्स 22.16ब् परकृतं स्वयंकृतञ् च परकृतञ् च अस्वयंकारपरकारहेतुसमुत्पन्नं सुखदुःखं प्रज्ञापयन्ति तद् अपि स्पर्शप्रत्ययम् । तद् बत अन्यत्रस्पर्शात् प्रतिसंवेदयिष्यन्ति । नेदं स्थानं विद्यते ।

निद्स 22.17 तेन खलु समयेनायुष्मान् आनन्द आयुष्मतः शारिपुत्रस्य नातिदूरे निषण्णो ऽभूद् अन्यतरं वृक्षमूलं निश्रित्य ।

निद्स 22.18 अथायुष्मान् आनन्दो यावद् एवाभूद् आयुष्मतो भूमिकस्यायुष्मता शारिपुत्रेण सार्धम् अन्तराकथासमुदाहारस् तत् सर्वम् उद्गृह्य पर्यवाप्य येन भगवांस् तेनोपजगाम । उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् । एकान्तस्थित आयुष्मान् आनन्दो यावद् एवाभूद् आयुष्मतो भूमिकस्यायुष्मता शारिपुत्रेणा सार्धम् अन्तराकथासमुदाहारस् तत् सर्वं भगवतो विस्तरेणारोचयति ।

निद्स 22.19 एवम् उक्तो भगवान् आयुष्मन्तम् आनन्दम् इदम् अवोचत् । साधु साध्व् आनन्द पण्डितः शारिपुत्रो भिक्षुः । कालगतेन प्रश्नः सम्यक्प्रज्ञया पृष्टेन व्याकृतः । इच्छामि कश् च श्रावकः कालगतेन प्रश्नं पृष्टो व्याकुर्यात् तद्यथा शारिपुत्रेण भिक्षुणा व्याकृतः ।

निद्स 22.20 एको ऽयं समयः । राजगृहे विहरामि गिरिव्रजे । तत्र ममान्यतीर्थिकाः परिव्राजका एतद् एवार्थम् एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टवन्तः । तेषां मया एष एवार्थो एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नः पृष्टेन व्याकृतस् तद्यथा शारिपुत्रेण भिक्षुणा ।

निद्स 22.21 तत्र ये केचिच् छ्रमणब्राह्मणाः स्वयंकृतं सुखदुःखं प्रज्ञपयन्ति तान् अहम् उपसंक्रमामि । उपसंक्रम्यैवं वदामि । सत्यं किल भवन्तः स्वयंकृतं सुखदुःखं प्रज्ञपयन्ति । ते मया पृष्टा एवम् इति प्रतिजानन्ति । तान् अहम् एवं वदामि । अस्त्य् एतद् भदन्त एवम् उच्यते । यत् पुनर् अत्र भवन्तः स्थामशः परामृश्याभिनिविश्यानुव्यवहरन्ति । इदम् एव सत्यं मोहम् अन्यत् । इदम् अत्राहं नानुजानामि ।

निद्स 22.22 तत् कस्माद् धेतोः । अन्यथासमुत्पन्नं मया भवन्तः सुखदुःखं प्रज्ञप्तम् । ते मम पृच्छन्ति । कथं समुत्पन्नं भगवता गौतमेन सुखदुःखम् प्रज्ञप्तम् । तान् अहम् एवं वदामि । प्रतीत्यसमुत्पन्नं मया सुखदुःअं प्रज्ञप्तम् ।

निद्स 22.23 एवं परकृतं स्वयंकृतञ् च परकृतञ् च अस्वयंकारपरकारहेतुसमुत्पन्नं सुखदुखं प्रज्ञपयन्ति तान् अहम् उपसंक्रमामि पूर्ववद् यावत् ।

निद्स 22.24 यथा खल्व् अहं भदन्त भगवतो भाषितस्यार्थम् आजानामि जात्यां सत्यां जरामरणं भवति । नान्यत्रजातिप्रत्ययं जरामरणम् । यावद् अविद्यायां सत्यां संस्कारा भवन्ति । नान्यत्राविद्याप्रत्ययाः संस्काराः ।

निद्स 22.25 एवं निरोधो वाच्यः ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.