Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महासुदर्शनावदान
- Thông tin
- GRETIL — H. Matsumura: The Mahāsudarśanāvadāna and the Mahāsudarśanasūtra, Delhi 1988 (Bibliotheca Indo-Buddhica 47).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
महासुदर्शनावदान
म्सुअव् [1] (gbm 1451.8) // पुनर् अपि महाराज यन् मया अनुत्तरां सम्यक्संबोधिं प्रार्थयता सत्वहितं (gbm 1550.1) कृतं तच् छ्रूयतां.
म्सुअव् [2] भूतपूर्वं महाराज राजा बभूव महासुदर्शनो नाम सप्तभि रत्नैः समन्वागतः चतसृभिश् च मानुषिकाभि रिद्धिभिः. कतमैः सप्तभि रत्नैः, तद्यथा (gbm 1550.2) चक्ररत्नेन हस्तिरत्नेनाश्वरत्नेन मणिरत्नेन स्त्रीरत्नेन गृहपतिरत्नेन परिणायकरत्नेन सप्तमेन. कतमाभिश् चतसृभिः मानुषिकाभि रिद्धिभिः समन्वागत, राजा (gbm 1550.3) महाराज महासुदर्शनो दीर्घायुर् अभूच् चिरस्थितिकः. स चतुरशीतिं वर्षसहस्राणि कुमारक्रीडायां क्रीडितवां, चतुरशीतिं वर्षसहस्राणि यौवराज्यं कारितवां, (gbm 1550.4) चतुरशीतिं वर्षसहस्राणि महाराज्यं कारितवां, चतुरशीतिं वर्षसहस्राणि राजर्षिब्रह्मचर्यम् अचार्षीद्. यन् महाराज राजा महासुदर्शनो (gbm 1550.5) दीर्घायुर् अभूच् चिरस्थितिकश् चतुरशीतिं वर्षसहस्राणि यावद् राजर्षिब्रह्मचर्यम् अचार्षी, इयं राज्ञो महासुदर्शनस्य रिद्धिर् इत्य् उच्यते.
म्सुअव् [3] पुनर् अपरं महाराज (gbm 1550.6) राजा महासुदर्शनो ऽभिरूपो ऽभूद् दर्शनीयः प्रासादिकः अतिक्रान्तश् च मानुषं वर्णम् असंप्राप्तश् च दिव्यं वर्णं. यन् महाराज राजा महासुदर्शनो ऽभिरूपो ऽभूद् दर्शनीयः (gbm 1550.7) प्रासादिकः अतिक्रान्तश् च मानुषं वर्णम् असंप्राप्तश् च दिव्यं वर्णं, इयं राज्ञो महासुदर्शनस्य रिद्धिर् इत्य् उच्यते. //
म्सुअव् [4] पुनर् अपरं महाराज राजा महासुदर्शनो ऽल्पाबाधो (gbm 1550.8) ऽभूद् अरोगजातीयः समपाचन्या ग्रहण्या समन्वागतो नात्युष्णया नातिशीतया अव्याबाधया ऋतुसुखया ययास्याशितपीतखादितास्वादितानि सम्यक् सुखेन (gbm 1551.1) परिपाकं गच्छन्ति यन् महाराज राजा महासुदर्शनो ऽल्पाबाधो ऽभूद् अरोगजातीयः पूर्ववद्, इयं राज्ञो महासुदर्शनस्य रिद्धिर् इत्य् उच्यते. //
म्सुअव् [5] पुनर् अपरं महाराज राजा महासुदर्शनो नैगमजानपदानां प्रियश् चाभून् मनापश् च (gbm 1551.2) तद्यथा पुत्राणां पिता. राज्ञो ऽपि महासुदर्शनस्य नैगमजानपदा प्रियश् चाभूवन् मनआपश् च तद्यथा पितुः पुत्राः. एको ऽयं महाराज समयो राजा महासुदर्शन (gbm 1551.3) उद्यानभूमिं निर्यान् सारथिम् आमन्त्रयते. शनैस् तावत् सारथे मन्दमन्दं रथं प्रेरय यावद् अहं चिरचिरा नैगमजानपदां द्रक्ष्यामि (सिच्; मत्सुमुर प्रक्ष्यामि). नैगमजानपदा अपि सारथिम् (gbm 1551.4) आमन्त्रयन्ते. शनैस् तावत् सारथे मन्दमन्दं रथं प्रेरय यावद् वयं चिरचिरा देवं द्रक्ष्यामः (सिच्; मत्सुमुर प्रक्ष्यामः). यन् महाराज राजा महासुदर्शनो नैगमजानपदानां प्रियश् (gbm 1551.5) चाभून् मनापश् च तद्यथा पुत्राणां पिता राज्ञो ऽपि महासुदर्शनस्य नैगमजानपदाः प्रियश् चाभूवन् मनापश् च तद्यथा पितुः (सिच्; मत्सुमुर ओम्.) पुत्रा, इयं रज्ञो महासुदर्शनस्य (gbm 1551.6) रिद्धिर् इत्य् उच्यते.
म्सुअव् [6] अथापरेण समयेन नैगमजानपदाः प्रभूतं हिरण्यसुवर्णम् आदाय मणिरत्नं कंबलरत्नं च, येन राजा महासुदर्शनस् तेनोपसंक्रान्ता (gbm 1551.7) उपसंक्रम्य राजानं महासुदर्शनम् इदम् अवोचन्. इदम् अस्माभिर् देवम् उद्दिश्य प्रभूतं हिरण्यसुवर्णं मणिरत्नम् आनीतं कंबलरत्नं च. तद् देवः प्रतिगृह्णात्व् (gbm 1551.8) अनुकंपाम् उपादाय. अलं ग्रामण्यः संविद्यन्ते मे इदम् एवंरूपं धनजातम् इत्य् उक्त्वा नाधिवासयति. द्विर् अपि त्रिर् अपि नैगमजानपदा राजानं महासुदर्शनम् (gbm 1552.1) इदम् अवोचन्. इदम् अस्माभिर् देवम् उद्दिश्य प्रभूतं हिरण्यसुवर्णम् आनीतं मणिरत्नं कंबलरत्नं च. तद् देवः प्रतिगृह्णात्व् अनुकंपाम् उपादाय. द्विर् अपि त्रिर् अपि राजा महासुदर्शनो नैगमजानपदान् इदम् अवोचत्. (gbm 1552.4) अलं ग्रामण्यः संविद्यन्ते मे इदम् एवंरूपं धनजातम् इत्य् उक्त्वा नाधिवासयति. अथ नैगमजानपदानाम् एतद् अभवन्. नास्माकं प्रतिरूपं स्याद् यद् अस्माभिर् (gbm 1552.5) देवम् उद्दिश्य प्रभूतं हिरण्यसुवर्णम् आनीतं मणिरत्नं कंबलरत्नं च, यद् वयं पुनर् अप्य् आदाय स्वकस्वकानि निवेशनानि प्रक्रामेम, यन् नु वयं (gbm 1552.6) राज्ञो महासुदर्शनस्य पुरस्तान् महान्तं हिरण्यसुवर्णस्य राशिम् आकीर्य मणिरत्नं कंबलरत्नं चैकान्ते उपनिक्षिप्य एतत् ते देव धनजातम् इत्य् उक्त्वा निरपेक्षाः (gbm 1552.7) प्रक्रामेम. इति नैगमजानपदा राज्ञो महासुदर्शनस्य पुरस्तान् महान्तं हिरण्यसुवर्णस्य राशिम् आकीर्य मणिरत्नं कंबलरत्नं चैकान्ते उपनिक्षिप्य एतत् ते (gbm 1552.8) देव धनजातम् इत्य् उक्त्वा निरपेक्षाः प्रक्रान्ताः.
म्सुअव् [7] अथ राज्ञो महासुदर्शनस्यैतद् अभवत्*. संपन्नं मे धनजातं धर्मेण नाधर्मेण. यन्व् अहं धर्म्यं प्रासादं (gbm 1553.1) मापयेयम्. अश्रौषुश् चतुरशीति कोट्टराजसहस्राणि राजा महासुदर्शन उद्युक्तो धर्म्यं प्रासादं मापयितुम्. इति श्रुत्वा च पुनर् येन राजा महासुदर्शनः तेनोपसंक्रान्ता. (gbm 1553.2) उपसंक्रम्य राजानं महासुदर्शनम् इदम् अवोचं. अल्पोत्सुको देवो भवतु धर्म्यात् प्रासादाद्. वयं देवस्य धर्म्यं प्रासादं मापयिष्यामो. ऽलं (सिच्; मत्सुमुर ल्पं) ग्रामण्यः (gbm 1553.3) संविद्यन्ते मे इदम् एवंरूपं धनजातं इत्य् उक्त्वा नाधिवासयति. द्विर् अपि त्रिर् अपि चतुरशीतिं कोट्टराजसहस्राणि राजानं महासुदर्शनम् इदम् अवोचं. अल्पोत्सुको (gbm 1553.4) देवो भवतु धर्म्यात् प्रासादाद्. वयं देवस्य धर्म्यं प्रासादं मापयिष्यामो. द्विर् अपि त्रिर् अपि राजा महासुदर्शनश् चतुरशीतिं कोट्टराजसहस्राण्i-m-idam (gbm 1553.5) अवोचत्. अलं ग्रामण्यः संविद्यन्ते मे इदम् एवंरूपं धनजातम् इत्य् उक्त्वा नाधिवासयति.
म्सुअव् [8] अथ तद् एके कोट्टराजानां राज्ञो महासुदर्शनस्य पादयोर् निपत्य, (gbm 1553.6) एके बाहू प्रगृह्य, एके चीवरकर्णके प्रगृह्य, एके येन राजा महासुदर्शनस् तेनांजलिं प्रणमय्य राजानं महासुदर्शनम् इदम् अवोचन्*. अल्पोत्सुको देवो भवतु (gbm 1553.7) धर्म्यात् प्रासादाद्. वयं देवस्य धर्म्यं प्रासादं मापयिष्यामो. ऽधिवासयति राजा महासुदर्शनश् चतुरशीति कोट्टराजसहस्राणां तूष्णींभावेन.
म्सुअव् [9] अथ चतुरशीति (gbm 1553.8) कोट्टराजसहस्राणि राज्ञो महासुदर्शनस्य तूष्णींभावेनाधिवासनां विदित्वा स्वकस्वकानि विजितानि गत्वा प्रभूतं हिरण्यसुवर्णम् आदाय एकैकं (gbm 1554.1) च रत्नस्तंभं येन राजा महासुदर्शनस् तेनोपसंक्रान्ता, उपसंक्रम्य राजानं महासुदर्शनम् इदम् अवोचन्*. कुत्र वयं देवस्य धर्म्यं प्रासादं मापयिष्यामः (gbm 1554.2) कियन्तं वा. तेन हि यूयं ग्रामण्यः पूर्वेण कुशावत्यां धर्म्यं प्रासादं मापयतः योजनम् आयामेन योजनं विस्तारेण. एवं देवेति चतुरशीति कोट्टराजसहस्राणि (gbm 1554.3) राज्ञो महासुदर्शनस्य प्रतिश्रुत्य पूर्वेण कुशावत्यां धर्म्यं प्रासादं मापयन्ति योजनम् आयामेन योजनं विस्तारेण.
म्सुअव् [10.1] धर्म्ये महाराज प्रासादे (gbm 1554.4) चतुर्विधाः प्राचीना मापिता अभूवं सुवर्णमया रुप्यमया वैडूर्यमया स्फटिकमयाः.
म्सुअव् [10.2] धर्म्ये प्रासादे चतुर्विधा न्यासा न्यस्ता (सिच्; मत्सुमुर न्यक्ता) अभूवं सुवर्णमया (gbm 1554.5) रुप्यमया वैडूर्यमया स्फटिकमयाः.
म्सुअव् [10.3] धर्म्ये प्रासादे चतुर्विधा स्तंभा उच्छृता अभूवं सुवर्णमया रुप्यमया वैडूर्यमया स्फटिकमयाः. सुवर्णमयस्य (gbm 1554.6) स्तंभस्य रुप्यमयः कुंभकः तृकटकः शीर्षको गोसारको मापितो ऽभूद्. रुप्यमयस्य सुवर्णमयो. वैडूर्यमयस्य स्फटिकमयः. स्फटिकमयस्य (gbm 1554.7) स्तंभस्य वैडूर्यमयः कुंभकः तृकटकः शीर्षको गोसारको मापितो ऽभूद्.
म्सुअव् [10.4] धर्म्ये प्रासादे चतुर्विधा अवसंगा मापिता अभूवन्* सौवर्णमया रुप्यमया (gbm 1554.8) वैडूर्यमया स्फटिकमया.
म्सुअव् [1ओ.5] धर्म्ये प्रासादे चतुर्विधा अन्नाग्रा मापिता अभूवं सुवर्णमया रुप्यमया वैडूर्यमया स्फटिकमया.
म्सुअव् [10.6] धर्म्ये प्रासादे (gbm 1555.1) चतुर्विधा बलधरण्या मापिता अभूवं सुवर्णमय्यो रुप्यमय्यः वैडूर्यमय्यो स्फटिकमय्यः.
म्सुअव् [lo.7] धर्म्ये प्रासादे चतुर्विधा निर्यूहा मापिता अभूवन्* सुवर्णमयानि (gbm 1555.2) रुप्यमयानि वैडूर्यमयाणि स्फटिकमयानि.
म्सुअव् [10.8] धर्म्यः प्रासादश् चतुर्विधैः फलकैः च्छन्नो ऽभूत्* सुवर्णमयै रुप्यमयैः वैडूर्यमयैः स्फटिकमयैः.
म्सुअव् [10.9] धर्म्ये प्रासादे (gbm 1555.3) चतुर्विधानि सोपानानि मापितान्य् अभूवन्* सुवर्णमयानि रुप्यमयानि वैडूर्यमयानि स्फटिकमयानि.
म्सुअव् [10.10] धर्म्यः प्रासादः चतुर्विधाभिर् वेदिकाभिः परिक्षिप्तो ऽभूत् (gbm 1555.4) सुवर्णमयीभि रुप्यमयीभि वैडूर्यमयीभि स्फटिकमयीभिः. सुवर्णमय्या वेदिकायाः रुप्यमयः आलंबनम् अधिष्ठानं सूचको मापितो ऽभूत्*. रुप्यमय्या (gbm 1555.5) सुवर्णमयः, वैडूर्यमय्या स्फटिकमयः, स्फटिकमय्या वैडूर्यमय-म्-आलंबनम् अधिष्ठानं सूचको मापितो ऽभूत्*.
म्सुअव् [10.11] धर्म्ये प्रासादे चतुर्विधानि (gbm 1555.6) कूटागाराणि मापितानि अभूवन्* सुवर्णमयानि रुप्यमयानि वैडूर्यमयानि स्फटिकमयानि. सुवर्णमये कूटागारे रुप्यमयः पर्यंक स्थापितो ऽभूत्* (gbm 1555.7) पट्टिकास्तृतो गोणिकास्तृतस् तूलिकास्तृतः चितृकास्तृतो व्यहतिकास्तृतः पललिकास्तृतः कालिंगप्रावारप्रत्यास्तरणः सोत्तरोच्छदपटः उभयतोपहितलोहितोपधानः. (gbm 1555.8) रुप्यमये सुवर्णमयः, वैडूर्यमये स्फटिकमयः, स्फटिकमये महाराज कूटागारे वैडूर्यमयः पर्यङ्कः स्थापितो ऽभूत् पट्टिकास्तृतो (gbm 1556.1) गोणिकास्तृतस् तूलिकास्तृतः चित्रिकास्तृतः व्यहतिकास्तृतो पललिकास्तृतः कालिंगप्रावारप्रत्यास्तरणः सोत्तरोच्छदपट उभयतोपहितलोहितोपधानः. (gbm 1556.2)
म्सुअव् [10.12] सुवर्णमयस्य कूटागारस्य पुरस्ताद् रुप्यमयस् तालो मापितो ऽभूत् सुवर्णमयेन पत्रेण पुष्पेण फलेन. रुप्यमयस्य सुवर्णमयो, (gbm 1556.3) वैडूर्यमयस्य स्फटिकमयः, स्फटिकमयस्य कूटागारस्य पुरस्ताद् वैडूर्यमयः तालो मापितो ऽभूत् स्फटिकमयेन पत्रेण पुष्पेण फलेन.
म्सुअव् [10.13] तेषां खलु (gbm 1556.4) तालानां वायुना ईर्यमाणानां अयम् एवंरूपो मनोज्ञः शब्दो निश्चरति. तद्यथा पंचांगिकस्य तूर्यस्य कुशलेन पुरुषेण सम्यक्सुप्रवादितस्य. (gbm 1556.5)
म्सुअव् [10.14] धर्म्यः प्रासादः कनकवालुकास्तृतो ऽभूच् चन्दनवारिपरिषिक्तो हेमजालावनद्धो सुवर्णकङ्कणिकावृतः.
म्सुअव् [11] अथ चतुरशीतिः कोट्टराजसहस्राणि (gbm 1556.6) सर्वजातकृतनिष्ठितं धर्म्यं प्रसादं विदित्वा धर्म्यस्य प्रासादस्य पुरस्ताद् धर्म्यां पुष्करिणीं मापयन्ति योजनम् आयामेन योजनं विस्तारेण. धर्म्या (gbm 1556.7) पुष्करिणी चतुर्विधाभिर् इष्टकाभिश् चिताभूत् सुवर्णमयीभिः रुप्यमयीभि वैडूर्यमयीभिः स्फटिकमयीभिः. धर्म्यायं पुष्करिण्यां चतुर्विधानि सोपानानि (gbm 1556.8) मापितान्य् अभूवन् सुवर्णमयानि रुप्यमयानि वैडूर्यमयानि स्फटिकमयानि. धर्म्या पुष्करिणीश् चतुर्विधाभिर् वेदिकाभिः परिक्षिप्ताभूत्* सुवर्णमयीभि (gbm 1557.1) रुप्यमयीभि वैडूर्यमयीभिः स्फटिकमयीभिः. सुवर्णमय्या महाराज वेदिकाया रुप्यमयम् आलंबनम् अधिष्ठानं सूचको मापितो ऽभूत्*. रुप्यमय्याः सुवर्णमयं, (gbm 1557.2) वैडूर्यमय्याः स्फटिकमयं, स्फटिकमय्याः वैडूर्यमयम् आलंबनम् अधिष्ठानं सूचको मापितो ऽभूत्*. धर्म्यां पुष्करिण्यां विविधानि जलजानि माल्यानि रोपितान्य् (gbm 1557.3) अभूवन् तद्यथोत्पलं पद्मं कुमुदं पुण्डरीकं सौगन्धिकं मृदुगन्धिकं सर्वर्तुकं सर्वकालिकं अनावृतं सर्वजनस्य. धर्म्याया महाराज पुष्करिण्या उभयतीरे (gbm 1557.4) विविधानि स्थलजानि माल्यानि रोपितान्य् अभूवन्* तद्यथा अतिमुक्तश् चंपक पाटला वार्षिका मल्लिका नवमालिका सुमना यूथिका धानुष्कारी सर्वर्तुकं (gbm 1557.5) सर्वकालिकम् अनावृतं सर्वजनस्य. धर्म्या पुष्करिणी कनकवालुकास्तृताभूच् चन्दनवारिषिक्ता हेमजालावनता सुवर्णकंकणिकावृता.
म्सुअव् [12] अथ चतुरशीति (gbm 1557.6) कोट्टराजसहस्राणि सर्वजातकृतनिष्ठितां धर्म्यां पुष्करिणीं विदित्वा धर्म्यायाः पुष्करिण्या पुरस्ताद् धर्म्यं तालवनं मापयन्ति योजनम् आयामेन (gbm 1557.7) योजनं विस्तारेण. धर्म्ये महाराज तालवने चतुर्विधास् ताला मापिता अभूवन्* सुवर्णमया रुप्यमया वैडूर्यमया स्फटिकमया. सुवर्णमयस्य (gbm 1557.8) तालस्य रुप्यमयं पत्रं पुष्पं फलं मापितम् अभूद्. रुप्यमयस्य सुवर्णमयं, वैडूर्यमयस्य स्फटिकमयं, स्फटिकमयस्य वैडूर्यमयं पत्रं पुष्पं फलं (gbm 1558.1) मापितम् अभूत्. तेषां खलु तालानां वायुना ईर्यमनानाम् अयं एवंरूपो मनोज्ञः शब्दो निश्चरति. तद्यथा पंचांगिकस्य तूर्यस्य कुशलेन पुरुषेण (gbm 1558.2) सम्यक्सुप्रवादितस्य. धर्म्यं तालवनं चतुर्विधाभिर् वेदिकाभिः परिक्षिप्तम् अभूत् सुवर्णमयीभि रुप्यमयीभिः वैडूर्यमयीभिः स्फटिकमयीभिः. सुवर्णमय्या (gbm 1558.3) वेदिकाया रुप्यमयम् आलंबनम् अधिष्ठानं सूचको मापितो ऽभूत्*. रुप्यमय्या सुवर्णमयं, वैडूर्यमय्या स्फटिकमयं, स्फटिकमय्या वैडूर्यमयम् आलंबनम् (gbm 1558.4) अधिष्ठानं सूचको मापितो ऽभूत्*. धर्म्यं तालवनं कनकवालुकास्तृतम् अभूच् चन्दनवारिपरिषिक्तं हेमजालावनतं सुवर्णकंकणिकावृतम्. (gbm 1558.5)
म्सुअव् [13.1] अथ चतुरशीति कोट्टराजसहस्राणि सर्वजातकृतनिष्ठितं धर्म्यं प्रासादं धर्म्यां पुष्करिणीं धर्म्यं तालवनं विदित्वा येन राजा महासुदर्शनस् (gbm 1558.6) तेनोपसंक्रान्तान्य्. उपसंक्रम्य राजानं महासुदर्शनम् इदम् अवोचन्*. सर्वजातकृतनिष्ठितो देवस्य धर्म्यः प्रासादो धर्म्या पुष्करिणी (gbm 1558.7) धर्म्यं तालवनं. यस्येदानीं देवः कालं मन्यते. अथ राज्ञो महासुदर्शनस्यैतद् अभवन्. न मम प्रतिरूपं स्याद् यद् अहम् एवम् एव तत्प्रथमतो धर्म्यं प्रासादम् अधिनिवसेयं. (gbm 1558.8) यन्व् अहं ये मे विजिते साधुरूपसंमताः श्रमणब्राह्मणाः प्रतिवसन्ति ते तां धर्म्ये प्रासादे भोजयित्वा प्रत्येकप्रत्येकं नवेन दुष्ययुगेनाच्छदयेयम्. (gbm 1559.1)
म्सुअव् [13.2] अथ राजा महासुदर्शनो ये ऽस्य विजिते साधुरूपसंमताः श्रामणब्राह्मणाः प्रतिवसन्ति तां धर्म्ये प्रासादे भोजयित्वा प्रत्येकप्रत्येकं (gbm 1559.2) नवेन दुष्ययुगेनाच्छादयति. अथ राज्ञो महासुदर्शनस्यैतद् अभवन्. न मम प्रतिरूपं स्याद् यद् अहं धर्म्ये प्रासादे पंचभिः कामगुणैस् समर्पितः (gbm 1559.3) समन्वंगीभूतः क्रीडेयं रमेयं परिचारयेयं. यन्व् अहं धर्म्यं प्रासादं अभिरुह्य्ऽ; एकेन पुरुषेणोपस्थायकेन राजर्षिब्रह्मचर्यं चरेयं. (gbm 1559.4) अथ राजा महासुदर्शनो धर्म्यं प्रासादम् अभिरुह्य्ऽ; एकेन पुरुषेणोपस्थायकेन राजर्षिब्रह्मचर्यम् अचार्षीद्.
म्सुअव् [14] अथ राजा महासुदर्शनः सुवर्णमयं (gbm 1559.5) कूटागारं प्रविश्य रुप्यमये पर्यंके पर्यंकेन निषद्य विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं (gbm 1559.6) प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. रुप्यमया पर्यंकाद् अवतीर्य सुवर्णमयात् कूटागारान् निष्क्रम्य रुप्यमयं कूटागारं प्रविश्य सुवर्णमये (gbm 1559.7) पर्यंके पर्यंकेन निषद्य विविक्तं कामैर् यावत् प्रथमं ध्यानम् उपसंपद्य विहरति. सुवर्णमयात् पर्यंकाद् अवतीर्य रुप्यमयात् कूटागारान् निष्क्रम्य वैडूर्यमयं (gbm 1559.8) कूटागारं प्रविश्य स्फटिकमये पर्यंके पर्यंकेन निषद्य विविक्तं कामैर् यावत् प्रथमं ध्यानम् उपसंपद्य विहरति. स्फटिकमयात् पर्यंकाद् अवतीर्य (gbm 1560.1) वैडूर्यमयात् कूटागारन् निष्क्रम्य स्फटिकमयं कूटागारं प्रविश्य वैडूर्यमये पर्यंके पर्यंकेन निषद्य विविक्तं कामैर् यावत् प्रथमं ध्यानम् उपसंपद्य (gbm 1560.2) विहरति.
म्सुअव् [15] अथ चतुरशीति स्त्रीसहस्राणि येन स्त्रीरत्नं तेनोपसंक्रान्ता उपसंक्रम्य स्त्रीरत्नम् इदम् अवोचन्*. यत् खलु देवि जानीथा, चिरदृष्टो ऽस्माभिर् (gbm 1560.3) देवः, परितृषिताः स्मो देवस्य दर्शनेन, इच्छामो वयं देवं द्रष्टुं. तेन हि यूयं भगिन्यः आगमयत यावद् अहं परिणायकरत्नम् अवलोकयामि. अथ (gbm 1560.4) स्त्रीरत्नं परिणायकरत्नं दूतेन प्रक्रोश्येदम् अवोचत्*. यत् खलु सेनापते जानीयाच्, चिरदृष्टो ऽस्माभिर् देव, परितृषिता स्मो देवस्य दर्शनेन, (gbm 1560.5) इच्छामो वयं देवं द्रष्टुं. तेन हि यूयं भगिन्यः सर्वा पीतालंकारा भवत पीतवस्त्रा पीतमाल्याभरणानुलेपना पीतपरिवारा. यावद् (gbm 1560.6) अहं चतुरशीतिं कोट्टराजसहस्राणि सन्निपातयामि, चतुरशीतिं नागसहस्राण्य् उपोषधनागराजप्रमुखानि, चतुरशीतिम् अश्वसहस्राणि (gbm 1560.7) वालाहाश्वराजप्रमुखानि, चतुरशीति रथसहस्राणि नन्दीघोषरथप्रमुखानि. तथा भवत्व् इति ताः श्रियः प्रतिश्रुत्य (gbm 1560.8) स्त्रियः सर्वाः पीतालंकाराभूवं पीतवस्त्राः पीतमाल्याभरणानुलेपनाः पीतपरिवाराः. अथ परिणायकरत्नं चतुरशीतिं कोट्टराजसहस्राणि (gbm 1561.1) सन्निपात्य, चतुरशीति नागसहस्राणि पोषधनागराजप्रमुखानि, चतुरशीतिं अश्वसहस्राणि वालाहाश्वराजप्रमुखानि, चतुरशीतिं रथसहस्राणि (gbm 1561.2) नन्दीघोषरथप्रमुखानि सन्निपात्य, स्त्रीरत्नं नन्दीघोषरथे आरोप्य, अवशिष्टा स्त्रियः प्रत्येकप्रत्येकरथेष्व् आरोप्य, कुशावत्या निष्क्रम्य, (gbm 1561.3) येन धर्म्यः प्रासादस् तेनोपसंक्रान्ताः. तेन खलु समयेन धर्म्यस्य प्रासादस्याधस्ताद् उच्चशब्दमहाशब्दो महाजनकायस्य च निर्घोषो ऽभुद्.
म्सुअव् [16] अश्रौषीद् (gbm 1561.4) राजा महासुदर्शनो धर्म्यस्य प्रासादस्याधस्ताद् उच्चशब्दमहाशब्दो महाजनकायस्य च निर्घोषो ऽभूच्. छ्रुत्व च पुनर् उपस्थायकं पुरुषम् आमन्त्रयते. (gbm 1561.5) किम् एतद् भोः पुरुष धर्म्यस्य प्रासादस्याधस्ताद् उच्चशब्दमहाशब्दो महाजनकायस्य च निर्घोषः. एतानि देव चतुरशीतिं स्त्रीसहस्राणि (gbm 1561.6) स्त्रीरत्नप्रमुखानि धर्म्यस्य प्रासादस्याधस्तात् तिष्ठन्ति देवं द्रष्टुकामानि, चतुरशीतिः कोट्टराजसहस्राणि परिणायकरत्नप्रमुखानि, (gbm 1561.7) चतुरशीति नागसहस्राण्य् उपोषधनागराजप्रमुखानि, चतुरशीतिम् अश्वसहस्राणि वालाहाश्वराजप्रमुखानि, चतुरशीतिं रथसहस्राणि (gbm 1561.8) नन्दीघोषरथप्रमुखानि धर्म्यस्य प्रासादस्याधस्तात् तिष्ठन्ति. अथ राजा महासुदर्शन उपस्थायकं पुरुषम् आमन्त्रयते. तेन हि त्वं भोः (gbm 1562.1) पुरुष धर्म्यस्य प्रासादस्याधस्तात् सौवर्णं भद्रासनं प्रज्ञपय, यत्राहं निषद्य महाजनकायम् अपेक्ष्याम्य्. एवं देवेत्य् उपस्थायकः पुरुषो राज्ञो महासुदर्शनस्य (gbm 1562.2) प्रतिश्रुत्य धर्म्यस्य प्रासादस्याधस्तात् सौवर्णं भद्रासनं प्रज्ञप्य येन राजा महासुदर्शनस् तेनोपसंक्रान्तः. उपसंक्रम्य राजानं महासुदर्शनम् (gbm 1562.3) इदम् अवोचत्. प्रज्ञप्तं देवस्य धर्म्यस्य प्रासादस्याधस्तात् सौवर्णं भद्रासनं. यस्येदानीं देवः कालं मन्यते.
म्सुअव् [17] अद्राक्षीद् राजा महासुदर्शनो धर्म्यात् (gbm 1562.4) प्रासादाद् अवतारन्* (सिच्; मत्सुमुर: ध(र्मस्य प्रासादस्याधस्ता)त्) सर्वास् ताः स्त्रियः पीतालंकाराः पीतवस्त्राः पीतमाल्याभरणानुलेपनाः पीतपरिवाराः. दृष्ट्वा च पुनर् अस्यैतद् (gbm 1562.5) अभवत्. अतिरञ्जनीयो बतायं मातृग्राम इति विदित्वा इन्द्रियाण्य् उत्क्षिपत्य्. अद्राक्षी स्त्रीरत्नं राजानं महासुदर्शनम् इन्द्रियाण्य् उत्क्षिपन्तं (gbm 1562.6) दृष्ट्वा पुनर् अस्या एतद् अभवद्. यथा खलु देवो ऽस्माकं दृष्ट्वा इन्द्रियाण्य् उत्क्षिपति. मा हैव देवो ऽस्माभिर् अनर्थिको भविष्यतीति. अथ राजा महासुदर्शनो (gbm 1562.7) धर्म्यात् प्रासादाद् अवतीर्य सौवर्णे भद्रासने निषण्णो. ऽथ स्त्रीरत्नं येन रजा महासुदर्शनस् तेनोपसंक्रान्तम्. उपसंक्रम्य राज्ञो (gbm 1562.8) महासुदर्शनस्य पादयोर् निपत्य राजानं महासुदर्शनम् इदम् अवोचत्*. एतानि देवस्य चतुरशीतिः स्त्रीसहस्राणि, यत्र देवच् छन्दं जनयत्व् अपेक्षां करोतु देवो (gbm 1563.1) जीविते. चतुरशीति कोट्टराजसहस्राणि परिणायकरत्नप्रमुखानि, चतुरशीति नागसहस्राण्य् उपोषधनागराजप्रमुखानि, चतुरशीतिम् (gbm 1563.2) अश्वसहस्राणि वालाहाश्वराजप्रमुखानि, चतुरशीतिं रथसहस्राणि नन्दीघोषरथप्रमुखानि, चतुरशीतिन् नगरसहस्राणि कुशावतीराजधानीप्रमुखानि, (gbm 1563.3) अत्र देवच् छन्दं जनयत्व् अपेक्षां करोतु देवो जीविते. पूर्वे च त्वं मां भगिनि मित्रवत्तया समुदाचरसि सा त्वम् एतर्हि सपत्नवत्तया. (gbm 1563.4)
msuav [18] atha strīratnaṃ rājñā mahāsudarśanena bhaginivādena samudācaritaṃ prārodīd, aśrūṇi pravartayaty, evaṃ cāha. yathā khalu devo 'smākaṃ (gbm 1563.5) bhaginivādena samudācarati na cirā devāsmākaṃ devena sārdhaṃ nānābhāvo bhaviṣyati vinābhāvo viprayogo visaṃyogaḥ. atha strīratnaṃ cīvareṇāśrūṇi (gbm 1563.6) pramṛjya [o. von hinüber, "die bestimmung der schulzugehörigkeit buddhistischer texte nach sprachlichen kriterien", zur schulzugehörigkeit von werken der hīnayāna-literatur (symposium zur buddhismusforschung, iii,1), ed. h. bechert, göttingen 1985 (aawg, 149), erster teil, pp. 73, anm. 46: puṃjya] rājño mahāsudarśanasya pādayor nipatya rājānaṃ mahāsudarśanam idam avocat*. yathā kathaṃ pūrve vayaṃ devaṃ mitravattayā samudācarāmas (gbm 1563.7) tathā vayam etarhi samudācarāmo na sapatnavattayā. ehi tvaṃ bhaginy, evaṃ vada. alpakaṃ deva jīvitaṃ manuṣyāṇāṃ. gamanīyaḥ saṃparāyaḥ, kartavyaṃ (gbm 1563.8) kuśalaṃ, caritavyaṃ brahmacaryaṃ. nāsti jātasyāmaraṇaṃ. so 'pi deva kṣaṇalavamuhūrto na prajñāyate yatra devasya sarveṇa sarvaṃ śarīranikṣepo bhaviṣyati. (gbm 1564.1) yo devasya caturaśītiṣu strīsahasreṣu cchando vā rāgo vā sneho vā prema vā ālayo vā niyantir adhyavasānaṃ vā taṃ devaḥ prajahātu nirapekṣo (gbm 1564.2) devo bhavatu jīvite. yo devasya caturaśītiṣu koṭṭarājasahasreṣu pariṇāyakaratnapramukheṣu, caturaśītiṣu nāgasahasreṣūpoṣadhanāgarājapramukheṣu, (gbm 1564.3) caturaśītiṣu-r-aśvasahasreṣu vālāhāśvarājapramukheṣu, caturaśītiṣu rathasahasreṣu nandīghoṣarathapramukheṣu, caturaśītiṣu (gbm 1564.4) nagarasahasreṣu kuśāvatīrājadhānīpramukheṣu cchando vā rāgo vā sneho vā prema vā ālayo vā niyantir adhyavasānaṃ (gbm 1564.5) vā taṃ devaḥ parijahātu nirapekṣo devo bhavatu jīvite. evaṃ hi tvaṃ bhagini mitravattayā samudācara mā sapatnavattayā.
म्सुअव् [19] इदानीं वयं देवं (gbm 1564.6) मित्रवत्तया समुदचरामो, न सपत्नवत्तया. अल्पकं देव जीवितं मनुष्याणां गमनीयः सांपरायः, कर्तव्यं कुशलं, चरितव्यं ब्रह्मचर्यं. (gbm 1564.7) नास्ति जातस्यामरणं सो ऽपि देव क्षणलवमुहूर्तो न प्रज्ञायते यत्र देवस्य सर्वेण सर्वं शरीरनिक्षेपो भविष्यति. यो देवस्य चतुरशीतिषु (gbm 1564.8) स्त्रीसहस्रेषु च्छन्दो वा रागो वा स्नेहो वा प्रेम वा आलयो वा नियन्तिर् अध्यवसानं वा तं देवः प्रजहातु निरपेक्षो देवो भवतु जीविते. (gbm 1565.1) यो देवस्य चतुरशीतिषु कोट्टराजसहस्रेषु परिणायकरत्नप्रमुखेषु, चतुरशीतिषु नागसहस्रेषु उपोषधनागराजप्रमुखेषु, चतुरशीतिष्व् (gbm 1565.2) अश्वसहस्रेषु वालाहाश्वराजप्रमुखेषु, चतुरशीतिषु रथसहस्रेषु नन्दीघोषरथप्रमुखेषु, चतुरशीतिषु नगरसहस्रेषु कुशावतीराजधानीप्रमुखेषु (gbm 1565.3) च्छन्दो व रागो वा स्नेहो वा प्रेम वा आलयो वा नियन्तिर् अध्यवसानं वा तं देवः प्रजहातु निरपेक्षो देवो भवतु जीविते.
म्सुअव् [20] अथ राजा महासुदर्शनः (gbm 1565.4) स्त्रीरत्नेनानेनाववादेन चोदितो धर्म्यं प्रासादम् अभिरुह्य सुवर्णमयं कूटागारं प्रविश्य रुप्यमये पर्यंके पर्यंकेन निषद्य मैत्रीसहगतेन (gbm 1565.5) चित्तेनावैरेणासपत्नेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेन सुभावितेनैकां दिशम् अधिमुच्य स्फरित्वोपसंपद्य विहरति. (gbm 1565.6) तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम् इत्य् ऊर्ध्वम् अधस् तिर्यक् सर्वशस् सर्वम् इमं लोकं मैत्रीसहगतेन चित्तेनावैरेणासपत्नेनाव्याबाधेन (gbm 1565.7) विपुलेन महद्गतेनाप्रमाणेन सुभावितेनैकां दिशम् अधिमुच्य स्फरित्वोपसंपद्य विहरति. रुप्यमयात् पर्यंकाद् अवतीर्य सुवर्णमयात् कूटागारान् निष्क्रम्य रुप्यमयं (gbm 1565.8) कूटागारं प्रविश्य सुवर्णमये पर्यंके पर्यंकेन निषद्य करुणासहगतेन चित्तेनावैरेण यावद् अधिमुच्य स्फरित्वोपसंपद्य विहरति. (gbm 1566.1) सुवर्णमयात् पर्यंकाद् अवतीर्य रुप्यमयात् कूटागारान् निष्क्रम्य वैडूर्यमयं कूटागारं प्रविश्य स्फटिकमये पर्यंके पर्यंकेन निषद्य मुदितासहगतेन चित्तेन (gbm 1566.2) यावद् अधिमुच्य स्फरित्वोपसंपद्य विहरति. स्फटिकमयात् पर्यंकाद् अवतीर्य वैडूर्यमयात् कूटागरान् निष्क्रम्य स्फटिकमयं कूटागारं प्रविश्य वैडूर्यमये (gbm 1566.3) पर्यंके पर्यंकेन निषद्योपेक्षासहगतेन चित्तेन यावद् अधिमुच्य स्फरित्वोपसंपद्य विहरति.
म्सुअव् [21] अथ राजा महासुदर्शनश् चतुरो ब्रह्मां (gbm 1566.4) विहारां भावयित्वा कामेषु कामच्छन्दं प्रहाय तद्बहुलविहारी ब्रह्मलोकसभागतायाम् उपपन्नो. राज्ञो महासुदर्शनस्येयम् (सिच्; मत्सुमुर -नस्येनं) एवं (gbm 1566.5) अनुभूता मरणान्तिकी वेदना, तद्यथा बलवतः पुरुषस्य सुभोजनं भुक्तवतो मुहूर्तं स्याद् भक्तक्लमः.
म्सुअव् [22] यावच् च महाराज कुशिनगरी, यावच् (gbm 1566.6) च नदी हिरण्यवती, यावच् च यमकसालवनं, यावच् च मल्लानां मुकुटबन्धनचैत्यम् अत्रान्तरा द्वादश योजनानि सामन्तकेन यत्र तथागतस्य षट्कृत्वः (gbm 1566.7) शरीरनिक्षेपो ऽभूत् स च राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य इह सप्तमिकां वारां. तच् च तथागतस्यार्हतः सम्यक्संबुद्धस्य नाहं महाराज तं पृथिवीप्रदेशं (gbm 1566.8) समनुपश्यामि यदिवा पूर्वस्यां दिशि यदिवा दक्षिणस्यां यदिवा पश्चिमस्यां यदिवा उत्तरस्यां दिशि यत्र तथागतस्याष्टमं वा शरीरनिक्षेपो भविष्यति. तत् कस्य (gbm 1567.1) हेतोः.
उच्छिन्ना तथागतस्य महाराज भवनेत्री / (सिच्; मत्सुमुर (समु)च्छिन्ना) विक्षीणो जातिसंसारो नास्तीदानीं पुनर्भव // 1 // इति //
अन्तरोद्दानं
प्राचीनन्यासस्तंभा अवसंगा अन्नाग्रबलधरण्यनिर्यूहा / (gbm 1567.2) फलकसोपानवेदिका कूटतालकनकाश् च // 2 // इति
म्सुअव् [23] अथ राजा महासुदर्शनो धर्मे प्रासादे पंच प्रत्येकबुद्धशतानि भोजयित्वा (gbm 1567.3) प्रत्येकप्रत्येकं दुष्ययुगेनाच्छादयित्वा गाथां भासते.
लब्ध्वा हि विपुलं चित्तं न प्रमाद्येद् विचक्षणः / दद्यात् संपन्नशीलेभ्यो यत्र रिध्यन्ति दक्षिणा // 3 // एवं दत्वेह मे धावी (gbm 1567.4) श्राद्धो मुक्तेन चेतसा / अव्याबाधसुखे लोके उपपद्येत पण्डितः // 4 // इति.
म्सुअव् [24] स्यात् खलु महाराजान्यस् स तेन कालेन तेन समयेन महासुदर्शनो (gbm 1567.5) नाम राजा चक्रवर्ती चतुर्द्वीपेश्वरः सप्तभि रत्नैः समन्वागतः चतसृभि मानुषिकाभि रिद्धिभिर् इति, न खल्व् एवं द्रष्टव्यं. अहम् एव स तेन (gbm 1567.6) कालेन तेन समयेन महाराजाभूवन् महासुदर्शनो नाम राजा चक्रवर्ती चतुर्द्वीपेश्वरः सप्तभि रत्नैः समन्वागतः चतसृभि मानुषिकाभि रिद्धिभिः (gbm 1567.7) इति. स्यात् खलु महाराज तेन मया दानेन वा दानसंविभागेन वा अनुत्तरा सम्यक्संबोधिर् अधिगतेति, न खल्व् एवं द्रष्टव्यं. अपि तु तद् दानम् अनुत्तरायास् सम्यक्संबोधेः (gbm 1567.8) हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम् इति.
महासुदर्शनावदानः समाप्त.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
