Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 8/17

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo

मञ्जुश्रीमूलकल्प

Thông tin
GRETIL — M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

प्रथमे विद्रवन्ते ते द्वितीये देशविभ्रमम् / त्रिसप्ताहे तथा नाशं न कुर्यात् कर्म ईदृशम् // mmk_27.31 //

केवलं सत्त्ववैनेया निर्दिष्टं लोकनायकैः / न भृशं सम्पदं ह्येते बुद्धा ते शुद्धमानसाः // mmk_27.32 //

प्राणोपरोधिनं कर्म सर्वबुद्धैस्तु गर्हितम् / न कुर्यात्तजपी कर्म उत्तमं सिद्धिमिच्छता // mmk_27.33 //

नरकोपपत्तिः कामेषु एतेष्वेव प्रदृश्यते / केवलं तु इदं प्रोक्तं कृष्णशुभकर्मफलोदयम् // mmk_27.34 //

कर्मवैचित्र्यमाहात्म्यं यथा दृष्टं द्विपदोत्तमैः / शक्तं शुभोदयं नित्यं कृष्णं चास्य शुभप्रदम् // mmk_27.35 //

व्यतिमिश्रं तथा कर्मं व्यतिमिश्रं तु पठ्यते / तथेदं कर्मवैचित्र्यं दर्शितं तत्त्वदर्शिभिः // mmk_27.36 //

तां जापी वर्जयेत् कृष्णं व्यतिमिश्रं कर्म एव वा / शुक्लं भजेत कल्याणं शुभकर्मफलोदयम् // mmk_27.37 //

प्राणोपरिधान्नरकं तु जापी याति पुनः पुनः / तन्निवृत्तेस्तथा धर्मः अहिंसः कर्ममुत्तमम् // mmk_27.38 //

स्वर्ग तथा सिद्धिः मन्त्राणां च शुभा गतिः / प्राप्यते सुकृतैः कर्मैः विरुद्धैर्विरुद्धमुच्यते // mmk_27.39 //

धर्माधर्म मया प्रोक्तं सर्वज्ञत्वं विचेष्टितम् / शुभकर्मसदाजापी आरभेत् सिद्धिलिप्सया // mmk_27.40 //

मन्त्रा तस्य सिद्ध्यन्ते जापिनस्य शुभे स्थिते / अनिवर्तनं तस्य मोक्षं वै सितकर्मपरायणे // mmk_27.41 //

मन्त्रिणे श्रेयसा सिद्धिः प्रवदन्ति तथागताः / विनयार्थं तु सत्त्वानां कर्मवैचित्र्यमुच्यते // mmk_27.42 //

यथेष्टं सहस्रकर्मं तु साधिकाष्ठं च सिद्ध्यते / क्षुद्रकर्म प्रकुर्वीत उत्तमं तु न लभ्यते // mmk_27.43 //

मध्यमं सिद्ध्यते किञ्चिद् यत्नाज्जापहोमितम् / अघमं सिद्ध्यते क्षिप्रं विधिदृष्टेन कर्मणा // mmk_27.44 //

त्रिविधं कर्म निर्दिष्ट उत्तमाधममध्यमाः / उत्कृष्टरूपी तपस्वी च लभते उत्तमं तथा // mmk_27.45 //

मध्यजापी तथा मध्यं कर्मसिद्धिमवाप्नुयात् / स्वल्पजापी तथा नित्यं स्वल्पकर्मसमावृत // mmk_27.46 //

लभते क्षुद्रसिद्धिं तु नान्यसिद्धिमवाप्नुयात् / कालप्रमाणजापस्तु होमे दृष्टस्तृधा पुनः // mmk_27.47 //

अधिकादधिकं सिद्धि मध्यमध्येषु दृश्यते / स्तोक स्तोकतरं कर्म लभ्यते क्षुद्रसिद्धिरिति // mmk_27.48 //

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् पञ्चविंशतिमः एकाक्षरमूलमन्त्र आर्यमञ्जुश्रीहृदयकल्पपटविधानविसरः परिसमाप्त इति // अथ अष्टाविंशतितमः पटलविसरः / अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / अस्ति मञ्जुश्रीः अपरमपि त्वदीयपटविधानं साधनौपयिकं सर्वकर्मार्थसाधकम् / एतेनैव तु एकाक्षरेण हृदयमन्त्रेण षडाक्षरेण वामकरान्तेन त्वदीयेन मूलमन्त्रेण वा षडक्षरहृदयेन ओम्काराद्येन एकाक्षरेण वा पटस्याग्रतः अस्यैव कल्पं भवति / पश्चिमे काले पश्चिमे समये मयि तथागते परिनिर्वृते शून्ये बुद्धक्षेत्रे युगाधमे प्राप्ते अत्राणे लोके अशरणे अपरायणे इदमेव कल्पराजा त्राणभूतं भविष्यति / शरणभूतं लयनभूतं परायणभूतम् / कतमं च तत् //

आदौ तावत् पूर्वमेवानाहते पटे केशापगते सप्तहस्तायते तृहस्तपृथके सदशे कुङ्कुमचन्दनरसपर्युषिते बुद्धं भगवन्तं शाक्यमुनिं लिखयेत् / पद्मासनोपविष्टं धर्मं देशयमानं मञ्जुश्रियं कुमारभूतमवलोकयन्तम् / दक्षिणे पार्श्वे सुधनं सुभूमिं आर्याक्षयमतिं मञ्जुश्रियं च भगवतो नमस्कारं कुर्वन्तं कुमाररूपिणं सर्वालङ्कारविभूषिताङ्गं वामपार्श्वे समन्तभद्रं आर्यावलोकितेश्वरं भद्रपालं सुशोभनं च लेखयेत् / भगवत्प्रतिमा ह्रस्वतरा च लेखयितव्या / आर्यावलोकितेश्वरसुधनौ चमरव्यग्रहस्तौ कार्यौ / वसुधा चाधस्तात् / रत्नकरण्डकव्यग्रहस्ताः पूर्वकायविनिर्गताः लेखयितव्या / उपरिष्टाच्च विद्याधरकुमारौ मालाधारिणौ मेघाश्च वर्षमाणाः सविद्युता लेखयितव्याः / सर्वे च बोधिसत्त्वा पुष्पमाणा यो भगवतो मुखं व्यवलोकयन्तः कर्तव्याः / सालङ्काराः प्रसन्नदृष्टयः पूर्वकाये निषीदवनतेन लेखयितव्याः //

तमीदृशं पटं सधातुके चैत्ये स्थाप्य पश्चान्मुखमक्षरलक्षं जपेत् / अस्य मञ्जुश्रियः काष्ठमौनी त्रिःकालस्नायी तृचेलपरिवर्त्ती सततपोषधिकः शाकयावकयथाभैक्षभैक्षाहारश्चतुर्भागमन्नं कृत्वा रत्नत्रयस्य भागमेकं अन्यः मञ्जुश्रियः अन्यत् सर्वसत्त्वानां शेषमात्मनो पयुञ्जीत / अक्षान्तकायो मनसि भगवन्तं कृत्वा सर्वसत्त्वानालम्बनेन मनसा नात्मार्थमहं किञ्चित् करोमि करिष्याम्यन्यत्र सर्वसत्त्वानामर्थायेति ध्यात्वा जापं कुर्यात् / स्नानं गन्धं पुष्पं धूपं बलिं प्रदीपांश्च दद्यात् / स्नापनं पटच्छायायाः गन्धानधस्तात् पुष्पाणि च बलिं च सततं दद्यात् / तत्रैव तेषां पूर्वं दद्यात् / रत्नत्रयस्य पश्चान्मैत्रेयस्य तदनन्तरमवलोकितेश्वरस्य आर्यसमन्तभद्रस्य आर्याकाशगर्भस्य आर्याक्षयमतेः कुमारभूतस्य चन्द्रप्रभस्य सर्वनीवरणविष्कम्भिणः आर्यवज्रधरस्य आर्यतारायाः आर्यमहामायूर्या आर्यपराजितायाः भगवत्याः प्रज्ञापारमितायाश्च गन्धं पुष्पं धूपं बलिं च सर्वमेतेषां पूर्वं दत्वा पश्चात् पटस्य दद्यात् //

पश्चाद् बहिरेकस्मिं प्रदेशे सर्वोष्ट्रगर्दभश्वहस्तिरूपाणि विनायकानि वल्मीकमृत्तिकया कृत्वा तेषां चाशेषं दद्यात् / अविस्मृत्य पिण्याकपिष्टकतिलकृतकुलत्थमत्स्यमांसमूलकवार्त्ताकपद्मपत्रकांसभाजनानि च वर्जयेत् / कुशविण्डकोपविष्टः तत्रैव श्रान्तः सर्वबुद्धानुस्मृतिं भावयेत् / मनसा जापं कुर्यात् / अन्यत्र विविक्ते कुशसंस्तरे शय्यां कल्पयेत् / अतिपानमतिभोजनं अतिपर्यटनं अतिदर्शनमतिशय्यां च वर्जयेत् / त्रिः कालं बुद्धानुस्मृति भावयेत् / शुक्रबन्धं च कुर्यात् / शोभनानि च स्वप्नानि नान्यस्य प्रकाशयेत् / भगवतो निवेदयेत् //

एवमनुपूर्वेण त्वरमाणः अक्षरलक्षं जपेत् / अन्ते च भगवतीं प्रज्ञापारमितां वाचयेत् / जपकाले भगवतो ऽथ मञ्जुश्रियः कुमारभूतस्य मुखमवलोक्य जापं कुर्यात् / अनाकुलाक्षरपदः / अक्षसूत्रान्ते च नमस्कारं कृत्वा निवेदयेत् / अनेन विधिना पूर्वसेवां कृत्वा पटं क्वचित् स्वस्थे स्थाने स्थाप्य कर्म कुर्यात् / यत्र मनसः परितुष्टिरस्ति // पतविधानं समाप्तम् //

पश्चाद् भगवन्तं मञ्जुश्रियं श्वेतचन्दनमयं पद्मासनस्थं भगवतीं प्रज्ञापारमितां एकहस्ते दधानं दक्षिणेन फलं दधानं कारयेत् / तमेकस्मिं शुचौ प्रदेशे पश्चान्मुखं स्थापयित्वा तस्याग्रतो ऽग्निकुण्डं कुर्यात् / सर्वकर्म सचतुरस्रं द्विवितस्तिप्रमाणं अधश्च गन्धां सर्वधान्यानि च क्षिपेत् / तस्योपरि कुर्यात् //

अनेन विधिना नवमग्निमुत्पाद्य अश्वत्थसमिद्भिरग्निं अथवाशोकस्य वा घृततन्दुलोदनं क्षीरदधि मधु च सर्वमुपहृत्य ताम्रभाजने स्थापयित्वा अष्टसहस्रं परिजप्य पूर्णाहुतिं दद्यात् / पश्चादन्यस्मिं दिने शुक्लप्रतिपदमारभ्य कर्म कुर्यात् अश्वत्थसमिद्भिरग्निं प्रज्वाल्य विगतधूमं दृष्ट्वा अग्निमावाहयेत् / आगच्छ हरिपिङ्गल दीप्तजिह्व लोहिताक्ष हरिपिङ्गल देहि ददापय स्वाहा //

अनेन मन्त्रेणाहुतित्रयं दद्यात् / पश्चाद् भगवन्तमावाहयेत् / आगच्छगच्छ कुमारभूत सर्वसत्त्वार्थमुद्यतो ऽहं साहाय्यं मे कल्पय गन्धपुष्पधूपं च प्रतिगृह्ण स्वाहा //

यद् ददाति तदनेन दातव्यम् / आगतस्य चार्घो देयः सुगन्धपुष्पपानीयेन पश्चाद्धोमं कुर्यात् / सप्तवारानुदाहृत्य एकैवाहुतिं क्षिपेत् / एवं सप्तदिवसानि घृततन्दुलानि तिलयावकेन चाप्यायनं कुर्यात् //

अन्त्रत्रान्तरादवश्यमार्यमञ्जुश्रियं कुमाररूपिणं पश्यति / द्व्यङ्गुलप्रमाणानां चन्दनसमिधानामष्टसहस्रं जुहुयात् / दिनेदिने शतं पृथिवीपतीनां वशमानयति / जातीकुसुमानां लक्षं जुहुयात् / राजा वश्यो भवति / पद्मानां दधिमधुघृताक्तानां सहस्रं जुहुयात् / द्रव्यं लभते / शमीसमिद्भिरग्निं प्रज्वाल्य तिलां जुहुयात् / धनपतिर्भवति / सततमुदकमुदके जुहुयात् / प्रातरुत्थितः सर्वजनप्रियो भवति / अर्कसमिधानां दधिमधुघृताक्तानां लक्षं जुहुयात् / सहस्रपिण्डं ग्रामं लभते / बहुपुत्रिकां जुहुयात् / कन्यां यामिच्छति तां लभते / अपामार्गं जुहुयात् व्याधिं प्रशमयति / क्षीरवृक्षकाष्ठैरग्निं प्रज्वाल्य तिलाहुतीनां लक्षं जुहुयात् / यां चिन्तयित्वा करोति तां लभते / विषयार्थी पद्मानां लक्षं जुहुयात् / विषयं लभते / यवानां लक्षहोमेनाक्षयमन्नमुत्पद्यते / गुग्गुलुपृयङ्गुं च घृतेन सह होमयेत् / पुत्रं लभते / अकाकोलीने जातीकुसुमानां पानीये जुहुयात् / सप्ताहेन ग्रामं लभते / जातीकुसुमानां जले एकैकं पुष्पं गृहीत्वा जुहुयात् / अवशेषं खण्डं यस्य घ्राणाय दीयते स घ्राणमात्रेण वश्यो भवति / कुङ्कुम कस्तूरिकालवङ्गपुष्पं च मुखे प्रक्षिप्य जपेत् / येन सह मन्त्रयते स वश्यो भवति / मरीचमष्टसहस्राभिमन्त्रितं कृत्वा मुखे प्रक्षिप्य क्रुद्धो ऽपि वचनेन प्रियो भवति / शिखामनेनैव बध्नीयात् / अदृश्यो भवति / शक्रं दृष्ट्वा मनसानुस्मरेद् विगतक्रोधो भवति / नित्यजापेन सर्वजनप्रियो भवति / महति प्रत्यूषे ऽभ्युत्थाय जातीकुसुमसहितं पानीयं शुचौ प्रदेशे भूमौ जुहुयात् / मन्त्री भवति / अनतिक्रमणीयवचनः /

(वैद्य 244) भये समुत्पन्ने मनसि कुर्यात् / भयं न भवति / परस्य क्रुद्धस्यापि मैत्रीं भावयित्त्वा अनुस्मृत्य मुखं व्यवलोकयेत् / विगतक्रोधो भवति / सर्वसुगन्धपुष्पैः होमं कुर्याद् यमुद्दिश्य करोति स वश्यो भवति / सप्ताभिमन्त्रितं उदकं प्रत्युषसि पिबेत् / नियतवेदनीयं कर्म क्षपयति / सप्तजप्तेनोदकेन मुखं प्रक्षालयेत् सर्वजनप्रियो भवति / पुष्पाण्यभिमन्त्र्य यस्य ददाति स वश्यो भवति / आचार्यत्वमेकेन लक्षहोमेन तन्दुलानाम् / विषयपतित्वं तिलानां पद्मानां सहस्रं जुहुयात् / दीनारसहस्रं लभते / वीरक्रयक्रीतां गुग्गुलुसर्जरसं गन्धरसं श्रीवासकं चैकतः कृत्वा जुहुयात् / पञ्चम्यां पञ्चम्यां षण्मासम् पूर्णे सहस्रगुणं लभते / सर्वगन्धैः प्रतिकृतिं कृत्वा तीक्ष्णशस्त्रेणैकधारेण च्छित्वा च्छित्वा जुहुयात् / दक्षिणेन पादा पुरुषस्य वामपादं स्त्रियः यमिच्छति स वश्यो भवति / सप्ताहं त्रिसन्ध्यं धुत्तूरकपुष्पाणि जुहुयात् / गावो लभते / अर्ककाष्ठैर्धान्यं शिरीषपुष्पैरश्वां अशोकपुष्पैः सुवर्णं व्याधिघातकपुष्पैर्वस्त्राणि लभते / यद् यदिच्छति तत् सर्वं जातीकुसुमहोमेन करोति / यद्वर्णानि पुष्पाणि पानीये जुहोति सवितुरुदये / तद्वर्णानि वस्त्राणि लभते / सप्तजप्तं भाजनं कृत्वा भिक्षामटति भिक्षामक्षयां लभते / रात्र्यामुत्थाय परिजप्यात्मानं स्वयं शोभनानि स्वप्नानि पश्यति //

अथ राजानं वशीकर्तुकामः तस्य पादपांसुं गृहीत्वा सर्षपैस्तैलैश्च मिश्रयित्वा जुहुयात् / सप्ताहं त्रिसन्ध्यं वश्यो भवति //

राज्ञीं वशीकर्तुकामः सौवर्चलां शतपुष्पां वाराहीं चैकतः कृत्वा जुहुयात् / सप्तरात्रं त्रिसन्ध्यं वश्या भवति / राजमात्यं वशीकर्तुकामः भल्लातकानां तिलां वचां च प्रतिकृतिं कृत्वा जुहुयात् / सप्ताहं सप्तरात्रं च वश्यो भवति / पुरोहितं वशीकर्तुकामः ब्रह्मदण्डीं शतपुष्पां चैकतः कृत्वा जुहुयात् / सप्तरात्रं त्रिसन्ध्यं वश्यो भवति / ब्राह्मणानां वशीकर्तुकामः, पायसं घृतसहितं जुहुयात् / सर्वे वश्या भवन्ति / अथ क्षत्रियं वशीकर्तुकामः, शाल्योदनं घृतसहितं जुहुयात् / सप्ताहम् / वैश्यानां वशीकरणे यावकां गुडसहितां जुहुयात् / वश्यो भवति / पिण्याकं जुहुयात् / शूद्रा वश्या भवन्ति / सर्वानेकतः कृत्वा जुहुयात् सर्वे वश्या भवन्ति / चतुःपथे एकशून्ये गृहे वा बलिं निवेद्य यो ऽस्य ग्लानः स तस्माद् विनिर्मुक्तो भवति //

मुखं स्पृशं जपे ज्वरमपगच्छति / अष्टशतजप्तेन शिखाबन्धेन सर्वव्याधिभ्यः परिमुच्यते / सर्वरोगेभ्यः मूश्रकं बध्वा शिखा बन्धं कृत्वा स्वप्तव्यं / सर्वरोगा अपगच्छन्ति / व्याधिना ग्रस्तः जपमात्रेण मुच्यते / गलग्रहे वल्मीकमृत्तिकां जप्त्वा लेपः कार्यः / व्याधिरपगच्छति / अक्षिरोगे नीलीकलिकानि जुहुयात् / व्युपशाम्यति // पटविधानस्यार्तरिकर्म्मः //

पूर्वोक्तेन विधानेन अनाहते पटे केशापगते आर्यमञ्जुश्रीः कुमारभूतः आभिलेख्यः सर्वालङ्कारविभूषितः / रक्तवर्णः कुमाररूपी पद्मासनस्थः / दक्षिणपार्श्वे अर्यावलोकितेश्वरः वामपार्श्वे समन्तभद्रः / आर्यमञ्जुश्रियस्य किञ्चिदूनौ / तं पटं स्थापयित्वा कोटिं जपेत् / राजा भवति / चन्दनसमिधानां कुङ्कुमाभ्यक्तानां लक्षं जुहुयात् / राजा भवति / अगरुसमिधानां दधिमधुघृताक्तानां लक्षं जुहुयात् / राजा भवति / जातीकुसुमानां घृताक्तानां कोटिं जुहुयात् / राजा भवति //

यत्प्रमाणानां पद्मानां राशिं जुहोति तत्प्रमाणानां दीनाराणा राशी लभते / यावद् यावत् तावज्जप्यमानां न गृह्णाति तावद् विद्याधरचक्रवर्ती भवति / भल्लातकानां लक्षं जुहुयात् दीनारसहस्रं ददाति / व्याधिघातकफलानां लक्षं जुहुयात् महाधनपतिर्भवति / अष्टसहस्रहोमेन गुग्गुलुसमिधानां धान्यं लभते / सतततिलहोमेनाव्यवच्छिन्नं धान्यं लभते / गोतण्डुलानां लक्षं जुहुयात् / सह दध्ना गोसहस्रं लभते / बहुपुत्रिकाफलानि शमीफलानि चैकतः कृत्वा जुहुयात् / यामिच्छति कन्यां तां लभते / शमीपत्राणि जुहुयात् / सर्वकामदो भवति / अगस्तिपुष्पाणि क्षीराक्तानि जुहुयात् / ब्राह्मणवशीकरणा / करवीरपुष्पाणि शुक्लानि जुहुयात् / क्षत्रियवशीकरणे / कर्णिकारपुष्पाणि जुहुयाद्राजा वशीकरणे / धुत्तूरकपुष्पाणि जुहुयात् / शूद्रवशीकरणे / अर्कपुष्पाणां दधिमधुघृताक्तानां लक्षं जुहुयात् / सर्वव्याधिभ्यः परिमुच्यते //

अनेनैव विधिना पुष्पाणां सुगन्धानां लक्षं पादमूले निवेदयेत् / नित्यसुखी भवति / अश्वत्थसमिद्भिरग्निं प्रज्वाल्य शमीपुष्पाणां सहस्रं जुहुयात् / नक्षत्रपीडा व्युपशाम्यति / गोरोचनया मन्त्रमभिलेख्य शिरसि बध्वा सङ्ग्रामे ऽवतरेत् / शस्त्रैर्न स्पृश्यते / हस्तिस्कन्धे मञ्जुश्रियमग्रतो बलस्य दत्त्वा दर्शनमात्रेणैव परबलस्य भङ्गो भवति / ध्वजाग्रे कुमाररूपिणं सौवर्णमयूरासनस्थं कृत्वा सङ्ग्राममवतरेत् / दर्शनादेव परबलस्य भङ्गो भवति / जातीकुसुमानां पादमूले लक्षं निवेदयेत् / तत्रैव कुशसंस्तरे शय्यां कुर्वीत / स्वप्ने यथाभिलषितं कथयति / प्रदीपानां सहस्रं दत्त्वा एकप्रदीपं पद्मसूत्रवर्त्तिं कृत्वा मधुयष्टिं वेष्टयित्वा प्रज्वाल्य पश्येद् यथाभूतं मञ्जुश्रियं कुमारभूतं पश्यति // द्वितीयं पटविधानं समाप्तम् /

सौवर्णं रजतं वा कुमारं कृत्वा वरदं दक्षिणेन पाणिना / वामेन भगवतीं प्रज्ञापारमितां दधानं तमीदृशं सधातुककरण्डकं पुरतः स्थाप्याक्षरलक्षं जपेत् / पूजां वासरिणां कुर्यात् / बालदारकदारिकाश्चास्याग्रतो भोजयितव्या / गीतं वादितं पुस्तकवाचनं चाकुर्यात् / जपपरिसमाप्तौ पुष्पत्रयेणार्घं दत्वा प्रेषयेत् / पूर्वोक्तेन विधानेनावाहनविसर्जनं पद्ममुद्रां बध्वा जापं कुर्यात् / ध्वजमुद्राया आवर्त्तनं स्वस्तिकमुद्रया आसनं पूर्णमुद्रायार्घं एकलिङ्गमुद्रायां पुष्पाणि मनोरथमुद्रायां प्रदीपं यमलमुद्राया धूपं मयूरासनमुद्राया गन्धं यष्टिमुद्राया बलिं अनेन विधानेन रात्रौ दिनेदिने कुर्याद् यावज्जापपरिसमाप्तिरिति / पश्वात् कर्माणि कुर्यात् //

जातीकुसुमानां समुद्रगामिन्यां नद्यां लक्षं प्लावयेत् / विषयं लभते / रात्रौ जातिकुसुमौघं कृत्वा भगवतः पुरतः स्वपेत् / भगवन्तं पश्यति धर्म देशयमानं बोधिसत्त्वपरिवृतं यमुद्दिश्य करोति तदेव कम कुर्यात् / नान्यस्य कुर्यात् / उपोषधिकेन शुक्लप्रतिपदमारभ्य श्रीवासकधूपं मधुमिश्रं जुहुयात् राज्यं लभते / कोटिं जपेत् मञ्जुश्रियं स्वयमेव पश्यति धर्मदेशनां च करोति / यदि केनचित् सहोल्लापयति सम्मुखमवभाषते अवैवर्त्तिकश्च बोधिसत्त्वो भवति // तृतीयं विधानम् //

रक्तचन्दनमयं कुमाररूपिणं एकेन पार्श्वेन प्रियंकरं अन्येन वीरमती साशोकवृक्षाश्रयां कारयेत् / तमेकपार्श्वे स्थापयित्वा लवणसर्वपराजिकाव्यामिश्रेण रक्तचन्दनप्रतिकृतिं कृत्वा च्छित्वा च्छित्वा जुहुयाद् यस्य नाम्ना स वश्यो भवति / उदुम्बरफलानि यस्य नाम्ना जुहुयात् स वश्यो भवति / काकोदुम्बरिकाफलानि जुहुयाद् यस्य नाम्ना स वश्यो भवति / शृङ्गाटकं जुहुयात् ब्राह्मणवशीकरणे पद्ममूलानि क्षत्रियवशीकरणे कशेरुकाणि जुहुयात् / वश्यवशीकरणे शालूकानि जुहुयात् / शूद्रवशीकरणे लवणशर्कराणामष्टसस्रं जुहुयात् / त्रिसन्ध्यं सप्ताहं यस्य नाम्ना जुहोति स वश्यो भवति / निम्बपत्राणि कटुतैलाक्तानि जुहुयात् आहुत्याष्टसहस्रं त्रिसन्ध्यं सप्ताहं यस्य नाम्ना स वश्यो भवति / सर्वेण होमेन वशीकरणम् / बृहतीकुसुमानां लक्षं जुहुयात् सुवर्णं लभते / कालाञ्जनिकाकुसुमानामष्टसहस्रं जुहुयात् महान्तं ग्रामं लभते / पाटलपुष्पाणि जुहुयाद् धान्यमक्षयं लभते / श्रीपर्णीपुष्पाणि जुहुयात् सुवर्ण लभते / वचां दधिमधुघृताक्तां जुहुयात् सर्ववादेषूत्तरवादी भवति / ब्राह्मीरसघृतसहितं ताम्रभाजने स्थापयित्वा तावज्जपेद् यावद् दशसहस्राणि पश्चात् पिबेत् सर्ववादिनो विजयते / यस्य क्रुद्धस्याष्टसहस्राभिमन्त्रितं कृत्वा लोष्टं क्षिपेत् पुरतः स क्रोधं मुञ्चति // चतुर्थं विधानम् /

अनाहते पटे केशापगते उपोषधिकेन चित्रकरेण अश्लेषकैर्वर्णकैः आर्यमञ्जुश्रियश्चित्रापयितव्यः / पद्मासनोपविष्टं धर्मं देशयमानं दर्क्षिणपार्श्वे आर्यमहामेखला वामपार्श्वे चार्यप्रज्ञापारमिता जापवती सर्वालङ्कारविभूषिता शुक्लवस्त्रनिवसना / तस्याधस्तात् पद्मसरः, बहुविधपुष्पसङ्कीर्णः नागराजानौ अकायविनिर्गतौ पद्मदण्डधृतहस्तौ आर्यापराजिता चैकस्मिं विघ्नविनायकां नाशयन्ती अग्निज्वालामुखी भृकुटीकृतलोचनां अन्यस्मिं पार्श्वे आर्यपर्णशबरी पाशपरशुव्यग्रहस्ता कृष्णरक्तनेत्रा मयूरपृष्ठभिरूढा साधकं परिरक्षन्ती / साधकश्च पद्ममालाव्यग्रहस्तः भगवतो मञ्जुश्रियमुखं व्यवलोकयमानः उपरिष्टाच्चामरपुष्पमालादुन्दुभिधारिणौ देवपुत्रौ लेखयितव्यौ //

तं पटं पश्चान्मुखं स्थाप्य सधातुके चैत्ये कोटिं जपेत् / जपान्ते च महतीं पूजां कृत्वा भगवतीं प्रज्ञापारमितां वाचयित्वा दशसहस्राणि जपेत् / मञ्जुश्रियो मुखं व्यवलोकयमानः / पश्चात् पटं कम्पते / राज्यं लभते / चक्षुश्च लभते / विद्याधरो भवति / हसते चक्रवर्त्ती भवति / भाषणे बोधिसत्त्वः प्रथमभूमिप्रतिलब्धो भवति / धर्मदेशनां चास्य शृणोति //

तस्यैव पटस्याग्रतः कपिलायाः समानवत्सायाः गोघृतं गृह्य ताम्रभाजने स्थाप्य तावज्जपेद् यावदूष्मायति / धूमायति / प्रज्वलति / ऊष्मायमानं पीत्वा परममेधावी भवति / श्रुतिधरः धूमायमाने ऽन्तर्द्धानम् ज्वलमाने आकाशगमनम् / आमशरावसम्पुटे स्थाप्य वचां जातीकुसुमैर्वेष्टयित्वा तावज्जपेद् यावदङ्कुरीभवति / तां भक्षयित्वा श्रुतिधरो भवति / अन्यां कोटिं जपेत् मञ्जुश्रियं साक्षात् पश्यति / धर्मदेशनां च शृणोति / तां चाधिमुच्यते //

सौवर्णपद्मं शतपत्रं कारयित्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य तावज्जपेद् यावज्ज्वलतीति / तेन गृहीतमात्रेण विद्याधराणां चक्रवर्ती भवति परैरधर्षणीयः / मनःशिलां हरितालमञ्जनं वा श्रीपर्णीसमुद्गके प्रक्षिप्य तावज्जपेद् यावत् खुट्खुटाशब्दं करोति / गृहीतमात्रेण भूमिचराणां राक्षसपिशाचानामधिपतिर्भवत्यधृष्यः / खड्गं गृह्य सल्लक्षणसङ्कीर्णं अव्रणं तावज्जपेद् यावदहिरिव फणं कृत्वा तिष्ठति / तं गृह्य विद्याधरचक्रवर्ती कल्पायुरधृष्यः / मनःशिलां तृलोहपरिवेष्टितां कृत्वा मुखे प्रक्षिप्य तावज्जपेद् यावच्चुलुचुलायतीति / अदृश्यो भवति / खड्गहर्ता अदृश्यः सर्वाणि कुशलोपसंहितानि करोति / वर्जयित्वा कामोपसंहितम् / शमीवृक्षरूढस्याश्वत्थस्य सारं गृह्य तृलोहपरिवेष्टितं कृत्वा मुखे प्रक्षिप्य तावज्जपेद् यावच्चुलुचुलायति / अधृष्यो भवति वर्षसहस्रं जीवति / रजतं चक्रं कृत्वा असुरविवरस्याग्रतः तावज्जपेद् यावच्चक्रं असुरजन्त्राणि भित्त्वा प्रविशति / तत्क्षणमेवासुरयुवतयो निर्गच्छन्ति / ताभिः सह प्रविश्य कल्पस्थायी भवति / लोहमयं तृशूलं कृत्वा तस्मिं विवरद्वारे जापं करोति तत्र सर्वयन्त्राणि स्फुटन्ति / यावद्भिः सहेच्छति तावद्भिः सह प्रविशति / कल्पस्थायी भवति / मैत्रेयं च भगवन्तं पश्यति // पञ्चमं पटविधानम् //

श्वेतार्कमयं अङ्गुष्ठमात्रं भगवन्तं मञ्जुश्रियं कारयित्वा अर्कपुष्पाणां लक्षं निवेदयेत् / सामन्तराज्यं प्रतिलभते / श्वेतकरवीरमूलमयं कृत्वा अङ्गुष्ठमात्रमेव तत्पुष्पाणामेकां कोटिं निवेदयेत् मन्त्री भवति / करहाटवृक्षमयं वितस्तिप्रमाणमात्रं कारयित्वा तत्पुष्पाणां लक्षं निवेदयेत् / सेनापत्यं लभते / श्वेतचन्दनमयं वितस्तिप्रमाणमात्रं भगवन्तं मञ्जुश्रियं कृत्वा जातीकुसुमानां लक्षं निवेदयेत् / पुरोहित्यं लभते / अश्वत्थवृक्षमयं अङ्गुलमात्रप्रमाणं भगवन्तं मञ्जुश्रियं कारयित्वा अकाकोलीने पानीयकुम्भं निवेदयेत् / बहुजनसम्मतो भवति / सर्वगन्धमयं कृत्वा सर्वगन्धपुष्पैर्निवेदितैः यमिच्छति तमाप्नोति / सतत्तसमितमगरुसमिधानां जुहुयात् मन्त्री बहुजनस्य सम्मतो भवति / सततजापेन पञ्चानन्तर्याणि विक्षिपयति / मरणकाले मञ्जुश्रियं पश्यति / धर्मदेशनां चास्य करोति / उत्थायोत्थाय अष्टशतं जपेत् सर्वसत्त्वानामधृष्यो भवति / अक्षिणी परिजप्य स्वामिनं पश्येत् / प्रसादवां भवति / यमुद्दिश्य कर्मकरो तत्रस्थं सप्तभिर्दिवसैः ग्रामान्तरस्थं एकविंशतिभिर्दिवसैः विषयान्तरस्थं चतुर्भिः मासैः नद्यन्तरितं षड्भिर्मासैः स्वकुलविधानेनान्यमन्त्रविधानेन चाशेषं कर्मं करोति वर्जयित्वा कामोपसंहितम् / आभिचारुकं चेति // षष्ठो विधानः /

इत्युक्तं युगान्तेहितं + + + + + + तथा / सत्त्वानामल्पपुण्यानां हितार्थं मुनिना पुरा // mmk_28.1 //

शासनान्तर्हिते शास्तुः शाक्यसिंहस्य तापिने / सिद्धिं यास्यते तस्मिं काले रौद्रे ऽतिभैरवे // mmk_28.2 //

सप्तमं वक्ष्यते ह्यत्र कल्परात्रे सुखावहे / ममैतत् कथितं कल्पं तस्मिं काले सुदारुणे // mmk_28.3 //

सत्त्वानामल्पपुण्याणां मार्गो ह्येष प्रवर्तितः / बोधिसम्भारहेतुत्वं त्रियानपथनिम्नगम् // mmk_28.4 //

उपायकौशल्यसत्त्वानां दर्शयामि तदा युगे / तृष्णामूढा हि वै सत्त्वा रागद्वेषसमाकुला // mmk_28.5 //

तेषां दर्शयाम्येतं मार्गं तृष्णावशानुगम् / तृष्णाबन्धनबद्धास्तु कुशलं वा कर्महेतुतः // mmk_28.6 //

सिद्धिसाध्यं तथा द्रव्यं मन्त्रतन्त्रं समोदितम् / विनयार्थं तु सत्त्वानां कथितं लोकनायकैः / एतत् कर्मस्य माहात्म्यं साधकानां तु जापिनाम् // mmk_28.7 //

इत्युक्त्वा मुनिवरो ह्यग्र शाक्यसिंहो नरोत्तमः / कथित्वा मन्त्रतन्त्राणां बलं वीर्यं सविस्तरम् // mmk_28.8 //

अमोघं दर्शयेत् सिद्धिं तस्मिं काले युगाधमे / शुद्धावासं तदा वव्रे देवसङ्घा जिनोत्तमो // mmk_28.9 //

यमेतन्मार्षा प्रोक्तं कल्पराजं सविस्तरम् / सवलोकहितार्थाय मञ्जुघोषस्य शासनमिति // mmk_28.10 //

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् षड्विंशतिमः कर्मविधानार्यमञ्जुश्रीयपरिवर्त्तपटलविसरः परिसमाप्त इति /

अथैकोनत्रिंशः पटलविसरः / अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / अस्ति मञ्जुश्रीः त्वदीये कल्पविधानपरिवर्ते सप्तमः पटकर्मविधानं यो तस्मिं काले तस्मिं समये युगान्ते साधयिष्यन्ति अमोघा तस्य सिद्धिर्भविष्यति / सफलाः सुखोदयाः सुखविपाकाः दृष्टधर्मवेदनीया सर्वदुर्गतिनिवारणीया नियतं तस्य बोधिपरायणीया सिद्धिर्भविष्यति //

अथ भगवां शाक्यमुनिः मञ्जुश्रियस्य कुमारभूतस्य हृदयं भाषते स्म -

षडक्षरं षड्गतिमोचनात्मकं अचिन्त्यतुल्याप्रतिमं महर्द्धिकम् / विमोचकं सर्वभवार्णवार्णवं तृदुःखदुःखा भवबन्धबन्धनात् // mmk_29.1 //

असह्यं सर्वभूतानां सर्वलोकानुलिप्तकम् / अधृष्यं सर्वभूतानां भवमार्गविशोधकम् // mmk_29.2 //

प्रापकं बुद्धधर्माणां सर्वदुष्टनिवारणम् / अनुमोदितं सर्वबुद्धैस्तु सर्वसम्पत्तिकारकम् / उत्कृष्टः सर्वमन्त्राणां मञ्जुघोषस्य शासने // mmk_29.3 //

कतमं च तत् / ओम् वाक्येद नमः //

अस्य कल्पं भवति / शाकयावकभिक्षभैक्षाहारो वा त्रिःकालस्नायी त्रिचेलपरिवर्त्ती अक्षरलक्षं जपेत् / पूर्वसेवा कृता भवति //

ततः अच्छिन्नाग्रदशके पटे पोषधिकेन चित्रकरेण अश्लेषकैर्वर्णकैः आर्यमञ्जुश्रीश्चित्रापयितव्यः पद्मासनस्यो धर्मं देशयमानः सर्वालङ्कारविभूषितः कुमाररूपी मुक्तोत्तरासङ्गः तस्य वामेन आर्यावलोकितेश्वरः पद्महस्तः चामरव्यग्रहस्तः दक्षिणेन आर्यसमन्तभद्रः उपरि मेघगर्भविनिर्गतौ विद्याधरौ मालाधारिणौ लिखापयितव्यौ अधस्तात् साधको धूपकटच्छकव्यग्रहस्तः समन्तात् पर्वतशिखरा लिखापयितव्या / अधस्तात् पद्मसरः //

सधातुके चैत्ये पटं पश्चान्मुखं प्रतिष्ठाप्य उदारां पूजां कृत्वा घृतप्रदीपांश्च प्रज्वाल्य जातीपुष्पाणां अष्टसहस्रेण एकैकमभिमन्त्र्य मञ्जुश्रीमुखे ताडयेत् / ततो महागम्भीरहुङ्कारशब्द श्रूयते / पटो वा प्रकम्पते / हुङ्कारशब्देन सार्वभौमिको राजा भवति / पतप्रकम्पने सर्ववादिषुत्तरवादी भवति / सर्वलोकैकशास्त्रज्ञः / अथ न सिद्ध्यति सर्वकर्मसमर्थो भवति // अयं प्रथमः कल्पः /

अगरुसमिधानामध्यर्द्धमङ्गुलप्रमाणानां निर्धूमेषु खदिराङ्गारेषु कृत्स्नां रात्रिं तुरुष्कतैलाक्तानां जुहुयात् / अरुणोदये आर्यमञ्जुश्रियं पश्यति / सो ऽस्य यथेप्सितं वरं ददाति / वर्जयित्वा कामोपसंहितम् //

तस्यैव पटस्याग्रतः चन्दनधूपमव्यवच्छिन्नं दहं कृत्स्नां रात्रिं जपेत् / ततः आर्यमञ्जुश्रीः (वैद्य 250) साक्षामागच्छति गम्भीरां धर्मां देशयति / तामधिमुच्यति / अधिमुच्य सर्वव्याधिविनिर्मुक्तः वशिता प्राप्तो भवति //

रक्तचन्दनमयं पद्मं कृत्वा षडङ्गुलपरिणाहं सनालं रक्तचन्दनेन म्रक्षयित्वा सहस्रं सम्पाताहुतं सहस्राभिमन्त्रितं कृत्वा पूर्णमास्यां पटस्याग्रतः पद्मपत्रे स्थाप्य हस्तेनावष्टभ्य तावज्जपेद् यावत् प्रज्वलित इति / तेन गृहीतेन द्विरष्टवर्षाकृतिः तप्तकाञ्चनप्रभः भास्करस्योपिरकेतेजा देवकुमारः सर्वविद्याधरनमस्कृतः महाकल्पं जीवति / भिन्ने देहे भिरत्यामुपपद्यते //

चन्द्रग्रहे श्वेतवचां गृह्यं पञ्चगव्येन प्रक्षाल्य अश्वत्थपत्रैरवष्टम्भयित्वा तावज्जपेद् यावदूष्मायति धूमायति ज्वलति / सर्वजनवशीकरणः सर्ववादिविजयी धूमायमाने अन्तर्द्धानं त्रिंशद्वर्षसहस्राणि जीवति / ज्वलिते आकाशगमनं महाकल्पं जीवति //

कपिलायाः समानवत्सायाः घृतं गृह्य ताम्रभाजनं सप्तभिरश्वत्थपत्रैः स्थाप्य तावज्जपेद् यावत् त्रिविधा सिद्धिरिति / तं पीत्वा श्रुतिधरमन्तर्धानाकाशगमनमिति //

पुष्करबीजं मुखे प्रक्षिप्य चन्द्रग्रहे तावज्जपेद् यावच्चुलुचुलायति / त्रिलौहपरिवेष्टितं कृत्वा मुखे प्रक्षिप्यान्तर्हितो भवति / उद्गीर्णायां दृश्यति //

लवङ्गगन्धं मुखे प्रक्षिप्य षड्लक्षं जपेत् / यमालपति स वश्यो भवति / क्षीरयावकाहारः लक्षं जपेद् विद्याधरो भवति / भिक्षाहारः काष्ठमौनी लक्षं जपे अन्तर्हितो भवति / कोटिं जपेदार्यमञ्जुश्रीस्तथा धर्मं देशयति यथा चरमभविको बोधिसत्त्वः भवति / सतत जापेन सर्वार्थवृद्धिर्भवति //

सर्वगन्धैर्यस्य प्रतिकृतिं कृत्वा च्छित्वा जुहोति स सप्तरात्रेण वश्यो भवति / गुग्गुलुगुलिकानां बदरास्थिप्रमाणानां घृताक्तानां शतसहस्रं जुहुयात् दीनारलक्षं लभति //

समुद्रगामिनीं नदीमवतीर्य पद्मानां शतसहस्रं निवेदयेत् / पद्मराशितुल्यं महानिधानं पश्यति / क्षयं न गच्छति / गौरसर्षपाणां कुङ्कुमाभ्यक्तानां अष्टसहस्रं जुहुयात् / राजा वश्यो भवति / तिलानां दधिमधुघृताक्तानां शतसहस्रं जुहुयात् / सर्वन्ददो महागृहपतिर्भवति / अपतितगोमयेन मण्डलकं कृत्वा मुक्तपुष्पैरभ्यवकीर्याष्टशतं जपेत् / ततः सद्धर्मपुस्तकं वाचयेत् / मासेन परममेधावी भवति / रोचनाष्टशतं कृत्वा तिलकं कुर्यात् / सर्वजनप्रियो भवति / शिखां सप्तजप्तां कृत्वा सर्वसत्त्वानामावध्यो भवति / किरिमालं दशसहस्राणि जुहुयात् / सर्वव्याधिर्मुच्यते / दिनेदिने सप्तवारां जपेत् / नियतवेदनीयं कर्म क्षपयति अथाष्टशतजपेन मरणकालसमये समस्तं सम्मुखं आर्यमञ्जुश्रियं पश्यतीति //

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् सप्तविंशतिमः मञ्जुश्रीपटविधानपरिवर्तकर्मविधिः सप्तमकपटलविसरः परिसमाप्तमिति // अथ त्रिंशः पटलविसरः / अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / अस्ति मञ्जुश्रीः त्वदीयमन्त्रतन्त्रे विद्याराज्ञां चक्रवर्त्तिप्रभृतीनां सर्वतथागतोष्णीषप्रमुखानां सर्वमन्त्राणां सिद्धिस्थानानि भवन्ति / तत्रोत्तरापथे सर्वत्र ताथागती विद्याराज्ञः सिद्धिं गच्छन्ति संक्षेपतः //

चीने चैव महाचीने मञ्जुघोषो ऽस्य त्रस्यति / ये च तस्य मन्त्रा वै सिद्धिं यास्यन्ति तत्र वै // mmk_30.1 //

उष्णीषराज्ञां सर्वत्र सिद्धिर्दृश्येयु तत्र वै / काविशे वखले चैव उदियाने समन्ततः // mmk_30.2 //

कश्मीरे सिन्धुदेशे च हिमवत्पर्वतसन्धिषु / उत्तरां दिशि निःसृत्य मन्त्रा सिद्ध्यन्ति श्रेयसाः // mmk_30.3 //

ये च गीता पुरा बुद्धैः अधुना च प्रवर्त्तिता / अनागता च सम्बुद्धैः उद्गीर्णा शान्तिहेतवः // mmk_30.4 //

सर्वे वै तत्र सिद्ध्यन्ति हिमाद्रिकुक्षिसम्भवे / जनपदे श्रेयसे भद्रे शान्तिं कर्तु समारभे // mmk_30.5 //

मध्यदेशे तथा मन्त्राः सिध्यन्त्येते पद्मसम्भवा / गजोमानिकुले चापि सिद्धिस्तत्र प्रदृश्यते // mmk_30.6 //

पञ्चिकस्य च यक्षस्य हारीत्या यक्षयोनिजा / गान्धर्वा ये तु मन्त्रा वै सिद्धिस्तेषां समोदिता // mmk_30.7 //

काशिपुर्यां ततो नित्यं मगधेषु समन्ततः / अङ्गदेशे तथा प्राच्यां कामरूपे समन्ततः // mmk_30.8 //

लौहित्यां तु तटे रम्ये वङ्गदेशेषु सर्वतः / जम्भलस्य भवेत् सिद्धि तथा मणिकुलोदिते // mmk_30.9 //

समुद्रतीरे द्वीपेषु सर्वतत्र जलाश्रये / सिंहलानां पुरी रम्या सिद्ध्यन्ते मन्त्रदेवता // mmk_30.10 //

भृकुटी चैव + + + महाश्रिया यशस्विनी / सिताख्याः सर्वमन्त्रास्तु चतुःकुमार्या महोदधौ // mmk_30.11 //

सिध्यन्ते तत्र वै स्थाने पूर्वदेशे समन्ततः / विन्ध्यकुक्षिनिविष्टाश्च अग्रेन्द्रे च समन्ततः // mmk_30.12 //

कार्तिकेयो ऽथ मञ्जुश्रीः सिद्ध्यन्ते च समन्ततः / शृङ्गारगह्वरः कुक्षाद्रेः कन्दरे च सकानने // mmk_30.13 //

सिद्धिर्विनायकां तत्र विघ्नकर्ता सजापिनाम् / हस्ताकारसमायुक्तानेकदन्तां महौजसाम् // mmk_30.14 //

अश्वरूपा तथानेका + + + कारशालिनाम् / ईशानस्य सुतां दिव्यां विविधां विघ्नकारकाम् // mmk_30.15 //

तत्प्रोक्ता मन्त्रयुक्तांश्च सिद्धिक्षेत्रं प्रदृश्यते / मातरा विविधाकारां ग्रहांश्चैव सुदारुणाम् // mmk_30.16 //

प्रेतायोनिसमादिष्टा मानुषाहारनैर्रृताम् / प्रेतराज्ञः समादिष्टं सिद्धिक्षेत्रं ततोदितम् // mmk_30.17 //

तदाद्यात् सर्वभूतानां सिद्धिक्षेत्रं समादिशेत् / वज्रक्रौञ्चो महावीर्यः सिद्ध्यन्ते तत्र वै दिशे // mmk_30.18 //

आसुरा मन्त्रमुख्यास्तु ये चान्ये लौकिकास्तथा / सिद्ध्यन्ते तत्र मन्त्रा वै दक्षिणां दिशिमाश्रिताः // mmk_30.19 //

प्रेतराज्ञस्तथा नित्यं यमस्यैव विनिर्दिशेत् / सिद्ध्यन्ते जात्यमन्त्रांस्तु सशैवा च सवैष्णवा // mmk_30.20 //

क्रूराश्चाक्रूरकर्मेषु क्षेत्रमादिष्वदक्षणम् / वज्रपाणिसमादिष्टा मन्त्राः क्रूरकर्मिणः // mmk_30.21 //

दक्षिणापथमासृत्य सिध्यन्ते पापकर्मिणाम् / अशुभं फलनिष्फत्तिं दृश्यते तत्र वै दिशे // mmk_30.22 //

आदित्यभाषिता ये मन्त्राः सौम्याश्चैव प्रकीर्तिताः / ऐन्द्रा मन्त्राः प्रसिध्यन्ते पश्चिमे दिशि शोभने // mmk_30.23 //

स्वयं तत्र + सिध्येत यक्षेन्द्रो ऽत्र महर्द्धिकः / धनदः सर्वभूतानां बालिशानां तु मोहिनाम् // mmk_30.24 //

चित्तं ददाति जन्तूनां विधिदृष्टेन हेतुना / सिद्ध्यन्ते पश्चिमे देशे भोगवानर्थसाधकः // mmk_30.25 //

धनदो नाम नामेन विश्रुतो ऽत्र महीतले / वज्रपाणिः स्वयं यक्षः बोधिसत्त्वो महर्द्धिकः // mmk_30.26 //

मन्त्रमुख्यो वरश्रेष्ठो दशभूमाधिपः स्वयम् / सिद्ध्यन्ते सर्वमन्त्रा वै वज्राब्जकुलसम्भवा // mmk_30.27 //

तथाष्टकुलिका मन्त्रा अष्टभ्यो दिक्षु निश्रिता / उत्तरायां दिशि सिध्यन्ते मन्त्रा वै जिनसम्भवा // mmk_30.28 //

पूर्वदेशे तथा सिद्धिः मन्त्रा वै पद्मसम्भवा / दक्षिणापथनिशृत्य सिध्यन्ते कुलिशालयाः // mmk_30.29 //

पश्चिमेन गजः प्रोक्ता विदिशे मणिकुलस्तथा / पश्चिमे चोत्तरे सन्धौ सिद्धिस्तेषु प्रकल्पिता // mmk_30.30 //

पश्चिमे दक्षिणे चापि सन्धौ यक्षकुलस्तथा / दक्षिणे पूर्वदिग्भागे श्रावकानां महौजसाम् // mmk_30.31 //

कुलाख्यं तेषु दृष्टं वै तत्र स्थानेषु सिध्यति / पूर्वोत्तरे दिशाभागे प्रत्येकानां जिनसम्भवम् // mmk_30.32 //

कुलाख्यं बहुमतं लोके सिद्धिस्तेषु तत्र वै / अधश्चैव दिशाभागे सिध्यन्ते सर्वलौकिका // mmk_30.33 //

पातालप्रवेशिका मन्त्रा वै सिध्यन्ते ऽष्टकुलेषु च / लोकोत्तरा तथा मन्त्रा उष्णीषाद्याः प्रकीर्तिताः // mmk_30.34 //

सिद्धिमायान्ते ते ऊर्ध्वं चक्रवर्तिजिनोदिता / दिक्समन्तात् सर्वत्र वज्रिणस्य तु सिद्ध्यति // mmk_30.35 //

तथान्ये मन्त्रराट् सर्वे अब्जयोनिसमुद्भवा / सिद्ध्यन्ते सर्वदा सर्वे सर्वेमन्त्राश्च भोगदा // mmk_30.36 //

सिद्ध्यन्ते सर्वकाले ऽस्मिं वज्राब्जकुलयोरपि / एतत् क्षेत्रं तु निर्दिष्टं कालं तत् परिकीर्त्यते // mmk_30.37 //

उत्पत्तेः सर्वबुद्धानां मन्त्रसिद्धि जिनोदिताम् / मध्यकाले तु बुद्धानां अब्जवज्रसमुद्भवाम् // mmk_30.38 //

मन्त्राणामन्यकाले ऽस्मिन् तदन्येषां मन्त्रशालिनाम् / सिद्धिश्च कालतः प्रोक्ता नान्यकाले प्रकीर्त्तिता // mmk_30.39 //

तपसादुत्तमा सिद्धिस्त्रिभिर्जन्यैरवाप्नुयात् / सातत्यजापिनां मन्त्रं तद्भक्तां गतमानसाम् // mmk_30.40 //

प्रसन्नानां जिनपुत्राणां इह जन्मे ऽपि सिध्यति / रत्नत्रये च भक्तानां बोधिचित्तविभूषिताम् // mmk_30.41 //

संवरस्थां महाप्राज्ञं तन्त्रमन्त्रविशारदाम् / मन्त्राः सिद्ध्यन्त्ययत्नेन बोधिसंवरतस्थिताम् // mmk_30.42 //

सत्त्वानां कर्मसिद्धिस्तु आत्मसिद्धिमुदाहृता / सिद्धा एव सदा मन्त्रा असिद्धा सत्त्वमोहिता // mmk_30.43 //

अत एव जिनेन्द्रैस्तु कल्पराज उदाहृतः / सविस्तरकृथा मन्त्रं बुद्धश्रेष्ठो हि सप्तमः // mmk_30.44 //

स वव्रे मुनिमुख्यस्तु बुद्धचन्द्रो महर्द्धिकः / ज्येष्ठं च बुद्धपुत्रं तं मञ्जुघोषो महौजसम् // mmk_30.45 //

शृणु त्वं कुमार मन्त्राणां प्रभावगतिनैष्ठिकम् / यस्मिं काले सदा बुद्धः ध्रियन्ते लोकनायकाः // mmk_30.46 //

तस्मिं काले तदा सिद्धिः उष्णीषाद्यां प्रकीर्त्तिता / चक्रवर्त्तिस्तथा राजा तेजोराशिः प्रकीर्तितः // mmk_30.47 //

सितातपत्रजपोष्णीष बहवः वर्णिता जिनैः / एवमाद्यास्तथोष्णीषाः सिद्ध्यन्ते तस्मिं काले // mmk_30.48 //

चक्रवर्त्तिर्यदा काले जम्बूद्वीपे भविष्यति / धर्मराजा च सम्बुद्धः तिष्ठते द्विपदोत्तमः / तस्मिं काले भवेत् सिद्धिः मन्त्राणां सर्वभाषितामिति // mmk_30.49 //

आर्यमञ्जुश्रियमूलकल्पाद्बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादष्टाविंशतिमः क्षेत्रकालविधिनियमपटलविसरः परिसमाप्तमिति // अथैकत्रिंशः पटलविसरः / अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / शृणु मञ्जुश्रीः कुमारपूर्वनिर्दिष्टं पदं सत्त्वाविष्टानां चरितं शुभाशुभं निमित्तं च वक्ष्ये //

अथ खलु मञ्जुश्रीः कुमारभूतः उत्थायासनाद् भगवतश्चरणयोर्निपत्य मुर्ध्निमञ्जलिं कृत्वा भगवन्तमेतदवोचत् / तत् साधु भगवां वदतु सत्त्वानां परसत्त्वदेहसङ्क्रान्तानामार्यदिव्य एतिसिद्धगन्धर्वयक्षराक्षसपिशाचमहोरगप्रभृतीनां विचित्रकर्मकृतशरीराणां विचित्रगतिनिश्रितानां विविधाकारानेकचिह्नानां मनुष्यामनुष्यभूतानां चित्तचरितानि समयो भगवां समयः सुगतः / यस्येदानी कालं मन्यसे / एवमुक्तो मञ्जुश्रियः कुमारभूतो तूष्णीम्भावेन स्वके आसने तस्थुः अध्येष्य जिनवरं लोकनायकं जिनसत्तमं गौतममिति //

अथ भगवां शाक्यमुनिः सत्त्वानां चित्तचरितनिमित्तज्ञान चिह्नं कालं च भाषते स्म //

परदेहगतः सत्त्वः आकृष्टो मन्त्रयुक्तिभिः / केचिदाहारलोभेन गृह्णन्ते मानुषं भुवि // mmk_31.1 //

अपरे क्रुद्धचित्ता वै पूर्ववैरात्र चापरे / गृह्णन्ते मानुषां लोके भूतलेस्मिं सुदारुणाः // mmk_31.2 //

वीतरागा तथा नित्यं कारुण्यात् समया पुनः / अवतारं मर्त्यलोके ऽस्मिं गृह्णते मानुषां शुभाम् // mmk_31.3 //

प्रशस्तां शुभमव्यङ्गां नराणां वर्णसाधिकाम् / उदयन्तं तथा भानो तेषामावेशमुच्यते // mmk_31.4 //

अवतारास्तेषु काले ऽस्मिं भानोरस्तमने निशा / रात्र्यां च प्रथमे यामे सितपक्षेषु दृश्यते // mmk_31.5 //

प्रशस्ता शुभकर्माणां ये नरा धार्मिकाः सदा / शुचिदक्षसमायुक्ता अवतारस्तेषु दृश्यते // mmk_31.6 //

आविष्टास्तु ततो मर्त्या वीतरागैर्महर्द्धिकैः / शुचिदेशे जने चवै शुभे नक्षत्रतारके / प्रशस्ते दिवसे वारे शक्लपक्षे शुभे ऽहनि // mmk_31.7 //

शुक्लग्रहसंयुक्ते तिथौ पूर्णसमायुते / परिपूर्णे तथा चन्द्रे अवतारं तेषु दृश्यते // mmk_31.8 //

अवतीर्णस्य भवे चिह्नः वीतरागस्य महर्द्धिके / आकाशे तालमात्रं तु पृथिव्यामुत्प्लुत्य तिष्ठते // mmk_31.9 //

पर्यङ्कोपविष्टो ऽसौ दृश्यते नियताश्रये / नानादिव्यमतुल्याद्या ब्राह्मार्कर्णसुखास्तथा // mmk_31.10 //

वदते ऽसौ महासत्त्वो यत्रासौ पीडधियोस्थितः / उष्णीषमुद्रैराकृष्टः पतते ऽसौ महीतले // mmk_31.11 //

महीमस्पृश्यतस्तिष्ठेदर्घं दद्यात्तु तत्क्षणात् / जातीकुसुमसन्मिश्रं श्वेतचन्दनकुङ्कुमम् // mmk_31.12 //

मिसृतं उदकं दद्यादर्घं पाद्यं तु तत्क्षणम् / प्रणिपत्य महीं मन्त्री अध्येष्ये हितकाम्यया // mmk_31.13 //

अध्येष्टो हि सः सत्त्वो वीतमत्सरचेतसः / वाचं प्रभाषते दिव्यां अनेलां कर्णसुखांस्तथा // mmk_31.14 //

यथेप्सं तु ततः पृच्छे मन्त्रज्ञे हि विशारदः / न भेतव्यं तत्र काले तु मञ्जुघोषं तु संस्मरेत् // mmk_31.15 //

मुद्रां पञ्चशिखां बद्ध्वा अन्यं वोष्णीषसम्भवम् / दिशाबन्धं ततः कृत्वा दित्यूर्ध्वमध एव तु // mmk_31.16 //

ततो ऽसौ सर्ववृत्तान्तमध्यान्तं च प्रवक्ष्यते / आदिमध्यं तथा कालं भूतं तथ्यमनागतम् // mmk_31.17 //

वर्तमानं यथाभूतं आचष्टे ऽसौ महाद्युतिः / अनिमिषाक्षास्तथा स्तब्धः प्रेक्षते ऽसौ भीतविद्विषः // mmk_31.18 //

यस्तेनोदिता वाचा सत्यं तं नान्यथा भवेत् / सिद्धिसाध्यं तथा द्रव्यं योनिं स निचयं गतिम् // mmk_31.19 //

प्रत्येकबोधिमर्हत्वं महाबोधिं नियतं च तत् / बुद्धत्वगोत्रनियतं + + + + + + + + + + + + + // mmk_31.20 //

अगोत्रं चैव कालं वै भव्यसत्त्वमहर्द्धिकम् / सर्वं सो कथये सत्यं समयेनाभिलक्षितः / लक्षणमात्रं कथेद् योगी नान्यकालमुदीक्षयेत् // mmk_31.21 //

एतत्क्षणेन यत् किञ्चित् प्रार्थये सौमनसात्मना / तत् सर्वं लभते क्षिप्रं मन्त्रसिद्धिश्च केवला / प्राप्नुयात् सर्वसम्पत्तिं यथेष्टां चाभिकांक्षितम् // mmk_31.22 //

विसर्ज्य मन्त्री तत् क्षिप्रमर्घं दत्वा तु सम्मताम् / पात्रसंरक्षणां कुर्याद् विधिदृष्टेन कर्मणां // mmk_31.23 //

पतितं देहमत्वा वै शयानं चैव महीतले / उष्णीषमुद्रया युक्तं मन्त्रं चैव जिनोचितम् // mmk_31.24 //

तेनैव रक्षां कुर्वीत मुद्रापञ्चशिखेन वा / स्वस्थदेहस्तदा सत्त्व उच्छिष्टेन महीतले // mmk_31.25 //

सर्वमाविष्टसत्त्वानां रक्षा एषा प्रकल्पिता / अशक्ता दुष्टसत्त्वा वै हिंसितुं पात्रनिश्रिते // mmk_31.26 //

रक्षा च महती ह्येषा जन्तूनां पात्रसम्भवाम् / वाचा तस्य मध्यस्था मध्यदेशे प्रकीर्तिता // mmk_31.27 //

देवयोनिं समासृत्य अकनिष्ठाद्याश्च रूपिणाम् / एते ऽन्ये तानि चिह्नानि दृश्यन्ते रूपसम्भवाम् // mmk_31.28 //

कामधात्वेश्वरा ये तु कामिनांश्चैव दिवौकसाम् / ततो हीना गतिश्चिह्ना वाचा चैव समाधुरा // mmk_31.29 //

ततो भूनिष्पन्ना विमानस्था सदिवौकसाम् / वाचा काशिपुरीं तेषां यक्षाणां च समागधिम् // mmk_31.30 //

अङ्गदेशां तथा वाचा महोरगाणां प्रकीर्त्तिता / पूर्वीं वाचा भवेत् तेषां गरुडानां महौजसाम् // mmk_31.31 //

तथा वङ्गे समा जाता या वाचा तु प्रवर्त्तते / किन्नराणां तथा वाचा सा वाचा परिकल्पिता // mmk_31.32 //

यौद्ध्री वाचा भवेन्नित्यं सिद्धविद्या सखड्गिणाम् / विद्याधराणां तु सा वाचा + + + + + + + + + + + + + // mmk_31.33 //

ऋषीणां तु कामरूपी तु वाचा विश्वरूपिणाम् / पञ्चाभिज्ञं तु सा वाचा ऋषीणां परिकल्पिता // mmk_31.34 //

या तु सामा तटी वाचा या च वाचा हरिकेलिका / अव्यक्तां स्फुटां चैव डकारपरिनिश्रिता // mmk_31.35 //

लकारबहुला या वाचा पैशाचीवाचमुच्यते / कर्मरङ्गाख्यद्वीपेषु नाडिकेसरमुद्भवे // mmk_31.36 //

द्वीपवारुषके चैव नग्नवालिसमुद्भवे / यवद्वीपिवा सत्त्वेषु तदन्यद्वीपसमुद्भवा // mmk_31.37 //

वाचा रकारबहुला तु वाचा अस्फुटतां गता / अव्यक्ता निष्ठुरा चैव सक्रोधां प्रेतयोनिषु // mmk_31.38 //

दक्षिणापथिका वाचा अन्ध्रकर्णाटद्राविडा / कोसलाडविसत्त्वेषु सैहले द्वीपमुद्भवा // mmk_31.39 //

डकारे रेफसंयुक्ता सा वाचा राक्षसी स्मृता / तदन्यद्वीपवास्तव्यैः मानुष्यैश्चापि भाषितम् // mmk_31.40 //

स एष वचनमित्युक्त्वा मातराणां महौजसाम् / पाश्चमी वाच निर्दिष्टा वैदिशीश्चापि मालवी // mmk_31.41 //

वत्समत्सार्णवी वाचा शूरसेनी विकल्पिता / दशार्णवी चापि पार्वत्या श्रीकण्ठी चापि गौर्जरी // mmk_31.42 //

वाचा निर्दिष्टा आदित्याद्यां ग्रहोत्तमाम् / तदन्यां ग्रहमुख्यां तु पारियात्री विकल्पिता // mmk_31.43 //

अर्बुदे सह्मदेशे च मलये पर्वतवासिनाम् / खषद्रोण्यां तु सम्भूते जने वाचा तु यादृशी // mmk_31.44 //

तादृशी वाच निर्दिष्टा कूष्माण्डाधियोनिजम् / शरषस सम्भूता यरलावकमुद्भवा // mmk_31.45 //

घकारप्रथिता या वाचा दानवानां विनिर्दिशेत् / कश्मीरे देशसमुद्भूता काविशे च जनालये // mmk_31.46 //

सर्वे कुलोद्भूता वज्रपाणिकुलोद्भिता / तेषां मन्त्रमुख्यानां सर्वेषां वाचमिष्यते // mmk_31.47 //

तथाब्जमध्यदेशस्था कुलयोनिसमासृता / वाचा गतिचिह्नाश्च दृश्यन्ते अब्जसम्भवा // mmk_31.48 //

पूर्वनिर्दिष्टमेवं स्यात् जिनमन्त्रा विकल्पिता / वीतरागां तु ये चिह्ना ते चिह्ना जिनसम्भवा // mmk_31.49 //

यत्र देशे भवेद् वाचा तत्रस्था गतिचेष्टिता / तदेव निर्दिशेत् सत्त्वं तच्चिह्नं तु सर्वतः // mmk_31.50 //

हिमाद्रेः कुक्षिसंविष्टा गङ्गातीरे तु चोत्तरे / यक्षगन्धर्वऋषयो जने वाचा प्रदृश्यते // mmk_31.51 //

विन्ध्यकुक्ष्यद्रिसम्भूता गङ्गातीरे तु दक्षिणे / श्रीपर्वते तथा शैले सम्भूता ये च जन्तवः // mmk_31.52 //

राक्षसोस्तारकप्रेता विकृता मातरास्तथा / घोररूपा महाविघ्ना ग्रहाश्चैव सुदारुणाम् // mmk_31.53 //

परप्राणहरा लुब्धा तज्जनोद्वाचसम्भवा / तत्र देशे तु ये चिह्ना तद्देशे गतिचेष्टिता // mmk_31.54 //

तद्वाचवाचिनो दुष्टा आविष्टानां विचेष्ठितम् / एते चान्ये च बहवो तच्चेष्टागतिचेष्टिनः // mmk_31.55 //

विचित्राकाररूपाश्च विविधाकारचिह्निता / विविधसत्त्वमुख्यानां विविधा योनिमिष्यते // mmk_31.56 //

एतदाविष्टचिह्नं तु लक्षणं गतिचिह्नितम् / सर्वेषां तु प्रकुर्वीत मानुषाणां सुखावहम् // mmk_31.57 //

रक्षार्थं प्रयोक्तव्या कुमारो विश्वसम्भवः / षडक्षरेणैव कुर्वीत मन्त्रेणैव जापिनः // mmk_31.58 //

महामुद्रासमायुक्तं + + + + + + + + + + + / पञ्चचीरासु विन्यस्तः महारक्षो कृता भविष्यति // mmk_31.59 //

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् एकूनत्रिंशतिमः आविष्टचेष्टविधिपरिवर्तपटविसरः परिसमाप्तः इति // अथ द्वात्रिंशः पटलविसरः / अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / अस्ति मञ्जुश्रीः त्वदीयमन्त्राणां सर्वतन्त्रेषु समनुप्रवेशसर्वविद्यारहस्यमनेककालगुणशकलफलोदयमप्यनुबन्धनिमित्तं प्रमाणतो वक्ष्ये सिद्धिकारणानि / तद्यथा -

जन्मान्तरिता सिद्धिः न सिद्धिः कालहेतुतः / तत्प्रमाणप्रयोगस्तु पूर्वसम्बद्धमुद्भवा // mmk_32.1 //

अहितावहितो सिद्धिः भवेद् युक्तिविचारणम् / त्वत्कुमाराश्रययुक्तिः दृश्यते सर्वदेहिनाम् // mmk_32.2 //

अत्र पूर्वकृतं कर्म युक्तिरित्यभिधीयते / तद्योगे युक्तितः धीरो प्राप्नुयात् सिद्धिमुत्तमाम् // mmk_32.3 //

असिद्धं सिद्ध्यते कर्म न सिद्धिः कर्मणा विना / कर्मकर्तृसमायुक्तं संयुक्तः सिद्धि कल्प्यते // mmk_32.4 //

लिलेभ परमं स्थानं विधियुक्तेन हेतुना / न वव्रे मन्त्रिणा मन्त्रं अमन्त्रो मन्त्रिणो भवेत् // mmk_32.5 //

मौनकर्मसमाचारे सिद्धिमाप्नोति पुष्कलाम् / जापी बीजसमाहार आजहार धियोत्तमम् // mmk_32.6 //

वियतः श्रेष्ठतमं स्थानं प्रथमं गतिमाप्नुयात् / वियताभावतः स्वस्थो प्राप्नुया निर्जरसम्पदम् // mmk_32.7 //

निमित्ता कालतो यस्य अकाले सिद्धिकांक्षिणः / न सिद्धिस्तस्य मन्त्राणां शक्रस्यापि समासतः // mmk_32.8 //

अहितो भूतजन्तूनां अकालाक्रमणः पुनः / न सिद्धिस्तस्य दृश्यते ब्रह्मणस्यापि महात्मनः // mmk_32.9 //

तन्द्रीतृष्णासमायुक्तो मदामानसमन्वितः / शैथिल्योदीर्यमुद्वेक्षी नित्यं प्राव्यजने रतः // mmk_32.10 //

आलस्या मिथुनसंयोगी अस्य सिद्धिः कुतो भवेत् / सुराणां गुरवो यद्य असुराणां च येस्तदा // mmk_32.11 //

ते ऽपि साधयितुं मन्त्रं न शक्तो विधिवर्जितम् / विधिहीनं तथा कर्म चित्तविभ्रमकारकम् // mmk_32.12 //

तस्मात् तं जपेन्मन्त्रं अयुक्तं विधिना विना / बालानां दृष्टिसम्मोहं जनयन्ति तथाविधा // mmk_32.13 //

संमूढास्तु ततो बाला पतन्ते कष्टतमां गतिम् / ततस्ते मन्त्रधरास्तस्मादुज्जहार ततः पुनः // mmk_32.14 //

अनुपूर्व्या ततः सिद्धिं प्रयच्छन्ति शुभां गतिम् / ततो तं जपिनं मन्त्रा स्थापयन्ति शिवाचले // mmk_32.15 //

एवममोघं मन्त्राणां जपमुक्तं तथागतैः / दृष्टिभ्रान्ते ऽपि चित्तस्य अनुग्रहायैव युज्यते // mmk_32.16 //

एते कल्याणमित्रा वै एते सत्त्ववत्सला / एतेषां सिद्धिनिर्दिष्टा त्रियानसमता शिवा // mmk_32.17 //

तस्मात् सर्वप्रयत्नेन जपेन्मन्त्रं समाहितः / अविधिप्रयोगान्मन्त्रा हि प्रयुक्ता मन्त्रजापिभिः // mmk_32.18 //

चिरकालं तु संसारात् कथञ्चिन्मुक्तिरिष्यते / सुचिरात् कालतरं गत्वा मन्त्राणां सिद्धि दृश्यते // mmk_32.19 //

विधियुक्ता हि मन्त्रा वै क्षिप्रं सिद्धिमवाप्नुयात् / पश्यते फलनिष्पत्तिं नाफलं मन्त्रमुच्यते // mmk_32.20 //

इहैव जन्मे सिद्ध्यन्ति मन्त्राः फलसमोदिता / न निष्पत्तिः फलकर्मणां नाफलं कर्ममिष्यते // mmk_32.21 //

फलं कर्मसमायोगात् सफलं कर्म उच्यते / तज्जापी जन्मजनिता वियत्याभावसम्भवः // mmk_32.22 //

शिवं लोकनिर्दिष्टं शान्तभावा विमुच्यते / तद्गतं गतिमाहात्म्यं बुद्धवर्त्मानुसेविनः // mmk_32.23 //

विपरीतकलौ काले सिद्धिस्तस्यापि दृश्यते / इहैव जन्मे भवेत् सिद्धिः जन्मान्ते च प्रवर्त्तते // mmk_32.24 //

यावन्निष्ठा भवेच्छान्ति शिववर्त्ममसंस्कृतम् / यत्तु लोकविनिर्दिष्टं शिवं स्थानं सुनिर्मलम् // mmk_32.25 //

बुद्धत्वं सप्रकाशं तु जनैः सर्वप्रकाशितम् / तदन्तं तस्य अन्तं वै मन्त्रसिद्धिरुदाहृता // mmk_32.26 //

अप्रकाश्यमभावं तु जिनानां प्रत्यात्मसम्भवम् / मन्त्रा तु कथितं लोके मुनिचन्द्रैर्महर्द्धिकैः // mmk_32.27 //

साक्षात् सिद्धि समादिष्टा इह जन्मे ऽपि देहिनाम् / शून्ये तत्वविदे क्षेत्रे मन्त्रा बुद्धत्वमाविशेत् // mmk_32.28 //

अन्ते कलियुगे काले शान्तिं तत्त्वविदे गते / मन्त्रा सिद्धिं न गच्छेयुः क्षिप्रमर्त्थाभिकांक्षिणाम् // mmk_32.29 //

तस्मिं काले प्रयोगेन विधिदृष्टेन कर्मणा / साधयेन्मन्त्रतन्त्रज्ञः शासने ऽस्मिं मुनिर्वचे // mmk_32.30 //

ध्रियते तथागते सिद्धिः उत्तमा क्षिप्रमिष्यते / मध्यकाले तथा सिद्धि मध्यमा तु उदाहृता // mmk_32.31 //

युगान्तं कालमासाद्य अधमा सिद्धिरुच्यते / युगे शोभने काले वियत्योत्पतनं तथा // mmk_32.32 //

सिद्धिश्च सर्वमन्त्राणां निर्दिष्टा लोकनायकैः / तदा काले जिनेन्द्राणां कुलाग्र्यं तत् प्रसिध्यति // mmk_32.33 //

मध्ये पद्मकुले सिद्धिः युगान्ते वज्रकुलस्य तु / प्रणिधानवशात् केचित् मन्त्रा सिद्ध्यन्ति सर्वदा // mmk_32.34 //

अवलोकितेशो मञ्जुश्री तारा भृकुटी च यक्षराट् / सर्वे माणिचरा यक्षा सिद्ध्यन्ते सर्वकालतः // mmk_32.35 //

रागिणो ये च मन्त्राद्या प्रयुक्ता सर्वदैवतैः / सिद्ध्यन्ते कलियुगे काले लौकिका ये सुचिह्निताः // mmk_32.36 //

प्रोक्ता देवमनुजैः दानवेन्द्रैर्यक्षराक्षसैः / ऋषिभिर्गरुडैश्चापि पिशाचैर्भूतगणैर्ग्रहैः // mmk_32.37 //

मानुषामानुषाश्चैव कामधातुसमासृतैः / महर्द्धिकैः पुण्यवद्भिश्च क्रूरकर्मैः सुदारुणैः // mmk_32.38 //

शक्रब्रह्मतथारुद्रैः ईशानेन तथापरैः / विष्णुना सर्वभूतैस्तु मन्त्र प्रोक्ता महर्द्धिकाः // mmk_32.39 //

ते ऽपि तस्मिं युगान्ते वै सिद्धिं गच्छन्ति जापिनाम् / क्रूरकर्मे तथा सिद्धिः तस्मिं काले महद्भये // mmk_32.40 //

वश्याकर्षणभूतानां क्रव्यादानां महीतले / दृश्यते निःफला सिद्धिः परलोकान्तगर्हिता // mmk_32.41 //

अत एव जिनेन्द्रेण तस्मिं काले महद्भये / मञ्जुघोषसमादिष्टः सत्त्वानुग्रहतत्परः // mmk_32.42 //

विनश्यन्ति तदा सत्त्वां मन्त्ररूपेण जापिनाम् / शासने ऽस्मिन् प्रसन्नानां त्रिरत्नेष्वेव पूजकामिति // mmk_32.43 //

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् त्रिंशतिमः विधिनियमकालपटलविसरः परिसमाप्तः इति // अथ त्रयस्त्रिंशः पटलविसरः / अथ खलु भगवां शाक्यमुनिः सर्वावन्तं शुद्धावासभवनमवलोक्य, मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / त्वदीये मञ्जुश्रीकल्पराजे निर्दिशसमाख्याते धर्मधातुकोशतथागतगर्भधर्मधातुनिष्पन्दानुचरिते महासूत्रवररत्नपटलविसरे तथागतगुह्यवरमनुज्ञाते मन्त्रवधसाध्यमाने निमित्तज्ञानचिह्नकालप्रमाणान्तरितसाधनौपयिकानि सर्वभूतरुतवितानि असत्त्वसत्त्वसंज्ञानिर्घोषानि भवन्ति //

शाब्दिकं ज्ञानं इत्युक्त अशाब्दिकं चैव कीर्त्यते / व्यतिमिश्रं तथा युक्तिमन्त्राणां त्रिविधा क्रिया // mmk_33.1 //

दिव्यशब्दसमायुक्ता अनित्यार्त्थप्रयोजिता / अपशब्दापगता नित्यं संस्कारार्थार्थभूषिता // mmk_33.2 //

अबहिः सर्वसिद्धान्ते आर्यामन्त्राः प्रकीर्त्तिता / नित्यं पदार्थहीनं तु तत् त्रिधा परिभिद्यते // mmk_33.3 //

गुरुलघु तथा मध्यैः वर्णैश्चापि विभूषिता / सा भवेन्मन्त्रदेवी तु स्वरच्छन्दविभूषिता // mmk_33.4 //

संस्कृतासंस्कृतं वाक्यं अर्थानर्थ तथा परे / धात्वर्त्था तथा युक्तिः गतिमन्त्रार्थभूषिता // mmk_33.5 //

विकल्पबहुला वाचा मन्त्राणां सर्वलौकिका / एकद्विकवर्णं तु च्छन्दैः साश्वरितालयः // mmk_33.6 //

त्रिचतुःपञ्चषष्ठं वा सप्तमं वाष्टमं तथा / नवमं दशमं चैव वर्णानां सिद्धिरिष्यते // mmk_33.7 //

दशाक्षरसमायुक्ता वर्णानां हेतुनाम् / यावद्दशगुणा ह्येते वर्णा दृश्यन्ति महीतले // mmk_33.8 //

शताक्षरं विंशतिकं यावदेकाक्षरं भवेत् / एतत्प्रमाणैर्वर्णैस्तु ग्रथिता मन्त्रसम्पदा // mmk_33.9 //

पदैश्चतुर्भिः संयुक्ता मन्त्रा सर्वार्थसाधकाः / ज्येष्ठाः प्रवरा ह्यार्या मन्त्रा ये जिनभाषिताः // mmk_33.10 //

ते तु मध्यमा अधमा + + + + तदा / तदात्मजैर्जिनपुत्रैस्तु भाषिता ते तु मध्यमा // mmk_33.11 //

अधमा ये तु मन्त्रा वै भाषिता सर्वलौकिका / निकृष्टा कथिता मन्त्रा भाषिता नैरृतैस्तु ये // mmk_33.12 //

दशाष्टसप्तविंशं वा यावदभ्यधिकं शतम् / एतत्प्रमाणं तु मन्त्राणां आर्याणां जिनभाषिताम् // mmk_33.13 //

एकद्विकवर्णं तु सहस्रार्द्धं वर्णतो भवेत् / यावत्प्रमाणं तु मन्त्राणां बोधिसत्त्वैः प्रकाशिता // mmk_33.14 //

तदक्षरे पदविन्यस्तं मन्त्रयुक्तिमुदाहृता / छन्दांसि स्वरयुक्तानां धात्वार्थार्थभूषिता // mmk_33.15 //

वचनं सुप्रयुक्तं वै तन्त्रयुक्तिसमन्वितम् / भवेत् कदाचिकात् सिद्धिः शब्दस्वरवियोजिता // mmk_33.16 //

मुद्रायुक्तं तु शब्दैस्तु मूर्ध्नादूष्मान्ततालुकैः / दन्तोष्ठकण्ठतः शब्दं विसृतं साधनं क्रिया // mmk_33.17 //

अव्यक्तविनिवृत्तं तु सुप्रयुक्तमुदाहृतम् / सम्पूर्णं वाक्यतः शब्दं सम्प्रयुक्तः साधयिष्यति // mmk_33.18 //

विधिभ्रष्टं क्रियाहीनं शब्दार्थैश्च वियोजितम् / मन्त्रं न सिद्ध्यते क्षिप्रं दीर्घकालमपेक्षते // mmk_33.19 //

अवन्ध्यं तस्य सिद्धिस्तु न वृथा कारयो जपी / अन्यजन्मे ऽपि दृश्यन्ते मन्त्रसिद्धिवरप्रदा // mmk_33.20 //

तस्य मन्त्रप्रभावेन चिरकालाच्च जापिनाम् / अवन्ध्यं कुरुते कर्म समन्त्रा मन्त्रविदो जनाम् // mmk_33.21 //

निकृष्टा सर्वमन्त्राणां लौकिका ये समानुषा / सर्वभूतैस्तु ये प्रोक्ता मन्त्रा ये च समत्सरा // mmk_33.22 //

तेषां न्यक्षरा प्रोक्ता एकद्विकत्रिसङ्ख्यकम् / विविधैः म्लेच्छभाषैस्तु देवभाषप्रकीर्त्तितैः // mmk_33.23 //

ग्रथिता पङ्क्तियुक्ताश्च व्यतिमिश्रा शब्दतः सदा / सहस्रं चाष्टशतं अष्ट च यावदेकं तु वर्णतः // mmk_33.24 //

चतुःपादं पादार्द्धं तु गद्यपद्यं निगदितम् / श्लोकं दण्डकमात्रैस्तु गाधस्कन्धकपञ्चितम् // mmk_33.25 //

प्रतिपच्चार्थयुक्तिश्च सहस्रतार्थभूषितम् / अपभ्रंशसंस्कृतं शब्दं अर्थहीनं विकल्पते // mmk_33.26 //

अव्यक्तं व्यक्तहीनं तु मात्राहीनं तु युज्यते / गतिदेशविसंयोगान्मन्त्रसिद्धिस्तदुच्यते // mmk_33.27 //

एतत् सर्वमन्त्राणां एष लक्षणः /

शकारबहुला ये मन्त्रा ओङ्कारार्थभूषिता / तकारलक्षणतन्त्रस्था सिद्धिस्तेषु ध्रुवं भवेत् // mmk_33.28 //

ओङ्कारा ये मन्त्रा मकारान्तविनिर्गताः / शकारसहसंयुक्तादवन्ध्यं शोभनं तथा / तकारचतुरस्राकारा प्रत्याहारान्तवर्जिता // mmk_33.29 //

तकारक्षी रेफसंयुक्ता समन्त्रं साधनक्रिया / द्विरेफबहुलं आद्यं हुङ्कारगुणमुद्भवम् // mmk_33.30 //

वकारचतुरस्रान्ते वर्णा साधनक्षमा / ककारं रेफसंयुक्तं मकारान्तं मात्रमिश्रितम् / मकारं नकारमाद्यं तु स मन्त्रः श्रेष्ठ उच्यते // mmk_33.31 //

तकारबहुलं यत्र सर्वतन्त्रेषु दृष्यते / स मन्त्रः सौम्यमित्युक्तो याम्यहुङ्कारभूषितम् / ऐन्द्रावायव्यमित्युक्तं भकारबहुलं तु यः // mmk_33.32 //

वारुणः चकारमित्याहुः हितं लोके तु पौष्टिकम् / वकारबहुलो यो मन्त्रः माहेन्द्रं तत् प्रदृश्यते // mmk_33.33 //

आद्यं त्रिरत्नगमनं यो मन्त्रः शरणं तथा / नमस्कारं प्रवर्तेण शान्तिहेतुं सुखावहम् // mmk_33.34 //

तदन्यत् सर्वदेवानां नमस्कारार्थं प्रयुज्यते / स्वमन्त्रं मन्त्रनाथं च स मन्त्रः सर्वकर्मिकम् // mmk_33.35 //

डकारबहुलो यो मन्त्रः फट्कारार्थहुङ्कृतः / एते मन्त्रा महाक्रूरा तेजवन्तो महौजसा // mmk_33.36 //

प्राणोपरोधिना सद्यः क्रूरसत्त्वसुयोजिता / तस्मान्न कुर्यात् कर्माणि पापकानि विशेषतः // mmk_33.37 //

तं जापी वर्जयेद् यस्मात् मुनिभिर्वर्जिता सदा / उभयार्थे ऽपि सिद्ध्यन्ते मन्त्रा शान्तिकपौष्टिका // mmk_33.38 //

क्षणेन कुरुते सर्वं कर्मां यावन्ति भाषिता / सुजप्ता मन्त्रा ह्येते तेजवन्ता महर्द्धिका // mmk_33.39 //

शान्तिकानि च कर्माणि कुर्यात्तां जिनभाषितैः / पौष्टिकानि तु सर्वाणि कुर्यात् कोकनदे कुले // mmk_33.40 //

कर्मा पापका सर्वे आभिचारे प्रयुज्यते / आभिचारुकसर्वाणि कुर्याद् वज्रकुलेन तु / निषिद्धा लोकनाथैस्तु यक्षेन्द्रेण प्रकाशिता // mmk_33.41 //

सत्त्वानां विनयार्थाय मन्त्रमाहात्म्यमुद्भवम् / कथितं त्रिप्रकारं तु त्रिकुलेष्वेव सर्वतः // mmk_33.42 //

ये तु अष्ट समाख्याता कुलाग्र्या मुनिना स्वयम् / तेषु सिद्धिस्त्रिधा याता त्रिप्रकाराः समोदिताः / उत्तमा मध्यमा नीचा तत् त्रिधा परिभिद्यते // mmk_33.43 //

शान्तिकं पौष्टिकं चापि आभिचारुकमिष्यते / केवलं मन्त्रयुक्तिस्तु तन्त्रयुक्तिरुदाहृता // mmk_33.44 //

मन्त्राणां गतिमाहात्म्यं आभिचारुक युज्यते / एतत् कर्म निकृष्टं तु सर्वज्ञैस्तु गर्हितम् // mmk_33.45 //

न कुर्यात् कृच्छ्रगतेनापि कर्म प्राणोपरोधिकम् / केवलं तु समासेन कर्ममाहात्म्यवर्णितः // mmk_33.46 //

तन्त्रयुक्तविधिर्मन्त्रैः कर्मविस्तरविस्तरः / कर्मराजे इहोक्तं तु अन्यतन्त्रेषु दृश्यते // mmk_33.47 //

न भेजे कर्महीनं तु सर्वमन्त्रेषु युक्तिमाम् / यावन्ति लौकिका मन्त्रा सकला निष्कलास्तथा // mmk_33.48 //

सर्वे लोकोत्तराश्चैव तेषामेव गुणः सदा / असङ्ख्यं मन्त्रसिद्धिस्त्वसङ्ख्यं तत् परिकीर्त्यते // mmk_33.49 //

एकसङ्ख्यप्रभृत्यादि विंशमुक्तं तथापि तु / ततः त्रिंशत् समासेन चत्वारिंशं तु चापरम् // mmk_33.50 //

ततस्त्रिगुणषष्टिं तु सप्तभिः सदशं तथा / दशं चापरमित्याहु अशीतिसङ्ख्या तु चापरम् // mmk_33.51 //

सदशं नवतिमित्याहुः शतं पूर्णं दशापरम् / शतसङ्ख्या तु सङ्ख्याता तद्दशं सहस्रापरम् // mmk_33.52 //

दशसहस्रमयुतं तु दशमयुतानि लक्षितम् / दशलक्षाविलक्षं तु विलक्षं दश कोटिम् // mmk_33.53 //

+ + + + + + ट्यो वै दशविकोट्यो ऽर्बुदो भवेत् / दशार्बुदा निर्बुदः उक्तः तद्दशं खड्गमिष्यते // mmk_33.54 //

दशखड्गनिखड्गं तु दशनिखः खर्वमिष्यते / दश निखर्वां तथा पद्मः दशपद्मां महापद्मः // mmk_33.55 //

दशपद्मानि वाहस्तु दशविवाहांस्तथापराम् / महाविवाहस्तथा दृष्टस्तद्दशं मायमुच्यते // mmk_33.56 //

तद्दशमायां महामायः महामायां दशापराम् / समुद्रं गणितज्ञाने निर्द्दिष्टं लोकनायकैः // mmk_33.57 //

महासमुद्रं ततः पश्चाद् विंशार्द्धं परिसाधिके / महासमुद्रस्तथा ह्युक्तः सदशं सागरः ततः // mmk_33.58 //

महासागरमित्याहुर्विंशार्द्धेन प्रयुज्यते / महासागरा दश गुणीकृत्य प्रघरा ह्येवमुच्यते // mmk_33.59 //

दशप्रघरात्युक्तः घरेति तं प्रकीर्त्तितम् / दशघरे नामतो ऽप्युक्ता अशेषं तु तदुच्यते // mmk_33.60 //

अशेषान्महाशेषं विंशार्द्धेन गुणीकृतम् / तदसङ्ख्यं प्रमाणं तु कथितं लोकनायकैः // mmk_33.61 //

सङ्ख्यो दश सङ्ख्यामित्याहु तदसङ्ख्यं गुणीकृतमिति / ततः परेणापि तथा + + + + + + + + + + + + // mmk_33.62 //

अमितात् सहस्रगुणितं तं लोकं परिकीर्त्यते / लोकात् परेण महालोकं महालोकाद् गुणीकृतम् // mmk_33.63 //

ततत्संस्तमसमित्युक्तं तमसा ज्योतिरुच्यते / ज्योतिषो महाज्योत्स्ना गुणीकृत्य महाराशिस्तदुच्यते // mmk_33.64 //

महाराश्या महाराशिरित्युक्ता राश्ये गम्भीरमुच्यते / गम्भीरा स्थिरमित्याहुः स्थिरात् स्थिरतरं व्रजेत् // mmk_33.65 //

ततः परेण बहुमत्या बहुमतं स्थानमुच्यते / स्थानं स्थानतरं त्याहुः गणितज्ञानसूरताः // mmk_33.66 //

महास्थानं ततो गच्छेन्महास्थानमितमिष्यते / मितान्मितसमं कृत्वा महार्थं तत् परिकीर्त्यते // mmk_33.67 //

महार्था सुश्रुतस्थानं ततो गच्छेन्महार्णवम् / महार्णवात् प्रथममित्याहुः प्रथमात् प्रथमतरं हि तत् // mmk_33.68 //

प्रथमे श्रेष्ठमित्याहुः श्रेष्ठाज्ज्येष्ठान्तमुच्यते / ज्येष्ठान्मन्दिरसो नाम तदचिन्त्यं परिकीर्त्यते // mmk_33.69 //

अचिन्त्य अचिन्त्यार्थिन्यतमं घोरं घोरात् राष्ट्रतमिष्यते / राष्ट्रात् परेण निध्यस्तो निध्यस्तपरतः शुभम् // mmk_33.70 //

शुभात् परेण महाचेतः महाचेता चेतयिष्यते / चेतो चित्तविक्षेप अभिलाप्य तदुच्यते // mmk_33.71 //

अभिलाप्या अनभिलाप्यास्तु विश्वरं च मुदाहृतम् / विश्वात् परेण महाविश्वः अस्वरं तु तदुच्यते // mmk_33.72 //

अस्वरान्महास्वरस्थानं खर्वतो ऽधिगर्वितस्तथा / श्रेयसं शान्तिमित्युक्तं स्थान गणितपारगैः // mmk_33.73 //

महाधृष्टस्ततो धृष्टः ओदकं तदिहोच्यते / ओदका चित्तविभ्रान्तं स्थानं चापरमुत्तमम् // mmk_33.74 //

उत्तमात् परतो बुद्धां विषयं नाधरभूमिकाम् / अशक्यं मानुषाणां तु गणना लोककल्पनम् // mmk_33.75 //

ततः परेण बुद्धानां गोचरं नापरं मतम् / बुद्धक्षेत्रं आसिकता गङ्गानद्यास्तु मुच्यते // mmk_33.76 //

सम्भिद्य परमाणूनां कथयामास नायकाः / दृष्टान्तं क्रियते ह्येतत् तर्कज्ञानं तु गोचरम् // mmk_33.77 //

हेतुना साध्यते द्रव्यं न शक्यं गणनापरैः / एतत्प्रमाणं सम्बुद्धा पर्युपास्ते मया पुरा // mmk_33.78 //

तेषामाराधयित्वा मे कल्पे ऽस्मिं तदचित्तके / एतावत्कालमपर्यन्तं बोधिसत्त्वो ऽहं पुरा भवेत् // mmk_33.79 //

सत्त्वानामर्थसम्बुद्धो बुद्धत्वं च समाविशेत् / तत्र तत्र मया तन्त्रा भाषिता कल्पविस्तरा // mmk_33.80 //

एतत् कल्पवरं ज्येष्ठमेतद् बुद्धैस्तु भाषितम् / एतद् प्रमाणं सम्बुद्धैः कथितो ऽहं पुरातनम् // mmk_33.81 //

अधुना कुमार मया प्रोक्त अन्ते काले तु जन्मिके / यावन्ति लौकिका मन्त्रा कल्पराजाश्च शोभना // mmk_33.82 //

लोकोत्तरा तथा दिव्या मानुष्या ससुरासुरा / सर्वेषां तु मन्त्राणां तन्त्रयुक्तिरुदाहृता // mmk_33.83 //

सम्मतो ऽयं तु सर्वत्र कल्पराजो महर्द्धिकः / तेषां कल्पविधानेन सिद्धिमायाति मञ्जुमाम् // mmk_33.84 //

अनेनैव तु कल्पेन विविना मञ्जुभानिना / तेषां सिद्धिमित्युक्ता सर्वेषां प्रभविष्णुना // mmk_33.85 //

किं पुनर्मानुषे लोके ये चान्ये मन्त्रदेवता / सर्वे लोकोत्तरा मन्त्राः लौकिका समहर्द्धिका // mmk_33.86 //

अनेन विधियोगेन कल्पराजेन सिद्धिताम् / वसिता सर्वमन्त्राणां सर्वकल्पमुदाहृतम् // mmk_33.87 //

सम्मतो ऽयं तु मञ्जुश्रीः कल्पराजे इहोत्तमे / ये केचिच्छिल्पविज्ञाना लौकिका लोकसम्मता // mmk_33.88 //

निमित्तज्ञानशकुनाः ज्योतिषज्ञानचिह्निताः / निमित्तज्ञानचरिता रुतावैव शुभाशुभा // mmk_33.89 //

सर्वभूतरुतश्चैव चरितं चित्तचिह्नितम् / धातुरायतमं द्रव्यं + + + + + + + + // mmk_33.90 //

इङ्गितं शकुनमित्याहुः खन्यधातुक्रिया तथा / गणितं व्याकरणं शास्त्रां शस्त्रं चैव क्रमो विधिः // mmk_33.91 //

अध्यात्मविद्या चैकित्स्यं सर्वसत्त्वहितं सुखम् / हेतुनीति तथा चान्ये शब्दशास्त्रं प्रवर्त्तितम् // mmk_33.92 //

छन्दभेदो ऽथ गान्धर्वः गन्धयुक्तिमुदाहृताः / ते मया बोधिसत्त्वेन सत्त्वानामर्थाय भाषिता // mmk_33.93 //

पुराहं बोधिसत्त्वो ऽस्मिं सत्त्वानां हितकारणा / भाषिता ते मया पूर्वं संसारार्णववासिनाम् // mmk_33.94 //

संसारगहने कान्तारे चिरकालं उषितो ह्यहम् / यथा वैनेयसत्त्वानां तथा तत्र करोम्यहम् // mmk_33.95 //

यथा यथा च सत्त्वा वै हितं कर्म समादधेः / तथा तथा करोम्येषां हितार्थं कर्म शुभालयम् // mmk_33.96 //

विचित्रकर्मनेवस्थाः सत्त्वानां हितयोनयः / विचित्रैव क्रियते तेषां विचित्रार्थयोनिदूषिता // mmk_33.97 //

विचित्रकर्मसंयुक्ता विचित्रार्थां शास्त्रवर्णिताम् / तं तथैव करोम्येषां विचित्रां रूपसम्पदाम् // mmk_33.98 //

अहं तथा वेषधारी स्या विचित्राङ्गं निजानिजाम् / हिताशयेन सत्त्वानां विचित्रं रूपं निर्मिषे // mmk_33.99 //

महेश्वरः शक्रब्रह्माद्यां विष्णुर्धनदनैरृताम् / विचिरां ग्रहरूपांस्तु निर्मिमे ऽहं तथा पुरा // mmk_33.100 //

महाकरुणाविष्टमनसः सत्त्वानामाशयगोचरा / अनुपूर्व्या तु तेषां वै स्थापयामि शिवे पदे // mmk_33.101 //

पर्यटामि संसारे दीर्घकालमवेक्षितम् / सत्त्वानामर्थनिष्पत्तिं मन्त्ररूपेण देशितम् // mmk_33.102 //

अनुपूर्वं मतज्ञानं मन्त्रकल्पं प्रवर्तितम् / चिरा मे संसरता जन्मे बुद्धगोत्रे समासृत // mmk_33.103 //

न च मे विद्यते कश्चित् कर्ता वा स्वामिनो ऽपि वा / नियतं गोत्रमासृत्य बुद्धो ऽहं बोधिमुत्तमां // mmk_33.104 //

क्षेमो ऽहं निर्जरं शान्तं अशोकं विमलं शिवम् / प्राप्तो ऽहं निर्वृतिं शान्तिं मुक्तो ऽहं जन्मबन्धना // mmk_33.105 //

अधुना प्रवर्तितश्चक्रः भूतकोटिसमाश्रित / दर्शयामेष कल्पं वै मन्त्रवादं सविस्तरम् // mmk_33.106 //

न वृथा कारयेज्जापी कर्मकल्प सविस्तरम् / यावन्ति लौकिका मन्त्राः कल्पाश्चैवमुदाहृताः // mmk_33.107 //

पूज्या मान्याश्च सर्वे ते अवज्ञा तेषां तु वर्जिता / नावमन्ये ततो मन्त्री तेषां कल्पानि विस्तरम् // mmk_33.108 //

निमित्तं ज्ञानयुक्तिं च ज्योतिषज्ञानरोदितम् / न वृथा कारयेदेतां मङ्गलार्थमुदाहृताः // mmk_33.109 //

दृष्टधार्मिकमेवं तु सिद्धिद्रव्यादिमोषधम् / सामिषं लोभनं सिद्धिस्तस्मान्मङ्गलमुच्यते // mmk_33.110 //

प्रशस्ता जिनगाथाभिः स्वस्तिगाथाभिभूषितम् / प्रशस्तैर्दिवसैर्मुख्यैः सितपक्षे सुचिह्नितैः // mmk_33.111 //

शुक्लग्रहवरे युक्ते मन्त्रसाधनमारभेत् / एवमाद्याः शुभा युक्ता अशुभांश्चापि वर्जयेत् // mmk_33.112 //

मयैव कथितं पूर्वं तस्माद् ग्राह्या तु जापिभिः / यावन्ति केचिल्लोके ऽस्मिं ज्योतिषज्ञानकौशलाः // mmk_33.113 //

अन्ये वा तत्र कौशल्याः नीतिहेतुसहेतुकाः / न्यायशास्त्रसुसम्बद्धा सत्त्वानां हितकारया // mmk_33.114 //

मयैव कथितं तत् सर्वं ग्राह्यते मन्त्रजापिभिः / सिद्धिहेतुरयं मार्गः दर्शितं तत्त्वदर्शिभिः // mmk_33.115 //

सर्वं ह्यशेषसिद्धान्तं यद्योक्तं मोक्षकारणम् / तेनैव कुर्यान्मन्त्राणां मार्गं सिद्धिकारणाः // mmk_33.116 //

न वृथा कारयेज्जापी मन्त्रयुक्तिं ह्यशेषतः / सर्वे लौकिका मन्त्रा उत्तमाश्च प्रकीर्तिताः // mmk_33.117 //

लोकोत्तरास्तथा दिव्या सर्वेष्वेव प्रयोजयेत् / न मिथ्यं कारये चित्तं न दूष्ये तत्र मनं कदा // mmk_33.118 //

सर्वे पूज्यास्तु मन्त्रा वै समयज्ञः प्रकीर्तिताः / शासने ऽस्मिं तथा सास्तुः बुद्धानां समताहिते // mmk_33.119 //

निविष्टा जिनपुत्राणामाकृष्टाश्च प्रवेशिताः / मण्डले मुनिचन्द्राणां समयज्ञ इहोदिताः // mmk_33.120 //

अवन्ध्यास्ते सदा मन्त्रैरानीता विशनाशया / न नमे परमन्त्राणां नापि सावज्ञमाचरेत् / अनार्या ये तु मन्त्रा वै अवन्ध्यास्ते परिकीर्त्तिता // mmk_33.121 //

यावन्ति लौकिका मन्त्रा अधरा जापसम्भवा / सक्लेशा दृष्टमार्गान्ता अवन्ध्यास्ते तु जापिभिः // mmk_33.122 //

न वृथा कारये चित्तं कोपने रोषसंयुतम् / रोचनं न चैव भक्तिं न कुर्यात् कर्म वृथाफलम् / तदायत्तं हि चित्तस्य न दद्यात् सन्नतिं क्वचित् // mmk_33.123 //

एकमन्त्रस्तु युक्तिस्थः जपं नित्यं समाहितः / लभते फलमशेषं तु यथोक्तं विधिना विधेः // mmk_33.124 //

निश्चलं तु मनः कृत्वा एकमन्त्रं तु तं जपेत् / एकचित्तस्य सिद्ध्यन्ते मन्त्राः सर्वार्थसाधकाः // mmk_33.125 //

व्यस्तचित्तो हि मूढात्मा सिद्धिस्तस्य न दृश्यते / अशेषं फलनिःपत्तिं प्राप्नुयाद् विपुलां गतिम् // mmk_33.126 //

नित्यशुद्धं मनो यस्य स श्राद्धस्यैव शासने / रत्नत्रये च प्रसन्नस्य सिद्धिरिष्टा उदाहृता // mmk_33.127 //

इति //

आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् एकत्रिंशतिमः कर्मक्रियाविधिनिमित्तज्ञाननिर्देशपटलबिसरः परिसमाप्तः //

अथ चतुस्त्रिंशः पटलविसरः / अथ खलु भगवां शाक्यमुनिः पुनरपि तं शुद्धावासभवनमवलोक्यः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / शृणु मञ्जुश्रीः त्वदीयमुद्रातन्त्रं सरहस्यं परमगुह्यतमं अप्रकाश्यमश्राद्धसत्त्वतथागतशासने ऽनभिप्रसन्नं असमयानुज्ञानत्रिरत्नवंशानुच्छेदनकरे अकल्याणमित्रपरिगृहीते पुण्यकामे दुष्टजनसम्पर्कव्यतिमिश्रिते पापमित्रपरिगृहीते दूरीभूते बुद्धधर्माणां निःफलीभूते कल्पे ऽस्मिन्नाचार्यानुपदेशे अवभिषिक्त तव कुमार परमगुह्यतमे मण्डले अदृष्टसमये तथागतकुले असमन्ते जने अप्रकाश्य सर्वभूतानां त्वन्मन्त्रानुवर्त्तिनां //

अश्राद्धो बुद्धधर्माणां दूरीभूतो हि बोधये / न तस्या दापयेन्मुद्रां तन्त्रं चैव न दर्शयेत् // mmk_34.1 //

प्रमादान्मोहसम्मूढः लोभाद्या यदि दापयेत् / न सिद्ध्यन्ते तन्त्रमन्त्रा वै विपरीतस्य जापिनः // mmk_34.2 //

असान्निध्यं कल्पयेन्मुद्रां मन्त्राश्चैवमन्यथा / सिद्धिं न लभते क्षिप्रंश्च शरीरेणापि हीयते // mmk_34.3 //

सौम्यानां श्राद्धचित्तानां समये तत्त्वदर्शिनाम् / तन्त्रमन्त्रप्रवृत्तानां मुद्रातन्त्रं प्रकाशयेत् // mmk_34.4 //

त्रिरत्नपूजका ये च प्रसन्ना जिनशासने / विधिप्रयोगदृष्टानां तेषां मुद्रा प्रकाशयेत् // mmk_34.5 //

बोधिचित्तविधिज्ञानां बोधिचित्तविभूषिताम् / नित्यं बोधिमार्गस्थां तेषां मुद्रां प्रकाशयेत् // mmk_34.6 //

तन्त्रमन्त्रप्रयुक्तानां समये दृष्टपरापराम् / महाबोधो प्रतिच्छूनां तेषां मुद्रां प्रकाशयेत् // mmk_34.7 //

प्रसन्नानां जिनपुत्रेषु तेषु श्रावकखड्गिणाम् / दृष्टधर्मफलं येषां तेषां मुद्रां प्रकाशयेत् // mmk_34.8 //

अविकल्पितधर्माणां श्राद्धानां गतिमत्सराम् / शास्तुर्वचनयुक्तिज्ञां तेषां मुद्रां प्रकाशयेत् // mmk_34.9 //

मुद्रा मुद्रिता ह्येते प्रमाणस्था साष्टशतं तथा / न चातिरिक्ता न चोनाश्च साक्षाद् बुद्धैः प्रकाशिताः // mmk_34.10 //

मञ्जुश्रियस्य कल्पे वै मन्त्राश्चैव तत्समा / साष्टं शतमित्युक्तं मन्त्राणां तत्समोदिताम् / मुद्राश्चैव शताष्टं तु कथिता मुनिवरैः पुरा // mmk_34.11 //

एतत्प्रमाणं तु कल्पस्य मुद्रामन्त्रसमुद्भवे / कोशं सर्वबुद्धानां मन्त्रकोशमुदाहृतम् // mmk_34.12 //

मुद्रा मन्त्रसमोपेताः संयुक्तः क्षिप्रकर्मिकः / न चक्रेण विना स्पन्दं युक्तिमुत्पद्यते रथे // mmk_34.13 //

तथैव सर्वमन्त्राणां मुद्रावर्जं न कर्मकृत् / मन्त्रा मुद्रसमोपेता संयुक्ता क्षिप्रकर्मिका // mmk_34.14 //

सर्वमावर्त्तयं ह्येते त्रैलोक्यससुरासुरम् / किं पुनर्मानुषे लोके अन्यकर्मेषु संस्कृते // mmk_34.15 //

दृष्टधर्मफलो ह्येतां मुद्रामन्त्रेषु दृश्यते / संयुक्तः उभयतः शुद्धां विधियुक्तेन दर्शिता // mmk_34.16 //

आवर्तयन्ति भूतानां जिनाग्राणां तु ससूनुताम् / मन्त्रं मुद्रतपश्चैव त्रिधा कर्म करे स्थितम् // mmk_34.17 //

यथेष्टा सम्पदां कृत्स्नां प्राप्नुयाज्जपिनस्तथा / मन्त्राणां मुद्रिता मुद्रा मन्त्रैश्चापि मुद्रिता // mmk_34.18 //

न मन्त्रं मुद्रहीनं तु न मुद्रा मुद्रवर्जिता / मुद्रा मन्त्रसमोपेता संयुक्ता सर्वकर्मिका // mmk_34.19 //

अन्योन्यफला ह्येते अन्योन्यफलमुद्भवा / साधके युक्तिमायुञ्जे न सार्धं कर्म न विद्यते // mmk_34.20 //

सिध्यन्ते सर्वमन्त्रा वै मुद्रायुक्तास्तु रूपिनाम् / विधिदृष्टः प्रयुक्तस्तु मन्त्रं + + समुद्रितम् // mmk_34.21 //

न सौ विद्यति तत् स्थानं यत्राकृष्टो न सिद्ध्यति / भवाग्र्या वीचिपर्यन्तं लोकधात्वगतिं तरम् // mmk_34.22 //

यत्राविष्टो न चाकृष्टः असाध्यो यो न विद्यते / न सौ संविद्यते कश्चित् सत्त्वो यो निवर्तितुम् // mmk_34.23 //

महर्द्धिका बोधिसत्त्वापि आकृष्यन्ते विधिवादिता / असमर्त्था बोधिसत्त्वापि दशभूमिसमाश्रिता // mmk_34.24 //

रक्षाविधानभेतुं वा कर्मसिद्धि निवारितुम् / अधृष्यः सर्वभूतानां मन्त्रमुद्रसमासृताः // mmk_34.25 //

सर्वभूतानां यो हि मन्त्रे समाश्रितः / मुद्रा प्रयोगयुक्ता वै एते रक्षासमुद्भवा // mmk_34.26 //

उद्भूतिः सर्वमन्त्राणां सर्वमन्त्रेषु दृश्यते / मन्त्रातः सर्वमुद्राणां अन्योन्यसमासृताः // mmk_34.27 //

रूपजापविधिर्मार्गे होमकर्मे प्रयुज्यते / अतो जात तथासिद्धिः मुद्रा मन्त्रेषु दृश्यते // mmk_34.28 //

जापिनो नित्यमुद्युक्तः सदा तेषु प्रतिष्ठितः / सिद्ध्यन्ते सर्वमन्त्रा वै अवन्ध्यं मुनिनां वचः // mmk_34.29 //

वचनं सर्वबुद्धानां अन्यथाकारितं हितैः / + + + + + + + + + + + + मन्त्रतन्त्रेषु युक्तितः // mmk_34.30 //

कारितं यैर्विधिर्मुक्ता अशेषं मन्त्रमुद्रया / एतत् कुमार मञ्जुश्रीः कथयामि पुनः पुनः // mmk_34.31 //

अशेषमन्त्रमुक्तिस्तु मुद्रा तत्र हितोदयम् / तां वन्दे कल्पराजे ऽस्मिं नैस्तारिकं फलसम्भवम् // mmk_34.32 //

हितं गुह्यतमं लोके मुद्रातन्त्रं समुद्धितम् / ततो ऽसौ युक्तिमां श्रीमां सहिष्णुर्बालरूपिणः // mmk_34.33 //

ईषस्मितमुखो भूत्वा कुमारो विश्वसम्भवः / बोधिसत्त्वो महावीर्यः दशभूमिसमा तः // mmk_34.34 //

प्रयच्छ मुनिना श्रेष्ठं बुद्धमादित्यबान्धवम् / यदेतत्कथितं लोके भगवन्मन्त्रकारणम् // mmk_34.35 //

पूर्वकैरपि सम्बुद्धैः कथितं तत्पुरा मम / अधुना शाक्यसिंहेन किमर्थं सम्प्रकाशितम् // mmk_34.36 //

एतन्मे संशयो जातः आचक्ष्व मुनिसत्तव / कलविङ्करुतो धीमां ब्राह्मगर्जितसम्भवः // mmk_34.37 //

अब्रवीद् बोधिसत्त्वं तु दशभूमिप्रतिष्ठितम् / पुराहं बहुकल्पानि संसारे सरता म य // mmk_34.38 //

लब्धो ऽयं कल्पराजेन्द्रः मुनेः सङ्कुसुमाह्वयात् / तत्र तत्र मया सत्त्वा उपकारकृतं बहु // mmk_34.39 //

करुणावशमागत्य प्रणिधिं च कृतं तदा / यदाहं बुद्धमग्रो वै सम्भवामि युगाधमे // mmk_34.40 //

शासनार्थं करित्वा वै धर्मचक्रानुवर्त्तिते / अपश्चिमे च काले वै निर्वास्ये ऽहं यदा भुवि / एतत्तु कल्पराजेन्द्रं निर्दिशे ऽहं तवान्तिके // mmk_34.41 //

मयापि निर्वृते लोके शून्ये जम्बुसमाह्वये / दूरीभूते तथा शास्तुः धर्मकोशे कलौ युगे / नाशनार्थं तु सत्त्वानां करिष्यत्येप कल्पराट् // mmk_34.42 //

तवैव सम्प्रदत्तो ऽयं कल्पराजा सविस्तरः / सत्त्वानामर्थमुद्युक्तः तस्मिं काले भविष्यति // mmk_34.43 //

अधर्मिष्ठास्तदा सत्त्वास्तस्मिं काले भयानके / अव्यवस्थस्थिता नित्यं राजानो दुष्टमानसाः // mmk_34.44 //

मानुषामानुषाश्चापि सर्वे शासनविद्विषाः / नाशयिष्यन्ति मे सर्वं धर्मकोशं मयोदितम् // mmk_34.45 //

तेष विनयार्थाय मन्त्रकोशमुदाहृतम् / तवैतत् कुमार प्रणिधानं पूर्वकल्पानचिन्तिताम् // mmk_34.46 //

यावन्ति केचिद् बुद्धा वै निर्वृता लोकबान्धवा / तेषां साशनार्थाय करिष्यामि युगे युगे // mmk_34.47 //

बालदारकरूपो ऽहं विचरिष्यामि सर्वत / मन्त्ररूपेण सत्त्वानां विनेष्यामि तदा तदा // mmk_34.48 //

एतत् कुमार तुभ्यं वै प्रणिधानं पुरा कृतम् / तत् प्राप्तमधुना बाल निर्देक्ष्यामि तेनैवे // mmk_34.49 //

शून्ये बुद्धक्षेत्रे अशरण्ये तदा जने / मन्त्ररूपेण सत्त्वानां बालिशस्त्वं समादिशेत् // mmk_34.50 //

विनेष्यसि बहुं सत्त्वां सर्वसम्पत्तिदायकः / वरदस्त्वं सर्वसत्त्वानां तस्मिं काले युगाधमे // mmk_34.51 //

निर्वृते हि मया लोके शून्यीभूते महीतले / त्वयैव बालरूपेण बुद्धकृत्यं करिष्यसि // mmk_34.52 //

महारण्ये तदा रम्ये हिमवत्कुक्षिसम्भवे / नद्या हिरण्यवतीतीरे निर्वाणं मे भविष्यतीति // mmk_34.53 //

आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् द्वात्रिंशतिमः मुद्राचोदनविधिमञ्जुश्रीपरिपृच्छनिर्देशपरिवर्तः पटलविसरः परिसमाप्तः // अथ पञ्चत्रिंशः पटलविसरः / अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तथागतमहामुद्राकोशसञ्चोदनी नाम समाधिं समापद्यते स्म / समनन्तरसमापन्नस्य भगवतः शाक्यमुने ऊर्णाकोशान्महारश्मिर्निश्चचार / अनेकरश्मिकोटीनयुतशतसहस्रसङ्ख्येयपरिवाराः सा रश्मिजाला अनेकां बुद्धक्षेत्रानवभासयित्वा सर्वबुद्धां सञ्चोद्य पुनरपि भगवतः शाक्यमुनेः ऊर्णाकोशे ऽन्तर्हिता / समनन्तरसञ्चोदिताश्च सर्वे बुद्धा भगवन्तः गगनस्वभावां समाधिं समापद्य शुद्धावासोपरि गगनतले प्रत्यष्ठात् / अथ भगवां शाक्यमुनिः सर्वबुद्धानभ्यर्च्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / शृणु मञ्जुश्री मुद्राकोशपटलविधानं भविष्यसर्वबुद्धैरधिष्ठितम् //

अथ मञ्जुश्रीः कुमारभूतो भगवतश्चरणयोर्निपत्य सर्वबुद्धां प्रणम्य भगवन्तं शाक्यमुनिं तथागतमेतदवोचत् / तत् साधु भगवां निर्दिशतु सर्वतथागतमुद्राकोशपटलं परमगुह्यतमं यस्येदानीं कालं मन्यसे तद् भविष्यति / बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्त्थाय हिताय सुखाय देवानां च मनुष्याणां च सर्वसत्त्वानां सुखोदयं भविष्यति सुखविपाकम् //

अथ भगवां शाक्यमुनिः अध्येषतो भगवता मञ्जुश्रिया कुमारभूतेन सर्वबुद्धानवलोक्य सर्वसत्त्वां समन्वाहृत्य सर्वबोधिसत्त्वां सम्प्रहृष्य सर्वप्रत्येकबुद्धार्यश्रावकां सम्प्रसान्त्य सर्वमन्त्रमन्त्रार्त्थोद्युक्तमानसां समुद्युज्य सर्वदुष्टां निवार्य सर्वभीतां समाश्वास्य सर्वव्यसनस्थां क्षेमे शिवे निर्वाणे प्रतिष्ठाप्य सर्वदुःखितानां सुखार्त्थाय मुद्रापटलविधानं भाषते स्म -

शृणु कुमार मञ्जुश्री वक्ष्ये ऽहं पटलमुद्रिताम् / आदौ पञ्चशिखा भवति महामुद्रा तु सा मता // mmk_35.1 //

त्रिशिखं द्वितीयं विन्द्या तृतीयं एकचीरकम् / चतुर्थं उत्पलमित्याहुः सम्बुद्धाः द्विपदोत्तमाः // mmk_35.2 //

पञ्चमः स्वस्तिको दृष्टः षष्ठो ध्वज उच्यते / सप्तमं पूर्णमित्याहुः मन्त्रज्ञानसुशोभनाः // mmk_35.3 //

अष्टमं यष्टिनिर्दिष्टा लोकनाथैर्जितारिभिः / नवमं छत्रनिर्दिष्टं दशमं शक्तिरुच्यते // mmk_35.4 //

एकादशं तु सम्बुद्धा सम्पुटं तु समादिशेत् / द्वादशं फरमित्युक्तो त्रयोदशं तु गदस्तथा // mmk_35.5 //

चतुर्दशं खड्गनिर्दिष्टा घटा पञ्चादशस्तथा / षोडशः पाशमित्युक्तः अङ्कुशः सप्तदशः स्मृतः // mmk_35.6 //

अष्टादशं भद्रपीठं तु ऊनविंशतिपीठकम् / विंशन्मयूरासनः प्रोक्तो एकविंशस्तु पट्टिशम् // mmk_35.7 //

एकलिङ्ग द्विविंशं तु द्विलिङ्गो विंशसत्रिकम् / चतुर्विंशस्तथा माला पञ्चविंश धनुस्तथा // mmk_35.8 //

विंशत्षष्टाधिकं प्रोक्तं नाराचे तु प्रकल्पिता / सप्ताविंशतिमित्याहुः समलिङ्गे प्रवर्त्तिता // mmk_35.9 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.