Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महावस्तु-अवादन
- Thông tin
- GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
गच्छन्ति अवलोकेसि अवलोकेन्ति गच्छसि / किं भद्रे अवलोकेसि कहिं वा त्वं गमिष्यसि //
मनोहरा आह //
उभयं अभिप्रार्थेमि . . . . किंपुरुषनगरं / सुधनुं चावलोकेमि निरतिं चाभिप्रार्थये //
ते दानि लुब्धकपुत्रा आहंसुः //
सुधनुस्य कुमारस्य कुरुपंचालेषु नारियो / ताहि सार्धं रममाणो न सो तुभ्यं स्मरिष्यति //
मनोहरा आह //
आनयिष्याम्य् अहं सुधनुं प्रेक्षितेन स्मितेन च / कोचिद् दृद्धो व मातंगो वशे एषो भविष्यति //
ताये तेषां लुब्धकपुत्राणां हस्ते शतसहस्रमूल्या च अंगुलिका दिन्ना तालीसमाला च / यदि मम पृष्ठतो सुधनुकुमारो आगच्छेय मम मार्गमाणो इमं अभिज्ञानं दास्यथ मम वचना अभिवादनं पृच्छेयाथ / वक्तव्यो / इतो एवं निवर्ताहि दुर्गमो
[_mvu_2.103_] परतरेण मनुष्याणां / नियतो मे मनुष्याणां विनाभावः // एवं लुब्धकपुत्राणां संदिशित्वा मनोहरा अस्पृशन्ती पादतलेहि उदकं शतद्रुनदीं तीर्णा //
___राज्ञा सुबाहुना यं कालं जानाति गता मनोहरा इति ततो सुधनुकुमारो आनापितो उत्संगे उपविसापितो पितरे मातरे पि // मा पुत्र किन्नरीम् अनुस्मराहि विस्तीर्णो ते अन्तःपुरो बहूनि कन्यासहस्राणि अपराणि ते आनापेष्यं / ताहि सार्धं क्रीडाहि रमाहि परिचारेहि किन् ते किन्नरीये त्वं मानुषो // राजा कुमारं चाश्वासयति अमात्या च आणत्ता / कुमारस्य गृहं अलंकारायेथ // अन्तःपुरस्य संदिष्टं / सुष्टु कुमारं अभिरमापेथ यथा कुमारो मनोहरां न समनुस्मरेय // राज्ञो वचनमात्रेण कुमारस्य गृहं यथा दिव्यं विमानं तथा अलंकृतं सर्वसंज्ञितं // सप्तसु द्वारशालासु सुचूर्णघटानि स्थापितानि अक्षतानि स्थापितानि यानि अन्यान्यपि लोकस्य मंगलसंमतानि सर्वाणि स्थापितानि // ब्राह्मणसहस्रियो कुमारस्य द्वारे उपस्थापितानि तथान्यो पि जनकायो कुमारं प्रतिपालयन्तो // कुमारो पि पितरा समाश्वासित्वा विसर्जितो / गच्छ गृहं उपसेवेहि स्नाहि विलिम्पाहि आसक्तमाल्यभरणो क्रीडाहि रमाहि प्रविचारेहि राजकार्याणि च समनुशासेहि // एवं संदिशित्वा पितरे कुमारो सुधनु विसर्जितः //
___सो दानि राजकुलातो निर्यात्वा सार्धं वसन्तकेन एकिना परिचारकेन भावानुरक्तेन हस्तिनापुरातो नगरातो निर्यात्वा येन हिमवन्तपर्वतराजा तेन प्रणतो मनोहराये अर्थाये // कुमारस्य तानि पैतृकानि षष्टिनगरसहस्राणि स्फीतानि
[_mvu_2.104_] सनिगमजनपदानि विस्तीर्णं च अन्तःपुरं मनसि न वर्तति / मनोहराम् एव किन्नरीं शोचति समनुस्मरति / राज्यं राजपरिदेववीक्षणकालेन तन् ददा सर्वं / अपविज्झियान प्रक्रमि अधौतमलिनं पटं गृह्य //
अनुरक्तभक्तिभावं चैकं परिचारकं ग्रहेत्वान / पर्वतराजाभिमुखो सो हिमवन्तम् अभिप्रसरेसि //
अचिरेण गतो सुधनू हिमवन्तं रम्यपर्वतनितम्बं / तत्राद्दशासि लुब्धकौ उप्पलकं मालकं चैव //
पश्यति च शतद्रुनदीं शुचिविमलस्फटिकविकाशां सततं / . . . . . . . . . . . . . . . . . . . . . . . शुभा सुशीतलतोया प्रस्यन्दमाना मृदुतरुणसुजाता / सा शाद्वला प्रलुलिता वहन्ति अक्षौहिन्यो शतद्रू //
सुधनू उवाच कांचिल् लुब्धका श्यामां अक्षुद्रानुलेपनां / नारीं अमिलानगन्धमाल्यां विक्रमन्तिं अपश्यथ //
अवोच लुब्धकपुत्र यादृशीं त्वं पृच्छसि सा इतो चिरं / उत्तीर्य नदीं गता सा इमेन कालेन हिमवन्तं //
प्रव्याहृतं हि ताये सुधनुर् नामेन पृष्ठतो मह्यं /
[_mvu_2.105_] यदि एष्यति लुब्धकपुत्रा दास्याथ इमं अभिज्ञानं //
इमम् अङ्गुलीयकं इमां च तालीसगन्धीकां मालां / दास्याथ लुब्धकपुत्रा भर्ता मम स्वामिकस्वामि //
अभिवादनं च लुब्धका मम वचना स्वामिकं भणेयाथ / प्रतिगच्छ हस्तिनापुरं नियतो नियमो विनाभावो //
प्रत्यग्रहेसि मालां आलम्बेसि मुद्रिकां प्रमोदन्तो / अपि मरणं अभ्युपेमि मनोहराये व समागमं //
ते तं भणन्ति लुब्धका सुधनुं इतो एव त्वं निवर्तेहि / हस्तिनापुरस्मिं नगरे का तुह्यम् अभुक्त वर्तेया //
तं तस्य नैव हृदये नापि च तेषां शृणोति सो वचनं / गन्तुं येवाध्यवसितो शतद्रुं च महानदीं तीर्णो //
लुब्धका पि ते व्यवस्थिता राजामर्षो भवेया अस्माकं / यदि सुधनुम् एवंरूपे अत्ययस्मिं परित्यजेयामः //
अवतीर्णा ते पि नदिं व्याघ्रगणसिंहवारणसंघोषां / मृगविहंगमानुयातां मनोरमां च चक्रवाकरुतां //
तान् तत्क्षणेन तीर्णा महानदीं हन्ससारसाभिरुतां / व्याडेहि किन्नरेहि च प्रपातजालां सुरमणीयां //
तत्र दानि कुमारो च वसन्तको च परिचारको उत्पलको च लुब्धकपुत्रो मालको च लुब्धकपुत्रो एवंकृताध्यवसाया मनोहराये पदेहि हिमवन्तं पर्वतराजं प्रविशन्ति /
[_mvu_2.106_] मनोहरापि नानावर्णनि वरकुसुमानि ओलम्बमानानि आबन्धमाना गच्छति // ते दानि कुसुमानि पच्छा दृष्टा अनुगच्छन्ति / इह विश्रमित्वा श्यामा इतो गता // इह मुहूर्तम् आसि अयम् अस्या पुष्पनिकरं इह कृतानि शुभमालानि निर्माल्यकानि चास्या वरकुसुमकर्णपूरधारिणीये देशेदेशे पश्यन्ति जानन्ति इतो गता श्यामा एवन् ते गच्छन्ति / आभरणानि नानाप्रकाराणि पन्थे पतितानि पश्यन्ति वनशाखेषु लग्नानि पश्यन्ति अन्यानि च चिह्नानि पश्यन्ति // यथायथा च हिमवन्तं अनुप्रविशन्ति तथातथा बहूनि रत्नरत्नानि पश्यन्ति // सुवर्णशृंगानि पर्वतानि पश्यन्ति रूप्यशृंगानि पश्यन्ति लोहकाराणि पश्यन्ति ताम्रकाराणि पश्यन्ति आरकूटकाराणि पश्यन्ति यशदशृंगानि पश्यन्ति अंजनपर्वतानि पश्यन्ति मनशिलपर्वतानि पश्यन्ति / किन्नरमिथुनानि क्रीडन्तानि पश्यन्ति / अन्यानि बहूनि आश्चर्याद्भुतशतानि पश्यन्ति / देशेदेशे किन्नरीगीतश्ब्दानि शृण्वन्ति सिंहनादशब्दानि च शृण्वन्ति शार्दूलनादशब्दानि च शृण्वन्ति / अच्छभल्लनादानि च शृण्वन्ति / मृगरुतानि च नानावर्णानि शृण्वन्ति / यक्षराक्षसरुतानि च शृण्वन्ति / पिशाचकुम्भाण्डरुतानि शृण्वन्ति // नानाप्रकाराणी च औषधीसहस्राणि पश्यन्ति विद्याधराणि च पश्यन्ति //
___तेहि गच्छन्तेहि काश्यपस्य ऋषिस्य आश्रमं दृष्टं बहुमूलपत्रपुष्पफलोपेतं वृक्षसहस्रसंछन्नं पानीयसंपन्नं च // ते दानि तहिं आश्रमे प्रविष्टाः पश्यन्ति च तत्र आश्रमे काश्यपं ऋषिं वृद्धं महाभागं सपरिवारं आसन्नं // ते दानि ऋषिस्य अभिवादनं
[_mvu_2.107_] कृत्वा सपरिवारस्य अग्रतो स्थिता // ऋषिस्य भवति // महात्मना इमेन कुमारेण भवितव्यं कृतपुण्येन पुण्यवन्तेन यो एषो इमं आश्रमं प्रविष्टः / प्रदेशो न क्षेमेणानुप्राप्तो // तेन कुमारो अभिनन्दितो // स्वागतं कुमारस्य निषीदाहि / एतानि शिविकानि // कुमारो निषण्णो सपरिवारो / ऋषिणा क्षुद्रमधुसदृशानि फलानि अल्लीपितानि पानीयं च // यत्र वेलां कुमारेण फला परिभुक्तानि पानीयं च पीतं ततो नं सो ऋषि पृच्छति // किं कुमारस्य सुखसंवृद्धस्य इमहिं आगमनप्रयोजनं // कुमारो आह // काचित् ते भगवं एवंरूपा नारी अतिक्रमन्ती दृष्टेति // ऋषि आह // आम दृष्टा अल्लीना सा इमं आश्रमं मम पादौ वन्दित्वा गिरिवरस्य अनुतटेहि गता / तत् कुमारो इतो एवं आश्रमातो निवर्ततु / दुष्करं कुमारेण कृतं इमं तावत् प्रदेशं गच्छन्तेन किं पुन अतो परतरेण गतेन अगमनं मनुष्याणां इतो एवं निवर्ताहि // कुमारो आह // न शक्यामि भगवन् निवर्तितुं / या तस्या मनोहराये गति सा मम येनैव मार्गेण गता तेनैवाहं गमिष्यामि // ऋषि आह // अन्या किन्नरीणां गतिः अन्या मनुष्याणां / पक्षी पि किन्नराणां गतिं न संभुणन्ति कृतो मनुष्या / पक्षी पि तं प्रदेशं कथं चिद् गच्छन्ति / किन्नरा यत्र गच्छन्ति मोदमाना रतिविहारं समनुभोन्तो अगम्यन् तं कुमार मनुष्याणां पथेहि / इतो एवम् आश्रमातो निवर्ताहि // पिता ते षष्टीणां नगरहस्राणां ईश्वरो ननु उदारेहि परिभोगेहि कुमारेण क्रीडितव्यं रमितव्यं अनुभवितव्यं एतं अगम्यं देशं न शक्यसि गन्तुं // कुमारो आह // भगवं मरणं वा सा वा पश्यितव्या //
[_mvu_2.108_] ऋषि महाभागो महामैत्रीविहारी कारुणिको / तस्य भवति // से कुमारस्य अगम्यं देशं गच्छन्तस्य शरीरविनाशो भवेया // सो ऋषि आह // कुमार इमां रात्रिं इह आश्रमे वीतिनामेहि याव इह उद्देशे वानरा प्रतिवसन्ति / यो तेषां यूथपति सो मम अभिप्रसन्नो नित्यकालं मम पादवन्तो आगच्छति क्षुद्रमधुसदृशानि फलानि आदाय / तम् अहं वानरराजं अध्येषिष्यं / सो तव द्रुमस्य किन्नरराज्ञो निरतिं नाम किन्नरनगरं नेष्यति // कुमारो ऋषिस्य वचनेन तहिं आश्रमे तां रात्रिं स्थितो रात्रिये च प्रभाताये कुमारो सिंहस्य च ओसरन्तस्य शब्दं शृण्वति / कुमारो ऋषिकुमाराणां पृच्छति / कस्य एष ओसरणशब्दो // ऋषिकुंआरो आह // एवं वानराधिपतिस्य ओसरन्तस्य शब्दो नित्यं एषो इह वेलाये क्षुद्रमधुसदृशानि फलानि आदाय तं ओसरन्तो द्रुमात्* द्रुमं संक्रमन्तो अस्माकम् उपाध्यायस्य पादवन्तो आगच्छति // तदानि कौतूहलेव उत्थाय यतो तं वानरस्य ओसरन्तस्य शब्दं ततः निध्यायति // तेन सो वानरराजा दृष्टो द्रुमातो द्रुमं संक्रमन्तो आगच्छन्तो // सो वानरराजा तं आश्रमम् आगत्वा क्षुद्रमधुसदृशानि फलानि ऋषिस्य पुरतो निक्षिपित्वा निषण्णो // ऋषि आह // वानरराज करोहि मे व्यापारं // वानरराजा आह // भगवं करिष्यामि / आणपेहि // ऋषि आह // इमं कुमारं आत्मना चतुर्थं द्रुमस्य किन्नरराज्ञो निरतिं नाम किन्नरनगरं तहिं तेहि // वानरो आह // भगवन् नेमि //
___सो दानि वानराधिपति ततो एव आश्रमातो आत्मना चतुर्थं कुमारं पृष्ठं आरोहयित्वा पर्वतानां शृंगतो शृंगं संक्रमन्तो द्रुमातो द्रुमं नचिरस्यैव द्रुमस्य किन्नरराज्ञो
[_mvu_2.109_] नगरं कैलासस्य पर्वतस्य मूर्ध्ने अनुप्राप्तो / पश्यति च कैलासस्य पर्वतस्य मूर्ध्ने द्रुमस्य किन्नरराज्ञो निरतिं नाम नगरं सर्वसौवर्णशुभकर्मनिर्मितं उद्यानसहस्रमण्डितं सर्वरत्नामयेहि पुष्करिणीतडागेहि मण्डितं सर्वरत्नामयेहि वैडूर्यफलसोपानेहि सप्तरत्नवेदिकापरिक्षिप्तेहि उत्पलपदुमकुमुदपुण्डरीकसौगन्धिकसंछन्नेहि रतनामयेहि रतनामयेहि तटकेहि आयुक्तेहि नानारत्नविचित्राहि नावाहि प्लवन्तीहि वसन्तचित्राहि च नानाप्रकारेहि प्लवेहि प्लवन्तेहि / नानाप्रकारेहि पुष्पपत्रफलोपेतेहि द्रुमसहस्रेहि संछन्नं च अतिमुक्तकचम्पकवार्षिकमल्लिकासुमननवमालिकायूथिकोपशोभितं // ते तहिन्तहिं पश्यन्ति किन्नरमिथुनसहस्राणि क्रीडन्तानि / काचिज् जलदर्दरकानि वादेन्ति काचित्* नानाप्रकाराणि वाद्यानि वादेन्ति मधुरेण च स्वरेण मनोहरां परिगायन्ति // अभ्यन्तरनगरे च तूर्यशतशब्दानि शृण्वन्ति मधुराणि च गीतशब्दानि शृण्वन्ति //
___अथ नु दानि तहिं किन्नरनगरस्य वाह्यतो उपवने स्थिता पश्यन्ति संबहुला किन्नरीयो प्रासादिका दर्शनीया अलंकृता आभूषिताः सौवर्णघटकहस्ता आगच्छन्ति तां पुष्करिणीं यत्र सुधनुः स्थितो उदकहारिं // सुधनुर् एता पृच्छति // किं अत्र नगरे पर्वो यं / सो ईदृशो आमोदो // ता दानि आहन्सुः // न अद्य किंचित् पर्वो न उत्सवो / अपि द्रुमस्य किन्नरराज्ञो नाम धीता मानुषेहि नीता आसी सा बहूहि वर्षेहि आगता ताये आगताये द्रुमो च किन्नरराजो सर्वं
[_mvu_2.110_] च नगरं प्रीतं तत्रैष एदृशो आमोदः // सुधनु पृच्छति // कहिं उदकं इमं नीष्यति // आहन्सु // सा मनोहरा स्नापयिष्यति / तस्या मनुष्यगन्धम् अपनयिष्यति // तेन कुमारेण अंगुलीयका पश्चिमे उदकघटे प्रक्षिप्ता यथा ताहि किन्नरीहि न दृष्टा // मनोहरा स्नायति च अंगुलीयका स्नायन्तीये ततो घटकातो उत्संगे पतिता // मनोहराये सा अंगुलीयका दृष्ट्वा परिज्ञाता / ताये एतद् अभूषि / सुधनुकुमारः आगतो मम अर्थाय / सुकुमारो राजपुत्रो कथं सो इमाम् अगम्यां दिशम् आगतो // सा दानि त्वरितत्वरिता वस्त्राणि प्रावरित्वा अश्रुकण्ठा रुदन्मुखा मातापितॄणां प्रणिपतित्वा आह // यो मम जम्बुद्वीपे भर्ता सो आगतो सुधनु नाम राजपुत्रो सुबाहुस्य राज्ञो एकपुत्रो // द्रुमो किन्नरराजा न पत्तीयति / पुत्रि न शक्यं मानुषेहि इमां दिशाम् आगन्तुं // मनोहरा आह // न हि तात व्यक्तम् आगतो // द्रुमो किन्नरराजा पृच्छति // किं त्वया स्वयं दृष्टो उताहो परतो श्रुतो ति // सा आह // न मे स्वयं दृष्टो नापि परतो श्रुतो अपि मे स्नापयन्तीये सुधनुस्य अंगुलीयका उत्संगे पतिता //
___द्रुमेण किन्नरराज्ञा उदकहारीयो शब्दापितायो / ता दानि शब्दापिय पृच्छीयन्ति // क्वचिद् वो उदकहारिं गताहि पुरुषो दृष्टो // ता आहन्सुः // महाराज दृष्टो किन्नरकुमारः प्रासादिको दर्शनीयो आत्मना चतुर्थो पुष्करिणीये कूले // तस्य भवति // सो एवम् एषो कुमारो मनोहराये ति // कथं सो शक्यति इमां दिशाम् आगन्तुं // सो दानि तां धीतरं पृच्छति // मनोहरे प्रविशतु सुधनु राजकुमारो इमं राजकुलं // सा आह // तात प्रविशतु // सो इह मम प्रेमेन आगतो
[_mvu_2.111_] बहु च तेन मम निदानं पितृसकाशातो अप्रियो असत्कारो / तेन बन्धनवधदुःखो अनुभूतो न च तेन अहं कदाचित् परित्यक्ता / ततो सुधनु कुमारो पितरेण सुबाहुना बन्धनागरे बन्धित्वा अहं विसर्जिता / सो एष मुक्तो समानो मम पृष्ठतो आगतो // द्रुमेण किन्नरराज्ञा अमात्या आणत्ता // शीघ्रं नगरं अलंकारापेथ यावच् च राजकुलं यावच् च असुरका पुष्करिणी विततवितानं कारापेथ चित्रपुष्पपरिक्षिप्तं अवसक्तपट्टदामकलापं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं सर्वगन्धोदकसिक्तं // ये मम नगरे प्रधानपुरुषाश् चतुरंगबलकायो सर्वे ते मम जामातुः प्रत्युद्गच्छन्तु छत्रध्वजपताकानि च आदाय // अमात्येहि वचनमात्रेण सर्वं प्रतिजागृतं महता समृद्धीये प्रत्युद्गमनं कृतं // मनोहरापि महारहेन अंशुकेन प्रावृता सर्वालंकारविभूषिता बहूहि किन्नरसहस्रेहि परिवृता तूर्यसहस्रेहि वाद्यमानेहि प्रत्युद्गता // सा दानि सुधनुं दृष्ट्वा मूर्ध्नेन पादेहि पतिता मुखेन च केशेन च पादानि संपरिमार्जति // एवं सुधनु महता विभूषाये महता समृद्धीये द्रुमस्य किन्नरराज्ञो नगरं प्रवेशितो यावद् राजकुलं द्रुमेण च किन्नरराज्ञा अभिनन्दितो उत्सङ्गे संवेशितो आश्वासितो च // एषो ते नगरो सर्वसौवर्ण उद्यानसहस्रमण्डितो अनन्तकल्याणो इह मम धीतराये मनोहराये सह क्रीडाहि रमाहि प्रविचारेहि //
___सुधनु दानि किन्नरनगरे बहूनि वर्षाणि प्रतिवसित्वा क्रीडित्वा रमित्वा प्रविचारेत्वा सर्वोद्यानेषु संवर्तनीयं अनुभवित्वा मनोहराम् आमन्त्रेसि // मनोहरे जानसि त्वं यथा अहं मातापितॄणां एकपुत्रको प्रियो मनापो / अहं तव प्रेमेन अनापृच्छित्वा
[_mvu_2.112_] मातापितॄणां सर्वकानि उज्झित्वा आत्मना परित्यागं कृत्वा इह आगतो इह मे अद्य बहूनि वर्षाणि प्रतिवसन्तस्य / ततो आमन्त्रेहि मातापितरं गमिष्यामि हस्तिनापुरं // ताये मनोहराये मातापितॄणां आरोचितं // द्रुमेण किन्नरराज्ञा सुधनु पृच्छीयति // कुमार गमिष्यसि मातापितॄणां सकाशं // कुमारो आह // यदि तात अभिप्रेतं ततो गमिष्यामि // द्रुमो आह // विसर्जयिष्यामि इति // यम्भका नाम यक्षा किन्नराणाम् आणत्तिकराः // राज्ञा यम्भका यक्षा आणत्ता // मम जामातारं सपरिवारं मनोहरासहितं येन हस्तिनापुरं नेथ प्रभूतं च रत्नरतनं // तेहि सुधनु कुमारो सपरिवारो मनोहरा च किन्नरनगरातो शयनगता एवम् उत्क्षिपित्वा प्रभूतं च रत्नरतनं हस्तिनापुरम् आनेत्वा राजक्ये उद्याने स्थपिता // प्रभाताये रात्रीये कुमारो सुधनु विबुद्धो हस्तिनापुरे व भेरीघोषं शृणोति जनशब्दं च // तस्य भवति // कहिं अहं हस्तिनापुरं आनीतो // इमं राजक्यं उद्यानं पश्यति / तानि रत्नमयानि पर्यंकानि यथा प्रज्ञप्ताति मनोहरां तं त्रिवर्गं परिवारं प्रभूतं च रत्नं / कुमारो प्रीतो संवृत्तो यथाभिप्रेतं स्वकं नगरम् आगतो //
___कुमारस्य हस्तिनापुरा गतस्य राज्ञा सुबाहुना मार्गणा कारिता महता उद्योगेन / यं कालं राजा कुमारस्य प्रवृत्तिं न उपलभति तस्य भवति / मृतो भविष्यति कुमारो मनोहरां मार्गन्तो // तेन राज्ञा कुमारस्य सुधनुस्य मृतस्य कार्याणि कारितानि // सर्वस्य अधिष्ठानस्य भवति / मृतो सुधनु // तहिं दानि राजक्ये उद्याने अग्रद्वारेण उद्यानपाला निर्धाविता उद्याने पताकान् उच्छ्रापयन्ति
[_mvu_2.113_] आगता च उद्यानं पश्यन्ति तं च सुधनुं मनोहरां च तं च त्रिवर्गं परिवारं रत्नमयानि च पर्यंकानि महान्तं च रत्नराशिं दृष्टा च पुनः धावन्तो हस्तिनापुरं प्रविष्टा // महाजनकायो पृच्छति क्षेमं / ते आहन्सुः / क्षेमं सुधनु कुमारो आगतो हि / सो एव प्रीतो भवति // तेहि राजकुलं गत्वा उद्यानपालेहि राज्ञो सुबाहुस्य आरोचितं // महाराज दिष्ट्या वृद्धि सुधनु कुमारो आगतो // राजा श्रवणमात्रेण प्रीतो संवृत्तो सर्वं च राजकुल्ं / तेषां उद्यानपालानां विपुलो दायो दिन्नो // राजा सुबाहु सामात्यपरिजनो देवी च सुधनुस्य माता सर्वं च अन्तःपुरं उद्यानं निर्धावितं कुमारं द्रष्टुं सर्वं च नगरं कुमारस्य सुधनुस्य आगमनशब्दं श्रुत्वा मनोहराये च / अन्तरो जनस्य नास्ति हस्तिनापुरातो राजकृत्यं उद्यानं निर्धावन्तस्य कुमारं द्रष्टुं मनोहरां च // सुधनु मातापितरं दृष्ट्वा मूर्ध्नेन निपतितो मनोहरा च श्वश्रूश्वशुरं च दृष्ट्वा मूर्ध्नेन निपतिता // कुमारो पितरेण सुबाहुना सार्धं सुवर्णालंकृतं हस्तिनागम् आरुहित्वा हेमजालसंछन्नं महता राजानुभावेन महता राज-ऋद्धीये महतीये वियूहाये महतीये विभूषाये हस्तिनापुरं प्रवेशितो //
एवं समेन्तु सत्वा सर्वेहि प्रियेहि अबोधिप्रहीणा //
यथ तस्मिं समयस्मिं समागतः किन्नरिये सुधनुः //
भगवान् आह // स्यात् खलु पुनर् भिक्षवः युष्ंआकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन सुधनु नाम कुमारो अभूषि / न एतद् एवं द्रष्टव्यं // तत् कस्य हेतोः // अहं सो भिक्षवः तेन कालेन तेन समयेन सुधनुर् नाम कुमारो अभूषि / अन्यः स तेन कालेन तेन समयेन सुबाहुर् नाम राजा अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषो भिक्षवो राजा शुद्धोदनो तेन कालेन तेन समयेन सुबाहुर् नाम राजा अभूषि //
[_mvu_2.114_] अन्या सा तेन कालेन तेन समयेन सुधनुस्य माता अभूषि / न एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषा भिक्षवो माया देवी तेन कालेन तेन समयेन सुधनुस्य माता अभूषि // स्यात् खलु पुनर् भिक्षवः युष्माकम् एवं अस्याद् अन्यः स तेन कालेन तेन समयेन सुधनुस्य परिचारको वसन्तको नाम अभूषि / न एतद् एवं द्रष्तव्यं / तत् कस्य हेतोः / एष भिक्षवश् छन्दको तेन कालेन तेन समयेन सुधनुस्य परिचारको // अन्यो सो तेन कालेन तेन समयेन उप्पलको नाम लुब्धपुत्रो अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवो राहुलो उप्पलको नाम लुब्धकपुत्रो अभूषि // अन्यो सो तेन कालेन तेन समयेन मालको नाम लुब्धकपुत्रो अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवो आनन्दस्थविरो तेन कालेन तेन समयेन मालको नाम लुब्धकपुत्रो अभूषि // अन्यो सो तेन कालेन तेन समयेन काश्यपो नाम ऋषि अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवः महाकाश्यपः स्थविरः तेन कालेन तेन समयेन अनुहिमवन्ते काश्यपगोत्रो ऋषि अभूषि // अन्यो स तेन कालेन तेन समयेन अनुहिमवन्ते वानरराजा अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवो कण्ठको अश्वराजा तेन कालेन तेन समयेन अनुहिमवन्ते वानरराजा अभूषि // अन्यो स तेन कालेन तेन समयेन कैलासमूर्ध्नि द्रुमो नाम किन्नरराजा अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवो महानामो शाक्यो तेन कालेन तेन समयेन द्रुमो किन्नरराजा अभूषि // अन्या सा तेन कालेन तेन समयेन मनोहराये माता अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषा भिक्षवः यशोधराये माता तेन कालेन तेन समयेन मनोहराये माता अभूषि // अन्या सा तेन कालेन तेन समयेन मनोहरा किन्नरी अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषा भिक्षवो यशोधरा तेन कालेन तेन समयेन मनोहरा किन्नरी अभूषि / तदापि एषा मया खेदेन लब्धा //
[_mvu_2.115_] विचित्रगम्भीरकथो बहुश्रुतो किलेशघाती परवादिमर्दनो //
स भिक्षु शोभेत स्वयंभुशासने नभे व चन्द्रो परिपूर्णमण्डलो //
_____इति श्रीकिन्नरीजातकं समाप्तं //
भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तद् अर्थं अभिसंभावयित्वा श्रावस्त्यां विहरति शास्ता देवानां मनुष्याणां च विस्तरेण निदानं कृत्वा भिक्षून् आमन्त्रयति // सुकुमारो हं भिक्षवो परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य पिता शाक्यो त्रयो प्रासादा कारयत्* हेमन्तिकं ग्रीष्मिकं वार्षिकं मम येव क्रीडार्थं रत्यर्थं परिचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य भिक्षवः पिता शाक्यो तेहि प्रासादेहि कूटागाराणि कारयेत्* उल्लिप्तावलिप्तानि वातास्पर्शार्गडानि पिहितवातायनानि धूपनधूपितानि ओसक्तपट्टदामकलापानि मुक्तपुष्पावकीर्णानि मम एव क्रीडार्थं रत्यर्थं प्रविचारार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो // तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि कूटागारेहि पर्यंका कारयेत् सुवर्णमयानि रूप्यमयानि रतनमयानि षोडशगोणिकास्तृतां पत्तिकास्तरणां चित्रास्तरणां फलिकास्तरणां उभयतो बिम्बोपधानां लोहितकोपधानां अवदातप्रत्यास्तरनां मम एव क्रीडार्थं रत्यर्थं प्रविचारार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो // तस्य मे भिक्षवः सुकुमारस्य
[_mvu_2.116_] परमसुकुमारस्य पिता शाक्यो तेहि पर्यंकेहि वितानानि कारापयेत्* रजोशुक्रं उपनियमे मम क्रीडार्थं रत्यर्थं परिचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधम् अनुलेपनम् उपस्थापये सय्यथीदं अगुरुचन्दनं कालानुसारिं तमालपत्रं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं // सुकुमारो हं भिक्षवो परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधानि वस्त्राणि उपस्थापये / सय्यथीदं काशिकसूक्ष्माणि कम्बलसूक्ष्माणि मम क्रीडार्थं रत्यर्थं परिचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवो सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधां मालां उपस्थापये / सय्यथीदं अतिमुक्तकचम्पकवार्षिकां वातुष्कारी इन्दीवरं दमनकं देवोपसंहितं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवः पिता शाक्यो विविधं भोजनं उपस्थापये / शालिं विचित्रकालकं अनेकसूपरसव्यंजनं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो ममानन्तरेण भुक्ताविस्य चक्रवर्त्तियोग्यां मालाम् उपनामयेत्* मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो पंच कामगुनां उपस्थापयेत्* / सय्यथीदं नाट्यं गीतं वादितं तूर्यं स्त्रियो च मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधानि यानानि उपस्थापयेत्* / सय्यथीदं हस्तियानानि अश्वयानानि नावायानानि शिविकायानानि मम एव क्रीडार्थं परिचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो /
[_mvu_2.117_] तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विचित्रा कुथां उपस्थापयेत्* सिंहचर्मपरिवाराणां व्याघ्रचर्मपरिचाराणां द्वीपिचर्मपरिवाराणां पाण्डुकम्बलप्रतिच्छन्नानां सनन्दिघोषाणां वैजयन्तिकानां ममैव क्रीडार्थं रत्यर्थं प्रविचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो निर्यान्तस्य छत्रं धारापयेत्* मा कुमारस्य कायं आतपो रजो शुक्रो वा परिदहे मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य चतुर्दिशम् उद्यानानि कारापयेत्* मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि उद्यानेहि चतुर्दिशं पुष्करिणीं कारापयेत्* उत्पलपदुमनलिनीसौगन्धिकप्रच्छन्नां मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं // सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि उद्यानेहि चतुर्दिशं प्रासादां कारापये उच्चां महन्तां प्रगृहीतां मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं //
___सुकुमारो हं भिक्षवः परमसुकुमारो / तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य एतद् अभूषि // संबाधो पुनर् अयं गृहवासो अभ्यवकाशं प्रव्रज्या तु / न शक्यं अगारम् अध्यावसता एकान्तसंलिखितं एकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं यं नूनाहं अगारस्यानगारियं प्रव्रजेयं // स खल्व् अहं भिक्षवः अकामकानां मातापितॄणां अश्रुकण्ठानां रुदन्मुखाणां अलूहं गृहवासं हस्तोक्तं चक्रवर्तिराज्यम् अपहाय अगारस्यानगारियं प्रव्रजितो पुनस् समानो येन वैशाली नगरी तदवसारि तदनुप्राप्तो //
[_mvu_2.118_] // तेन खलु पुनः समयेन वैशाल्यां महानगर्यां आराडो कालामो प्रतिवसति त्रयाणां श्रावकशतानां सत्कृतो गुरुकृतो मानितो अर्चितो / सो जिनश्रावकाणां आशंकितव्यसहव्रतायै धर्मं देशयति / सो जिनश्रावकाणाम् एवम् आह / पश्यथ पश्यथ प्रजहथ प्रजहथ // ते पि तं श्रावका एवम् आहन्सुः // पश्यामः पश्यामः प्रजहामः प्रजहामः वयं चान्ये च // तस्य मे भिक्षवो एतद् अभूषि // यं नूनाहं आराडे ब्रह्मचर्यं चरेयं // स खल्व् अहं भिक्षवः येन आराडो कालामो तेनोपसंक्रमित्वा आदाटं कालामम् एतद् अवोचत्* // इच्छेयम् अहं भगवतो आराडस्य ब्रह्मचर्यं चरितुं // एवम् उक्ते भिक्षवः आराडो कालामो एतद् अवोचत्* // चर भो गौतम तथारूपो अयं धर्मविनयो यत्र श्राद्धो कुलपुत्रो ब्रह्मचर्यं चरे चरं च पुनः आराधयेत् कुशलां धर्मां // तस्य मे भिक्षवः एतद् अभूषि // मह्यं पि खलु अस्ति च्छन्दो अस्ति बलं अस्ति वीर्यं यं नूनाहं एतस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै / एको प्रमत्तो आतापी प्रहितात्मो व्यपकृष्टो विहरन्तो नचिरस्यैवं धर्मं अधिगमि साक्षाकरि // स खल्व् अहं भिक्षवः येन आराडो कालामो तेनोपसंक्रमित्वा आराडं कालामम् एतद् अवोचत्* // एत्तको यं भगवता आराडेन धर्मो अधिगतो साक्षात्कृतः देशितो प्रज्ञप्तो // एवम् उक्ते भिक्षवः आराडो कालामो एतद् अवोचत्* // एवम् एतं गौतम एत्तको यं मया धर्मो अधिगतो साक्षात्कृतः देशितो प्रज्ञप्तः // एवम् उक्ते हं भिक्षवः आराडं कालामम् एतद् अवोचत्* // तेन हि भो आराड मयाप्य् अयं धर्मो अधिगतो साक्षात्कृतो // एवम् उक्ते मे भिक्षवः आराडो कालामो एतद् अवोचत्* // तेन भो गौतम
[_mvu_2.119_] यं धर्मं जानामि तं भवां गौतमः धर्मं जानाति यं भवां गौतमो धर्मं जानाति तम् अहं जानामि / तेन हि उभये एवं श्रावकसंघं परिहरावः // इति तस्य मे भिक्षवः सो आराडो कालामो परमया पूजया पूजयेत् परमया च प्रशंसया प्रशंसे // एवंदर्शनं च समानं समानार्थताये स्थापयेत्* // तस्य मे भिक्षवः एतद् अभूषि / नायं आराडस्य धर्मो निर्याति तत्करस्य सम्यग्दुःखक्षयाये / यन् नूनाहं उत्तरि पर्येषयेयं // स खल्व् अहं भिक्षवो तथादर्शनायैव समानो येन राजगृहं नगरं तदवसारिं तदनुप्राप्तः तत्रैव विहरामि राजगृहे नगरे //
___तेन खलु पुनस् समयेन उद्रको रामपुत्रो राजगृहे प्रतिवसति / सप्तानां श्रावकशतानां सत्कृतो गुरुकृतो मानितो पूजितो // सो जिनश्रावकाणां नैवसंज्ञानासंज्ञायतनसहव्रतायै धर्मं देशयति // सो जिनश्रावकाणाम् एवम् आह // पश्यथ पश्यथ प्रजहथ प्रजहथ // ते पि च श्रावका एवम् आहन्सुः // पश्याम पश्यामः प्रजहाम प्रजहामः वयं चान्ये च // तस्य मे भिक्षवः एतद् अभूषि / यं नूनाहं उद्रके रामपुत्रे ब्रह्मचर्यं चरे // स खल्व् अहं भिक्षवो येन उद्रको रामपुत्रः तेनोपसंक्रमित्वा उद्रकं रामपुत्रम् एतद् अवोचत्* // इच्छेयम् अहं भो उद्रक भवतो ब्रह्मचर्यं चरेयं / स च मे भवां उद्रको अनुजानेया // एवम् उक्ते भिक्षवः उद्रको रामपुत्रो एतद् अवोचत्* // तेन हि चर भो गौतम वस भो गौतम तथारूपो अयं धर्मविनयो यत्र श्राद्धो कुलपुत्रो
[_mvu_2.120_] ब्रह्मचर्यं चरे चरं च पुनः आराधये कुशलां धर्मान्* // तस्य भिक्षवः एतद् अभूषि // मह्यं पि खलु अस्ति च्छन्दो अस्ति बलं अस्ति वीर्यं / यं नूनाहं एतस्यैव धर्मस्य प्राप्तये साक्षात्कियायै एको अप्रमत्तो आतापी प्रहितात्मा व्यपकृष्टो विहरेयं // स खल्व् अहं भिक्षवः तस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै एको प्रमत्तो आतापी प्रहितात्मा व्यपकृष्टो विहरन्तो नचिरस्यैव तं धर्मं अधिगमि साक्षीकरि // स खल्व् अहं भिक्षवः येन उद्रको रामपुत्र एतद् अवोचत्* // एत्तको यं भो उद्रकेन भवता रामेण धर्मो अधिगतो साक्षात्कृतो देशितो प्रज्ञप्तो यम् इदं नैवसंज्ञानासंज्ञायतनं // एवम् उक्ते भिक्षवः उद्रको रामपुत्रो एतद् अवोचत्* // एत्तकम् इदं भो गौतम भवता रामेण अधिगतो साक्षीकृतो प्रज्ञप्तो यम् इहैव संज्ञानासंज्ञायतनं // स खल्व् अहं भिक्षवः उद्रकं रामपुत्रम् एतद् अवोचत्* // तेन हि उद्दक मयापि अयं धर्मो धिगतो साक्षात्कृतो // एतम् उक्ते भिक्षवः उद्दको रामपुत्रो एतद् अवोचत्* // तेन हि गौतम यं भवां रामो धर्मं जानापि तं भवां गौतमो धर्मं जानापि / तेन हि भवां एव दानि गौतमो श्रावकसंघं परिहरतु // इति स खलु मे भिक्षवो उद्रको रामपुत्रो परमया पूजया पूजयति परमया प्रशंसया प्रशंसे तथादर्शनं च समानम् आचार्यस्थाने स्थापये // तस्य मे भिक्षव एतद् अभूषि // न चायं तस्य रामस्य धर्मो निर्याति तत्करस्य सम्यग्दुःखक्षयाय / यन् नूनाहं उत्तरि पर्येष्टिम् आपद्येहं / स चाहं भिक्षवो तथादर्शनतो एवं व समानो येन गयानगरं तदवसारि / तदनुप्राप्तः तत्रैव विहरामि //
[_mvu_2.121_] गयाशीर्षे पर्वते विहरन्तस्य तिस्रो उपमा प्रतिभायेन्सुः पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैवाविज्ञातपूर्वा च / कतमा तिस्रो // ये हि केचिद् भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि अव्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता ये पि चेमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किंचापिमे भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकान् ते वेदनां वेदयन्ति // अथ खलु अभव्या एव ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये // सय्यथापि नाम इह पुरुषो आगच्छे ज्योति-अर्थिको ज्योतिगवेषी ज्योतिं पर्येषमाणो सो आर्द्रे काष्ठे सस्नेहि आर्द्राये उत्तरारणीये अन्तोदके अभिमन्थन्तो अभव्या तेजस्य अभिनिर्वर्तनाये ज्योतिस्य प्रदुर्कर्माय एवम् एव भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति // अथ खलु अभव्या एव ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये // अयं खलु मे भिक्षवः गयाशीर्षे पर्वते विहरन्तस्य प्रथमा उपमा प्रतिभाति पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैव अविज्ञातपूर्वा च //
___तस्य मे भिक्षवः एतद् अभूषि // ये हि केचिद् भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता एवम् इमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किं चापि ते
[_mvu_2.122_] भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति // अथ खलु अभव्या एवन् ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये / सय्यथापि नाम इह पुरुषो आगच्छेया ज्योत्यर्थो ज्योतिगवेषी ज्योति पर्येषमाणो सो आर्द्रे काष्ठे सस्नेहे आर्द्राये उत्तरारणीये स्थले पि अभिमन्थन्तो अभव्या तेजस्य अभिनिर्वर्तनाये ज्योतिप्रादुःकर्माये एवम् एव ये हि केचि श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किंचापि ते भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति // अथ खलु अभव्या एवं उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये // अयं खलु भिक्षवो गयाशीर्षे पर्वते विहरन्तस्य द्वितीया उपमा प्रतिभाये पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता च अविज्ञातपूर्वा च //
___तस्य मे भिक्षवः एतद् अभुषि // ये केचिद् भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति व्यपकृष्टचित्ता ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति प्रतिविनीता किं चापि ते भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति // अथ खलु भव्या एवन् ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये // सय्यथापि नाम इह पुरुषो आगच्छे ज्योत्यर्थिको ज्योतिगवेषी
[_mvu_2.123_] ज्योतिपर्येषमाणो सो शुष्ककाष्ठे विगतस्नेहे शुष्काये उत्तरारणीये स्थले अभिमन्थन्तो भव्या तेजस्य अभिनिर्वर्तनाये ज्योतिस्य प्रादुःकर्माये एवम् एव ये केचिद् भवन्तो श्रमणा वा ब्राह्मणा वा कामेषु व्यपकृष्टकाया विहरन्ति व्यपकृष्टचित्ता ये पि ते कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति प्रतिविनीता किंचापि ते भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति // अथ खलु भव्या च ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये // अयं खलु भिक्षवो गयाशीर्षे पर्वते विहरन्तस्य तृतीया उपमा प्रतिभाये पूर्वे अश्रुता चैव अश्रुतपूर्वा च // इमा खलु भिक्षवः गयाशीर्षे पर्वते विहरन्तस्य तिस्रो उपमा प्रतिभायेन्सुः पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैव अविज्ञातपूर्वा च //
___तस्य मे भिक्षवः एतद् अभूषि // अहं खलु कामेहि व्यपकृष्टकायो विहरेयं व्यपकृष्ट्चित्तो ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि मह्यं प्रतिविनीता किंचाप्य् अहं आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयामि / अथ खलु भव्या एवम् अहं उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये //
___स खल्व् अहं भिक्षवः तथादर्शनसमानो येन उरुविल्वा सेनापतिग्रामस् तदवसारिं तदनुप्राप्तः // तत्राद्राक्षीत्* वृक्षमूलानि प्रासादिकानि दर्शनीयानि प्रान्तानि विविक्तानि विगतव्यसनानि विगतजनपदानि मनोज्ञह्रदसय्यकानि प्रतिसंलयने आरूप्याणि // समन्तेन च गोचरग्रामाणि नातिदूराणि नात्यासन्नानि आगमनगमनसंपन्नानि समं च भूमिभागं नदीं च नैरंजनां समां सेतकां सम्पन्नार्थां शुचिसम्पन्नतोयां स्यन्दमानां दृष्ट्वा च पुनः मे अतीव मनः प्रसादे // अलं पुनः मे श्रद्धाय प्रव्रजितस्य
[_mvu_2.124_] कुलपुत्रस्य प्रहाणाये यं नूनाहं इहैव प्रहाणं प्रहरेयं // स खल्व् अहं भिक्षव इदम् एव कायं चेतसा एवं चेत अभिनिगृह्णे अभिनिपीडे // तस्य मे भिक्षवः इदम् एव कायं चेतसा एवं चेत अभिनिगृह्णतो अभिनिपीडतो कच्छेहि स्वेदा मुक्ता भूम्यां निपतिता ऊष्मायेन्सु वाष्पायेन्सु मुखतो ललाटातो स्वेदा मुक्ता भूम्यां निपतिता उष्मायेन्सु वाष्पायेन्सुः // सय्यथापि नाम भिक्षवो बलवां पुरुषो दुर्बलं पुरुषं ग्रीवायां गृहीत्वा अभिनिगृह्णे अभिनिपीडे एवम् एव भिक्षव इदम् एव कायं चेतसा एवं चेत अभिनिगृह्णतो अभिनिपीडयतो कच्छेहि स्वेदा भूम्यां निपतिता ऊष्मायेन्सुः मुखललाटातो स्वेदा मुक्ता भूम्यां निपतिता ऊष्मायेन्सुः वाष्पायेन्सुः //
___तस्य मे भिक्षव एतद् अभूषि // यं नूनाहं आस्फानकं ध्यायेयं // स खल्व् अहं भिक्षवो मुखतो नासिकाश्रोत्रेहि च आश्वासप्रश्वासा उपरुन्धि // तस्य मे भिक्षवः मुखतो च नासिकाश्रोत्रेहि च आश्वासप्रश्वासा उपरुध्वा उभयतो कर्णश्रोत्रविवरान्तरेहि उच्चशब्दो महाशब्दो वीतिसंचरेन्सुः / सय्यथापि कर्मारगर्गरी धम्यमाना उच्चशब्दमहाशब्दा भवति एवम् एव भिक्षवः मुखतो च नासिकाश्रोत्रेहि च आश्वासप्रश्वासेहि उपरुद्धेहि उभयतो कर्णश्रोत्रविवरान्तरेहि उच्चशब्दमहाशब्दा वीतिसंचरेन्सु // तस्य मे भिक्षवः एतद् अभूषि / यं नूनाहं भूयस्या मात्रया आस्फानकं ध्यायेयं // स खल्व् अहं भिक्षवः मुखतो च नासिकाश्रोत्रेहि च उभयतो च कर्णश्रोत्रविवरान्तरेहि
[_mvu_2.125_] आश्वासप्रश्वासानुपरुन्धे / तस्य मे भिक्षवः मुखतो च नासिकाश्रोत्रेहि च उभयतो च कर्णश्रोत्रविवरान्तरेहि आश्वासप्रश्वासा ओरुध्वा ऊर्ध्वं शीर्षकपालं वाता प्रहरेन्सुः समुत्तरेन्सुः / सय्यथापि नाम भिक्षवः गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन गोविकर्तनेन गावीये शीर्षकपालं दालेय संप्रदालेय च्छिन्देय परिकर्तये संपरिकर्तये एवम् एव मुखतो च नासिकाश्रोत्रेहि च उभयतो कर्णश्रोत्रविवरेहि आश्वासप्रश्वासा उपरुध्वा ऊर्ध्वं शीर्षकपालं वाता प्रहरेन्सु समूहेन्सुः // तस्य मे भिक्षवः एतद् अभूषि // सन्ति इहैव केचि शुद्धिं प्रज्ञपयन्ति ते कोलं पि आहारम् आहरन्ति कोलच्छल्लं पि आहारं आहरन्ति कोलोदकं पि पिबन्ति विविधाहि पि कोलविकृतीहि यापेन्ति / यं नूनाहं एकं कोलकम् अद्वितीयं आहारम् आहरेयं // स खल्व् अहं भिक्षवः एकं कोलम् अद्वितीयम् आहारं आहरे // तस्य मे अयं कायो अधिमात्रकृशताम् अनुप्राप्तो अभूषि अधिमात्रकृशताम् अनुप्राप्तो अभूषि // सय्यथापि नाम कालपर्वाणि वा एवम् एव मे अंगानि अभून्सुः सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवम् एव मे पर्शुका अभून्सुः / सय्यथापि नाम उभयतो पार्श्वे विवृतायां वाहनागारशालायां गोपानसीये अन्तराणि विवटानि वीतिलोकेन्सुः वीतिकासेन्सु एवम् एव पार्शुलिकानि पार्शुलिकान्तराणि विबद्धानि वीतिलोकेन्सुः वीतिकासेन्सुः / सय्यथापि नाम वट्टनवेणी उन्नतावनता एवम् एव पृष्ठकण्ठकानि
[_mvu_2.126_] अभूषि उन्नतावनतानि / सय्यथापि नाम ग्रीष्माणां पश्चिमे मासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाय प्रकाशेन्ति एवम् एव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाय प्रकाशेन्सुः / सय्यथापि नाम सारदिकन्तिक्तालाबु हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटजातं एवम् एव शीर्षकपालं अभूषि आमिलातं संमिलातं संपुटजातं // स खल्व् अहं भिक्षवः पुरिमं कायं परिगृह्णीष्यामीति पृष्ठिमकं अभिनिगृह्णे उच्छ्रेष्यन्ति तत्रैव अपकुब्जको प्रपतामि // स खल्व् अहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छ्रेत्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेहं // तस्य मे भिक्षवः पांशुकृतानि गात्राणि पाणिना प्रमार्जतो पूतिमूलानि रोमाणि काये शीर्येन्सुः // अपि हि जितं जनपदग्रामेहि स्त्रीयो पुरुषा चैवम् आहन्सुः // कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो // यापि चेषा शुभतनुवर्णनिभा सापि मे अन्तर्हिता एतिना एवं लूहप्रहाणेन //
___तस्य मे भिक्षवः एतद् अभूषि // सन्ति एके भवन्तो श्रमणब्राह्मणाः तण्डुलाहारताये शुद्धिं प्रज्ञपेन्ति ते तण्डुलं पि आहारं आहरन्ति तण्डुलचूर्णं पि तण्डुलोदकं पिबन्ति विविधाहि पि तण्डुलविकृतीहि यापेन्ति / यं नूनाहं एकं तण्डुलम् अद्वितीयम् आहारम् आहरेयं // स खल्व् अहं भिक्षवः एकं तण्डुलम् अद्वितीयं आहारं आहरन्तो अयं मे कायो अधिमात्रं कृशताम् अनुप्राप्तः अभूषि // सय्यथापि नाम कालपर्वाणि वा अशीतकपर्वाणि एवंरूपाणी मे अंगप्रत्यंगानि अभून्सुः / सय्यथापि
[_mvu_2.127_] नाम उभयतो पार्श्वे विवटायां वाहनागारशालायां गोपानसी-अन्तराणि विवटानि वीतिलोकेन्ति वीतिकाशेन्ति एवम् एव च पार्शुलिकानि पार्शुलिकान्तराणि विवटानि वीतिलोकेन्सुः वीतिकाशेन्सुः / सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवम् एव कक्षवक्षा अभून्सुः सर्वासाम् अनुत्तरं कार्कश्यं / सय्यथापि नाम वट्टनवेणी उन्नतावनता एवम् एव मे पृष्ठिकण्ठकास्थिकानि अभून्सुः / सय्यथापि नाम ग्रीष्माणां पश्चिमे मासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवम् एव अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः / सय्यथापि नाम तिक्तालाबु शारदिकं हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटकजातं एवम् एव शीर्षकपालं अभूषि आमिलातं संमिलातं संपुटकजातं // स खल्व् अहं भिक्षवः पुरिमं कायं निगृह्णीष्यामीति पृष्ठिकण्ठकम् एव परिगृह्णामि उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि // स खल्व् अहं भिक्षवः साधु च सष्टु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयं / तस्य मे भिक्षवः पांशुकृतानि गात्राणि परिमार्जतो पूतिमूलानि काये रोमाणि शीर्येन्सुः // अपि हि जितं सामन्तेहि गोचरग्रामेहि स्त्रियो च पुरुषा च एवम् आहन्सुः / कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो / यापि मे सा शुभवर्णनिभा सापि अन्तर्हिता एतिना एवं लूहप्रहाणेन //
___तस्य मे भिक्षव एतद् अभूषि // सन्ति हि इहैके भवन्तः श्रमणब्राह्मणा तिलाहारताये
[_mvu_2.128_] शुद्धिं प्रज्ञपयन्ति / ते तिलं पि आहारं आहरन्ति तिलचूर्णं पि तिलोदकं पि पिबन्ति विविधाहि पि तिलविकृतीहि यापेन्ति / यं नूनाहं एकं तिलम् अद्वितीयम् आहारम् आहरेयं // स खल्व् अहं भिक्षवः एकं तिलम् अद्वितीयम् आहारम् आहरेयं // तस्य मे भिक्षवः एकं तिलम् अद्वितीयम् आहारम् आहरतो अयं कायो अधिमात्रं कृशताप्राप्तो अभूषि / सय्यथापि नाम कालपर्वाणि अशीतकपर्वाणि एवंरूपाणि मे अङ्गप्रत्यंगानि अभून्सुः / सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवम् एव मे हनुका अभूषि / सय्यथापि नाम उभयतो पार्श्वे विवटाये वा वाहनागारशालाया गोपानसी-अन्तराणि विवटानि वीतिलोकेन्ति वीतिकाशेन्ति एवम् एव मे पार्शुलिकानि पार्शुलिकान्तराणि विवटानि वीतिलोकेन्सुः / सय्यथापि नाम वट्टनवेणी उन्नतावनता एवम् एव मे पृष्ठिकण्ठकानि अभून्सुः / सय्यथापि नाम ग्रीष्माणां पश्चिमे मासे उदुपाने उदकतारा दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवम् एव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः / सय्यथापि सारदिकं तिक्तालाबु हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटजातं एवम् एव मे शीर्षकपालं अभूषि आमिलातं संमिलातं संपुटजातं // स खल्व् अहं भिक्षवः पुरिमं कायं परिगृह्णीष्यामीति पृष्ठिकण्ठकम् एव परिगृह्णामि उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि // स खल्व् अहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयं / तस्य मे भिक्षवः पांशुकृतानि गात्राणि पाणिना परिमार्जतो पूतिमूलानि काये रोमाणि शीर्येन्सुः / अपि हि
[_mvu_2.129_] जितं सामन्तेहि गोचरग्रामेहि स्त्रियो च पुरुषा च एवम् आहन्सुः / कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो / यापि मे सा शुभवर्णनिभा सापि अन्तर्हिता एतिना एवंलूहप्रहाणेन //
___तस्य मे भिक्षवः एतद् अभूषि // सन्ति खलु इहैके भवन्तः श्रमणब्राह्मणाः सर्वशो अनाहारतायै शुद्धिं प्रज्ञपयन्ति / यं नूनाहं सर्वशो अनाहारयाये प्रतिपद्येयं // तस्य मे भिक्षवः सर्वशो अनाहारतायै प्रतिपन्नस्य अयं काय अधिमात्रं कृशताप्राप्तः अभूषि / सय्यथापि नाम कालपर्वाणि वा अशीतपर्वाणि वा एवरूपाणि मे अंगप्रत्यंगाणि अभून्सुः / सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवम् एव मे हनुका अभून्सुः / सय्यथापि नाम उभयतो पार्श्वे विवटाये वाहनागारशालाये गोपानसीये अन्तराणि विवटानि वीतिलोकेन्ति वीतिकासेन्ति एवम् एव मे पार्शुलिकानि पार्शुलिकान्तराणि विवटानि वीतिलोकेन्सुः वीतिकासेन्सुः / सय्यथापि नाम वट्टनवेणी उन्नतावनता एवम् एव मे पृष्ठकण्ठका अभून्सुः / सय्यथापि नाम ग्रीष्माणां पश्चिमे सासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवम् एव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः / सय्यथापि नाम शारदिकं तिक्तालाबु हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटजातं एवम् एव मे शीर्षकपालम् अभूषि आमिलातं संमिलातं संपुटकजातं // स खल्व् अहं भिक्षवः पुरिमं कायं परिगृह्णीष्यामीति पृष्ठिकण्ठकम् एव परिगृह्णामि
[_mvu_2.130_] उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि // स खल्व् अहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयं / तस्य मे भिक्षवः पांशुकृतानि गात्राणि परिमार्जतो पूतिमूलानि रोमाणि शीर्येन्सुः / अपि हि जितं सामन्तेहि गोचरग्रामेहि स्त्रीयो च पुरुषा च एवम् आहन्सुः / कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छविको दानि श्रमणो गौतमो / यापि मे सा शुभवर्णनिभा सापि मे अन्तर्हिता एतिना एवंलूहप्रहाणेन //
___तस्य मे भिक्षवः एतद् अभूषि // ये केचिद् भवन्तः श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति एत्तावत् पारमिते इमं पि न केनापि संभुणन्ति // अतीतं भिक्षवः अध्वानं एतरहिं पि भिक्षवः प्रत्युत्पन्ने ये केचिद् भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति एत्तावत् पारमिते इमं पि न केनापि संभुणन्ति // न खो पुनर् अहं अभिजानामि इमाये दुष्करचारिकाये कंचिद् उत्तरिमनुष्यधर्मं अलमार्यं ज्नानदर्शनं विशेषाधिगमं साक्षात्कर्तुं नायं मार्गं बोधाय // अभिजानामि खलु पुनर् अहं पूर्वे प्रव्रज्यायै अप्रव्रजितो पितुः शाक्यस्य उद्यानभूमीये शीतलायां जम्बुच्छायायां पर्यंकेन निषण्णो विविक्तं कामैः विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरामि // स्यात् खलु पुनः सो मार्गो बोधाय // तस्य मे भिक्षवो वसतो तदनुसारि विज्ञानम् उपासि / स एव मार्गो बोधाये / न खलु पुन सो मार्गो लभ्यो कृशेण वा दुर्बलेन वाक्रान्तकायेन वा सर्वशो वा अनाहारताये प्रतिपन्नेन / यं नूनाहं
[_mvu_2.131_] औदरिकम् आहारम् आहरेयं . . . . . . . . . . . . . मम पर्तिचारे (?) तेन लूहप्रहाणेन . . . . . . . . . . सचेतनो यापयिष्यसि / वयन्ते रोमकूपविवरान्तरेषु दिव्याम् ओजाम् अध्योहरिष्यामः // तस्य मे भिक्षव एतद् अभूषि // अहं खलु सर्वशो अनाहारं प्रतिजानामि सामन्तकेहि पि मे गोचरग्रामेहि स्त्रियो च पुरुषा च एवं संजानन्ति अनाहारो श्रमणो गौतमो इमा च देवता लूहाधिमुक्ता लूहाभिप्रसन्ना रोमकूपविवरेहि दिव्याम् ओजाम् अध्योकिरेन्सुः सो मम स्यात् संप्रजानमृषवादो // स खल्व् अहं भिक्षवः संप्रजानमृषावादभयभीतो संप्रजानमृषावादं परिवर्जये जुगुप्समानो अलं मेति तां देवतां प्रतिक्षिपित्वा अनुसुखम् औदरिकम् आहारम् आहरेयं // स खल्व् अहं भिक्षवो मुद्गयूषविकृतं भुंजेहं कुलच्छयूषं पि हरेणुकायूषं पि //
___स खल्व् अहं भिक्षवः अनुपूर्वेण कायबलस्थामं जानयित्वा सुजाताये ग्रामिकाये मधुपायसं गृहीत्वा नागनन्दीकालसमये येन नदी नैरंजना तेनुपसंक्रमित्वा नद्यां नैरंजनायां गात्राणि शीतलीकृत्वा येन स्वस्तिको यावसिकः तेनोपसंक्रमित्वा स्वस्तिकं यावसिकं तृणमुष्टिं याचित्वा येन बोधियष्टि तेनुपसंक्रमित्वा बोधियष्टिये पुरतो अन्यतराग्रतृणसंस्तरं प्रज्ञपयित्वा बोधियष्टिं त्रिष्कृत्यो प्रदक्षिणीकृत्वा निषीदि पर्यंकम् आभुंजित्वा ऋजु प्राचीनाभिमुखो पुरिमं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थापयित्वा स खल्व् अहं भिक्षवः विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् उपसंपद्य विहरामि // सवितर्कविचाराणां व्युपसमादध्यात्मसंप्रसादाच् चेतसो एकोतिभावा अवितर्कं अविचारं
[_mvu_2.132_] समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरामि // स प्रीतेर् विरागाद् उपेक्षकश् च विहरामि स्मृतश् च संप्रजानं सुखं च कायेन प्रतिसंवेदयामि यत्र आर्या आचिक्षन्ति उपेक्षकः स्मृतिमां सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरामि // स सुखस्य च प्रहाणां दुःखस्य च प्रहाणात् पूर्वे च सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरामि // स खल्व् अहं भिक्षवः तथा समाहितेन चित्तेन . . . . . . . अभिनिर्नामयामि / स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यामि च्यवन्तां उपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां // सत्वां प्रजानामि इमे भवन्तः सत्वाः कायदुश्चरितेन समन्वागता आर्याणाम् अपवादकाः मिथ्यादृष्टिकाः ते मिथ्यादृष्टिकर्मसमादानहेतोः तद्धेतोः तत्प्रत्ययात् कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपन्ना // इमे पुनर् भवन्तः सत्वा कायसुचरितेन समन्वागताः मनःसुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टिका ते सम्यग्दृष्टिकर्मसमादानहेतोः तद्धेतोः तत्प्रत्ययात् कायस्य भेदात् परं मरणात् सुगतिं स्वर्गं कायं देवेषूपपन्नाः // स खल्व् अहं भिक्षवः तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्र्या यामे पूर्वनिवासानुस्मृतिज्ञानिदर्शनप्रतिलाभाये चित्तम् अभिनिर्हरामि अभिनिर्नामयामि अनेकविधं पूर्वनिवासं समनुस्मरामि / सय्यथीदं एकां पि जातिं दुवे पि जाती त्रयो पि जाती चत्वारो पि जातीं पंचापि जातीं दशापि जातीं विंशति जाती त्रिंशति जाती
[_mvu_2.133_] चत्वारिंशद् वा जातीः पंचाशं वा जातीः जातीशतं वा जातीसहस्रं वा अनेका पि संवर्तकल्पा वा अनेका पि संवर्ता अनेका पि विवर्ता अनेका पि संवर्तविवर्तकल्पा अमुत्राहम् आसी एवंनामा एवंगोत्रो एवंजात्यो एवमाहारो एवमायुःपर्यन्तो एवंसुखदुःखप्रतिसंवेदी / सो ततो च्युतो अमुत्र उपपद्ये ततो च्युतः इच्छत्वम् आगच्छसि इति साकारं सोद्देशं अनेकविधं पूर्वेनिवासम् अनुस्मरामि // स खल्व् अहं भिक्षवः तथ समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्र्याः पश्चिमे यामे अरुणोद्घाटकालसमये नन्दीमुखायां रजन्यां यत् किंचित् पुरुषनागेन पुरुषसिंहेन पुरुषर्षभेण पुरुषधौरेण पुरुषजानेयेन पुरुषपदुमेन पुरुषपुण्डरीकेन सत्पुरुषेण महापुरुषेण अनुत्तरेण पुरुषदम्यसारथिना गतिमेन स्मृतिमेन मतिमेन धृतिमेन द्युतिमेन सर्वसो सर्वत्रताये ज्ञातव्यं प्राप्तव्यं अभिसंबोद्धव्यं सर्वं तं एकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो // इदम् अवोचद् भगवान् आत्तमना ते भिक्षवो भगवतो भाषितम् अभ्यनन्देन्सुः //
__अथ शुद्धोदनः स्वप्नं पश्यति //
पश्यामि पुत्र सुपिने तरनावगाढं अभ्युत्थितं गजवरं मणिजालच्छन्नं //
मध्ये पुरस्य अध्वनावस्थितो च रात्रौ निर्धावते पुरवरा अभिकम्पमानः //
तं दृष्ट्वा मह्य सुपिने विपुलं च हास्यं अभ्युत्थितं रुदितम् एव च अप्रमेयं //
कम्पे च मे संपरितप्तं शरीरम् अन्त- [_mvu_2.134_] र्दाहं समुद्धनति किं तु भविष्यते द्य //
अथ लोकपाल अवचू मनुजप्रधानं मा भाय भूमिपति संजनयाहि हर्षं //
हन्त शृणोहि फलं यं सुपिनस्य तत्वं समुत्थितं बहुजनस्य विबोधनार्थं //
एषो महागुणधरो विजहित्व राज्यं दुतियास् तथैव चतुरा स्वजनं च स्फीतं //
निःसंशयं वरबलं अनपेक्षमाणो निर्यास्यते पुरवरा विदितं स भोतु //
एतस्मिं निर्गते अनेकविधं ति दुःखं जायिष्यते सुपिनि यं हसितं ति तत्वं //
यं रोदसि सुपिनि दानि सुखं अनन्तं श्रुत्वा भविष्यति जितं जितशत्रुसंघं //
मातुःस्वसापि सुपिनं पश्यति //
मातुःस्वसा अवच कांचनराशिवर्ण पश्यामि पुत्र सुपिने ऋषभं सुजातं //
श्वेतं सुचारुककुभं अतिरिक्तशृंगं शृण्गारसंस्थितगतिं प्रतिपूर्णदेहं //
सो गर्जति सुमधुरं कपिलाह्वयातो निर्धावते हृदयदृष्टिपथं हरन्तः //
न च कश्चि तं प्रसहते अभिगर्जमानं प्रतिगर्जितुं कुमुदराशिनिभं सुजातं //
[_mvu_2.135_] ते देवराज अवचू करुणं रुदन्तं मा रोद शाक्यकुलनन्दनजातराग //
वक्ष्यामि ते अवितथावचनं विजालं आनन्दजानि उपजानय त्वं सुखानि //
अत्यन्तशुद्धचरणं कुशलोपपेतं एषो नरर्षभ गतीमतिनां विधिज्ञः //
हित्वा जनं पुरुषसिंहवरो पुरो च निर्गम्य ते अभिलषे पुरुषर्षभत्वं //
सो पि अमृतं अचलम् अच्युतम् अप्रकम्प्यं निर्वाणम् अप्रतिसमं प्रतिशुद्धचक्षुः //
निर्दिश्य तं पुरुषसिंहरुतं महर्षिः यं श्रुत्व तीर्थिकगणा दिशतां व्रजन्ति //
यशोधरापि सुपिनं पश्यति //
अथ राहुलस्य इदम् अब्रवीत् पि मैत्रोत्तरेण मदनेन निबद्धचित्ता //
देव शृणोहि यथ अद्य मयापि दृष्टं सुपिनं मनोरमं फलं च मे तद् भवेयात्* //
शुद्धोदनस्य किल राजकुलं नरेन्द्र मेघो समन्तं क्षणेन समाददन्तो //
लोकत्रयं प्रबलतोयधरो सुघोषो विद्युत्प्रदीप विप्रद्योतयन्तो बहूनि //
[_mvu_2.136_] सो शीतलं विमलम् अप्रतिमं प्रसन्नं वारि प्रवृष्य मधुरं अभिगर्जमानो //
वर्षेति सागरधरो शयने निदाघं एषो पि अन्तःसुखितो स सहांपतीको //
ब्रह्मा अथ उपगमित्व इदं अवोच तां राहुलस्य जननीं शृणु मा विषीद //
इष्टं फलं तव अयं सुपिनो महार्थो संपूर्यते चपलम् एव जनेहि प्रीतिं //
शुद्धोदनस्य अयम् आत्मजो चारुनेत्रो लोकत्रयं जलधरो इव वर्षमाणो //
प्रल्हादयिष्यति महापरितापतप्तान्* धर्मं ध्रुवं करुणम् अप्रतिमं जनेत्वा //
बोधिसत्वो पि पंच महासुपिनां पश्यति / परमसंबोधिप्राप्तो श्रावस्थां भिक्षूणां व्याकरोति // तथागतो भिक्षवो पूर्वे संबोधिम् अनभिसंबुद्धो पंच महासुपिनानि अद्राक्षीत्* // तथागतस्य कतमानि पंच //
___तथागतस्य भिक्षवः पूर्वे सम्बोधिम् अनभिसंबुद्धस्य इयं महापृथिवी उच्चशयनमहाशयनम् अभूषि / सुमेरु पर्वतराजा बिम्बोपधानम् अभूषि / पुरस्तिमे महासमुद्रे वामा बाहा ओहिता अभूषि पश्चिमे च महासमुद्रे दक्षिणा बाहा ओहिता अभूषि / दक्षिणे पि महासमुद्रे उभौ पादतलानि ओहितानि अभून्सुः / तथागतो भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धो इमं प्रथमं महासुपिनम् अद्राक्षीत्* //
[_mvu_2.137_] तथागतस्य भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धस्य क्षीरिका नाम तृणजाति नाभिमण्डलाद् अभ्युग्दम्य यावन् नभम् आसद्य अस्थासि // तथागतो भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धो इमं द्वितीयं महासुपिनम् अद्राक्षीत्* //
___तथागतस्य भिक्षवो पूर्वे संबोधिम् अनभिसंबुद्धस्य लोहितका प्राणका कालशीर्षका पादतलेहि यावज् जानुमण्डलानि च्छादयित्वा अस्थान्सुः / तथागतो भिक्षवः पूर्वे सम्बोधिम् अनभिसंबुद्धो इमं तृतीयं महास्वप्नम् अद्राक्षीत्* //
___तथागतस्य भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धस्य चत्वारि नानावर्णां अनेकवर्णा च चतुर्हि दिशाहि वैहायसं गत्वा तथागतस्य पादतलानि उपजिघ्रित्वा सर्वश्वेता अपविध्यिन्सुः / तथागतो भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धो इमं चतुर्थं महासुपिनम् अद्रक्षीत्* //
___तथागतो भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धो महतो मीढपर्वतस्य उपरिम् अनुपलिप्यमानो चंक्रमं चंक्रमे / तथागतो भिक्षवः पूर्वे संबिधिम् अनभिसंबुद्धो इमं पंचमं महासुपिनम् अद्राक्षीत्* //
___तथागतस्य भिक्षवो पूर्वे संबोधिम् अनभिसंबुद्धस्य इयं महापृथिवी उच्चशयनमहाशयनम् अभूषि / सुमेरु पर्वतराजा बिम्बोपधानम् अभूषि / पुरस्तिमे महासमुद्रे वामा बाहा ओहिता अभूषि पश्चिमे महासमुद्रे दक्षिणा बाहा ओहिता अभूषि दक्षिणे महासमुद्रे उभौ पादतलानि ओहितानि अभूषि / यं पि भिक्षवः तथागतो अनुत्तरां सम्यक्संबोधिम् अनभिसंबुद्धो अयं तस्य महास्वप्नस्य विपाको // यं भिक्षवः तथागतस्य पूर्वे संबोधिम नभिसंबुद्धस्य क्षीरिका नाम तृणजाति नाभिमण्डलाद् अभ्युद्गम्य यावन् नभम् आसद्य अस्थासि / यं भिक्षवः तथागतेन इमं च लोकम् अभिज्ञाय
[_mvu_2.138_] परं च लोकम् अभिज्ञाय सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यां वाराणस्यां ऋषिपतने मृगदावे अनुत्तरं धर्मचक्रं प्रवर्तितं त्रिष्परिवर्तं द्वादशारम् अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद् वा पुनः लोके सह धर्मेण यम् इदं चत्वार्य् आर्यसत्यानि / सय्यथीदं दूखं आर्यसत्यं दुःखसमुदयम् आर्यसत्यं दुःखनिरोध आर्यसत्यं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यं / इमां च पुनर् भिक्षवः तथागतस्य एवंरूपां धर्मदेशनां श्रुत्वा भूम्या देवा घोषम् उदीरयेन्सुः एष मारिष भगवता वाराणस्यां ऋषिपतने मृगदावे अनुत्तरं धर्मचक्रं प्रवर्तितं त्रिष्परिवर्ति द्वादशारं अप्रवर्तितं केनचि श्रमणेन वा ब्राह्मणेन वा देवेन वा ब्रह्मेण वा मारेण वा केनचिद् वा पुनर् लोके सह धर्मेण इदं दुःखम् इति अयं दुःखसमुदयो अयं दुःखनिरोधो अयं दुःखनिरोधगामिनी प्रतिपद् इति तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च / भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा चातुर्महाराजिका त्रायस्त्रिंशा यामा तुषिता निर्माणरतिपरनिर्मितवशवर्तिन इतो तत्क्षणं तत्मुहूर्तं यावब्रह्मलोकं घोषम् अभ्युद्गम्य एष मारिष भगवता वाराणस्यां ऋषिपतने मृगदावे त्रिपरिवर्तं द्वादशारं अनुत्तरं धर्मचक्रं प्रवर्तितं अप्रवर्तितं केनचित्* श्रमणेन वा ब्राह्मणेण वा देवेन वा मारेण वा केनचिद् वा पुनर् लोके सह धर्मेण इदं दुःखं इति अयं दुःखसमुदयो अयं दुःखनिरोधः अयं दुःखनिरोधगामिनी प्रतिपद् इति / अयं तस्य महासुपिनस्य विपाको // यं भिक्षवः तथागतस्य पूर्वे संबोधिम् अनभिसंबुद्धस्य लोहितकप्राणका कालशीर्षा पादतलेहि यावज् जानुमण्डलानि च्छादयित्वा
[_mvu_2.139_] अस्थान्सुः बहु एतर्हि भिक्षवः जनता या तथागते अधिकारकर्माणि कृत्वा कायस्य भेदात् परं मरणात् सुगती स्वर्गकाये देवेषूपपद्यन्ति / अयं तस्य स्वप्नस्य विपाको // यं भिक्षवः तथागतस्य पूर्वे संबोधिम् अनभिसंबुद्धस्य चत्वारि शकुन्ता नानावर्णा चतुर्हि दिशाहि वैहायसं समागत्वा तथागतस्य पादतलानि उपजिघ्रित्वा सर्वश्वेताः अपविझिन्सुश् चत्वारिमे भिक्षवः वर्णाः कतमे चत्वारः क्षत्रिया ब्राह्मणा वैश्या शूद्राः ते तथागते ब्रह्मचर्यं चरित्वा अकोप्या चेतोविमुक्तं प्रज्ञाविमुक्तिं साक्षात्कुर्वन्ति / अयं तस्य महास्वप्नस्य विपाको // यं भिक्षवः तथागतो पूर्वे संबोधिम् अनभिसंबुद्धो महतो मीढपर्वतस्य उपरिम् उपलिप्यमानो चंक्रमं चंक्रमे पुरस्तिमायां पि च भिक्षवः दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचायितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितो अनुपलिप्तचित्तो / दक्षिणायां पि च भिक्षवो दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचायितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तः / पश्चिमायां पि च भिक्षवो दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तः / उत्तरस्यां पि भिक्षवः दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तो / अयं तस्य महास्वप्नस्य विपाको यं तथागतो भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धो इमां पंच महास्वप्नां अद्राक्षीत्* // इदम् अवोचद् भगवा नात्तमनास् ते च भगवतो भाषितम् अभ्यनन्दे //
[_mvu_2.140_]_____इति श्रीमहावस्तु-अवदाने शुद्धोदनस्य पंच महास्वप्ना समाप्ता //
बोधिसत्वस्य दानि एतद् अभूषि / दुष्करम् इदं अगारमध्ये वसन्तेन एकान्तसंलिखितं एकान्तमनवद्यं एकान्तपरिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं / यं नूनाहं अगारस्यानगारियं प्रव्रजेयं // बोधिसत्वो राजानम् आमन्त्रयति प्रव्रजिष्यामि // राजा आह //
मा दानि मा कमललोचन चारुरूप शोकं लभे सुविपुलं त्वय विप्रहीणो //
माता चहं असुलभं मरणं निगच्छेत्* ततः कीदृक्षं सुखम् एतं तथा विशिष्टं //
यस्य कृतेन मम च स्वजनं स्वराष्ट्रं स्रजिष्यसि बहुदुःखो हि स विप्रयोगो //
पर्याकुला मि दिशता प्रतिभान्ति सर्वे शितोष्णदंशमशकाक्षतभूमिभागा //
त्रसो वनेषु मृगवारणघातिकेषु भेरण्डभैरवरुतेषु महद्भयेषु //
नित्यान्तरेण मनसा कृतमोक्षबुद्धिः मार्गं व ताव मम पुत्र चर प्रसीद जीवामि यावद् अहं याव च सा इहैव //
किंकारणं तव विनिर्गमनं निशाम्य तत्वं विनाशम् उपयास्यति मे शरीरं //
[_mvu_2.141_] राज्ञा दानि पंचानां राजान शतानां प्रेषितं / आगच्छथ कुमारो अभिनिष्क्रमितुकामो // ते दानि आगता कुमारं बहुप्रकारं याचन्ति / मा अभिनिष्क्रमाहि त्ति // बोधिसत्वो दानि राजानं च ते च राजानो एतद् अवोचत्* // सचेत्* मम महाराजा चतुर्हि पदेहि प्रतिभुको भवति प्रतिजानामि ते राज न निष्क्रमिष्यं पुरवरातो // राजा आह // भवामि ते प्रतिभुको पदेषु चतुरुषु शीघ्रं पुत्र उदीरेहि पुरा प्राणा जहन्ति // कुमारो आह //
यौवने वर्तमानस्मिं जरा मे मा खु आगमे //
आरोग्ये वर्तमानस्मिं व्याधि मे मा खु आगमे //
जीविते वर्तमानस्मिं मरणं मा खु आगमे //
संपत्तीषु रमियासु विपत्ति मा खु आगमे //
तदा हिक्कारहक्कारा देवसंघा प्रमुंचिषु //
साधु साधु महासत्व साधु अप्रतिपुद्गल //
सुभाषितान् ते एतस्मिं सब्रह्मा परिषा इयं //
हृष्टा आत्तमना सर्वे प्रीतिसुखसमर्पिता //
ततो शुद्धोदनो राजा दुःखशल्यसमर्पितः //
अश्रुपूर्णेहि नेत्रेहि बोधिसत्वम् इदम् अब्रवीत्* //
स्वयं हि पुत्र जानाहि कस्य एतं न विद्यति //
जरा व्याधि मरणं च विपत्तीर् वा न मे गतिः //
कुमारो आह //
हन्त त्रिषु महाराज पदेषु प्रतिभूर् भव //
ततो मया विनाभावो न ते जातु भविष्यति //
[_mvu_2.142_] राजा आह //
ददाम् एषु पुत्र पदेषु प्रतिभुताम् अहं तव //
ततो निवर्तये चित्तं मूले उदाहरतो भव //
कुमारो आह //
दिव्या मे भोन्तु कामगुणा ते च भोन्तु सर्वदा सुखा //
ते च नित्या भोन्तु अत्र मे प्रतिभूर् भव //
अप्सरा मधुरं गगने परिगायेन्सुः वरबुद्धिवरं प्रवरं //
मधुरं सलिलं सुखिनं सहितं वरनूपुरमण्डन-आभरणा //
न खु रज्यति सत्पुरुषस्य मनो मदनेषु यादृशम् उदाहरति //
विजहिष्यति काञ्चनबिम्बनिभां वसुधाम् अनेकलब्धार्थचितां //
एवं च दुःखितो राजा कुमारम् एतद् अब्रवीत्* //
प्रसीद पुत्र कस्य सुखा कामगुणा तथा शुभाः //
कुमारो आह //
हन्त अन्यानि वक्ष्यासि द्वे पदानि महीपते //
यद् इच्छसि एवं समानं तेषु मे प्रतिभूर् भव //
राजा आह //
दृढम् अभ्युपगच्छामि प्रतिभूष्यं अहं तव //
द्वेहि पदेहि आख्याहि मा च विप्रजहाहि मे //
अहंकारं ममकारं मा संजाये कदाचि नो //
महन्तो ल्पो वा महीपाल अत्र मे प्रतिभूर् भव //
[_mvu_2.143_] ततो महेश्वरा वाचा व्याहरेन्सु नभे स्थिताः //
त्वं खु भेष्यसि संबुद्धो सर्वबन्धनसूदनो //
किंकारणं न तेषां हि वचनानां सदेवके //
लोके अस्ति उदाहर्ता यानि भाषसि चक्षुमां //
ततो शुद्धोदनो राजा दुःखशल्यसमर्पितः //
अश्रुपूर्णेहि नेत्रेहि बोधिसत्वम् इदम् अब्रवीत्* //
नामाप्य् अहं न जानामि एतेषां पुरुषोत्तम //
पदानि यानि कीर्तेसि नात्र प्रतिभुको अहं //
कुमारो आह //
अलं चिरेण एकस्मिं पदे प्रतिभुको भव //
ततो इहैव निवसिष्यं रम्ये कपिलसाह्वये //
भवे दानि अहं पुत्र एकस्मिं पदे तव भवे //
प्रतिभुको शीघ्रं ब्रूहि उपगतं मया सह //
कुमारो आह //
इहैव वसतो मह्यं प्रासादवरलोकके //
सर्वनीवारणापगतं चित्तं मे वर्ततां वशात्* //
ततो देवा च यक्षा च गन्धर्वा च सदानवा //
नागराक्षससंघाश् च अहो धर्म उदीरयन्* //
अहो परमवादिस्य परमार्थाभिकांक्षिणो //
व्यक्तं परमवाक्यानि प्रभवन्ति मुहुर्मुहुः //
ततो दीनमनो राजा कुमारम् एतद् अब्रवीत्* //
नात्रावासो मह्यं पुत्र अश्रुवेगं प्रमुञ्चति //
ततो देवमनुष्याणां प्रामोद्यजननीं गिरां //
[_mvu_2.144_] बोधिसत्वो उदीरेन्तो पितरं समध्यभाषति //
अहम् अजरम् आरोग्यम् अमृतं पार्थिवोत्तम //
विपत्तिभयनिर्मुक्तं अभिगंस्ये असंस्कृतं //
राज यन् नित्यं यत् सुखं यच् छुभं तत्* मया स्वयं //
प्राप्तव्यम् इति न सन्देहः परित्यज्य धृतिं लभ //
अथ खलु राजा शुद्धोदनो यं कुमारो जम्बुच्छायायां ध्यायति तं दृष्ट्वा चिन्तासागरं प्रविष्टो // यदि कुमारस्य शान्तेहि ध्यानेहि चित्तम् अभिरमति मा हैव तावद् असितस्य ऋषिस्य सत्यं व्याकरणं भविष्यति // यन् नूनाहं कुमारस्य विस्तीर्णम् अन्तःपुरम् उपस्थापयेयं विविधानि उद्यानानि कुर्यात्* यत्र कुमारो क्रीडेय्या रमेय्या प्रविचारेय्या न च अभिनिष्क्रमणे चित्तं करेय्या //
___अथ खलु शुद्धोदनेन कुमारस्य विस्तीर्णो अन्तःपुरो उपस्थापितो बहूनि स्त्रीसहस्राणि विविधानि च नानाप्रकाराणि अशोकमण्डपकानि कारापितानि अवसक्तपट्टदामकलापानि मुक्तपुष्पावकीर्णानि यत्र कुमारो क्रीडिष्यति प्रविचारयिष्यति न च नं अभिनिष्क्रमणे चित्तं करिष्यति // राजा दानि शुद्धोदनो अन्तःपुरे सन्दिशति // सुष्टु कुमारम् अभिरमापेथ नाट्यगीतवाद्येन यथा कुमारो अभिनिष्क्रमणे चित्तं न करेय्या // कुमारो पि दानि कामेषु आदीनवदर्शी अनर्थको सर्वकामभोगेहि / एदृशेषु च उद्यानेषु देवभवनसदृशेषु अन्तःपुरेषु अप्सरसदृशेषु रतिं न विन्दति / अभिनिष्क्रमणे चित्तं अभिरमति न च बोधिसत्वो केनचिच् चोदयितव्यो दुःखो यं संसार इति / सर्वधर्मेषु वशवर्ती स्वयम् एव सामतो विरक्तो भवति उद्विग्नमानसो स्वयं चित्तम् उद्वेजयति / अहो संसारो प्रकृतिदुःखम् अपरिमितम् उपद्रवशतानि दर्शयति //
[_mvu_2.145_]___अथ खलु कुमारो उपरिप्रासादसिखरगतो उपविष्टो तम् एव ध्यानं मनसा करोन्तो आसति यं से जम्बुच्छायायं लब्धं / न गीतशब्दा न नृत्यरवशब्दा न प्रमदागणां रूपवन्तां स्वादीयति / तम् एव चिन्तयन्तो आसति // अथ खलु राजा शुद्धोदनो अन्यतरं पुरुषं पृच्छति / किम् इदं भो पुरुष कुमारस्य अन्तर्पुरे न गीतरवशब्दो नृत्यभेरीमृदंगवीणावंशपणवरवशब्दः श्रूयते कुमारस्य किं चित्तस्य दौर्मनस्यं // अथ खलु या लुम्बिनीवने देवता निवासिका सान्तरीक्षे स्थित्वा राजानं शुद्धोदनम् अब्रवीत्* // महाराज कुमारं वितर्कयाहि / विरक्तो तव पुत्रो सर्वकामगुणरतीहि नचिरेण छिन्दिष्यति सर्वतृष्णाबन्धनां निरवशेषां यास्यति तपोवनं सुपरीत्तं भावयिष्यति / इदानिं खलु नृपति सिद्धार्थो राजवंशो प्रासादवरगतो प्रमदागणपरिवृतो अनित्यं दुःखं नैरात्म्यं परिभाषति शरीरे // अथ खलु राजा शुद्धोदनो तं देवतासकाशातो श्रुत्वा परिदीनमुखवर्णो शोकार्दितो कुमारस्य सकाशम् उपसंक्रान्तः इदम् अब्रवीत्* // किम् इदं पुत्र परिदीनवदनो शोकार्दितो उपविष्टो सि मा किंचित् शरीरस्य प्रतिपीडां पश्यसि मा धनक्षयं उपलक्षसि मा परचक्रभयं उपस्थितं आख्याहि मे पुत्र शीघ्रं किमर्थं //
___कुमारो आह // अस्ति तात शरीरे प्रतिपीडां पश्यामि व्याधिर् आरोग्यम् आक्रमति मरणं जीवितम् आक्रमति तं तात जीर्णं मृतान्तरं प्रत्यवेक्षामि // क्षीयन्ति सर्वसंस्कारा गिरिनदीजलचंचला परमायासधर्मा ऋतुसंवत्सरं आयुः क्षीयति मरणासन्नं भवति इमां तात शरीरे प्रतिपीडां पश्यामि // अस्ति तात धनक्षयं पश्यामि सर्वधर्मं रिक्तकं तुच्छकं असारकं मायोपमं वंचनीयं विसंवादकं नास्ति धनस्य स्थिति तं
[_mvu_2.146_] संबाध्यति वा संक्रामति वा परस्परं / इमन् तात धनक्षयं पश्यामि // अस्ति परचक्रभयं दृश्यति धर्मसंस्कारदोषभयं हस्तच्छेदा कर्णच्छेदा शीर्षच्छेदा विविधा नानाप्रकारा अनेकपर्यायेण अस्मिं काये दुःखानि संक्रमन्ति / इमं तात परचक्रभयं पश्यामि // राजा शुद्धोदनो आह // अलं पुत्र मा मैतं चिन्तयाहि / सम्प्रति तरुणो प्रथमयौवनगतो सि राजकृत्यम् अनुभवाहि विस्तीर्णस् ते अन्तःपुरो यौवनसम्पन्नो ताहि सार्धं क्रीडाहि रमाहि प्रविचारेहि मा प्रव्रज्याये चित्तं करोहि // कुमारो आह // यदि मे तात अष्ट वरां अनुप्रयच्छसि ततो अहं न भूयो एतम् अर्थं चिन्तयिष्ये // राजा आह // आख्याहि मे पुत्र शीघ्रं कीदृशामे अष्ट वराणि यानीच्छसि यदि शक्तिर् वा बलं वा अस्ति ततो ते प्रदास्यामि / किं पुत्र मम राज्यं परिहायिष्यति यद् अहं तव पुत्र वरं न प्रदास्यामि //
___कुमार आह // इमानि मे तात अष्ट वराणि अनुप्रयच्छाहि // यदि मे यौवनं जरा नाक्रमेया / यदि आरोग्यं व्याधिर् नाक्रमेया / यदि मे जीवितं मरणं न हरेया / यदि मे त्वया सार्धं विप्रयोगो न भवे / एदृशम् अन्तःपुरम् अप्सरसादृशं विस्तीर्णो च ज्ञातिवर्गो न विप्रवेशेया राज्यातो च ऐश्वर्यातो च न विपरिणामान्यार्तीभावो भवेया / ये पि सत्वा मम जातमात्रेण अमृतसुखेन अभिनिमन्त्रिता तेषां पि सर्वेषां क्लेशप्रशमो भवेया / ममापि जातिजरामरणस्य अन्तो बह्वेया // राजा शुद्धोदनो आह // पुत्र कुतो मम एदृशं व शक्तिर् वा बलं वा अस्ति यद् अहं इमां एदृशां अष्ट वरा प्रयच्छेयं / ये पि ते पुत्र पूर्वा राजानो दीर्घायुष्का यथा महासम्मतो राजा महातेजो दृढधनुः शतधनु निशान्तायु युगन्धरप्रभृतयः
[_mvu_2.147_] कुलराजवंशा ते पि च पुत्र सर्वे अनित्यताबलेन पर्यन्तोपनीता नाममात्रा च शेषाः स्थापिताः / कुतो पुत्र मे बलं शक्तिर् वा अस्ति तव इमे ईदृशान् अष्ट वरान् अनुप्रयच्छितुं // कुमारो आह // यदि तात न उत्सहसि त्वं मम इमान् अष्ट वरान् अनुप्रयच्छितुं अहं च ते निमन्त्रेमि जरामरणस्य अन्तो भवेया // राजा आह // जीर्णो वृद्धो गतयौवनश् च ततो मम मृतस्य पश्चात् प्रव्रज्याहि // कुमार आह // उदग्रं अनुभवाहि तात जीवन्तो पुनर् द्रक्ष्यसि मम इह सर्वगतिविमुक्तं सर्वतृष्णाछिन्नं सर्वदुःखविगतं सर्वज्वलाक्लेशापरीतस्य सर्वबोध्यङ्गरत्ना भावयन्तस्य //
___अथ नृपति तस्य प्रमदागणान् उपदर्शयति / इमन् ते पुत्र उदारं वरविमलकमलनयनमणिरुचिरपीनपयोधरा शुक्रनिर्भासगात्रा विचित्राभरणा कठिनशुभवासितकरशणा सुकुमारप्रवरभ्रमरांजनकेशा रक्तांशुकप्रावरणवलयमणिमुक्तिकहारावनद्धा तुलाकोटिवलयनूपुरपंचाङ्गिकतूर्यनिनादां कुर्वन्ति / एताहि पुत्र अभिरमाहि मा प्रव्रज्याम् अभिकांक्षाहि // कुमार आह // पश्य तात स्त्रीसंज्ञो भवेय यो अत्र रज्येया कल्पेया प्रमद्येया // राजा आह // तव कीदृशी संज्ञा भवति // कुमारो आह // ममात्र विपरीतसंज्ञा भवति // राजा आह // कीदृशी ते पुत्र विपरीतसंज्ञा भवति // कुमारो आह // एदृशी मे तात विपरीतसंज्ञा भवति / यथायं कायो यत्र युक्तो आगच्छति गच्छति यत्र स्थाति निषीदति यत्र भावयति तूष्णीं भवति यत्र बाहिरं शून्यं निरीहकं बलं दुर्बलं माया च विसंवादकं सर्वम् एव धर्मकायं प्रवदन्ति // राजा शुद्धोदनो आह // यदि पुत्र रूपेण न रज्यसि किम् इदं निष्पुरुषेण रज्यसि कं त्वं दर्शनम् उपलक्षयसि // कुमारो आह // यद् इदं
[_mvu_2.148_] तात संशारनाटकम् उपलक्षयामि यन्त्रविज्ञाननटवेदनविकारां जनयति / त्रैधातुकं रंगं स्थानं सत्वानां कृतविकृतिषङ्गतिषु रंगं प्रविशति तृष्णास्नेहवरं च क्लेशशतानां गाभीरता / एवं पुरिमा कोटि न प्रज्ञायति परस्परं नाटकं सत्वानां वंचनग्रहणविपाटकं // नास्ति सो सत्वो वा सत्वकायो वा यो संस्कारेषु न खलीकृतो न वंचितो अथापरं गुरुजनेषु / ततो उदग्रम् अनुभवाहि तात संसारनाटकं विनिवर्तयित्वा समथनिर्वाणपुरम् अनुप्रवेक्ष्यामि यत्र जरामरणं नाक्रामन्ति पूर्वम् एव पदं परिमार्गयिष्ये यन्तं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि परिमार्गितं //
___राजा आह // इमं ते पुत्र विमानं देवभवनसदृशं समृद्धं तव चान्तरपुरं त्वं पि पुत्र अभिरूपवां वरलक्षणपुण्यसहस्रचितो किम् इदं पुत्र रतिं न विन्दसि अपि तु निष्क्रमणम् एव अभिकांक्षसि विहाय नगरपुरं // कुमारो आह //
गतिषु सन्त्रस्तमानसो शृणोहि मम तात मे येन न अस्ति रति //
जराव्याधि रिपुर् मरणं तृतीयं अभिमर्दति तेन मे नास्ति रतिः //
यदि नित्यसुखं आतुमनो भवे यदि वात्मनो दुःखबलं न भवे //
यदि संस्कृतप्रत्ययम् इदं न भवे अथ किस्य ममातु रतिर् न भवे //
उपलभ्यति कायो करण्डसमो उपलभ्यति काये च सर्पसमा //
[_mvu_2.149_] उपलभ्यति स्कन्ध अमित्रसमा अथ किस्य ममातु रतिर् व भवे //
यदि कायो करण्डसमो न भवेत्* यदि वा तत्र सर्पसमा न भवे //
यदि स्कन्ध अमित्रसमा न भवे अथ किस्य ममातु रतिर् न भवेत् //
यदि . . . . . . . . . . . . . . . दुःखक्रिया न भवेत्* //
यदि जातिजरामरणं न भवेत्* अथ किस्य संसाररतिर् न भवेत्* //
यदि शून्यग्रामनिलयो न भवे यदि तं विरागवधको न भवेत्* //
संस्कारधातु समयो न भवेत्* अथ किस्य ममातु रतिर् न भवेत्* //
यदि शिष्यप्रतोदम् इदं न भवेत्* यदि राजकुलस्य भयं न भवेत्* //
यदि सर्वभयं त्रिभवे न भवेत्* अभिनिष्क्रमणे ममतो न रतिः //
अथ राजा शुद्धोदनो यदा सर्वोपायेन न शक्नोति कुमारस्य चित्तं विनिवर्तयितुं तदा राज्ञो एवं भवति // यदि न केनचिद् उपायेन शक्नोमि कुमारस्य चित्तं विनिवर्तयितुं यं नूनाहं यत्तिका कपिलवस्तुनगरे कन्या तां सर्वां कुमारस्य उपदर्शयामि न क्वचिज् जनतायाः कन्यायाः कुमारस्य चित्तं अभिरमेत्* //
[_mvu_2.150_]___बोधिसत्वो पितरम् अभिमन्त्रयति उद्यानभूमिं निर्यास्यामीति // राज्ञा शुद्धोदनेन अमात्या आणत्ता // यावद् राजकुलं यावच् च उद्यानभूमिं अत्रान्तरे प्रतिजाग्रथ सिक्तसंसृष्टं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्ण्णं देशेदेशेषु धूपयन्त्राणि माल्ययन्त्राणि नटनर्तक-ऋल्लमल्लपाणिस्वर्याकुम्भतूणी मानापिकानि रूपशब्दगन्धानि उपस्थापेथ अमानापिकानि उद्वर्तापेथ / यथा कुमारो उद्यानभूमीम् अभिनिष्क्रान्तो न किंचिद् अमनापं पश्येय // एवं राज्ञो वचनमात्रेण अमात्येहि यावच् च राजकुलं यावच् च तां कुमारस्य उद्यानभूमिं यथाणत्तं मार्गं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिता यथा कुमारस्य पुरतो न किंचिज् जीर्णो वृद्धो व्याधितो वा काणो वा खाडो वा दर्दुरो वा कण्डूलो वा कच्छुलो वा विचर्चिको वा अन्यो वा किंचिद् अमनापं कुमारस्य उद्यानम् अभिनिष्क्रमन्तस्य पुरतो तिष्ठेया // एवं कुमारो महार्हेण सप्तरत्नचित्रेण यानेन महता राजानुभावेन महता राज-ऋद्धीये महतीये विभूषाये उद्यानभूमिं निर्यान्तस्य राजपुरुषा वामदक्षिणेन उत्सारणां करोन्ता गच्छन्ति यथा कुमारो न किंचिद् अमनापं पश्येया // एवं कुमारो मानापिकानि रूपाणि पश्यन्तो मानापिकानि शब्दानि शृण्वन्तो मानापिकानि गन्धानि घ्रायन्तो उभयतो वामदक्षिणेन अंजलीशतसहस्राणि प्रतीछन्तो विविधानि च चूर्णवर्षाणि प्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्धावन्तस्य घटिकारेण कुम्भकारेण शुद्धावासदेवपुत्रभूतेन तथान्येहि च शुद्धावासकायिकेहि देवपुत्रेहि जीर्णो पुरुषो पुरतो अभिनिर्मितो जीर्णो वृद्धो महल्लको अध्वगतं वयमनुप्राप्तो श्वेतशिरो तिलकाहतगात्रो भग्नो गोपानसीवक्रो पुरतोप्राग्भारो दण्डम् अवष्टभ्यमानैर्
[_mvu_2.151_] गात्रैर् गच्छन्तो // बोधिसत्वो तं दृष्ट्वा सारथिं पृच्छति / किम् इमो पुरुषो एवं प्रतिकूलो जीर्णो वृद्धो महल्लको अध्वगतवयमनुप्राप्तः श्वेतशिरो तिलकाहतगात्रो भग्नो गोपानसीवक्रो पुरतःप्राग्भारो दण्डम् अवष्टभ्य प्रखलमानैर् गात्रैः गच्छति // सारथि आह // कुमारो किंच ते एतेन पृच्छितेन एष पुरुषो जीर्णो नाम वयपरिगतशरीरो / गच्छाम उद्यानभूमिं तहिं देवकुमार पंचहि कामगुणेहि क्रीडाहि रमाहि प्रविचारेहि // कुमारो आह // भो भणे सारथि वयम् अपि जराधर्मा जराधर्मतायाम् अनतीताः / यत्र नाम जातस्य जरा प्रज्ञायति अत्र पण्डितस्य का रति // कुमारो आह // सारथि निवर्तेहि रथं अलं उद्यानगमनाये //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
