Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महावस्तु-अवादन
- Thông tin
- GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यो बुद्धो बोधयिष्यति प्रजाम् इमां भोगेहि चिरप्रसुप्तां / सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि //
यो मुक्तो मोचयिष्यति प्रजाम् इमां रागबन्धनैर् बद्धां / सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि //
यो मुक्तो मोचयिष्यति प्रजाम् इमां मोहबन्धनैर् बद्धां / सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि //
यो मुक्तो मोचयिष्यति प्रजाम् इमां रागदोषमोहेषु / सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि //
यो आत्मना अरोगो भूत्वा अन्यां अपि काहिति अरोगां / सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि //
[_mvu_2.42_] यो आत्मना अशोको भूत्वा अन्यां अपि काहिति अशोकां / सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि //
यो आत्मना विशल्यो भूत्वा अन्यां अपि काहिति विशल्यां / सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि //
सुखिता इमे नरमरू काशिपुरे धर्मराजं द्रक्ष्यन्ति / चक्रं प्रवर्तयन्तं अहन् तु जीर्णो ति रोदामि //
सुखिता इमे नरमरू द्रक्ष्यन्ते गणवरस्य मध्यगतं / अमृतं प्रतिभजमानं अहन् तु जीर्णो ति रोदामि //
व्याधि जरा च मरणं अन्तरायकरा बहू मनुष्याणां / आश्वास्ता उत्पन्नो अहं अनाश्वस्तो रोदामि //
तथा ऋषि आलपित्वा बहूनि करुणायन्तो वेपित्वा / अनुशंसे वाचाये नरवरदमकं तदा दृष्ट्वा //
प्राचीनदिशं अवोच इहागतो नरुत्तमं गवेषन्तो / न हि सुलभो उत्पादो बुद्धान अदान्तदमकानां //
सो दानि बोधिसत्वं बहुशो अभिप्रदक्षिणं चरित्वान / आमन्त्रये नरपतिं गच्छामि स्निग्धवतीं भवान् देतु //
बुद्धनिर्घोषं श्रुत्वा गच्छेसि विनायकोत्तमसकाशं / चरयेसि ब्रह्मचर्यं वचनपरिकरो च तस्य स्यात्* //
साधु इति प्रतिश्रुत्वा असितस्य नारदो इदं वचनं /
[_mvu_2.43_] प्रव्रजिय गणज्येष्ठो अभूषि अरहा विधुतक्लेशो //
कात्यायनस्य सगोत्रं नामेन नारदं जिनस्य सुतं / वनेवासिनं . . . . वन्दथ परिनिर्वृतं स्थविरं //
तं निर्वृतं समशान्तं निरुपधिं सर्वोपधिक्षयविमुक्तं / सर्वप्रपञ्चातीतं वन्दथ परिनिर्वृतं स्थविरं //
चतुर्हि कारणेहि असितेन बोधिसत्वो एकांशेन व्याकृतो बुद्धो भविष्यतीति // कतमेहि चतुर्हि // लक्षणानां व्यक्ततायै सुविभक्तततायै गम्भीरतायै अखण्डश्रेष्ठतायै // बुद्धानां भगवताम् अशीत्य् अनुव्यंजनानि आसि // बुद्धानां भगवतां तुङ्गनखा ताम्रनखा स्निग्धनखा वृत्तांगुली च चित्रांगुली च अनुपूर्वचित्रांगुली च / निर्ग्रन्थिशिरा च गूढशिरा च गूढगुल्फा घनसन्धी च अविषमसमपादा च / बुद्धा भगवन्तो प्रतिपूर्णव्यंजना च समन्तप्रभा च मृदुगात्रा च विसदगात्रा च अदीनगात्रा च / अनुसन्धिगात्रा च / सुसंहतगात्रा च / सुविभक्तांगप्रत्यंगा च / निखिलादुष्टशरीरा च / व्यपगततिलकालकगात्रा च पुनर् बुद्धा भगवन्तो तूलमृदुपाणयश् च / गम्भीरपाणिलेखा अभग्नपाणिलेखा च अच्छिन्नपाणिलेखा च / अनुपूर्वपाणिलेखा च / बिम्बोष्ठा च / नाभ्यायतनवचना च / मृदुतनुकरक्तजिह्वा च / गजगर्जितस्तनितस्वरा च / सुखरवरगिरा मञ्जुघोषा च बुद्धा भगवन्तो / नागविक्रान्तगामी च / ऋषभविक्रान्तगामी च / सिंहविक्रान्तगामी च / अभिदक्षिणगामी
[_mvu_2.44_] च / उत्सदसमा च समन्तप्रासादिका च / शुचिसमाचारा च / परमशुचिविशुद्धलोमा च / वितिमिरसमन्तप्रभा च / बुद्धा भगवन्तो ऋजुगात्रा च / मृदुगात्रा च अनुपूर्वगात्रा च / चापोदरा चारूक्षाभग्नोदरा च / गम्भीरनाभी च / अभग्ननाभी च / अच्छिन्ननाभी च / अभिदक्षिणावर्तनाभी च / परिणतजानुमण्डला च / बुद्धा भगवन्तो वट्टितदाठा च / तीक्ष्णदाठा च / अभग्नदाठा च / अच्छिन्नदाठा च / अविषमदाठा च / तुंगनासा च / नात्यायतनासा च / असितनयना च / असितसितकमलसदृशनयना च / बुद्धा भगवन्तो असितभ्रमू च स्निग्धलोमभ्रमू च / अपरीत्तकर्णा च / अविषमकर्णा च / व्यपगतकर्णदोषा च / अनुपहता अनुपक्लिष्टा शान्तेन्द्रिया च उत्तमश्रेष्ठसंमितमुखललाटा च बुद्धा भगवन्तो // असितकेशा च / सहितकेशा च / चित्रकेशा च / विवृत्तकेशा च अभग्नकेशा च / अच्छिन्नकेशा च अपरुषकेशा च / स्निग्धकेशा च सुरभिकेशा च / वल्लिताग्रकेशा सुशिरसो स्वस्तिकनन्द्यावतमुक्तिकश्रेष्ठसंनिकासा च बुद्धानां भगवन्तानां केशा //
एतानि बुद्धस्य अमेयबुद्धिनो काये अशीतिं अनुव्यंजनानि / येहि स्य कायो सततं अलंकृतो देवातिदेवस्य नरोत्तमस्य //
प्रशस्तानि यस्य दुवे त्रिंशतिं च अशीतिं च काये अनुव्यंजनानि / समन्ता च व्यामप्रभा निश्चरेन्सुः
[_mvu_2.45_] कथं नाम विज्ञू जिने न प्रसीदे //
शतखुत्तो समादाय यं पुण्यं सर्वसत्त्वनां / तेनास्य लक्षणवरं काये एकं निवर्तये //
राजा शुद्धोदनो सान्तःपुरो शार्धं कुमारेण उद्यानभूमिं निर्धावितो // बोधिसत्वो उद्यानभूमीये अनुचंक्रमन्तो कृषिग्रामम् अनुप्राप्तो // तत्र पश्यति हलानि वहन्तानि / तेहि हलेहि दीर्घको च मण्डूको च उत्क्षिप्ता / मण्डूको गृहीतो भोजनार्थं / सो पि दीर्घको कुमारेण क्षिप्तो // तं च बोधिसत्वेन दृष्टं / दृष्ट्वा च बोधिसत्वस्य महान्तं संवेगम् उत्पन्नं //
कामं शरीरं समं तप्यति जीवितं च प्राप्स्यामि अद्य अमृतं भवविप्रमोक्षं / वीर्यं मया हि प्रतिसंहरितुं न शक्यं वेलाय च सलिलवेगं यथाणर्वस्य //
जम्बुच्छायायां बोधिसत्वो निषण्णो पूर्वाह्णे परिवृत्ते दिवसकरे छाया बोधिसत्वं न जहाति / सवितर्कं सविचारं प्रथमं ध्यानम् उपसंपद्य विहरति // हिमवन्तपार्श्वतो पंच ऋषयो वैहायसेन विन्ध्यं गच्छन्ति / ते तत्र बोधिसत्वस्य न शक्नोन्ति उपरिगन्तुं //
वयम् इह मणिवज्रकूटं गिरिं मेरुम् अभ्युद्गतं तिर्यगत्यर्थविस्तारिकं /
[_mvu_2.46_] गज इव सहकारशाखाकुलां वृक्षवृन्दां प्रदारेत्वा निर्धाविता नैकशः //
वयम् अमरपुरे पि शक्ता गता देवगन्धर्वेश्मानि चोर्ध्वं नभे निश्रिताः / वयम् अपि वनषण्डम् आसाद्य सीदाम भो कस्य लक्ष्मी निवर्तेति ऋद्धेर् बलं //
देवा गाथां भाषन्ति //
नृपतिपतिकुलोदितो शाक्यराजात्मजो बालसूर्यप्रकाशो विदू / रवितरुणप्रभातिरेकेहि वर्णप्रभैः लक्षणैर् लक्षितांगो वरैः //
अयम् इह वनमाश्रितो ध्यानचिन्तापरः . . . . . . . . . . पार्थिवः / गुणशतसमकोटिसंवर्धितस् तस्य लक्ष्मी निवर्तेति ऋद्धेर् बलं //
सो हि तिमिरान्धकारे प्रादुर्भूतो प्रदीपकः / अयं तं प्राप्स्यते धर्मं यज् जगं श्वासयिष्यति //
लोके क्लेशाग्निसंतप्ते प्रादुर्भूतः महामुनिः / अयन् तं प्राप्स्यते धर्मं यज् जगं ह्लादयिष्यति //
शोकसागरकान्तारे यानश्रेष्ठम् उपस्थितं / अयं तं प्राप्स्यते धर्मं यज् जगं तारयिष्यति //
महासन्सारकान्तारे विप्रनष्टं जगत्त्रयं / अयं मार्गवरं श्रेष्ठं देशयिष्यति चक्षुंआन्* //
संसारचारके बद्धा दीर्घरात्रम् इयं प्रजा / अयं बन्धनमोक्षं च धर्मराजा करिष्यति //
[_mvu_2.47_] आक्रुष्टे शूरम् इच्छन्ति मन्त्रेषु कुशलं सदा / सहायं अर्चयन्ते खु अन्नपानेन सुप्रियं //
राजा भक्तवेलायां कुमारं पृच्छति / कहिं कुमारो आहारं करिष्यति // राज्ञो श्रुत्वा कंचुकीया च वर्षवरा च किराता च वामनका च समन्तेन प्रधाविता कुमारं मार्गन्ता // कुमारो जम्बुच्छायायां ध्यायन्तो कंचुकीयेन दृष्टो परिवृत्ते दिवसकरे जम्बुच्छाया कुमारं न जहाति // कंचुकीयो दृष्ट्वा विस्मितो महाभागो कुमारो यस्य अचेतना छाया न जहाति // कंचुकीयेन राज्ञो शुद्धोदनस्य निवेदितं //
व्यावृत्ते तिमिरनुदस्य मण्डलस्मिं ध्यामाभं शुभवरलक्षणाग्रधारिं / ध्यायन्तं गिरिम् इव निश्चलं नरेन्द्र सिद्धार्थं न जहति जम्बुच्छाया //
राजा कंचुकीयस्य श्रुत्वा येन कुमारस् तेनोपसंक्रमन्तो पश्यति जम्बुच्छायान्तां / राजा विस्मितो आह //
हुतासनो वा गिरिमूर्धनस्मिं शशीव नक्षत्रगणावकीर्णो / ह्लादेति गात्राणि निरीक्ष्यमाणो ध्यानस्थितो तैलप्रदीपकल्पो //
राजा आह // महाभागो अयं यस्य अचेतनवन्ता पि तावा संनमन्ति // राज्ञा शुद्धोदनेन बोधिसत्वस्य जम्बुच्छायागतस्य पादा वन्दिता //
[_mvu_2.48_] राज्ञो शुद्धोदनस्य एतद् अभूषि // यथा कुमारस्य शान्तेषु ध्यानेषु चित्तं रमति सो खल्व् एव असितस्य ऋषिस्य सत्यो व्याकरणो भविष्यति // तेन राज्ञा कुमारस्य विस्तीर्णम् अन्तःपुरम् उपस्थापितं तथा कुमारो गृहे अभिरमेय // राज्ञा कन्यानाम् अर्थाय विविधं नानाप्रकारं अशोकभाण्डं कारापितं // कपिलवस्तुस्मिं च नगरे घोषणा कारापिता / सर्वाहि कन्याहि राजक्यं उद्यानं निर्धावितव्यं सर्वार्थसिद्धो कुमारो कन्यानाम् आभरणानि विश्राणेष्यति // तहिं उद्याने राजाणत्तीये कपिलवस्तुतो बहूनि कन्यासहस्राणि निर्धावितानि // महानामस्य शाक्यस्य यशोधरा नाम धीता महतीये समृद्धीये निर्धाविता ह्रियायन्ती कुमारम् अल्लीना // यदा भगवान् अभिनिष्क्रान्तो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो प्रवृत्तप्रवरधर्मचक्रो तं भिक्षुहि श्रुतं // भगवतो कुमारभूतस्य उद्यानवनगतस्य कन्यानाम् आभरणानि विश्राणेन्तस्य यशोधरा ह्रियायन्ती कुमारस्य अल्लीना // भिक्षु भगवन्तं पृच्छति // कथं भगवं यशोधरा भगवतो कुमारभूतस्य ह्रियायन्ती अल्लीना // भगवान् आह // न हि भिक्षवः इदानीम् एव यशोधरा मम ह्रियायान्ती अल्लीना / अन्यदापि एषा मम ह्रियायन्ती अल्लीना // भिक्षू आहन्सुः // अन्यदापि भगवं // भगवान् आह // अन्यदापि भिक्षवो //
___भूतपूर्वं भिक्षवो ऽतीतम् अध्वानं नगरे वाराणसी काशिजनपदे ब्राह्मणो कौशिकसगोत्रो / सो कामेषु आदीनवं दृष्ट्वा अनुहिमवन्तं ऋषिप्रव्रज्यां प्रव्रजितो // तेन तहिं अनुहिमवन्ते गंगाकूले आश्रमं मापेत्वा पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन वाहितकेन मार्गेण चत्वारि ध्यानान्य् उत्पादितानि पंचाभिज्ञा साक्षात्कृता /
[_mvu_2.49_] चन्द्रमसूर्यपरिमार्जको महर्द्धिको महानुभावो ऋषि संवृत्तो न च संविभागशीलो // तस्य दानि ज्ञातिको कायस्य भेदाद् गन्धर्वकायिकेषु देवेषूपपन्नो पंचशिखो नाम गन्धर्वपुत्रो // सो देवभूतो तं कौशिकं स्मरति / कहिं कौशिक आकाशे प्रवृत्तजीवो ति मृतो ति // सो समन्वाहरति / पश्यति तं कौशिकं ऋषिप्रव्रज्यां प्रव्रजितं / अनुहिमवन्ते गंगाकूले स आश्रमे प्रतिवसति असंविभागशीलो // तेन शक्रस्य देवानाम् इन्द्रस्य आरोचितं // यो मम मनुष्यभूतस्य ज्ञाति प्रियो मनापो सो ऋषिप्रव्रज्यां प्रव्रजितो अनुहिमवन्ते गंगाकूले आश्रमपदे प्रतिवसति सो च असंविभागशीलो / तस्य अनुग्रहार्थाय उपसंक्रमेम संविभागस्मिं नियोजेम //
___शक्रो दानि कौशिकस्य ऋषिस्य अनुग्रहार्थं आहारदेशकाले चन्द्रमसूर्येहि सार्धं मातलिना च संग्राहकेन पंचशिखेन च देवपुत्रेण ब्राह्मणवेशम् अभिनिर्मिणित्वा . . . . . . कौशिकस्य ऋषिस्य आश्रमं आहारदेशकाले एकम् एको उपसंक्रान्तो / स च सुनखो नानाप्रकाराणि उच्चावचानि वर्णानि उपदर्शेति // कौशिक आह //
नाहं क्रिणामि नापि विक्रिणामि न चापि मे सन्निधि अस्ति किंचित्* / परीत्तरूपं मम भोजनं इमं स्यामाकप्रस्थं नलम् एषो दुविन्नं //
शुनख आह //
अल्पातो अल्पकं दद्यात्* अनुमध्यातो मध्यिमं /
[_mvu_2.50_] बहुकातो बहुकं दद्यात्* अदानं नोपपद्यति //
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च / आर्यमार्गसमापन्नो एकांशं विन्दते सुखं //
चन्द्रो पि उपसंक्रान्तो // कौशिको आह //
नाहं क्रिणामि नापि विक्रिणामि न चापि मे सन्निधि अस्ति किंचित्* / परीत्तरूपं मम भोजनं इमं स्यामाकप्रस्थं नलमेषो त्रयाणां //
चन्द्र आह वडिशं सो संगिलति दीर्घसूत्रं अयोमयं / यो अतिथिस्मिं आसीने अदत्त्वा भुंजति भोजनं //
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च / आर्यमार्गसमापन्नो एकांशं विन्दते सुखं //
सूर्यो पि उपसंक्रान्तो //क् औशिक आह //
नाहं क्रिणामि नापि विक्रिणामि न चापि मे संनिधि अस्ति किंचित्* / परीत्तरूपं मम भोजनं इमं स्यामाकप्रस्थं नलमेषो चतुर्णां //
सूर्य आह //
मोघं तस्य हुतं भोति मोघं चापि समाहितं /
[_mvu_2.51_] यो अतिथिस्मिं आसीने अदत्त्वा भुंजति भोजनं //
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च / आर्यमार्गसमापन्नो एकांशं विन्दते सुखं //
मातलि पि उपसंक्रान्तो // कौशिक आह //
नाहं क्रिणामि नापि विक्रिणामि न चापि मे संनिधि अस्ति किंचि / परीत्तरूपं मम भोजनं इमं स्यामाकप्रस्थं नलमेषो पंचानां //
मातलि आह //
सत्यं तस्य हुतं भोति सत्यं चापि समाहितं / यो अतिथिस्मिं आसीने दत्त्वा भुंजति भोजनं //
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च / आर्यमार्गसमापन्नो एकांशं विन्दते सुखं //
शक्रो पि उपसंक्रान्तो // कौशिक आह //
नाहं क्रिणामि नापि विक्रिणामि न चापि मे सन्निधि अस्ति किंचित्* / परीत्तरूपं मम भोजनं इमं स्यामाकप्रस्थं नलमेषो षणां //
शक्रो आह //
सरस्वतीं सो जुहोति चाहुतां गमये अपि /
[_mvu_2.52_] यो अतिथिस्मिं आसीने दत्त्वा भुंजति भोजनं //
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च / आर्यमार्गसमापन्नो एकांशं विन्दते सुखं //
कोशिक आह //
उदारवर्णा इति ब्राह्मणा इमे अयं च वो सुनखो किस्य हेतु / उच्चावचां वर्णनिभां निदर्शये आख्याथ मे को नु भवे भवन्तो //
शक्र आह //
चन्द्रो च सूर्यो च इहागता ते अयं च सो मातलि देवसारथिः / अहं च शक्रो त्रिदशान ईश्वरो अयं च सो पंचशिखो . . . . . ति //
यस्यैष प्रतिगृह्णाति अन्नं च पानं च कौशिक / पाणिस्वरं कुम्भथूनं मृदंगानां स्वराणि च / सुप्तं न प्रतिबोधेन्ति प्रतिबुद्धो च नन्दति //
. . . . . . . . . . . . . . . . . . . . . . . . तुवं नो ज्ञाती पुरिमासु जातिषु त्वं कौशिका मत्सरिपापधर्मः / तुह्यानुकंपाय इहागता स्म मा पापधर्मो निरथं व्रजेसि //
ये मत्सरी रोषकपापधर्मा
[_mvu_2.53_] प्रद्वेषका श्रमणब्राह्मणानां / पापानि कर्माणि समाचरित्वा इतो च्युताः ते निरयं व्रजन्ति //
ये चेह दानानि ददन्ति पण्डिता प्रसन्नचित्ताः श्रमणब्राह्मणेषु / पुण्यानि कृत्वा इह जीवलोके इतो च्युतास्ते सुगतिं व्रजन्ति //
कौशिक आह //
एषो अद्यैवं करिष्यामि पुण्यं दास्यामि दानं श्रमणब्राह्मणेषु / एतेहि दद्याद् अहम् अन्नपानं नाहं अदत्त्वा अमृतं पि पास्ये //
एवं च मे ददतो सर्वकालं भोगा च मे च सर्वा क्षिपिहन्ति / ततो अहं सुगतिं प्रव्रजिष्यं प्रहाय कामानि तथाधिकानि //
नगोत्तमे गिरिवरगन्धमादने मोदेन्ति देववराधिपात्मजा / उपागता ऋषिवर सर्वि पूजितुं सुपुष्पितां द्रुमवरशाखां गृह्णिय //
शुचिं सुगन्धां त्रिदशेहि सत्कृतां सुपुष्पितां अमरवरेहि सेवितां /
[_mvu_2.54_] शाखां ददेन्सुर् नम अस्तु मारिष यथैव मो शक्र तथैव सो तुवं //
तां याचमानां अनुद्रक्षि ब्राह्मण इत्यब्रीषि कलहं उदीरये / न मह्यं पुष्पेहि इहार्थ विद्यति या येव वो श्रेयतरा (गृह्णातु) //
तदियं त्वं एव समीक्ष ब्राह्मण जानाहि मो मारिष या नु श्रेया / यस्यैव नो मारिष तां दयिष्यसि सा एव नो श्रेयतरा भविष्यति //
अकार्यम् एतं वचनं सुगात्रिका स ब्राह्मणो क्रोधशब्दं वियाहरे / गत्वान भूताधिपतिं हि पृच्छथ सो एव वो ज्ञास्यति या नु श्रेया //
तदापि तायो परमार्थदर्शिनो उदारिका वर्णवरेण अर्थिका / गत्वान वोचन्त्रिदशाधिपस्य जानाहि मो मारिष का नु श्रेया //
तान् दृष्ट्वा अणात्तमना पुरंदरो इत्यब्रवीत्* आत्तमनो सर्वेषु / . . . . . युष्मे सदृशा सुगात्रिका
[_mvu_2.55_] को थेहपूर्वं कलहं उदीरये //
यो सर्वलोके चरति महामुनिः नामेन सो नारदो सत्यविक्रमो / सो अब्रवीत् पर्वते गन्धमादने गत्वान भूताधिपतिं हि पृच्छथ //
इतो सो उत्तरतो दिशायां गंगाय कूले हिमवन्तपार्श्वे / सो कौशिको दुल्लभपानभोजनो तस्य सुधां प्रेषयि देवसारथिः //
अग्निं जुहन्तस्य प्रतिष्ठतो मम प्रभंकरो लोकतमोनुदो यथा / आदित्यलोकस्मिं तथेव ईर्यसि का देवता किस्य इहागतो सि //
शंखोपमं श्वेत-अतुल्यसन्निभं मनोज्ञगन्धं प्रियरूपदर्शनं / न दृष्टपूर्वं मय चक्षुषेदृशं का देवता किन् तु ददासिदं मम //
अहं महेन्द्रेण महर्षि प्रेषितो सुधाहरिं त्वां त्वरितं उपागमि / जानाहि मां मातलिं देवसारथिं भुंजाहिमां कांक्षिषु भोगमुत्तमं //
भुक्त्वा हिमां द्वादश . . . . हि पापका क्षुधापिपासां अरतिं ज्वरं क्रमा /
[_mvu_2.56_] क्रोधोपनाहं च विवादपैशून्यं शीतोष्णतन्द्रीतरसं च उत्तमं //
न मातले कल्पति मह्य भुंजितुं पूर्वे अदत्त्वा इति ब्रुवन् अनुत्तमं / न चापि एकस्य न मह्य वर्णितं असंविभागो हि सुखं न विन्दति //
मित्रं ओपायिकं पारिपन्थिका स्त्रीघातका ये पहरन्ति अर्थं / सर्वे पि ते मत्सरिने समा मता प्राप्तं अदत्त्वा अमृतं पि नासे //
ता प्रेषिता देवराजेन आत्मजा कन्या चतस्रो तपनीयसन्निभा / सुधां पि आदाय प्रतिग्रहार्हां तं आश्रमं यत्र अभूषि कौशिकः //
दृष्ट्वा तु ताः अर्थदर्शो मतीमां प्रभासयन्तीयो अनन्तराश्रिताः / स्थिता चतस्रो प्रमदा चतुर्दिशं सो दानि कौशिक अध्यभाषिथ //
पुरिमां दिशन् तिष्ठसि देवते त्वं अलंकृता तारवरा च ओषधी / पृच्छामि ते कांचनवेदिविग्रहे
[_mvu_2.57_] आख्याहि मे त्वं कतमासि देवता //
शिरो हम् अस्मि मनुजेषु संमता अक्षुद्रसत्त्वा परिसेविनो सदा / सुखेषिणी तुह्य सुकाशमागता तं मां सुधाये वरप्रज्ञ भागय //
शीलेनुपेतं चरणेन बुद्धिये उपेतसत्त्वं प्रगुणेन कर्मणा / त्वया उपेतो शिरिजातिमन्तिया प्रेषेति दासं विय भोगवां सुखी //
अथो पि दासे अलसो अशिल्पको सुदुर्गतो वापि नरो अरूपवां / त्वया उपेतो शिरिजातिमन्तिया तद् इदम् असाधु यद् इदं त्वया कृतं //
प्रभासयन्ती यशसा यशस्विनी मनोरमेशाहूयनां दिशां प्रति / पृच्छामि त्वां कांचनवेदिविग्रहे आचिक्ष मे त्वं कतमासि देवता //
श्रद्धाहम् अस्मि मनुजेषु सम्मता अक्षुद्रसत्त्वा प्रतिसेविनी सदा / सुखेषिणी तुह्य सकाशम् आगता तं मां सुधाये वरप्रज्ञ भागय //
भार्यापि मे खो सदृशा हि सत्कृता
[_mvu_2.58_] कल्याणधर्मा च पतिव्रता च / प्रहाय स्वकुलं धीतरा च करोति श्रद्धां पुन कुम्भकाशिये //
शीलं श्रुतं चापि अथापि संयमं श्रद्धा सती यत्र . . . . एकदा / नैषा सावद्येन विघातदर्शना तद् इदम् असाधु यद् इदं त्वया कृतं //
सा मे व सन्तिके अपि च वद्यसे विजाने मूढासि धूर्तानुवर्तिनी / न एदृशी अर्हति आसनोदकं कुतो सुधां गच्छ न मे त्वं रोचसि //
जहाति रात्री अरुणस्मिं उद्गते सा तिष्ठसे तारवरा व ओषधी / पृच्छामि ते कांचनवेदिविग्रहे आचिक्ष मे त्वं कतमासि देवता //
मृगीव भ्रान्ता सरभाय वर्जिता निराकृता मन्दं ममं अवेक्षसे / का ते सहाया मृदुगात्रि लक्षते न भायसे एकिका तुवं देवता //
न मे सहाया इह आगता कौशिक . . . . . प्रवरास्मि देवता / आशा सुधाये इह आगतास्मि
[_mvu_2.59_] तन् मे सुधाये वरप्रज्ञ भागय //
आशाय क्षेत्राणि कृषन्ति कर्षका सपुत्रदारा संघटन्ति एकतो / नं वर्ष हरति असनी च उत्थिता तद् इदम् असाधु यद् इदं त्वया कृतं //
आशाये एके मनुजा धनार्थिका नावां समारुह्य तरन्ति (सागरं) / आलम्बने तत्र सीदन्ति अथापि च दुःखं निगच्छन्ति विनष्टपुण्याः //
सा मे व सन्तिके अपि च वद्यसे विजाने मूढासि धूर्तानुवर्तिनी / न एदृशी अर्हति आसनोदकं कुतो सुधां गच्छ न मे त्वं रोचसि //
का दृष्टासि . . . . . पिनद्धमञ्जरी //
सीहांगदा कांचिप्रमृष्टधारणी / कुशाग्ररक्ता सुपिनद्धकुण्डला उशीरवर्णा प्रतिभाय शोभसि //
गते यथा प्रावृषि अत्र सारदे अलंकृता लोहितमालिनी . . . . / पृच्छामि त्वां कांचनवेदिविग्रहे आचिक्ष मे त्वं कतमासि देवता //
हिरीयमस्मि मनुजान सम्मता अक्षुद्रसत्त्वप्रतिसेविनी सदा /
[_mvu_2.60_] सुखेषिणी तुह्य सकाशम् आगता न तु त्वां शक्रोमि महर्षि याचितुं //
कावर्णधातु इह स्त्री न विद्यति जानामि धर्मेण सुगात्रि लक्षसे / ते तां अयाचन्तिये प्रसवाम्य् अहं सुधामहं जीवितं तं ददामि ते //
त्वाम् एवहं कांचनवेदिविग्रहे आमन्त्रयित्वान प्रवेक्ष्यि आश्रमं / त्वाम् एवहं सर्वगुणेन पूजये तव अदत्त्वा अमृतं पि नो अलं //
तं आश्रमं पुष्पविचित्रसंस्तृतं द्विजेहि घुष्टं रुचिरस्वरेहि / सा सुच्छवी तं च प्रविष्टा आश्रम उदकुपेतं फलमूलशोभितं //
वृक्षाग्रणीनां बहवो नुपुष्पिता साला पियाला पनसा च तिन्दुका / शोभांजना लोघ्र . . . . . पाटला सुपुण्यगन्धा मुचिलिन्दका च //
कुवला तमाला बहवो नुवेशनं अश्वत्थन्यग्रोध तथैवुदुम्बरा / तिलका कदम्बा च तथैव चम्पका प्रसातिका श्यामक तत्र तण्डुला //
[_mvu_2.61_] तत्रापिनद्धप्रावृतो कुशामयो सुपुण्यगन्धो अजिनोपसेवितो / आशीतकुर्वी हरते निषण्णो निषीद कल्याणसुखेन आसने //
तस्येतवाये कुषिचाय कौशिकः जयेत्तमानये जटायन्तं धनेन / नेहि पात्रेहि सुधां स्वयं ददे सा अध्यभाषि त्वरिता महामुनिं //
तं संप्रति गृह्याण प्रीतमानसा इत्यब्रवी आत्तमना जटाधरं / कृता त्वया कौशिक मह्य पूजा गच्छामि दानि त्रिदशान सेवितुं //
सा कौशिकेनानुमता द्युतीमता जिगीषमाणा त्रिदशां उपागमि / गत्वान सा अवच सहस्रदर्शनं इयं सुधा वासव यो हि मे जयो //
सो तत्र यो प्रेषित एव मातलि परिवृत्तो देवसभाय अग्रतो / हिरी सुधां केनभिलब्धे हेतुना इत्यब्रवी त्वं पुनर् एवम् आहूय //
तं सो वताराद् विनिवर्तयेद् रथं
[_mvu_2.62_] जाम्बूनदं सन्तपनीयसन्निभं / प्रज्वाल्यमानं रविकरसंनिभं अलंकृतं सुवर्णबिम्बविचित्रं //
गताश् च हस्तिकपिव्याघ्रद्वीपियो मृगा च वैडूर्यमया उपागता / तं पुष्कला ज्योतीरसमया शुभा मणीवैडूर्यमया च ईदृशा //
हेष्टा मनेसी उपरिं च कुप्सरं सुवर्णचन्द्रा च रथे उपागता / तं यानश्रेष्ठं अभिरुह्य मातलि दश दिशायो अभिनन्दयेत्* महीं //
नगांश् च शैलांश् च वनस्पतीं च ससागरां कम्पमानां वसुन्धरां / सो क्षिप्रम् एव त्वरितं उपागमि तम् आश्रमं यत्र अभूषि कौशिको //
सो मातलि . . . . . . . . दूतो अहं पृच्छति ते पुरंदरो / शिरीय श्रद्धाय च आशायापि च हिरी श्रेया केन गुणेन मन्यसि //
. . . . . . . . . . . . . . . शिरी मे प्रतिभाति मातलि / श्रद्धा अनित्या पुन देवसारथि
[_mvu_2.63_] आशा विसंवादिकसंयता मम //
हिरी मनापा परिशुद्धकेवला संग्रामशीर्षे न रता प्रवर्जिता / विपश्यमाना सुरभी उपद्रुता हिरिर् निवारेति स्वचित्तमात्मनो //
हिरीह श्रेष्ठा मनुजेषु मातलि दहरे कांक्ष्यति महल्लिके च / प्रियं च भ्रातृव्यं करोति चण्डं हिरिर् निवारेति स्वचित्तमात्मनो //
को ते इमां कौशिक दृष्टम्* . . . . उग्रो हि इन्द्रो अथवा सहांपति / इन्द्रो तव इन्द्रसगोत्र कांक्षति तस्यैव भावसहव्रतानुज //
स कौशिकः तं जहियान उच्छ्रयं शीलोपपेतो असधुर्यभूतो / पुण्यानि कृत्वा विपुलानि आश्रमे कायस्य भेदात् स्वर्गेषु मोदति //
स्यात् खलु पुनः भिक्षवो युष्माकम् एवं अन्यो सो तेन कालेन तेव समयेन नारदो नाम ऋषि कौशिकसगोत्रो / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं
[_mvu_2.64_] सो भिक्षवस् तेन कालेन तेन समयेन नारदो नाम ऋषिर् अभूषि कौशिकगोत्रो // स्यात् खलु पुनर् भिक्षवो एवम् अस्या अन्या सा तेन कालेन तेन समयेन शक्रस्य देवानाम् इन्द्रस्य हिरी नाम धीता आसि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोर् भिक्षवो / एषा एव यशोधरा तेन कालेन तेन समयेन शक्रस्य देवानाम् इन्द्रस्य हिरी नाम धीता अभूषि / तदापि एषा मम ह्रीयायन्ती अल्लीना / एतरहिं पि मम एषा ह्रीयायन्ती अल्लीना //
_____समाप्तं मंजरीजातकं //
भिक्षू भगवन्तम् आहन्सुः / कथं भगवं यशोधरा न शक्यति तोषयितुं // भगवता कुमारभूतेन कन्यानाम् अलंकारां पि विश्राणयन्तेन यशोधराये शतसहस्रमूल्यं हारं दिन्नं / सा च आह / एत्तकमात्रं अर्हामि // कुमारेण भूयो शतसहस्रमूल्यं अंगुलीयकं दिन्नं तथापि न सन्तुष्यति // कथं यशोधरा अतृप्ता न शक्यति राधयितुं // भगवान् आह // एषा भिक्षवो यशोधरा न इदानीम् एव अतृप्ता अन्यदापि एषा अतृप्ता //
___भूतपूर्वं भिक्षवो अतीतम् अध्वाने नगरे वाराणसी काशिजनपदे राजा सुप्रभो नाम राज्यं कारयेसि / तस्य कुमारो सुतेजो नाम कृतपुण्यो महेशाख्यो निवातो सुखसंस्पर्शो पूर्वालापी प्रियभाषी अमात्यानां भट्टबलाग्रस्य श्रेष्ठिस्य नैगमस्थानां सर्वस्य इष्टो बहुमतश् च // राज्ञो उत्पन्नो / इमो सर्वजनकायो कुमारस्य गुणगृहीतो कदाचिद् एते मम जीविताद् व्यपरोपयित्वा कुमारं राज्ये प्रतिष्टापयेन्सुः / तेन राज्ञा सो कुमारो विप्रवासितो // सो दानि कुमारो भार्याय सार्धं अनुहिमवन्ते
[_mvu_2.65_] अन्यतरस्मिं वनखण्डे तृणकुटिं च पर्णकुटिं च कृत्वा प्रतिवसति मूलपत्रफलोदकेन यापेन्तो सुखोपपन्नानि च मृगवराहमान्सानि परिभुंजन्तो // तस्य दानि आश्रमातो [निर्गतस्य] मार्जारेण वठरां गोधां मारेत्वा तस्य भार्याये अग्रतो निक्षिपित्वा गतं // सा तां गोधां पाणिनापि च न स्पृशति // कुमारो मूलपत्रफलानि आदाय आश्रमं गतो पश्यति च आश्रमे तां गोधां रौद्रां वठरां / सो तां राजधीतां पृच्छति कुतो इमा गोधा // सा आह // एषा मार्जारेण आनीता // कुमारो आह // किं दानि एषा गोधा सिद्धा // सा नं आह // गोमयो ति कृत्वा न सिद्धा // कुमारो आह // न एषा गोधा अभक्ष्या भक्ष्या एषा मनुष्याणां // सा दानि गोधा तेन कुमारेण निर्छविकृत्वा पक्वा / पचित्वा द्रुमशाखायाम् ओलंबिता // सा चास्य भार्या घटम् आदाय उदकहारिं गता / गच्छामि अहं उदकम् आहरिष्यामि / ततः आहारं करिष्यामि //
___तायो तां गोधां पक्वां समानां दृष्टा वर्णसंपन्नां च गन्धसंपन्नां च अलूहां च प्रत्यग्रां च अभिलाषम् उत्पन्नं / कुमारस्यापि ताये भार्याये एतद् अभूषि / एषा राजधीता इमां गोधां असिद्धां हस्तेनापि न इच्छति स्पृशयितुं / यत्र च वेलां पक्वा ततः अभिनन्दति भोक्तुं / यदि एताय मम मूले प्रेमा भवे तद् एषा गोधा मया फलहारगतेन सिद्धा भवेया / नास्या अतो गोधाये किंचित् संविभजिष्यं गोधां परिभुंजिष्यामि // तेन सा गोधा ताये राजधीतरे उदकहारिं गताये खादिता राजधीता च उदकघटम् आदाय आगता // सा दानि कुमारस्याह // आर्यपुत्र कहिं सा गोधा // कुमार आह // पलायिता // सा चिन्तेति / कथं पक्वा गोधा वृक्षशाखायाम्
[_mvu_2.66_] आलग्ना पलायिता ति // तस्या राजधीताये एतद् अभूषि / नाहं कुमारस्य इष्टा // तस्या तं दौर्मनस्यं हृदयं प्रविष्टं //
सर्वसत्वा मरिष्यन्ति मरणान्तं हि जीवितं / यथाकर्म करिष्यन्ति पुण्यपापफलोपगा //
नरकं च पापकर्माणो कृतपुण्या च स्वर्गतिं / अपरे च मार्गं भावेत्वा निर्वास्यन्ति अनाश्रवाः //
सो दानि राजा सुप्रभो कालधर्मेण संयुक्तो / अमात्येहि सुतेजो कुमारो वनातो आनेत्वा राज्ये वाराणसीयं अभिषिक्तो // राज्ञो सुतेजस्य देवीय मूले न किंचिद् अपरित्यक्तं / न किंचित् तत्र राज्ये रत्नसंमतं / सर्वं देवीये उपनामेति यानि वस्त्राणि उदाराणि आभरणानि हारार्धहाराणि तानि देवीये उपनामयति न च शक्नोति आराधयितुं / ताये च नं गोधा हृदयं गता // तस्य राज्ञो सुतेजस्य भवति / अहं देवीये न सा किंचिद् गुणजाती यां न करोमि न सा किंचित् प्रियता यां न दर्शेमि न च शक्नोमि तोषयितुं // सो ताम् आह // देवि अहं तव न किंचिद् गुणजाती यां न करोमि न सा च प्रियता यां न दर्शेमि न च शक्नोमि तोषितुं न परिबुद्ध्यामि किम् अत्र अन्तरं / जल्पतु देवी // सा दानि देवी तं सुतेजं राजानं गाथया वाध्यभाषति //
अद्यापि ते तं वनस्मिं अवबुद्ध्यामि क्षत्रिया यस्य ते धनुहस्तस्य सानुबद्धकलापिनो / ओलग्ना द्रुमशाखायां पक्वा गोधा पलायिता //
राजा आह //
नमे नमन्तस्य भजे भजन्तं
[_mvu_2.67_] कृतानुकार्यस्य करेय अर्थं / असंभजन्तं च न संभजेय नानर्थकामस्य करेय अर्थं //
त्यजे त्यजन्तं सततं न गच्छे अपेतभावेन न संवसेया / द्विजो द्रुमं क्षीणफलं विन्दित्वा अन्यं परीक्षेय महां हि लोको //
स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यो सो तेन कालेन तेन समयेन सुतेजो नाम राजा अभूषि / न खल्व् एवं द्रष्टव्यं // तत् कस्य हेतोः // अहं सो तेन कालेन तेन समयेन वाराणसीयं सुतेजो नाम राजा अभूषि // अन्या सा राज्ञो सुतेजस्य देवी अभूषि अग्रमहिषी / न खल्व् एतद् एवं द्रष्टव्यं / एषा सा भिक्षवः यशोधरा राज्ञो सुतेजस्य देवी अग्रमहिषी अभूषि / तदापि एषा अतृप्ता न शक्यति तोषयितुं / एतरहिं पि एषा अतृप्ता न शक्यति तोषयितुं //
_____इति श्रीगोधाजातकं समाप्तं //
भिक्षू भगवन्तम् आहन्सुः / भगवता कुमारबूतेन उद्याने कन्यानाम् आभरणानि विश्राणयन् तेन यशोधराये एव बहुकं दिन्नं // भगवान् आह // न भिक्षवो इदानीम् एव मया यशोधराये बहुकं दिन्नं // भिक्षू आहन्सुः // अन्यदापि भगवन् // भगवान् आह // अन्यदापि भिक्षवः //
___भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसी काशिजनपदे राजा राज्यं कारयति कृतपुण्यो महेशाखो संगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महावाहनो / तस्य तं राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णजनमनुष्यं
[_mvu_2.68_] च सुखिबहुजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसंपन्नं // तस्य दानि राज्ञो पञ्चशतम् अन्तःपुरं / तस्य या अग्रमहिषी सा सर्वस्यान्तःपुरस्यातीव प्रासादिका च दर्शनीया च पण्डिता च विधिज्ञा च सर्वकलासमन्वागता च // सो राजा अभीक्ष्णं अन्तःपुरस्य वस्त्राणि च आभरणानि च विश्राणेति / तस्यापि राज्ञो शतसहस्रमूल्यो हारो आबद्धको तस्य च हारस्य मध्ये मणिरत्नं यत्र चत्वारि महाद्वीपा दृश्यन्ति जम्बुद्वीपो पूर्वविदेहो अपरगोदानीयो उत्तरकुरुः सुमेरुश् च पर्वराजा / अनेकशतसहस्रमूल्यं तं मणिरत्नं तस्य महाहारस्य मध्ये // तां देवीं पृच्छति आभरणानि विश्राणेन्तो // देवि अतीव त्वं मे मनं हरसि / को त्र उपायो येन देवी मे मनं हरति // सा दानि हेवी तं राजानं गाथयाध्यभाषति / चेष्टालीलासमाचारा निमित्तस्य च ग्राहणं / कौतूहालेन चपलास्त्रिभिर् आरज्यन्ति पार्थिव //
स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन काशिराजा अभूषि / न खाल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं स भिक्षवस् तेन कालेन तेन समयेन काशिराजा अभूषि / अन्या सा तेन कालेन तेन समयेन काशिराजस्याग्रमहिषी / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषा सा भगवती यशोधरा तेन कालेन तेन समयेन काशिराजस्याग्रमहिषी अभूषि / तदापि एतस्या मया बहुं दिन्नं //
_____इति श्रीयशोधराये हारप्रदानजातकं समाप्तं //
यदा बोधिसत्वो अकामकानां मातापितॄणाम् अश्रुकण्टानां रुदन् मुखानां हस्तोक्तं
[_mvu_2.69_] च चक्रवर्तिराज्यम् अपहाय अलूहं च गृहवासम् अपहाय अगाराद् अनगारिकां प्रव्रजितो तदा यशोधरा देवदत्तेनोच्यते // मम भ्राता प्रव्रजितो आगच्छ मम अग्रमहिषी भविस्यसि // सा दानि न इच्छति बोधिसत्वम् एव अभिकांक्षति / सुन्दरनन्देनापि वुच्चति / मम भ्राता प्रव्रजितो आगच्छ मम अग्रमहिषी भविष्यसि / तस्यापि न इच्छति बोधिसत्वम् एवाभिकांक्षति // यदा भगवां प्रवृत्तधर्मचक्रो तदाहिं एतं भिक्षुभि श्रुतं / भिक्षू भगवन्तं पृच्छन्ति / कथं भगवं यशोधरा सुन्दरनन्देन च देवदत्तेन च प्रार्थयन्ती न इच्छति भगवन्तम् एव प्रार्थेति // भगवान् आह // न भिक्षवो इदानीम् एव यशोधराये सुन्दरनन्देन च देवदत्तेन च प्रार्थयमाना न इच्छति मम एवाभिकांक्षति / अन्यदापि एषा एतेहि प्रार्थयन्ती न इच्छति मम एवाभिकांक्षति //
___भूतपूर्वं भिक्षवो अतीतमध्वाने हिमवन्तपादमूले सर्वेषां चतुष्पडानां समागमो अभूषि // अस्माकं राजा नास्ति चतुष्पदानां राजा स्थपीयतु // तहिं तेषाम् उत्पन्नं थपीयतु चतुष्पदानां राजा त्ति प्रवरं // ते आहन्सुः // को दानि चतुष्पदानां राजा स्थपीष्यतीति // तेषां दानि उत्पन्नं / यो अस्माकम् इतो सप्तमं दिवसं सर्वप्रथमं हिमवन्तं पर्वतराजं गमिष्यति सो चतुष्पदानां राजा भविष्यति // ते एवं समयं कृत्वा ततो प्रदेशातो येन हिमवन्तो पर्वतराजा तेन प्रधाविता // तेषां सर्वेषां पृष्ठतो कृत्वा व्याघ्री हिमवन्तं पर्वतराजानं अनुप्राप्ता // व्याघ्री हिमवन्तं पर्वतराजानं गत्वा चतुष्पदानां प्रति/आलेति // चतुष्पदा च सर्वे हिमवन्तं पर्वतराजम् अनुप्राप्ता / तत्र च तां व्याघ्रीं पश्यन्ति प्रतिपालेन्तीं // ते दानि चतुष्पदा तां
[_mvu_2.70_] व्याघ्रीं दृस्ट्वा आर्तसंजाता दुर्मना / इस्त्रिया स्म पराजिता न च कहिंचित्* इस्त्रियो राजा सर्वत्र पुरुषा राजा / यथा अस्माकं न अलिकं भवेय पुरुषो च राजा भवेय // तेहि सा व्याघ्री उक्ता // भद्रे यं तुवं पतिम् इच्छसि सो चतुष्पडानां राजा भविष्यतीति // तां व्याघ्रीं ऋषभो अल्लीनो // भद्रे मम पतिं वरेहि / अहं लोके मंगलभूतो मम गोमयेन देवकुलानि उपलिष्यन्ति देवकार्याणि च क्रियन्ति // सा दानि वाघ्री आह // नाहं तव पतिं इच्छेय त्वं फालेहि च शकटेहि च नित्यभग्नप्रलग्नो // हस्तिनागो पि तां व्याघ्रीं उपसंक्रान्तो आह // भद्रे अहं बलवांश् च संवृद्धकायो च संग्रामेहि च अपराजितो मम गृह्णाहि // व्याघ्री आह // न हि त्वं सिंहे नदमाने न उच्चारप्रस्रावं मुंचमानो पलायसि // सिंहो पि मृगराजो अल्लीनो // भद्रे मम पतिं वरेहि मम सर्वे मृगसंघा त्रसन्ति // व्याघ्री आह // मृगराज मूर्ध्ने पि पतिता प्रतीच्छामि //
चतुष्पदानां सर्वेषां महा आसि समागमो / आराजकम् इदम् अस्माकं को त्र राजा भविष्यति //
हिमवन्तं पर्वतराजं यो मो प्रथमो गमिष्यति / इतो सप्तमे दिवसे सो यं राजा भविष्यति //
सिंहा वाघ्रा मृगा चैव हस्तिनो वृषभा वृका / न शक्नुवन्ति अन्वेतुं गता प्रथमा पर्वतं //
प्रासादिकं दर्शनीयं हिमवन्तं नगोत्तमं / गत्वान व्याघ्री प्रथमं प्रविचारेति चतुष्पदां //
गत्वा चतुष्पदा सर्वे व्याघ्रीं पश्यन्ति ते तहिं /
[_mvu_2.71_] दृष्ट्वा च अर्द्दिता अभूषि इस्त्रिये स्म पराजिता //
न अस्ति स्त्रियो राजानो न च मो अलिकं भवेत्* / यं व्याघ्री पतिम् इच्छेय सो यं राजा भविष्यति //
मम गोमयेन कल्पानि देवकार्याणि क्रियन्ति / ऋषभो अवच तत्र मम भद्रे पतिं वरेत्* //
व्याघ्री आह //
नित्युत्थितं सदा किलान्तं शकटेहि लांगलेहि च / नो तादृशं पतिम् इच्छे मनुष्ये यदि भवेल् लोके //
हस्तिनागो आह //
अहम् अनुचरोपेतो संग्रामे अपराजितो / हस्तिनागो बली तत्र मम भद्रे पतिं वरेत्* //
व्याघ्री आह //
सिंहस्मिं नदमानस्मिं तुवं भीतो पलायसि / छर्दगूथम् एव सृजं नेच्छेयं तादृशं पतिं //
सिंहो आह //
अनुपूर्वसुजातस्कन्धो सिंहो पर्वतगोचरो हमस्मि / मृगसंघा त्रसन्ति सर्वे त्वं भद्रे मम भर्तारं वरेहि //
[_mvu_2.72_] व्याघ्री आह //
सरवाकारवरोपेतं गिरिं वा स्वयम् आगतं / एतादृशं पतिम् इच्छे मूर्ध्नेनापि प्रतीच्छितं //
स्यात् खलु पुनर् भिक्षवो युष्माकम् एवं स्याद् अन्यः स तेन कालेन तेन समयेन सिंहो मृगराजा अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं सो भिक्षवो तेन कालेन तेन समयेन सिंहो मृगराजा अभूषि // अन्यो सो तेन कालेन तेन समयेन ऋषभो अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवः सुन्दरनन्दो तेन कालेन तेन समयेन ऋषभो अभूषि // स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन हस्तिनागो अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवो देवदत्तो तेन कालेन तेन समयेन हस्तिनागो अभूषि // स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्या सा कालेन तेन समयेन व्याघ्री अभूषि / एषा सा यशोधरा // तदापि एषा एतेहि प्रार्थयन्ती न इच्छति मम एवाभिकांक्षति / एतरहिं पि एषा एतेहि प्रार्थियन्ती न इच्छति मम एवाभिकांक्षति //
_____इति श्रीयशोधराये व्याघ्रीभूताये जातकं समाप्तं //
बोधिसत्वस्य उद्याने कन्यानां रत्ना विश्राणयन्तस्य यशोधरा सर्वपश्चा आगता सर्वेहि अलंकारेहि विश्राणियन्तेहि // [राज्ञा शुद्धोदनेन अमात्या आणत्ता / कतम् अत्र कन्याये कुमारस्य चक्षु निपतन्ति //] कुमारस्य यशोधरां दृष्ट्वा ताये चक्षु निपतितं // यो कुमारस्य हारो आबद्धको महारहो शतसहस्रमूल्यो सो हारो कुमारेण ओमुञ्चिय यशोधराये दिन्नो // सार्धप्रहिसन्ती आह // इयम् अहं एत्तकं
[_mvu_2.73_] अरहामीति // कुमारेण प्रहसन्तेन शतसहस्रमूल्या अंगुलिका अंगुलीतो ओभुंचियान दिन्ना // एवं कुमारो रतनानि कन्यानां विश्राणेत्वा राजकुलं प्रविष्टो //
___राजा अमात्यान् पृच्छति // कतमायां कन्यायां कुमारस्य चक्षु निपतितं // अमात्या आहन्सुः // सा महाराज महानामस्य शाक्यस्य यशोधरा नाम धीता / तत्र कुमारस्य चक्षु निपतितं // राज्ञा महानामस्य प्रेषितं / यशोधरां धीतां मम पुत्रस्य देहि सर्वार्थसिद्धस्य कुमारस्य // महानामो संदिशति राज्ञो शुद्धोदनस्य // न शक्यामि यशोधरां कुमारस्य दातुं / यत् कारणं कुमारो अन्तःपुरे संवृद्धो न कहिंचिद् आगतो शिल्पे वा इष्वस्त्रे वा हस्तिस्मिं वा धनुत्सरुस्मिं वा राजशास्त्रेषु वा न कहिंचित् कुमारो गतिंगतः // राज्ञो शुद्धोदनस्य श्रुत्वा दौर्मनस्यं जातं / एवम् एतं यथा महानामो जल्पति / न मया कुमारो कहिंचि शिल्पे शेषितो अतिप्रेम्नेन // सो दानिं राजा दुर्मना गृहं प्रविष्टो / कुमारेण दृष्टो पिता // कुमारो पितरं पृच्छति / किं तातो दुर्मणा // राजा आह / भवतु पुत्र किं तवैतेन // कुमारो आह // न हि तात अवश्यं आचिक्षितव्यं // राज्ञा कुमारं गुरुकं प्रेक्ष्य तेन भूयो भूयः पृच्छमानेन आचिक्षितं // एवं चैवं च महानामेन शाक्येन आचिक्षितो तव अर्थेन यशोधरां याचयमानेन / तव पुत्रो अन्तेपुरसंवृद्धो न कहिंचि शेषितो शिल्पे वा इष्वस्त्रज्ञाने वा हस्तिस्मिं वा रथस्मिं वा धनुस्मिं वा / नाहं तस्य धीतां दद्येहं // कुमारो पि श्रुत्वा पितरम् आह // मा तातो उत्कण्ठतु / नगरजनपदे घोषणां कारापेहि कुमारो सप्तमं दिवसं दर्शनं दास्यतीति / यो तत्र
[_mvu_2.74_] शिक्षितो सो आगच्छतु यदि शिल्पज्ञाने यदि इष्वस्त्रज्ञाने युद्धे वा नियुद्धे वा छेदे वा भेदे वा जवे वा बलाहुक्के वा हस्तिस्मिं वा अश्वस्मिं वा रथस्मिं वा धनुस्मिं वा थरुस्मिं वा उपवितर्केषु वा // राजा शुद्धोदनो श्रुत्वा प्रीतो संवृत्तो // तेन नगरे कपिलवस्तुस्मिं जनपदे घोषणा कारापिता यथा कुमारो सप्तमं दिवसं दर्शनं दास्यतीति / यो तत्र शिक्षितो सो आगच्छतु यदि शिल्पज्ञाने यदि इष्वस्त्रज्ञाने // अन्येहि पि अधिष्ठानेहि दूता प्रेषिता / शुद्धोदनस्य सर्वार्थसिद्धो कुमारो सप्तमं दिवसं दर्शनं दास्यति / यो तत्र शिक्षितो सो आगच्छतु //
___तहिं कपिलवस्तुतो जनकायो निर्धावति जनपदेष्व् अपि जनो आगच्छति / अन्येहि पि अधिष्ठानेहि कौतूहलजातः आगच्छति / शाक्यकुमाराणां विभवं पश्यिष्यामः बलपराक्रमं च कुमारस्य सर्वार्थसिद्धस्य पश्यिष्यामः // तहिं अनेकायो जनसहस्रियो समागतायो कुमारा कपिलवस्तुतो निर्धावन्ति च // अपरो पि भ्रान्तो हस्तिनागो बहिर्नगरातो कपिलवस्तुं प्रविशति षष्टिहायनो परमेन स्थामेन च समन्वागतो / देवदत्तो च कपिलवस्तुतो तं दर्शनस्थानं निर्धावति हस्तिस्कन्धवरगतो / तस्य सो हस्तिनागः भ्रान्तो अभिमुखो आपतितो / तेन रुषितेन देवदत्तेन सो हस्तिनागो षष्टिहायनो तलप्रहाराय एकाहत्यं कृत्वा तत्रैव नगरद्वारे निहतो / सो तं हस्तिनागं हत्वा निर्धावितो तं द्वारं // तत्र महाजनकायस्य संपिण्डा सुन्दरनन्दो च कुमारो अनुप्राप्तो // सो पृच्छति भो भणे किस्येदं नगरद्वारे जनसंपिण्डा // जनो आह // देवदत्तेन निर्धावन्तेन एषो हस्तिनागो एकाये तलप्रहाराये
[_mvu_2.75_] हतो / तेन हस्तिनागेन एवं नगरद्वारम् ओरुद्धं न च तं देवदत्तो शक्नोति अतः नगरद्वारतो अपकर्षयितुं लंघयित्वा अतिक्रान्तो // सो दानि हस्तिनागो सुन्दरनन्देन यानातो अवतरित्वा ततो द्वारतो सप्त पदां कड्ढितो / दृष्ट्वा महाजनकायेन हक्कारो मुक्तो / अहो कुमारस्य सुन्दरनन्दस्य उत्साहो // सुन्दरनन्दो पि तं हस्तिनागं द्वारतो सप्त पदानि अपकर्षित्वा अतिक्रान्तो // बोधिसत्वो महता समृद्धीये अनुप्राप्तः // बोधिसत्वो पृच्छति / किस्य एष नगरद्वारे महां जनकायसमागमो // ते आहन्सुः // कुमार देवदत्तो च कपिलवस्तुतो निर्धावति भ्रान्तो च हस्तिनागो प्रविशति नगरद्वारं अभिमुखो देवदत्तस्य आपतितो / तेन रुषितेन सो हस्तिनागो एकाय तलप्रहाराये निहतो सो एषो हस्तिनागो नगरद्वारं ओरुन्धित्वा पतितो च / देवदत्तो न शक्नोति अतः नगरद्वारतो अपकर्षितुं लंघित्वा अतिक्रान्तो / सुन्दरनन्देन सप्त पदानि कड्ढितो / तद् एष जनकायो संपिण्डाये कथं पि निर्धावति // तेन कालेन तेन समयेन कपिलवस्तु सप्तहि प्राकारेहि परिक्षिप्तो अभूषि / बोधिसत्वेन यानातो अवतरित्वा मातापितृकेन बलेन तं हस्तिनागं अतो नगरातो तेषां सप्तानां प्राकाराणां परतरेण क्षिप्तो // तं बोधिसत्वस्य उत्साहं दृष्ट्वा अनेकेहि देवमनुष्यसहस्रेहि हक्कारा मुक्ताः बोधिसत्वो पि निर्धावितो // राजापि शुद्धोदनो शाक्यमण्डलपरिवृतो महानामो पि शाक्यो निर्धावतो //
___तहिं कुमारेण सर्वार्थसिद्धेन दर्शनो दिन्नं सर्वशिल्पकर्मायतनानि कुमारेण संदर्शिता // सिद्धार्थकुमारस्य न कोचित् समसमो तथा युद्धे वा निर्युद्धे वा न कोचित् कुमारस्य समसमो // पश्चिमे निदर्शने बाणा विध्यन्ति // एते दश क्रोशा तत्र सप्त तालां / सप्त ताला क्रोशान्तरेण निखता सप्तानां पुरितो भेरी ओच्छ्रिता //
[_mvu_2.76_] तत्र कोचित्* एकतालस्कन्धं निस्ताडेति कोचि द्वे तालस्कन्धान् निस्ताडेति / देवदत्तस्य शरो द्वे तालस्कन्धा निस्ताडित्वा तृतीये तालस्कन्धे लग्नो / सुन्दरनन्दस्य शरो त्रयस् तालस्कन्धां निस्ताडेत्वा चतुर्थस्य तालस्कन्धस्य अन्तरभूम्यां निपतितो // बोधिसत्वेन देवकुलातो पितामहस्य सिंहहनुष्य राज्ञो धनुस् तत्र आनापितं // सो धनु तत्र रंगमध्ये निक्षिप्तो // यो शक्नोति एतं धनु पूरयितुं धारेतु // तं धनु हस्तातो जनकायेन जिज्ञासितो न च शक्नोति कोचित् पूरयितुं / शाक्यकुमारेहि पि सर्वेहि जिज्ञासितं न कोचिश् शक्नोति पूरयितुं / कोलियकुमारेहि पि जिज्ञासितुं लिच्छविकुमारेहि पि जिज्ञासितुं अन्येहि पि कुमारेहि जिज्ञासितुं न कोचि शक्नोति पूरयितुं // पश्चाद् बोधिसत्वेन गृहीतं / पितामहस्य गौरवेण तं धनुं बोधिसत्वेन गन्धमाल्येन पूजेत्वा पूरितं // तस्य धनुष्य पूरियन्तस्य सर्वकपिलवस्तुं शब्देन विज्ञापितुं देवमनुष्येहि च हक्कारं मुक्तं // एवं सप्ततालं बोधिसत्वेनैकशरेण निस्ताडेत्वा सापि भेरी निस्ताडिता भेरीं निस्ताडेत्वा रसातलं प्रविष्टो // देवमनुष्येहि हक्कारं मुक्तं / देवतानां सहस्रेहि च अन्तरीक्षातो दिव्यं कुसुमवर्षं ओसृष्टं // कुमारस्य बलपराक्रमं बुद्धिबलं च दृष्ट्वा सर्वत्र गतिंगतो बलेन च ऋद्धीयेन च ज्ञानेन च सर्वशाक्यराष्ट्रं तथान्ये पि राजानो प्रीतो संवृत्ताः / सुलब्धा लाभा शाक्यानां राज्ञो च शुद्धोदनस्य यस्य अयम् एदृशो महापुरुषो उत्पन्नो //
___यदा बोधिसत्वो अभिनिष्क्रान्तो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो प्रवृत्तप्रवरधर्मचक्रो
[_mvu_2.77_] तदा एतं प्रकरणं भिक्षुभि श्रुतं // भिक्षु भगवन्तम् आहन्सुः // भगवता चिरप्रणष्टा शाकियमुष्टि ज्ञाता // भगवान् आह // न भिक्षवो एतरहिं येव मये चिरप्रणष्टा शाक्यमुष्टि ज्ञाता // अन्यदापि मये चिरप्रणष्टा शाक्यमुष्टि ज्ञाता // भगवान् आह //
___भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसी काशिजनपदे ब्रह्मदत्तो नाम राजा राज्यं कारयति / निहतप्रत्यर्थिको निहतप्रत्यमित्रो सुनिगृहीतजनपदो दानसंविभागशीलो कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो / तस्य तं राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च // तस्य राज्ञो पुरोहितो ब्रह्मायुः नाम त्रयाणां वेदानां पारगो सनिर्घण्ठकैटभानां इतिहासपंचमानां अक्षरपदव्याकरणे अनल्पको / सो यम् आचार्यः कुशलो ब्राह्मणवेदेषु पि शास्त्रेषु दानसंविभागशीलो दश कुशलकर्मपथां समादाय वर्तति // तस्य पुत्रो धर्मपालो नाम माणवको // तस्य ब्रह्मायुस्य भवति / समयो मम पुत्रस्य धर्मपालस्य वेदानि अधीयितुं न चैष युक्तो मम सकाशातो वेदानि अधीतुं / पितृविश्रम्भेणापि नाधीष्यति गुरुकुले नं दास्यामि // अयम् अपि ब्राह्मणो वेदपारगो अनुहिमवन्ते आश्रमे पंच वटुकशतानि वेदां वाचेति / तेन सो धर्मपालो तस्य ब्राह्मणस्य अनुपरीत्तो वेदान् अध्यापेहीति //
___तस्यापि दानि आश्रमस्य अविदूरे महान् उदकह्रदो तत्र च उदकह्रदे उदकराक्षसो प्रतिवसति पुनर्पुनः जनं स्नपयन्तं मारेति // सो धर्मपालो माणवको तहिं उदकह्रदे पुनर्पुनः स्नापयति // तस्य ब्राह्मणस्य भवति // अत्र उदकह्रदे उदकराक्षसो प्रतिवसति पुनःपुनर् मनुष्यां मारेति एषो च धर्मपालो पुरोहितपुत्रो तत्र उदकह्रदे
[_mvu_2.78_] स्नापयति / सचे दानि तत्र स्नायन्तो उदकराक्षसेन खज्जेय पुरोहितो अस्ंआकं अपरितुष्टो भवेय किं तुम्हेहि उदकह्रदातो न वारितो // सो दानि तेन उपाध्यायेन धर्मपालको माणवको शब्दापितो उच्यति // मा अत्र उदकह्रदे स्नायाहि अत्र उदकह्रदे राक्षसो दारुणो प्रतिवसति / मा तेन उदकराक्षसेन खज्जिष्यसि // तत्र च उदकह्रदे महेशाख्यो नागो प्रतिवसति महापरिवारो तस्य च नागराज्ञो पुत्रो धर्मपालेन माणवकेन सार्धं प्रीणयति कथासमुल्लापेन रमति / तेन सो माणवको नागभवनान्तः तारितो // तेन माणवकेन सार्धं सो नागकुमारो कथासमुल्लापेन रमति तत्र च नागभवने धर्मपालो माणवको दश कुशलां कर्मपथां देशयति // अपरो च माणवको धर्मपालस्य समवयो सदृशो च ग्रामान्तरं तेन मार्गेण गच्छन्तो तहिं उदकह्रदे उदके स्नायते // सो तेन उदकराक्षसेन मारितो तहिं उदकह्रदे अर्धखादितको प्लवन्तो अपरेण माणवकेन दृष्टो // तेन आश्रमं गत्वा उपाध्यायस्य आरोचितं धर्मपालो उदकराक्षसेन खायितो ति // सो ब्राह्मणो सर्वेहि तेहि पंचहि वटुकशतेहि सार्धं तं उदकह्रदं गतो पश्यति च तं माणवकं उदकराक्षसेन अर्धखादितकं प्लवन्तं / तेहि तं दृष्ट्वा सर्वेहि रावो मुक्तो // तेहि ततो उदकातो उत्क्षिपित्वा काष्ठानि समावर्तयित्वा ध्यायितो // तानि अस्थीनि घटके कृत्वा सपरिवारो वाराणसीं गतो ब्रह्मायुस्य मूले / अश्रुकण्ठो रुदन्मुखो ब्रह्मायुष्य उपसंक्रमित्वा आह // स धर्मपालो उदकराक्षसेन मारितो / इभानि अस्थीनि // ब्रह्मायु ब्राह्मणं आह // नास्ति एतन् ति धर्मपालो दहरो कुमारो नापि अस्माकं कुले दहरा मृतपूर्वा // सो दानि ब्रह्मायुर् ब्राह्मणो तं धर्मपालस्य उपाध्यायं गाथाय अध्यभाषसि //
[_mvu_2.79_] प्राणं न हिंसेय नदिन्नमादिये पापं च कर्मं मनसापि न चरेत्* / सर्वे अनार्जं परिवर्जेयामः तस्मा हि अस्माद् दहरो न मृय्यति //
न च मो कदाचिद् अस्ति क्रोधो न चापि क्रुध्याम वयं कदाचित्* / क्रुद्धे पि नो चापि करोम कोपं तस्मा हि अस्माद् दहरो न मृय्यति //
शृणोम धर्मं असतां सतां च नो चापि धर्मं असतां रोचयाम / असतां हि त्वसतां रोचयामः तस्मा हि अस्माद् दहरो न मृय्यति //
ददाम दाना बहुशो बहूनि नो चापि नो अप्रियो याचमानो / दत्त्वा च दाना ननुतप्यमाना तस्मा हि अस्माद् दहरो न मृय्यति //
ये ब्राह्मणा श्रवणशीलवन्तो घोषेषिणो याचनका उपेन्ति / प्रियं मो तेषां श्रवणदर्शनं च तस्मा हि अस्माद् दहरो न मृय्यति //
ये ब्राह्मणा श्रवणशीलवन्तो
[_mvu_2.80_] घोषेषिणो याचनका चरन्ति / तान् अन्नपानैर् अभितर्पयामः तस्मा हि अस्माद् दहरो न मृय्यते //
ये चापि मो याचनका उपेन्ति अन्धा अनाथा कृपणा अनायकाः / तान् अन्नपानैर् अभितर्पयामः तस्मा हि अस्माद् दहरो न मृय्यते //
वयं च भार्यां अनतिक्रमामो भार्या पि अस्मान् न अतिक्रमाति / ततो वयं धर्मचर्यं चरामः तस्मा हि अस्माद् दहरो न मृय्यति //
यो जायते सो भवते सुशीलो सुसंयतो सुव्रतो ऋजुभूतः / अध्यापको भोति समाप्तपादः तस्मा हि अस्माद् दहरो न मृय्यति //
माता पिता भगिनी भ्रातरो च ये चापि ज्ञातयो अनन्यपक्षिका / चराम धर्मं परलोकहेतोः तस्मा हि अस्माद् दहरो न मृय्यति //
माता पिता भगिनी भ्रातरो च ये च कुलप्रेष्यकरा भवन्ति / चराम धर्मं परलोकदर्शी तस्मा हि अस्माद् दहरो न मृय्यति //
धर्मो हि वै रक्षति धर्मचारिं [_mvu_2.81_] छत्रं महन्तं यथ वर्षकाले / एषो नुशंसो धर्मे सुचीर्णे न दुर्गतिं गच्छति धर्मचारी //
अधर्मचारी हि नरो प्रमत्तो यां यां गतिं गच्छति अधर्मचारी / सो नं अधर्मो चरितो हनाति सामं गृहीतो यथ कृष्णसर्पो //
न हि धर्मो अधर्मो च उभौ समविपाकिनौ / अधर्मो निरयं नेति धर्मो प्रापेति स्वर्गतिं //
धर्मो हि वै रक्षति धर्मचारिं छत्रं महन्तं यथ वर्षकाले / धर्मेण गुप्तो मम धर्मपालो अन्यस्य अस्थीनि सुखी कुमारो //
सो ब्राह्मणो सपरिवारो भोजयित्वा ब्रह्मायुना ब्राह्मणेन विसर्जितो सो च ब्राह्मणो आश्रमं गतो धर्मपालं च माणवकं तहिं आश्रमे पश्यति / ते दानि सर्वे विस्मिता सुष्टु पुरोहितेन ज्ञातं //
___भगवान् आह // स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन ब्रह्मायुर् नाम ब्राह्मणो अभूषि / न खल्व् एत देवं द्रष्टव्यं / तत् कस्य हेतोः / अहं भिक्षवः तेन कालेन तेन समयेन ब्रह्मायुर् नाम ब्राह्मणः // स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन ब्रह्मायुस्य ब्राह्मणस्य धर्मपालो नाम पुत्रो अभूषि / नैतद् एवं द्रष्टव्यं / एष राहुलो तेन कालेन तेन समयेन ब्रह्मायुस्य
[_mvu_2.82_] धर्मपालो नाम पुत्रो अभुषि / तदापि एषो मया ज्ञातो एतरहिं पि मया चिरप्रनष्टा शाकियमुष्टिः ज्ञाता //
_____इति श्रीधर्मपालस्य जातकं समाप्तं //
भिक्षू भगवन्तं आहन्सुः // दूरं भगवतो इषु क्षिप्तं // बह्गवान् आह // न भिक्षवः एतरहिं एव मये दूरं इषु क्षिप्तं // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि हि भिक्षवो //
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे राजा राज्यं कारयति महाबलो महाकोशो महावाहनो कृतपुण्यो महेशाखो / तस्य दानि विस्तीर्णं राज्यं यावत् तक्षशिलां समाज्ञापयति // सो कनीयसं भ्रातरं राज्ये प्रतिष्ठापयित्वा वाराणस्या तक्षशिलायां आगतो // सो दानि तक्षशिलायां वसति / अन्येन च राज्ञा वाराणसेयो चतुरङ्गेन बलकायेन वेष्टितो // तस्य तेन भ्रातरेण वाराणसीतो तक्षशिलां दूतो प्रेषितो / आगच्छाहि इमो हं परचक्रेण उपरुद्धो // तेन राज्ञा तक्षशिलायां स्थितेन दूतानां सकाशातो श्रुत्वा भूर्जस्मिं तस्य राज्ञो येन वाराणसेयो वेठितो नामं लिखित्वा तं भूर्जं काण्डे परिवेठित्वा सूत्रेण सुनद्धं कृत्वा वाराणसीं क्षिप्तं // सो काण्डो तस्य राज्ञो पादमूले स्थित्वा पादफलकं खण्डखण्डीकृतं / सो राजा तस्य पुरुषस्य च विस्मितो / अहो उत्साहो च मुष्टिसंबन्धो च यत्र नाम वाराणस्यां स्थितेन काण्डं क्षिप्तं / इमं एवं दूरम् आगतो मम पादमूले फलके निपतितो इत्थं तेन अहं न हतो // तेन राज्ञा ततः काण्डातो मुंचित्वा तं भूर्जं वाचितं तत्र च भूर्जे एवं लिखितं //
[_mvu_2.83_] एषो ते तक्षशिलायां स्थितो पादफलखण्डणो / यदि सि न मरितुकामो ओसक्क मम राज्यतो //
सो दानि भूयस्या मात्रया भीतो त्रस्तो / अहं जानामि वाराणसीतो अयं शरो आगतो ति / तेनाहं विस्मयं प्राप्तो / अयं च तक्षशिलायां स्थितेन क्षिप्तो // सो तत्रैव स्थाने देवशरस्य देवकुलं कृत्वा तं शरं देवकुले प्रतिष्ठापेत्वा पुजासत्कारं कृत्वा सो प्रक्रान्तो //
___भगवान् आह // स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन काशिराजा अभूषि येन तक्षशिलायां स्थितेन वाराणसीं काण्डं क्षिप्तं / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं सो भिक्षवो तेन कालेन तेन समयेन काशिराजा अभूषि / तदापि मया दूरं शरो क्षिप्तो एतरहिं पि मया शरो दूरं क्षिप्तो //
_____इति श्रीशरक्षेपणं जातकं समाप्तं //
भिक्षू भगवन्तम् आहन्सुः // कथं भगवता यशोधरा शिल्पेन लब्धा // भगवान् आह // न भिक्षवो इदानिं एव मया यशोधरा शिल्पेन लब्धा अन्यदापि मया यशोधरा शिल्पेन लब्धा // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवः //
___भूतपूर्वं भिक्षवो अतीतम् अध्वावं मिथिलाया अर्धयोजनं यवकच्छकं नाम ग्रामं / तस्य यवकच्छकस्य वाह्येन एकं कर्मारग्रामं // तहिं कर्मारग्रामिकस्य धीता अमरा नाम प्रासादिका दर्शनीया च पण्डिता प्रतिभानसंपन्ना च // यवकच्छकग्रामिकस्य महौषधो नाम पुत्रो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो / तेन क्षेत्रारण्यं अण्वन्तेन अमरा कर्मारदारिका दृष्टा भक्तम् आदाय गच्छन्ती // तां
[_mvu_2.84_] महौषधो पृच्छति // भद्रे का नाम त्वं किन् ते नाम // अमरा आह // येनतथागतं नाम // महौषधो आह // भद्रे केषां त्वं // सा आह // येहि ओषिणो तेषाम् अहं // महौषधो आह // भद्रे केन गच्छसि // सा आह // यच्छत्रं तन गच्छामि // महौषधो आह // भद्रे कहिंगमि // अमरा आह // संश्रितायान्तं तहिंगमि // अथ खलु महौषधो अग्रपण्डितो अमरां कर्मारदारिकां गाथया अध्यभाषे //
अमरा नूनं ते नाम कर्मारस्यासि दारिका / चित्तेन भूतं प्रजानासि क्षेत्रं वो दक्षिणादिशि //
तस्या दानि दारिकाये च त्रयो व शीर्षो अक्षी च अंजिता वस्त्रा च शुद्धा क्षुद्राये च य्वागूये घटिका हस्ते // अथ खलु महौषधो अग्रपण्डितो अमरां कर्मारदारिकां गाथाये अध्यमाषे //
केन ते अंजितं शीर्षं केनं अक्षी अंजिता च ते / वस्त्रा च केन ते शुद्धा य्वागु क्षुद्रा च केन ते //
अथ खलु अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथाये अध्यभाषे //
सुतैला . . . . . शीर्षं अभ्यंजनं च लासकं / वस्त्र-अवस्त्रता शुद्धा य्वागू क्षुद्रा च नोदको //
अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया अध्यभाषति //
यदि तं नूनं ते तैलं अंजनं चापि लोलिका / वस्त्रा च उत्सविका ते अल्पे देवेन वर्षिता //
[_mvu_2.85_] सा दानि कर्मारदारिका भक्तस्य रसकुण्डं पाण्डराये शाटिकाये ओछन्नं वर्षेण आदाय गच्छति // अथ खलु महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथाये अध्यभाषति //
तुवं यम् एतं हिमपाण्डरेण छन्नं कुण्डं हरसि जीवनाये / पृच्छामि ते अभरे एतम् अर्थं कस्य तं भक्तं हरसि मनोज्ञे //
अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथाये प्रत्यभाषे //
. . . . . . . . . . . . . . . . . . . . . . . . भक्तं हरामि पादपे //
अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथायां प्रत्यभाषे //
पिता ते वर्षत्रिंशत्को नेलायको पितामहो / दशवर्षासि जातीये एवं धारेमि दारिके //
महौषधो आह //
यस्मिं प्रवुत्थे दुःखिता ते माता भवति दुर्मना / ते तं माता च मार्गते कहिं सो अमरे गतो //
अथ खलु भिक्षवः अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषे //
यत्र मृताश् च श्वसन्ति दग्धो च पुन दह्यति / ज्ञातिभिर् वध्यते ज्ञातिस् तत्र मह्यं पिता गतो //
[_mvu_2.86_] अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषे //
कर्मारभस्त्राः श्वसन्ति अंगारं पुन दह्यति / लोहं लोहेन पीडेति कर्मारशालां पिता गतो //
मार्गं पृच्छिता आख्याहि क्षेमं अकुटिलं ऋजुं / अकण्टकं च नो भद्रे गंसामि यवकच्छकं //
अथ खलु भिक्षवो कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषे //
येन सप्ताभिरंगा च द्विगुणप्लाशा च पादपाः / येन अशेशि न तेन व्रजेसि न तेन अशेसि //
एषो मार्गो यवकच्छकस्य यदि पण्डितो सि जानाहि // अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथाये प्रत्यभाषे //
यतो यवा कदाख्या च कोविदारा च फुल्लिता / वामं मार्गं ग्रहेत्वान गच्छामि यवकच्छकं //
अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषति //
गच्छ ब्राह्मण मार्गेण भक्तो तं भक्षयिष्यसि / पितॄहि पुत्रा सिध्यन्ति तेषां मासेन भोक्ष्यसि //
अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषे //
शुष्कं इन्धनं वेणूहि करीरं तत्र सिध्यति / तेषां मासेन भोक्ष्यामि एष गंसामि वो गृहं //
[_mvu_2.87_] अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं मःआप्राज्ञं गाथया प्रत्यभाषति //
वस ब्राह्मण मो गृहे यज्ञो यम् अत्र भेष्यति / माता मे देवराजेन महायज्ञं यजिष्यति //
अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषति //
मातु ते देवराजस्य यं यजितं यजिष्यति / तं यज्ञम् अनुभेष्यामि एष गंसामि ते गृहं //
अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां मातापितॄणां सकाशातो भार्यार्थं याचयति // ते अमराये मातापितरा आहंसु // न वयं दारिकाम् अकर्मारस्य ददाम //
___महौषधो च भिक्षवो महाप्राज्ञो सर्वशिल्पेहि अभिज्ञो / तस्य भवति // किं कर्माराणां सर्वचूर्णकर्मं / सूचीयो / कर्मारो यो शक्नोति सूची पि कर्तुं सो आचरियो // महौषधेन कोशप्रक्षिप्ता सूची कृता एकत्र कोशके सप्त सूचीयो प्रक्षिप्यन्ति / ते सर्वे अष्ट सूचीयो एका सूची भवन्ति / सापि एका अष्ट सूचीयो भवति // महौषधो तां सूचीम् आदाय तं कर्मारग्रामं गतो विक्रिणितुं // कर्मारग्रामिकस्य पथा गत्वा घोषेति // सूची विक्रेया यस्य कार्यं स क्रिणातु //
निक्कट्टकच्छा सुकृता तीक्ष्णाग्रा वट्टयासिका / सूची कर्मारग्रामस्मिं विक्रीणामि विक्रीथ मे //
[_mvu_2.88_] सा दारिका महौषधस्य शब्दं श्रुत्वा निर्धाविता / सा महौषधं गाथया अध्यभाषे //
अत्र शक्तीयो क्रियन्ति नाराचा अथ तोमरा / इहैव तानि क्रियन्ति सूचीयो वडिशानि च //
उन्मत्तको सि पुरुष अथवासि विचित्तको / यो त्वं कर्मारग्रामस्मिं सूची क्रिणितुम् इच्छसि //
अथ खलु महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषि //
सूची कर्मारग्रामस्मिं विक्रेतव्या प्रजानता / आचार्या एव जानन्ति कर्मं सुकरदुष्करं //
सचेत् ते भद्रे जानेया पिता सूची मया कृता / स्वयं व मे प्रवारेया प्रत्तं ते च पितु वरं //
अथ खलु भिक्षवो अमरा कर्मारदारिका पितरं गाथया अध्यभाषति //
इमं तात निशामेहि शिल्पको यथ भाषति / कर्मारपुत्रो निपुणो कुशलो सूचिकारको //
अथ खलु भिक्षवो अमराये कर्मारधीताये पिता तां सूचिं दृष्ट्वा विस्मयमापन्नो // सो तां धीतरम् आदाय महौषधं महाप्राज्ञं गाथाये अध्यभाषति //
न मे श्रुता वा दृष्टा वा सूची एतादृशा मया / तुष्टो स्मि एतेन कर्मेण इमां कन्यां ददामि ते //
[_mvu_2.89_] भगवान् आह // स्यात् खलु पुनर् भिक्षवः युष्ंआकम् एवं अस्याद् अन्यः स तेन कालेन तेन समयेन महौषधो महाप्राज्ञो / न खल्व् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं सो भिक्षवः तेन कालेन तेन समयेन महौषधो नाम अभूषि // स्यात् खलु पुनः भिक्षवो युष्माकम् एवम् अस्याद् अन्यस् स तेन कालेन तेन समयेन कर्मारग्रामिको अभूषि / न खलु एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवः महानामशाक्यो तेन कालेन तेन समयेन सो कर्मारग्रामिको अभूषि // स्यात् खलु पुनर् भिक्षवर् युष्माकम् एवम् अस्याद् अन्या सा तेन कालेन तेन समयेन अमरा नाम कर्मारग्रामिकधीता अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषा सा भिक्षवो यशोधरा तेन कालेन तेन समयेन कर्मारधीता अभूषि // तदापि एषा मया शिल्पेन लब्धा एतरहिं पि मया शिल्पेन लब्धा //
_____समाप्तं अमराये कर्मारधीताये जातकं //
भिक्षू भगवन्तम् आहन्सुः // वीर्येण भगवता यशोधरा लब्धा // भगवान् आह // न भिक्षवो एतरहिं एव मया यशोधरा वीर्येण लब्धा अन्यदापि मया एषा वीर्येण लब्धा // भिक्षू भगवन्तम् आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवः //
___भूतपूर्वं भिक्षवः अतीतमध्वाने वारवालिनगरे ब्राह्मणः त्रयाणां वेदानां पारगो सनिर्घण्ठकैठभानां इतिहासपंचमानां अक्षरपदव्याकरणे कुशलो सो यं आचार्यो ब्राह्मणवेदेषु पंच माणवकशतानि वेदां मन्त्रां वाचयति // तस्य दानि ब्राह्मणस्य शिरिर् नाम धीता प्रासादिका दर्शनीया परमाये शुभाये वर्णपुष्करताये समन्वागता //
[_mvu_2.90_] तस्येदानि ब्राह्मणस्य समुद्रपट्टने यज्ञं कारयन्तेन याज्येन तस्य उषाध्यायस्य प्रेषितं / स्वयं वागच्छे कंचिद् वा प्रेषेहि अर्थमात्रं ते दास्यामि // सो तेषां पंचानां वटुकशतानाम् आह // को वो त्र उत्सहति समुद्रपट्टनं गन्तुं अमुकस्य सार्थवाहस्य मूलं / यो गमिष्यति तस्य शिरिकां माणविकां दास्यामि // तत्र माणवको पण्डितो च उत्थानवन्तो च वीरियवन्तो च / तस्य तहिं शिरिये अधिमात्रं प्रेमं / सो उत्सहितो उपाध्याय अहं गमिष्यामि // सो तेन उपाध्यायेन लेखं दत्त्वा यानपात्रम् अरुहिय विसर्जितो //
___सो अनुपूर्वेण समुद्रपट्टनं गतः / तेन तं लेखं तस्य सार्थवाहस्य उपनामितं // तेन सार्थवाहेन तम् उपाध्यायस्य लेखं वाचेत्वा रत्नानि च हिरण्यसुवर्णं दत्त्वा विसर्जितो // सो ततो पि समुद्रपट्टनातो यत्र काले यानपात्रे वारवालिं प्रस्थितो सो तेन यानपात्रेण अनुपूवेण वारवालिं आगतो / सो दानि ततः यानपात्रातो प्रतिनावं आरुहिष्यतीति / संमर्दे च समाने सा पोटलिका समुद्रे पतिता // तस्य माणवस्य भवति / इयं मया ईदृशेन यत्नेन समुद्रपट्टनातो आनेत्वा इह प्रतिनावं आरुहन्तेन समुद्रे पतिता ति / को अत्र उपायो भवेय येन एतं धनं लभेयं / नास्ति अन्यो उपायो नान्यत्र एतं समुद्रं उत्सिञ्चामि // सो लोहवद्धकं तत्तकं आदाय समुद्रकूलम् आगतः / सो समुद्रकूले वद्धकं निक्षिपित्वा कच्छां बन्धति समुद्रदेवता च ब्राह्मणवेषेण उपसंक्रमित्वा आहन्सुः // किम् इदं // माणव आह // उत्सिचामि
[_mvu_2.91_] महोदधिं // ब्राह्मण आह // महोदको न शक्ष्यति उत्संचितुं // माणवो आह //
दीर्घा ब्रह्मा अहोरात्रा लोहवर्धं च तत्तकं / दक्षस्य अप्रमत्तस्य न शिरी भवति दुर्लभा //
शृणोथ वीर्यं पुरुषोत्तमस्य बलं च स्थामं च पराक्रमं च / यं माणवो पि पुरिमासु जातिषु एतस्य अर्थे अवतीर्णो सागरं //
तदा मणि तस्य प्रणष्टम् आसीत्* सो व बभाषे क्षपयिष्य सागरं / करोथ यत्नं यं मणिं लभेयं मा अनपेक्षी दुःखिता भविष्यथ //
सुवर्णनागासुरयक्षराक्षसा त्रस्ता अभू यानि समुद्रमध्ये / यथा च मेघानि समाकुलानि निनादनिर्घोषं विनिश्चरन्ति //
अथ देवता उग्गमि सागरातो संत्रस्ता व्यवलोकयति चतुर्दिशं / सा अद्दसासि माणवम् उत्सहन्तं उत्सिञ्चितुं क्षपयितुं च सागरं //
सा उत्तरित्वा पुरतो तम् अब्रवीत्* किं माणव मार्गसि सागरातो /
[_mvu_2.92_] आख्याहि अस्माकं वयं अपि अनु- दास्याम मापद्य विहन्यमानः //
मणी मम देवते अत्र नष्टो सो हं गवेषामि महासमुद्रे / आपं क्षपित्वान मणिं लभेयं तस्यार्थम् उत्सिंचि महासमुद्रं //
बहूनि बालानि चरन्ति लोके अर्थे च धर्मेषु च विप्रमूढा / तुवं पि भो परमबुद्धि माणव यं दुर्लभं लोकि तुवं गवेषसि //
अशीति पूगा चतुरो च वारिणो निर्याति यस्यापि न तेन ज्ञायति / हेष्टा च तोयस्य अनन्तपाणी कथं तुवं उत्सहसे क्षपेतुं //
उपेन्ति यत्र बहवो स्रवन्तियो वृष्टि अनन्ता प्रपतन्ति सागरो / आवासभूतो च महर्द्धिकानां कथं तु उत्सर्यति धर्मशास्त्रं //
यस् त्वं अकर्मं कुरुषे दुर्बुद्धिः सखिन्नगात्रो नचिरेण भेष्यसि / तडागमात्रं न प्रभोसि शोषितुं नैव तुह्यं प्रतिरूपं माणवा //
[_mvu_2.93_] यं चोदयित्वा परिभाषि देवते तत्रार्थं पशामि ते छिन्नसागरं / श्रोतं न खनेय न मूलम् उद्धरेत्* न त्व् अन्तरं यस्य न पारम् उत्तरेत्* //
नाहं कुशीदो स्वमणिं त्यजेयं धनं हरित्वाहं शमेयं वीर्यं / करोन्तु भूता वचनं ममेह तथा भणेयं न तथा भणेयं / हुताशनं प्रज्वलितं न संनमे सचन्द्रतारां परिवर्तये महीं //
[सा देवता तत्र विचिन्तयन्ति] दातव्यं मे तं मणि माणवस्य यथा न एषो क्षपये समुद्रं / एषो च गृह्यान मणिं प्रणीतं गच्छे माणव सिद्धयानपात्रो //
सर्वत्र वीर्यवान् साधु कुशीदो दुःखं जीवति / सो यं वीर्यप्रभावेन धनम् आदाय गच्छति //
पूर्वेनिवासं भगवान् पूर्वेजातिम् अनुस्मरन्* / जातकम् इदम् आख्यासि शास्ता भिक्षुणम् अन्तिके //
ते स्कन्धा तानि धातूनि तानि आयतनानि च / आत्मानं च अधिकृत्य भगवान् तम् अर्थं व्याकरे //
[_mvu_2.94_] अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा / माणवको तदा आसि शिरि आसी यशोधरा / एतम् अर्थं विजानेत्वा एवं धारेथ जातकं //
एवम् इमं अपरिमितं बहुदुःखं उच्चनीचचरितं पुराणं विगतज्वरो विगतभयो अशोको स्वजातकं भगवां भाषति भिक्षुसंघमध्ये // भगवान् आह // स्यात् खलु पुन भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन माणवको भवति यस्य तं महासमुद्रे धनं पतितं / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं सो भिक्षवो तेन कालेन तेन समयेन माणवको अभूषि // स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्या सा तेन कालेन तेन समयेन वारवालीनगरे ब्राह्मणस्य शिरि नाम सा मानवकधीता अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषा सा भिक्षवः यशोधरा तेन कालेन तेन समयेन वारवालिये नगरे ब्राह्मणस्य शिरि नाम धीता अभूषि / तदापि मया एषा वीर्येण लब्धा एतरहिं पि एषा मया वीर्येण लब्धा //
_____इति श्रीशिरिजातकं समाप्तं //
भिक्षू भगवन्तम् आहन्सुः // भगवता यशोधरा खेदेन लब्धा // भगवान् आह // न भिक्षवो इदानीम् एव यशोधरा खेदेन लब्धा अन्यदापि एषा मया महता खेदेन महता श्रमेण महता वीर्येण लब्धा // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवो //
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं हस्तिनापुरे राजा सुबाहुर् नाम राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो षष्टिनगरसहस्राणाम् ईश्वरो //
[_mvu_2.95_] तस्य सुधनुर् नाम कुमारो एकपुत्रो प्रासादिको दर्शनीयो रूपवान् कृतपुण्यो महेशाख्यो गुणवान् मातृज्ञो पितृज्ञो पित्रा सुबाहुना युवराज्ये प्रतिष्ठापितो // सो अमात्येहि सार्धं तानि पैतृकानि नगरसहस्राणि परिपालेति // राजा सुबाहुः राजकृत्यतो ओधृतभारो राजकुले उपरिप्रासादवरगतो निर्वृतो आसति / तस्य दानि राज्ञो सुबाहुस्य आसन्नराजा सुचन्द्रिमो नाम वयस्यो सन्निकृष्टो सिंहपुरे नगरे राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो // तस्य दानि राज्ञो सुचन्द्रिमस्य महायज्ञो प्रत्युपस्थितो / सर्वभूतेहि यज्ञं यजिष्यामि / तेन यत्तका विजितवासिनो लुब्धकाः तेषाम् आणत्ती दिन्ना / सर्वभूतेहि यज्ञं यजिष्यामि / ये ते स्थलचराः प्राणा अपदा वा द्विपदा वा चतुर्पदा वा बहुपदा वा तानि सर्वाणि प्राणकजातीनि समानेथ // निषादा पि उद्दिष्टाः / ये केचिज् जलचरा प्राणाः तेन उपस्थपेथ सर्वभूतेहि यज्ञं यजिष्यामि //
मनसा देवानां वचसा पार्थिवानां / नचिरेणाढ्यानां कर्मणा दरिद्राणाम् इति //
राज्ञो वचनमात्रेण लुब्धकेहि च निषादेहि च जलचरा च स्थलचरा च प्राणकजातीयो समानीता महं च वाटं मापेत्वा तत्र तानि स्थलचराणि प्राणकजातीनि उपरुद्धानि / यानि पि जलचराणि तानि समानेत्वा पुष्करिणीयं ओरुद्धानि / किन्नरीवर्जितं सर्वप्राणकजातीयो समानीताः //
___अथ खलु राज्ञो सुचन्द्रिमस्य यं कालं यज्ञवाटो सर्वोपकरणेहि सज्जीकृतो ततो शीर्षस्नातो आहतवस्त्रनिवस्त्रो उपरिप्रासादवरगतो गन्धपुष्पधूपैर् अर्चनं कृत्वा चतुर्दिशम् अंजलिं प्रणामेत्वा येन भगवन्तः पुरस्तिमदक्षिणपश्चिमोत्तराये दिशाये
[_mvu_2.96_] ऋषयो चतुर्ध्यानलाभिनो पंचाभिज्ञा महर्द्धिका महानुभावा अन्तरीक्षचरास् तान् अहं यज्ञवाटे निमन्त्रयामि // तत्र दानि ये ऋषयो चतुर्ध्यानलाभिनः पंचाभिज्ञा महर्द्धिका महानुभावा ते समन्वाहरित्वा वैःआयसेन ऋद्ध्या यज्ञवाटं गताः // सो दानिं राजा सुचन्द्रिमो तान् ऋषीं यज्ञवाटे आगतां दृष्ट्वा प्रमुदितो प्रीतिसौमनस्यजातो पादाभिवन्दनं कृत्वा एतद् उवाच // प्रत्यवेक्षन्तु भगवन्तो यज्ञवाटं किं परिपूर्णं न वेति // ते दानि ऋषयः प्रत्यवेक्षित्वा राजानं सुचन्द्रिमम् एतद् उवाच // महाराज सर्वो परिपूर्णो यज्ञवाटो एकेन अङ्गेन ऊनो // राजा आह // कतमेन अङ्गेन ऊनो // ऋषयो आहु // देव किन्नरीये ऊनो // अथ खलु राजा सुचन्द्रिमो लुब्धकान् आह // तेषाम् ऋषीणां भगवतां यज्ञवाटे किन्नरीये अर्थो तं गच्छथ यत्नं करोथ यथा मम किन्नरीं आनेथ // तहिं दानि यो तेषां लुब्धकसहस्राणां सर्वप्रधानो लुब्धको वीर्येण च लबेन च पौरुषेण च सो तेहि लुब्धकेहि सर्वगणेन उत्साहितो / त्वं प्रतिबलो किन्नरीं समर्थो आनयितुं // स लुब्धको गणेन उत्साहितो समानो राज्ञा च सुचन्द्रिमेन धनुकलापम् आदाय अनुहिमवन्तं प्रविष्टः //
___तहिं अन्यतरं हिमवन्ते पश्यति ऋषिस्य आश्रमं रमणीयं मूलपत्रफलोपेतं // सो तं ऋषिम् उपसंक्रान्तो ऋषिस्य पादवन्दनं कृत्वा स्थितः ऋषिणा एहि स्वागतवान् इति आचष्टो स्वागतन् ते एतां शिविकां निषीदाहि // ऋषिणा तस्य लुब्धकस्य सारायणीयं कृतं / यथा ऋषिधर्मो फलोदकम् उपनामितं // सो दानि फलानि परिभुंजिय पानीयं पिबित्वा तत्र आसति / तत्र च ऋषिस्य मूले अश्रुतपूर्वं च मधुरं गीतशब्दं शृणोति // सो तं ऋषिं पृच्छति // भगवं कस्य एतं एवं मनोज्ञं गीतशब्दं
[_mvu_2.97_] देवकन्यानां नागकन्यानां // ऋषि आह // न एतं देवकन्यानां गीतशब्दं न नागकन्यानां किन्नरीनां एतं गीतशब्दं // सो दानि तम् ऋषिं पृच्छति // भगवन् इमं गीतशब्दं श्रूयते न च दृश्यन्ति / कहिं वा गायन्ति // ऋषि आह // इमस्य आश्रमस्य उत्तरे पार्श्वे महापद्मिनी तहिं सर्वार्तुकानि सर्वकालिकानि उत्पलकुमुदपदुमपुण्डरीकसौगन्धिकानि / तत्र कैलासातो पर्वतातो द्रुमस्य किन्नरराज्ञो मनोहरा नाम धीता बहूहि किन्नरेहि किन्नरीहि च परिवृता एतां पद्मिनीं क्रीडार्थम् आगच्छति // सो पण्डितो लुब्धको तम् ऋषिं उपायेन पृच्छति // आह // भगवं श्रुणीयति अस्ति केचित्* मनुष्या किन्नरीहि सार्धं क्रीडन्ति परिचारेन्ति / कथन् ते मनुष्याणां किन्नरीयो वशगता भवन्ति // ऋषि आह // सत्यवाक्येन एता बध्यन्ति न शक्नोन्ति अन्तरहायितुं // माधुर्येण च ऋषिणा असमन्वाहरित्वा ऋजुभावेन आचक्षितं न जानाति किन्नरीये एतस्य अर्थो ति //
___सो दानि लुब्धको तस्य ऋषिस्य अभिवादनं कृत्वा तं पद्मसरं गतो यत्र सा द्रुमस्य किन्नरराज्ञो धीता क्रीडति // ता दानि किन्नरीयो गीतकृत्ये प्रमत्ता जलदर्दरके च तं लुब्धकं न पश्यन्ति / सा च तत्र मनोहरा सर्वप्रधाना रूपेण च स्वरेण च // तेन लुब्धकेन श्रवणपथे स्थितेन सा मनोहरा सत्यवाक्येन बद्धा //
धीता त्वं किन्नरराजस्य द्रुमराज्ञो यशस्विनी / एतेन सत्यवाक्येन तिष्ठ बद्धासि किन्नरी //
यथा त्वं द्रुमराजस्य धीता द्रुमेण राज्ञा संवृद्धा / सत्यवचनेन भद्रे मनोहरे मा पदं गच्छ //
सा दानि मनोहरा तेन लुब्धकेन सत्यवाक्येन बद्धा न शक्नोति अन्तरहायितुं / ते अन्ये हि किन्नरा च किन्नरी च सर्वे समन्तरहिता //
[_mvu_2.98_] सा दानि मनोहरा तेन लुब्धकेन सिंहपुरम् आनीता / तहिं यज्ञवाटं प्रवेशिता // किन्नरीं दृष्ट्वा राजा सुचन्द्रिमो महां च जनकायो तस्य लुब्धकस्य प्रीतो संवृत्तो // लुब्धकेन विपुलो आच्छादो लुब्धो // सा बद्धा पाशेहि आनीता सुचन्द्रिमस्य सिंहपुरं ब्राह्मणपुरं संवृत्तं यज्ञवाटं समभिनीता // राज्ञा सुचन्द्रिमेण यज्ञस्य समुपकरणं सज्जेत्वा राज्ञो सुबाहुस्य हस्तिनापुरं दूतो प्रेषितो / सर्वभूतेहि महायज्ञं यजिष्यामि आगच्छ / इह अनुमोदाहि // राज्ञा सुबाहुना पुत्रो सुधनुकुमारो विसर्जितो / गच्छ सिंहपुरं सुचन्द्रिमो राजा यज्ञं यजिष्यति तं अनुमोदाहि //
___सुधनुकुमारो सिंह्पुरम् आगतो अन्यान् अपि बहूनि राजान शतानि / सर्वेषां च सुधनुकुमारो सर्वप्रधानो रूपेणापि तेजेनापि परिवारेणापि गन्धेनापि // सुधनुकुमारो तं यज्ञवाटं प्रविष्टः बहूहि राजान शतेहि परिवृतो // तेन तत्र यज्ञवाटे तानि बहूनि प्राणिसहस्राणि दुष्टानि स्थलचरजलचराणि / सापि किन्नरी दृष्टा // पश्यन्तस्यैव सुधनुस्य कुमारस्य किन्नरीये उदारं प्रेमं निपतितं किन्नरीये पि सुधनुस्य प्रेमं निपतितं // यथोक्तं भगवता सूत्रपदे //
पूर्वे वा संनिवासेन प्रत्युत्पन्ने हितेन वा / सर्वातं जायते प्रेमं उत्पलं वा यथोदके //
एवन् तेषां परस्परं दर्शनमात्रेण प्रेमं संजातं // सुधनुकुमारो राज्ञो सुचन्द्रिमस्य पृच्छति // किस्य इमे एत्तका प्राणसहस्रियो यज्ञवाटे उपरुद्धायो // सो राजा आह // एतेहि यज्ञं यजिष्यामि एतेन च प्रभूतेन खादनीयभोनीयेन // कुमारो
[_mvu_2.99_] पृच्छति // एतस्य यज्ञस्य किं फलं किं गुणनिर्वृत्ति / केदृशम् एतेन यज्ञगुणं निर्वर्तयिष्यति इमं एत्तकं प्राणवधं कृत्वा // राजा आह // एते यत्तका प्राणजाती अत्र यज्ञे हनिष्यन्ति सर्वे स्वर्गं गमिष्यन्ति / अहं च यत्तका एते प्राणा एत्थ यज्ञे हनिष्यन्ति तत्तकां वारां स्वर्गे उपपद्यामि // कुमारो आह // महाराज न एवं एतं मिथ्यादृष्टि एषा अहिंसा परमं धर्मं // प्राणातिपातो अधर्मो प्राणातिपातवैरमणो धर्मो / अदिन्नादानो अधर्मो अदत्तादानवैरमणो धर्मो / कामेषु मिथ्याचारो अधर्मो कामेषु मिथ्याचारवैरमणो धर्मो / सुरामैरेयमद्यपानं अधर्मो सुरामैरेयमद्यपानातो वैरमणो धर्मो / मृषावादो अधर्मो मृषावादातो वैरमणो धर्मो / पिशुनवाचा अधर्मो पिशुनवाचातो वैरमणो धर्मो / संभिन्नप्रलापो अधर्मो संभिन्नप्रलापातो वैरमणो धर्मो / अविद्या अधर्मो अविद्यातो वैरमणो धर्मो / व्यापादो अधर्मो व्यापादातो वैरमणो धर्मो / मिथ्यादृष्टि अधर्मो सम्यग्दृष्टि धर्मो // दश कुशला कर्मपथा धर्मो // दशहि महाराज अकुशलेहि कर्मपथेहि समन्वागताः सत्वा नरकेषूपपद्यन्ति / दशहि कुशलेहि कर्मपथेहि समन्वागताः सत्वा स्वर्गेषूपपद्यन्ति // तद् एवं महाराजेन न एष स्वर्गाणां पथो गृहीतो नरकेषु गमनाय एष पथो गृहीतो // एवं सुधनुस्य कुमारस्य धर्मदेशनां श्रुत्वा राजा सुचन्द्रिमो ते च सर्वे राजानो सर्वो मःआजनकायो प्रीतो / तेन राज्ञा सुचन्द्रिमेण सुधनुस्य कुमारस्य धर्मदेशनां श्रुत्वा ते सर्वे प्राणकजातीयो जलचरा च स्थलचरा च ओसृष्टा //
[_mvu_2.100_]___मनोहरा किन्नरी सुधनुस्य कुमारस्य अल्लीना / सर्वं च किन्नरभवनं मनसि न वर्तति सुधनस्य प्रेमेन // सुधनुस्यापि अन्या क्रीडातीयो मनसि न वर्तन्ति मनोहराये प्रेमेन // राज्ञापि सुचन्द्रिमेण यथा सुधनुना कुमारेण संदिष्टं तथा निर्गडं यज्ञं अनवद्यं // अनेकानि श्रमणब्राह्मणकृपणवणीपकसहस्राणि अन्नपानेन सन्तर्पिताः आच्छादनेहि आच्छादिताः // वृत्ते यज्ञे सुधनुकुमारो मनोहराये सार्धं हस्तिस्कन्धवरगतो महता परिवारेण महता समृद्धीये महता समुदयेन महता विभूषाये सिंहपुरातो हस्तिनापुरं गतो //
___कुमारस्य हस्तिनापुरं प्रविशन्तस्य नगरं हस्तिनापुरं अलंकृतं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं सिक्तसंमृष्टं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु नटनर्तक-ऋल्लमल्लपाणिस्वर्याकुम्भथूनिका // एवं सुधनुकुमारो महता समृद्धीये महता समुदयेन मनोहराये सार्धं हस्तिस्कन्धवरगतो हस्तिनापुरं प्रविष्टो // तेन कुमारेण सर्वा राजकन्या ओसृष्टा मनोहराये सार्धं क्रीडते व // राज्ञो सुबाहुस्य षष्टीहि नगरसहस्रेहि कार्यसहस्राणि परिहायन्ति अनेकसहस्राणि निवर्तन्ति // नैगमजानपदेहि राजा सुबाहु विज्ञप्तो / महाराज सुधनुकुमारो मनोहराये किन्नरीये प्रमत्तो अर्थार्थानि न समनुशासति राजकार्याणि परिहायन्ति षष्टीहि नगरसहस्रेहि अनेकसहस्राणि निवर्तन्ति // राज्ञा सुबाहुना सुधनुकुमारो शब्दापितो // पुत्र जान्पदा ओरवन्ति / अर्थार्थानि न समनुशाससि यथापुर्वं मनोहराये किन्नरीये प्रमत्तो विहरसि विसर्जेहि पुत्र एतां किन्नरीं अनुजानाहि
[_mvu_2.101_] तां गमनाये // सो कुमारो मनोहराये तृष्णाजालेन बद्धको न ताम् अनुजानाति / पितरे पुनः पुनर् उच्चति / पुत्र विसर्जेहि एतां किन्नरीं अन्यानि ते राजकन्यानि यत्तकानि जल्पसि तत्तकानि आनयिष्यामि // सो कुमारो पुनर् पुनः तेन पितुना उच्यन्तो न विवर्जयति // अमात्या च पुनः पुनः राज्ञो सुबाहुस्य निवेदेन्ति // महाराज सुधनुकुमारो मनोहराये किन्नरीये प्रमत्तो राजकार्याणि न करोति बहूनि राजकार्याणि परिहायन्ति // राज्ञा च अमात्या आणत्ता उपरुन्धथ कुमारं // सो अमात्येहि राजाणत्तीये उपरुद्धो // उपरुद्धेन कुमारेण गृहं निःश्रेयं संवृत्तं सर्वा लक्ष्मी अन्तरहिता / मनोहरा स्वयं सुबाहुना अनुज्ञाता निरतिं किन्नरनगरं गमनाय / मनोहरे गच्छ अनुज्ञातासि येन सुखानि शीतलानि वनानि मातापितॄणां सकाशं //
___सा दानि सर्वालंकारविभूषिता ततः प्रासादतो ओतरिता / ताये ओतरन्तीये बहूनि स्त्रीसहस्राणि सुधनुस्य रोदन्ति मनोहराये शोकेन / हस्तिनापुरे जनपदस्य अन्तरं नास्ति वामदक्षिणेन हस्तेन मनोहराये हस्तिनापुरातो निष्क्रमन्तिये / वामदक्षिणातो अंजलिसहस्राणि प्रतीच्छमाना गन्धमाल्येन पूजियमाना स्त्रीसहस्रेहि बहुना च जनकायेन अनुगच्छियमाना सा दानि हस्तिनापुरातो निर्यात्वा जनकायस्य विसर्जनं कृत्वा उत्तरामुखं येन हिमवां पर्वतराजा तेन प्रणता उपगच्छति च उत्तरामुखं येन च हस्तिनापुरं तेन सुधनुं अवलोकेति // तहिं च अनुहिमवन्ते शतद्रुनदीकूले दुवे लुब्धकपुत्रा मृगव्यां अण्वन्ति / एको लुब्धकपुत्रो
[_mvu_2.102_] उत्पलको नाम द्वितीयो लुब्धकपुत्रो मालको नाम // तेहि दृष्टा मनोहरा किन्नरी दूरतो आगच्छन्ती सर्वालंकारविभूषिता अक्षुद्रानुलेपना अमिलानगन्धमाल्या पुनर् पुनः पृष्ठतोमुखी अवलोकयन्ती आगच्छन्ती // तेहि सा किन्नरी प्रत्यभिज्ञाता // ते कृतांजलिपुटा प्रनिपतिता पृच्छन्ति //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
