Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

महावदानसूत्र

Thông tin
GRETIL — Takamichi Fukita: The Mahāvadānasūtra, A New Edition Based on Manuscripts Discovered in Northern Turkestan. Göttingen 2003 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 10).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

महावदानसूत्र

i. प्रोलोगुए

एवं मया श्रुतम् एकस्मिं समये भगवां श्रावस्त्यां विहरति जेतवने अनाथपिण्डदारामे /

अथ संबहुलानां भिक्षूणां करीरिकमण्डलवाटे संनिषण्णानां संनिपतितानाम् अयम् एवंरूपो ऽभूद् अन्तराकथासमुदाहारः

आश्चर्यम् आयुष्मन्तो यावच् च भगवतः अतीतेषु सम्यक्संबुद्धेषु अतीतांशभावगतेषु छिन्नवर्त्मसु छिन्नपुटेषु निष्प्रपंचेषु प्रपंचातीतेषु परिनिर्वृतेषु कारुणिकेषु निराशिषेषु एवं सम्यक् प्रत्यात्मं ज्ञानदर्शनं प्रवर्तते / एवंशीला बत ते बुद्धा भगवंतो बभूवुर् इत्य् अपि एवंधर्माण एवंप्रज्ञा एवमभिज्ञा एवंविमुक्तय एवंविहारिणो बत ते बुद्धा भगवन्तो बभूवुर् इत्य् अपि /

किं नु भगवतो धर्मधातुः सुप्रतिविद्धः आहो स्विद् देवता आरोचयंति येन तथागतस्यातीतेषु सम्यक्संबुद्धेषु अतीतांशभावगतेषु छिन्नवर्त्मसु छिन्नपुटेषु निष्प्रपंचेषु प्रपञ्चातीतेषु (mav 32) परिनिर्वृतेषु कारुणिकेषु निराशिषेषु एवं सम्यक् प्रत्यात्मं ज्ञानदर्शनं प्रवर्तते एवंशीला बत ते बुद्धा भगवंतो बभूवुर् इत्य् अप्य् एवंधर्माण एवंप्रज्ञा एवमभिज्ञा एवंविमुक्तय एवंविहारिणो बत ते बुद्धा भगवंतो बभूवुर् इत्य् अपि /

इयंतेषां संबहुलानां भिक्षूणां करीरिकमण्डलवाटे संनिषण्णानां सन्निपतितानाम् अन्तराकथा विप्रकृता /

अश्रौषीद् भगवां दिवाविहारोपगतो दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुषेण श्रुत्वा च पुनस् तस्मात् समाधेर् व्युत्थाय येन करीरिकमण्डलवाटस् तेनोपजगाम उपेत्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त्ऽ; एवासन्ने न्यषीदत्

निषद्य भगवां भिक्षून् आमन्त्रयति का नु युष्माकं भिक्षवः संबहुलानां भिक्षूणां करीरिकमण्डलवाटे संनिषण्णानां संनिपतितानाम् अन्तराकथा विप्रकृता कया चापि कथयैतर्हि सन्निषण्णाः संनिपतिताः

इहास्माकं भदन्त संबहुलानां भिक्षूणां करीरिकमण्डलवाटे संनिषण्णानां संनिपतितानाम् अयम् एवंरूपो ऽभूद् अन्तराकथासमुदाहारः आश्चर्यम् आयुष्मंतो यावच् च भगवतः अतीतेषु सम्यक्संबुद्धेषु अतीतांशभावगतेषु छिन्नवर्त्मसु छिन्नपुटेषु निष्प्रपञ्चेषु प्रपञ्चातीतेषु परिनिर्वृतेषु कारुणिकेषु निराशिषेषु एवं सम्यक् प्रत्यात्मं ज्ञानदर्शनं प्रवर्तते एवंशीला बत ते बुद्धा भगवन्तो बभूवुर् इत्य् अपि एवंधर्माण एवंप्रज्ञा एवमभिज्ञा एवंविमुक्तय एवंविहारिणो बत ते बुद्धा भगवन्तो बभूवुर् इत्य् अपि / किं नु भगवतो धर्मधातुः सुप्रतिविद्ध आहो स्विद् देवता आरोचयंति येन (mav 34) तथागतस्यातीतेषु सम्यक्संबुद्धेषु अतीतांशभावगतेषु छिन्नवर्त्मसु छिन्नपुटेषु निष्प्रपञ्चेषु प्रपञ्चातीतेषु परिनिर्वृतेषु कारुणिकेषु निराशिषेषु एवं सम्यक् प्रत्यात्मं ज्ञानदर्शनं प्रवर्तते एवंशीला बत ते बुद्धा भगवन्तो बभूवुर् इत्य् अपि एवंधर्माण एवंप्रज्ञा एवमभिज्ञा एवंविमुक्तय एवंविहारिणो बत ते बुद्धा भगवंतो बभूवुर् इत्य् अपि / इयम् अस्माकं भदंत संबहुलानां भिक्सूणां करीरिकमण्डलवाटे संनिषंणानां संनिपतितानाम् अन्तराकथा विप्रकृता तया चापि भगवन् कथया एतर्हि संनिषंणाः संनिपतिता अपि मे भिक्षवो धर्मधातुः सुप्रतिविद्ध अपि मे देवता आरोचयन्ति इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

पूर्वं कथा धार्मिकी अर्थसंहिता उदाहृता मण्डलवाटभिक्षुभिः अश्रौषीद् दिव्येन हि श्रोत्रधातुना दिवाविहारोपगतो महामुनिः 1 दिव्येन श्रोत्रेण निशाम्य शास्ता उपागतो मण्डलवाटभिक्षून् न्यषीदत् स हि भिक्षुगणस्य मध्ये शक्रो यथेन्द्रस् त्रिदशेषु मध्ये 2 प्रतिविद्धो धर्मधातुर् बुद्धेनादित्यबन्धुना / येनाभ्यतीतां जानाति संबुद्धां द्विपदोत्तमः 3 एवंनामा एवंजात्या एवंगोत्राश् च ते ऽभवन् यथा यथा च ते आसं सर्वे व्याकृतवां मुनिः 4 नानादीर्घायुषो देवा वर्णवन्तो यशस्विनः एवम् आरोचयंत्य् अर्थं संबुद्धानां यशस्विनाम् 5 ॥

ii. how was the dharmadhātu realized? kathaṃ dharmadhātuḥ supratividdhaḥ

a. the characteristics of the seven buddhas 1. kalpa itaḥ sa ekanavataḥ kalpo yasmiṃ kalpe vipaśyī samyaksaṃbuddho loke utpannaḥ itaḥ sa ekatriṃśattamaḥ kalpo yasmiṃ kalpe śikhī ca viśvabhuk ca samyaksaṃbuddhau loka utpannau asminn eva bhadrakalpe catvāraḥ samyaksaṃbuddhā loke utpannā krakasundaḥ kanakamuniḥ kāśyapo vayaṃ cāpy etarhi śākyamuniḥ iyam atra dharmatā tasmād idam ucyate ||

x kaś ca kalpo ^ ^ _ ^ _ x yadā vipaśyī udapādi _ x | x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x 1 viśvabhujaṃ _ ^ ^ _ ^ _ x vināyakāḥ krakasund ^ _ x | x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x 2 || 2. life span विपश्यिनः सम्यक्संबुद्धस्य अशीतिर् वर्षसहस्राण्य् आयुष्प्रमाणम् अभूत् शिखिनः सम्यक्संबुद्धस्य सप्ततिः विश्वभुजः सम्यक्संबुद्धस्य षष्टिः क्रकसुन्दस्य सम्यक्संबुद्धस्य चत्वारिङ्शत् कनकमुनेः सम्यक्संबुद्धस्य त्रिङ्शत् काश्यपस्य सम्यक्संबुद्धस्य विंशतिः अस्माकम् अप्य् एतर्हि वर्षशतम् आयुष्प्रमाणं सम्यक्सुखेन परिप्रियमाणम् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ ^ ^ _ sa _ x x _ ^ _ viśvabhujo jinasya 1 catvāriṃśat krakasundasya śāstuḥ x _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ śākyamuni ^ _ x 2 ||

3. चस्ते विपश्यी सम्यक्संबुद्धः क्षत्रियो जात्याभूत् शिखी सम्यक्संबुद्धः क्षत्रियो जात्याभूद् विश्वभुक् च / क्रकसुन्दः सम्यक्संबुद्धो ब्राह्मणो जात्याभूत् कनकमुनिः काश्यपश् च / अस्माकम् अप्य् एतर्हि क्षत्रिया जातिर् भवति इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ babhūva kṣatriyāḥ x _ ^ _ kanakamuniś ca kāśyapa et'; ekajāty. ^ ^ _ ^ _ ^ x 1 x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x | x yā ^ _ _ ^ ^ _ ^ kalpāṃ niṣkrāntavāṃ cchākyakulāc ca kṣatriyāt 2 ||

4. family name sanskrit text is completely lost

5. bodhi trees sanskrit text is completely lost

6. the aśembly of bhikṣus vipaśyinaḥ samyaksaṃbuddhasya śrāvakāṇāṃ trayo mahāsannipātā babhūvuḥ eko mahāsannipāto dvāṣaṣṭabhikṣuśatasahasrāṇi / dvitīyo mahāsannipāto bhikṣuśatasahasram tṛtīyo mahāsannipāto 'śītir bhikṣusahasrāṇi / śikhinaḥ samyaksaṃbuddhasya śrāvakāṇāṃ trayo mahāsannipātā babhūvuḥ eko mahāsannipāto bhikṣuśatasahasram dvitīyo mahāsannipāto 'śītir bhikṣusahasrāṇi / tṛtīyo mahāsannipātaḥ saptatir bhikṣusahasrāṇi / viśvabhujaḥ samyaksaṃbuddhasya śrāvakāṇāṃ dvau mahāsannipātau babhūvatu eko mahāsannipātaḥ saptatir bhikṣusahasrāṇi / dvitīyo mahāsannipāta ṣaṣṭir bhikṣusahasrāṇi / krakasundasya samyaksaṃbuddhasya śrāvakānām eko mahāsannipāto babhūva catvāriṃśad bhikṣusahasrāṇi / kanakamuneḥ samyaksaṃbuddhasya śrāvakānām eko mahāsaṃnipāto babhūva triṃśad bhikṣusahasrāṇi / kāśyapasya samyaksaṃbuddhasya śrāvakānām eko mahāsannipāto babhūva viṅśatir bhikṣusahasrāṇi / asmākam apy etarhi (mav 42) śrāvakānām eko mahāsaṃnipāta ardhatrayodaśa bhikṣuśatāni iyam atra dharmatā tasmād idam ucyate ||

trayo vipaśyisya trayaḥ śikhino x _ ^ _ viśvabhujo jinasya / caturṇāṃ buddhānām ekaikaśa ṛṣisannipātā muninā prakāśitā 1 te saṃnipātā paramārthadarśinān nāgeṣu nāge ^ ^ _ ^ _ ^ x | saṃghādikānām akhilānāṃ tāyināṃ pannadhvajānāṃ virajasām ṛjūnām 2 ||

7. a pair of disciples vipaśyinaḥ samyaksaṃbuddhasya khaṇḍaś ca tiṣyaś ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimatāṃ dvitīyo 'grya prajñāvatām śikhinaḥ samyaksaṃbuddhasya abhibhūḥ saṃbhavaś ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimatāṃ dvitīyo 'grya prajñāvatām viśvabhujaḥ samyaksaṃbuddhasya śroṇaś ca uttaraś ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimatāṃ dvitīyo 'gryaḥ prajñāvatām krakasundasya samyaksaṃbuddhasya saṃjīvaś ca viduraś ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimatāṃ dvitīyo 'gryaḥ prajñāvatām kanakamuneḥ samyaksaṃbuddhasya bhujiṣyaś ca bhikṣur uttaraś ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimatāṃ dvitīyo 'grya prajñāvatām kāśyapasya samyaksaṃbuddhasya tiṣyaś ca bharadvājaś ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimatāṃ dvitīyo 'grya prajñāvatām asmākam apy etarhi śāriputramaudgalyāyanau bhikṣū agrayugaṃ bhadrayugam eko 'grya ṛddhimatāṃ dvitīyo 'grya prajñāvatām iyam atra dharmatā tasmād idam ucyate ||

खण्डश् च तिष्यश् च विपश्यिनो ऽग्र्यौ शिखिनो बुद्धस्याभिभूः संभवश् च / श्रोणोत्तरौ विश्वभुजो जिनस्य ओघातिगौ कामभवेष्व् असक्तौ 1 संजीवभिक्षुर् विदुरश् च पण्डितः अग्र्याव् एतौ क्रकसुन्दस्य शास्तु / बुद्धस्य च कनकमुनेर् इहाग्र्यौ भुजिष्यो भिक्षुर् अथोत्तरश् च 2 तिष्यभरद्वाजयुगं महर्षेर् एताव् अग्र्यौ भगवतः काश्यपस्य / शारिपुत्रमौद्गल्यायनौ भिक्षू ताव् एताव् अङ्गिरसो ऽग्रश्रावकौ 3 ॥

8. अत्तेन्दन्त्स् विपश्यिनः सम्यक्संबुद्धस्य अशोको नाम भिक्षुर् उपस्थायको ऽभूत् शिखिनः सम्यक्संबुद्धस्य क्षेमकारो नाम भिक्षुर् उपस्थायको ऽभूत् विश्वभुजः सम्यक्संबुद्धस्य उपशान्तो नाम भिक्षुर् उपस्थायको ऽभूत् क्रकसुन्दस्य सम्यक्संबुद्धस्य भद्रिको नाम भिक्षुर् उपस्थायको ऽभूत् कनकमुनेः सम्यक्संबुद्धस्य स्वस्तिको नाम भिक्षुर् उपस्थायको ऽभूत् काश्यपस्य सम्यक्संबुद्धस्य सर्वमित्रो नाम भिक्षुर् उपस्थायको ऽभूत् अस्माकम् अप्य् एतर्हि आनन्दो भिक्षुर् उपस्थायकः इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

अशोक क्षेमकारश् च उपशान्तश् च भद्रिकः स्वस्तिकःसर्वमित्रश् च आनन्दो भवति सप्तमः 1 भिक्षव एते महात्मानः शरीरान्तिमधारिणः वैय्यापत्यकरा आसं चित्तनिमित्तेषु कोविदा 2 सर्वे कालस्य कुशला निमित्तप्रतिवेधिनः सर्वेषाम् आस्रवा क्षीणा नास्ति तेषां पुनर्भवः 3 ॥

9. सोन्स्

विपश्यिनः सम्यक्संबुद्धस्य सुसंवृत्तस्कन्धो नाम पुत्रो ऽभूत् शिखिनः सम्यक्संबुद्धस्य अतुलो नाम पुत्रो ऽभूत् विश्वभुजः सम्यक्संबुद्धस्य सुप्रबुद्धो नाम पुत्रो ऽभूत् क्रकसुन्दस्य सम्यक्संबुद्धस्य प्रतापनो नाम पुत्रो ऽभूत् कनकमुनेः सम्यक्संबुद्धस्य सार्थवाहो नाम पुत्रो ऽभूत् काश्यपस्य सम्यक्संबुद्धस्य विजितसेनो नाम पुत्रो ऽभूत् अस्माकम् अप्य् एतर्हि राहुल पुत्र इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

सुसंवृत्तस्कन्धो ऽतुल सुप्रबुद्ध प्रतापनः सार्थवाहो विजितसेनो राहुलो भवति सप्तम 1 एते पुत्रा महात्मानः शरीरान्तिमधारिणः सर्वेषाम् आस्रवा क्षीणा नास्ति तेषां पुनर्भव 2 ॥

10. mother, father, king and the capital vipaśyinaḥ samyaksaṃbuddhasya pitābhūd bandhumo nāma rājā kṣatriyo mūrdhābhiṣikto mātābhūd bandhuvatī nāma bandhumāvatī nāma nagarī rājadhānī babhūva ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca / śikhinaḥ samyaksaṃbuddhasya pitābhūd aruṇo nāma rājā kṣatriyo mūrdhābhiṣikta mātābhūt prabhāvatī nāma / aruṇāvatī nāma nagarī rājadhānī babhūva / ṛddhā ca pūrvavat viśvabhujaḥ samyaksaṃbuddhasya pitābhūt supradīpo nāma rājā kṣatriyo mūrdhābhiṣiktaḥ mātābhūd uttarā nāma anopamā nāma nagarī rājadhānī babhūva pūrvavat krakasundasya samyaksaṃbuddhasya pitābhūd agnidatto nāma brāhmaṇaḥ purohitaḥ mātābhūd dhanavatī nāma tena khalu samayena kṣemo (mav 48) nāma rājābhūt kṣemasya khalu rājñaḥ kṣemāvatī nāma nagarī rājadhānī babhūva pūrvavat kanakamuneḥ samyaksaṃbuddhasya pitābhūd yajñadatto nāma brāhmaṇaḥ purohitaḥ mātābhūd yaśovatī nāma tena khalu samayena śobho nāma rājābhūc chobhasya khalu rājñaḥ śobhavatī nāma nagarī rājadhānī babhūva pūrvavat kāśyapasya samyaksaṃbuddhasya pitābhūd brahmadatto nāma brāhmaṇaḥ purohitaḥ mātābhūd viśākhā nāma tena khalu samayena kṛkī nāma rājābhūt kṛkiṇaḥ khalu rājño bārāṇasī nāma nagarī rājadhānī babhūva pūrvavat asmākam apy etarhi pitā śuddhodano nāma rājā kṣatriyo mūrdhābhiṣiktaḥ mātā mahāmāyā nāma nagarī kapilavastur nāma rājadhānī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca śākyānāṃ gaṇarājyam iyam atra dharmatā tasmād idam ucyate ||

विपश्यिनो बुद्धवरस्य बन्धुमा पिताभवद् बन्धुवती च माता / नगरी तथा बन्धुमती सुरम्या यत्र जिनो धर्मम् अदेशयच् छिवम् 1 बुद्धस्य शिखिनः अरुणः पिताभूत् प्रभावती माता प्रभाकरस्य / नगरी तथारुणवती सुरम्या अरुणस्य राज्ञः परशत्रुमर्दिनः 2 यत् सुप्रदीप उदपादि क्षत्रियः पिता अभूद् विश्वभुजो जिनस्य / माता तथैवोत्तर सत्यनामा अनोपमा नगरी राजधानी 3 यद् अग्निदत्त उदपादि ब्राह्मणः पिता अभूत् क्रकसुन्दस्य शास्तुः मातापि च धनवती सत्यनामा क्षेमो राजा क्षेमावती राजधानी 4 यद् यज्ञदत्त उदपादि ब्राह्मणः पिता अभूत् कनकमुनेर् जिनस्य / मातापि च यशोवती सत्यनामा शोभो राजा शोभावती राजधानी 5 यद् ब्रह्मदत्त उदपादि ब्राह्मणः पिता अभूद् भगवतः काश्यपस्य / मातापि च विशाखा सत्यनामा कृकी राजा बाराणसी राजधानी 6 शुद्धोदनो नाम पिता महर्षेर् माता महामाय प्रभाकरस्य / नगरी तथा ऋद्धा स्फीता सुरम्या कपिलाह्वया यत्र जिनो ^ _ ते 7 ॥

11. mnemonic keywords of this chapter uddānam ||

कल्पो ऽथ आयुर् जातिश् च गोत्रं वृक्षाश् च पञ्चमा / संनिपातो युगम् उपस्थायका पुत्रा माता पिता तथा ॥

b. the legend of vipaśyin buddha part one [the bodhisattva's entrance into his mother's womb] 1. descent from tuṣita heaven dharmatā khalu yasmiṃ samaye vipaśyī bodhisatvas tuṣitād devanikāyāc cyavitvā mātuḥ kukṣāv avakrāmati atyarthaṃ tasmiṃ samaye mahāpṛthivīcālaś cābhūt sarvaś cāyaṃ loka udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhastamā andhākāratamisrā yatremau sūryācandramasāv evaṃmahardhikau mahānubhāvau ābhayā ābhāṃ nānubhavataḥ tā api tasmiṃ samaye udāreṇāvabhāsena sphuṭā abhūvaṃ tatra ye satvā upapannās te tayā ābhayā anyonyaṃ satvaṃ saṃjānate anye 'pi bhavaṃtaḥ satvā ihopapannā anye 'pi bhavaṃtaḥ satvā ihopapannā iyam atra dharmatā tasmād idam ucyate ||

यथापि मेघो विपुलः सुसंभृतो बहूदको मारुतवेगमूर्च्छितः तथोपमं कुक्षिम् अवाक्रमं मुनिः शतह्रदां सूर्य इवाभ्युपागतः 1 अवभासयं हि जनतास् समन्ततः पृथूश् च लोकान्तरिकास् तमोवृताः यद् उत्क्रमेत् कुक्षिम् असह्यसन्निभस् तथा तद् आसीद् इयम् अत्र धर्मता 2 ॥

[in his mother's womb] 2. the four devaputras

धर्मता खलु यस्मिं समये विपश्यी बोधिसत्वस् तुषिताद् देवनिकायाच् च्यवित्वा मातुः कुक्षाव् अस्थात् ततो ऽस्य शक्रेण देवेन्द्रेण चत्वारो देवपुत्रा मातुर् आरक्षका स्थापिता मा एतां कश्चिद् विहेठयिष्यति मनुष्यो वा अमनुष्यो वा इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

ते देवपुत्रा सहिताश् चतुर्दिशं महात्मदेवानुगता यशस्विना / शक्रेण प्रोक्ताः परमार्थदर्शिनो रक्षां कुरुध्वं सुगतस्य मातुः 1 निष्कृष्टशस्त्रायुधखड्गपाणयः सुतीक्ष्णरूपां व्यवलंब्य शक्तिम् मा तां मनुष्या अथ वापि राक्षसा विहेठयेयुः सुगतस्य मातरम् 2 सा देवगुप्ता वरभूतरक्षिता यशस्विनी देवगणैः सुपालिता / क्रीडत्य् असाव् अप्सरस इव नन्दने तथा तद् आसीद् इयम् अत्र धर्मता 3 ॥

3. he is as pure as a jewel dharmatā khalu yasmiṃ samaye vipaśyī bodhisatvas tuṣitād devanikāyāc cyavitvā mātuḥ kukṣāv asthāt kośogata evāsthād amrakṣito garbhamalena jubhramalena rudhiramalena anyatamānyatamena vā aśuciprākṛtena tadyathā maṇiratnaṃ kāśikaratne upanikṣiptaṃ naiva maṇiratnaṃ kāśikaratnenopalipyate na kāśikaratnaṃ maṇiratnena iyam atra dharmatā tasmād idam ucyate ||

यथापि तं मणिरत्नं प्रभास्वरं न लिप्यते परमशुचौ हि काशिके / तथोपमः कुक्षिगतो नरोत्तमो न लिप्यते अशुचिकृतेन पण्डितः 1 ॥

4. he is like an eightfaceted gem dharmatā khalu yasmiṃ samaye vipaśyī bodhisatvas tuṣitād devanikāyāc cyavitvā mātuḥ kukṣāv asthāt sarvam enaṃ mātā paripūrṇaṃ kukṣigataṃ paśyati tadyathā maṇir vaiḍūrya aṣṭāṃśo jātimāṃ śuddho viprasanna anāvilaḥ pañcaraṅgike sūtre arpita syān nīle pīte lohite avadāte māṃjiṣṭhe taṃ cakṣuṣmāṃ puruṣo dṛṣṭvā jānīyād idaṃ sūtram ayaṃ maṇiḥsūtre maṇir arpita iyam atra dharmatā tasmād idam ucyate ||

यथाप्य् असौ वैडूर्यको महामणि प्रभास्वरः सूर्यमरीचिसंनिभः तथोपमं कुक्षिगतं नरोत्तमं विपश्यिमाता परिपूर्णम् ईक्षते ॥

5. he does not fatigue his mother dharmatā khalu yasmiṃ samaye vipaśyī bodhisatvas tuṣitād devanikāyāc cyavitvā mātuḥ kukṣāv asthān nāsya tasmiṃ samaye mātā śrāntakāyā vābhūt klāntakāyā vā yad uta bodhisatvaṃ dhārayaṃtī iyam atra dharmatā tasmād idam ucyate ||

x _ cāsau kukṣim upe ^ _ ^ x x _ cyutaḥ karmav. _ ^ _ ^ x | x _ ^ _ _ ^ ^ _ ^ _ x te dhārayaṃtī iyam atra dharmatā ||

6. his mother keeps the five precepts dharmatā khalu yasmiṃ samaye vipaśyī bodhisatvas tuṣitād devanikāyāc cyavitvā mātuḥ kukṣāv asthāt tato mātrā yāvajjīvaṃ pañca vratapadāni samādattāni yāvajjīvam asya mātā prāṇātipātāt prativiratādattādānād abrahmacaryān mṛṣāvādāt surāmaireyamadyapramādasthānāt prativiratā iyam atra dharmatā tasmād idam ucyate ||

प्राणान् अहंती नादत्तम् आददौ मृषा न भाषेन् न च मद्यपानम् अब्रह्मचर्याद् विरता च मैथुनाद् विपश्यिमाता इयम् अत्र धर्मता ॥

7. हिस् मोथेर् हस् नो मेन्तल् अत्तछ्मेन्त् धर्मता खलु यस्मिं समये विपश्यी बोधिसत्वस् तुषिताद् देवनिकायाच् च्यवित्वा मातुः कुक्षाव् अस्थान् नास्य माता ततः पुरुषेषु मानसं निबद्धवती यद् उत कामगुणोपसंहितम् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

x _ ^ _ nāpi ca rajyate tadā na kāmahetoḥ paridahyate manaḥ na cāsya mātuḥ puruṣena mānasaṃ nibadhyate kāmaguṇopasaṃhitam ||

[थे बोधिसत्त्वऽस् बिर्थ्] 8. बिर्थ् धर्मता खलु यस्मिं समये विपश्यी बोधिसत्वो मातुः कुक्षेर् निष्क्रान्तो ऽत्यर्थं तस्मिं समये महापृथिवीचालश् चाभूत् सर्वश् चायं लोक उदारेणावभासेन स्फुटो ऽभूत् पूर्ववद् यावद् अन्ये ऽपि भवन्तः सत्वा इहोपपन्नाः इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

utpadyamāne pṛthivī prakampitā pṛthus tathābhā visṛtā ^ _ ^ x |

x _ ^ _ _ ^ ^ _ ^ śobhate tathā tad āsīd iyam atra dharmatā ||

9. the newborn bodhisattva is born without stain धर्मता खलु यस्मिं समये विपश्यी बोधिसत्वो मातुः कुक्षेर् निष्क्रान्तस् कोशोगत इवासिर् निष्क्रान्तो ऽम्रक्षितो गर्भमलेन जुभ्रमलेन रुधिरमलेनान्यतमान्यतमेन वाशुचिप्राकृतेन इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ यथापि तं मणिरतनं प्रभास्वरं न लिप्यते परमशुचौ हि काशिके / x _ ^ _ _ ^ ^ _ ^ _ x x ciḥ sunirdhāntam ivāṃśukāñcanam ||

10. हिस् मोथेर् गिवेस् बिर्थ् इन् थे स्तन्दिन्ग् पोसितिओन् धर्मता खलु यस्मिं समये विपश्यी बोधिसत्वो मातुः कुक्षेर् निष्क्रान्तो नास्य माता निषण्णा वाभून् निपन्ना वा स्थितैव सा क्षत्रिया क्षत्रियं प्रजाता इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

na sā niṣaṃṇā na nipanna kṣatriyā sthitaiva sā .r. pad ^ _ ^ _ ^ x | x _ ^ _ _ varasatya vikramo jagrāha taṃ surapatideva utsuka ||

[after the bodhisattva's birth] 11. he takes seven steps dharmatā khalu sāṃpratajāto vipaśyī bodhisatvaḥ sapta padāni prakrāntaḥ parigṛhīto na kasmiṃścic caturdiśañ ca vyavalokayati vācañ ca bhāṣate iyaṃ me bhavet paścimā jātiḥ

देवाः श्वेतं च छत्रं मणिदण्डकं च चामरं च धारयन्ति इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

जातो ह्य् एष सप्त पदानि प्रक्रमद् दि _ ^ _ लोक्य वाचं च भाषते / श्रे _ ^ _ _ ^ ^ _ ^ _ ^ x x _ ^ _ _ ^ ^ _ न्ति देव ॥

12. warm and cool streams fall from above dharmatā khalu sāṃpratajātasya vipaśyino bodhisatvasya dve vāridhāre 'ntarīkṣāt prapatite ekā śītāsyaikoṣṇāsya ye bodhisatvaṃ snāpitavatyau iyam atra dharmatā tasmād idam ucyate ||

jāte kumāre sumahābhiṣaṭke dve vāridhāre patite antarikṣāt x _ ^ _ _ ṇa ca anāvilā ca snātaḥ s ^ _ _ dvipadottamo x ||

13. a stream manifests from a well dharmatā khalu sāṃpratajātasya vipaśyino bodhisatvasya mātur janayitryāḥ purastāṃ mahad udapānaṃ prādurbhūtaṃ vāri viṣyandi yato 'sya mātā udakakāryam akārṣīd iyam atra dharmatā tasmād idam ucyate ||

कुर्वंति नागास्य सदैवपूजां यस्मिं ^ _ जायते बोधिसत्वः ते हृष्टास् तुष्टा मुदिता उदग्राः वारिं सृजन्तीह अथोदपानम् ॥

14. the deities scatter flowers and play music dharmatā khalu sāṃpratajātasya vipaśyino bodhisatvasya devatā antarīkṣād divyāny utpalāni padmāni kumudāni puṇḍarīkāṇi agarucūrṇāni tagarucūrṇāni candanacūrṇāni divyāni mandārakāni puṣpāṇi kṣipanti divyāni ca vādyāni saṃpravādayanti cailavikṣepaṃ cākārṣur iyam atra dharmatā tasmād idam ucyate ||

jāte kumāre sumahābhiṣaṭke d.e _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x 1 x _ ^ _ _ anubhāvam īkṣya yāvat sujāto b. ^ _ ^ _ utaḥ rāj _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x 2 x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ āṃ paripūrayiṣyati x itīha devā akaniṣṭhavāsina ā _ ^ _ _ ^ ṣv aghoṣa _ ^ x 3 ||

15. mnemonic keywords of this chapter उद्दानम् ॥ x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x | utpādakośasthiti saptapadaṃ dve vāridhāre udapāna devatā ||

part two [after the bodhisattva's birth: continued] 1. his wet nurse dharmatā khalu sāṃpratajātaṃ vipaśyinaṃ bodhisatvaṃ mātāpitarau dhātryā anuprayacchataḥ ayaṃ tvayā dhātri kumāraḥ kālena kālam udvartayitavyaḥ kālena kālaṃ snāpayitavyaḥ kālena kālaṃ bhojayitavyaḥ kālena kālaṃ samyak sukhena parihartavyaḥ tam enaṃ dhātry ubhābhyāṃ pāṇibhyāṃ pratigṛhītvā kālena kālam udvartayati kālena kālaṃ snāpayati kālena kālaṃ bhojayati kālena kālaṃ samyak sukhena pariharati / apīdānīṃ ye gandhā loke manojñarūpās tair vilipya sarvālaṃkārair alaṃkṛtaṃ pitur bandhumato 'nuprayacchati / enaṃ bandhumā rājā gṛhītvāṅke niṣādya punaḥ punaḥ prekṣate harṣaṃ janayati iyam atra dharmatā tasmād idam ucyate ||

x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ m adadat sa dhātryāḥ tato 'pi _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ yati caiva 1 ye gandha loke sumanojñarūpāḥ x _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ bhir alaṅkṛ _ x x _ ^ _ _ ^ ^ _ ^ _ x 2 x bā ^ .ā l. sagataṃ kumāraṃ punaḥ punaḥ prekṣati harṣajātaḥ su _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ ^ ^ _ ^ _ x abhyudyamo _ kula _ ^ .y . nti 3 ||

2. the seer [two paths: to be a universal monarch or to become a buddha] dharmatā khalu sāṃpratajātaṃ vipaśyinaṃ bodhisatvaṃ mātāpitarau brāhmaṇānāṃ naimittānāṃ vipañcanānāṃ copadarśayataḥ kaścid bhavantaḥ samanvāgataḥ kumāro dvātriṃśadbhir mahāpuruṣalakṣaṇair yaiḥ samanvāgatasya mahāpuruṣasya dve gatī bhavato 'nanyathā saced gṛhy agāram adhyāvasati rājā bhavati cakravartī cāturantyāṃ vijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ tasyemāṇy evaṃrūpāṇi sapta ratnāni bhavaṃti tadyathā cakraratnaṃ hastiratnam aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam eva saptamaṃ pūrṇaṃ cāsya bhavati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ sa imām eva samudraparyantāṃ mahāpṛthivīm akhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyāvasati sacet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anagārikāṃ pravrajati tathāgato bhavaty arhaṃ samyaksaṃbuddho vighuṣṭaśabdo loke tathyaṃ deva samanvāgataḥ kumāro dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ pūrvavad yāvat tathāgato bhavaty arhan samyaksaṃbuddho vighuṣṭaśabdo loke iyam atra dharmatā tasmād idam ucyate ||

jātaṃ kumāraṃ sumahābhiṣaṭkaṃ te bodhisatvam ^ ^ _ ^ _ x | x _ ^ _ _ ^ na pravrajito rājā bhaviṣyati cakravartī 1 x _ ..ṃ tāṃ _ ^ ^ _ ^ _ x dharmeṇa kṣemeṇa śivāṃ vasundharām yad _ ^ _ _ ^ ^ _ ^ _ bhaṃtam x _ ^ _ yaṃ sa k. _ .r. m eva 2 yat sarvasauvarṇa sa ku ^ _ x x _ ^ _ _ ^ ^ _ ^ nemi / yad asya pūrve pṛthivīṃ vijeṣyate tac cakraratnaṃ prathamaṃ niyāsyati 3 sujāta saptāṅgapratiṣṭhitaṃ ṛjum avadātam _ ^ ^ _ ^ _ ^ x | x _ ^ _ _ ^ ^ _ ^ kuñjaraṃ dvitīyaṃ ratnaṃ hi bhṛśaṃ niyāsyati 4 yaḥ prātarāśe samayena medinīṃ samaṃtataḥ prāpya punar nirvartate / x _ ^ _ _ ^ ^ _ ^ _ x aśvaṃ tṛtīyaṃ ratnaṃ niyāsyati 5 maṇiñ ca vaiḍūryam ayaṃ sunirmalaṃ samaṃtato yojanam āvabhāsate / yathaiva rātrau ^ ^ _ ^ _ ^ x x _ ^ _ _ vimalaṃ niyāsyati 6 yā rūpaśabdeṣv atha gandhasparśe nārī pradhānā pra ^ dottamā ca / yathānta arāḥ sarvataś cāruhāsinī tat pañcamaṃ strīratnaṃ niyāsyati 7 x _ ^ _ vaiḍūryaṃ maṇiratnaṃ śilāpravāḍaṃ ca suvarṇarūpam dadāti yaḥ śreṣṭhivaro mahā _ ^ x gṛhapatiṃ ratnaṃ ṣaṣṭhaṃ niyāsyati 8 ya _ ^ _ _ ^ ^ _ ^ _ x ṃ senāsu sthānaṃ gamanaṃ nivartanam yo _ tidakṣaḥ pariṇāyakottamas tat saptamaṃ ratnavaraṃ niyāsyati 9 jana ^ _ _ ^ ^ _ ^ _ ^ x x _ ^ _ _ ^ ^ _ .garūpiṇām sacet punaḥ pravrajat'; ānagārikāṃ niḥsaṃśayaṃ buddhavaro bhaviṣyati 10 evaṃvidha eṣa sutas tavāsti x _ ^ _ _ ^ ^ _ ^ _ x | x anyatarānyatarā gatir dhruvā tathā hy etaṃ mantrapadeṣu dṛśyate 11 ||

[the thirtytwo distinguishing marks of a great man] katamāni tāni bhavaṃti kumārasyadvātriṃśan mahāpuruṣalakṣaṇāni yaiḥ samanvāgatasya mahāpuruṣasya dve gatī bhavato (mav 78) 'nanyathā saced agāram adhyāvasati pūrvavad yāvad vighuṣṭaśabdo loke

सुप्रतिष्ठितपादो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 1

अधस् तस्य पादयोश् चक्रे जाते सहस्रारे सनाभिके सनेमिके सर्वाकारपरिपूर्णे इदं महापुरुषस्य महापुरुषलक्षणम् 2

दीर्घाङ्गुलिर् देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 3 आयतपादपार्ष्णिर् देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 4 मृदुतरुणपाणिपादो देव कुमार मृदुकम् अस्य पाणिपादं तद्यथा तूलपिचुर् वा कर्पासपिचुर् वा इदं महापुरुषस्य महापुरुषलक्षणम् 5

जालिनीपाणिपादो देव कुमार जालिनी अस्य पाणिपादेषु तद्यथाभिजातस्य हंसराज्ञः इदं महापुरुषस्य महापुरुषलक्षणम् 6

उच्छङ्गचरणो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 7 ऐणेयजङ्घो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 8 अनवनतकायो देव कुमारः अनवनतेन कायेनोभौ जानुमण्डलाव् आमार्जति परिमार्जति इदं महापुरुषस्य महापुरुषलक्षणम् 9

कोशोगतवस्तिगुह्यो देव कुमारः कोशोगतम् अस्य वस्तिगुह्यं तद्यथाभिजातस्य हस्त्याजानेयस्य वाश्वस्याजानेयस्य वा इदं महापुरुषस्य महापुरुषलक्षणम् 10

न्यग्रोधपरिमण्डलो देव कुमारो यावत् कायेन तावद् व्यामेन यावद् व्यामेन तावत् कायेन इदं महापुरुषस्य महापुरुषलक्षणम् 11

ऊर्ध्वाङ्गरोमा देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 12 एकैकरोमा देव कुमार एकैकम् अस्य रोम काये जातं नीलं कुण्डलजातं प्रदक्षिणावर्तम् इदं महापुरुषस्य महापुरुषलक्षणम् 13

सुवर्णवर्णो देव कुमारः काञ्चनसंनिभत्वचः इदं महापुरुषस्य महापुरुषलक्षणम् 14

सूक्ष्मच्छविर् देव कुमारः (mav 82) सूक्ष्मत्वात् त्वचो रजोजलं काये न संतिष्ठते इदं महापुरुषस्य महापुरुषलक्षणम् 15

सप्तोत्सदो देव कुमारः सप्तास्योत्सदा काये जाता द्वौ हस्तयो द्वौ पादयो द्वाव् अंसयोर् एको ग्रीवायाम् इदं महापुरुषस्य महापुरुषलक्षणम् 16

चितान्तरांसो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 17 सिंहपूर्वार्धकायो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 18 बृहदृजुगात्रो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 19 सुसंवृत्तस्कन्धो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 20 चत्वारिंशद्दन्तो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 21 समदन्तो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 22 अविरडदंतो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 23 सुशुक्लदंष्ट्रो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 24 सिंहहनुर् देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 25 रसरसाग्रप्राप्तो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 26

प्रभूततनुजिह्वो देव कुमार प्रभूतत्वाज् जिह्वया मुखाज् जिह्वां निर्णामयित्वा सर्वं मुख मण्डलं प्रतिच्छादयति यावत् केशपर्यन्तम् उपादाय इदं महापुरुषस्य महापुरुषलक्षणम् 27

ब्रह्मस्वरो देव कुमारः कलविङ्कमनोज्ञभाषी दुन्दुभिस्वरनिर्घोषः इदं महापुरुषस्य महापुरुषलक्षणम् 28

अभिनीलनेत्रो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 29 गोपक्ष्मा देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 30 उष्णीषशिरा देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 31 ऊर्णा चास्य भ्रुवोर् मध्ये श्वेता शङ्खनिभा प्रदक्षिणावर्ता इदं महापुरुषस्य महापुरुषलक्षणम् 32

इमानि द्वात्रिंशन् महापुरुषलक्षणानि यैः समन्वागतस्य महापुरुषस्य द्वे गती भवतो ऽनन्यथा पूर्ववद् यावद् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

hantāhaṃ kīrtayiṣyāmi lakṣaṇāni mahāmuneḥ kāye'smiṃ bhāvitātmasya śarīrāntimadhāriṇaḥ 1 x x x x ^ _ _ x x x x x ^ _ ^ x | adhaś ca pādayos tasya cakre jāte susaṃsthite 2 dīrghāṅguliḥ sa bhavati pādapārṣṇī ca āyate / jālini x ^ _ _ x x x x x ^ _ ^ x 3 x x x x ^ _ _ x x x x x ^ _ ^ x | x x x ś cāpi kāyena spṛśate jānumaṇḍalam 4 kośogataṃ vastiguhyaṃ x x x x ^ _ ^ x | x x x x ^ _ _ x x x x x ^ dakṣiṇam 5 x x s. ḍ. k. t. ṇ. bhā vy x x x x samaṃtataḥ sūkṣmatvaco 'sau bhavati sapta kāyasya utsadāḥ 6 citāntarāṃso h. _ x siṃhapūrvārdhakāyavān bṛhadṛjūni gātrāṇi skandhau tasya susaṃskṛtau 7 catuṣkā daśa dantānāṃ paripūrṇā anūnakāḥ samā aviraḍāś caiva śuklāś caiva susaṃsthitāḥ 8 suśukladaṃṣṭro 'sau h _ x x x rasarasāgratām prabhūtatanujihvaś ca tathā brahmasvaro mu x 9 अभिनीलनेत्रो गोपक्ष्मा उष्णीषं चास्य मूर्धनि / ūrṇā cāsya bhruvor madhye śvetā bhavati pradakṣiṇā 10 dve ca triṃśat tathaitāni lakṣaṇāni mahāmuneḥ kāye'smiṃ bhāvitātmasya śarīrāntimadhāriṇaḥ 11 dvātriṃśatiṃ yasya vivardhitāni bhavaṃti kāye 'smiṃ x _ vidhasya / rājā vijitya pṛthivīṃ viśāsti buddho 'tha vā bhavati hitānukampī 12 smṛtimāṃ bahuputraś ca alpābādhaś ca paṇḍitaḥ lābhī annasya pānasya vastraśayyāsanasya ca 13 abhedyaparivāro 'sau manāpaḥ sarvadehinām anvāvartanti taṃ devā manujāś ca tathāvidham 14 agryo mahādhipatyeṣu bhaven martyas tathāvidhaḥ asamaś cāpratisama atulyaś ca vināyaka 15

3. his mother passes away dharmatā khalu saptāhajātasya vipaśyino bodhisatvasya mātā janetrī kālagatā samanantarakālagatā tridaśe devanikāye upapannā iyam atra dharmatā tasmād idam ucyate ||

विधृत्य मासां हि दशैव कुक्ष्या विपश्यिमाता असमं प्रजाता / कायस्य भेदात् त्रिदशोपपन्ना देवनिकाया भगवज्जनेत्री ॥

4. the physical beauty of the bodhisattva dharmatā khalu sāṃpratajāto vipaśyī bodhisatvo 'bhirūpo darśanīya prāsādiko 'tikrāntaś ca mānuṣyakaṃ varṇam asaṃprāptaś ca divyaṃ varṇaṃ nirīkṣamāṇā narāś ca nāryaś ca tṛptiṃ na gacchaṃti anūnavarṇam tadyathā jāṃbūnadamayī suvarṇaniṣkā dakṣakarmāraputraparimṛṣṭā āhate pāṇḍukambale upanikṣiptā atyarthaṃ bhāsate tapate virocate evam eva sāṃpratajāto vipaśyī bodhisatvo 'bhirūpo darśanīyo yāvad anūnavarṇam iyam atra dharmatā tasmād idam ucyate ||

शिशु कुमारो मनसेव निर्मितः यथापि निष्का कुशलेन निष्ठिता / निरीक्षमाणा हि नराश् च नार्यस् तृप्तिं न गच्छंति अनूनवर्णम् ॥

5. the attractiveness of the bodhisattva dharmatā khalu sāṃpratajāto vipaśyī bodhisatvo mahājanakāyasya priyaś cābhūn manāpaś ca apīdānīṃ mahājanakāyā aṃsenāṃsaṃ (mav 90) parivartayaṃti tadyathā śāradakaṃ padmaṃ mahājanakāyasya priyaṃ ca bhavati manāpaṃ ca apīdānīṃ mahājanakāyaḥ pāṇinā pāṇiṃ saṃvārayati evam eva sāṃpratajāto vipaśyī bodhisatvo mahājanakāyasya priyaś cābhūn manāpaś ca apīdānīṃ mahājanakāyaḥ aṃsenāṃsaṃ parivartayati iyam atra dharmatā tasmād idam ucyate ||

प्रियो मनापो महतो जनस्य तदा विपश्यी दहरस् समानः अंसेन चांसं परिवर्तयंति पद्मं यथा शारदकं सुजातम् ॥

[थे बोधिसत्त्वऽस् योउथ्] 6. थे बोधिसत्त्वऽस् एयेस् दो नोत् ब्लिन्क् धर्मता खलु विपश्यी बोधिसत्वो ऽनिमिषो रूपाणि पश्यति न निमिषति / तद्यथा देवास् त्रिदशोपपन्नका इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

नासौ कुमारो निमिषं हि पश्यति यथापि देवास् त्रिदशोपपन्नकाः दृष्ट्वेह रूपाणि मनोरमाणि अथापि दृष्ट्वा अमनोरमाणि ॥

7. हिस् मतुरतिओन् धर्मता खलु विपश्यी बोधिसत्वः कर्मविपाकजेन दिव्येन चक्षुषा समन्वागतो येन स पश्यति दिवा च रात्रौ च समंतयोजनम् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

विपाकजं तस्य बभूव चक्षुर् दिव्यं विशुद्धं विमलं प्रभास्वरम् येनासौ पश्यति बोधिसत्वो दिवा च रात्रौ च समन्तयोजनम् ॥

8. the beauty of his voice dharmatā khalu vipaśyī bodhisatvo valgusvaraś cābhūn manojñasvaraś ca kalaviṅkamanojñabhāṣī ca dundubhisvaranirghoṣaś ca tadyathā haimavataḥ śakunto valgusvaraś cābhūn manojñasvaraś ca kalaviṅkamanojñabhāṣī ca dundubhisvaranirghoṣaś ca evam eva vipaśyī bodhisatvo valgusvaraś cābhūn manojñasvaraś ca kalaviṅkamanojñabhāṣī ca dundubhisvaranirghoṣaś ca iyam atra dharmatā tasmād idam ucyate ||

यथाप्य् असौ हैमवतः शकुन्तो निकूजते कुसुमरसेन मत्तः तथैव वल्गुकलविङ्कभाषी स चाप्य् अभूद् अप्रतिकूलभाषी ॥

9. बेचोमिन्ग् सगचिओउस्

धर्मता खलु विपश्यी बोधिसत्वः पण्डितो ऽभूद् व्यक्तो मेधावी तन्त्रोपमिकया मीमांसिकया प्रज्ञया समन्वागतः अपीदानीं पितुर् बन्धुमतो ऽर्थकरणे निषद्य गम्भीरान् अर्थान् निस्तारयति इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ toyāmbudhara iva sāgaraḥ anuśiṣṭavān bandhumatīnikete naikāṃ janāṃ jānapadāṃś ca kṣatriyān 1 hitānukampaṃ sam ^ _ ^ _ ^ x x _ ^ _ _ ^ ^ _ ^ _ daḥ ततः समाज्ञा उदपादि भद्रिका भूयो विपश्यीति समंतचक्षुः 2 ॥

10. the four excursions [on seeing an old man] dharmatā khalu vipaśyī bodhisatva udyānabhūmiṃ niryātukāmaḥ sārathim āmantrayati

योजय सारथे क्षिप्रं भद्रं यानम् उद्यानभूमिं निर्यास्यामि

एवं देवेति सारथिर् विपश्यिनो बोधिसत्वस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन विपश्यी बोधिसत्वस् तेनोपजगाम उपेत्य विपश्यिनं बोधिसत्वम् इदम् अवोचत् युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यते /

अथ विपश्यी बोधिसत्वो भद्रं यानम् अभिरुह्योद्यानभूमिं निर्याति अद्राक्षीद् विपश्यी बोधिसत्व उद्यानभूमिं निर्यायं पुरुषं कुब्जं गोपानसीवङ्गं दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छन्तम् दृष्ट्वा च पुनः सारथिम् आमंत्रयति

किम् एष सारथे पुरुषः कुब्जो गोपानसीवङ्क दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छति केशाश् चास्य विवर्णा न तथान्येषाम्

एष देव पुरुषो जीर्णो नाम

किम् एष सारथे जीर्णो नाम

अनेन देव पुरुषेण न चिरां मर्तव्यं भविष्यति स एष देव जीर्णो नाम

अहम् अपि सारथे जराधर्मा जराधर्मतां चानतीतः

देवो ऽपि जराधर्मा जराधर्मतां चानतीतः

तेनहि सारथे प्रतिनिवर्तय रथम् अंतःपुरम् एव गच्छ यद् अहम् अंतःपुरमध्यगत एतम् एवार्थं चिन्तयिष्यामि जरां किलाहम् अव्यतिवृत्तः

प्रतिनिवर्तयति सारथी रथम् अन्तःपुरम् एव याति तत्रेदानीं विपश्यी बोधिसत्वो ऽन्तःपुरमध्यगतः

अथाप्रतीतः करुणानि ध्याति जरां किलाहम् अव्यतिवृत्त इयम् अत्र धर्मता तस्माद् इदम् उच्यते । । पुरुषं दृष्ट्वेह व्यतीतयौवनं जीर्णातुरं पलितं दण्डपाणिम् अथाप्रतीतः करुणानि ध्याति जरां किलाहं नोपातिवृत्तः ॥

[थे किन्ग्ऽस् पेर्तुर्बतिओन् 1] अथ बन्धुमा राजा सारथिम् आमन्त्रयति

कच्चित् सारथे कुमार आप्तमनस्क उद्यानभूमिं गतः अभिरतो वा उद्याने

नो देव / अद्राक्षीद् देव कुमार उद्यानभूमिं निर्यायं पुरुषं कुब्जं गोपानसीवङ्कं दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छन्तं / दृष्ट्वा च पुनर् माम् आमंत्रयति किम् एष सारथे पुरुषः कुब्जो गोपानसीवङ्को दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छति केशाश् चास्य विवर्णा न तथान्येषां तम् एनम् (mav 100) एवं वदामि एष देव पुरुषो जीर्णो नाम स एवम् आह किम् एष सारथे जीर्णो नाम तम् एनम् एवं वदामि अनेन देव पुरुषेण न चिरा मर्तव्यं भविष्यति स एष देव जीर्णो नाम स एवम् आह अहम् अपि सारथे जराधर्मा जराधर्मतां चानतीतः तम् एनम् एवं वदामि देवो ऽपि जराधर्मा जराधर्मतां चानतीतः स एवम् आह तेन हि सारथे प्रतिनिवर्तय रथम् अन्तःपुरम् एव गच्छ यद् अहम् अन्तःपुरमध्यगत एतम् एवार्थं चिन्तयिष्यामि जरां किलाहम् अव्यतिवृत्तः स एष देव कुमार अन्तःपुरमध्यगत अथाप्रतीतः करुणानि ध्याति जरां किलाहम् अव्यतिवृत्तः

अथ बन्धुमतो राज्ञ एतद् अभवन् मा हैव ब्राह्मणानां नैमित्तानां विवञ्चनानां वचनं भूतं सत्यं भविष्यति मा हैव कुमारः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यति यन्व् अहम् अस्य भूयस्या मात्रया पञ्च कामगुणान् अनुप्रदद्याम् अप्य् एव रतो न प्रव्रजेत /

अथ बन्धुमा राजा विपश्यिने बोधिसत्वाय भूयस्या मात्रया पञ्च कामगुणान् अनुप्रयच्छति अप्य् एव रतो न प्रव्रजेत इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

श्रुत्वा स संग्राहकवाक्यम् एवं पिता विपश्यिस्य प्रियस्य बन्धुमा / ददौ ततः कामगुणां हि पंच रतो ह्य् असौ येषु न प्रव्रजेत ॥

[ओन् सेएइन्ग् अ सिच्क् मन्] धर्मता खलु विपश्यी बोधिसत्व उद्यानभूमिं निर्यातुकामः सारथिम् आमंत्रयति पूर्ववद् यावद्

अद्राक्षीद् विपश्यी बोधिसत्व उद्यानभूमिं निर्यायं पुरुषम् उत्पाण्डूत्पाण्डुकं कृशं रुक्षं दुर्वर्णं व्यतिभिन्नेन्द्रियं नो च निबन्धनीयं बहुजनस्य चक्षुषो दर्शनाय दृष्ट्वा च पुनः सारथिम् आमन्त्रयति

किम् एष सारथे पुरुष उत्पण्डूत्पाण्डुकः कृश रुक्षो दुर्वर्ण व्यतिभिन्नेन्द्रिय नो च निबन्धनीयो बहुजनस्य चक्षुषो दर्शनाय

एष देव पुरुषो व्याधितो नाम

किम् एष सारथे व्याधितो नाम

अनेन देव पुरुषेण स्थानम् एतद् विद्यते यद् अनेनैवाबाधेन मर्तव्यं भविष्यति स एष देव व्याधितो नाम

अहम् अपि सारथे व्याधिधर्मा व्याधिधर्मतां चानतीतः

देवोऽपि व्याधिधर्मा व्याधिधर्मतां चानतीतः

तेन हि सारथे प्रतिनिवर्तय रथम् अन्तःपुरम् एव गच्छ यद् अहम् अन्तःपुरमध्यगत एतम् एवार्थं चिन्तयिष्यामि व्याधिं किलाहम् अव्यतिवृत्तः

प्रतिनिवर्तयति सारथी रथम् अन्तःपुरम् एव याति तत्रेदानीं विपश्यी बोधिसत्व अन्तःपुरमध्यगत

अथाप्रतीतः करुणानि ध्याति व्याधिं किलाहम् अव्यतिवृत्तः इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

दृष्ट्वेह रोगेण विषक्तरूपं पाण्डुं मनुष्यं कृशम् अस्वतन्त्रम् अथाप्रतीतः करुणानि ध्याति व्याधिं किलाहं नोपातिवृत्त ॥

[थे किन्ग्ऽस् पेर्तुर्बतिओन् 2] अथ बन्धुमा राजा सारथिम् आमंत्रयति

कच्चित् सारथे कुमार आप्तमनस्क उद्यानभूमिं गत अभिरतो वा उद्याने

नो देव अद्राक्षीद् देव कुमार उद्यानभूमिं निर्यायं पुरुषम् उत्पाण्डूत्पाण्डुकं कृशं रुक्षं दुर्वर्णं व्यतिभिन्नेन्द्रियं नो च निबन्धनीयं बहुजनस्य चक्षुषो दर्शनाय दृष्ट्वा च पुनर् माम् आमंत्रयति किम् एष सारथे पुरुष उत्पाण्डूत्पाण्डुकः कृश रुक्ष दुर्वर्ण व्यतिभिन्नेन्द्रिय नो च निबन्धनीय बहुजनस्य चक्षुषो दर्शनाय तम् एनम् एवं वदामि एष देव पुरुषो व्याधितो नाम स एवम् आह किम् एष सारथे व्याधितो नाम तम् एनम् एवं वदामि अनेन देव पुरुषेण स्थानम् एतद् विद्यते यद् अनेनैवाबाधेन मर्तव्यं भविष्यति स एष देव व्याधितो नाम स एवम् आह अहम् अपि सारथे व्याधिधर्मा व्याधिधर्मतां चानतीतः तम् एनम् एवं वदामि देवो ऽपि व्याधिधर्मा व्याधिधर्मतां चानतीतः स एवम् आह तेन हि सारथे प्रतिनिवर्तय (mav 108) रथम् अन्तःपुरम् एव गच्छ यद् अहम् अन्तःपुरमध्यगत एतम् एवार्थं चिन्तयिष्यामि व्याधिं किलाहम् अव्यतिवृत्तः स एष देव कुमार अन्तःपुरमध्यगतः अथाप्रतीतः करुणानि ध्याति व्याधिं किलाहम् अव्यतिवृत्तः

अथ बन्धुमतो राज्ञ एतद् अभवं मा हैव ब्राह्मणानां नैमित्तानां पूर्ववत् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

रूपाणि शब्दांश् च तथैव गन्धां रसान् अथ स्पर्शगुणोपपन्नां / ददौ ततः कामगुणां हि पञ्च रतो ह्य् असौ येषु न प्रव्रजेत ॥

[सेएइन्ग् अ चोर्प्से] धर्मता खलु विपश्यी बोधिसत्व उद्यानभूमिं निर्यातुकाम सारथिम् आमंत्रयति पूर्ववद्

अद्राक्षीद् विपश्यी बोधिसत्व उद्यानभूमिं निर्यायन् नानारङ्गैर् वस्त्रैश् चैलवितानं विततं शिविका च प्रगृहीता उल्का च पुरतो नीयते महाजनकायश् च पुरतो गच्छति नार्यश् च प्रकीर्णकेश्यो (mav 110) रुदन्त्यः पृष्ठतः पृष्ठतः समनुबद्धा दृष्ट्वा च पुनः सारथिम् आमंत्रयति

किम् एतत् सारथे नानारङ्गैर् वस्त्रैश् चैलवितानं विततं शिविका च पूर्ववत् पृष्ठतः पृष्ठतः समनुबद्धा

एष देव पुरुषो मृतो नाम

किम् एष सारथे मृतो नाम

एष देव पुरुषो न भूयः प्रियौ मातापितरौ द्रक्ष्यति प्रियम् अपि मातापितराव् एतं पुरुषं न द्रक्ष्यतः स एष देव मृतो नाम

अहम् अपि सारथे मरणधर्मा मरणधर्मताञ् चानतीतः

देवो ऽपि मरणधर्मा मरणधर्मताञ् चानतीतः

तेनहि सारथे प्रतिनिवर्तय रथम् अन्तःपुरम् एव गच्छ यद् अहम् अन्तःपुरमध्यगत एतम् एवार्थं चिन्तयिष्यामि मरणं किलाहम् अव्यतिवृत्तः

प्रतिनिवर्तयति सारथी रथम् अन्तःपुरम् एव याति तत्रेदानीं विपश्यी बोधिसत्व अन्तःपुरमध्यगत

अथाप्रतीतः करुणानि ध्याति मरणं किलाहम् अव्यतिवृत्त इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

पुरुषं दृष्ट्वेह व्यतीतचेतसं मृतं विसंज्ञं कृतमायुषक्षयम् अथाप्रतीतः करुणानि ध्याति मरणं किलाहं नोपातिवृत्त ॥

[थे किन्ग्ऽस् पेर्तुर्बतिओन् 3] अथ बन्धुमा राजा सारथिम् आमंत्रयति

कच्चित् सारथे कुमार आप्तमनस्क उद्यानभूमिं गत अभिरतो वा उद्यने नो देव अद्राक्षीद् देव कुमार उद्यानभूमिं निर्यायं नानारङ्गैर् वस्त्रैश् चैलवितानं विततं शिविका च पूर्ववद् यावत् पृष्ठतः पृष्ठतः समनुबद्धाः दृष्ट्वा च पुनर् माम् आमंत्रयति किम् एतत् सारथे नानारङ्गैर् वस्त्रैश् चैलवितानं विततं शिविका च पूर्ववत् पृष्ठतः पृष्ठतः समनुबद्धा तम् एनम् एवं वदामि एष देव पुरुषो मृतो नाम स एवम् आह किम् एष सारथे मृतो नाम तम् एनम् एवं वदामि एष देव पुरुषो न भूयः प्रियौ मातापितरौ द्रक्ष्यति प्रियम् अपि मातापितरौ एतं पुरुषं न द्रक्ष्यत स एष देव मृतो नाम स एवम् आह अहम् अपि सारथे मरणधर्मा मरणधर्मतां चानतीतः तम् एनम् एवं (mav 114) वदामि देवो ऽपि मरणधर्मा मरणधर्मतां चानतीतः स एवम् आह तेन हि सारथे प्रतिनिवर्तय रथम् अन्तःपुरम् एव गच्छ यद् अहम् अन्तःपुरमध्यगत एतम् एवार्थं चिन्तयिष्यामि मरणं किलाहम् अव्यतिवृत्तः स एष देव कुमार अन्तःपुरमध्यगत अथाप्रतीतः करुणानि ध्याति मरणं किलाहम् अव्यतिवृत्तः

अथ बन्धुमतो राज्ञ एतद् अभवं मा हैव ब्राह्मणानां नैमित्तानां पूर्ववद् यावद् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

पुरोत्तमे नगरवरे सुरम्ये तदा विपश्यी दहरः समानः आमोदते कामगुणैर् हि पञ्चभिः सहस्रनेत्र इव नन्दने वने ॥

[सेएइन्ग् अन् अस्चेतिच्] धर्मता खलु विपश्यी बोधिसत्व उद्यानभूमिं निर्यातुकामः सारथिम् आमंत्रयति पूर्ववद् यावद्

अद्राक्षीद् विपश्यी बोधिसत्व उद्यानभूमिं निर्यायं पुरुषं मुण्डं कपालपाणिम् अनुवेश्मानुवेश्म कुलान्य् उपसंक्रमन्तं दृष्ट्वा च पुनः सारथिम् आमंत्रयति

किम् एष सारथे पुरुष मुण्डः कपालपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसंक्रामति वस्त्राणि चास्य विवर्णानि न तथान्येषाम्

एष देव प्रव्रजितो नाम

किम् एष सारथे प्रव्रजितो नाम

एष देव पुरुषः साधु दमः साधु संयमः साध्व् अर्थचर्या साधु धर्मचर्या साधु कुशलचर्या साधु कल्याणचर्येति केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आछाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः स एष देव प्रव्रजितो नाम /

तेन हि सारथे येन स प्रव्रजितस् तेन रथं प्रेरय

एवं देवेति सारथिर् विपश्यिनो बोधिसत्वस्य प्रतिश्रुत्य येन स प्रव्रजितस् तेन रथं प्रेरयति /

अथ विपश्यी बोधिसत्वस् तं प्रव्रजितम् इदम् अवोचत्

कः पुनस् त्वं भोः पुरुष मुण्डः कपालपाणि अनुवेश्मानुवेश्म कुलान्य् उपसंक्रामसि वस्त्राणि च ते विवर्णानि न तथान्येषाम्

अहं कुमार प्रव्रजितो नाम

यथा कथं त्वं भोः पुरुष प्रव्रजितो नाम /

अहं कुमार साधु दमः साधु संयमः साध्व् अर्थचर्या साधु धर्मचर्या साधु कुशलचर्या साधु कल्याणचर्येति केशश्मश्रूण्य् (mav 118) अवतार्य काषायाणि वस्त्राण्य् आछाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः सो ऽहं प्रव्रजितो नाम /

साधु त्वं भोः पुरुष अर्थचर्या धर्मचर्या कुशलचर्या कल्याणचर्येति केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आछाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः

तेन हि त्वं सारथे इमं च रथम् इमानि चाभरणानि अस्माकं ज्ञातिभ्यो ऽनुप्रयच्छ अहम् अपि च कामगुणां प्रहाय इहैव प्रव्रज्याम् अभ्युपगमिष्यामि इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

इमं रथं चाभरणानि चैव अनुप्रयच्छ मम ज्ञातिकेभ्यः क्षिप्रम् अहं कामगुणां प्रहाय इहैव प्रव्रज्याम् उपागमिष्ये ॥

[रेनुन्चिअतिओन्] तत्रेदानीं विपश्यी बोधिसत्वो जीर्णं च दृष्ट्वा व्याधितं च दृष्ट्वा मृतं च दृष्ट्वा काषायधारिणं प्रव्रजितं च दृष्ट्वा प्रव्रज्यां तत्र समुपागतो ऽसौ इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

जीर्णाञ् च दृष्ट्वा दुःखितं व्याधितं च मृतञ् च दृष्ट्वा समतीतचेतसम् काषायकण्ठं प्रव्रजित च वीक्ष्य तत्रैव प्रव्रज्याम् उपागतो ऽसौ ॥

11. mnemonic keywords of this chapter uddānam ||

धात्री ब्राह्मण माता च अभिरूपो मनापता / अनिमिषो विपाकधर्मश् च वल्गुस्वरः पण्डितश् च उद्यानम् ॥

part three 1. the eightythousand people of bandhumatī renounce the world aśrauṣur bandhumatyāṃ rājadhānyām aśītiprāṇasahasrāṇi vipaśyī bodhisatvaḥ keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ śrutvā ca punar eṣām etad abhavan na batāvaro dharmo bhaviṣyati nāvaraṃ dharmākhyānaṃ yatredānīṃ vipaśyī bodhisatvas tathā sukumāras tathā sukhaiṣi keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy āchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ अथ च पुनस् ते ऽपि केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आछाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिताः इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ आश्चर्यरूपं प्रतिभाति मे तद् यावत् सुसंवेजकाः शुद्धसत्वा विपश्यिनं प्रव्रजितं हि श्रुत्वा तत्रैव प्रव्रज्याम् अनुव्रजन्ति ॥

2. थे एइघ्त्य्थोउसन्द् दिस्चिप्लेस् लेअवे ओन् पेरेग्रिनतिओन् अथाशीतिर् भिक्षुसहस्राणि येन विपश्यी बोधिसत्वस् तेनोपजग्मुर् उपेत्य विपश्यिनो बोधिसत्वस्य पादौ शिरसा वन्दित्वा एकान्ते न्यषीदंन् एकान्तनिषंणान्य् अशीतिर् भिक्षुसहस्राणि विपश्यी बोधिसत्वो धार्म्या कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति /

अथ विपश्यिनो बोधिसत्वस्यैतद् अभवन् न मम प्रतिरूपं स्याद् यद् अहम् अननुप्राप्तस्वकार्थ एव समान श्रावकैर् आकीर्णो विहरेयं यन्व् अहं श्रावकान् उद्योजयेयं चरत भिक्षवश् चर्यां (mav 124) बहुजनहिताय बहुजनसुखाय लोकानुकंपाय अर्थाय हिताय सुखाय देवमनुष्याणां यदा यूयं शृणुथ विपश्यी बोधिसत्व अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो देशयति बन्धुमत्यां राजधान्यां धर्मं तदा यूयम् आगच्छत बन्धुमत्यां राजधानीं धर्मश्रवणाय

अथ विपश्यी बोधिसत्व श्रावकान् उद्योजयति चरत भिक्षवश् चर्यां पूर्ववद् यावद् धर्मश्रवणाय /

अथ विपश्यिनो बोधिसत्वस्य श्रावका विपश्यिना बोधिसत्वेनोद्योजिता जनपदचर्यां प्रक्रान्ता इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

अन्येन ते प्रव्रजिता अचार्षुर् उच्छेन भिक्षाचर्येण जीविकाम् अन्येन शूरो द्विपदोत्तमस् तदा एषत्य् आदीप्तशिर इव निर्वृतिम् ॥

3. थे बोधिसत्त्व सित्स् उन्देर् थे बोधि त्रेए अथ विपश्यी बोधिसत्वो यावसिकस्य पुरुषस्य सकाशात् तृणान्य् आदाय येन बोधिमूलं तेनोपजगाम उपेत्य स्वयम् एव तृणसंस्तरकं संस्तीर्य न्यषीदत् पर्यंगम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थाप्य चित्तम् उत्पादयति वाचं च भाषते तावन् न भेत्स्यामि पर्यंकं यावद् अप्राप्तास्रवक्षयः

स तावन् न भिनत्ति पर्यङ्गं यावद् अप्राप्तास्रवक्षय इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

paryaṅgam ābhujya tato niṣaṇṇo drumamūle maharṣer bodhimaṇḍe / duḥkhaṃ jarāmaraṇam idaṃ viditvā nirvāṇaśāntatvam ahaṃ prapadye 1 na bhinadmi paryaṃgam ahaṃ hy alabdhvā anuttarāṃ bodhim anu ^ _ x ḥ ity eva _ _ ^ ^ _ vipaśyī na sraṃsayati vīryam alabdhanirvṛtiḥ 2 ||

4. the realization of dependent origination [the pravṛtti process] atha vipaśyino bodhisattvasyaikākino rahasigatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi kṛchraṃ batāyaṃ loka āpanno yad uta jāyate 'pi jīryate 'pi mriyate 'pi cyavate 'py upapadyate 'pi atha ca punar ime satvā jarāmaraṇasyottare niḥsaraṇaṃ yathābhūtaṃ na prajānanti /

तस्यैतद् अभवत् कस्मिं नु सति जरामरणं भवति किंप्रत्ययं च पुनर् जरामरणं तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / जात्यांसत्यां जरामरणं भवति जातिप्रत्ययं च पुनर् जरामरणं

तस्यैतद् अभवत् कस्मिं नु सति जातिर् भवति किंप्रत्यया च पुनर् जाति तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / भवे सति जातिर् भवति भवप्रत्यया च पुनर् जाति

तस्यैतद् अभवत् कस्मिं नु सति भवो भवति किंप्रत्ययश् च पुनर् भवः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / उपादाने सति भवो भवति उपादानप्रत्ययश् च पुनर् भवः

तस्यैतद् अभवत् कस्मिं नु सति उपादानं भवति किंप्रत्ययं च पुनर् उपादानं तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / तृष्णायां सत्याम् उपादानं भवति तृष्णाप्रत्ययं च पुनर् उपादानं

तस्यैतद् अभवत् कस्मिं नु सति तृष्णा भवति किंप्रत्यया च पुनस् तृष्णा तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / वेदनायां सत्यां तृष्णा भवति वेदनाप्रत्यया च पुनस् तृष्णा

तस्यैतद् अभवत् कस्मिं नु सति वेदना भवति किंप्रत्यया च पुनर् वेदना तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / स्पर्शे सति वेदना भवति स्पर्शप्रत्यया च पुनर् वेदना /

तस्यैतद् अभवत् कस्मिं नु सति स्पर्शो भवति किंप्रत्ययश् च पुन स्पर्शः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / षडायतने सति स्पर्शो भवति षडायतनप्रत्ययश् च पुन स्पर्शः

तस्यैतद् अभवत् कस्मिं नु सति षडायतनं भवति किंप्रत्ययं च पुनः षडायतनं तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / नामरूपे सति षडायतनं भवति नामरूपप्रत्ययं च पुनः षडायतनं

तस्यैतद् अभवत् कस्मिं नु सति नामरूपं भवति किंप्रत्ययं च पुनर् नामरूपं तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / विज्ञाने सति नामरूपं भवति विज्ञानप्रत्ययं च पुनर् नामरूपं

तस्यैतद् अभवत् कस्मिं नु सति विज्ञानं भवति किंप्रत्ययं च पुनर् विज्ञानम् तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / नामरूपे सति विज्ञानं भवति नामरूपप्रत्ययञ्च पुनर् विज्ञानं

तस्य विज्ञानात् प्रत्युदावर्तते मानसं नातः परतो व्यतिवर्तते यद् उत नामरूपप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् उपादानप्रत्ययो भवः भवप्रत्यया जाति जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासा संभवंत्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति /

[थे निवृत्ति प्रोचेस्स्] तस्यैतद् अभवत् कस्मिं न्व् असति जरामरणं न भवति कस्य निरोधाज् जरामरणनिरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / जात्याम् असत्यां जरामरणं न भवति जातिनिरोधाज् जरामरणनिरोधः

तस्यैतद् अभवत् कस्मिं न्व् असति जातिर् न भवति कस्य निरोधाज् जातिनिरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / भवे असति जातिर् न भवति भवनिरोधाज् जातिनिरोधः

तस्यैतद् अभवत् कस्मिं न्व् असति भवो न भवति कस्य निरोधाद् भवनिरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / उपादाने ऽसति भवो न भवति उपादाननिरोधाद् भवनिरोधः

तस्यैतदभवत् कस्मिं न्व् असति उपादानं न भवति कस्य निरोधाद् उपादाननिरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / तृष्णायाम् असत्याम् उपादानं न भवति तृष्णानिरोधाद् उपादाननिरोधः

तस्यैतद् अभवत् कस्मिं न्व् असति तृष्णा न भवति कस्य निरोधात् तृष्णानिरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / वेदनायाम् असत्यां तृष्णा न भवति वेदनानिरोधात् तृष्णानिरोधः

तस्यैतद् अभवत् कस्मिं न्व् असति वेदना न भवति कस्य निरोधाद् वेदनानिरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / स्पर्शे ऽसति वेदना न भवति स्पर्शनिरोधाद् वेदनानिरोधः

तस्यैतद् अभवत् कस्मिं न्व् असति स्पर्शो न भवति कस्य निरोधात् स्पर्शनिरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / षडायतने ऽसति स्पर्शो न भवति षडायतननिरोधात् स्पर्शनिरोधः

तस्यैतद् अभवत् कस्मिं न्व् असति षडायतनं न भवति कस्य निरोधात् षडायतननिरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / नामरूपे ऽसति षडायतनं न भवति नामरूपनिरोधात् षडायतननिरोधः

तस्यैतद् अभवत् कस्मिं न्व् असति नामरूपं न भवति कस्य निरोधान् नामरूपनिरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / विज्ञाने ऽसति नामरूपं न भवति विज्ञाननिरोधान् नामरूपनिरोधः

तस्यैतद् अभवत् कस्मिं न्व् असति विज्ञानं न भवति कस्य निरोधाद् विज्ञाननिरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / संस्कारेष्व् असत्सु विज्ञानं न भवति संस्कारनिरोधाद् विज्ञाननिरोधः

तस्यैतदभवत् कस्मिं न्व् असति संस्कारा न भवन्ति कस्य निरोधात् संस्कारनिरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि / अविद्यायाम् असत्यां संस्कारा न भवंति अविद्यानिरोधात् संस्कारनिरोधः

इति अविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधो: विज्ञाननिरोधान् नामरूपनिरोधो: नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधो: वेदनानिरोधात् तृष्णानिरोधः (mav 134) तृष्णानिरोधाद् उपादाननिरोधः उपादाननिरोधाद् भवनिरोधो: भवनिरोधाज् जातिनिरोधो: जातिनिरोधाज् जरामरणनिरोधः शोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यंत्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

imāṃ kathāṃ pariṣadi vartamānāṃ mahānuśaṃsāṃ vadata śṛṇudhvam yā bodhisatvasya babhūva pūrve dharmeṣv avekṣā ananuśruteṣu 1 rahogatasya ^ ^ tasya dhyāyato vipaśyino 'bhūn manasābhicintitam kutonidānaṃ maraṇaṃ jarā ca saṃbhavati nānāvividhaṃ ca duḥkham 2 tasyaikam ekāgramanasya dhyāyato x _ ^ _ ry. m udapādi jñānam jātinidānaṃ maraṇaṃ jarā ca saṃbhavati nānāvividhaṃ ca duḥkham 3 jātir athaiṣāpi kutonidānā kiṃpratyayā kaḥ punar asya hetuḥ bhavanidānā bhavamūlikā ca jātir bhavapratyayatāṃ pratītya 4 upādadānaḥ punas tatra tatra punarbhavaṃ v. ^ ^ _ pratītya | x _ ^ _ _ ^ ^ _ ^ _ x x _ upādānam idaṃ pratītya 5 prabhūtabhakṣasya hi pāvakasya samīritaṃ vāyuvaśād yathārci / evam upādānam idaṃ hi bhavati tṛṣṇānidānaṃ jvalati yathārciḥ 6 tṛṣṇā punar vedayitaṃ pratītya utpadyate jālinī duḥkhamūlikā / viṣaktikā saritā sīvanī ca sukhena duḥkhena ca saṃprayuktā 7 sparśas tathaivāyatanaṃ pratītya utpadyate vedayitaṃ narāṇām sātā asātā atha vāpy upekṣā tisra imā vedanā sparśasaṃbhavā 8 sparśas tathaivāyatanaṃpratītya utpadyate so 'pi hitasya hetuḥ cakṣuś ca śrotraṃ ca tathaiva ghrāṇaṃ jihvā ca kāyaś ca manaś ca ṣaṣṭham 9 idaṃ hi ṣaḍāyatanaṃ sahetukam utpadyate nāmarūpaṃ pratītya /

रिक्तं च तुच्छञ् च असारकञ् च अनाश्वासिकं विपरिणामधर्मम् 10 नाम च रूपं च कुतोनिदानं किंप्रत्ययंकः पुनर् अस्य हेतुः इत्य् एतम् अर्थं परिचिन्तयानो ददर्श विज्ञाननिदानम् एव 11 विज्ञानम् एतच् च कुतोनिदानं किंप्रत्ययं कः पुनर् अस्य हेतुः इत्य् एतम् अर्थं प्रवणे विचिन्त्य ददर्श संस्कारनिदानम् एव 12 कृत्स्नं च संस्कारगतं यद् एतत् किंप्रत्ययं कः पुनर् अस्य हेतुः इत्य् एतम् अर्थं भगवां विपश्यी ददर्श अज्ञाननिदानम् एव 13 एवम् इदं भवति सहेतुकं भृशं सप्रत्ययम् अस्ति निदानम् अस्य / तस्माद् दुःखे विपरिणामधर्मे ज्ञात्वा पिपासां विनयन्ति पण्डिता 14 तद् इदं हि देवैर् न कृतं न मानुषैर् न चेश्वरैर् निर्मितं नाभिवाद्यैः प्रत्येति विद्वां कुशलस्मृतश् च दुःखस्य ज्ञात्वा प्रभवं शमं च 15 अज्ञानम् एतच् च यदा निरुध्यते इमे ऽपि संस्कारस् तदा न सन्ति / इमे ऽपि संस्कार यदा न सन्ति इदं च विज्ञानम् अथो निरुध्यते 16 विज्ञानम् एतच् च यदा निरुध्यते नाम च रूपं च ततो निरुध्यते / नाम च रूपं च यदा अशेषं निरुध्यते नायतनानि सन्ति 17 इमानि चेद् आयतनान्य् अशेषं यदा निरुध्यंति न सन्ति स्पर्शा / स्पर्शेष्व् असत्सु न भवंति वेदना अवेदयानस्य न संति तृष्णा 18 तृष्णानिरोधान् नोपाददाति अनुपाददानस्य भवा न सन्ति / भवस्य चाध्यस्तगमान् निरोधाज् जातिः कदाचिन् न कथंचिद् अस्ति 19 जातेर् निरोधान् मरणं जरा च शोकश् च दुःखं परिदेवितं च / सर्वस्य चाध्यस्तगमो निरोधश् चक्षुष्मता एवम् इदं निबुद्धम् 20 गंभीरम् एतं निपुणं सुदुर्दृशं प्रतीत्यसमुत्पादम् अवैति शास्ता /

asmiṃ satīdaṃ hi sadā pravartate asati ca tasmiṃ hi sadā na bhavati 21 yadā prajānāti yatonidānaṃ yāṃ pratyayān āyatanāni santi / na tasya bhūya ito bahirdhā paryeṣaṇā bhavati svayaṃ viditvā 22 yadā ca taṃ paśyaty ātmanaiva na nāma bhavati parivartakaḥ saḥ prahāya moham udapādi jñānaṃ duḥkhasya jñātvā prabhavaṃ śamaṃ ca 23 cittaṃ yadā caitasikāś ca dharmā anityatas suviditā bhavanti / hīnaṃ praṇītaṃ ca yad asti rūpaṃ samyagdṛśo vetti pralopadharmam 24 yam āha duḥkhopanayaṃ sukhāvahaṃ mārgaṃ śivaṃ yātum ananyaneyam .ai _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x || 25 yā vā akopyā atulā anaṅgaṇā virā ^ _ _ ^ ^ _ ^ _ ^ x | x kaḥ sa _ _ ^ ^ _ ^ _ ^ x x _ ^ _ _ ^ ^ _ ^ _ x 26 x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ kuleṣu /

vālam iva tiro vitatakṣureṇa prati ^ _ _ ^ ^ _ ^ _ x 27 x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ vigatāsya saṃjñā / nānān ^ _ _ ^ ^ _ ^ _ ṣe sa rāṣṭṛ _ _ ^ ^ _ ^ _ x 28 ||

5. the four noble truths tatredānīṃ vipaśyī bodhisatvo jarāmaraṇam adrākṣīj jarāmaraṇasamudayaṃ jarāmaraṇanirodhaṃ jarāmaraṇanirodhagāminīṃ pratipadam adrākṣīt evaṃ jātiṃ bhavam upādānaṃ tṛṣṇāṃ vedanāṃ sparśaṃ ṣaḍāyatanaṃ nāmarūpaṃ vijñānaṃ saṃskārān adrākṣīt saṃskārasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadam adrākṣīt

रूपम् अद्राक्षीद् रूपसमुदयं रूपनिरोधं रूपनिरोधगामिनीं प्रतिपदम् अद्राक्षीत् वेदनां संज्ञां संस्कारां विज्ञानम् अद्राक्षीत् विज्ञानसमुदयं विज्ञाननिरोधं विज्ञाननिरोधगामिनीं प्रतिपदम् अद्राक्षीत्

ज्ञानं चास्य दर्शनं चोत्पन्नं संबोधपक्षिकेषु धर्मेषु क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानाम्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽस्मीत्य् अध्यज्ञासीद् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

rūpaṃ ca saṃjñāṃ ca tathaiva vedanāṃ saṃskāraṃ vijñānam anityam adhya x | na e ^ _ _ ^ ^ _ ^ _ ^ tis tatraiva saṃprāptavan āsravakṣayam 1 picur yathā mārutavegapreritaṃ diśo diśaṃ gacchati preryamāṇaḥ tathaiva mārasya balaṃ su _ ^ x x _ ^ _ s tūlapicu ^ _ x 2 ||

6. the two questions acirābhisaṃbuddhasya vipaśyinaḥ samyaksaṃbuddhasya dvau vitarkau bahulaṃ samudācāriṣṭām naiṣkramyavitarkaś ca pravivekavitarkaś ca iyam atra dharmatā tasmād idam ucyate ||

tathāgatasyāpratituly. _ x x _ ^ _ _ ^ ^ _ ^ _ l. | babhūva _ _ ^ ^ _ katā ^ x x _ ^ _ _ ^ ^ _ ^ tāyinaḥ 1 x _ ^ _ dharmavaśimān aśeṣo viśvottaras tṛṣṇākṣayād viraktaḥ vimuktacitto hy akhilo anāsravo vya _ ^ _ _ ^ ^ _ ^ _ ^ x 2 ||

7. थे रेसोलुतिओन् तो प्रेअछ् अथ विपश्यिनः सम्यक्संबुद्धस्यैतद् अभवत् कस्य न्व् अहं बन्धुमत्यां राजधान्यां प्रथमतो धर्मन् देशयेयम्

अथ विपश्यिनः सम्यक्संबुद्धस्यैतद् अभवत् यन्व् अहं खण्डस्य च राजकुमारस्य तिष्यस्य च पुरोहितपुत्रस्य प्रथमतो धर्मन् देशयेयम् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

शैले यथा पर्वतमूर्धनि स्थितो यद्वां हि पश्येज् जनतां समन्तात् तथा ह्य् असौ धर्ममयं सुमेध प्रासादम् आरुह्य समन्तचक्षुः शोकाभिभूतां जनताम् अशोको ऽद्राक्षीद् इमां जातिजराभिभूताम् ॥

8. थे बुद्ध गोएस् तो बन्धुमती अथ विपश्यी सम्यक्संबुद्धो बोधिमूलं यथाभिरम्यं विहृत्य येन बन्धुमती राजधानी तेन चर्यां प्रक्रान्तः विपश्यी सम्यक्संबुद्धो बन्धुमतीं राजधानीम् अनुप्राप्तः इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

siṃho yathā parvatakuṃjavāsī viś _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ ^ ^ mo ^ _ x x bandhumatyāṃ ^ ^ _ ^ _ x ||

9. the first sermon to the two principal disciples atha vipaśyī samyaksaṃbuddho dāvapālaṃ puruṣam āmantrayati ehi tvaṃ bho dāvapāla yena khaṇḍaś ca rājakumāras tiṣyaś ca purohitaputras tenopasaṃkrāma upetya khaṇḍañ ca rājakumāraṃ tiṣyañ ca purohitaputram evaṃ vada vipaśyī yuvāṃ samyaksaṃbuddho āgataḥ sa vāṃ draṣṭukāmaḥ

एवं भदन्तेति स दावपालो पुरुषो विपश्यिनः सम्यक्संबुधस्य प्रतिश्रुत्य येन खण्डश् च राजकुमारस् तिष्यश् च पुरोहितपुत्रस् तेनोपजगाम उपेत्य खण्डं च राजकुमारं तिष्यञ् च पुरोहितपुत्रम् इदम् अवोचत्

विपश्यी युवां सम्यक्संबुद्धो आगतः स वां द्रष्टुकामः

अथ खलु खण्डश् च राजकुमारस् तिष्यश् च पुरोहितपुत्रस् तस्य पुरुषस्य प्रतिश्रुत्य येन विपश्यी सम्यक्संबुद्धस् तेनोपजग्मतुः उपेत्य विपश्यिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकांते न्यषीदताम् (mav 148) एकान्तनिषण्णौ खण्डञ् च राजकुमारं तिष्यं च पुरोहितपुत्रं विपश्यी सम्यक्संबुद्धस् त्रिभिः प्रातिहार्यैर् अववदति ऋद्धिप्रातिहार्येणादेशनाप्रातिहार्येण आनुशासनाप्रातिहार्येण

तौ त्रिभिः प्रातिहार्यैः सम्यग् अववद्यमानौसम्यग् अनुशिष्यमाणौ तत्रैव संप्राप्तवन्ताव् आस्रवक्षयम् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

saṃbodhilabdhas tad upāgamaj jinaḥ x _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ m amṛtaṃ prakāśitaṃ pravartitaṃ bhagavatā dharmacakram 1 tau khaṇḍatiṣyau sugatasya śrāvakau x _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ pratividhyatus tadā tatraiva prāptavantāv āsravakṣayam 2 ||

10. another eightythousand people of bandhumatī renounce the world aśrauṣur bandhumatyāṃ rājadhānyām aśītiprāṇasahasrāṇi khaṇḍaś ca rājakumāras tiṣyaś ca purohitaputraḥ keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy āchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitau

श्रुत्वा च पुनर् एषाम् एतद् अभवन् न बतावरो धर्मो भविष्यति नावरं धर्माख्यानं यत्रेदानीं खण्डश् च राजकुमारस् तिष्यश् च पुरोहितपुत्रस् तथा सुकुमारौ तथा सुखैषिणौ केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आछाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितौ श्रुत्वा च पुनस् ते ऽपि केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आछाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजिता इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

आश्चर्यरूपं प्रतिभाति मे तद् यावत् सुसंवेजकाः शुद्धसत्वा / श्रुत्वाहि प्रव्रजितौ खण्डतिष्यौ प्रव्रज्यां तत्र समुपागताश् च ॥

11. the display of the three attainments athāśītir bhikṣusahasrāṇi yena vipaśyī samyaksaṃbuddhastenopajagmur upetya vipaśyinaḥ samyaksaṃbuddhasya pādau śirasā vanditvā ekānte nyaṣīdan ekāntaniṣaṇṇāny aśītir bhikṣusahasrāṇi khaṇḍo rājakumāra ṛddhiprātihāryeṇāvavadati tiṣyaḥ purohitaputra ādeśanāprātihāryeṇāvavadati vipaśyī samyaksaṃbuddha ānuśāsanāprātihāryeṇāvavadati

ते त्रिभिः प्रातिहार्यैः सम्यग् अववद्यमानाः सम्यग् अनुशिष्यमानास् तत्रैव संप्राप्तवन्त आस्रवक्षयम् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

khaṇḍaś ca _ _ ^ ^ _ ^ _ ^ x x _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x ||

12. return of the first eightythousand renunciants of bandhumatī aśrauṣus tāni pūrvakāṇy aśītir bhikṣusahasrāṇi vipaśyī samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddho deśayati bandhumatyāṃ rājadhānyāṃ dharmam श्रुत्वा च पुनस् ते ऽपि येन बन्धुमती राजधानी तेन चर्यां प्रक्रान्ता इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ hi yath. ^ _ ^ x | x _ ^ _ _ ^ m asārasaṃjñina upāgatā bandhumatyāṃ ^ _ ^ x ||

13. the display of the three attainments to the eightythousand renunciants athāśītir bhikṣusahasrāṇi yena vipaśyī samyaksaṃbuddhas tenopajagamuḥ upetya vipaśyinaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdan ekāntaniṣaṇṇāny aśītir bhikṣusahasrāṇi vipaśyī samyaksaṃbuddhas tribhiḥ prātihāryair avavadati ṛddhiprātihāryeṇādeśanāprātihāryeṇānuśāsanāprātihāryeṇa

ते त्रिभिः प्रातिहार्यैः सम्यग् अववद्यमानाः सम्यग् अनुशिष्यमाणास् तत्रैव संप्राप्तास्रवक्षयम् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

s x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ ^ ^ pākaḥ _ ^ x x _ ṇa bhavanaśrit. _ ^ _ ^ x ||

14. six more years of peregrination tena khalu samayena bandhumatyāṃ rājadhānyāṃ mahān bhikṣusaṃghaḥ prativasati yad uta dvāṣaṣṭabhikṣuśatasahasrāṇi

अथ विपश्यिनः सम्यक्संबुद्धस्यैतद् अभवद् एतर्हि बन्धुमतीं राजधानीं निःशृत्य महान् भिक्षुसंघः प्रतिवसति यद् उत द्वाषष्टभिक्षुशतसहस्राणि यन्व् अहं श्रावकान् उद्योजयेयम् चरत भिक्षवश् चर्यां बहुजनहिताय बहुजनसुखाय लोकानुकम्पायार्थाय हिताय सुखाय देवमनुष्याणाम् अपि तु षण्णां यूयं वर्षाणाम् अत्ययाद् बन्धुमतीं राजधानीम् आगच्छत प्रातिमोक्षसूत्रोद्देशं श्रोतुम्

अथ देवताः शुद्धावासे स्थितास् तस्य चेतसा चित्तम् आज्ञाय भगवन्तम् अवोचन्

एतर्हि बन्धुमतीं राजधानीन् निःशृत्य महान् भिक्षुसंघः प्रतिवसति यद् उत द्वाषष्टभिक्षुशतसहस्राणि भगवान् श्रावकान् उद्योजयेत् अहम् अपि तथा करिष्यामि यथा भिक्षवः षण्णां वर्षाणाम् अत्ययाद् बन्धुमतीं राजधानीम् आगमिष्यन्ति प्रातिमोक्षसूत्रोद्देशं श्रोतुम्

अथ विपश्यी सम्यक्संबुद्धः श्रावकान् आमंत्रयति

चरत भिक्षवश् चर्यां बहुजनहिताय बहुजनसुखाय लोकानुकम्पायार्थाय हिताय सुखाय देवमनुष्याणाम् अपि तु षण्णां यूयं वर्षाणाम् अत्ययाद् बन्धुमतीं राजधानीम् आगच्छत प्रातिमोक्षसूत्रोद्देशं श्रोतुम्

एवं भदंत इति भिक्षवो विपश्यिनः सम्यक्संबुद्धस्य प्रतिश्रुत्य जनपदचर्यां प्रक्रान्ताः इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

yaḥ sārthavāhaḥ sumahāj. _ ^ x x _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x 1 x _ ^ _ _ ^ ^ _ ^ _ x x reṇa śiṣyāsaṅgāt pramu _ ^ x | x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ tā diśo diśam 2 ||

15. the deities announce the years of peregrination remaining nirgate ekasmin varṣe devatā ārocayaṃti nirgataṃ bhadaṃtāḥ ṣaṇṇāṃ varṣānāṃ ekaṃ varṣam pañcanāṃ varṣāṇām atyayād bhavadbhir bandhumātīṃ rājadhānīṃ gantavyaṃ prātimokṣasūtroddeśaṃ śrotum

निर्गतयोर् द्वयोर् वर्षयोर् देवता आरोचयन्ति निर्गते भदन्ताश् षण्णां वर्षानां द्वे वर्षे चतुर्णां वर्षाणाम् अत्ययाद् भवद्भिर् बन्धुमतीं राजधानीं गंतव्यं प्रातिमोक्षसूत्रोद्देशं श्रोतुम्

निर्गतेषु त्रिषु वर्षेषु यावन् निर्गतेषु षट्सु वर्षेषु देवताः शुद्धावासे स्थिता भिक्षुगणं वदन्ति वर्षाणि षष्ठानि निर्गतानि भवद्भिर् बन्धुमतीं राजधानीं गन्तव्यं प्रातिमोक्षसूत्रोद्देशं श्रोतुम् अथ ते भिक्षव एकत्य स्वानुभावेन एकत्य देवतानुभावेन तत एव आजग्मुर् बन्धुमतीं राजधानीम् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ṛṣiṃ praveditām śikṣāṃ śrotu _ ^ ta bhikṣavaḥ ^ x x _ ^ _ _ ^ ^ _ ^ _ x 1 x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x | nāgā yathā _ ^ tṛṣābhitaptāḥ saṃ _ ^ _ _ ^ ^ _ ^ _ x 2 ||

16. the recitation of the pratimokṣasūtra yadopajagmur dvāṣaṣṭabhikṣuśatasahasrāṇi bandhumatyāṃ tadā nirmāṇaratīnāṃ devatānām evam abhavat vipaśyī samyaksaṃbuddhas tasya dvāṣaṣṭasya bhikṣuśatasahasrāṇāṃ purataḥ paryaṃge paryaṃgena niṣīdet niṣadya vipaśyī samyaksaṃbuddhaḥ prātimokṣasūtroddeśam uddiśet

एवम् एव विपश्यी सम्यक्संबुद्धस् तस्य द्वाषष्टस्य भिक्षुशतसहस्राणां पुरतः पर्यङ्के पर्यङ्केन न्यषीदन् निषद्य विपश्यी सम्यक्संबुद्धः प्रातिमोक्षसूत्रोद्देशम् उद्दिशति ॥

क्षांतिः परमं तपस् तितीक्षा निर्वाणं परमं वदन्ति बुद्धाः न हि प्रव्रजितः परोपतापी श्रमणो भवति परां विहेठयानः ॥इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ vipaśyi śikṣāpadasūtram uktavān x _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ .iddhaḥ ||

iii. how did the devatā preach ? kathaṃ devatā ārocayaṃti

[विसितिन्ग् शुद्धावास हेअवेन्] तस्य मे एतद् अभवद् अ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + न गतपूर्वो वा तस्य मे एतद् अभवन् नाहम् + + + + + + + + + + ति + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + स्थापयित्वा + + शुद्धावासान् देवां + + + + + + + विष्येताहं लो + + + + + + + + + + + + + + + + + + + + यन्व् अहं देवान् शुद्धावासान् दर्शनायोपसंक्रमेयम्

[अबृह हेअवेन्] सो ऽहं तद्यथा बलवान् पुरुषः संमिञ्जितं वा बाहुं प्रसारयेत् प्रसारितं वा संमिञ्जयेद् एवम् एवाहं जम्बुद्वीपे ऽन्तर्हितो ऽबृहे देवनिकाये प्रत्यस्थाम्

अदर्शन्न् अबृहकायिका देवता मां दूरत एव दृष्ट्वा च पुनर् एवम् आहुः एहि भगवं स्वागतं भदन्त कुतो भगवांश् चिरचिरस्य पर्यायम् अकार्षीद् इहागमनाय निषीदतु भगवान् प्रज्ञप्त एवासने

न्यषीदम् अहं प्रज्ञप्त एवासने

अथाबृहकायिका देवता मम पादौ शिरसा वन्दित्वा एकान्ते न्यषीदन्न् एकान्तनिषण्णा अबृहकायिका देवता अहं धार्म्या कथया संदर्शयामि समादापयामि समुत्तेजयामि संप्रहर्षयामि

अथैकत्या अबृहकायिका देवता उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येनाहं तेनांजलिं प्रणम्य माम् इदम् अवोचन्

वयं भदन्त विपश्यिनः सम्यक्संबुद्धस्य श्रावका विपश्यिनः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरित्वेहोपपन्नाः वयं शिखिनः वयं विश्वभुजः वयं क्रकसुन्दस्य वयं कनकमुनेः वयं काश्यपस्य वयं भगवतः श्रावका भगवतो ऽन्तिके ब्रह्मचर्यं चरित्वेहोपपन्नाः

[from atapa heaven to sudarśana heaven] so 'ham abṛhakāyikā devatādhārmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte abṛhakāyikābhir devatābhiḥ sārdham abṛhe devanikāye 'ntarhito 'tape devanikāye yāvat sudarśane devanikāye pratyasthām pūrvavad yāvad

[अकनिष्ठ हेअवेन्] यन्व् अहं देवान् अप्य् अकनिष्ठकायिकां दर्शनायोपसंक्रमेयम्

सो ऽहं तद्यथा बलवान् पुरुषः संमिञ्जितं वा बाहुं प्रसारयेत् प्रसारितं वा संमिञ्जयेद् एवम् एवाहम् अबृहकायिकाभिर् देवताभिः सार्धम् अतपकायिकाभिर् देवताभिः सार्धं सुदृशकायिकाभिर् देवताभिः सार्धं सुदर्शनकायिकाभिर् देवताभिः सार्धं सुदर्शने देवनिकाये ऽन्तर्हितो ऽकनिष्ठे देवनिकाये प्रत्यस्थाम्

अदर्शन्न् अकनिष्ठकायिका देवता मां दूरत एव दृष्ट्वा च पुनर् एवम् आहुः एहि भगवं स्वागतं भदन्त कुतो भगवां चिरचिरस्य पर्यायम् अकार्षीद् इहागमनाय निषीदतु भगवां प्रज्ञप्त एवासने

न्यषीदम् अहं प्रज्ञप्त एवासने

अथाकनिष्ठकायिका देवता मम पादौ शिरसा वन्दित्वा एकांते न्यषीदन्न् (mav 162) एकांतनिषण्णा अकनिष्ठकायिका देवता अहं धार्म्या कथया संदर्शयामि समादापयामि समुत्तेजयामि संप्रहर्षयामि

अथैकत्या अकनिष्ठकायिका देवता उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येनाहं तेनांजलिं प्रणम्य माम् इदम् अवोचन्

वयं भदन्त विपश्यिनः सम्यक्संबुद्धस्य श्रावका विपश्यिनः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरित्वा इहोपपन्नाः वयं शिखिनः वयं विश्वभुजः वयं क्रकसुन्दस्य वयं कनकमुनेः वयं काश्यपस्य वयं भगवतः श्रावका भगवतो ऽन्तिके ब्रह्मचर्यं चरित्वेहोपपन्नाः

[रेतुर्न् तो जम्बुद्वीप] सो ऽहम् अकनिष्ठकायिका देवता धार्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते अकनिष्ठे देवनिकाये अंतर्हितो जम्बुद्वीपे प्रत्यस्थाम्

एवं देवता आरोचयंति इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥

balavān yathā naro ^ _ ^ _ x prasāritaṃ vā parisaṃhareta / tathaiva śūro dvipadottamo munir abṛhāṃs tadā devagaṇān upāgamat 1 yā _ ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x | x _ ^ _ _ ^ ^ _ ^ _ x atapāṃs tadā devagaṇān upāgamat 2 vārī yathā _ ^ ^ _ ^ _ sthitaṃ vivartate na ^ ca tena lipyate / tathaiva śūro dvipadottamo muniḥ sudṛśāṃs tadā devagaṇān upāgamat 3 abṛhaiś ca sārdham atapaiś ca sārdhaṃ parivāritaḥ sudṛśadevatābhiḥ anaṃtavarṇo hi śriyā jvalaṃtaṃ sudarśanān devagaṇān upāgamat 4 śuddhādhivāsair anugamyamānaḥ parivārito devatānāṃ sahasraiḥ anaṃtavarṇaḥ śatapuṇyalakṣaṇaḥ akaniṣṭhabhūmiṃ samupāgato jinaḥ 5 dharmadṛśo dharmaniyāmakovidā vipaśyino buddhavarasya śrāvakāḥ tathāgataṃ prāṃjalayo 'bhyupāgatā vyabhre dine yathaiva sūryam udgatam 6 buddhasya śikhinaḥ sametya śrāvakā ājñātadharmāḥ svayam āgatāḥ phale / tathāgataṃ prāṃjalayo 'bhyupāgatās tripañcarātrābhyuditam iva candram 7 te viśvabhuj _ ^ ^ masya śrāvakāḥ prahāya pañcāvaraṇāni cetasaḥ tathāgataṃ prāṃjalayo 'bhyupāgatā niśi jvalaṃtaṃ pravana iva pāvakam 8 te vītarāgāḥ krakasundaśrāvakāḥ kāmeṣu cchandaṃ pratighaṃ vinodya / tathāgataṃ prāṃjalayo 'bhyupāgatāḥ śaṃkaraṃ bhūtapatim iva devatāḥ 9 jinasya te kanakamunes tu śrāvakā bhāvyeha mārgam amṛtopalabdhaye / tathāgataṃ prāṃjalayo 'bhyupāgatā yaśasvinaṃ vaiśravaṇam i _ ^ x 10 x _ ^ _ _ ^ ^ _ ^ _ x an _ ^ _ _ ^ bahuhetucintakāḥ tathāgataṃ prāṃjalayo 'bhyupāgatāḥ x _ ^ _ _ ^ ^ _ ^ _ x m 11 tathāgato vyupaśa ^ _ ^ _ ^ do devāṃ gato varavipulardhiyuktaḥ athāgatā dṛḍhasthirabandhan _ x x _ ^ _ _ ^ ^ śrāvakā vayam 12 āvāsaśreṣṭhā khalu pañca ete śuddhair ihādhyuṣitās tatvadarśibhiḥ viśuddhaśīlaṃ sama _ upāgatā jinam ana _ ^ ^ _ ^ _ vayam 13 eṣo hi saptānyatamo vināyakaḥ oghaṃjahaḥ kāmabhaveṣv asaktaḥ evaṃ hi devā akaniṣṭhakāyikāḥ x _ ^ _ _ ^ ^ _ ^ _ x 14 aratiratisaho hi bhikṣur evam xx _ _ śayanāsanaṃ bhajeta / tatra ca vihared ihāpramatto bhava _ _ ^ ^ _ ^ _ ^ _ _ 15 ||

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.