Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महावस्तु-अवादन
- Thông tin
- GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
___तेषां दानि पंचानां कुमाराणां ओपुरस्य निपुरस्य करण्डकस्य उल्कामुखस्य हस्तिकशीर्षस्य च ओपुरो कुमारो ज्येष्ठो // सो कपिलवस्तुस्मिं राज्ये च अभिषिक्तो // ओपुरस्य राज्ञो पुत्रो निपुरो निपुरस्य राज्ञो पुत्रो करकण्डो करकण्डकस्य राज्ञो पुत्रो उल्कामुखो उल्कामुखस्य पुत्रो हस्तिकशीर्षो हस्तिकशीर्षस्य पुत्रो सिंहहनुः // सिंहहनुस्य राज्ञो चत्वारि पुत्राः शुद्धोदनो धौतोदनो शुक्लोदनो अमृतोदनो अमिता च नाम दारिका //
___तहिं दानि अपरस्य शाकियस्य महत्तरस्य धीता प्रासादिका दर्शनीया अक्षुद्रावकाशा परमपुष्करतया समन्वागता तस्या दारिकाये कुष्ठव्याधि उत्पन्नः // सा दानि तेन कुष्ठव्याधिना ग्रस्ता // वैद्या घटन्ति सर्वक्रिया क्रियन्ति न च वार्त्तीभवति आलेपनप्रत्यालेपनानि वमनविरेचनानि च क्रियन्ति न च कुष्ठव्याधि प्रशाम्यति // सर्वं शरीरम् एकव्रणं // सर्वस्य जनस्य तां दृष्ट्वा घृणा उत्पद्यति // सा दानि भ्रातृहि यानके आरूपिय अनुहिमवन्तं नीता // तत्र उत्संगपर्वते गुहां खनापयित्वा सा दारिका प्रवेशिता प्रभूतं च खाद्यभोज्यं उदकं च उपस्तरणप्रावरणं
[_mvu_1.353_] स्थपेत्वा गुहाये द्वारं सुष्ठु पिधित्वा महापांशुराशिं कृत्वा नगरं कपिलवस्तुं प्रविष्टाः // तस्या दानि दारिकाये तहिं गुहाये वसन्तीये तेन निवातेन च संरोधेन च तस्या गुहाये उष्मेण सर्वं च कुष्ठव्याधिं विस्रुतं शरीरं चौक्षं निर्व्रणं उत्तमरूपसंजातं नापि ज्ञायते मानुषिका एषा ति // तहिं दानि उद्देशे व्याघ्रो पर्याहिण्डन्तो आगतो //
घ्राणैः पश्यन्ति पशवः वेदैः पश्यन्ति ब्राह्मणाः / चारैः पश्यन्ति राजानो चक्षुभ्याम् इतरा प्रजा इति //
सो दानि व्याघ्रो तं मनुष्यगन्धम् उपजिघ्रति // तेन दानि तं मनुष्यगन्धम् उपजिघ्रित्वा तं महापांशुराशिं पादेहि अपकर्षितं // तत्र च अविदूरे कोलो नाम राज-ऋषिः प्रतिवसति पंचाभिज्ञो चतुर्ध्यानलाभी // तस्य तं आश्रमपदं मूलोपेतं पत्रोपेतं पुष्पोपेतं फलोपेतं पानीयोपेतं नानावृक्षसम्पन्नं रमणीयं // सो दानि र्षि आश्रमपदं अनुचंक्रमन्तो अनुविचरन्तो तं देशम् आगतो यत्र सा शाक्यकन्या गुहायं निहितिका // तेनापि व्याघ्रेण सर्वं तं पांशुराशिं पादेन अपकर्षितं काष्ठावशेषं संवृत्तं // सो दानि व्याघ्रो तं ऋषिं दृष्ट्वा ओसक्कितो ऋषिणा // व्याघ्रेण तत्पांशु अपकर्षितकं दृष्ट्वा ऋषिस्य कौतूहलं संजातं // तेन दानि ऋषिणा तानि काष्ठानि अपकर्षितानि तस्या गुहाये द्वारम् अपावृतं // तेन शाक्यकन्या दृष्टा उत्तमवीर्येण नापि ज्ञायति मानुषिका ति // एषो ऋषि पृच्छति // भद्रे का त्वं ति // मानुषिका सा आह // अहं कपिलवस्तुतो अमुकस्य शाक्यस्य धीता // साहं कुष्ठव्याधिना परिगता इह जीवन्तिका एवं विवर्जिता // तस्य तां शाक्यकन्यां दृष्ट्वा उत्तमरूपधरां तीव्रो रागो प्रादुर्भूतः //
[_mvu_1.354_] किंचापि तावच् चिरब्रह्मचारी न चास्य रागानुशयो समूहतो / पुनो पि सो रागविषो प्रकुप्यति तिष्ठं यथा काष्ठगतं अनूहतं //
सो दानि राजर्षिः ताये शाक्यकन्याये सार्धं संयोगं गतो ध्यानेहि च अभिज्ञाहि च भ्रष्टो // सो दानि तां शाक्यकन्यां गृह्य आश्रमपदं गतो // सा दानि शाक्यकन्या तहिं आश्रमपदे कोलेन राजर्षिणा सार्धं संवसति // षोडश बालां यमलां पुत्रां प्रजाता // द्वात्रिंश ऋषिकुमारा प्रासादिका दर्शनीया अजिनजटाधराः // ते दानि यं कालं विवृद्धा ऋषिकुमारा ततो मातरे कपिलवस्तुं विसर्जिता // गच्छथ पुत्रा कपिलवस्तुं महानगरं अमुको नाम शाकियो मम पिता वो मातामहो // तस्य अमुकस्य पुत्रा ते वो मातुलका योभूयेन शाक्यमहत्तरका ज्ञातिका महन्तो वो कुलवंशो // ते युष्माकं वृत्तिं संविधेष्यन्ति // ताये शिक्षिता यथा शाक्यानां समुदाचारं // एवं वो शाक्यपरिषा उपसंक्रमितव्या // एवम् अभिवादनं कर्तव्यं / एवं निषीदितव्यं // सर्वे शाक्यसमुदाचारं संदिशित्वा विसर्जिता // ते मातापितृणाम् अभिवादेत्वा प्रदक्षिणं कृत्वा गता अनुपूर्वेण कपिलवस्तुम् अनुप्राप्ताः //
___सर्वे यथायुष्काये पटिपाटिकाये कपिलवस्तुं प्रविशन्ति // तान् ऋषिकुमारां दृष्ट्वा महाजनकायो समन्वाहरति // अहो यादृशा ऋषिकुमाराः प्रासादिका दर्शनीया च अजिनजटाधारिणो // ते दानि महता जनकायेन परिवारिता शाक्यानां संस्थागारम् उपसंक्रान्ताः // पंचमात्राणि च शाक्यशतानि संस्थागारे सन्निषण्णानि अभून्सु संनिपतितानि केनचिद् एव करणीयेन // ते दानि यथा ताये मातरि संदिष्टा तेन समुदाचारेण शाक्यपरिषाम् उपसंक्रान्ता // शाक्यपरिषा ऋषिकुमाराणां तं
[_mvu_1.355_] शाक्यसमुदाचारं दृष्ट्वा विस्मिता // ते दानि शाक्या ऋषिकुमाराणां पृच्छन्ति // कुतो यूयं ति // तेहि तं प्रकृतिं सर्वं आचिक्षितं यथा ताये मातरि संदिष्टा // अनुहिमवन्ते अमुकातो आश्रमपदातो कोलस्य राज-ऋषिस्य पुत्राः अमूकस्य शाक्यस्य धीता सा मो माता // यथा सा शाक्यकन्या तत्र उद्देशे विसर्जिता तथा तेहि मातुः श्रुत्वा शाक्यानां सर्वम् आचिक्षितं // शाक्या श्रुत्वा प्रीताः // सो पि सानं मातामहो शक्यमहत्तरको जीवति महान्तं च कुलवंशं // सो पि कोलो राजर्षि वाराणसीतो ज्येष्ठकुमारं राज्याभिषिंचित्वा ऋषिप्रव्रजितो दिशासु अभिज्ञातपरिज्ञातो महात्मा राजर्षिः // ते दानि शाक्या प्रीता संवृत्ताः राजर्षिणा इमे जाता न प्राकृतेन पुरुषेण // तेषां शाक्यानां भवति // इमे कुमारा अस्माकं सुजाता पि इमेषां च शाक्यकन्या दीयन्तु वृत्तिश् च // तेहि तेषां कुमाराणां शाक्यकन्यायो च दिन्नायो कर्षणानि च दिन्नानि सजनपदानि // तद्यथा नामाश्रमं निगमं सुमुक्तं कर्करभद्रं अपराणि च कर्षणानि सजनपदानि प्रभूतं स्वापतेयं // कोलेन ऋषिणा जाता त्ति कोलिया त्ति समाज्ञा व्याघ्रपथे व्याघ्रपद्या समाज्ञा च //
_____इति श्रीमहावस्तु-अवदाने कोलियानाम् उत्पत्ति समाप्तं //
अथ शाक्यानां देवडहो नाम निगमो // तहिं सुभूतिर् नाम शाक्यानां महत्तरको तेन अमुकातो निगमातो कोलियकन्या नाम भार्या आनीता // तस्य सप्त धीतरो जाता माया महामाया अतिमाया अनन्तमाया चूलीया कोलीसोवा महाप्रजापती // माया-उत्पत्ति //
___राज्ञो सिंहहनुस्य शाक्यराज्ञो चत्वारि पुत्रा दारिका च एका शुद्धोदनो शुक्लोदनो धौतोदनो अमृतोदनो अमिता च दारिका // राज्ञा सिंहहनुना कालगतेन
[_mvu_1.356_] शुद्धोदनेन राज्यं प्रतिलब्धं // राज्ञा शुद्धोदनेन आमात्या आणत्ता सदृशां मे दारिकां आनेथ या भवेय प्रासादिका च कुलीना च // तेहि अमात्येहि समन्ततो ब्राह्मणा विसर्जिता पण्डिता च बहुश्रुता च स्त्रीलक्षणपुरुषलक्षणदारिलाकक्षणविधिज्ञा // गच्छथ दारिकां विजानथ या राज्ञो शुद्धोदनस्य योग्या भवेया // तेहि ब्राह्मणेहि ग्रामनिगमनगरजनपदेहि अण्वन्तेहि शाक्यानां देवडहे निगमे सुभूतिस्य शाक्यस्य सप्त धीतरो दृष्टा तासां सप्तानां धीतराणं माया सर्वप्रधाना कृत्स्ने च जम्बुद्वीपे तादृशा कन्या सुदुर्लभा // तेहि राज्ञो निवेदितं देवडहे निगमे सुभूतिस्य शाक्यस्य सप्त धीतरो प्रासादिका दर्शनीया च एका चात्र सर्वासां सप्तानां भगिनीनां प्रधाना रूपेणापि तेजेनापि प्रज्ञाये पि सर्वगुणसंपन्ना माया नाम // यत्तका अस्माभिः ग्रामनगरनिगमजनपदा अण्विता न खल्व् अस्माभिस् सदृशा कन्या दृष्टपूर्वा यादृशी माया सुभूतिस्य शाक्यस्य धीता // शुद्धोदनेन सुभूतिस्य प्रेषितं // मायां धीतां मम भार्यार्थं देहीति अग्रमहिषी भविष्यति // सुभूतिर् आह दूतानां // मायाये षड्दारिकायो ज्येष्ठतरिकायो याव तायो वुह्यन्ति तता माया महाराजस्य दीयिष्यति // तेहि दूतेहि राज्ञो शुद्धोदनस्य निवेदितं // महाराज एवं सुभूति शाक्यो आह // यावद् इमा ज्येष्ठतरिका षड्दारिकायो वुह्यन्ति ततो माया महाराजस्य दीयिष्यतीति // राज्ञा शुद्धोदनेन भूयो दूतो सुभूतिस्य शाक्यस्य प्रेषितो // सर्वां मे सप्त धीतरां देहि // तेहि दूतेहि सुभूतिस्य शाक्यस्य आरोचितं // राजा शुद्धोदनो आह // सर्वां मे सप्त धीतरो देहीति // सुभूतिना शाक्येन राज्ञो शुद्धोदनस्य संदिष्टं // महाराज दिन्ना ते भवन्तु // ता दानि सर्वायो सप्त दारिकायो राज्ञा शुद्धोदनेन महता राज-ऋद्धीये महता राजानुभावेन महता राजसमृद्धीये
[_mvu_1.357_] आनीता देवडहातो निगमातो कपिलवस्तुं // राज्ञा शुद्धोदनेन द्वे दारिके स्वमन्तःपुरं प्रवेशिता माया च महाप्रजापती च // पंच दारिका पंच भ्रातृणां दिन्ना //
___द्वादशेहि वर्षेहि बोधिसत्वो तुषितभवनातो च्यविष्यति // शुद्धावासा देवा जम्बुद्वीपे प्रत्येकबुद्धानाम् आरोचयन्ति बोधिसत्वो च्यविष्यति रिंचथ बुद्धक्षेत्रं //
तुषितभवनाद् अतियशो च्यविष्यति अनन्तज्ञानदर्शावी / रिंचथ बुद्धक्षेत्रं . . . . . . वरलक्षणधरस्य //
ते श्रुत्व बुद्धशब्दं प्रत्येकजिना महेश्वरवराणां / निर्वांसु मुक्तचित्ता स्वयंभुनो चित्तवशवर्ती //
ते दानि प्रत्येकबुद्धा स्वकस्वकानि व्याकरणानि व्याकरित्वा परिनिर्वृताः //
___वाराणस्यां सार्धयोजने महावनखण्डं तत्र पंच प्रत्येकबुद्धशतानि प्रतिवसेन्सु // ते पि स्वकस्वकानि व्याकरणानि व्याकरित्वा परिनिर्वृता //
आलब्धवीर्या सततानुयोगी उदग्रचित्ता अकुशीदवर्ती / दृढविक्रमा वीर्यबलोपपेता एकचरा खड्गविषाणकल्पा //
वैहायसम् अभ्युद्गम्य तेजोधातुं समापद्यित्वा अनुपादाय परिनिर्वृता // स्वकाये तेजोधातूये मान्सशोणितं ध्यापितं / शरीराणि पतितानि //
. . . . उपेक्षां करुणां च भाव्य आसेवमानो मुदितां च काले / मैत्रेण चित्तेन हितानुकंपी एको चरे खड्गविषाणकल्पो //
[_mvu_1.358_] सर्वेषु प्राणेषु निधाय दण्डं अविहेठको अन्यतरे पि तेषां / निक्षिप्तदण्डो त्रसस्थावरेषु एको चरे खड्गविषाणकल्पो //
ओतारयित्वा गृहिव्यंजणानि संशीर्णपत्रो यथ पारिपात्रो / काषायवस्त्रो अभिनिष्क्रमित्वा एको चरे खड्गविषाणकल्पो //
संदारयित्वा गृहिव्यंजनानि शिखिर् यथा भस्मनि एकचारी / काषायवस्त्रो अभिनिष्क्रमित्वा एको चरे खड्गविषाणकल्पो //
संसेवमानस्य सियातिस्नेहो स्नेहान्वयं दुःखम् इदं प्रभोति / संसेवमानं तु जुगुप्समानो एको चरे खड्गविषाणकल्पो //
संसेवमानस्य सियातिस्नेहो स्नेहान्वयं दुःखम् इदं प्रभोति / प्रियातिस्नेहं विजिगुप्समानो एको चरे खड्गविषाणकल्पो //
संसेवमानस्य सियातिस्नेहो स्नेहान्वयं दुःखम् इदं प्रभोति / प्रिया वियोगं विजुगुप्संआनो एको चरे खड्गविषाणकल्पो //
संसेवमानस्य सियातिस्नेहो
[_mvu_1.359_] स्नेहान्वयं दुःखम् इदं प्रभोति / मित्रेषु आदीनवं संमृशन्तो एको चरे खड्गविषाणकल्पो //
संसेवमानस्य सियातिस्नेहो स्नेहान्वयं दुःखम् इदं प्रभोति / पुत्रेषु आदीनव संमृशन्तो एको चरे खड्गविषाणकल्पो //
पुत्रां सहायान् अवलोकयन्तो हापेति अर्थं प्रतिबद्धचित्तो / न पुत्रम् इच्छेय कुतो सहायान्* एको चरे खड्गविषाणकल्पो //
ज्ञातीं सहायान् अवलोकयन्तो हापेति अर्थं प्रतिबद्धचित्तो / ज्ञाती न इच्छेय कुतो सहायां एको चरे खड्गविषाणकल्पो //
सर्वा खड्गविषाणगाथा विस्तरेण कर्तव्या // पंचानां प्रत्येकबुद्धशतानाम् एक-एका गाथा // ऋषयो ऽत्र पतिता ऋषिपतनं //
___तहिं वनखण्डे रोहको नाम मृगराजा सहस्रमृगयूथं परिहरति // तस्य दुवे पुत्रा न्यग्रोधो च नाम विशाखो च // तेन दानि मृगराजेन एकास्यापि पुत्रस्य पंच मृगशतानि दिन्नानि अपरस्यापि पुत्रस्य पंच मृगशतानि दिन्नानि // ब्रह्मदत्तो काशिराजा अभीक्ष्णं मृगव्यं निर्धावति तं वनषण्डं परिसमन्तं तत्र च मृगानि हन्ति // न तत्तकां मृगां स्वयं उपजीवति यत्तकानि आहतकानि वनगुल्मेषु च वनगहनेषु च शरहारेषु च नडकहारेषु च कण्टकहारेषु च प्रविशित्वा मरन्ति // ते तत्र काकशकुन्तेहि
[_mvu_1.360_] खज्जन्ति // न्यग्रोधो मृगराजा तं भ्रातरं विशाखं आह // विशाख एतं काशिराजं विज्ञापेम // न तत्तका त्वं मृगां स्वयं उपजीवसि यत्तका आहतका गहनेहि प्रदेशेहि प्रविशित्वा मरन्ति काकशकुन्तेहि खाद्यन्ति // वयं राज्ञो एकं मृगं दैवसिकं दास्यामः यो तव स्वयं महानसं प्रविशिष्यति // इमं च मृगयूथं न एवं अनयव्यसनम् आपद्यिष्यन्ति // तस्य भ्राता विशाखो आह // एवं भवतु विज्ञापेम // सो दानि राजा मृगव्यं निर्धावितो // तेहि यूथपतीहि मृगराजेहि सो राजा दृष्टो दूरत एव आगच्छन्तो सबलवाहनो असिधनुशक्तितोमरधरेहि संपरिवृतो // ते दानि तं राजानं दृष्ट्वा येन राजा तेन अभिमुखा प्रत्युद्गता अभीता अनुत्त्रस्ता आत्मानं परित्यजित्वा // तेन दानि काशिराज्ञा मृगराजानौ दृष्ट्वा दूरत एव अभिमुखा आगच्छन्ता // तेन स्वकस्य बलाग्रस्य आणत्ति दिन्ना // न केनचिद् एते मृगा आगच्छन्तो विहेठयितव्या को जानाति किम् अत्र अन्तरं यथैते बलाग्रं दृष्ट्वा न पलायन्ति मम अभिमुखा आगच्छन्ति // बलाग्रेण तेषां मृगाणाम् अन्तरो दिन्नो वामदक्षिणभूतो सो बलाग्रो // ते मृगा येन राजा तेनोपसंक्रमित्वा राज्ञो जानुहि प्रणिपतिताः // राजा तेषां मृगराजानां पृच्छति // का वो विज्ञप्तिः विज्ञापेथ यं वो कार्यं // ते दानि मानुषाये वाचाये तं राजानं विज्ञापेन्ति // महाराज विज्ञापाम // वयं तव इह राज्ये अत्र वनखण्डे जाता संवृद्धा अन्ये पि बहूनि मृगशतानि // वयन् तेषां मृगाणां द्वे भ्रातरौ यूथपतिनौ इह महाराजस्य विजिते प्रतिवसामः // यथैव महाराजस्य नगरा पट्टना च ग्रामा च जनपदा च जनेन शोभन्ति गोबलिवर्देहि च अन्येहि पि प्राणसहस्रेहि द्विपदचतुष्पदेहि एवम् एतानि वनखण्डानि आश्रमाणि च नदीयो च प्रस्रवणीयो च एतेहि मृगपक्षेहि शोभन्ति // एवं महाराज एतस्य अधिष्ठानस्य अलंकारो // सर्वे एते महाराज द्विपदचतुष्पदा यत्तका महाराजस्य विजिते
[_mvu_1.361_] वसन्ति ग्रामगता वारण्यगता वा पर्वतगता वा महाराजस्य शरणं गताः सर्वे ते महाराज चिन्तनीया परिपालनीया च // महाराजा च तेषां प्रभवति अन्यो राजा न // यं वेलं महाराजा मृगव्यं निष्कासति ततः बहूनि मृगशतानि अनयव्यसनम् आपद्यन्ति // न तत्तका महाराजस्य उपजीव्या भवन्ति यत्तका शरेहि आहतका अत्र वनगहनेषु च नडगहनेषु शरहारेषु च काशहारेषु च प्रविशिय मरन्ति काकशकुन्तेहि खाद्यन्ते महाराजा च अधर्मेण लिप्यति // यदि महाराजस्य प्रसादो भवेय वयं द्वे यूथपतिनो महाराजस्य दैवसिकं एकमृगं विसर्जयिष्यामः यो तव महानसं स्वयं प्रविशिष्यति // एकातो यूथातो एकं दिवसं द्वितीयातो यूथातो द्वितीयं दिवसं एकं मृगं विसर्जयिष्यामः महाराजस्य च मृगमान्सेन अविभक्षणं भविष्यति इमे च मृगा एवं अनयव्यसनं नोपपद्यिष्यन्ति // तेन दानि राज्ञा तेषां मृगयूथपतीनां विज्ञप्ति दिन्ना // यथा युष्माकम् अभिप्रायो तथा भवतु गच्छथ अभीता अनुत्त्रस्ता वसथ मम च एकं मृगं दिवसेदिवसे विसर्जेथ // राजा तेषां विज्ञप्तिं दत्त्वा अमात्यानाम् आह // न केनचित्* मृगा विहेठयितव्या // एवम् आज्ञां दत्त्वा नगरं प्रविष्टो // तेहि यूथपतीहि ते मृगा सर्वे समानीता आश्वासिता च // मा भायथ एवम् अस्माभिः राजा विज्ञापितो यथा राजा न भूयो मृगव्यं निर्धाविष्यति न क्वचित्* मृगां विहेठयिष्यति राज्ञो च दिवसेदिवसे एको मृगो विसर्जेतव्यः एकं दिवसं एकतो यूथातो अपरं दिवसं अपरातो यूथातो // तेहि मृगेहि सर्वां च तां मृगां उभयेहि यूथेहि गणेत्वा यूथातोयूथातो ओसरं कृतं // एकातो यूथातो एकं दिवसं मृगो गच्छति राज्ञो महानसं अपरातो यूथातो अपरं दिवसं गच्छति //
___कदाचित् विशाखस्य यूथातो ओसरस्मिं गुर्विणीये मृगीये वारो राज्ञो महानसं गमनाय // सा दानि मृगी आणापकेन मृगेन वुच्यति // तव अद्य ओसरो गच्छ
[_mvu_1.362_] राज्ञो महानसं ति // सा आह // अहं गुर्विणी द्वे मे पोतका कुक्षिस्मिं अन्यं ताव आणापेहि यं वेलं प्रसूता भविष्यामि ततः गमिष्यामि // ते दानि एकस्यार्थे त्रिवर्गं चरिष्यामः // युष्माकं एवं चिरतरकेन वारो भविष्यति इमेहि दुवेहि पोतकेहि जातेहि // तेन आणापकेन मृगेन एतं कार्यं यूथपतिस्य आरोचितं // यूथपति आह // अन्यं मृगं आणापेहि यो एतस्या मृगीये अन्तरेण // एषा मृगी प्रसूता समाना पश्चाद् गमिष्यति // तेन आणापकेन मृगेन तां मृगीम् अतिक्रमित्वा यो तस्या मृगीये अन्तरेण सो आणत्तो गच्छ राज्ञो महानसन् ति // सो पि आह // न मम अद्य ओसरो अमुकाये मृगीये अद्य ओसरो एवं तावद् अन्तरं जीविष्यं // एवं अपरापरे पि वुच्यन्ति न च अनोसरा गच्छन्ति / सर्वे जल्पन्ति // अमुकाये मृगीये ओसरो सा गच्छतू ति // सा मृगी वुच्यति // भद्रे न कोचिद् इच्छति अनोसरेण गन्तुं / तव ओसरो त्वं एव गच्छाहि राज्ञो महानसं // सा दानि मृगी यां वेलां न मुच्यति सा तेषां पोतकानां प्रेम्नेन मम संनिपातेन एते पि घातयिष्यन्तीति तं द्वितीयं मृगयूथं गता // गच्छिय तस्य यूथपतिस्य प्रणिपतिता // सो नां यूथपतिः पृच्छति // किं एतं भद्रे किम् आणापेसि किं कार्यं // सा आह // अद्य ततो यूथातो मम वारो राज्ञो महानसं गमनाये मम च दुवे पोतका कुक्षिस्मिं ततो मे सो विशाखो यूथपति विज्ञप्तो // मम अद्य ओसरो इमे च दुवे पोतका कुक्षिस्मिं / अन्यां प्रेषेहि यं वेलं प्रसूता भविष्यं ततो गमिष्यामि // तेन च यूथपतिना ये अन्ये आणापियन्ति ते पि न इच्छन्ति गन्तुं नास्माकम् ओसरो अमुकाये मृगीये ओसरो सा गच्छन्तू ति // सा अहं तेहि न मुच्यामि ओसरातो वुच्यामि गच्छाहि तव ओसरो ति तद् इच्छामि मृगराजेन अतो अन्यं मृगं विसर्जमानं यं वेलं अहं प्रसूता भविष्यामि
[_mvu_1.363_] ततो गमिष्यामि // सो मृगराजा मृगीम् आह // ताव मा भायाहि अन्यं विसर्जयिष्यं // तेन मृगराजेन आणापको मृगो आणत्तो इतो यूथातो यस्य मृगस्य ओसरो तं आणापेहि एताये मृगीये मया अभयं दिन्नं // तेन आणापकेन यस्य मृगस्य ओसरो तं आणाप्यति // गच्छ राज्ञो महानसं // सो पि आह // न अस्माकं यूथस्य अद्य वारो विशाखस्य यूथस्य अद्य वारो // सो आणापको मृगो आह // विशाखस्य यूथातो अद्य वारो यस्या मृगीये वारो सा गुर्विणी दुवे पोतका कुक्षिस्मिं / तेहि न मुच्यति तव ओसरो त्वं गच्छाहीति // ताये च मृगीये ततो अमुच्यन्तिये इह यूथम् आगत्वा न्यग्रोधो यूथपति विज्ञप्तो // न्यग्रोधेन यूथपतिना तस्या मृगीये अभयं दिन्नं // यूथपतिना आणत्तं // यस्य इतो यूथातो ओसरो तं विसर्जेहि इति // तव इतो यूथातो ओसरो त्वं गच्छाहि // सो आह // द्वितीयस्य अद्य ओसरो तं नाहं अनोसरे गच्छेयं // एवं यो यो आणाप्यति सो सो पि न इच्छति अनोसरे गन्तुं // तेन आणापकेन मृगेण न्यग्रोधस्य मृगपतिस्य आरोचितं // न कोचि इच्छति अनोसरेण गन्तुं जल्पन्ति नास्माकम् अद्य ओसरो द्वितीयस्य मृगयूथस्य अद्य ओसरो // मृगराजा आह // मिल्लेहि मये इमस्या मृगीये अभयं दिन्नं / न शक्या सैषा भूयो तत्र महानसं विसर्जयितुं / अहं स्वयं गमिष्यामि //
___सो मृगराजा ततो वनषण्डातो पन्थम् ओतरित्वा वाराणसीं गच्छति // यो यो पुरुषो तं मृगराजं पश्यति गच्छन्तं सो सो एतम् अनुगच्छति // मृगो दर्शनीयो रूपेण चित्रोपचित्रो रक्तेहि खुरेहि अञ्जनेहि अक्षीहि प्रभास्वरेहि दर्शनीयेहि // महता जनकायेन अग्रतोकृतो गच्छति यावद् अभ्यन्तरं नगरं प्रविष्टो नागरेहि दृष्टो अभिज्ञातो सो मृगराजा सो मृगराजा महतो जनकायस्य // ते तं पश्यित्वा मृगराजम् उत्कण्ठिता
[_mvu_1.364_] तम् तत्तकं मृगयूथं सर्वं क्षपितं अयं यूथपतिः स्वयम् आगतो // गच्छाम राजानं विज्ञापेमः यथैषो मृगराजा मुच्येया न हन्येया अलंकारो इमस्य अधिष्ठानस्य चक्षुरमणीयो जातो निर्धावन्तो उद्याने च तडागे च // ते तं मृगं पश्यित्वा चक्षुःप्रीतिम् अनुभवन्ति // तेनैव समहत्तरकेन महता जनकायेन सार्धं मृगराजस्य अनुपृष्ठतो राजकुलं प्रविष्टं // मृगराजा च महानसं प्रविष्टो इमेहि च नैगमेहि राजा अर्थकरणस्मिं उपविष्टो विज्ञप्तो // महाराज तत्तकं मृगयूथं सर्वं क्षीणं // अहेठका शुष्कार्द्राणि तृणानि भक्षयन्ति न कस्यचि अपराध्यन्ति ते च सर्वे क्षपिता अयं सो यूथपति स्वयम् आगतो // दुर्लभो महाराज एदृशो मृगराजा प्रासादिको दर्शनीयो जनस्य चक्षुरमणीयो // नगरातो जना निर्धावन्ति उद्यानं वा तडागं वा आरामं वा पुष्करिणीं वा च ते पि तं मृगराजं पश्यित्वा प्रीता भवन्ति अलंकारभूतं नगरोपवनस्य // यदि महाराजस्य प्रसादो भवेया एषो मृगराजा जीवन्तो मुच्येया // राज्ञा अमात्या आणत्ता // गच्छथ तं मृगराजं महानसातो आनेथ // सो तेहि अमात्येहि गत्वा महानसातो आनीतो राज्ञो सकाशं // राजा तं मृगराजं पृच्छति // किं त्वं स्वयम् आगतो नास्ति भूयो कोचित्* मृगो यं तुवं स्वयम् आगतो ति // सो मृगराजा आह // न हि महाराज नास्ति अपरे मृगाः // किम् तु अद्य द्वितीयस्य मृगयूथस्य ओसरो // तत्र यस्या मृगीये वारो आपद्यति सा गुर्विणी दुवे पोतका कुक्षिस्मिं // सा मृगी वुच्यति गच्छ नहानसं तव अद्य वारो // द्वितीयमृगयूथे विशाखो यूथपति अस्ति // सा तं गत्वा आह // मम अद्य ओसरो राज्ञो महानसं गन्तुं किन् तु अहं गुर्विणी दुवे मे पोतका कुक्षिस्मिं इच्छामि अन्यं विसर्जयितुं यं वेलं अहं प्रसूता भविष्यं ततो गमिष्यामि // ततो यो अन्यो म्र्गो आणाप्यति सो न इच्छति गन्तुं जल्पति एतस्या मृगीये ओसरो एषा गच्छतू ति तेहि मृगेहि न मुच्यति // तव अद्य ओसरो त्वं गच्छाहि सा तेहि अमुच्यन्ती मम मूले आगता // अहं ताये
[_mvu_1.365_] विज्ञप्तो मम अद्य ततो यूथातो ओसरो मे दुवे पोतका कुक्षिस्मिं न च तेहि मुच्यामि तद् इच्छामि मृगराजेन इतो यूथातो अन्यम् आणापयितुं यो राज्ञो महानसं गच्छेया // येन अन्तरेण अहं प्रसूता भविष्यं ततो गमिष्यं // तस्या मये मृगीये अभयं दिन्नं मयापि यो मृगो आणाप्यति सो न इच्छति // न अस्माकं ओसरो द्वितीयस्य यूथस्य ओसरो एवं यो यो आणाप्यति सोसो न इच्छति अनोसरस्मिं इहागन्तुं // सो ऽहं जानामि मया एतस्या मृगीये अभयं दिन्नं गच्छामि स्वयन् ति सो अहं स्वयम् आगतो // सो राजा तस्य मृगस्य श्रुत्वा विस्मितो सर्वो च जनकायो अहो यावद् धार्मिको मृगराजा // तस्य काशिराज्ञो भवति // नायं तिरिच्छो यः एषो मृगो परस्य कारणेन आत्मानं परित्यजति धर्मं जानाति / वयं तिरिच्छा ये वयं धर्मं न जानाम ये इमेषां एवरूपाणां सत्वरत्नानाम् अहेठकानां हेठाम् उत्पद्येम // सो तं मृगराजम् आह // प्रीतो स्मि तव सकाशातो सकृपो च महात्मा च त्वं यं मृगभूतेन ते तस्या आत्मभृत्याये मृगीये अभयं दिन्नं // अहं पि तव आगम्य त्वद्वचनात् सर्वमृगानां च अभयं देमि // अद्याग्रेण ये च तत्र उद्देशे तेषां सर्वेषां मृगाणां अभयं ददामि गच्छाहि वसथ अभीता अनुत्त्रस्ता // राज्ञा नगरे घण्ठाघोषणा कारापिता // न केनचित्* मम विजिते मृगा विहेठयितव्या तस्य राज्ञो तेषां मृगानाम् अभयदानप्रदानात्* //
___यावद् देवेषु शब्दम् अभ्युद्गतं // शक्रेण देवानाम् इन्द्रेण राज्ञो जिज्ञासनार्थं अनेकानि मृगशतानि मृगसहस्राणि निर्मितानि // सर्वो काशिजनपदो मृगेहि आकीर्णो नास्ति सो क्षेत्रो यत्र न मृगाः // जानपदेहि राजा विज्ञप्तो //
___तेन दानि न्यग्रोधेन मृगराज्ञा सा मृगी वुच्यति // भद्रे गच्छ विशाखस्य यूथं // सा आह // मृगराज न गमिष्यामि वरं तव मूले मृतं न विशाखमूले जीवितं // सा दानि मृगी गाथां भाषति
[_mvu_1.366_] न्यग्रोधम् एव सेवेया न विशाखम् अभिप्रार्थयेत्* / न्यग्रोधस्मिं मृतं श्रेयो न विशाखम् अस्मिं जीवितं //
जानपदा राजं विज्ञापेन्ति //
उदज्यते जनपदो राष्ट्रं स्फीतं विनश्यति / मृगा धान्यानि खादन्ति तं निषेध जनाधिप //
उदज्यतु जनपदो स्फीतं राष्ट्रं विनश्यतु / न तु एवं मृगराजस्य वरं दत्त्वा मृषं भणे //
मृगाणां दायो दिन्नो मृगदायो ति ऋषिपत्तनो //
___द्वादशेहि वर्षेहि बोधिसत्वो तुषितभवनातो च्यविष्यतीति शुद्धावासा देवा ब्राह्मणवेशं निर्मिणिय वेदां च मन्त्रां च द्वात्रिंश महापुरुषलक्षणां ब्राह्मणां वाचेन्ति यथा बोधिसत्वम् इहागतं व्याकरेन्सुः //
_______________________________पर्त् 2_______________________________
[_mvu_2.1_] अथ बोधिसत्वो तुषितभवनातो च्यवनकालसमये चत्वारि महाविलोकितानि विलोकेति / तद्यथा कालविलोकितं / देशविलोकितं / द्वीपविलोकितं / कुलविलोकितं // द्वीहि कुलेहि बोधिसत्वा जायन्ति / क्षत्रियकुले वा ब्राह्मणकुले वा / यदा क्षत्रियाक्रान्ता पृथिवी भवति तदा क्षत्रियकुले जायन्ति / यदा ब्राह्मणाक्रान्ता पृथिवी भवति तदा ब्राह्मणकुले जायन्ति // यस्मिं च भिक्षवः कुले बोधिसत्वा जायन्ति तं कुलं षष्टीहि अङ्गेहि समन्वागतं भवति / कतमेहि षष्टीहि / अभिज्ञातं च भवति / अक्षुद्रावचरं च जातिसम्पन्नं च गोत्रसंपन्नञ् च पुरुषयुगसम्पन्नञ् च अभिज्ञातपूर्वपुरुषयुगसंपन्नं च बहुस्त्रीकं च बहुपुरुषं च अलोलं च अनूनं च अनीचं च अदीनं च प्रज्ञावन्तञ् च शीलवन्तं च अमान्यप्रेक्षितं च तं कुलं भोगां भुंजति दृढमित्रं च तं कुलं भवति / कृतज्ञं च विधिज्ञं च अच्छन्दगामि च तं कुलं भवति / अदोषगामि च अमोहगामि च अभयगामि च अनवद्यभीरु च स्थूलभिक्षं च पुरुषकारमतिं च दृढविक्रमं च वरविक्रमं च श्रेष्ठविक्रमं च चेतियपूजकं च देवतापूजकं च पूर्वमित्रपूजकं च क्रियाधिमुक्तं च त्यागाधिमुक्तं च आत्मपूर्वापरं च तं कुलं भवति / अभिघोषघुष्टं च अभिदेवादिघोषघुष्टं च कुलज्येष्ठं
[_mvu_2.2_] च कुलश्रेष्ठं च कुलं कुलप्रवरं च कुलवशिप्राप्तं {सेनर्त्: -प्ताप्तं} च महेशाख्यं च महापरिवारं च अश्रमपरिवारं च अनुरक्तपरिवारं च अभेद्यपरिवारं च मातृज्ञं च पितृज्ञं च श्रामण्यं च ब्राह्मण्यं च कुलज्येष्ठापचायकं च प्रभूतधनधान्यञ् च प्रभूतकोशकोष्ठागारं च प्रभूतहस्त्यश्वाजैडकं च प्रभूतदासीदासकर्मकरपौरुषेयं च अप्रधर्ष्यं च तं कुलं भवति परेहि प्रत्यर्थिकेहि प्रत्यमित्रेहि / यस्मिं कुले बोधिसत्वा जायन्ति तं कुलं इमेहि षष्टीहि अङ्गेहि समन्वागतं भवति // ये ते सत्वा कुलसम्पन्ना भवन्ति एवंरूपा सत्वा महाकरुणां प्रतिलभन्ति / बोधिसत्वो महासंविधानं करोति च्यवनकालस्मिं तुषितभवनातो / देवसहस्रियो चातुर्महाराजिकानुपादाय सर्वे कामावचरा तुषितभवने संनिपतित बोधिसत्वस्य च्यवनकाले // बिम्बिसारप्रभृतिका उक्ता / त्वं राजगृहे उपपद्यहि / त्वयि विनीते महाजनकायो विनयमार्गं गमिष्यतीति / एवं सहसोद्गतो अभयो सार्थवाहो तथान्ये पि गृहपतिमहाशालाः ब्राह्मणमहाशालाः // उदयनो वत्सराजा वुच्यति / कौशाम्ब्यां उपपद्याहि / त्वयि विनीते महाजनकायो विनयमार्गं गमिष्यति / घोषिलो गृहपतिः तथान्ये पि क्षत्रियमहाशालाः गृहपतिमहाशालाः / एताये विधीये देवपुत्रसहस्राणि येन भगवतो संसारे सन्सरन्तस्य सहचरितं जम्बूद्वीपे षोडशहि महाजनपदेहि उपपद्यन्ति क्षत्रियमहाशालकुलेहि ब्राह्मणमहाशालकुलेहि गृहपतिमहाशालकुलेहि / निःसंदिग्धं तुफेहि विनीतेहि महाजनकायो विनयमार्गं गमिष्यतीति // बोधिसत्वो अवलोकेति कहिं उपपद्यामि / अयं राजा शुद्धोदनो मम योग्यो पिता // मातरं गवेषति या प्रासादिका च भवेय कुलीना च शुचिगात्रा च मन्दरागा च अल्पायुष्का च यस्या ससप्तरात्रा दश मासा आयुष्प्रमाणतो अवशिष्टा भवेन्सुः //
[_mvu_2.3_] सर्वेषां बोधिसत्वानां जनेत्वा पुरुषोत्तमं / चरमे सप्तमे दिवसे माता जहति जीवितं //
अत्र किं कारणं भवति यदि सर्वज्ञमातरः / जनेत्वा पुरुषश्रेष्ठं शीघ्रं जहन्ति जीवितं //
वसन्तो तुषिते काये बोधिसत्वो इमां स्मृतिं / लभते शुभकर्मेण परीक्षन्तो जनेत्रियो //
यस्येह परिशेषं स्या नारीयो जीवितं भवेत्* / दिवसानि सप्त मासा च दश तस्या उरम् ओतरे //
किं कारणं अयुक्तं हि अस्मद्विधम् अनुत्तरं / धारेत्वा उत्तरे काले मैथुनं प्रतिसेवितुं //
अथापि प्रतिसेवेयु कामा सुगतमातरि / न पिता देवसंघानां भिन्नवृत्तो ति तद् भवेत्* //
भगवां च नाम कामानां दोषं सततं भाषति / अथ च लोकनाथस्य माता कामां निषेवति //
ये च नृपतिवेश्मेषु भोन्ति रत्नकरण्डकाः / रतनं पुरुषश्रेष्ठा भाजनं बोधिमातरो //
अल्पायुष्कां भुवि समन्वेषन्तो भोधिसत्वो अद्राक्षीत् कपिलवस्तुस्मिं शुद्धोदनस्य अग्रमहिषीं प्रसादिकां च कुलीनां अच् शुचिगात्रां च मन्दरागां च अल्पायुष्कां / ससप्तरात्रा चास्या दश मासा आयुष्प्रमाणतो अवशिष्टा // बोधिसत्वस्यैतद् अभवत्* // एषा मे माता योग्या //
पश्यति विलोकयन्तो लोकं शुद्धोदनस्य ओरोधे /
[_mvu_2.4_] नारीं अमरवधुनिभां विद्युल्लतानिभां विय मायां //
सो तां निशाम्य जननीं आमन्त्रयते मरुणां च्यविष्यामि / अन्तिमम् उपेत्य वासं गर्भे मरुमानुषसुखार्थं //
तं अवच देवसंघः कृतांजलिपुटो वराभरणधारी / ऋध्यतु उत्तमपुद्गल तव प्रणिधि अहीनगुणरूप //
वयम् अपि लोकहिता बहु मनोरमां ओशिरित्वा कामरतिं / पूजार्थं तव अनिन्दित मनुष्यलोके वसिष्यामः //
ते विपुलरुचिरवर्णं मन्दारवपुष्पवर्षम् आकाशे / प्रमुंचिन्सु उदग्रचित्ता स्तवंता मधुराहि वाचाहि //
यम् अमरवसना प्रशमनमनोरमां शोकदुःखविमिश्रान्* / ईक्षसि न च निषेवसि कामां इदम् अद्भुतं तुह्यं //
यं पि अभिभूय मरुगणं जम्बूनदपर्वतोपमप्रकाशो / उद्योतयसि दश दिशो सुरर्षभ इदं पि आश्चर्यं //
अभिभवसि देवसंघा समहेश्वरदानवां समारगणां/ तारागणां खगचरां अमितमति इदं पि आश्चर्यं //
किंचापि विप्रयोगं त्वया न इच्छाम भूतसंघगुरु / अपि च अरविन्दनयन भविष्यसि गतिर् नरमरूणां //
अथ च्यवनकालसमये विशुद्धशतपत्रपद्मनयनस्य/ आनन्दिता मरुगणा घोषन्ति दिशाहि सर्वाहि //
एषा च वर्तति कथा तुषितपुरे सा च अप्रतिरूपा माया / शुद्धोदनस्य महिषी राजानम् उपेत्य इदम् आह //
[_mvu_2.5_] सा हरिणवत्सनयना विशुद्धगन्धर्ववधुनिभा श्यामा / सहितं इदं सुमधुरं शुद्धोदनम् अब्रवीत् माया //
आभरणस्तम्भितभुजा प्रवरवसनधारिणी सखीहि सह/ त्वया विना शाक्यनन्दन रजनीम् इमां क्षपयितुं छन्दो //
धृतराष्ट्रस्य नरवर प्रासादवरस्य उत्तमां भूमीं / शयनप्रवरं आरुहि यत्र कुमुदवसनसंनिभं विमलं //
तेन वचनेन तुष्टो देविये शुद्धोदनो मनापेन / आमन्त्रयति नरवरो परिवारम् उदग्रसंकल्पो //
प्रतिवेदयन्तु मि लघुं धृतराष्ट्रं प्रवरकुसुमसंछन्नं / मुक्तकुसुमाभिकीर्णं करोथ दिवि देवभवनं वा //
ओसक्तपट्टदामं धृतराष्ट्रं च शोभतां चपलम् एव / वरहेमजालच्छन्नं सुमेरुवरशृङ्गसंकाशं //
चतुरङ्गिनी च सेना सशूलनाराचतोमरविचित्रा / परिपालयतां चपलं धृतराष्ट्रं मनोज्ञसंघातं //
ओसृष्टा येवाज्ञा नरपतिना सज्जं एव च सर्वं / कृत्वा तत्र सकुशलं राजानम् उपेत्य इदम् आहुः //
वर्षसहस्रम् अनूनं प्रजा परिपालयतु भो महिपालो / सज्जं ति विमानवरं शोभति तव हर्षसंजननं //
अथ सा अमरवधूनिभा माया उत्थाय आसनवरातो /
[_mvu_2.6_] अब्रवीत् महीपतिसुतं आदित्ये अस्तमितमात्रे //
एषा समादियामि प्राणेषु अविहिंसं ब्रह्मचर्यं च / विरमामि चाप्य् अदिन्नाद् मद्याद् अनिबद्धवचनाच् च //
अखिलवचनाच् च नरवर विरमामि तथैवं पैशुन्याच् च/ परुषवचनाच् च नरपति विरमामि अयं मम छन्दो //
परकामेषु च ईर्ष्यां नो संजानेय्यं नाप्य् अभिद्रोहं / भूतेषु उपजनेष्यं विपरीतमतिं च विजहामि //
एकादशप्रकारं शीलं सेवाम्य् अहं पृथिविपाल / रजनीम् इमां अनूनां एवं मम जायते छन्दो //
मा सुद खु भूमिपाल कामवितर्को मा मयि प्रतिकांक्षि / प्रेषय मा ति अपुण्यं भवेया मयि ब्रह्मचारिणिये //
सर्वे तव संकल्पां परिपूरेमीति पार्थिवो अवच / अभिरम भवनवरगता अहं च राज्यं च तव वश्यं //
सा स्त्रीसहस्रसमग्रा अनन्तरं गृह्य तं विमानवरं / अभिरुहिय अभिनिषीदे मनापपरिपूर्णसंकल्पा //
सा किंचिद् एव कालं तस्मिं हिमकुमुदपुण्डरीकनिभे / शयने प्रशमदमरता तूष्णींभावेन क्षेपयति //
सा दानिं दक्षिणेन पार्श्वेन परिन्यासि शरीरवरं / कुसुमलता व द्रुमवरं शयनं परिवेल्लियाशयिता //
अथ तां निशाम्य शयनोपगतां देवीं दिव्यप्रमदारूपनिभां / तुषितालया च्यविय देवगणा प्रासादमूर्ध्नि प्रतिष्ठिहिन्सु //
[_mvu_2.7_] ते मूर्धना अभिनता सर्वे हृष्टा कृतांजलिपुटा अमरा / वन्दन्ति तां विपुलपुण्यधरां मायां जिनस्य जननीं शयने अथ कौतूहलपरं संजनिया बहुदेवकन्या शुचिमाल्यधरा / जिनमातुर् उपगता द्रष्टुमना प्रासादमूर्ध्नि प्रतिष्ठिहिन्सु //
उपसंक्रमित्व शयनोपगतां मायां निशाम्य वरविद्युनिभां / प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमं //
मानुष्यकं पि किल एदृशकं रूपं सुजातम् इदम् आश्चर्यं/ कञ्चित् कालं स्थिहिय्ऽ; अन्तरतो नायं समा मरवधूहि भवे //
लीलां निशामयथ हे सखिका प्रमदायिमस्य यथ ओपयिकां / शयने विरोचति मनः हरति विभ्राजते कनकरीतिर् इव //
अयन् तु धरेष्यति महापुरुषं अत्यन्तदानदमशीलरतं / सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू //
चापोदरे करतलप्रमिते वररोमराजिविचित्रे रुचिरे / इह सो भविष्यति अनन्तमतिः सततं अलिप्त अशुभेन शुचिः //
बहुदीर्घरात्रनिचितं कुशलं प्रमदायिमस्य विपुलं परमं / या तं धरेष्यति अनन्तगुणं चिररात्रसन्निचितपुण्यबलं //
अनुरूपा त्वं प्रमदा प्रवरा माता स चैव पुरुषप्रवरो / पुत्रो प्रहीनवनथो विरजो किं हायते तव नरेन्द्रवधू //
अथ राक्षसा विविधरूपधरा आणत्ता दिवि परितो चपलं / तिष्ठन्तु भो प्रवरशस्त्रधरा सर्वदिशां कुरुथ असंवरणां //
[_mvu_2.8_] तेषाम् अनन्तरं द्विजिह्वगणा आरक्षहेतु दिशतासु स्थिता / वातं पि येष चलितं श्रुणिय क्रोधा समुत्पतन्ति अग्निसमा //
तेषाम् अनन्तरगता थपिता यक्षा प्रदीप्तशिखरा विकृता / ये दुष्टचित्त विनिवारयथा मा च वधं कुरुथ कस्य चापि //
तेषाम् अनन्तरस्थिता बहवो गन्धर्वसंघ शुभरूपधरा / आरक्षहेतु शुभचापधरा च्यवनक्षणे विमलबुद्धिमतो //
चत्वारि लोकपतिनो पि स्थिता गगने स्वकपारिवारेण सह / अद्य च्यविष्यति किल भगवां लोकस्य अर्थसुखवृद्धिकरो //
त्रिदशेहि सार्धं त्रिदशप्रवरो स्थित अन्तरीक्षे वरचक्रधरो / अचिरा च्यविष्यति च्युतिं चरिमां आकाङ्क्षमाणो सुखम् अप्रतिमं //
मायाय मूलि बहुदेवगणा कृत्वा दशाङ्गुलं नताभिमुखा / समुदीरयन्ति मधुरं वचनं उल्लोकयन्ति तुषितेषु जिनं //
व्यवदानसन्निचितपुण्यबला समयो ति अन्तिमम् उपेहि भवं / {च्यवदान-?} सज्जा ताव भवति ते जननी अनुकंप दानि दुःखितां जनतां //
एषो च्यवामि इति मुंचि गिरां शुभं वचनं उदीरयि . . . . / अथ सुपिनं जननी जिनस्य तस्मिं क्षणे पश्यति वरविपाकफलं //
हिमरजतनिभो मे षड्विषाणो सुचरणचारुभुजो सुरक्तशीर्षो / उदरम् उपगतो गजप्रधानो ललितगतिः अनवद्यगात्रसन्धिः //
न खलु बोधिसत्वा कालपक्षे मतु कुक्षिं ओक्रामन्ति // अथ खलु पूर्णायां पूर्णमास्यां पुष्यनक्षत्रयोगयुक्तायां रात्र्यां बोधिसत्वा मातुः कुक्षिम् अवक्रामन्ति // उपोषधिकायां
[_mvu_2.9_] प्रमदोत्तमायां सनन्दितायां अविलक्षितायां अक्षुद्रावचरायां प्रासदिकायां शुचिगात्रायां मन्दरागायां जातिसंपन्नायां कुलसंपन्नायां रूपसम्पन्नायां वर्णसम्पन्नायां नामसम्पन्नायां आरोहसम्पन्नायां परिणाहसम्पन्नायां व्यक्तायां अग्रयौवनमण्डप्राप्तायां विश्रुतायां पण्डितायां स्मृतायां संप्रजानायां प्रदक्षिणचित्तायां सर्वाकारसम्पन्नायां सर्वाकारपरिपूर्णायां प्रमदोत्तमायां बोधिसत्वा मातुः कुक्षिम् अवक्रामन्ति // बोधिसत्वेन प्रभा ओसृष्टा याये प्रभाये सर्वं बुद्धक्षेत्रं अवभासितं / देवपुत्रो देवपुत्रं पृच्छति //
किं कारणं सुरवरेण प्रभा प्रमुक्ता चन्द्रांशुशीतलतरा कनकावदाता / येनासुरेश्वरगणा मनुजेश्वराश् च प्रह्लादिता च नरका ज्वलनाग्निकल्पाः //
सो दानि आह //
ये तत्र तत्र जनतां प्रतिपालयन्ति संसारपंजरगतां मदनाभिभूतां / तेषां विमोक्षकरणेन महायशेन आमन्त्रणार्थम् अनघेन प्रभा प्रमुक्ता //
बोधिसत्व आह //
मुञ्चथ अमरा पुराणि न किल प्रामोद्यस्य अयं कालो / जरामरणपुरं भेत्तुं कालो ज्ञानप्रहारेण //
बोधिसत्वो स्मृतो संप्रजानो प्रदक्षिणचित्तो मातुः कुक्षिं ओक्रान्तो //
इति स नदिय सिंहनादं नरसिंहो च्यवनकालसमयस्मिं / अन्तरहितो क्षणेन नरेन्द्रभवने समुपपद्यि //
[_mvu_2.10_] यो सो तुषितं कायं ओभासेति शुभेन वर्णेन / देवपुराच् च्यवमानो तं अनतिवरं जिनं वन्दे //
सब्रह्मकं च लोकं सश्रमणब्राह्मणीं प्रजां सर्वां / वर्णेन्ऽ; ओभासयति अनतिवरो लोकप्रद्योतो //
आश्चर्यम् अद्भुतम् इदं पश्यथ यावत् महर्द्धिकः शास्ता / स्मृतिमां सुसंप्रजानो मातुः कुक्षिस्मिं ओक्रान्तो //
यावच् च नरप्रवरो उत्तमलक्षणसमङ्गि अस्थासि / माताये कुक्षिस्मिं स्मृतिमतिमां संप्रजानो च //
समनन्तर्ऽ; ओक्रान्ते च बोधिसत्वे इयं महापृथिवी अतीव षड्विकारं कम्पे संकम्पे प्रकम्पे संहर्षणीयं च कम्पयति मोदनीयं च प्रह्लादितं च निर्वर्णनीयं च उल्लोकनीयं च आसेचनकं च अप्रतिकूलं च प्रामोदिकं च प्रसादनीयं च निरुद्वेगं च निरुत्त्रस्तं च / कम्पमाना च पुनर् न कंचित् सत्वं व्यापादयति यम् इदं चलं वा स्थावरं वा //
ततो अयं सागरमेरुमण्डला प्रकम्पिता षड्विधम् आसि मेदिनी / कृता लोका विमला मनोरमा महान्धकारापनुदस्य तेजसा //
यावत्तका नागराजानो नागाधिपतयो रक्षावरणगुप्तये औत्सुक्यं समापद्येन्सु //
चतुरो पि लोकपाला रक्षाम् अकरेन्सु लोकनाथस्य / मा कोची अहितेषी नमुचिबलनुदं विहिंसेया //
[_mvu_2.11_] शक्रो पि देवानाम् इन्द्रो सुयामो पि देवपुत्रो संतुषितो पि देवपुत्रो सुनिर्मितो पि देवपुत्रो वशवर्ती पि देवपुत्रो महाब्रह्मा पि शुद्धावासा पि देवा बोधिसत्वस्य मातुः कुक्षिगतस्य रक्षावरणगुप्तये औत्सुक्यं समापद्येन्सुः //
ततो कोटिसहस्राणि देवानां कपिलाह्वयं / उपगतानि तुष्टानि आरक्षं वरबुद्धिनो //
देवनगरं इव कपिलपुरम् उत्तमं कृतम् अनुविशन्तेहि / मनोमयविक्रमगतेहि अमरगणेहि अभिविरोचति //
मायां परिवारेत्वा महेश्वरगणानां किल सहस्राणि / आशु विगतमल-म्-अखिला आकाशगता अभिनिषण्णाः //
तेषां दानिं पृष्ठतो इन्द्रसहस्राणि विमलशिखराणि / सुबहूनि बहुगुणस्य आरक्षार्थं निषण्णानि //
तेषां दानिं पृष्ठतो देवेन्द्राणां सहस्रनयुतानि / कामावचरा देवा निषण्णा गगने निरलम्बे //
देवगणानां पृष्ठतो असुरा असुराणां च द्विजिह्वगणाः / यक्षाश् च विकृतरूपाः राक्षससंघाश् च संनिषण्णाः //
एताये विधिये गगनम् अमरशतसहस्रसंकुलं श्रीमद्* / अत्यन्तसुपरिशुद्धं कुशलम् उपचितं हि वरदेन //
सो यं महानुभावो स्मृतिमां तुषितभवना च्यवित्वान / पाण्डरवराहकनिभो भवित्व गजरूपि षड्डन्तो //
वीरशयने शयन्तिये पोषधिकाये विशुद्धवसनाये / स्मृतसंप्रजानकुशलो मातुः कुक्षिस्मिं ओक्रान्तो //
[_mvu_2.12_] सा च रजनीप्रभाते आख्यासि भर्तुनो मनापस्य / राजवर पाण्डरो मे गजराजो कुक्षिम् ओक्रान्तो //
तं च श्रुणित्वान राजा वैपंचनिकां समागतां अवच / सुपिनस्मिं अस्य सर्वे भणाथ भूतं फलविपाकं //
ते तत्र चावचिंसू नैमित्तिका पृच्छिता स्वयं राज्ञा / द्वात्रिंशलक्षणधरो कुक्षिं देवीये ओक्रान्तो //
हृष्टो भवाहि नरवर यस्य तव कुलस्मिं प्रत्युत्पन्नो / पृथिवीधर वीरगर्भो अनोपमसत्वो महासत्वो //
यथ मय पौराणानाम् आचर्याणां स्वयं समुपाहृतं / द्वे स्य गतयो अनन्त्या भवन्ति नरवीरशार्दूल //
यदि आसिष्यति अगारे महिपति होति सरतनो महर्द्धिको / नित्यानुबद्धविजयो राजशतसहस्रपरिवारो //
अथ खलु प्रव्रजिष्यति चातुर्द्वीपां महीं विजहियान / होहिति अनन्यनेयो बुद्धो नेता नरमरूणां //
[सुपिनं पि शाकियानी आख्यासि भर्तुनो मनापस्य / श्वेतो गजनाथो मे कुक्षिं भेत्त्वान ओक्रान्तो //
एतं श्रुणित्व राजा वैपंचनिकां समागतां अवच / सुपिनस्मिं अस्य सर्वं भणाथ भूतं फलविपाकं //
ते तत्र चावचिंसू नैमित्तिक पृच्छिता स्वयं राज्ञा / द्वात्रिंशलक्षणधरो कुक्षिं देवीये ओक्रान्तो //
यदि पुनर् अगारमध्ये वसति पृथिवीं अभिजेष्यते सर्वां /
[_mvu_2.13_] शूरां पुत्रसहस्रं लभेत एतादृशां वीरां //
अथ रतन-अनन्ताकरं पूर्णां महीम् उज्झियान प्रव्रजति / बुद्धो होहिति लोके सर्वज्ञो सर्वदर्शावी //]
महाब्रह्मा आह //
स्वप्नान्तरे प्रमदा अदर्शि सूर्यं नभा कुक्षिम् अनुप्रविष्टं / प्रसूयति स्त्रीरतनं सुभागं भर्तास्य भोति नृपो चक्रवर्ती //
स्वप्नान्तरे या प्रमदा अदर्शि चन्द्रं नभा कुक्षिम् अनुप्रविष्टं / प्रसूयते सा नरदेवगर्भं सो भवति राजा बलचक्रवर्ती //
स्वप्नान्तरे या प्रमदा अदर्शि सूर्यं नभा कुक्षिम् अनुप्रविष्टं / प्रसूयते सा वरलक्षितांगं सो भवति राजा बलचक्रवर्ती //
स्वप्नान्तरे या प्रमदा अदर्शि श्वेतं गजं कुक्षिम् अनुप्रविष्टं / प्रसूयते सा गजसत्त्वसारं सो भवति बुद्धो बोधितार्थधर्मो //
देवी पृच्छीयति // किं धरेसि // सा आह // चक्रवर्तिन् ति //
[_mvu_2.14_] कुक्षिं प्रभासयन्तं कनकवपुं प्रवरलक्षणसमङ्गिं / धारेमि चक्रवर्तिं वरपुरुषं राजशार्दूलं //
देवा नभे भगवतो घोषम् उदीरयेन्सुः // बुद्धो भविष्यति न राजा चक्रवर्ती // महाब्रह्मा गाथां भाषति //
गजं रत्नश्रेष्ठं मदनबलवेगापनयनं प्रदीपं लोकस्य तमतिमिरमोहापनयनं / गुणानां कोषं त्वं अपरिमितरत्नाकरधरं धरेसि राजर्षिं अप्रतिहतचक्रं समरुचिं //
देवी आह //
यथा मम न रागदोषा प्रसहन्ति नरेन्द्रगर्भम् उपलभ्य / निःसंशयं भविष्यति समरुचि यथ निश्चरति वाचा //
बोधिसत्वे खलु पुनर् मातुः कुक्षिगते मातु सुखं गच्छति पि तिष्ठति पि सुखं निषीदति पि शय्यां कल्पयति बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनः मातुः कुक्षिगते बोधिसत्वमातुः काये शस्त्रं न क्रामति // न विषं नाग्नि न अशनी प्रसहति बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुन मातुः कुक्षिगते बोधिसत्वमातरं देवकन्या दिव्येहि उच्छादनपरिमर्दनपरिशेषेहि परिजागरन्ति बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् मातुः कुक्षिगते बोधिसत्वमाता दिव्यवस्त्रसंवृतशरीरा भवति दिव्याभरणधारिणी बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनः मातुः कुक्षिगते माता लाभिनी भवति दिव्यानां गन्धानां दिव्यानां माल्यानां दिव्यानां विलेपानां दिव्यानाम् ओजानां बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् महामौद्गल्यायन
[_mvu_2.15_] मातुः कुक्षिगते बोधिसत्वमातुः खलु पुनः यो अस्या अभ्यन्तरपरिवारो सो से अतीव श्रोतव्यं श्रद्धातव्यं मन्यन्ति बोधिसत्वस्यैव तेजेन // किंकरणीयकप्रतिसंयुक्तेहि निमन्त्रेन्ति बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् मातुः कुक्षिगते बोधिसत्वमातरं बोधिसत्वो पश्यति // बोधिसत्वे खलु पुनर् मातुः कुक्षिगते बोधिसत्वमातुर् न कोचिद् उपरिमेन गच्छति अन्तसो पक्षी पि / अल्पाबाधा भवति अल्पातङ्का / समाये विपाकनीयग्रहणीये समन्वागता / नाप्य् अतिशीताये नाप्य् अति-उष्णाये ऋतुपरिणामाये बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् मातुः कुक्षिगते बोधिसत्वमाता लाभिनी भवति प्रणीतानां खादनीयभोजनीयानां अग्ररसानां उत्तमरसानां अधिगतरसानां प्रत्यग्ररसानां बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् मातुः कुक्षिगते बोधिसत्वमाता विगतरागा भवति अखण्डम् अच्छिद्रम् अशबलम् अकल्माषं परिशुद्धं परिपूर्णं ब्रह्मचर्यं चरति / मनसापि ताये प्रमदोत्तमाये रागो न उत्पद्यति सर्वपुरुषेहि अन्तमसतो राज्ञापि शुद्धोदनेन बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुन मातुः कुक्षिगते बोधिसत्वमाता पंच शिक्षापदानि समादाय वर्तति तानि च सपूर्वसमादिन्नानि भवन्ति बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् मातुः कुक्षिगते यवत्ता नागराजानो नागाधिपतयो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते सर्वे निवेशनम् उपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि दिव्यानि तमालपत्रचूर्णानि प्रकिरन्ति अगुरुचूर्णानि प्रकिरन्ति दिव्यानि केशरचूर्णानि प्रकिरन्ति दिव्यानि कुसुमानि प्रकिरन्ति / समाप्ताये च नं अर्चनाये अर्चयन्ति परिपूर्णाये च नं अर्चनाये अर्चयेन्सुः // ते दिव्यानि चन्दनचूर्णानि च प्रकिरित्वा दिव्यानि अगुरुचूर्णानि प्रकिरन्ति दिव्यानि च केशरचूर्णानि दिव्यानि च तमालचूर्णानि प्रकिरन्ति // दिव्यानि मुक्तकुसुमानि प्रकिरित्वा समाप्ताये च नं
[_mvu_2.16_] अर्चनाये अर्चयित्वा परिपूर्णाये च नं अर्चनाये अर्चयित्वा बोधिसत्वमातरं त्रिष्कृत्यो प्रदक्षिणीकृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन // बोधिसत्वे पुनर् मातुः कुक्षिगते यावन्तो सुवर्णराजानो सुवर्णाधिपतयो एवं चतुर्महारजकायिका देवास् त्रायस्त्रिंशा यामा तुषिता निर्माणरतिनो परनिर्मितवसवर्तिनो ब्रह्मकायिका देवा ते सर्वे निवेशनं उपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि प्रकिरित्वा दिव्यानि अगुरुचूर्णानि प्रकिरन्ति / दिव्यानि तमालपत्रचूर्णानि दिव्यानि मुक्तकुसुमानि प्रकिरित्वा समाप्ताये च नं अर्चनाये अर्चयित्वा परिपूर्णाये च नं अर्चनाये अर्चयित्वा परिशुद्धाये च नं अर्चनाये अर्चयित्वा बोधिसत्वमातरं त्रिष्कृत्यो प्रदक्षिणीकृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन //
___बोधिसत्वो खलु पुनर् मतुः कुक्षिगतो न चातिनीचं तिष्ठति न चाति-उच्चं तिष्ठति न चावकुब्जको न ओत्तानको न वामेन पार्श्वेन तिष्ठति न उत्कुटुको // अथ खलु दक्षिणे पार्श्वे पर्यंकम् आभुञ्जित्वा तिष्ठति // बोधिसत्वो खलु पुनर् मातुः कुक्षिगतो न पित्तेन न श्लेष्मेण वा न रुधिरेण वा अन्येन वा केनचिद् अशुचिना उपलिप्तो ऽविशुद्धो तिष्ठति // अथ खलु उच्छादितस्नापितविशदगात्रो बोधिसत्वो मातुः कुक्षिस्मिं तिष्ठति // बोधिसत्वो खलु पुनर् मातुः कुक्षिगतो मातरं पश्यति बोधिसत्वमातापि तं कुक्षिगतं बोधिसत्वं पश्यति विग्रहम् इव जातरूपस्य दृष्ट्वा च भोति आत्तमना [कुक्षिं ओभासेन्तं विग्रहम् इव जातरूपस्य ] / यथ वैडूर्यस्य मणि स्फाटिकसमुद्गे कटि-उत्संगस्मिं / निहितो स्या एवम् एव बोधिसत्वं पश्यति माता / कुक्षिं ओभासेन्तं विग्रहं इव जातरूपस्य //
[_mvu_2.17_] बोधिसत्वं देवसंघाः सुखरात्रिं सुखदिवसं पृच्छका आगच्छन्ति प्रीतमनसो तां च देवसंघां तथा पृच्छमानां बोधिसत्वो प्रत्यभिनन्दति दक्षिणं करम् उत्क्षिप्य मातरं च न बाधति // बोधिसत्वं मातुः कुक्षिगतं देवा नागा यक्षा मारुता राक्षसा पिशाचा न जहन्ति दिवा चा रात्रौ च न चात्र आसंगकथा कथीयति कामोपसहिता वा अन्या वा असत्या कथा / नान्यत्र बोधिसत्ववर्णम् एव भाषन्ति रूपतः सत्त्वतः तेजतः वर्णतः यशतः कुशलमूलातो // बोधिसत्वस्य मातुः कुक्षिगतस्य प्रतिपूजा नोपरमति / दिव्यानि तूर्याणि दिव्यानि अगुरुधूपानि दिव्यं पुष्पवर्षं दिव्यं चूर्णवर्षं // अप्सरसहस्राणि च उपगायन्ति उपनृत्यन्ति // बोधिसत्वमातां देवकन्यासहस्रेहि सार्धं अभ्याभवति हास्यं च कथा च / प्रसुप्तां च बोधिसत्वमातरं देवकन्या मन्दारवदामेन चपला परिवीजेन्ति बोधिसत्वस्यैव तेजेन // अयं च पुनः त्रिसाहस्रमहासाहस्रायां लोकधातूयं अनुत्तरा गर्भावक्रान्तिपारमिता //
अन्यं च दानि पश्यथ आश्चर्यं तस्य देवपर्षाये / ताव विपुलाये या कथा अभूत् परमहर्षसंजननी //
न पि कामकथा तेषां न पि अप्सरसां कथा न गीतकथा / न पि वाद्यकथा तेषां न पि भक्षकथा न पानकथा //
नाभरणकथा तेषां न पि वस्त्रकथा प्रवर्तति काचित्* / यानोद्यानकथा वा मनसापि न जायते तेषां //
साधू पुण्यबलवतो द्युति . . . . . सा सदेवकं लोकं / अभिभवति नायकस्य विकसति एषा कथा तत्र //
[_mvu_2.18_] साधुं गर्भोक्रमणं कर्मण अनुरूपं पारमिगतस्य / इति विकसति बहुविधा कथा परिषामध्ये एतस्मिं //
साधू ति निरामिषेहि संज्ञापदेहि क्षपेन्ति तत्कालं / वरबुद्धिनो अयं अपि कथा विकसति परिषामध्ये //
एवं बहुप्रकारां कथां कथयन्ता रमन्ति देवगणाः / रूपं वर्णं तेजं वरं च वीरचर्यं कथयन्ता //
सर्वेषां बोधिसत्वानां माता प्रतिपूर्णे दशमे मासे प्रजायति // सुभूतिना शाक्येन प्रेषितं राज्ञो / आगच्छतु देवी इह प्रजायिष्यति // राजा प्रतिबोधयति // आगमिष्यति सालभंजकं च करिष्यति //
लुम्बिनिवनं सुचपलं अपगततृणखाण्डपत्रसंखारं / वरसुरभिकुसुमनिकरं करोथ गन्धोदकसुगन्धं //
लुम्बिनिवने व वाता तमालपत्रगन्धवासितशरीरा / वायन्तु अमृतगन्धां मदजनना च पलायन्तु //
अगरुवरधूपगन्धा समोनमन्तु नभतो जलधरा तं / लुम्बिनिवनं छादेतुं वरचूर्णरसाकुलं क्षिप्रं //
एकैकं चङ्क्रमवरं दुकूलपट्टोर्णाकोशिकारेहि / कल्पयथ कल्पवृक्षां यथ दिवि देवप्रधानस्य //
देवा च देवकन्या च गन्धमाल्यं गृह्य लुंबिनीवनम् आगच्छन्ति //
[_mvu_2.19_] स्फटिकमणिकुण्डलधरा विगलितवसना प्रलम्बमणिहारा / आदाय गन्धमाल्यं गगनपथगता प्रडीयन्ति //
मन्दारवान भरिता काचित्* शंगेरियो गृहीत्वान / हरिचन्दनस्य काचित् काचि पुनः कल्पदुष्याणां //
स्थलजजलजं च माल्यं गृहीत्वा अप्सरा मुदितचित्ताः / रतना आभरणानि च जम्बुद्वीपे अभिमुखीयो //
चतुराशीतिम् अनूना छत्रसहस्राणि देवकन्यायो / कनकरतनामयानि आदाय नभे प्रडीयन्ति //
कूटागारसमेहि च स्फटिकमणिमुसालगल्वेहि चित्रेहि / भरितम् अपि अन्तरीक्षं दुष्यशतसमुच्छ्रितपताकं //
गजश्वसनसन्निकाशा शारदमेघा खगपथे विरोचन्ति / वरसुरभिकुसुमगन्धा कमलोत्पलचम्पकविमिश्राः //
भुजगपतिनो प्रमुदिता मेघेहि सुगन्धतोयभरितेहि / अभ्योकिरन्ति नगरं अन्यानि च अद्भुतशतानि //
अवगाह्य तं वनवरं माया सखिसंवृता जिनजिनेत्री / विचरति चित्तरथे देवि अमरवधू यथ रतिविधिज्ञा //
सा क्रीडार्थम् उपगता पिलक्षशखां भुजाय अवलम्ब्य / प्रविजृम्भिता सलीला तस्य यशवतो जननकाले //
अथ वा नवति सहस्रा मरुकन्या आशुर् एव सन्निपतिता / {आशु-र्-एव} मायां कृतांजलिपुटा इदम् अवच प्रसन्नसंकल्पा //
[_mvu_2.20_] अद्य जराव्याधिमथनं जनयिष्यसि अमरगर्भसुकुमारं / देवी दिवि भुवि महितं हितं हितकरं नरमरूणां //
मा खलु जनय विषादं परिकर्म वयं तवं करिष्यामः / यं कर्तव्यम् उदीरय दृश्यतु कृतम् एव तत्सर्वं //
अथ चतुरि लोकपाला सपरिवारा आशु-र्-एव सन्निपतिता / दिव्यप्रवेणिहस्ता देविम् उपगता प्रदक्षिणतो //
सर्वे पि देवसंघा मायां परिचारयित्व आकाशे / स्थिता माल्यगन्धहस्ता स्वपरिवारेण उपशोभन्ति //
न खलु पुनर् बोधिसत्वामाता बोधिसत्वं जनेति शयाना निषण्णिका वा यथान्याः स्त्रियो // अथ खलु बोधिसत्वमाता स्थितिका एव बोधिसत्वं संजनेति // बोधिसत्वो स्मृतो संप्रजानो मातरम् अबाधयमानो दक्षिणपार्श्वेन प्रादुर्भवति //
दक्षिणेन हि पार्श्वेन जायन्ते पुरुषोत्तमाः / सर्वे पुरुषशार्दूला भवन्त्य् अत्रविहारिणः //
किं तन् न भिद्यते पार्श्वं वेदना च न जायते / तस्या जिनजनेत्रीये जनेत्वा पुरुषोत्तमं //
मनोमयेन रूपेण प्रादुर्भोन्ति तथागता / एवं न भिद्यते पार्श्वं वेदना न च जायति //
बोधिसत्वो गर्भावासपरिश्रान्तो सप्त पदानि क्रमति //
जातमात्रो च विक्रमे सप्त विक्रमते भुवि / दिशां च प्रविलोकेति महाहासं च ऊहति //
[_mvu_2.21_] अत्र किं कारणं उक्तं यं सप्त क्रमते क्रमान्* / न च अष्ट न च षष्टि अत्र आगमनं शृणु //
गर्भावासपरिश्रान्तो सर्वलोकहितो मुनिः / पश्चिमो गर्भावासो यं अथ वेगेन प्रक्रमि //
तं तु सप्तपदे न्यस्ते देवसंघाभिलीयत / सहसा लोकपालेभ्यो अंकेन धारिये मुनिः //
अथ वर्षो समुत्पद्ये दिव्यकुसुमशीकरो / मन्दारवरजाकीर्ण्णो दिव्यचन्दनसंकुलो //
दीर्घकालम् उदग्राश् च सुरमुख्या अग्रधूपनं / प्रमुंचिषु विभूषार्थं तस्य उत्तमबुद्धिनो //
यद् अर्थं च विलोकेति दिशां अप्रतिपुद्गलो / तत्रापि आगमं वक्ष्ये उपदेशं मनोरमं //
न सो विद्यते सत्वानां देवेषु मनुजेषु वा / यस्यैवं संभवो भवति गर्भोक्रमणम् एव च //
खद्योतकनकनिर्भासं पार्श्वं जिनजनेत्रिये / आयते यदा सर्वज्ञः आयते चरमे भवे //
जातमात्रस्य तच्चित्तं आसि प्रवरवादिनो / अस्ति कश्चित् समबुद्धि मे इदं तर्कं निवर्तितुं //
केचित् संसारचारेण अर्तीयन्ति यथा अहं / इत्यर्थं पुरुषादित्यः दिशां सर्वां निरीक्षति //
अथ दिशां विलोकेन्तो दृश्यति वदतां वरः /
[_mvu_2.22_] देवकोटिसहस्राणि तस्मिं हासं प्रमुञ्चति //
जातमात्रस्य मे चाहुः देवता मारकायिकाः / चतुर्द्वीपो महाकोशो चक्रवर्ती भविष्यसि //
अथास्य हासो संभवति न मे सत्वा विजानथ / सर्वज्ञो सर्वदर्शावी भविष्यं पुरुषोत्तमः //
एवम् एतं प्रशंसन्ति विपाकम् उपदेशकाः / तथा हि नरसिंहानां शासनं सुप्रकाशितं //
यं तिष्ठन्ती जनये वीरं संकुसुमितेहि शालेहि / शरीरम् अवलम्ब्यमाना तं अनतिवरं जिनं वन्दे //
संप्रतिजातो सुगतो समेहि पादेहि धरणिम् अवतिष्ठे / सप्त च पदानि अगमा सर्वां च दिशां विलोकेति //
तं चास्य चंक्रमन्तं अन्वागमि वीजनं च च्छत्रं च / मा वरविदुनो काये दंशा मशका च निपतेन्सुः //
संप्रतिजाते सुगते देवा प्रथमं जिनं प्रतिगृह्णे / पश्चाच् चैनं मनुष्या अनतिवरं अङ्के धारेन्सुः //
प्रत्यग्रहेन्सु देवा सुगतं द्वात्रिंशलक्षणसमंगिं /
[_mvu_2.23_] पश्चाच् चैनं मनुष्या अनतिवरं अंके धारेन्सुः //
निर्वायेन्सु प्रदीपा मानुषका ओभासित्ऽ; अभूल् लोकं / संप्रतिजाते सुगते उल्काधारे नरमरूणां //
संप्रतिजाते सुगते ज्ञाती उदकार्थिका विधावेन्सुः / अथ पुरतो उदुपाना पूरा मुखतो विष्यन्देन्सुः //
दुवे वारिधारा उद्गमि एका शीतस्य एका उष्णस्य / यत्र स्नपयेन्सु सुगतं विग्रहं इव जातरूपस्य //
संप्रतिजाते खलु पुनः सुगते बोधिसत्वमाता अक्षता चैव अभूषि अव्रणा च बोधिसत्वस्यैव तेजेन / बोधिसत्वमातुः कुक्षि प्रतिपूर्णा एव अभूषि अनोनद्धा च // संप्रतिजाते खलु पुनर् बोधिसत्वे चतुर्ण्णां द्वीपकोटिशतानां मध्ये पृथिवीमण्डप्रधाना अश्वत्थयष्टि प्रादुर्भवेत्* / अन्तरद्वीपे चन्दनवनं प्रादुर्भवेत्* / बोधिसत्वस्य उपभोगपरिभोगम् आगच्छे बोधिसत्वस्यैव तेजेन // तत्र देवपुत्रसहस्राणि अप्सरसहस्राणि गन्धमाल्यम् आदाय आगच्छन्ति बोधिसत्वस्य पूजार्थं // देवपुत्रो देवपुत्रं पृच्छति // कहिं गमिष्यसि // सो आह //
एषा प्रसूष्यति नरेन्द्रवधूत्तमं तं वत्सं विबुद्धवरपुष्करगौरगर्भं / यो प्राप्स्यते धरणिमण्डगतोत्तमार्थं मारं निहत्य सबलं तम् उपेमि वीरं //
[_mvu_2.24_] अम्रक्षिता गर्भमलेन गात्रा जातं जले पंकजम् उत्तमं वा / वपुष्मन्तो बालरविप्रकाशो सब्रह्मकान् अमरान् अभिभोति //
ततो जातमात्रो कुले शाकियानां अतिक्रम्य धीरो पदानीह सप्त / समोलोकयित्वा दिशा ऊहसासि अयं दानिम् एको भवो पश्चिमो त्ति //
नभे तु च्छत्रम् एव विभ्राजमानं मणिमुक्तिश्रेष्ठं पराभाविभ्राजं / विधूतदामेन मन्दारवानां बहू देवपुत्रा नभे धारयेन्सुः //
सबालार्कशंखप्रतीकाशवर्णं वरं हेमच्छत्रं नभे धारयेन्सुः / ततो वीजनीयो विसृष्टा भ्रमेन्सुः करेण ग्रहेत्वा जिनं वीजयेन्सुः //
ततः पुण्यगन्धा सुखोष्णा प्रभूता लघुप्रेमणीया हिता मानुषाणां / शिवा नन्दनीया तुषारानुबद्धा दुवे वारिधारा नभे उद्गमेन्सु //
ततो मेरुशृङ्गाद् अनेकप्रकारा प्रमुक्तोत्तरीया समन्तोर्मिजाता //
[_mvu_2.25_] भृशं विश्वगन्धाधिवासानुवाता दृढां षड्विधानं महीं कंपयेन्सुः //
सुवर्णस्य रूप्यमणीनां शुभाना विमानेषु देवा सतूर्या विघुष्टा / सुजातेन जातं जिनं प्रेक्षमाणा सचन्द्रार्कतारं नभं शोभयेन्सु //
अयं सो सदेवं सनागं सयक्षं महोघं महर्षी जगं उत्तरित्वा / ततः क्षेमम् एकां दिशां प्राप्स्यतीति प्रहृष्टा स्य देवा नभे व्याहरेन्सुः //
संप्रतिजाते बोधिसत्वे शाक्यानां पंच कुमारशतानि सुन्दरनन्दप्रमुखानि / पंच कन्याशतानि यशोधराप्रमुखानि / पंच दासकशतानि च्छन्दकप्रमुखानि / पंच अश्वशतानि कण्ठकप्रमुखानि / पंच हस्तिपोतशतानि चन्दनहस्तिपोतकप्रमुखानि / पंच निधिशतानि प्रादुर्भूतानि // पंचहि राजशतेहि जयसंवृद्धये प्रेषिता //
___राजा शुद्धोदनो आणापेति // इतो एव देवीं निवर्तयथ // केनचिद् बोधिसत्वो अभिवहिष्यतीति // विश्वकर्मेण देवपुत्रेण रत्नामयी शिविका निर्मिता // को इमां शिविकां वहिष्यतीति // चत्वारो महाराजा उपस्थिता / वयं सत्त्वसारं वहिष्यामः /
[_mvu_2.26_] बोधिसत्वो च मायाय मातुः सार्धं शिविकासमारूढो / शक्रो देवानाम् इन्द्रो महाब्रह्मा च उत्सारणं करोन्ति //
___राज्ञा शुद्धोदनेन अमात्या आणत्ता // इत एव कुमारं शाक्यवर्धनं देवकुलं नेथ अभयाये देवीये पादवन्दनं // तेहि अमात्येहि राज्ञो वचनेन कुमारो ततो एव शाक्यवर्धनो देवकुलं नीतो अभयाय देवीये पादवन्दे // ते दानि अभयाये देवीये मूर्धेन पादा वन्दापयिष्यामो ति / येन चाभया देवी तेन कुमारस्य पादा प्रादुर्भूता / अभया देवी कुमारस्य मूर्धेन पादेषु प्रणता //
नरो चेतियेषु प्रविष्टो अकामो महालोकनाथो नरेन्द्राण शास्ता / यदा उत्तमाङ्गेन वन्दापयेन्सुः ततो तस्य पादानि प्रादुर्भवेन्सु //
ततो देवता चाभया इत्य् अवोचत्* न एषो नुरूपो ममं वन्दमामो / प्रणामं च एषो यद् अन्यस्य कुर्याद् दृढं सप्तधा अस्य मूर्धं स्फटेयाति //
जातमात्रे कुमारे अर्थसिद्धी सुखी सर्वसत्वा अभू यावद् अवीचिं / प्रणामं च कुर्वी देवा अभया च तस्य देवी प्रहृष्टा प्रणामं करोति // उत्थापनीया गाथा //
जाते जगप्रधाने सर्वे अर्था प्रदक्षिणा राज्ञो / तेन नरलम्बकस्य नामं सर्वार्थसिद्ध इति //
[_mvu_2.27_] राजकुलं कुमारस्मिं प्रविष्ते अवचत् पुरोहितं नृपतिः / लक्षणविधिगुणकुशलां विप्रां परियेषथ शीघ्रं //
तं विज्ञाय च देवा महेश्वरा नाम चित्तवसवर्त्ती / मा लक्षणा अकुशला विकल्पयिष्यन्ति द्विजसंघा //
विगतमदमानदर्पा अष्ट सहस्रा महेश्वरवराणां / देवनरगुरुं कृताञ्जली संप्रतिजातं उपगमेन्सुः //
ते राजकुलद्वारे शुचिवस्त्राम्बरस्थिता स्तिमितशब्दाः / प्रतिहाररक्षम् अब्रवीत् सुमधुरकरविंकरुतघोषाः //
शुद्धोदनं उपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञा / तिष्ठन्ति अष्ट सहस्रा प्रविशेन्सुः यदि अनुमतन् ते //
साधू ति प्रतिश्रुत्वा प्रतिहाररक्षो प्रविश्य राजकुलं / अब्रवीत् कृतांजलिपुटो प्रीतमनसो पृथिवीपालं //
अतुलवरदीप्तयशसा कारय राज्यं चिरं निहतशत्रु / द्वारे ते ऽमरसदृशा तिष्ठन्ति प्रवेष्टुम् इच्छन्ति //
प्रतिपूर्णविमलनयना मधुरस्वर मत्तवारणविचारी / भवति मम तेषु शंका न ते मनुजा देवपुत्रास् ते //
परिचंक्रमतां तेषां धरणीरजो क्रमवरां न स्पृशाति / न च सानं पश्यति पदं पृथिव्यां इदं अपि आश्चर्यं //
गम्भीरस्तिमितचेष्टा आर्याकारा प्रशान्तदृष्टिपथा / विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमाणस्य //
[_mvu_2.28_] अन्यं च दानि अद्भुतं शरीरच्छाया न दृश्यते तेषां / तेषां च सन्धिशब्दो चंक्रमतां न श्रुयते कश्चित्* //
निःसंशयं उपगता पुत्रवरं नरवराधिप द्रष्टुं / अभिनन्दं अभिवादय पश्याहि अयोनिजां देवां //
वरमाल्यगन्धहस्तां लीलाचेष्टां मनोरमशरीरां / दीप्यन्तां इव शिरीये असंशयं प्रवरमरुतस् ते //
शुद्धोदनो निशाम्य वचनम् इदं हर्षकम्पितशरीरो / अब्रवीत्* भणहि सुचपलं प्रविशन्तु निवेशनम् उदारं //
किंकारणं न एदृशा प्राकृतपुरुषाण भोन्ति आकाराः / न पि मानुषाण ईदृशी ऋद्धि भवति यादृशीं भणसि //
अथ सो प्रतिहाररक्षो उपगम्य महेश्वरां इदम् अवोचत्* / प्रह्वो कृतांजलिपुटो प्रणम्य हृष्टो मुदितचित्तो //
अभिनन्दतो नरपतिः प्रविशन्तु भवन्तो दिव्यपुरकल्पं / राजवृषभस्य वेश्मं नराधिपतिना अनुज्ञाताः //
एतं श्रुत्वा वचनं अष्टसहस्रं महेश्वरवराणां / प्रविशन्ति पार्थिवकुलं अनिहतकुलवंशमुख्यस्य //
शुद्धोदनो पि राजा महेश्वरां दूरतो निशामेत्वा / प्रत्युत्थितो सपरिवारो गौरवबलभावितशरीरो //
तां अवच राजवृषभो स्वागतम् अनुरागं भवि सर्वेषां / प्रीता स्म दर्शनेन प्रशमदमबलेन च भवतां //
[_mvu_2.29_] संविद्यन्ते इमानि अस्माकं आसनप्रधानानि / आस्तां ताव भवन्तो अस्माकम् अनुग्रहार्थाये //
अथ ते तेष्व् आसनेषु बहुरत्नविशुद्धचित्रपादेषु / विगतमदमानदर्पा निषीदि अनवद्यकर्मान्ताः //
ते कंचिद् एव कालं आगमयित्वा नराधिपम् अवोचत्* / शृण्वतु भवान् प्रयोजनं यं अस्माकम् इह गमनाये //
सर्व-म्-अनवद्यगात्रो उत्पन्नो लोकसुन्दरो तुह्यं / पुत्रो किल मनुजपते लक्षणगुणपारमीप्राप्तो //
वयम् अपि लक्षणकुशलास् समर्था गुणदोषलक्षणं ज्ञातुं / यदि न गुरुत्वं भवतो पश्येम महापुरुषरूपं //
सो अवच हन्त पश्यथ सुव्यपदेशक्षेमं मम पुत्रं / मरुमनुजहर्षजननं लक्षणगुणपारमीप्राप्तं //
अथ स मृदुकाचलिन्दिकप्रवेणिये गुणधरं ग्रहेत्वान / अंकेन वादिचन्द्रं उपनामयति सुरवराणां //
आलोकयित्व दूरा महेश्वरा पराक्रमं दशबलस्य / मूर्धनि विगलितमकुटा निपतन्ति महीतले हृष्टाः //
ते दानि राजानम् आरोचेन्ति / लाभा ते महाराज सुलब्धा यस्य ते यं महापुरुषो कुले उत्पन्नो द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो // तद्यथा //
समा हेष्टा च दीर्घा च आयता उत्संगपंचमा /
[_mvu_2.30_] एणि बृहत्प्रतिष्ठितो कोश न्यग्रोध ते दश //
मृदुजाला च प्रतिपूर्णा एका ऊर्ध्वाग्रपंचंआः / श्लक्स्णच्छवि हंसान्तरा च उत्सदा च ते दश //
रसं सुवर्णसीहो च समा शुक्ला च पंचंआ / समा प्रभूता ब्रह्ंआ च नीलगोपक्ष ते दश / ऊर्णा उष्णीषशीर्षं च नाथो द्वात्रिंशलक्षणो //
दक्षिणापथे अपरो ब्राह्मणकुमारो उज्जेनीयं ब्राह्मणमहाशालस्य पुत्रो श्यामो असितो वर्णेन पण्डितो निपुणो मेघवी / तेन गुरुकुलातो देवा च मन्त्रा च शास्त्रा च अधीटा // सो दानि अधीतवेदाध्ययनो गृःआतो निष्क्रम्य विन्ध्यपर्वतं गत्वा ऋषिप्रव्रज्यां प्रव्रजितो मूलफलपत्रभक्षो रुच्छवृत्तिः // तेन तहिं विन्ध्यपर्वते आश्रमं मापयित्वा वाहितकेन मार्गेण युज्यन्तेन घटन्तेन व्यायामन्तेन चत्वारि ध्यानानि निष्पादितानि पञ्चाभिज्ञा च साक्षात्कृता // सो चतुर्ध्यानलाभी पंचाभिज्ञो बहुश्रुतो वेदपारगो असितो ऋषि समन्तेन अभिज्ञातो परिज्ञातो / असितो ऋषि दिवि परिघुष्टो अन्तरीक्षचरो महर्द्धिको च महानुभावो पंचमात्रेहि शिष्यशतेहि सार्धं नालकेन च तहिं आश्रमे प्रतिवसति // सो तं बोधिसत्वस्य जातमात्रस्य पृथिवीचालं च दृष्ट्वा महान्तं च ओभासं दृष्ट्वा मनोज्ञानि च अमानुष्याणि च गीतवाद्यशब्दानि श्रुत्वा दिव्यानि पुष्पवर्षाणि पतन्तानि दृष्ट्वा देवकोटीसहस्राणी च अप्सरसहस्राणि च दिव्यमाल्यगन्धहस्तानि खगपथेन पूर्वामुखम् अभिपतन्तानि अन्यानि च अद्भुतशतानि दृष्ट्वा उद्धर्षितरोमसंजातो // किम् इदं अद्य जंबुद्वीपस्य / इयं अद्य कस्यानुभावेन पृथिवी च
[_mvu_2.31_] कम्पति अद्भुतशतानि च प्रादुर्भूतानि // सो दानि ऋषिः दिव्येन चक्षुषा सर्वजंबुद्वीपं प्रत्यवेक्षति कस्य इमं तेजानुभावं एदृशं मनोज्ञानि च गीतवादितशब्दा निश्चरन्ति दिव्यानि तूर्यशतानि श्रुयन्ति देवाश् च देवकन्याश् च दृश्यन्ति दिव्यानि च पुष्पवर्षाणि प्रवर्षन्ति चन्द्रादित्यसहस्राणि च दृश्यन्ति नरकसहस्रेषु नाग्निः प्रज्वलति / एकान्तसुखसमर्पिता च सत्वा संजाता // सो तथा दिव्येन चक्षुषा अद्राक्षीत्* // पुरस्तिमेन कपिलवस्तुस्मिं नगरे राज्ञो शुद्धोदनस्य पुत्रो जाता कृतपुण्यो महेशाख्यो महानुभावो यस्य तेजानुभावेन जम्बुद्वीपे एवंरूपाणि अद्भुतशतानि प्रादुर्भूतानि // देशकालेन कुमारं द्रक्ष्यामि // सो दानि कालं च समयं च ज्ञात्वा कुमारस्य दर्शनाय संबहुलेहि शिष्येहि संपरिवृतो वैहायसेन ऋद्धिये कपिलवस्तुम् अनुप्राप्तो राज्ञो शुद्धोदनस्य अन्तःपुरद्वारे // अमात्या च प्रतिहारो च ऋषिं दृष्ट्वा प्रत्युत्थिता / किम् आज्ञापेति भगवां केनार्थं किम् आगमनप्रयोजनं // ऋषि आह // शुद्धोदनस्य प्रतिहारेथ असितो ऋषि दर्शनकामो // प्रतिहारेण राज्ञो निवेदितं // असितो ऋषि दर्शनकामः // राजा शुद्धोदनो असितस्य ऋषिस्य आगमनं श्रुत्वा अभिज्ञातस्य विश्रुतस्य महाभागस्य प्रतिहाररक्षम् आह // प्रविशतु ऋषीति // प्रतिहाररक्षेण निर्धाविय ऋषिस्य निवेदितं / प्रविशतु भवां //
___ऋषि प्रविष्टो / राजा सान्तःपुरो ऋषिं दृष्ट्वा प्रत्युत्थितो // अभिवादेम भगवन्तं निषीदतु भगवां // ऋषि राज्ञो जयेन वर्धापयित्वा निषण्णो // राजा पृच्छति // किं भगवं आगमनप्रयोजनं // ऋषि आह // कुमारन् ते द्रष्टुकामो // तस्मिंश् च काले कुमारो अन्यतरं शान्तसमाधिं समापन्नो // तेषाम् एतद् अभवत्* / प्रसुप्तो कुमारो // ततो राजा ऋषिं आह // भगवं आगमेहि मुहुर्तं कुंआरो संप्रति ओसुप्तो // ऋषि आह // महाराज न कुमारो ओसोपति // राजा कुमारस्य
[_mvu_2.32_] मूलं अल्लीनो पश्यति च कुमारं जाग्रितं // राजा ऋषिस्य विस्मितो / महाभागो ऋषिः // राज्ञा आणत्तं / उपनामेथ कुमारं ऋषिस्य // कुमारो सूक्ष्मायां अजिनप्रवेणियं गृह्य ऋषिस्य उपनामितो // ऋषि कुमारस्य दूरतो एव कायेन महापुरुषलक्षणानि दृष्ट्वा अंजलिं मूर्धनि कृत्वा प्रत्युस्थितो // नमस्कृत्वा कुमारो ऋषिणा प्रतिगृहीतो // ऋषिः कुमारस्य द्वात्रिंशत्मःआपुरुषलक्षणानि प्रत्यवेक्षति //
___ऋषिश् च तत्र राजकुले कुमारस्य चक्रवर्तिशब्दं शृणोति / नैमित्तिकेहि कुमारो व्याकृतः राजा चक्रवर्ती भविष्यति // ऋषिस्य भवति // नायं चक्रवर्ती भविष्यति / बुद्धो अयं लोके भविष्यति // ऋषिस् तानि लक्षणानि दृष्ट्वा न एदृशानि राज्ञो चक्रवर्तिस्य लक्षणानि बुद्धानाम् एदृशानि लक्षणानि भवन्ति / बुद्धो अयं लोके भविष्यति / अहं च नचिरेण कालेन कालक्रियां करिष्यामि / इदं च रत्नं न द्रक्ष्यामि / इमस्य धर्मं न श्रोष्यामि गणोत्तमं च न द्रक्ष्यामि // ऋषि प्ररोदी अश्रूणि च प्रवर्तयति // राजा शुद्धोदनो असितं ऋषिं रुदन्तं दृष्ट्वा सान्तःपुरो उद्विग्नो जातो // किं भगवन्तं कुमारं दृष्ट्वा रोदसि / मा कुमारस्य कांचिद् विपत्तिं पश्यसि // कुमारस्य जातमात्रस्य पृथिवी कम्पिता षड्विकारं ओभासः लोके प्रादुर्भूतः देवसहस्रेहि पूजितो दिव्यानि कुसुमवर्षाणि दिव्यानि च तूर्यसहस्राणि संप्रवादितानि शब्दा निश्चरेन्सुः // कुमारे जातमात्रे कपिलवस्तुस्मिं पंच कुमारशतानि जातानि पंच कन्याशतानि पंच दासशतानि पंच दासीशतानि संजातानि पंच हस्तिपोतशतानि पंच अश्वशतानि पंच निधानशतानि प्रादुर्भूतानि पंचहि राजशतेहि जयवृद्धीये प्रेषिटायो अन्यानि पि च आश्चर्याद्भुतानि / भगवां च कुमारं दृष्ट्वा रोदिति / एवं मे भगवं आख्याहि मा कुमारस्य कांचिद् विपत्तिं पश्यसि // ऋषिर् आह // महाराज
[_mvu_2.33_] कुमारस्य न कांचिद् विपत्तिं पश्यामि / एदृशानां महाराज महापुरुषाणां कदाचित् कहिंचिल् लोके प्रादुर्भावो भवति / अयं महापुरुषो प्रादुर्भूतः बुद्धो लोके भविष्यति / अहं च वृद्धो न द्रक्ष्यामि / धर्मं च देशयिष्यति औपसमिकं चार्यं च निर्वाणिकं च तं च न श्रोष्यामि / गणवरं चास्य न द्रक्ष्यामि बुद्धविकुर्वितानि न द्रक्ष्यामि / तद् एतां महाराज आत्मनो महाविपत्तिं दृष्ट्वा रोदामि // ऋषिः बोधिसत्वं चतुर्हि कारणेहि एकांशेन व्याकरित्वा बुद्धो यं लोके भविष्यतीति प्रक्रान्तो //
नीवरणानि विजहित्व एकाग्रेण मनसा मम शृणोथ / यथा असितो परिदेवे उत्पन्ने शाकियकुमारे //
असितो नाम महर्षिः अभूषि यो वसति विन्ध्यविषयस्मिं / नियतनिचयो महात्मा महाकपिल-उत्तमांगरुहः //
आरण्यशास्त्रकुशलो लाभी पञ्चान सो अभिज्ञान / कैलासशिखरवासी धनपतिर् इव गुह्यकाधिपति //
सो वसति काननमूर्ध्नि मूलफलम् अकृष्टं रुच्छां वृत्तिं / शिष्येण नालकेन सार्धं अन्येहि च बहूहि //
दशकुशलकर्मसेवी प्रशमदमरतो परे च ओवदति / देवगुणपारमिगतो ऋषिः परमशीलसंपन्नो //
ओभासो च सुविपुलो प्रीती लोकोत्तर असंमुह्यन्ती / सत्वा चैकान्तसुखी अभुन्सु पृथिवी च कम्पेसि //
सो तत्र संनिषण्णो पश्यति मन्दारवाणि कुसुमानि / धरणीतले पतितानि दिव्यानि च कल्पपुष्पाणि //
[_mvu_2.34_] पश्यति असितो च नभे आभरणशटानि विप्रकीर्णानि / सहस्रा प्रधावितानां गगनतले देवकन्यानां //
मधुरं च किंनरीणां शृणोति गीतस्वरं गिरिगुहासु / गिरिनदियो कूलवहां शमयति कुसुमाकुलजलोघां //
ओभासं पि च विपुलं समन्ततो पश्यति दशदिशासु / सहसा समुत्पतन्तं रवितरुणमरीचिसंकाशं //
एतानि च अन्यानि च बहूनि आश्चर्यकानि दृष्ट्वान / उद्धर्षितरोमकूपो असितो चिन्तामनो आसि //
किन् तु खु मही प्रचलिता गगनतले दुन्दुभिनो च नदन्ति / ओभासितो च लोको प्रवर्षति च पुष्पवर्षाणि //
न विभान्ति चन्द्रसूर्या लवणजलो क्षुभ्यते असिततोयो / पद्मोत्तरीयपटला दृश्यन्ति कुसुमाकुलजलौघा //
सर्वे च्ऽ; इमे द्रुमवरा अकालकुसुमेहि . . . . च्छादिता / अद्य फलकुसुमभरिता सुरभी गन्धा प्रवायन्ति //
न च प्रज्वलते अग्निः निरयसहस्रेषु अद्य दिवसेन / न च वेदयन्ति दुःखं लोकान्तरिका विपद्यमाना //
न चापि क्षुधापिपासा यथा पुरे जायते शरीरस्मिं / हृदयं च मे प्रमुदितं किन् तु खलु भविष्यति अद्य //
अतिबलम् उदीर्णहासा किं तु खलु पुरस्तिमे दिशाभागे / धावन्ति देवकन्या चन्दनचूर्णं ग्रहेत्वान //
[_mvu_2.35_] को न खलु महानुभावो उत्पन्नो अद्य जंबुद्वीपस्मिं / कस्य यशेन यशवतो अयम् एदृशको महाभावो //
तहिम् एदृशं निमित्तं लोकस्मिं यस्य कस्यचिद् भोति / बुद्धानाम् उत्पादे एदृशका भोन्ति आकाराः //
पृथिवीय पतन्तानां शृणोति आकाशे अमरसंघानां / उत्पन्नो लोकनाथो बुद्धो होहिष्यति अनेयो //
सो दानि प्रमुदितमनो गगनतले श्रुणिय देवसंघानां / अद्य नरवीरगर्भो बुद्धो लोकस्मिं उत्पन्नो //
सो सर्वं जम्बुद्वीपं ओलोकयि दिव्यलोचनेहि ऋषि / अद्दस शाक्यान कुले जातो शुद्धोदनसुतो यं //
तस्यापि एवं दृष्ट्वा जातो दिशासु बोधिय कौलीनो / तत्रैष बुद्धशब्दो चरति द्रक्ष्यामि तं काले //
ते चापि कुठारिहस्ता कृष्णाजिनसुकृत-उत्तरासंगा / वल्कलचीरांबरधरा आदाय फलोदकम् आगमि //
आकाशे निरालम्बे वायुपथे . . . . प्रक्रामि ऋषिः / ऋद्धिं संजनयित्वा क्षणेन आगमि कपिलवस्तुं //
हिमवतमूले अदर्शि नगरं रम्यं आदित्यबन्धुगुप्तं / दुर्धर्षं परशत्रुभिः तं च सुरमणीयं त्रिदशान इव / देवानां प्रविशे ऋषि पुरं शाकियदर्शनार्थाये //
सुसन्निभन्तं प्रविशे आपणपण्यक्रयप्रसक्तं पूर्णं /
[_mvu_2.36_] हृष्टजनेहि प्रमुदितहयगजरथपत्तिसंघेहि //
सो मनसा उपगच्छन्तो द्वारे प्रविष्टो शुद्धान्ते . . . . / शुद्धोदनस्य निलयं निलयं यथा देवराजस्य //
प्रासादहर्मियं तं गवाक्षवरशरणपंजरविबुद्धं / गिरिकूटं इव गलितं पश्यति गगने विरोचेन्तं //
तस्मिं विमानमुख्ये कूटागाराणि रजतश्रीमाणि / शोभन्ति कर्णिकायो हुताशनहुतार्चिसंकाशा //
गर्भगृहाणी शुभानि च सन्ति विशदशंखहारकसंनिभा / विमलरविसंप्रकाशा द्योतन्ति कृता व चन्द्राणि //
दृश्यन्ति तत्र उप्ता वेरुलियस्य सुकृतेहि फलकेहि / गृहसूचीकावलीहि विद्युघनप्रसेकवर्णानि //
पश्यन्ति तोरणानि कनकमया अग्निज्वालसदृशानि / विमलरविसंप्रकाशा द्योतन्ति कृता च चन्द्राणि //
क्वचित्क्वचित् कालमेघसदृशसमदा पि सृजन्ति विय तोयं / क्वचि* निश्रितार्कसदृशा सतारका निश्चरन्ति क्वचित्* //
मार्जारपोतका पि च क्वचित्क्वचित् सहसावपतन्ति तहिं / त्रस्यन्ति च वर्हिणेहि क्वचित्क्वचित् संपतन्तेहि //
मधुरं च पंजरगता क्वचित्क्वचित् कोकिला निकूजन्ति / शुकसारिका क्वचित्क्वचिद् आभरणनिदानविभ्रान्ता //
[_mvu_2.37_] शुद्धं दशसु विदिशासु चतुरस्रं निर्मितं सु-आविद्धं / दुर्घर्षियं अरीभिः सूत्रग्रहस्य समुपचीर्णं //
बहुविधरत्नसंचयायं अनेकविचित्रसंघातभूमियां / सीहो निषद्यति विष्टं त्रसति च उदेन्तम् आदित्यं //
तं युग्ययानकविगतं चेटीवेलासिकाहि च उपेतं / काषायकर्बुरवर्णं वर्षवरसमाकुलं प्रविशे //
प्रेष्यशतयानकलिलं आर्यजनसमाकुलं शुचिसुगन्धं / प्रविशे भवनदुवारं प्राप्तो जटिलो न्यसंरोधं //
ओसरणे च भरिता अद्दशि प्रमदा स्थितसंभ्रान्तेन / प्रगृहीतखड्गहस्ता अत्i-r-iva प्रियदर्शनप्रलापा //
असितो चासौ व्यक्तो गम्भीरो सर्वशास्त्रसुविधिज्ञो / प्रतिहाररक्षम् अवोच निवेदये शाक्यराजस्य //
कालो स्मि विख्यातो भारद्वाजो हम् अस्मि गोत्रेण / जातो स्मि आर्य ति विषये सिखरे विन्ध्यस्मिं विहरामि //
साध्व् आर्य त्ति श्रुतधरो प्रतिश्रुणिय प्रापये महीपतिनो / तद् वचनं अनवशेषं श्रुत्वा च प्रवेशयित्वा च //
प्रतिभाणितो प्रविष्टो सिंहहनुस्य स्वर्गसदृशनिलयं / इन्द्र इव नन्दनं गतो संकीर्णं अप्सरगणेहि //
[_mvu_2.38_] वर्धापये जयेन फलानि उपनामये असितनामो / प्रत्यग्रहेसि राजा स्वागतं भगवतो ति च अवोचत्* //
अथ कनकम् अष्टपादं सुविचित्रकिलञ्जकं मणिविचित्रं / प्रक्षप्तम् आसनवरं तत्र निषीदे अनुज्ञातो //
पर्यंकस्मिं निषण्णो पंचाभिज्ञो ऋषी महर्द्धीको / भक्तेन निमन्त्रेति स्वामं शुद्धोदनो राजा //
भक्तं कृतं प्रभूतं प्रतिश्रुणु तं अनामयन् तु ते भगवन्* / इच्छाम ते कुमारं द्रष्टुं यदि ते अनुमतं स्यात //
स्वागतम् अनुरागतं ते सुप्तो तावत् प्रियदर्शि कुमारो / द्रक्ष्यसि त्वं प्रतिविबुद्धं विग्रहं इव जातरूपस्य //
प्रतिबुद्धं च कुमारं प्रवेणियं अष्टमंगलकृतायं / उपनामयि मातुस्मा घनविवरकृतं च आदित्यं //
दृष्ट्वान तं ऋषिवरो कुण्डलम् इव पट्टकम्बलन्यस्तं / अभ्युत्थहित्व त्वरितं अंकेन प्रतीच्छति कुमारं //
अङ्केन गृह्य निशाम्य द्वात्रिंशल्लक्षणेषु उपागतं / तथा अनुव्यंजनेहि प्ररोदि आखण्डलसमानो //
तं अश्रुपूर्णनयनं राजा शुद्धोदनो इदम् अवोचत्* / किं दानि ते कुमारं दृष्ट्वा दौर्मनस्यम् उत्पन्नं //
यो तदहो जातमात्रो सप्त पदान् उत्तरामुखो अगमि / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
[_mvu_2.39_] यस्मिं तदहो जातो छत्रं च वीजनीं च ग्रहेत्वान / अस्थान्सु अन्तरीक्षे दृष्ट्वा किं रोदिषि ब्रह्म //
यस्मिं तदहो जाते सर्वो ओभासितो अभूल् लोको / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यस्मिं तदहो जाते उदुपाना दुवे नभे उद्गच्छेन्सुः / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यस्मिं तदहो जाते देवा छत्रं नभस्मिं धारेन्सुः / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यस्मिं तदहो जाते देवा मन्दारवाणि प्रकिरेन्सुः / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यस्मिं तदहो जाते अचेतना संप्रकम्पिता वसुधा / तं तुव्ं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यस्मिं तदहो जाते लवणजलो क्षोभितो असिततोयो / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यस्मिं तदहो जाते नभसि गता दुन्दुभियो वाद्यन्ति / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यस्मिं तदहो जाते पंच शता जाता शाक्यपुत्राणां / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यस्मिं तदहो जाते पंच शता जाता शाक्यकन्यानां //
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि / यस्मिं तदहो जाते पंच शता जाता मह्य दासानां / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
[_mvu_2.40_] यस्मिं तदहो जाते पंच शता जाता मह्य दासीनां / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यस्मिं तदहो जाते मह्य तुरगाणां पंच शता जाता / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यस्मिं तदहो जाते पंच शता गजपोतानां जाता / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यस्मिं तदहो जाते पंच निधिशता मुखानि दर्शेन्ति / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्च्ःआमि //
यस्मिं तदहो जाते मण्डलिनो राजानो प्रणत मह्यं / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्च्ःआमि //
यस्य राजाचार्या ब्राह्मण संदर्शनाय उपयान्ति / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
यं पश्यित्वा मनुजा भवन्ति हृष्टा सुखी उदग्रा च / तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुम् इच्छामि //
व्यपनय ब्राह्मण शोकं भव मुदितमनो सुखं प्रतिलभाहि / एषो भविष्यति नृपो सप्तरतनवा पृथिविपालो //
एवं उक्ते अवची असितो सितसाह्वयं इदम् अवोचत्* / अश्रूणि प्रमार्जन्तो . . . . . . व्याकृतो ऋषिभिः //
आनन्दहुतासनबहुतरुणार्कनिभो न सो पुरुषसिंहो / होहिति नरपति राजा होहिति शास्ता अनभिभूतो //
एषो हि त्रीहि क्रमेहि त्रैधातुकं लंघिया अनवशेषं /
[_mvu_2.41_] शिवम् अमरं निरन्तरायं अधिगमिष्यति उत्तमं धर्मं //
जीर्णो अहं गतवयो दहरो च नरोत्तमो अचिरजातो / कालगतो भविष्यं अहं यद बोधिं प्राप्स्यति कुमारो //
बुद्धो अयं भविष्यति सर्वज्ञो सर्वधर्मवशवर्ती / स्वाख्यातधर्मविनये अहं च जीर्णो ति रोदामि //
नापि मह्यं मरणभयं कहिं तु जातो न म्रीयते मनुजो / बुद्धं तु अप्रतिसमं न द्रक्ष्यन् तेन रोदामि //
न खु मह्यं मरणभयं कहिं तु जातो न म्रीयते मनुजः / धर्मं तु ओपसमिकं न श्रोष्यं तेन रोदामि //
न खु मह्यं मरणभयं कहिं तु जातो न म्रीयते मर्त्यो / संघं गुणसागरम् अहं न द्रक्ष्यन् तेन रोदामि //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
