Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 13/17

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo

मञ्जुश्रीमूलकल्प

Thông tin
GRETIL — M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

व्यतिमिश्रं तथा युक्त्या अनुपूर्वमिहागतम् / मण्डलं चतुराख्यं तु सर्वभूतप्रसाधकम् // mmk_48.58 //

शून्यवेश्म तथा नित्यं शून्यदेवकुले सदा / प्रच्छन्ने रहसि विस्रब्धे स्वगृहे वाववरके ऽपि च // mmk_48.59 //

विचित्रैरङ्गनेपथ्यै विचित्रैश्चारुपूर्णकैः / पञ्चरङ्गिकचूर्णैस्तु विविधैर्वा फलोद्भवैः // mmk_48.60 //

शालितण्डुलपिष्टैस्तु विचित्रैरङ्गमुज्ज्वलैः / शुक्लचूर्णैस्तथा युक्तैः चन्दनागरुधूपितैः // mmk_48.61 //

विमिश्रैश्चन्दनचूर्णैस्तु कुङ्कुमागरुयोजितैः / कर्पूरकस्तूरिकासिक्तैः प्रियङ्गुकेशरादिभिः // mmk_48.62 //

स्पृक्कासीरसमायुक्तैः कृष्णागरुसुधूपितैः / चूर्णैर्विविधगन्धैर्वा नित्यं मण्डलमालिखेत् // mmk_48.63 //

त्रिःस्नायी जपहोमी च त्रिचेलपरिवर्तिनः / व्यतिमिश्रयक्षे तथा मन्त्री सितासितसुचिह्निते // mmk_48.64 //

यथेष्टं तिथिनक्षत्रे नित्य मण्डलमालिखेत् / चतुर्हस्तप्रमाणं वै यथोक्तं विधिपूर्वके // mmk_48.65 //

तत् सर्वमालिखेद् धीमां मन्त्रं यत्नाद्धि चेतसा / चतुःकोणं चतुर्द्वारं चतुस्तोरणसंयुतम् // mmk_48.66 //

मध्ये सरिपतिर्नित्यं मण्डले ऽस्मिं समालिखेत् / मध्यस्थं पद्ममारूढं धर्मचक्रानुवर्तिनम् // mmk_48.67 //

शाक्यसिंहं महावीरं मन्त्री बुद्धं समालिखेत् / शेषं मुद्रवरैः क्षिप्रं स्वभ्रातृसहपञ्चमम् // mmk_48.68 //

आलिखेत् सर्वतो मन्त्री चतुःकोणे तु सर्वतः / ज्येष्ठात् पद्मवरे तस्थौ अधस्ताद् बुद्धस्याम्बुधेः / तुम्बुरे मुद्रमालेख्यं सितवर्णो ऽथ सर्वतः // mmk_48.69 //

सर्वे शुक्लवर्णाभा कुन्देन्दुशशिप्रभा / कुमुदाकारसङ्काशा सर्ववस्तुसुशुक्लका // mmk_48.70 //

पूर्वनिर्दिष्टयोगेन देवीनां तु विधानवित् / तत् सर्वं कुर्यान्मन्त्री सर्वकर्मार्थसाधनमिति // mmk_48.71 //

यथैव मण्डलं सर्वपटे स्मित प्रयोजयेत् / त्रिविधं पटनिर्दिष्टं मण्डले ऽस्मिं यथाविधि // mmk_48.72 //

शेषं यथेष्टवत् कुर्यात् पटमण्डले भूतले / आलेख्यं मन्त्रतन्त्रे ऽस्मिं यथाविहिते मते // mmk_48.73 //

फलके पट्टके वापि यथाकाष्ठसमुद्भवैः / आलेख्याः देवताः सर्वे सभ्रातृसहपञ्चमाः // mmk_48.74 //

यथैव मण्डले सर्वं तत् सर्वं आलिखेत् पटे / अम्बरे वापि निर्दिष्टं यथोचितसमुद्भवे / निर्दिष्टं पटमन्त्रज्ञैः प्रतिमानां तु कीर्त्यते // mmk_48.75 //

चन्दनं मलयमित्याहु रागं चापि सकेसरम् / पुन्नागं चैव मन्त्रज्ञैः नित्यं प्रतिमासु योजयेत् // mmk_48.76 //

पियालं पद्मकं विन्द्यात् रोध्रकाष्ठं महीतले / सरलं देवदारुं च काश्मीरं चैव सघण्टकम् // mmk_48.77 //

कुटजार्जुनजम्बूकं प्रियङ्गुष्ठोमकोद्भवम् / रक्तचन्दनकाष्ठं तु विशेषात् पटमुच्यते // mmk_48.78 //

प्लक्षोदुम्बरकाष्ठं च सहकारं विशेषतः / पुण्डरीकं ससर्जं वै सिन्दुवारं सिद्धोद्भवम् // mmk_48.79 //

वकुलं तिलकं चैव काष्ठं सप्तच्छदं तथा / विविधा वृक्षजातीनां पुंसस्त्रीनपुंसकाम् // mmk_48.80 //

सर्वेषां ग्रहणं काष्ठे मूलगण्डे ततोर्ध्वगम् / शाखासु सर्वतो ग्राह्या मधुकस्तिक्तकाष्ठयो // mmk_48.81 //

पिचुमन्दं तथा काष्ठे ऽरिष्टे भूततरौ तथा / पुत्रञ्जीवककाष्ठेषु नित्यं चैवाभिचारुके / अश्वत्थे शान्तिकं विन्द्यात् काष्ठे चापि महीतले // mmk_48.82 //

पौष्ट्यर्थं काष्ठमित्युक्तं अशोकं शीर्षमेव वा / सर्वकर्माणि सर्वत्र सर्वकाष्ठेषु योजयेत् // mmk_48.83 //

मूलकाष्ठेन प्रतिमाग्रा मूलनक्षत्रयोजिता / ततस्तम्भकृते काष्ठे ज्येष्ठनक्षत्र योजयेत् / ततः शाखाकृतं काष्ठं सर्वनक्षत्र योजयेत् // mmk_48.84 //

ततोर्ध्वनक्षत्ररेवत्या इन्दुवारेण कारयेत् / मूल आदित्यवारे वै स्तम्भः शुक्राद्यमीक्ष्यते // mmk_48.85 //

सर्ववारैस्तथा मुख्यैः सर्वग्रहगणादृते / मूले रसातलं गच्छेत् आसुरिं तनुमाविशेत् // mmk_48.86 //

ततस्तम्भकृतैः काष्ठैः गाण्डैश्चापि समुद्भवैः / वश्याकर्षणभूतानां जम्भस्तम्भमोहनाम् // mmk_48.87 //

कुर्यादाभिचारं वै तेषु प्रतिमा समाविशेत् / ततो र्ध्वं नभस्तलं गच्छेदूर्ध्वकाष्ठसमुद्भवैः // mmk_48.88 //

प्रतिमां देव्य समायुक्ते सुरयानसमाश्रयाम् / शाखासु सर्वतो गच्छेदन्तर्धानसुखोदयाम् // mmk_48.89 //

दिशां च सर्वतो मन्त्री यथेष्टं वा कर्म समारभेत् / काष्ठाः सर्वे तु निर्दिष्टाः प्रतिमालक्षणमिष्यते // mmk_48.90 //

नौयान च समारूढा देव्याकारसुभूषिताः / कुमार्याकारचिह्नस्तु पञ्चचीरकमूर्धजाः // mmk_48.91 //

तथैव करविन्यस्तौ मण्डले ऽस्मि हि बोधिताः तुम्बुरुः सार्थवाहो वै कर्णधारो महाद्युतिः // mmk_48.92 //

करवालकरन्यस्तो वाहमन्तो ऽथ सव्यके / तिर्यग्नावगता मन्त्रा त्र्यङ्गुलद्व्यङ्गुलोद्भवा // mmk_48.93 //

दीर्घशो वितस्तिमात्रं वा नावं चैव सुकारयेत् / सुसृष्टं श्वेतसङ्काशं शङ्खेन्दुधवलसन्निभम् // mmk_48.94 //

जया कारयेद् धीमान् तुम्बुरुं च विशेषतः / विजयां पीतनिर्भासामजितां चैव सुरक्तिकाम् // mmk_48.95 //

अपराजिता कृष्णवर्णा वै शुक्लां चैव अनामिकाम् / प्रसन्नां तुम्बुरुमूर्त्त्या जयां चैव विनिर्दिशेत् // mmk_48.96 //

ईषिद्भ्रुकुटिनो देव्या विजया चापराजिता / अजिता सौम्यवेशा तु कर्तव्य थ सर्वतः // mmk_48.97 //

अङ्गुष्ठपर्वमात्रं वा कन्यसाङ्गुलिमात्रता / सवाः प्रमाणवेषाख्या कथिता सर्वमन्त्रिणैः // mmk_48.98 //

दन्ती भोगगदा ख्याता सौवर्णपार्थिवोद्भवाः / पृथिव्यामधिपत्योर्वा कुर्यामेतां सुशोभनाम् // mmk_48.99 //

रौप्यं ताम्रमयीं वापि प्रतिमा ख्याता वशावहा / आकर्षणं च भूतानां कांसी ह्युक्ता महीतले // mmk_48.100 //

त्रपुसीसकलोहैश्च प्रतिमा ह्युक्ताभिचारुके / समारै रत्नविशेषैश्च प्रवालस्फटिकसम्भवैः // mmk_48.101 //

कुर्यात् प्रतिमां सौम्यां आशु सिद्धिलिलुप्सुभिः / कपालास्थिमयैः प्रतिमैः कर्म कश्मलजोद्भवम् // mmk_48.102 //

शृङ्गैः विविधमुख्याद्यैः यथान्यस्तार्थलाभिनाम् / सिद्ध्यन्ते सर्वमन्त्रा वै क्षुद्रमन्त्राश्च भूतले // mmk_48.103 //

यथासम्भवतो लाभा यथाप्राप्तार्थसम्भवा / सिद्ध्यन्ते सर्वतः कृत्वा प्रतिमाभिश्च योजिता // mmk_48.104 //

इति //

अथ तुम्बुरुः सार्थवाहः सर्वेषां साधनविधानं समाचक्षते सामान्यतः / दन्तमयीं प्रतिमां कृत्वा देवीनां कन्यसाङ्गुलिप्रमाणामतिगुप्ते प्रदेशे आहूय मूलमन्त्रैः वामहस्तेन धूपं दत्वा जयाया मूलमन्त्रं जपेत् / अष्टसहस्रमष्टशतं वा जपं कृत्वा यन्मनीषितं तत् सर्वं स्वप्ने कथयति / त्रिसन्ध्यं सप्तदिवसानि जपः कर्तव्यः / यथेप्सितं तत् सर्वं सम्पादयन्ते / वश्याकर्षणग्रहविमोक्षणादीनि सर्वाणि क्षुद्रकर्माणि कुर्वन्ति / यथेष्टं वा सत्त्ववशीकरणे उत्तमसाधनादिषु कर्माणि निमित्तानि दर्शयति / जातीकुसुमैर्देवीनां प्रतिमां ताडयेत् / राजा वश्यो भवति / (वैद्य 421) जातीकलिकैः देवीनां प्रतिमां ताडयेत् / अष्टशतवारां पञ्चकलिकाभिः त्रिसन्ध्यं सप्तं दिवसानि / यामिच्छति राजकन्यां महाधनोपेतां वराङ्गरूपिणीं तां लभते / जातीपुष्पैः पञ्चभिः कुसुमैः प्रतिमा एकैका आहन्तव्या त्रिसन्ध्यं सप्तदिवसानि अष्टशति / यामिच्छति वराङ्गनां तां लभते / तामेव प्रतिमामादाय मूर्धनि धारयेत् / केशावृतं कृत्वा भर्ता चास्य दासत्वेनोपतिष्ठति / ऊरुमध्ये संन्यसेत् / परमसौभाग्यं लभते / गृहीत्वाध्वानं वज्रेत् / चोरैर्न मुष्यते / परबलं दृष्ट्वा स्तम्भयति / सङ्ग्राममवतरेत् / शस्त्रैर्न हन्यते / अरिं मोहयति / परसैन्यं हस्त्त्यश्वरथपर्यटतीं स्तम्भयति / अञ्जनमभिमन्त्र्याक्षीणां जपेत् / यं प्रेक्षति सो ऽस्य दासभूतो भवति / गोरोचनामभिमन्त्र्य आत्मवक्त्रे तिलकं कृत्वा यं प्रेक्षति सो ऽस्य वशो भवति / यावत् तिलकास्तिष्ठते / तावन्मैथुने ऽव्यवच्छिन्नरतो भवति /

एवं वस्त्रधूपगन्धमाल्यपुष्पोपकरणविशेषांश्च यज्ञोपवीतदण्डकमण्डलुकाष्ठोपानहाशयनयानासनभोजनादिषु सर्वोपकरणविशेषां सप्ताभिमन्त्रितां कृत्वा आत्मना परैर्वा कारापयेत् / सर्वसत्त्वा वश्याभवन्ति किङ्करानुवर्त्तिनः / माषजम्बुलिकां सप्ताभिमन्त्रितां कृत्वा प्रच्छन्ने स्थाने देवीनामग्रतः अग्नौः अष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्त दिवसानि सर्वे रण्डाः सर्वे डाकिन्यः सर्वे भूतग्रहाः सर्वे च कश्मलाः वशा भवन्ति / किङ्करानुवर्तिनो योजनशतगमनागमने च गोमूत्रेण पिष्ट्वा पूर्वाहे पिण्डारकबन्दकं आम्रबन्दकं च गृह्य सहस्रसम्पादितं कृत्वा पादं लेपयेत् / दिव्योदकेन ज्येष्ठोदकेन वा सर्वकर्मसु योज्य सर्वपूजितेषु च कल्पेषु परमन्त्रविधानेनापि / किन्त्वय विशेषः / यत्र मण्डले सार्थवाहस्य तुम्बुरुर्भगवां धर्मस्वामी बुद्धः सर्वसत्त्वानामग्रः शाक्यमुनिरभिलिखितः तस्मिं मण्डले दृष्टसमयस्य कर्माणि कर्तव्यानि / आशु सर्वकर्माणि सिद्ध्यन्तीति / दशसहस्राणि पूर्वसेवाजापः कार्य इति //

जया स्वकल्पं भाषते / मरकतेन्द्रनीलपद्मरागस्फटिकादिभिः प्रवालाङ्कुराश्मवैदूर्यरत्नविशेषैः सुवर्णरूप्यमयैर्वा प्रतिमां कृत्वा देवीनां कन्यसाङ्गुलप्रमाणा यवफलमात्रं वा मुक्ताफलं वा प्रतिमां कृत्वा नौयानसमारूढा चतुर्भगिनीनां सभ्रातृसहितानामन्तशः प्रतिमां कृत्वा पूर्ववद् यथाभरणप्रहरणविशेषाणां देवीनां शुचौ देशे चन्दनकुङ्कुमकर्पूरोदकाभ्यषिक्ते तैरेव मण्डलं कृत्वा अतिगुप्ते स्थाने मार्गशीर्षमासे कार्त्तिकपूर्णमास्यां वा अन्ये वा सितपक्षे प्रातिहारककुसुमागमे अन्ये वा शुक्ले ऽहनि प्रशस्ते तिथौ चन्द्रभार्गववारे रोहिणीरेवत्यनुराधाज्येष्ठनक्षत्रा भिक्षाहारेण उदकसक्तवाहारेण वा हविः फलभक्षणे वा मोचाम्रफलसनालिकेरैः पूर्वं जयायाः अक्षरलक्षं जपेत् / जप्ता कृतपुरश्चरणः तथागतबिम्बोदयमण्डलं तुम्बुरुर्दृष्ट्वा कृतरक्षः शुक्लाम्बरधरः स्रग्वी मालतीकुसुमावबद्धशिरस्कः अहोरात्रोषितो भूत्वा साधनमाविशेत् / पूर्ववदर्घं कृत्वा जातीकुसुमौघं महाकृपापिण्डीतगरनागकेसरपुन्नागैर्वा एतेषामन्यतमेन नवैर्वा महतीं पूजां कृत्वा मालतीकुसुमानां पञ्च पञ्च गृहीत्वा देवीनां ताडयेत् / सभ्रातृसहितानां लक्षत्रयेण / षड्भिः मासैः विद्याधरो भवति / क्षणेन ब्रह्मलोकमपि गच्छति / दिव्यरूपी यथेष्टगतिरन्तरकल्पं जीवति / अन्यकल्पविधानेनापि सर्वलौकिकैः मन्त्रैः सिद्ध्यतीति //

अजिता स्वकल्पं भाषते चैव मन्त्रिणी / उभावप्येतौ महादेव्यौ स्वमन्त्रयोनिजौ सर्वकर्माणि कुर्वन्ति पूर्ववत् / किन्तु एतेषामयं विशेषः / विजयायाः पीतपुष्पैः अजितायाः रक्तपुष्पैः (वैद्य 422) तद्वर्णैश्चोपकरणविशैषैः सर्वकर्माणि साधयेत् / विजयाप्येवमाहुः / प्रतिमा पीतरक्ता कार्या / पूर्ववत् तथागतमण्डलं कृत्वा तुम्बुरोः सार्थवाहस्य अजितायास्ताम्रमयी रक्तचन्दनमयीं वा मम कल्पे तु रूप्यरागमयी पीतनिर्भासः गोरोचनकुङ्कुमाक्ता च कार्या / तथैव सर्वं पूर्वनिर्दिष्टम् / उभौ परस्परतः देव्यावेवमाहुः / विजया अजिता च / यथाभिलषितमनसेप्सितं सर्वकर्माणि साधय इति //

अपराजिता एवमाह / अहमपि कल्पं भाषे / यन्मयोदितं मण्डले ऽस्मिं सर्वं तथैव कर्तव्यं स्वमन्त्रेणैव / श्मश नाङ्गारेण श्मशानभस्मेना वा देवीनां प्रतिमां लिख्य कृष्णपुष्पैरभ्यर्च्य शत्रोर्नामं गृह्य जपेत् गुह्ये प्रदेशे श्मशाने वा / तत्क्षणान्मृयते / उन्मत्तको वा भवति / अपस्मारेण वा गृह्यति / गोत्रोत्सादनं वा करोति / साधकस्येच्छया तत्रैव श्मशाने महामांसं जुहुयात् / अरीन् नाशयति स्तम्भयति शोषयति महाराक्षसेन गृह्णापयति गोत्रोत्सादं वा करोति साधकस्येच्छया / सर्वविषयजनपदं महामार्योपसर्गेण गृह्णापयति पुनः स्वस्थीकरोति / एवं सर्वकर्माणि क्रूराणि परप्राणहराणि सद्योपघातानि / कृष्णपक्षे चतुर्दशीनबम्यष्टमीषष्ठीचतुर्थ्यादिभिस्तिथौ कार्याणि / आदित्याङ्गारकशनैश्चरवारैरहोभिः सर्वकर्माणि सिद्ध्यन्ति / अयत्नेनैव श्मशानाङ्गारं गृह्य चण्डालकपाले नाममालिखेत् प्रतिबिम्बं वा स्त्रियः पुरुषस्य वा लिखेत् / तत्क्षणादेव सन्ध्यन्ति / भगे ऽङ्गुलिं दत्वा च प्रतिबिम्बे कपालस्थे तत्क्षणाद् दह्यमाना स्त्री आगच्छति योजनशतादपि / कपालं गृह्य जपद् अदृश्यो भवति / कज्जलं गृह्यं अक्षीण्यञ्जयेत् / मदनाग्निना दह्यमाना स्त्री आगच्छति / सर्वकर्माणि कर्तव्यानीति //

एवमुक्ता देव्यो भगवन्तं याचयन्ति स्म / तद् वदतु भगवां धर्मस्वामी बुद्धो स्वमन्त्रं च / या चास्माकमनुकम्पार्थं सर्वसत्त्वानां च हिताय सुखाय स्वमन्त्रचर्यात् //

अथ भगवां तथागतः शाक्याधिराजतनयः तां कन्यांमीषदवलोक्य भ्रातृसहितामिमां वाचमुदीरयन्ति स्म / न यूयं कन्यका भ्रातृपञ्चमा तथागतस्य गुणमहात्म्यं मन्त्रचर्याप्रभावं श्रोतुं चर्यां वा प्रतिपद्येतुम् / को ऽन्य सदेवके सश्रमणब्राह्मणिकायां पूजायां श्रोतुं चर्यां वा प्रतिपद्येतुम् / वर्जयित्वा उत्पादितबोधिचित्तानां दशभूमिप्रतिष्ठितेश्वराणां बोधिसत्त्वानां सर्वमन्त्रचर्यानिर्हारसमनुप्रवेशसर्वतथागतज्ञानमायाप्रतिविशिष्टमूर्ध्वजः को ऽन्यं शक्तः श्रोतुं ज्ञातुं वा निर्देशं मन्त्रचर्यासमनुप्रवेशमाचक्षितुं सर्वसत्त्वानां च प्रकाशयितुम् / वर्जयित्वा तथागतानामर्हतां सम्यक् सम्बुद्धानां तत्प्रतिपन्नानां च सत्त्वानामुत्पादितवोधिचित्तानाम् / न यूयं कन्यकाः शक्यथ / तेन हि बोधिचित्तमुत्पादयध्वम् / सर्वसत्त्वानामन्तिके मैत्रचित्ता हितचित्ता भवथेति //

एवमुक्त्वा ताः कन्यकाः तृशरणपरिगृहीताः उत्पादितबोधिचित्ताश्च निषण्णा धर्मश्रवणाय तूष्णीम्भूता इति //

आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् षट्चत्वारिंशतिमः पटलविसराद् द्वितीयसाधनोपयिकमण्डलप्रवेशानुविधिश्चतुःकुमार्यपटलविसरः परिसमाप्तमिति //

अथैकोनपञ्चाशः पटलविसरः / अथ ता देवता भगवन्तं शाक्यमुनिं सर्वांश्च बोधिसत्त्वां सर्वश्रावकप्रत्येकबुद्धांश्च त्रिः प्रदक्षिणीकृत्य शिरसा प्रणम्य बुद्धं भगवन्तं निरीक्षमाणाः स्थिताः अभूवं निरीक्षमाणाः समन्त्रतन्त्रकल्पविस्तराणि च / भाषन्ते स्म स्वमुद्राणां चौषध्यो यथाभिमतं भाषन्ते स्म / अनुज्ञाता तथागतेनार्हता सम्यक्सम्बुद्धेन सत्त्वानामर्थाय सर्वमुद्रामन्त्रपटलविसरं भाषते स्म स्वकं स्वकं मुद्रापटलमोषधीनां च कल्पं भाषन्ते स्म //

तुम्बुरुः सार्थवाहो एवमाह - आदौ तावद् गन्धेन हस्तावुद्वर्त्य चन्दनमिश्रेण वान्यैर्वा सुगन्धजातिभिर्देवीनामग्रतः प्राङ्मुखः स्थित्वोदङ्मुखो वा वामहस्तेन दक्षिणहस्ताङ्गुष्ठं मुष्टियोगेन गृहीत्वा अवसव्येन भ्रामयित्वा नाभिदेशे स्थापयेत् / मुष्टियोगेन शिरःस्थाने वा न्यसेत् / एष भगवं तुम्बुरेः सार्थवाहस्य समयमुद्रा मम / तदेव हस्तौ कर्मार्थसाधका वामहस्तेनाङ्गुष्ठमभ्यन्तरे प्रक्षिप्य दृढं प्रगृह्य मुष्टियोगेन नाभिदेशे न्यसेत् / एष भगवं मम जयाया मुद्रा सर्वकर्मकरा / तदेव मुष्टिं तर्जन्यां विकास्य तर्जयेत् / दक्षिणां दिशि सर्वबिघ्ना प्रनश्यन्ते / एष द्वितीयो महामुद्रः द्वितीयमङ्गुलिमुत्क्षिप्य पश्चिमां दिशि मावर्जयेत् / एष द्वितीयो महामुद्रः सर्वदुष्टा नागां स्तम्भयति निर्विषीकरणे च प्रयोक्तव्यः / तृतीयमङ्गुलिमुत्क्षिप्य उत्तरायां दिशि आवर्जयेत् सर्वयक्षयक्षीकिन्नरमहोरगकूष्माण्डाश्च वश्या भवन्ति / आकृष्टा एषा तृतीया महामुद्रा भवति / सर्वाशापारिपूरिका / सर्वकर्माश्चाभिमुखा भवन्ति / चतुर्थमङ्गुलिं विकास्य अभ्यन्तरस्थितमङ्गुष्ठं सङ्कोच्य हस्ततले पूर्वायां दिशि आवर्जयेत् / सर्वे देवा वश्या भवन्ति / देवानामग्रतः प्राङ्मुखो भूत्वा दर्शयेत् / सर्वभूता वश्या भवन्ति / सर्वसत्त्वानां च प्रियो भवति / एषा चतुर्था महामुद्रा सर्वकामफलप्रदा / द्वौ हस्तौ संयम्य सर्वमङ्गुलिं विकास्य अञ्जल्याकारेण मूर्धन्यास्पृशेत् / ऊर्ध्वमधश्चावलोकयेत् / आब्रह्मस्तम्बपर्यन्तात् / अधश्च रसातलम् / सर्वदेवदानवां वशमानयति / एष पञ्चमो महामुद्रः सर्वकर्मार्थसाधकः / एतदेव भगवं पञ्च महामुद्रा सर्वकामफलप्रदा भवती ति //

विजयां एवमाह - पञ्च एव भगवं मम महामुद्रा भवन्ति / वामहस्तेनाङ्गुष्ठाभ्यन्तरं कृत्वा यथा नखा न दृश्यन्ते तथा कार्यं दृढं मुष्टिं कृत्वा प्रहारमार्जनयोगेनाधः अवलोकयेत् / एष प्रथमा महामुद्रा / द्वितीयमपि ऊर्ध्वमवलोकने / तृतीयं दिग्दक्षिणमवलोकने चतुर्थं सर्वदिग्ग्रहणे / पञ्चमं शिरसि न्यस्तम् / एत एव पञ्चमहामुद्रा सर्वकामफलप्रदा भवन्ति इति //

अजिता एवमाह - उभौ हस्तौ संयम्य उभौ अङ्गुष्ठमध्ये प्रक्षिप्य सुषिरञ्जल्याकारं कृत्वा मध्यमाङ्गुलिसूचिकौ कन्यसाङ्गुलिमुच्छ्रितौ पाशाकारं कृत्वा तर्जन्यौ तथैव चानामिकाववष्टभ्य अजिता नाम महामुद्रा भवति / दुर्दान्तदमका पुण्या सर्वकर्मार्थसाधकः / तदेव मुद्रं दक्षिणां दिशि मावर्जयेत् / द्वितीया महामुद्रा विजया नाम भवति / एवं पश्चिमायां दिशि मावर्जयेत् / जया नाम महामुद्रा भवति / एवमुत्तरायां दिशि मावर्जयेत् / अपराजिता (वैद्य 424) नाम भवति महामुद्रा / एवं पूर्वायां दिशि मावर्जयेत् / महासार्थवाहो नाम महामुद्रा भवति / एत एव पञ्चमहामुद्राः सर्वाशापारिपूरका भवन्ति इति //

अपराजिता एवमाह - पञ्च एव भगवं मम महामुद्रा भवन्ति / पूर्ववत् हस्तौ प्रक्षाल्य कृष्णपक्षे बन्धयितव्याः / तेनैव विधिना यथा साधने ऽस्मिं तथा योज्याः / दक्षिणाभिमुखं स्थित्वा देवीनामग्रतः उभौ हस्तौ संश्लिष्य मध्यमानामिकातर्जन्यादिभिः त्रिसूच्याकारं तृशूलं कृत्वा कनिष्ठिकाङ्गुलिमध्यमङ्गुष्ठौ च मध्ये प्रक्षिप्य हस्ततले ऽस्मिं मूर्ध्नि स्थाने तदा न्यसेत् / प्रथमं महामुद्रः अपराजिता नाम एवं सर्वे प्रयोक्तव्याः / यथा अजितायाः / यन्नामिका भगिन्यः भ्रातृसहिताः तन्नामकाः सर्वेषां महामुद्रा भवन्ति / यदेष हस्ततले एतत् सागरम् / यदेतदङ्गुष्ठं यद् भ्रातुस्तुम्बुरोः यदेतदङ्गुल्यः सर्वे भगिन्यः अनुपूर्वसंज्ञकाः / तर्जनी जया मध्यमा विजया अनामिका अजिता कन्यसा अपराजिता / एतदनुपूर्वक्रमेण पद्भ्यामेव योज्यः / ध्याताः नमस्कृताश्च सान्निध्यं कल्पयन्ति / चिन्तिता नाचिन्तिता मुद्रा भवन्ति / सर्वकर्मकराः सर्वाशापरिपूरकाः विषमस्थे चिन्तयितव्या महामुद्राः / भयं न भवति इति //

तुम्बुरुः सार्थवाह एवमाह - अथेषां सामान्यतः अगदाभिधानं भवति / अस्माकं च ओषधीनां प्रभावो येन वश्या भवन्ति सर्वभूताः / कतमं च तत् / अश्वत्थन्यग्रोधशुङ्गां गृहीत्वा क्षीरेण पीषयित्वा गोक्षीरेणालोड्य सितपक्षे अश्विनिनक्षत्रेण इन्दुवारे तिथौ सप्तम्यां पूर्वाह्ने ऋतुमत्याः स्त्रियाया अप्रसवनधर्मिन्याः सार्थवाहमन्त्रेण परिजप्य सप्तवारां तथैव मुद्रां बध्वा पाययेत् पूर्वाभिमुखां कृत्वा नारी गर्भं ग्रहेष्यते / पुत्रं जनयते दीर्घायुष्यं सुपतिना च सह स्वप्तव्यम् / तेषामेव मूलं गृहीत्वा मूलनक्षत्रेणोत्तरायां दिशि गतायां शिलायामादित्यवारेण सूक्ष्मचूर्णानि कारयेत् / यस्य ददाति स वशो भवति आहारपानभोजनादिषु गन्धमाल्यताम्बुलादिषु प्रयोक्तव्यम् / यथा शरीरेषु विशति तथा कार्यम् / स्पृशति वाचा सत्त्वेनोपतिष्ठति / तदेव शुङ्गौ तेनैव विधिना यथा स्त्रिया तथात्मना पिबेत् / स्त्रीशतमपि गच्छति अव्यवच्छिन्नरेतः / तथा स्त्रियामपि बृहल्लिङ्गतामभिनिर्वर्त्तयति / गोर्जरुकः शतपादी वा नरशक्रफलानि तथैव चूर्णमिदं पयसा सह पेयं यस्य गृहे प्रमदाशतमस्ति / एवमनेन प्रकारेण पूर्वमूलां स्वमुद्रां मन्त्रेणोपेताः वर्जयित्वा विषमुपविषं च सर्वं योज्यम् / सर्वकर्मिषु च सर्वभूतानां वशीकरणमुत्तमं साधनीयाश्चे ति //

जया एवमाह - जयन्तीमूलं गृह्य तथैव कर्त्तव्यं यथा तुम्बुरेः सर्वकर्माणि साधयति / अथाकाशगमनमिच्छेत् / जयन्तीमूलं तृलोहपरिवेष्टितं कृत्वा पुष्ययोगेन सोमवारेण शुक्लपक्षसप्तम्यां सपूर्णमास्यां चतुर्दश्याष्टम्यां त्रिरात्रोषितेन शुचिना कुङ्कुममिश्रं कृत्वा मुखे प्रक्षेप्तव्याः / चन्द्रग्रहे मुक्ते अन्तर्हितो भवति / स्वमन्त्रं अक्षरलक्षं जप्त्वा गुडिकां प्रक्षिप्य चन्द्रग्रहे मुक्ते विद्याधरो भवति कामरूपी यथेष्टगतिः विंशतिवर्षसहस्राणि जीवति / उद्गीर्णे पुनर्दृश्यति / मानुषे पुनः एवं सर्वकर्माणि करोती ति //

विजया एवमाह - किन्तु अयं विशेषः / अगस्तिवन्दाकं गृह्य ज्येष्ठोदकेन दिव्यवारिणा वा पिष्ट्वा स्वमन्त्रेणाभिमन्त्र्य पादौ म्रक्षयेद्योजनशतं गमनागमनं करोति / अखिन्नं यावन्न त्यजते / विजयामूलं गृह्य तथैव कर्तव्यम् / तथा जयायाः सर्वं करोति इति //

अजिता एवमाह - अजितमूलं सङ्गृह्य तथैव कर्त्तव्यम् / सर्वं साधयति इति /

अपराजिता एवमाहं - अपराजितामूलं गृह्य शुक्लकृष्णौ सपत्रफलमूलौ सर्वं तथैव कर्तव्यं यथा सार्थवाहस्येति / किन्त्वयं विशेषः / आशुकारि क्षिप्रं सिद्ध्यतीति /

पुत्रञ्जरी कृताञ्जली सहा च सहदेवा च महोषधी / छत्राधिच्छत्रा तथा देवी महाकालश्च विश्रुतः / नाकुली गन्धनाकुल्यौ तथा सङ्कुचितकर्णिका // mmk_49.1 //

एतेषां मूलमादाय शूर्जचूर्णानि कारयेत् / अनेन पृष्टमात्रस्तु वशमायान्ति देहिनः // mmk_49.2 //

रक्तशालितुषं चैव कुङ्कुमं सहचन्दनम् / कस्तूरिकासमायुक्तं दिव्यवारिसमप्लुतम् // mmk_49.3 //

त्रिलोहाकारयेवेष्टं वै गुटिकां कुर्वीत मन्त्रवित् / अक्षमात्रं ततः कृत्वा गुटिकां वक्त्रे तुं तां न्यसेत् // mmk_49.4 //

चन्द्रग्रहे ऽथ रात्रौ वा जपेन्मन्त्रं समाहितः / प्रभाते सिद्धमन्तस्तु यथेष्टं याति देहजः // mmk_49.5 //

परिवर्तयते जापं वक्त्रस्था गुटिका सदा / यथेष्टपशुरूपी वा समन्ताद्धिण्डति मेदिनीम् // mmk_49.6 //

उद्गीणे तथा युक्तिः स्वदेही भवति जापधीः / अन्यथा यदि वक्त्रस्था विश्वरूपा भवेत् सदा // mmk_49.7 //

स्वमन्त्रेणात्मरक्षं तु कृतजापी विशिष्यते / अन्यथा हृयते गुटिका यदि रक्षां न करोति जापी // mmk_49.8 //

सर्वमन्त्रास्तु सिद्ध्यन्ते मन्त्रराट् सर्वलौकिकाः / पूजनात् सर्वकल्पानां सर्वसर्वैश्च भाषिताम् / ते ऽस्मिं सिद्धिमायान्ति मन्त्रतन्त्राभिभाषिताम् // mmk_49.9 //

विचरन्ति महीं कृत्स्नां विचित्रा वेषधारिणो / गतियोनिविदेहस्थाः श्वानवायसरूपिणः / मार्जार तथोलूकाः मूषमण्डूकवृश्चिकाः // mmk_49.10 //

सर्वयोनिसमाकीर्णाः विदेहा देहविस्थिताः / पर्यटन्ति महीं कृत्स्नां सर्वभूतरुताविनः // mmk_49.11 //

सर्वसत्त्वे वशा वेषा सर्वभूते प्रियोदया / कुर्वन्ति च सदा मर्त्या तदा तेषां नियोजयेत् // mmk_49.12 //

नान्येषां कथ्यते लोके पूजिताश्चैव देवतैः / सर्वं च सर्वतो ज्ञेयं सर्वमन्त्रप्रसाधकम् // mmk_49.13 //

कथितं कथयिष्यन्ति ये चान्ये भुवि मानवाः / तत् सर्वं कल्पविसरं इह चोक्तं लोकमातरैः // mmk_49.14 //

एवमुक्तास्तु देवा वै सूत्रान्तसहपञ्चमाः / तूष्णीम्भूता ततस्तस्थु प्रणम्य जिनपुङ्गवम् // mmk_49.15 //

निषण्णो धर्मश्रवणाय तस्मिं पर्षद्वरेद्वरे / अधिष्ठानां च बुद्धानां अशेषाणां च जिनात्मजाम् // mmk_49.16 //

अध्येष्य च महावीरं तूष्णीम्भूतास्तदनन्तरे / अथ वज्रधृक् श्रीमां पूजयामास देवताः // mmk_49.17 //

साधुकारमदात् तेषां सत्त्वानुग्रहकाम्यया / साधु साधु ततः कन्य समये तिष्ठध्व यत्नतामिति // mmk_49.18 //

आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् सप्तचत्वारिंशतिमः पटलविसरात् तृतीयः चतुःकुमार्योपयिकसर्वसाधनजपनियममुद्राओषधितन्त्रमन्त्रसर्वकर्मपटलविसरं परिसमाप्त इति // अथ पञ्चाशः पटलविसरः / अथ खलु भगवां वज्रपाणिर्यक्षसेनापतिः तस्यां पर्षदि सन्निपतितो ऽभूत् / सन्निषण्णः उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य स येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - यो हि भगवं मञ्जुश्रिया कुमारभूतेन क्रोधराजा यमान्तको नाम भाषितः तस्य कल्पं विस्तरशो भगवता न प्रकाशितम् / नापि मञ्जुश्रिया कुमारभूतेन / अहं भगवं पश्चिमता जनतामवेक्ष्य भगवता परिनिर्वृते शासनान्तर्धानकालसमये वर्तमाने महाभैरवकाले युगाधमे सर्वश्रावकप्रत्येकबुद्धविनिर्मुक्ते बुद्धक्षेत्रे तथागतशासनसंरक्षणार्थं धर्मधातुचिरस्थित्यर्थं सर्वदुष्टराज्ञां निवारणार्थं रत्नत्रयापकारिणां निग्रहार्थं वैनेयसत्त्वकौशलाचिन्त्यबोधिसत्त्वचर्यापरिपूरणार्थं अचिन्त्यसत्त्वपाकमभिनिर्हरणार्थं च पश्चिमे भगवं काले पश्चिमे सुगतसमये शासनविप्रलोपे वर्तमाने य इमं यमान्तकं नाम क्रोधराजानं यथाविधि कल्पविनिर्दिष्टं प्रयोक्ष्यति तस्य सिद्धिः भविष्यति / नियतं च दुष्टराज्ञां शासनापकारिणां च सत्त्वानां महायक्षाणां महोत्साहिनां निग्रहानुग्रहप्रवृत्तानां महाकरुणाविरहितानां तेषामयं क्रोधराजा प्रयोक्तव्यः नान्येषाम् //

अथ भगवां तूष्णीम्भावेन बुद्धविकुर्वणाधिष्ठानं नाम समाधिं समापद्यते स्म / मञ्जुश्रीः कुमारभूतो ऽपि तूष्णीम्भावेन स्थितो ऽभूत् / सर्वावन्तश्च पर्षन्मण्डल षड्विकारं प्रकम्पमजायत /

भीताश्च देवसङ्घा उक्त्रस्ताः सर्वबालेशाः / सर्वदेवाश्च नागाश्च दानवेन्द्राः समातराः // mmk_50.1 //

सर्वे च ग्रहमुख्याद्या देवसङ्घाः प्रकम्पिरे / मानुषा प्रकम्पे भिन्नमनसो दुष्टचित्ताश्च पूतनाः // mmk_50.2 //

आर्त्ता भीताः ततस्ते वै रौद्रचित्ता नराधिपाः / शरणं ते तदा जग्मुः धर्मराजस्य शासनम् // mmk_50.3 //

गुह्यकेन्द्रस्य यक्षस्य वज्रपाणिमहाद्युतेः / मञ्जुघोषस्य ते भीताः कुमारस्यैव मन्त्रराट् / समयं च तदा चक्रे मञ्जुघोषस्य अन्तिके // mmk_50.4 //

परित्रायस्व भो बाल सर्वसत्त्वानुकम्पक / निर्दहिष्यामि नो अद्य क्रूरकमन्त्रैः सुदारुणैः / क्रोधेन मूर्च्छिता ह्यद्य प्रतिष्ठाम महीतले // mmk_50.5 //

ततस्तां बोधिसत्त्वा वै बालरूपी महाद्युतिः / मा भैष्ठथ सुराः सर्वे यक्षराक्षसदानवा // mmk_50.6 //

समयं वो मया ह्युक्तः अलङ्घ्यः सर्वदेवतैः / मानुषामानुषाश्चापि सर्वभूतैस्तु केवलैः // mmk_50.7 //

मैत्रचित्त सदा भूत्वा तन्मन्त्रं स्मरते सदा / सम्बुद्धं द्विपदामग्र्यं शाक्यसिंहं नरोत्तमम् // mmk_50.8 //

तेनैव भाषितं मन्त्रं उष्णीषाद्याः सलोचनाः / त्रैलोक्यगुरवश्चकी तेजोराशिं जयोद्भवम् // mmk_50.9 //

विजयोष्णीषमन्त्राद्यां पद्मपाणिं सलोकितम् / अवलोकितनाथं च भृकुटी तारां यशस्विनीम् // mmk_50.10 //

देवीं च सितवासिन्यां महाश्वेता यशोवतीम् / विद्यां भोगवतीं चापि हयग्रीवश्च मन्त्रराट् // mmk_50.11 //

एते ह्यब्जकुले मन्त्रा प्रधाना जिननिःसृता / एकाक्षरश्चक्रवर्ती वा मन्त्राणामधिपतिं प्रभुम् // mmk_50.12 //

स्मृत्वा देवदेवं च मन्त्रनाथं महाद्युतिम् / क्रोधमप्रभवो तस्य यमान्तो नाम नामतः // mmk_50.13 //

अवलोकितनाथस्य चेतांसि करुणोदयाः / महाकरुणाकृष्टमनसो पूर्वबुद्धैः प्रकाशिता // mmk_50.14 //

सा तारा तारयते जन्तूं अवलोकितभाषिता / विद्या समाधिजा आर्या स्त्र्याख्या संज्ञारूपिणी // mmk_50.15 //

बोधिसत्त्वो ऽथ चरते बोधिचारिकमुत्तमाम् / लोकधातुसहस्राणि असङ्ख्या बहुधा पुनः // mmk_50.16 //

पर्यटन्त तदा देवी सत्त्वानां हितकारणा / स्त्रीरूपधारिणी भूत्वा मन्त्ररूपेण देहिनाम् // mmk_50.17 //

विधिनेयतदां सत्त्वां बोधियानेति योजयेत् / चर्या बोधिसत्त्वानां अचिन्तेयं प्रकाशिता // mmk_50.18 //

वज्रपाणिं तथा वीरं मन्त्राणामधिपतिं स्मरेत् / मामकीं कुलन्दरीं देवीं त्रैलोक्यप्रतिपूजिताम् // mmk_50.19 //

शङ्कुला मेखलां चैव वज्रमुष्टिं यशस्विनीम् / क्रोधेन्द्रतिलकं शत्रुं नीलदण्डं सभैरवम् // mmk_50.20 //

एते दूतिगणाः क्रोधाः विद्याध्यक्षाः प्रकीर्तिताः / प्रधानां वज्रकुले सर्वे अस्मद्रक्षिता हि ते // mmk_50.21 //

गजगन्धं तथा लोके बोधिसत्त्वं महर्द्धिकम् / महास्थानगतं धीमं बोधिसत्त्वं महर्द्धिकम् // mmk_50.22 //

ज्येष्ठं तनयमुख्यं तु समन्तभद्रं सुशोभनम् / यः स्मरेत् तदा काले भयं तेषां न विद्यते // mmk_50.23 //

माणिभद्रं तथा नित्यं जम्भलं यक्षमुत्तमम् / सर्वश्रावकप्रत्येकं बुद्धानां च कुतो भयम् // mmk_50.24 //

स्मरणात् पूजनात् तेषां महारक्षा प्रकीर्त्तिता / बृहत् फलं तदा देवां पुण्याभां च असंज्ञका // mmk_50.25 //

स्त्रीरूपधारिणां देवीं वीतरागां महर्द्धिकाम् / रत्नत्रये च पूजां वै प्रसन्ना जिनशासने // mmk_50.26 //

तेषां न विद्यते किञ्चित् मित्रामित्रभयं यदा / समयं तत्र इत्युक्तः अलङ्घ्यं सर्वमन्त्रिभिः // mmk_50.27 //

एतत् क्रोधवरे ख्यातं यमान्तस्यैव वर्णिते / समये च स्थितां सत्त्वां अभक्षाः सर्वमानुषाः // mmk_50.28 //

ततस्ते हृष्टमनसः सर्वे देवा ह्यमानुषाः / समये तस्थिरे सर्वे जिनपुत्रानुबुद्धिना // mmk_50.29 //

यक्षसेनापतिः क्रुद्धः वचनं चेत् पराभवम् / सम्प्रकम्प्य तदा सर्वां लोकधातुमसङ्ख्यकाम् // mmk_50.30 //

निरर्थं क्रोधराजं तु किमर्थमिदं प्रकाशितम् / जिनपुत्रैस्तदा पूर्वं सत्त्वानां विनयकारणात् // mmk_50.31 //

प्रभावं क्रोधराजस्य उद्यष्टं च पुरातनम् / एवमुक्तास्ततो वज्री वज्रं निक्षिप्यं तस्थुरे // mmk_50.32 //

ततः प्रहस्य मतिमां बालरूपी महर्द्धिकः / कुमारो मञ्जुघोषो वै इमां वाचमुदीरयेत् // mmk_50.33 //

मा प्रदुष्य महायक्ष वज्रपाणि महर्द्धिक / मया प्रकाशितो ह्येष क्रोधराजो महर्द्धिकः // mmk_50.34 //

तवैव मन्त्रं दास्यामि यथेच्छं सम्प्रकाशय / त्वया न शक्यं क्रोधस्य प्रभावं परिकीर्तितम् // mmk_50.35 //

तयैव संस्थितो ह्येष देहस्थ इह दृश्यते / आकृष्टः तेन वै तुभ्यं हृदयं ते यदि पृच्छसि // mmk_50.36 //

न शक्यं निवर्त्तितुं ह्यत्र क्रोधाविष्टो हि वै प्रभो / यथेच्छं सम्प्रकाशयस्व समयं त्यक्त्वानुमन्यतः // mmk_50.37 //

अस्नाते प्रसुप्ते च ग्राम्यधर्मानुवर्त्तिते / तैलाभ्यक्ते अरक्षे च दुष्टचित्तेषु वा सदा // mmk_50.38 //

त्यक्तो मन्त्रवरैः सर्वैः अप्रसन्नेषु शासने / वैचिकित्सो तथा मर्त्यो अश्राद्धेषु दुःस्थिते // mmk_50.39 //

सद्धर्मरत्नसङ्घे च प्रतिक्षेप्तव्याः समाहिते / नग्नके च सदोच्छिष्टे अशुच्याचारगोचरे // mmk_50.40 //

अगुप्ते ह्यमन्त्रयुक्ते च नित्योच्छिष्टे हि निर्घृणे / देवावसथचैत्येषु विहाराङ्गणमण्डले // mmk_50.41 //

मैथुनाभिरता तत्र तेषां क्रोधो विनाशयेत् / समयभ्रष्टा प्रसन्नाश्च मन्त्रयुक्तिमजानका // mmk_50.42 //

इषिस्खलितगताचारा तेषां क्रोधो निपातयेत् / सर्वेषां मानुषां लोके अप्रमादो न विद्यते // mmk_50.43 //

प्रमादमभिरागिन्यः समयभ्रंशानुच्छिद्रिणे / हन्यन्ते क्रोधराजेन अप्रयुक्तैस्तु मन्त्रिभिः // mmk_50.44 //

सर्वथा बालिशाः सर्वे प्रमादा वशगामिनः / वीतरागां सदा मुक्त्वा प्रत्येकार्हश्रावकाम् // mmk_50.45 //

सर्वे वै क्रोधराजस्य वध्या दण्ड्याश्च सर्वतः / एवमुक्तास्तु मञ्जुश्री करुणाविष्टेन चेतसाम् // mmk_50.46 //

अचिन्त्यं चर्यबुद्धानां बोधिसत्त्वां महर्द्धिकाम् / एवमुक्त्वा ततः सर्वां तूष्णीम्भूतो हि तस्थुरे // mmk_50.47 //

अथ वज्रधरः श्रीमां भूयो वज्रं परामृशेत् / गृह्य वज्रं तदा तुष्टो लब्ध्वानुज्ञां प्रभाषत इति // mmk_50.48 //

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् अष्टचत्वारिंशत्तमः यमान्तकक्रोधराजपरिवर्णनमन्त्रमाहात्म्यनियमपटलविसरः परिसमाप्त इति //

अथ एकपञ्चाशः पटलविसरः / अथ खलु वज्रपाणिर्गुह्यकाधिपतिः सर्वावन्तं महापर्षन्मण्डल मवलोक्य सर्वांस्तां शुद्धावासोपरिनिषण्णां भूतसङ्घानामन्त्रयते स्म / शृण्वन्तु भवन्तो मार्षा यमान्तकस्य क्रोधराजस्यापरिमितबलपराक्रमस्य दुर्दान्तदमकस्य वैवस्वतजीवितान्तकरस्य दुष्टसत्त्वनिग्रहतत्परस्य महाबोधिसत्त्वस्य मञ्जुश्रियभाषितस्य महाबोधिसत्त्वस्यादौ तावत् पटविधानं भवति //

न तिथिर्न च नक्षत्रं नोपवासो विधीयते / अरीणां भयमुत्पन्ने पटमेतं लिखापयेत् // mmk_51.1 //

गृह्य कृष्णे निशापक्षे चतुर्दश्याष्टमौ तिथौ / श्मशाने मृतकं प्राप्य ब्राह्मणस्य अम्बरं तम् // mmk_51.2 //

गृह्य ततो रात्रौ असृणां रङ्गयेत् ततः / भूयो जलशौचं तु सुशुष्कं कारयेत्ततः // mmk_51.3 //

क्रूरं चित्रकरं क्रुद्धं भीषणे चापि लेखयेत् / श्मशाने कृष्णपक्षे च त्रिरात्रेणैव समापयेत् // mmk_51.4 //

अष्टमीं चतुर्दशीरात्रौ महावसादीपदीपितः / तत्र स्थितः चित्रकरः दक्षिणाभिमुखः सदा // mmk_51.5 //

कपाले मानुषासीने कृतरक्षः समाहिते / स्वयं वा आलिखेन्मन्त्री अरिदुःखभयार्दितः // mmk_51.6 //

प्रथमे रात्रिमारब्धे अरीणो ऽपि महद् भयम् / द्वितीये महाज्वरेणापि आविष्टः शत्रुमूर्च्छितः // mmk_51.7 //

तृतीये मुञ्चते प्राणां परलोकगतो भवेत् / कुतस्तस्य भवेच्छान्ति अप्रसन्नेन मन्त्रिणा // mmk_51.8 //

देहं शुष्यति शत्रोर्वै गृहभङ्गोपजायते / लिखनात् पटमेवं तु यमान्तस्य महाभये // mmk_51.9 //

पण्मुखं षट्चरणं लेख्यं कृष्णवर्णं वृकोदरम् / ....... क्रुद्धं व्याघ्रचर्मनिवसनम् // mmk_51.10 //

नानाप्रहरणं घोरं दण्डहस्तं भयानकम् / रक्तनेत्रं सरोषं च त्रिनेत्रगतिचिह्नितम् // mmk_51.11 //

ऊर्ध्वकेशं सजालं वै धूम्रवर्णं क्वचित् तथा / कृष्णाञ्जननिभं घोरं प्रावृण्मेधसमप्रभम् // mmk_51.12 //

कृतान्तरूपसङ्काशं महिषारूढं तु आलिखेत् / क्रूरकर्मं महाभीमं रौद्रं रुद्रघातकम् // mmk_51.13 //

यमजीवितनाशं वै उद्यन्तं सत्त्वघातकम् / क्रूरं भृशं सर्वकर्माणं भीषणापतिदारुणम् // mmk_51.14 //

भयस्यापि भयत्रासं मारकं सर्वदेहिनाम् / एतत् क्रुद्धवरं लिख्य आत्मशोणितवर्णकैः // mmk_51.15 //

व्यतिमिश्रमुज्ज्वलैर्लेख्य महावसागव्यमिश्रितैः / कपालभाजनैश्चापि मानुषास्थिसुसम्भवैः // mmk_51.16 //

कूर्चकैर्वर्किकैर्मुक्तो मृतकेशसुसम्भवैः / अभुञ्जानस्तथालिख्य स्वयं वा चित्रकरेण वा // mmk_51.17 //

प्रभूतबलिपुष्पाद्यैः रक्तमाल्यैर्वरचन्दनैः / महामांसवसाधूपैर्वसादीपैश्च भूषितम् / कारयेत् पटवरमादौ अन्ते मध्ये च पूजना // mmk_51.18 //

परिस्फुटं तु फटं कृत्वा वित्तं दत्त्वा तु शिल्पिने / प्रभूतं चापि मूल्यं वै येन वा तुष्यते सदा / अवध्यं तस्य कर्तव्यं धर्मं चापि सहाभयम् // mmk_51.19 //

यथेप्सितं तस्य कुर्वीत वीरमूल्यं समासतः / सफलं शिल्पिने कर्म निरामिषं चापि वर्जयेत् // mmk_51.20 //

तथा तथा प्रयुञ्जीत यथासौ सम्प्रतुष्यते / महारक्षा च कर्तव्या अन्यथा मृयते ह्यसौ // mmk_51.21 //

सकुटुम्बो नश्यते कर्मी आत्मनश्चापि रक्षयेत् / जप्तविद्येन कर्त्तव्यं नान्येषां विधिरुच्यते // mmk_51.22 //

परिस्फुटं तु पटं कृत्वा दृष्ट्वा वा मनसेप्सितम् / सर्वां च कारयेत् कर्मां रौद्रां शत्रूपघातकाम् // mmk_51.23 //

गृह्य पटवरं गच्छेद् यथेष्टं यत्र वाञ्छितम् / महायक्षां महाराज्ञां महावित्तसगर्विताम् // mmk_51.24 //

महामानातिमानानां क्रूरां क्रूरकर्मिणाम् / रत्नत्रयापकारीणां नास्तिक्यां मन्त्रवर्जिताम् / अपूजकानां तु मन्त्राणां तद्भक्तासृतनिन्दकाम् // mmk_51.25 //

जापिनां निन्दका ये च तेषां चैव पराभवा / तेषां प्रयोगः कर्त्तव्यः विधिदृष्टेन कर्मणा // mmk_51.26 //

अधर्मिष्ठां तथा नित्यां सर्वसत्त्वानुतापिनाम् / तेषां तु कर्म प्रयुञ्जीत सद्यः प्राणोपरोधिनम् // mmk_51.27 //

गृह्यारिष्टफलं पत्रं त्वचं चापि समूलतः / काञ्जिकं आम्लसंयुक्तं मानुषास्थिसचूर्णितम् // mmk_51.28 //

कटुतैलविषं चैव अम्लवेतसमार्द्रकम् / राजिकं रुधिरं चैव मानुषोद्भवसम्भवम् // mmk_51.29 //

गृह्य सर्वं समायुक्तं पटं स्थाप्य विवेकतः / दक्षिणाभिमुखो भूत्वा पटश्चापि उदङ्मुखः // mmk_51.30 //

कृत्वाग्निकुण्डं यथेष्टं वै शुक्लकाष्ठैः कटुमुद्भवैः / ज्वालयं कटकैश्चापि तस्मिं कुण्डे समाहितः / पुह्यात् सर्वसमायुक्तं विधिनिर्दिष्टहौमिकम् // mmk_51.31 //

अग्निराहूय मन्त्रैस्तु क्रोधराजस्य वै पुनः / बद्ध्वा शूलमुद्रं तु सर्वकर्मेषु वा इह // mmk_51.32 //

सहस्राष्टमाहुतिं दद्यादग्निकुण्डे सरोषतः / प्रथमे पुत्रमरणं सत्त्वे प्राप्ते तु तं भवेत् // mmk_51.33 //

द्वितीये चापि भार्या वै पार्षद्याः सनायकाः / तृतीये मरणं तस्य यस्योद्दिश्यं हि तत् कृतम् // mmk_51.34 //

अर्धरात्रे यदा जापः क्रियते पटसन्निधौ / शत्रूणां च वधार्थाय तत् तथैवानुवर्तते // mmk_51.35 //

राष्ट्रभङ्गं भवेत् तस्य सेनायां मारिसम्भवम् / अग्निदाहं महावातं महावृष्टिश्च जायते // mmk_51.36 //

समस्तं सर्वतश्चक्रं परचक्रेण हन्यते / विविधोपद्रवा तस्य महाव्याधिसमाकुलम् // mmk_51.37 //

देहं शुष्यति सर्वं वै तस्य राज्ञो न संशयः / अमानुषाकीर्ण सर्वन्तं गृहं तस्य समाकुलम् // mmk_51.38 //

धृतिं न लभते शय्यां आवर्तं च महीतले / राक्षसैः प्रेतक्रव्यादैः गृहं तस्य समावृतम् // mmk_51.39 //

आर्त्तो बिभेति सर्वत्र तीव्रदुःखैः सुदुःखितः / अशक्ता रक्षितुं तस्य महेश्वराद्या भुवि देवता // mmk_51.40 //

ब्रह्माद्या लोकपालाश्च शक्राद्या त्रिदशेश्वराः / सर्वमन्त्राः सर्वदेवाश्च सर्वलौकिकसम्भवा // mmk_51.41 //

दुष्टारे मानिने क्रुद्धे तदन्तं तस्य जीवितम् / अर्धरात्रे तु मध्याह्ने भाषितो यत्र जापिनः / क्रुद्धो वेवस्वतः साक्षाद् यमराजावकल्पते // mmk_51.42 //

यथेष्टं कृष्णपक्षे च पटं संस्थाप्य महीतले / महतिं पूजां बलिं कृत्वा श्मशानारण्यसम्भवे // mmk_51.43 //

एकवृक्षे तथा लिङ्गे शैले प्रान्ते गुहासु वा / एकाकी अद्वितीयश्च सदा कर्म समारभेत् // mmk_51.44 //

महारण्ये विविक्ते च शून्ये देवकुलेषु च / शून्ये मन्दिरे नद्यां अम्बुधेः तटमाश्रिते // mmk_51.45 //

तत्र देशे समीपे वा तत्रस्थे वा यथेप्सितम् / योजनाशतमभ्यन्तर सदा कर्माणि कारयेत् // mmk_51.46 //

एतत् प्रमाणकर्माणि कारयेच्छुचिना सदा / अप्रमेयस्थितो वापि गतदेशामितः शुचिः // mmk_51.47 //

अचिन्त्यमन्त्रविषये अचिन्त्यं मन्त्रगोचरम् / अचिन्त्यो ऋद्धिमन्त्राणां अचिन्त्यं सिद्धिजापिनाम् / अचिन्त्यं दृश्यते कर्म फलं चापि अचिन्त्यकम् // mmk_51.48 //

क्रोधराजस्य यमान्तकस्य महात्मने / कर्मं ऋद्धिविषयं विकुर्वणं च महोदयम् / अचिन्त्यं रूपिणां सिद्धि दृश्यते ह महीतले // mmk_51.49 //

अशक्ता रक्षयितुं सर्वे बोधिसत्त्वा महर्द्धिकाः / किं पुनर्लोकिका मन्त्राः सग्रहा मातराश्च ताः // mmk_51.50 //

ईशानश्च सविष्णुर्वा स च स्कन्दो पुरन्दरः / समये धारिता ते ऽपि सजिना जिनपुत्रकाः // mmk_51.51 //

बोधिसत्त्वा महात्मानो दशभूमिसमासृताः / प्रत्येकबुद्धा ह्यर्हन्त वीतरागा महर्द्धिकाः / अशक्ता रक्षयितुं ते ऽपि समयं तैः पुरा कृतम् // mmk_51.52 //

संक्षेपेण तु वक्ष्यामि शृणुध्वं भूतकांक्षिणा / नान्यो निवर्त्तने शक्तः अप्रसन्नेन जापिने / कुतस्तस्य भवेच्छान्तिरतुष्टे मन्त्रवरे इह // mmk_51.53 //

यदा प्रसन्नमनसः करुणार्द्रा व भवेत् कदा / जापिनः क्रोधराजस्य यमान्तस्य महात्मने / तदादौ लभते शान्तिं धृतिं वा जीवधारणम् // mmk_51.54 //

पिचुमन्दं कटुतैलं च काञ्जिकं विषपञ्चमम् / रुधिरं मानुषं मांसं लवणं त्रिकटुकं पुनः // mmk_51.55 //

राजिकं शङ्खचूर्णं च अम्लवेतसमार्द्रकम् / धुर्धूरकस्य तु मूलानि कोशातक्या तथैव च // mmk_51.56 //

एरण्डमूलं यवक्षारं कुसुम्भं चापि कण्टकम् / मदनोद्भवमूलं च लशुनं गृञ्जनकं तथा // mmk_51.57 //

पलाशशाखोटकं चैव ससुरासवा / सर्वान्येतानि समं कृत्वा जुहुयात् अग्नौ पटसन्निधौ // mmk_51.58 //

हुते सहस्रमष्टे तु शत्रुनाशः समूलतः / सर्वां वा राजिकां हन्या पारिषद्यां शुभाशुभाम् // mmk_51.59 //

समूलोद्धरणं तस्य द्वितीये सन्ध्ये तु जुह्वता / तृतीये समनुप्राप्ते सन्ध्ये जुह्वत जापिना // mmk_51.60 //

दुर्भिक्षं भवते तस्य जने चापि सनैगमे / अनावृष्टिमहामार्यः राक्षसाकीर्णसर्वतः // mmk_51.61 //

अग्निदाहं शिलापातं वज्रनिर्घातसाशनिः / जनपदं देशविषयं वा यवाः तस्य नराधिपे // mmk_51.62 //

बह्नोपद्रवसम्पातं वरचक्रागमं तथा / अनेकधा बहुधाश्चापि तस्य देशे उपद्रवाः / जायन्ते विविधाकाराः महालक्ष्मीप्रणाशनैः // mmk_51.63 //

धुर्धूरकमूलं जुहुयादेकं उन्मत्तिस्तस्य जायते / कटुकं जुह्वतो नित्यं महादाहेन गृह्यते / अत्यम्लं जुह्वतो मग्नौ महाज्वरं शीतसम्भवम् // mmk_51.64 //

सम्भवेत् तस्य देहस्थः दुष्टराज्ञां बलगर्विताम् / महायक्षां धनिनां क्रूरां महासैन्यसमासृताम् / द्विरात्रे सप्तरात्रे वा मरणं तस्य जीवितम् // mmk_51.65 //

यो यस्य देवताभक्तः नक्षत्रो वा नामतो लिखेत् / श्मशानाङ्गारैः कृतिं कृत्वा पटस्याग्रतभूसृतम् / आक्रम्य पादतो मूर्ध्ना सङ्क्रुद्धो जपमाचरेत् // mmk_51.66 //

अकस्माद् विविधैः शूलैः गृह्यते ऽसौ नराधिपः / महाव्याधिसमाक्रान्तः मृयते वापि तत्क्षणात् // mmk_51.67 //

पशुना हन्यते चापि व्यङ्गो वा भवते पुनः / भक्ष्यते राक्षसै क्रूरैः कश्मलामानुषोद्भवैः // mmk_51.68 //

क्रव्यादैः पूतनैश्चापि पिशाचैः प्रेतमातरैः / तत्क्षणाद्धन्यते चापि आत्मनश्चापि सेवकैः // mmk_51.69 //

अथ वज्रधरः श्रीमां इत्युक्त्वा परिषेत्तदा / सर्वबुद्धां नमस्कृत्य तूष्णीम्भूतो ततः स्थिरे // mmk_51.70 //

लोकानां हितकाम्यार्थं पुनरेवमुमूचत / सर्वां यक्षगणां मन्त्रः यक्षीणां च स सर्वतः // mmk_51.71 //

उवाच बोधिसत्त्वो वै यक्षसेनापतिस्तदा / यक्षीणां पटलं वव्रे सर्वकर्मोपसंहितम् / सर्वाकर्षं वशं चैव सर्वशल्याननुद्धरम् // mmk_51.72 //

मैथुनार्थी यदा मन्त्री रागान्धो वाथ मूढधीः / न शक्य प्रतिपक्षेण सुगताज्ञैर्निवारितुम् // mmk_51.73 //

अनादिमति संसारे पुराभ्यस्तं सुदुःखितैः / दुःखा दुःखतरं तेषां गतिरुक्ता तथागतैः // mmk_51.74 //

शोभनां गतिमाप्नोति ब्रह्मचारी जितेन्द्रियः / भद्रं शिवं च निर्दिष्टमन्त्रे शान्तिमवाप्नुयात् // mmk_51.75 //

त्रियानसमतारूढः माप्नुयान्ते सुनिर्वृतिम् / विपरीताः कुगतिग्रस्ता ये रागान्धा तपस्विनाम् / संसारगहने घोरे भ्रमन्ति गतिपञ्चके // mmk_51.76 //

तेषां दुःखितामर्थे कामभोगं तु वर्ण्यते / ते निर्वृता सर्वपापा तु त्रिधा दोषनिवर्तिता / शास्तुराज्ञासमाविष्टा मुच्यन्ते सर्वबन्धना इति // mmk_51.77 //

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् एकूनपञ्चाशतिमः यमान्तकक्रोधराजाभिचारुकनियमः द्वितीयः पटलविसरः परिसमाप्तः //

अथ द्विपञ्चाशः पटलविसरः / अथ खलु शान्तमतिर्बोधिसत्त्वो महासत्त्वः तस्मिन्नेव पर्षत्सन्निपाते सन्निपतितः सन्निषण्णो ऽभूत् / उत्थायासनात् सर्वबुद्धं प्रणम्य पर्षन्मण्डलमध्ये स्थित्वा भगवन्तं शाक्यमुनिं त्रिः प्रदक्षिणीकृत्य चरणयोर्निपत्य स येन वज्रपाणिः महायक्षसेनापतिः तेन व्यवलोक्य वाचमुदीरयति स्म / अतिक्रूरस्त्वं वज्रपाणेः यस्त्वं सर्वसत्त्वानां सत्त्वोपघातिकं कामोपसंहितं च मन्त्रतन्त्रां भाषयसे / न खलु भो जिनपुत्र बोधिसत्त्वानां महासत्त्वानामेष धर्मः / महाकरुणाप्रभाविता हि महाबोधिसत्त्वा बोधिसत्त्वचारिकां चरन्ते सर्वसत्त्वानामर्थाय हिताध्याशयेन प्रतिपन्ना भवबन्धनान्न मुच्यन्ते / न च पुनर्भो जिनपुत्र / सत्त्वोपघातिकां धर्मदेशनां तथागतार्हन्तः सम्यक् सम्बुद्धाः सर्वसत्त्वानुद्दिश्य भाषन्ते महाकरुणासमन्वागतत्वात् / सर्वसत्त्वानां हिताध्याशयेन प्रतिपन्ना भवन्ति //

अथ खलु वज्रपाणिर्बोधिसत्त्वो महासत्त्वः शान्तमतिं बोधिसत्त्वमामन्त्रयते स्म / एवं हि शान्तमते बोधिसत्त्वेन शिक्षितव्यम् / एवं प्रतिपत्तव्यम् / यथा त्वं वदसि यथा त्वं प्रकाशयसि / तथा सर्वबुद्धाः बोधिसत्त्वाश्च महर्द्धिकाः / तथाहं निर्देक्ष्यामि परमार्थतो //

भूतकोटिं समाशृत्य धर्मकोटिं तु मुच्यते / अचिन्त्यं सत्त्वकोटिं वै परिपाकमचिन्तितम् // mmk_52.[1].1 //

अचिन्त्या बुद्धधर्मास्तु चर्या बोधिमचिन्तिका / वैनेयसत्त्वमागम्य अचिन्त्यं चरितं हि तैः // mmk_52.[1].2 //

चर्या बोधिसत्त्वानां अचिन्त्या परिकीर्त्तिता / सर्वमन्त्रेषु तन्त्रो ऽयं अचिन्त्यतत्प्रभावतः // mmk_52.[1].3 //

क्रोधराजस्य मन्त्रस्य यमान्तस्य महात्मनः / अचिन्त्यं ऋद्धिविषयं गतिमाहात्म्यमचिन्त्यकम् // mmk_52.[1].4 //

अचिन्त्या हि शान्तमते बोधिसत्त्वानां महासत्त्वानां चर्यानिष्पन्दितसत्त्वधातुनिर्हारम् / एवं हि शान्तमते बोधिसत्त्वेन मन्त्रजापिना चित्तमुत्पादयितव्यम् / काममस्य सत्त्वस्यार्थाय बह्वपुण्यं प्रसुनुयात् / महानरकोपपत्तिश्च / न त्वेवायं सत्त्वः बहुतरमपुण्यस्कन्धं प्रसुनुयात् / मा नामायं सत्त्वो त्रयाणां बोधीनामभव्यो भवेत् / एवं हि शान्तमते बोधिसत्त्वेन मन्त्रजापिना चित्तमुपस्थाप्य उपायकौशल्यं चाभिचारुकं च कर्म प्रयोक्तव्यम् / सर्वकर्मिषु च निमित्तग्राहिणा भवितव्यम् / नाकुशलग्राहिणा सत्त्ववैनेयमुपादायता च शिक्षितव्यम् / करुणाविष्टेन चेतसा //

अपि च भो जिनपुत्र धर्माधर्मशुभाशुभं कुशलाकुशलगतिमाहात्म्यसत्त्वोपायविनयनिरहारतां धर्मधातुनिरहारतां च प्रतिपपद्यन्ते बुद्धा भगवन्तः सर्व एव धर्मदेशनासत्त्वोपायपायकां च प्रतिपद्यन्ते / तथैव भो जिनपुत्रास्माभिः शिक्षितव्यम् / यदुत त्वविनयनाय सत्त्वपाकानुशासनाय च तत्रभवन्तो जिनपुत्राः यो ऽयं पर्षन्मण्डलमहासमयोपविष्टाः तत्र सर्वैः समग्रैः श्रोतव्यं श्रद्धातव्यं य एव कुशलाकुशलगवेषणैर्भवितव्यम् / यदुत तथागतधर्मदेशनाभिरतैर्भवितव्यम् //

अथ शान्तमतिर्बोधिसत्त्वो महासत्त्वः वज्रपाणिं यक्षसेनापतिं व्यवलोक्य तृष्णाम्भूतः स्वके आसने निषण्णो ऽभूत् / अचिन्त्या बुद्धधर्मा इति मनसिकृत्य बुद्धं भगवन्तं व्यवलोकयमानः //

अथ वज्रपाणिर्गुह्यकाधिपतिः सर्वं तत् पर्षन्मण्डलमवलोक्य भूयः क्रोधराजस्य कल्पं भाषते स्म / शृण्वन्तु भवन्तो देवसङ्घाः ये सत्त्वधातुनिसृताश्च सर्वे भूतगणाः आदौ तावत् कृतरक्षः तं पटं क्रोधराजस्य परिगृह्य विवेके स्थाने सत्त्वा एकलिङ्गे महेश्वरस्यायतने तं लिङ्गं विपरुधिरराजिकाकाञ्जिकेनाभ्यज्य पिचुमर्दपत्रैरर्चयित्वा मानुषान्त्रनालिभि आत्मना यज्ञोपवीतं कृत्वा मानुषशिरकपालेन दक्षिणहस्तेन सप्रहारो भूत्वा वामहस्तेन लिङ्गं तर्जयमानः परमक्रोधाभिभूतः अवमानितदुष्टराजानैः महापरिभवगतमानसः अन्यैर्वा धूर्तपुरुषैः महायक्षैर्महाधनैर्महाप्रचण्डैः महानायकैः शुद्धारं पिथयित्वा नग्नको मुक्तशिखः महेश्वरलिङ्गं वामपादेनाक्रम्य क्रोधमन्त्रं तावज्जपेत् यावन्महेश्वरलिङ्गो मध्ये स्फुटित इति द्विविदलीभूतं महांश्च हुङ्कारः श्रूयते / ततो न भेतव्यम् / तदेहो एव दुष्टराज्ञः अन्यो वा यःकश्चिन्महायक्षः अरिस्तत्क्षणादेव ज्वरेण गृह्यते / अमानुषेण वा गृह्यते राक्षसादिभिः / तत्रैव मुहूर्तं जपेद् यावत् क्षणादेव शत्रोर्जीवितं मरणपर्यवसानं भवति / यदि रात्र्यन्तं जपे तत्सर्वकुटुम्बो नश्यति //

अपरमपि कर्म भवति / मध्याह्ने तथैव महेश्वरायतनं गत्वा निम्बपत्रैरभ्यर्च्य महामांसधूपं दत्त्वा मन्त्रं जपेत् / यावच्छत्रोर्भवनमग्निना दह्यते, शत्रोश्च महाज्वरकम्पो भवति / यदि जापं न त्यजते क्रुद्धो वा दक्षिणमूर्तैस्तिष्ठते स शत्रुर्मृयते गोत्रोत्सादो भवति / अथ प्रत्यायनं करोति / भूयो लिङ्गमुदकेन प्रक्षाल्य सुशीतलेन क्षीरेण स्नापयेत् / गव्येन भूयः / स्वस्थो भवति //

अपरमपि कर्म भवति / महेश्वरलिङ्गस्य दक्षिणामूर्त्तौ मदनकण्टककष्ठैरग्निं प्रज्वाल्य वैकङ्कतसमिधानां विषरुधिरराजिकाभ्यक्तानां अष्टसहस्रं जुहुयात् / सर्वेशत्रवो महाव्याधिना गृह्यन्ते / अशक्ता भवन्ति सर्वकर्मेषु / द्वितीये दिवसे महाज्वरेण महाशूलेन वा गृह्यन्ते विविधैर्वा रोगैः अमानुषैर्वा मारणान्तिकैः / तृतीये दिवसे तृभिः सन्ध्यैः सर्वेण सर्वं जीवितं त्यजन्ते / प्रत्यायने क्षीरं जुहुयात् / शान्तिर्भवति / सर्वजनपदेषु सर्वशत्रवश्च स्वस्था भवन्ति / एवं सर्वदेवानां सर्वभूतानां यो यस्य देवताभक्तः तमाक्रम्य कुर्यात् / तस्य नक्षत्रमन्त्रसंज्ञतां पादेनाक्रम्य वामेन कर्म कुर्यात् / वर्जयित्वा तु ताथागतिं विद्याम् / सर्वेषां च पादाङ्गुष्ठं वामेन गृहीत्वा कर्म कुर्यान्न चाक्रमेणापि चलंयेयेत्कदा सर्वलौकिकमन्त्राश्चाक्रम्य कुर्यात् / असिद्ध एव क्रोधराजा जापमात्रेणैव कर्माणि करोति सर्वमन्त्रां विनाशयति सर्वशत्रूं घातयति सर्वयन्त्रां पातयति / संक्षेपतो यथा यथा प्रयुज्यते सर्वलौकिकलोकोत्तरमन्त्रविधानेनापि तत् सर्वं करोति / सर्वं साधयति / जापमात्रेण सर्वाशां पारिपूरयति / पठितसिद्धा एष क्रोधराजा उत्तमां सिद्धिमनुप्रयच्छति / मनसेच्छया शत्रुं घातयति महाशूलमुद्रया संयुक्तः सर्वकर्माणि करोति //

अपरममि कर्म भवति / मध्याह्ने श्मशानं चितावेकरात्रोषितः कृष्णचतुर्दश्यां श्मशानकाष्ठैरग्निं प्रज्वाल्य विषरुधिराक्तां राजिकां जुहुयात् / ततो हाहाकारं कुर्वन्तः सर्वप्रेता आगच्छन्ति / (वैद्य 439) न भेतव्यम् / ततो वक्तव्यं शत्रुं मे घातयेति / एवमस्त्विति कृत्वान्तर्धीयन्ते / ततो मुहूर्तमात्रेण योजनसहस्रमपि गत्वा शत्रुं घातयन्ति कुलानुत्सादयन्ति / एवमादीनि कर्माणि कुर्वन्ति //

अपरमपि कर्म भवति / विवेके शुचौ देशे शुचिवस्त्रप्रावृतेन शून्यगृहं प्रविश्य कर्पासास्थ्याहुतीनां अष्टसहस्रं जुहुयात् ततो तं भस्म उभाभ्यां हस्ताभ्यां गृह्य शुचौ वस्त्रखण्डे बध्नीया पृथक् पृथक् / द्वौ पोङ्गलिकां कृत्वा शरावसम्पुटे स्थाप्य महाकृतरक्षाश्चात्मनो द्रव्यं च गृहमप्रविश्य महाश्मशानं गत्वा रात्रौ कृष्णचतुर्दश्यां कृष्णाष्टम्यां वा चितौ स्थित्वा दक्षिणाभिमुखः शरावसम्पुटं गृहीत्वा स्थितको नग्नको मुक्तशिखः स क्रुद्धो निर्भयो भूत्वा विद्या दशसहस्राणि जपेत् / सिद्धो भवति / तद् भस्म यदि कश्चिदमानुषो द्रव्यं प्रार्थयते न दातव्यम् / हठं करोति क्रोधराजं स्मृत्वा हुङ्कारः प्रयोक्तव्यः / तत्क्षणादेव नश्यते / सर्वबिघ्नानामेष एव विधिः / वामदक्षिणकरगृहीतं भस्म चिह्नं कारयेत् / अप्रमत्तेन रक्षां कारयित्वा आगन्तव्यम् / प्रभाते सूर्योदये स्नात्वा शुचिना शुचिवस्त्रप्रावृतेन स्वगृहं प्रवेष्टव्यम् / अस्थाने वा यथाभिमते गन्तव्यम् / ततो यो दक्षिणहस्तेन गृहीतं भस्म तेन मनुष्याद्विपदचतुष्पदां सर्वप्राणिभूतां सदेवनागयक्षां मूर्ध्ना ताडयेद् वशा भवन्ति / यद् वामेन हस्तेन गृहीतं भस्म तेन सर्वेषां मनुष्यामनुष्याणां सर्वासां स्त्रीणां मूर्ध्ना ताडयेद् वश्या भवन्ति / दक्षिणेन यद् गृहीतं भस्म तेन मनुष्याणां नाभिदेशे ताडयेत् / नपुंसका भवन्ति / अङ्गजातदेशेन च चूर्णयेद् असमर्थो भवति / ग्राम्यधर्मनिषेविणो यस्या स्त्रियायां अभिशक्तो भवति तस्याङ्गजाते गुह्यप्रदेशे भस्मनावचूर्णयेत् / असमर्था सा भवति अन्यपुरुषातिसेवने / नष्टव्रणा भवति यावन्तं तदेव पुरुषं प्राप्नुयात् /

पुनरेव तस्याः तद्व्रणमुखं प्रादुर्भवति / काममिथ्याचारमशक्तो निसेवितुम् / एवं पुरुषस्यापि / पुरुषेन्द्रियं दक्षिणहस्तं भस्मनावचूर्णयेत् / सो ऽपि असमर्थो भवति / परदाराभिगमने परिम्लानमिव तिष्ठते / तस्य तदङ्गजातं यावद् दात्रवशात् तस्यैव तत् पुनः प्रादुर्भवति / स्त्रियस्य वा पुरुषय वा येन वा तद् भस्म पुनर्दत्तं भवति तस्य वशेन वर्त्तति वा न वर्तति वा यथेष्टं वा तं करोति / यदि बलात् कुर्वन्ति येषां तु तद् दत्तं तेषां गुह्यप्रदेशानि क्रिमयः प्रादुर्भवन्ते / यैर्भक्षमाना जीविताद् व्यपरोष्यन्ते / मासाभ्यन्तरेण पूतिका वा भवन्ति दुर्गन्धकुणपसदृशाः महाप्रदररोगादिभिः पुरुषव्याधिभिः पुरुषा गृह्यन्ते / महाश्वेथुश्चोपजायते / येन तेषां तेनैवाबाधेन कालक्रिया भवति / अशक्ता वा भवन्ति प्रतिसेवितुं दासस्येच्छया / यथाभिरुचितं तत् सर्वं कारयति / स्पृष्टमात्रो यदि न प्राप्नोति स्पर्शनं दर्शनपथे स्थिता अदर्शने वा अनुवाते च भस्ममुत्सृजेत् / यथा तस्य भस्मना ईषिदवधूलितः मनसा च चिन्तयित्वा दाता भस्ममुत्सृजेत् / यत् तेन चिन्तितं भवति तत् सर्वाणि कर्माणि करोति / परहस्तेन वात्मना वा यथाभिलषितं तत् सर्वाणि कर्माणि करोति / नान्यथा चावन्ध्यं भवति //

अथ शयनासनादीनां अस्तरणप्रावरणादीनां विविधानि वालङ्करणविशेषाणि नानावस्त्राणि वा वाहनयानोपानहच्छत्रादीनां सर्वाण्युपकरणविशेषाणि भोजनपानभक्षणादीनां सर्वाणि शरीरोपयोज्यानि भाण्डोपकरणानि पुष्पन्ताम्बूलफलगन्धधूपादीनां सर्वेषुतैस्तं भस्मनावचूर्णयेत् / अरीणां यूकमत्कुणक्रिमिभिः समन्तावच्छरीरमाकीर्णं भवति / भक्षते च / विविधदुःखविहतो भवति / सप्तरात्रेण मृयते / अशक्ताः सर्ववैद्याः सर्वदेवाश्च निवारयितुम् / अशक्ताः सर्वमन्त्राः रक्षयितुम् / वर्जयित्वा तु तेन दत्तं भवति //

अथ प्रत्यायनं भवति / यष्टीमधुं नीलोत्पलं श्वेतचन्दनं चैकीकृत्य शीतलेनाम्भस पीषयित्वा तच्छरीरं म्रक्षयेत् मूर्ध्ना प्रभृति यावत् पादतलम् आर्यमञ्जुश्रियमूलमन्त्रं जपता / स्वस्थो भवति //

अपरमपि कर्म भवति / स्त्रीणामनुवातं गत्वा यत्रेप्सता सर्वदुष्टडाकिनिस्त्रीणां गर्वितानां च प्रयोक्तव्यं नान्येषाम् / तमेनमनुवाते स्थित्वा भस्ममुत्सृजेत् / मनसा चिन्त्ययित्वा सर्वभगस्तनान्यपहृतानि भवन्ति / पुरुषस्यापि पुरुषेन्द्रियं श्मश्रुरोमाणि च स्तनानि च प्रादुर्भवन्ते //

एवं विविधविचित्राण्यनेकानि कर्माणि करोति / परेण वा कारापयति / यत्र वा प्रीतिरुत्पद्यते तेन वा कारापयति / स्त्रिया वा पुरुषेण वा / यत्र वा चित्तस्य निर्वृत्तिरुत्पद्यते तस्य तद् भस्मां दत्वा यथेष्टं कारापयति / प्रयोगतश्च शिक्षापयेत् / एवं महाव्याधिभिः गृह्णापयति / मनसा चिन्तयित्वा मूर्ध्नि स्पर्शनान्मस्तकशूलः मुखस्पर्शनान्मुखपाकः एवमनूपूर्व्या यावद्धृदयं हृच्छूलकुक्षिशूलं वा उपजायते / एवं पद्भ्यां जङ्घाभिश्चासृगुद्भवै रोगैर्दुष्टशोणितादिषु रोगैर्गृह्णापयति / संक्षेपतो मारयति शोषयति पाचयति आकर्षयति वशयति यथा यथा प्रयुज्यते तथा तथा तत् सर्वं करोति / चोपघातिकं आकर्षणवशीकरणं च सुदूरे ऽपि स्थितः कर्माणि करोति / सुदुर्गं कुड्यसमीपं गत्वा, अनुवाते स्थित्वा, तदेव भस्मोत्सृजेत् / उभौ पाणिगृहीतं प्राकारं प्रतोली अट्टालांश्च प्रपतन्ते / तदाध्यक्षं भवनं च महाग्निदाहमुपजायते / सेनाभङ्गं च भवति / महोपद्रवैश्चोपद्रुतो भवति / सर्वमवमुच्य प्रपलायति वा ग्रहणं वाधिगच्छति / एवं परबले ऽपि अनुवाते भस्ममुत्सृजेत् / महाबलसेनाया भङ्गो भवति / दाघज्वरेण वा गृह्यते / हस्त्यश्वरथपताकादयः सेनापतिश्च भङ्गमुपजायते / ग्रहणं वा अभिगच्छति / एवमनेकप्रकाराणि यथेष्टानि शत्रुनाशाय कर्माणि करोति / आत्मनो महारक्षा ये च स्वसेनायां वा सखायानां / अथ प्रत्ययनं करोति / सर्वतः सर्वेषां पटस्याग्रतः क्षीराहुतिसहस्रं जुहुयात् / स्वस्था भवन्ति अधृष्याश्च //

अथ यक्षिणीं साधयितुकामः -

नटी नट तथा भट्ट रेवती चापि विश्रुता / तमसुरी थ लोका मेखला चापि सुमेखला / इत्येता अष्ट यक्षिण्यः सर्वकामप्रसाधिकाः // mmk_52.[2].1 //

नटिकाया मन्त्रः - ओम् नटि महानटि आगच्छागच्छ दिव्यरूपिणि स्वाहा / अस्योपचारः - फलके पट्टके वा अभिलिख्य मांसाहारेण वा क्षीराहारेण वा विद्या अष्टसहस्रं जप्तव्या / आलेख्या च सर्वालङ्कारभूषणी श्यामावदाता वृक्षाशृता एकवस्त्रा मुक्तकेशा, संरक्तनयना ईषिस्मितमुखा साधकं तर्जायमाना दक्षिणहस्तेन वामेन पाणिना वृक्षशाखामवलग्ना सर्वाङ्गशोभना विचित्रपट्टनिवस्ता / तस्येव क्रोधराजस्य पटस्याग्रतः उन्मना उत्तरामुखं स्थित्वा पलाशकाष्ठैरग्निं प्रज्वाल्य गुग्गुलुगुटिकानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् त्रिसन्ध्यं यावत् सप्त दिवसानि / ततः सप्तमे दिवसे उदारां बलिं कृत्वा घृतप्रदीपांश्च प्रज्वाल्य मन्त्रं जपता तावत् तिष्ठेत् यावदर्धरात्रम् / ततः सा यक्षिणी स्वयमेव महावभासं कृत्वा स्वरूपेणागच्छति / आगता च ब्रवीति / किं मया कर्तव्यम् इति / ततः साधकेन वक्तव्यम् - भार्या मे भवस्व इति / एवमस्त्विति कृत्वान्तर्धीयते / ततःप्रभृति भार्या भवति / सर्वकामदा स्वभवनं नयति / रसायनं प्रयच्छते / यत् पीत्वा दिव्यरूपी भवति महायक्षप्रतिस्पर्धी / यदि नागच्छति द्वितीये वारे क्रोधराजसहितं जपेन्नियतमागच्छति / न चेदुच्छुष्यं मृयते //

नट्टाया मन्त्रः - ओम् नट्टे शुक्लाम्बरमाल्यधारिणि मैथुनप्रिये स्वाहा / एतस्यैष एव विधिः /

भट्टाया मन्त्रः - ओम् भट्टे भट्टे आलोकिनि किं चिरायसि एह्येहि आगच्छागच्छ मम कार्यं कुरु स्वाहा / एषा विनापि पटेन सिद्ध्यते / शिरःस्थाने मण्डलकं कृत्वा गुग्गुलुधूपं दहता विद्यामष्टसहस्रं जपेत् / मौनिना एकाकिना शुचिना द्वारं पिधाय मासेन रात्रौ नियतामागच्छति / आगता च कामयितव्या भार्या भवति सर्वकामदा / यद्यसौ भवनं प्रविशते पञ्चवर्षसहस्राणि जीवति / न चेदत्रैव जम्बूद्वीपे विचरति / पञ्चवर्षशतानि जीवति / तया सार्धं क्रीडति / सर्वाज्ञां सम्पादयति / तेन सह यत्रेष्टं तत्र गच्छति / रसायनमनुप्रयच्छते / इष्टभार्येवावहिताध्याशयं करोति //

रेवत्या मन्त्रः - नमः सर्वयक्षीणाम् / ओम् रक्ते रक्तवभासे रक्तानुलेपने स्वाहा /

रेवत्या यक्षिणी श्रेष्ठा ललन्त्या मैथुनप्रिया / ईषिद् रक्तेन वस्त्रेण नीलकुञ्चितमूर्धजा // mmk_52.[3].1 //

सर्वाङ्गशोभना यक्षी कामभोगरता सदा / कामदा भोगदा नित्यं वरदां ताम् अभिनिर्दिशेत् // mmk_52.[3].2 //

पूर्ववत् पटमभिलिख्य एतस्या अयं विशेषः - रक्तपट्टनिवस्ता रक्तपट्टांशुकोत्तरीया रक्तावभासा च वर्णतः /

मेखलायाः मन्त्रः - ओम् मेखले महायक्षिणि मम कार्यं सम्पादय स्वाहा //

सुमेखलाया मन्त्रः - ओम् मेखले सुमेखले महायक्षिणि सर्वार्थसाधनि ओम् समयमनुस्मर स्वाहा //

आलोकिन्या मन्त्रः - ओम् लोकिनि लोकवति स्वाहा / एतेषामेत एव विधिः //

तमसुन्दर्याया मन्त्रः - ओम् घुणु गुह्यके घुणु घुणु गुह्ये एह्येहि गुह्यके स्वाहा / अस्योपचारः न / एताया पटविधानो ऽस्ति आदौ तावत् शुचिना शुचिवस्त्रप्रावृतेन पूर्णमास्यां विविक्ते स्थाने द्वारं पिधायित्वा अन्धकारे आलोकवर्जिते विद्यां दशसहस्राणि जपेत् / पूर्वसेवा कृता भवति / ततः साधनमारभेत् / पूर्वमास्यादारभ्य यावदपरा पूर्णमासी अत्रान्तरे कर्म भवति / रात्रौ शयनकाले शय्यामारूढः प्रच्छन्ने गुप्तप्रदेशे एकाकिना द्वारं पिधयित्वा सङ्कुचितकर्णिकां वानपुष्पं च कटुतैलेन मिश्रयित्वा हस्तौ पादौ प्रक्षालयित्वा दक्षिणं बाहुमष्टशताभिमन्तृतं कृत्वा स्वपेत् मोनी / एवं प्रत्याहं यावत् पौर्णमास्यात् / ततो ऽर्धरात्रे नियतमागच्छति / आगता च न मन्त्रापयितव्या / तूष्णीभावेन कामयितव्या षड्भिः मासैः / यदा मन्त्रापयति तदा मन्त्रयितव्यम् / ततः प्रभृति सिद्धा भवति / भार्या भवति सर्वकामदा / दिव्यं चास्य सुखसंस्पर्शम् अदर्शनेनैव सर्वकार्याणि सम्पादयति / रसरसायनानि सम्प्रयच्छति / पृष्ठमारोप्य सुमेरुमपि नयति / रात्रौ जम्बूद्वीपं भ्रामयति / योजनशतस्थितमपि शत्रुं घातयते / यथाज्ञप्ता तत् सर्वं सम्पादयति / वर्जयित्वा परस्त्रियाभिगमनम् / सर्वेषामयं विधान परस्त्रीं नाभिगच्छेत् / तेनैव सह संवसेत् / यदि गच्छेन्मरणोन्मत्तिं वा प्रयच्छन्ते / एषा अन्धारसुन्दरी नाम यक्षिणी / अनेकयक्षीशतसहस्रपरिवृता / दिने दिने एकैकां यक्षिणीं क्षविटिं प्रेषयति / सिद्धा सती सर्वसाधकानां अनेकमन्त्रपरिवारां च सर्वयक्षीणां च महर्द्धिका त्तमावृता / सर्वेषामेव एव विधिः / किं तर्हि तेषां दर्शनं भवति / एतस्या दर्शनं न भवति //

अन्धारवासिनी नाम यक्षीणां महर्द्धिका / गुहावासिनी नरवीरा कुमारी लोकविश्रुता // mmk_52.[4].1 //

मधुयक्षी मनोज्ञा च सप्तमा सुरसुन्दरी / इत्येताः सप्त यक्षिण्यः सत्त्वानुग्रहकारिकाः // mmk_52.[4].2 //

पर्यटन्ति इमं लोकं कृत्स्नां चैव मेदिनीम् / ईषित् क्षणमात्रेण उत्पतन्ति सुरालयम् // mmk_52.[4].3//

सङ्ग्रामं देवदैत्यानां युद्ध्यन्ते च महर्द्धिकाः / धर्मिष्ठा करुणाविष्टाः सत्त्वकामाः सुवत्सलाः // mmk_52.[4].4//

सत्त्वानां हितकाम्यर्थं पर्यटन्ति महीतले / न तासां किञ्चि दुःसाध्यं सर्वकर्मकराः शुभाः / सत्त्वानामुपभोगार्थं बोधिसत्त्वेन भाषिता // mmk_52.[4].5//

गुह्यवासिन्या मन्त्रः - ओम् गुहिले गुहमति गुहवासि आनय भगवति मयान्तिकं समयमनुस्मर स्वाहा / खदिरकाष्ठैरग्निं प्रज्वाल्य पृयङ्गुपुष्पाणां घृताक्तानां अष्टसहस्रं जुहुयात् त्रिसन्ध्यं मासमेकम् / पूर्वसेवा कृता भवति / ततः पश्चात् साधनमारभेत् / फलके वा पट्टके वा कुड्यायां वा अश्लेषकैर्वर्णकैः नवभाजनकूर्चकैः / आदौ तावत् पर्वतराजा सुमेरुर्लिखापयितव्यः (वैद्य 443) चतुरस्रः चतुःशृङ्गोच्छृतः सप्तपर्वतपङ्क्तिपरिवेष्टितः / तेषां पर्वतानामन्ते गुहः पर्वतनिःशृतः आलिखितव्यम् / तत्रस्था दिव्यरूपिणी सर्वालङ्कारभूषिता एकाकिनी यक्षिणी गुहवासिनी नाम लिखापयितव्या पट्टवस्त्रनिवस्ता पट्टांशुकोत्तरीया कनकवर्णा विचित्रचारुरूपी तं तादृशं पटमभिलेख्य शुचौ प्रदेशे शुचिना क्षीराहारेण विद्यां दशसहस्राणि जपेत् / महापूजां कृत्वा यथाशक्तितो वा ततो जपान्ते महावभासं कृत्वा दिव्यरूपी यक्षिणी स्वयमेवागच्छति / आगताया जातीकुसुमैः श्वेतचन्दनोदकव्यतिमिश्रैः अर्घो देयः / ततः सा ब्रवीति - वत्स किं कर्त्तव्यम् / वक्तव्यम् - माता मे भवस्वेति / कृत्वान्तर्धीयते / न च तत्र चित्तं दूषयितव्यम् / नापि कामोपसंहितं प्रार्थयितव्यम् / आर्या सा महर्द्धिका च काम प्रार्थयति न सिद्ध्यते / ततः प्रभृति मातृवत् सर्वकार्याणि करोति / अष्टशतपरिवारस्य भक्ताच्छादं प्रयच्छते / विषमस्थस्य त्रायते / महावन्यपर्वतस्योपरिस्थितस्यापि सर्वकार्याणि सम्पादयति / कामितं च भोजनमनुप्रयच्छते / रसरसायनादीन् सर्वमनुप्रयच्छति / यथेष्टं चानुवर्त्तते / कुटिकुटादीमभिनिर्मिणोति / सुवर्णसहस्रमनुप्रयच्छति दिने दिने / सर्वं व्ययीकर्त्तव्यं तदह एव / यदि न करोति च्छिन्नो भवति / सर्वेण सर्वं भवति /

अपरमपि कर्म अस्या / अस्यैव पटस्याग्रतः खदिरकाष्ठैरग्निं प्रज्वाल्य विगतार्चिधूमविगतैः अङ्गारैः दक्षिणहस्ततले मनच्छिलया प्रतिकृतिमभिलिख्य नाम च पुरुषस्य स्त्रिया वामहस्ततले तत्रैवाङ्गारराशौ तापयेत् मन्त्रं जपता / योजनशतादपि स्त्रियमानयति / यदुच्यते तत् सर्वं कारयति / रात्रौ एतत् कर्म / न दिवा //

नरवीराया मन्त्रः - ओम् नरवीरे स्वाहा / तथैव एतस्या पतमभिलिख्य वर्जयित्वा गुहालयं अशोकवृक्षाशृता लिखापयितव्या / एतस्याः अयं विशेषः - सर्वं तथैव कर्म यथा गुहवासिन्या / अयं च वक्तव्या - भगिन्यास्वेति //

एतस्यापरो ऽस्ति कर्म / चन्द्रग्रहे सुवर्णगैरिकां भूर्जपत्रेण वेष्टयित्वा मुखे प्रक्षिप्य तावज्जपेद् यावच्चन्द्रो मुक्त इति / ततः सुवर्णगैरिकया यस्या नाम लिखति स्त्रियस्य वा आयोजनशतास्थिता अप्यानयति / प्रभाते तत्रैव नयति / भगिनीव कार्याणि करोति / आपत्सु महारक्षां करोति / सर्वाण्येव स्त्रियां जापमात्रेण वशीकरोति / नरवीराया एष विधिः //

यक्षकुमारिकाया मन्त्रः - ओम् यक्षकुमारिके स्वाहा / अस्याअयमुपचारः - गोरोचनेन भूर्जपत्रे लिखापयितव्या / कुमारी अर्धबर्बराशिरा सर्वालङ्कारभूषिता एकवस्त्रा दक्षिणहस्तेन बीजपूर्णावसक्तफला वामहस्तेनाशोकवृक्षशाखावलग्ना / तादृशं भूर्जपत्रं शिरास्थाने उपरि स्थापयितव्यम् / गुह्ये प्रदेशे एकाकिना च स्वप्तव्यम् / श्वेतचन्दनेन च मण्डलकं कृत्वा त्रिसन्ध्यं जातीकुसुमैरभ्यवकीर्य गुग्गुलुधूपं दहता विद्यामष्टसहस्रकम् जपेत् यावन्मासमेकम् / ततो पूर्णमास्यां जातीकुसुमैः महती पूजां कारयित्वा घृतप्रदीपांश्च निवेद्यांश्च दत्वा कुशविण्डकोपविष्टेन रात्रौ तावज्जपेद् यावत् स्वरूपेणैव कुमारी पञ्चशतपरिवारा वैश्रवणस्य दुहितृ आगच्छति / सर्वं तं दिशाभागमवलोकयित्वा स्वरूपेणान्तरिक्षे तिष्ठति / सा एवमाह - किं (वैद्य 444) मया कर्त्तव्यम् / ततः साधकेन वक्तव्यम् - त्रयाणां वाराणामन्यतममेकं वरं प्रार्थयितव्या / मातृत्वे भगिनीत्वे भार्यात्वे च / यदि माता भवति / न चित्तं दूषयितव्यम् / दूषयतो विनाश उपजायते / मातृवद् वर्तयितव्या / सा च माता पञ्चशतपरिवारस्य भक्ताच्छादनमलङ्करणविशेषाणि च सर्वत्र चिन्तितमात्रेणैव सम्पादयति / दिने दिने दीनारसहस्रं ददाति / अत्रैव जम्बूद्वीपे विचरतः सर्व सम्पादयति / भगिनी भवति तदा योजनशतादपि स्त्रीयमानयति / तत्रैव नयते / भगिनीवत् सर्वकार्याणि सम्पादयति / अथ भार्या भवति स्वभवनं भवते / दिव्यं वर्षसहस्रं जीवति / यदा मृयते तदा आढ्यकुलोपपत्तिः / सर्वाज्ञां भार्येव सम्पादयति //

वधूयक्षिण्या मन्त्रः - ओम् निः / एषा वधुयक्षिणी / अस्या मुपचारः - श्वेतचन्दनेन दक्षिणां बाहुमुपलिप्य वासतः कुङ्कुमेर सहस्राभिमन्त्रितं कृत्वा रात्रौ एकाकिना मौनिना प्रच्छन्ने प्रदेशे द्वारं पिधाय पञ्चाष्टौ विभीतकफलानि तिलतैले प्रक्षिप्य पथेत् / तं तैलं गृहीत्वा विधीतकफलां परित्यज्य नवे माण्डे सौवर्णे राजते ताम्रे मृन्मये वा स्थाप्य पादान्ते शय्यायां सहस्राभिमन्त्रितं कृत्वा अनेनैव मन्त्रेण एकाक्षरयक्षिण्या अन्धकारे विविक्ते शयने पुष्पाभिकीर्णे स्वप्तव्यम् / आगत्य चामानुषीं पादौ म्रक्षयति / दिव्यमुखं स्पर्शकोमलहस्ततला / यस्य स्पर्शनादेव दिव्यं सुखसंस्पर्शनिद्रामुपजायते / येन सूर्योदये ऽपि रात्र्यन्ते दुःखेन प्रतिबुध्यते / प्रतिबुद्धापि सन् तदेव चिन्तयेत् / न च कामयितव्या नापि मन्त्रापयितव्या / षड्भिर्मासैः सिद्धा भवति / ततः सा दिव्यरूपी अभिनवबध्वा वयात्समाना परिचारिकैः परिवारिता प्रदीपहस्ता स्वप्रभोद्योतितालोका शयनासनपरिगृहीता विचित्राभरणोज्ज्वला आगत्य च मन्त्रापयते / कामभोगोपकरणपरिगृहीता आगत्य च साधकं कण्ठे परिप्वजते / ततःप्रभृति इष्टभार्येव मनुवर्त्तते / आगता च कामयितव्या रात्रौ परिचर्य प्रभाते ऽन्तर्धीयते / शय्यायां मुक्ताहारं त्यज्य सुवर्णसहस्रमूल्यं दिने दिने परित्यज्य गच्छति च / सर्वं निरवशेषं व्ययीकर्त्तव्यम् / यदि किञ्चित् स्थापयति भूयो न भवति / न कस्यचित् कथितव्यम् / यदि कथयति भूयो नागच्छति / अनर्थं वा कुरुते / मारणान्तं परमगुह्यका ह्येते परमगोप्या न द्वितीयसत्त्वमारोचनं क्षमन्ते / मातापितृसुहृत्स्वामिबान्धवानामपि नारोचयितव्यम् / अन्तशः पशुस्यापि तिर्यग्गतानां प्राणिनां नारोपयितव्यम् / परमगुह्यमेतत् / सर्वगुह्यकानां सर्वयक्षिणीनां च एष एव विधाना / सिद्धा अपि असिद्धा भवन्ति / यद्यारोचयते / अन्यस्त्रीमैथुनाभिगमनं च भार्याया च वर्जयेत् सदा //

मनोज्ञाया मन्त्रः - ओम् मनोहरे मदोन्मादकरि विचित्ररूपिणि मैथुनाप्रेये स्वाहा / अस्यामुपचारः - उद्यानवाटिकायां अशोकवृक्षस्याधस्तात् सविभक्तां कुटिं कारयित्वा अगुप्ततरां कृतकवाटार्गलप्राकारोच्छ्रितां शुचिना लक्षमेकं जपेत् / ततः कर्ममारभेत् / महावसां सङ्गृह्य श्मशानवोटकेन वर्तिं कृत्वा द्वारं पिघयित्वा प्रदीपं प्रज्वालयेत् / सदशं च वस्त्रं केशापगतं बहिर्द्वार स्थापयेत् / प्रत्यग्रं रात्रौ सा नग्निकागत्य तं वस्त्रं निवास्य प्रविशते मानुषस्त्रीरूपिणी भूत्वा / ततः साधकः तेन सार्धं रमते यावत् प्रदीपं ज्वलते / निर्वृते प्रदीपे ऽन्तर्धीयते / तस्मिं (वैद्य 445) वस्त्रे सुवर्णमेकं बद्ध्वा वस्त्रं परित्यज्यशय्यायामपक्रमति / अथ साधकस्तां हस्ते गृह्णाति / अङ्गुलेयिकैकावमुञ्च्यावक्रमते / अथ कण्ठा दिव्यमुक्ताहारां अथ बाहात् कटकं कट्यां मेखलां पद्भ्यां नूपुरं शीर्षे मणिं एवमन्यतरान्यतरंदिव्यमाभरणमेकं यत्र यत्र गृह्यते तत्र तत्रानुप्रयच्छति / अवध्यां गच्छति चागच्छति च / एवं प्रत्यहं निरवशेषं व्ययीकर्त्तव्यम् / एवं यावद्भिर्मासैः मन्त्रापयति तदा मन्त्रयितव्यम् / भार्या भवति / नित्यस्था रसायनं प्रयच्छति यं पीत्वा दीर्घकालं जीवति / मनसा ध्यात्वा खदिरकीलकं भूमौ निखानयेत् / दिव्यं विमानमुपपद्यते / उद्धृते ऽन्तर्धीयते / अस्याया मन्त्रः द्वितीयमस्ति / ओम् महानग्नि नग्निजे स्वाहा तेनैव दीपं प्रज्वाल्य अनेन मन्त्रेणाष्टशताभिमन्त्रितं कृत्वा कारयेत् / नियतमागच्छति / कीलकं चाभिमन्त्र्य निखानयेत् / उद्धृते दीपे निर्वृते चान्तर्धानं कीलकं मानुषं वसाकीलं च सो शृङ्गे गवलमहिषशृङ्गे वा श्मशाने चैलवर्तिना वोढव्यम् / देशान्तरे / यत्रेष्टं तत्र ददाति / स्वयं वा करोति / न च मन्त्रा दातव्या / अथ ददाति छिन्नविद्यो भवति / यस्य ददाति तस्यैव तत् सम्पद्यते / यत्र बाभिरुचितं यत्र वा स्थाने गुप्ते करोति / एषा सिद्धिः आवर्त्त्य नापगच्छति / अन्यां वा रमापयते / किन्तु तैः सार्धं न मन्त्रयति / अन्यस्त्रीदर्शनाभिरुचितं मनसेप्सितं तदानुरूपी तस्योपसङ्क्रमतो ह्यपूर्वस्य साधकवशादिति //

सुरसुन्दर्याया मन्त्रः - ओम् सुरसुन्दरि स्वाहा / अस्यामुपचारः - खदिरकाष्ठैरग्निं प्रज्वाल्य घृताहुतीनां अष्टसहस्रं जुहुयात् / त्रिसन्ध्यं मासमेकं शुक्लपूर्णमास्यां कुशविण्डकोपविष्टः शुचिना शुचौ देशे मन्त्रं तावज्जपेद्रहसि यावदर्धरात्रे नियतमागच्छति / ततो माता भगिनी भार्या यथैव पूर्वं तत सर्वं करोति सर्वं च विस्तरतो वक्तव्यम् //

इत्येताः सप्त यक्षिण्यः वज्रपाणिसमाज्ञया / पर्यटन्ति महीं कृत्स्नां त्रैलोक्यं च सुरासुरम् // mmk_52.[5].1 //

विचेरुः कृपालुभ्यो मर्त्त्यानां मैथुनप्रियाः / के ऽपि दार्यास्तथा बाला मूढाश्चापरयक्षिका // mmk_52.[5].2 //

पर्यटन्ति तथा रात्रौ सिंहकाम्यपरा हिता / बालानां जीवनाशाय लोलुपा मांसभोजिका // mmk_52.[5].3 //

तथा रुधिरगन्धेन जम्बूद्वीपं हि मागताः / प्राणापरोधिका यक्षी नित्यं सा शोणितप्रिया // mmk_52.[5].4 //

पर्यटन्ति गृहां सर्वां आरक्षामृतकसूतकाम् / तेषा निग्रहमित्युक्तः समयो ऽयं सम्प्रकाशितः // mmk_52.[5].5 //

यथा सङ्ग्रहरागं च निबन्ध्यं चेह बालिशाम् / तथा सर्वमिदं प्रोक्तं सत्त्वानां हितकारणात् // mmk_52.[5].6 //

मैथुनार्थी यथा मन्त्री रागान्धो मूढचेतसः / मन्त्रैराकृष्य भुञ्जीत यक्षीं वा अथ राक्षसी / नागी च मथ गन्धर्वी दैत्ययोषिमथ किन्नरीम् // mmk_52.[5].7 //

पातालभवनं रम्य असुराणां पुरोत्तमम् / प्रविशेत् तत्र मन्त्रज्ञः यत्र स्त्रीणामसङ्ख्यकम् / तत्र गत्वा वसेत् कल्प मन्त्रज्ञो मन्त्रजापिनः // mmk_52.[5].8 //

मैत्रेयो नाम सम्बुद्धः यदा बुद्धो भविष्यति / तदासौ श्रोष्यति सद्धर्मं श्रुत्वा मुक्तो भविष्यति // mmk_52.[5].9 //

सुरकन्यासुरीं चैव विद्याधरवराङ्गनाम् / मन्त्रैराकृष्य भुञ्जीत दिव्यसौख्यरतिं तदा // mmk_52.[5].10 //

जम्बूद्वीपगतो मन्त्री तत्रैवानयते सदा / शुचिस्थाने तदा गुप्ते शौचाचाररतः सदा // mmk_52.[5].11 //

मूढानामुत्तमा सिद्धिः कदाचित् तेन जायते / विन्मूत्रमशुचिस्थानं सदा दुर्गन्धिपूतिकम् // mmk_52.[5].12 //

व्याधिदुःखं तथा शोकं मरणान्तं दुःखभाजनम् / वियोगं रतिसम्पृक्तं न स्पृशेन्मानुषीं स्त्रियाम् // mmk_52.[5].13 //

अनित्यदुःख तथा शून्यरिक्तस्तुच्छमशाश्वतम् / वालमुल्लापनं चापि सङ्कल्पजनितोद्भवेत् // mmk_52.[5].14 //

न गच्छेत् कामतो मन्त्री सर्वकामामनादिजाम् / तेषां विरतिमित्युक्तो विमुक्तिः तेषु सिद्धिताम् // mmk_52.[5].15 //

सिध्यन्ते तस्य मन्त्रा वै ये विरक्ता तु कामतः / विन्मूत्ररुधिरासिक्तां + + + चैव पूजिताम् // mmk_52.[5].16 //

जरामृत्युसुशोकां च न स्पृशेन्मानुषीं तनुम् / न भेजेन्मैथुनं तत्र मोहान्धा रागचेतसाम् // mmk_52.[5].17 //

न सिद्धिर्लभ्यने मन्त्रां तेषु सेवी सदाशुची / मन्त्रज्ञो मन्त्रजापी च सप्रज्ञो ऽथ जितेन्द्रियः / शौचाचाररतो धीरः सर्वमन्त्रो ऽपि हि सदा // mmk_52.[5].18 //

पद्मोच्चा समोदा च अजिता चापि जया सदा / श्यामावर्त तथा यक्षी इत्येता यक्षिमहर्द्धिका // mmk_52.[5].19 //

पद्मोच्चाया मन्त्रः - ओम् पद्मोच्चे स्वाहा // अस्याः कल्पः - गङ्गाकूले समुद्रतटे वा उद्यानपुष्पवाटिकायां मध्ये उडयं कृत्वा शुचितरं आत्मना च शुचिर्भूत्वा शिलापट्टकाकारं मृण्मये कृत्वा तत्रैव रात्रौ द्वारं पिधयित्वा सर्वकामभोग्याद्युपकरणान्युपहृत्य तत्रैवात्मसमीपे यक्षिण्यां (वैद्य 447) शय्यां कल्पयेत् / ततो विद्यां दश सहस्राणि जपेत् / एवं यावन्मासाभ्यन्तरेण नियतमागच्छतीति / आगता च कामोपभोग्या भवति भार्या / दिव्यं च मुक्ताहारं शय्यां परित्यज्य प्रभाते गच्छति / एवं यावद् दिनेदिने षड्भिर्मासैः नित्यस्था भवति / तन्मुक्ताहारं न ग्रहेतव्यम् / यदिः गृह्णाति तन्मात्र एवमुपपद्यत / दीनारलक्षमूल्यं तत् हारं मणिरत्नोपशोभितं षट्भिर्मासैरतिक्रान्तैः नित्यस्था भवति भार्या सर्वकामदा / यथा रूपमभिलषितं तथा रूपं कृत्वां उपतिष्ठते / यथाभिरुचितमात्मानमभिनिर्मिनोति / साधकस्येच्छया सर्वेषां यक्षीणामयं विधानः यथा निर्दिष्टानां अत्र अन्यत्र //

जयाय मन्त्रः - ओम् जये सुजये जापयति सर्वकार्याणि कुरु मे स्वाहा /

कनकाभा चित्राङ्गी नीलकुञ्चितमूर्धजा / सर्वाङ्गशोभना देवी भोम्य च सुभगा शुभा // mmk_52.[6].1 //

प्रियंवदा प्रमदाश्रेष्ठा सुरूपा चारुदर्शना / प्रशस्ताकाररुः शुक्रः सर्वलोकसुपूजिता / ईषिद्रक्तेन वस्त्रेण जयां तामभिनिर्दिशेत् // mmk_52.[6].2 //

अस्याः कल्पः - आदौ लक्षमेकं जपेत् / पूर्वसेवा कृता भवति / ततो महारण्यं प्रविश्य फलाहारः तावज्जपेद्यावत् स्वरूपेणोपतिष्ठते / आगता च ब्रवीति - किं करोमी ति / यदि माता भवति / मातृवत् सर्वाशां परिपूरयते / राज्यं ददाति / महाधनपतिं करोति / दीर्घायुष्कतामधितिष्ठते / अथ भगिनी यथेप्सितं स्त्रीमानयति याजनसहस्रस्थितामपि / दीनारलक्षं दिने दिने ददाति / स च व्ययीकर्तव्यः / अथ भार्या भवति स्वभवनं नयते दिव्यविमानाभिरूढो तया सार्धं रमते / दीर्घकालं त्रिंशद् वर्षसहस्राणि यथेष्टं विचरते / महायक्षप्रतिरूपो भवति //

प्रमोदाया मन्त्र - ओम् ष्ठ्रीः / ह्रींः महानग्नि हूं फट् स्वाहा / अस्याः कल्पः - अर्धरात्रे अपरिमाणो जापः कर्तव्यः / भूयो निद्रां गच्छेत् / मासाभ्यन्तरेण नियतमागच्छति / भार्या भवति सर्वकामदा / दिनेदिने पञ्चविंशति दीनारामनुप्रयच्छति / आत्मना च सङ्कोशं दीर्घकालं च जीवापयति //

एवमपरिमाणानि यक्षिणी शतसहस्राणि भवन्ति / एवं पिशाचाः पिशाचमहर्द्धिकाः नागकन्याः असुरकन्याः अप्सरा सुरयोषिद् दैत्यकन्या / एवं विद्याधरीणां सर्वेषां सर्वतः मानुषीणाममानुषीणां च मन्त्राणि भवन्ति / असङ्ख्येयानि तथैव यक्षाणां देवानां नागानां ऋषीणां गन्धर्वाणां असुराणां प्रेतानां राक्षसानां च महाब्रह्मणः महेश्वरस्य महाविष्णोः मातराणां ऐन्द्राणि चामुण्डिवाराहिप्रमुखानां मन्त्राणि भवन्ति पृथक्पृथक् सर्वे च समये आकृष्टाः इह क्रोधराजेन यमान्तकेन आनीता ग्रस्ता समये स्थापिता मञ्जुघोषस्योपनामिता अनुपरिवारा अनुपूर्वस्थिता परिचारिका सर्वेषां संक्षेपतः यत्र प्रतिमा स्वयं वा प्रतिकृतिं कृत्वा क्रोधराजानं यमान्तकं तावज्जपेद्यावत् प्रतिबिम्बं प्रकम्प्य प्रचलते प्रस्विद्यति वा / अयं स्वरूपेणागच्छन्ते / यदुच्यते तत् सर्वं सम्पादयन्ते //

एवं यापि ताः चतुःकुमार्यः महायक्षिण्यः भ्रातुः तुम्बुरुसमेता दिव्यरूपिण्यः अम्बुराशिसमाश्रिताः नौयानसमारूढाः सर्वलो(क)सुपूजिता सत्त्वानुग्रहकारिकाः तेषामप्येष एव विधिः / यदुत

पटभित्तिफलके समाकीर्णो लिखितापि वा / नौयानसमारूढा भ्रातुर्ज्येष्ठानुनेयिका // mmk_52.[7].1 //

अम्बुधे अन्तर्गता कन्या चतुरेवसमानुगा / तेषां प्रच्छन्नतः स्थाप्य क्रोधं जाप्य समारभेत् // mmk_52.[7].2 //

चलः कम्पः तथा स्वेदः जायतेषु च सर्वतः / ततः सिद्धा इति ज्ञात्वा मन्त्रजापी जपं त्यजेत् // mmk_52.[7].3 //

स्वरूपेणैव रात्र्यन्ते कथयन्ति शुभाशुभम् / सर्वथा साधका ते वै भवन्ते ह सजापिने // mmk_52.[7].4 //

सर्वं कुर्वन्ति आज्ञप्ताः क्रोधमाकृष्टमूर्च्छिताः / सोमाद्यैर्ग्रहवरैर्नित्यं ऋषिभिः राक्षसैस्तथा // mmk_52.[7].5 //

पिशाचैर्गरुडैश्चापि सुपूजिता ते महर्द्धिकाः / महेश्वराद्यैस्तथाभूतैः पूजिता ते महर्द्धिकाः // mmk_52.[7].6 //

एतैश्च भाषिता कल्पा मन्त्रतन्त्राः सविस्तराः / ते तु सर्वे प्रयोक्तव्या सकल्पा कल्पविस्तराः // mmk_52.[7].7 //

सर्वे ते क्रोधराजस्य वशे तिष्ठन्त्ययत्नतः / यावन्ति केचिन्मन्त्रा वै उच्छुष्या कश्मलोद्भवाः // mmk_52.[7].8 //

सर्वे ते क्रोधराजस्य नियुक्ता ते प्रकाशिता / आर्या ये च मन्त्रा वै विशिष्टा सर्वतोगताः // mmk_52.[7].9 //

उत्कृष्टाः प्रवरा ह्यग्राः भाषिता जिनवरैस्तथा / तथा मन्त्रधरे मन्त्रा मया चैव प्रभाषिता // mmk_52.[7].10 //

ये चान्ये मन्त्रमुख्यास्तु कुलेष्वेव हि पञ्चसु / भाषिता जिनपुत्रैस्तु लौकिकाश्चापि महर्द्धिका // mmk_52.[7].11 //

सर्वांस्तां समाकृष्य क्रोधराजो महर्द्धिकः / सर्वेषां मन्त्रतन्त्रास्त्रनिबद्धास्ते इह शासने // mmk_52.[7].12 //

यो येषां विधिराख्यातः तेनैवायं नियोजितः / क्रोधराजा यमान्तस्तु उत्कृष्टः सर्वकर्मिकः // mmk_52.[7].13 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.