Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महावस्तु-अवादन
- Thông tin
- GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
___यानि तानि कृकिस्य काशिराज्ञो विंशति ब्राह्मणसहस्राणि नित्यभोजिका ते कुपिता यं मालिनीये भगवां काश्यपो सश्रावकसंघो राजकुले परिविष्टो महता सत्कारेण महता सन्मानेन // तेहि सर्वा ब्राह्मणपरिषा सन्निपातिता अनेकानि ब्राह्मणसहस्राणि // तेन कालेन तेन समयेन ब्राह्मणाक्रान्ता पृथिवी भवति // संनिपतिता मालिनीं घातेतुकामा // एषा येव अत्र राजकुले ब्राह्मणानां कण्टको उत्पन्नो // कृकिश् च राजा ब्राह्मणेषु अभिप्रसन्नो तस्य विंश ब्राह्मणसहस्रा दैवसिकं भुंजन्ति एषा च पितृणा ब्राह्मणानां नियोजिता एतानि ब्राह्मणानि दैवसिकं भोजेहीति एताये ब्राह्मणानां अवमन्यित्वा श्रमणा राजकुले प्रवेशिता एषां च एदृशो पूजासत्कारो कृतो // सा एषा यत् तं ब्राह्मणानां उपजीव्यं राजकुलातो पूजासत्कारार्थं श्रमणानां परिणामेति मानयन्तीति // तेहि ब्राह्मणेहि एषो व्यवसायो कृतो मालिनी मारेतव्या // कृकी च काशिराजा जनपदं प्रत्यवेक्षको व गतो // तेहि ब्राह्मणेहि कृकिस्य राज्ञो दूतो प्रेषितो // एदृशं मालिनीये ब्राह्मणानां मूले अबहुमानम् उत्पन्नं / काश्यपस्य सश्रावकसंघस्य राजकुलं प्रवेशित्वा एदृशो च पूजासत्कारो कृतो ब्राह्मणानां दर्शनं पि न देति // यथा महाराजेन संदिष्टं तथा न करोति // यन् तु ब्राह्मनानां राजकुले नित्यकं विंशतीनां ब्राह्मणसहस्राणां तं पि न वर्तति // मालिनी ब्राह्मणानां दर्शनं पि न देति // राजा श्रुतमात्रेणैव जनपदात्तो
[_mvu_1.310_] वाराणसिम् आगतो पश्यति अनेकां ब्राह्मणानां सहस्रियो समागतानि // सो येन ब्राह्मणास् तेनैव गतो // ब्राह्मणा पि राज्ञो प्रत्युद्गता जयेन वर्धापयित्वा एतां प्रकृतिं मालिनीये तं सर्वं कृकिस्य राज्ञो निवेदेन्ति // महाराज एषा मालिनी ब्राह्मणानां कण्टको उत्पन्ना न शक्यं ब्राह्मणेहि राज्ञो नित्यकं प्रतीच्छितुं यावन् न मालिनी घातिता // एष समग्राये ब्राह्मणपर्षाये निश्चयो उत्पन्नो // राजा पि ब्राह्मण्यो / एषा ब्राह्मणपरिषाय क्रिया अनुपरिवर्तितव्या // यदि ते ब्राह्मण्यं अपरित्यक्तं मालिनीं परित्यजाहि / अथ ते मालिनी अपरित्यक्ता नास्ति ते ब्राह्मण्यं // ब्राह्मणपरिषाया क्रियाम् अनुपरिवर्तन्तस्य तस्य राज्ञो एतद् अभूषि // इमा ब्राह्मणाक्रान्ता पृथिवी बहुब्राह्मण्या / यदि मालिनीं न परित्यजिष्यामि डिम्बं भविष्यति / नैवं मालिनी भविष्यति नैवम् अहं //
त्यजेद् एकं कुलस्यार्थं ग्रामार्थं तु कुलं त्यजेत्* / ग्रामं जनपदस्यार्थं आत्मार्थं पृथिवीं त्यजे //
ते दानि काशिराज्ञा मालिनी परित्यक्ता // यथा ब्राह्मणपरिषाये अभिप्रायम् तथा भवतु // ते दानि ब्राह्मणा आहन्सु // यदि परित्यक्ता मालिनी आणापियतु राज्ञा // ततो तेन बाहिरे नगरातो ब्राह्मणानां मूले स्थितकेन दूतो प्रेषितो // आगच्छथ मालिनीम् आनेथ त्ति // राजवचनेन दूतो राजकुलम् अनुप्राप्तः // आगच्छ मालिनी परित्यक्तासि पितरि ब्राह्मणानां / ब्राह्मणेहि जीविताद् व्यपरोप्यसि // मालिनीये मातरं आगत्वा आरावो मुक्तो सर्वेण च अन्तःपुरेण // नगरे सर्वजनो तेन आरावशब्देन उत्कण्ठितो आकुलीभूतो // महं आसि रोदनं //
[_mvu_1.311_]___मालिनी वाराणसीतो दूतेन निष्कास्यति पितुः सकाशं // सा दानि दूतेहि निष्कासीता पितुः अल्लीपिता // इयं महाराज मालिनी // राज्ञा अश्रुकण्ठेन रुदन्मुखेन महतो जनकायस्य मालिनी ब्राह्मणानां दत्ता परित्यक्ता पितरे // सा दानि मालिनी यत्र काले पितरि परित्यक्ता ब्राह्मणानाम् आज्ञाकृता // ततः मालिनी प्रांजलीकृता ब्राह्मणपरिषाये प्रणिपतित्वा // इच्छामि एकां प्रज्ञप्तिं ब्राह्मणपरिषा यदि प्रमाणन् ति // ते आहन्सु // जल्प या ते विज्ञप्ति // आह // अहं पितरि ब्राह्मणानां परित्यक्ता युष्माकं अहं वशगता // ब्राह्मणपरिषाये एवम् एव निश्चयो मालिनी मारेतव्या // तद् इच्छामि ब्राह्मणपरिषायम् एव सकाशातो सप्ताहं जीवितुं दानं दास्यामि पुण्यं च करिष्यामि // अहं च ब्राह्मणानां कृतोपस्थाना मयापि ब्राह्मणा उपस्थापिता पितुर् वचनेन // ततो मे सप्ताहस्यात्ययेन मारेथ यं वा वो क्षमति तं करोथ // तेषां ब्राह्मणानां महत्तरकानाम् उत्पन्नं // एवम् एतं यथा मालिनी जल्पति चिरकालम् एताये ब्राह्मणा उपस्थापिता पितुर् वचनेन भोजापिताः / पश्चा एताये पापकं चित्तम् उत्पन्नं यं ब्राह्मणां मेल्लित्वा श्रमणानाम् अभिप्रसन्ना // ततो नार्हति भूयो श्रमणानां दानं दातुं उत्सृष्टा न तेषां ब्राह्मणानाम् एव एषा सप्तरात्रं दानं दास्यति / तद् दीयतु एताय विज्ञप्तिः मुच्यतु सप्तरात्रं सप्ताहस्यात्ययेन हनिष्यति // यं कारणं ब्राह्मणपरिषाये एष निश्चय उत्पन्नस् तं मालिनीये जीवमानाय कार्यं // तस्या तेहि ब्राह्मणेहि दत्ता विज्ञप्तिः // सप्तरात्रम् उत्सृष्टा महतो जनकायस्य ब्राह्मणानां सकाशातो अप्रमादा भवेया सप्तरात्रं पि न विलुपे त्ति // सा दानि ओसृष्टा समानापि नूनं सार्धं महता जनकायेन परिवृता पुनः राजकुलं प्रविष्टा पितरं विज्ञापेति // इच्छामि इमानि सप्त दिवसानि दानं च दातुं पुण्यं
[_mvu_1.312_] च कर्तुं यत्र मम अभिप्रायो // राजा आह // एवम् अस्तु करोहि पुत्रि पुण्यं यत्र ते अभिप्रायो // सा आह // भगवन्तं काश्यपं सम्यक्संबुद्धं सश्रावकसंघं सप्ताहम् इह राजकुले परिविषेयं // राजा आह // अनुमोदाहि त्वं // भगवां काश्यपो सश्रावकसंघो राजकुले सप्ताहं भक्तेन उपनिमन्त्रितो // अनुकम्पाम् उपादाय भगवता काश्यपेन वैनेयवशेन महाजनकायं विनयम् आगमिष्यतीति अधिवासितं // ते ब्राह्मणा परिकुपिता इच्छन्ति हनितुं जीवन्तीं // मालिनी प्रांजलीकृता // क्षमथ तावत् सप्ताहं यावद् ददामि दानं // ददन्तो ब्राह्मणा कामकारो वः //
___ताये प्रथमस्मिं दिवसस्मिं शास्ता भोजापितो सह गणेन अन्तःपुरस्य मध्ये मातुश् च पितुश् च मध्यगताये // शास्ता च प्रसादनीयां राज्ञो कथये कथां // विनीवरणे च धर्मे अभिसमेति राजा अन्तःपुरेण सह // द्वितीयस्मिं दिवसस्मिं विनेसि पंच पुत्रशाता // तृतीयस्मिं दिवसस्मिं यो तेषाम् अभूषि परिवारो च // चतुर्थस्मिं दिवसे राजामात्यां विनेति संबुद्दः // पंचमे यं च बलाग्रं प्रथमफले निवेशये शास्ता // षष्ठस्मिं दिवसस्मिं राजाचार्यं विनेति संबुद्धः // निगमां च सप्तमे श्रोतापत्तिफले विनये // राजापि हृष्टचित्तो संबुद्धं पश्यिय सह गणेन भगवन्तं काश्यपं निमन्त्रयेद् अग्रभक्तेन // मालिनीये सप्तमे दिवसे भगवन्तं काश्यपं भुक्ताविं विदित्वा अपनीतपात्रं प्रणिधानम् उत्पादितं // अनन्तरेणाहं दुःखस्यान्तं करेयं / एदृशो मे पुत्रो भवेया यथायं भगवन्तो काश्यपो देवमनुष्याणां अर्थचर्यां चरति // एवं मम पुत्रो अनुत्तरां सम्यक्संबोधिम् अभिसंबोधित्वा देवमनुष्याणाम् अर्थचर्यां चरतु // मालिनीये
[_mvu_1.313_] भ्राता अनियवन्तो नाम कुमारो / तेनापि प्रणिहितं // एदृशो मे पिता भवेया यथायं भगवां काश्यपो एतरहिं / तत्र च अहं दुःखस्यान्तं करेयं // एवं भगवता काश्यपेन कृकी च काशिराजा सान्तःपुरो पंच कुमारशता अमात्या च भट्टबलाग्रं योभूयेन च नैगमा सर्वे आर्यधर्मेहि विनीता // तेषाम् एतड् अभूषि // अस्माकं मालिनी कल्याणमित्रा मालिनीम् आगम्य अस्माकं सर्वधर्मेषु धर्मचक्षुर् विशुद्धं // तां ब्राह्मणा जीविताद् व्यपरोपयिष्यन्ति // अपि नाम वयं आत्मानं परित्यजेयाम न मालिनीं // तेहि तेषां ब्राह्मणानां संदिष्टं // एते वयं मालिनीये सह आगच्छामः मालिनी अस्माकं कल्याणमित्रा न युष्मे शक्ता अस्मेहि जीवन्तेहि मालिनीं जीविताद् व्यपरोपयितुं // यदा वयं सर्वे न भवाम एवं युष्मे शक्नोथ तां मालिनीं जीविताद् व्यपरोपयितुं // ते दानि सपरिवाराः सबलवाहनाः मालिनीम् अग्रतो कृत्वा वाराणसीतो निर्गम्य येन तानि ब्राह्मणसहस्राणि तेन प्रणता // ते ब्राह्मणास् तं अनन्तं बलाग्रं दृष्ट्वा मालिनीये सह आगच्छन्तं भीता त्रस्ता // तेहि दूतो प्रेषितो राज्ञो च // निर्गम्यतु मुक्ता भवतु मालिनी तं दिवसं या चैषा उद्धृतदण्डा एषा पितरे आलोकं निसृष्टा भवतूद्धृतदण्डा // एषा न अस्माकं मालिनी अपराध्यति / काश्यपो अस्माकं सपरिवारो अपराध्यति तस्य वयं दण्डं करिष्यामः //
___तेहि दानि सन्नद्धकवचिताः सहस्रयोगा दश पुरुषा ऋषिवदने प्रेषिताः काश्यपं श्रमणं सश्रावकसंघं जीविताद् व्यपरोपयथ // ते भगवता काश्यपेन मैत्र्या स्फारित्वा आर्यधर्मेहि प्रतिष्ठापिता // तेहि ब्राह्मणेहि अपरे विंश पुरुषाः सन्नद्धकवचिताः प्रेषिताः काश्यपं श्रमणं जीविताद् व्यपरोपयथ // ते पुरुषा ऋषिवदनं गताः सन्नद्धाः सप्रहरणाः // ते पि भगवता मैत्र्या स्फारित्वा आर्ये धर्मे प्रतिष्ठापिताः // एवं
[_mvu_1.314_] त्रिंशच् चत्वारिंश पंचाशं यत्तका प्रेषिता तत्तका काश्यपेन भगवता मैत्र्याय स्फारित्वा आर्यधर्मेहि प्रतिष्ठापिताः // आकर्षणा एषा बुद्धानां // भगवता वैनेयसत्वानां आकर्षणतायै यत्तका तहिं बुद्धवैनेया आसि तेहि ब्राह्मणसहस्रेहि तत्तका तेहि विसर्जिताः ते च भगवता सर्वे आर्यधर्मेहि विनीताः // मिथ्याप्रतिपन्ना अवशिष्टा अनेकप्राणसहस्रिये // तेषाम् आर्यधर्मेहि विनीतानां भवति // न एते ब्राह्मणा बुद्धमाहात्म्यं जानन्ति / यदि एते भगवन्तं काश्यपम् उपसंक्रमेन्सुः महता अर्थेन संयुज्येन्सुः // तेहि तेषां ब्राह्मणानां दूतो प्रेषितो // भगवां काश्यपो सम्यक्संबुद्धो महात्मा महाकारुणिको लोकस्यानुग्रहप्रवृत्तो // मा भवन्तो भगवतो काश्यपस्यान्तिके भिक्षुसंघस्य बाधितुं प्रदूषेथ // एवं मानं च मदं च जहित्वा आगच्छथ सर्वे भगवतो काश्यपस्य पादवन्दनं महता अर्थेन संप्रयुज्यथ //
सत्य अपिशुनवर्णा नं च अर्थवती शुची / अन्येषां मधुरा व्यक्ता बुद्धस्य सखिला गिरा //
तर्पणीया निर्वम्हणी सर्वदाहविनाशनी / नेलवर्णा सुखवर्णा बुद्धस्य सखिला गिरा //
अगद्गदा अविकला अवितथा अनन्यथा / यथातथा अविकल्पिता बुद्धस्य सखिला गिरा //
ज्ञेयज्ञाना अनुत्पन्ना अनोसाना असादिशा / नरवशा सुविभक्ता च वाचा अमितबुद्धिनो //
सत्यं चापिशुनं च भाषति स सर्वतः पुन मैत्रचित्तो /
[_mvu_1.315_] उपकारे परमार्थसंहितं एतं वा परमं सुभाषितं //
आविष्टं गदितं स भाषति उच्चनीचम् अथ अपि मध्यमं / अनुपदं अन्वक्षरं विशुद्धं एतं वा परमं सुभाषितं //
परमकरुणम् उदितयुक्तां गिरां भाषति दशफलयुक्तां / अष्टांग्ऽ; उपेतचतुष्प्रकारां एतं वा परमं सुभाषितं //
वाचां भाषति पंचपुण्यां सुनिश्चितां वा पुन छिन्नसंशयां / न च कर्म किंचि करोति पापं तथाविधं उत्तमपौरुषत्वं //
एवं उपेतं वरलक्षणेहि महाद्युतिगणम् अनुशासते / वरं ज्ञातीरतनं प्रहाय रतिं च स्फीतां अभिनिष्क्रमे //
अमृतपदं जिगीषुं नन्दजाता द्रुमसारं वरगन्धम् उत्तमं / लोचेत्वान कृतविकृतं तं अथ तेनैव पचेसि ओदनं //
[_mvu_1.316_] एवम् इह काश्यपं महर्षि परिभाषन्ति जना परीत्तप्रज्ञाः / स्वाख्यातपदं अनिन्दितं पुरुषाजानियम् अनतिक्रमं //
शमिताविं प्रहाय पुण्यपापं भवसंयोजनसंक्षये रतं / शान्तं सुविभक्तमानसं तं जनो गरहति अनंगनं //
भिक्षू च उपासका इमे बहु काश्यपशासने रता / ज्वलितं व हुताशनं शिखिं एथ वन्दाम समेत्य काश्यपं //
एषो द्विपदानम् उत्तमो सो चक्षुददो विनायको / मानं च मदं च विप्रहा एथ वन्दाम समेत्य काश्यपं //
ते ब्राह्मणा सर्वे नित्यत्वनियतराशी बुद्धसहस्रम् अपि यदि धर्मं देशेय अभव्या ते धर्मम् आजानितुं बुद्धे च धर्मे च संघे च प्रसादयितुं // ते दानि दण्डलगुडहस्ता येन भगवान् काश्यपो तेन प्रधाविता // भगवता पृथिवीदेवता आभाष्टा // सा दानि तालमात्रेण आत्मभावेन भगवतो पुरतो स्थिता // भगवां तां पृथिवीदेवताम् आह // के च ते तत्र ब्राह्मणा भवन्ति // सा दानि आह // एते मम पृथिवीनिसृता दासा // भगवान् आह // तेन हि यथा दासा पराक्रम्यन्ते तथा पराक्रम // सा दानि महान्तं
[_mvu_1.317_] तालस्कन्धम् उन्मूलेत्वा येन ते ब्राह्मणा तेन प्रत्युद्गता // तं तालस्कन्धं पृथिवीये छटाछटाये उपरिपतितं // ते ब्राह्मणा भीता नाशनष्टाः //
_____इति श्रीमहावस्तु-अवदाने मालिनीये वस्तु समाप्तं //
एवं मया श्रुतं एकस्मिं समये भगवां कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं पंचहि भिक्षुशतेहि येन कोशलानां मारकरण्डो निगमो तद् अवसारि तद् अनुप्राप्तो तत्रैव विहरति अन्यतरस्मिं वनषण्डे // अथ खलु भगवान् सायाह्नकालसमये प्रतिसंलयनाद् व्युत्थाय विहारातो निर्गम्य ऊर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा अधो च ओलोकेत्वा समं च भूमिभागं समवेक्षित्वा स्मितं प्रादुष्करित्वा दीर्घं चंक्रमं चंक्रमे // अद्राक्षीत्* अथ खल्व् आयुष्मान् आनन्दो भगवन्तं सायाह्नकालसमये प्रतिसंलयनाद् व्यूत्थाय ऊर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा अधो च ओलोकेत्वा समं च भूमिभागं समवेक्षित्वा स्मितं प्रादुष्करित्वा दीर्घं चंक्रमं चक्रमन्तं / दृष्ट्वा पुनर् येन संबहुला भिक्षवस् तेनोपसंक्रमित्वा भिक्षून् एतत् अवोचत्* // एषो बुद्धो भगवान् सायाह्नसमये प्रतिसंलयनाद् व्यूत्थाय ऊर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा अधो च अवलोकेत्वा समं भूमिभागं समवेक्षित्वा स्मितं च प्रादुष्करित्वा दीर्घं चंक्रमं चंक्रमति // न च पुनर् आवुसावो तथागता अर्हन्तः सम्यक्सम्बुद्धाः अहेतु अप्रत्ययं स्मितं प्रादुष्कुर्वन्ति // किं पुनर् वयं आवुसावो येन भगवांस् तेनोपसंक्रमित्वा भगवन्तम् एतम् अर्थं पृच्छेम // यथा तं भगवां व्याकरिष्यति तथा तं धारयिष्याम // साध्व् आयुष्मन्न् इति ते भिक्षू आयुष्मतो आनन्दस्य प्रत्यश्रोषि //
___अथ खलु आयुष्मान् आनन्दो तेहि भिक्षुहि सार्धं येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा विन्दित्वा एकान्ते अस्थासि // एकान्ते स्थितः आयुष्मान् आनन्दो
[_mvu_1.318_] भगवन्तम् एतत् अवोचत्* // इहाहं भगवन्तं अद्दशामि सायाह्नसमये प्रतिसंलयनाद् व्यूत्थाय विहारान् निष्क्रम्य ऊर्ध्वं च उल्लोकेत्वा अधो च अवलोकेत्वा दिशाभागां च अभिविलोकेत्वा समं च भूमिभागं समवेक्षित्वा स्मितं च प्रादुष्कुर्वन्तं दीर्घं चंक्रमं चंक्रमन्तं // न च पुनस् तथागता अर्हन्तः सम्यक्सम्बुद्धा अहेतु अप्रत्ययं स्मितं प्रादुष्करोन्ति // को भगवन्* हेतुः प्रत्ययः स्मितस्य प्रादुष्करणाय // एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् उवाच // पश्यसि त्वं च आनन्द एतं पृथिवीप्रदेशं // एवं ह्य् एतं भगवन्* // एतस्मिं आनन्द पृथिवीप्रदेशे भगवतो काश्यपस्य आगमवस्तुं अभूषि // पश्यसि त्वम् आनन्द एतं पृथिवीप्रदेशं // एवं ह्य् एतं भगवन्* // एतस्मिन्न् आनन्द पृथिवीप्रदेशे भगवतो काश्यपस्य कुटीवस्तु अभूषि // पश्यसि त्वम् आनन्द एतं पृथिवीप्रदेशं // एवं ह्य् एतद् भगवं // एतस्मिन्न् आनन्द पृथिवीप्रदेशे भगवतो काश्यपस्य चंक्रमषष्टिः अभूषि // पश्यसि त्वम् आनन्द एतं पृथिवीप्रदेशं // एवं ह्य् एतं भगवं // एतस्मिन्न् आनन्द पृथिवीप्रदेशे त्रयाणां तथागतानाम् अर्हतां सम्यक्सम्बुद्धानां निषद्या अभूषि भगवतो क्रकुच्छन्दस्य भगवतो च कनकमुनिस्य भगवतो च कास्यपस्य // अथ खल्व् आयुष्मान् आनन्दो अश्चार्याद्भुतसंविग्नरोमहृष्टजातो शीघ्रं शीघ्रं त्वरमाणरूपो येन सो पृथिवीप्रदेशो तेनोपसंक्रमित्वा तस्मिं पृथिवीप्रदेशे चतुर्गुणसंघाटिं प्रज्ञपेत्वा येन भगवां तेनाञ्जलिं प्रणामेत्वा भगवन्तम् एतद् अवोचत्* // इह भगवां निषीदतु प्रज्ञप्त एव आसने // अयं पृथिवीप्रदेशो चतुर्हि तथागतेहि अर्हन्तेहि सम्यक्सम्बुद्धेहि परिभुक्तो भविष्यति भगवता क्रकुच्छन्देन भगवता च कनकमुनिना भगवता च काश्यपेन भगवता चैतर्हि // निषीदतु खलु भगवां प्रज्ञप्त एव आसने // आयुष्मां पि आनन्दो भगवतः पादौ
[_mvu_1.319_] शिरसा वन्दित्वा एकान्ते निषीदि // ते पि भिक्षू भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदेन्सुः // एकान्ते निषण्णम् आयुष्मन्तम् आनन्दं भगवान् एतद् अवोचत्* // इच्छसि पुनस् त्वम् आनन्द तथागतस्य पूर्वनिवाससंयुक्तां धर्मीकथां भाषतो श्रोतुं इमम् एव मारकरण्डं निगमम् आरभ्य // एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्* // एतस्य दानि भगवं कालो एतस्य दानि सुगतो समयो यं भगवां भिक्षूणाम् एतम् अर्थं भाषे // भिक्षू भगवतो संमुखा श्रुत्वा संमुखा प्रगृहीत्वा तथत्वाये धारयिष्यन्ति // एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्* //
___भूतपूर्वम् आनन्द भगवति काश्यपे अयं मारकरण्डो निगमो वेरुडिङ्गो नाम ब्राह्मणग्रामो अभूषि // वेरुडिङ्गे खलु आनन्द ब्राह्मणग्रामे घटिकारो नाम कुम्भकारो अभूषि भगवतो काश्यपस्य उपस्थायको // घटिकारस्य खलु पुनर् आनन्द कुम्भकारस्य ज्योतिपालो नाम माणवको अभूषि दारकवयस्यको सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य ब्राह्मणस्य पुत्रो // अथ खल्व् आनन्द भगवां काश्यपो कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामो तद् अवसारि तद् अनुप्राप्तस् तत्रैव विहरति इमस्मिं एव वनखण्डे // अश्रोषि खल्व् आनन्द घटिकारो कुम्भकारो भगवां किल काश्यपो कोशलेषु चारिकां चरमाणो येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामं तद् अवसारि तद् अनुप्राप्तो तत्रैव विहरति अन्यतरस्मिं वनखण्डे // अथ खल्व् आनन्द घटिकारो कुम्भकारो येन ज्योतिपालो माणवो तेन्ऽ; उपसंक्रमित्वा ज्योतिपालं माणवम् एतद् अवोचत्* // श्रुतम् इदं सम्यग्ज्योतिष्पाल / भगवां किल काश्यपो कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामो तद् अवसारि तद् अनुप्राप्तः
[_mvu_1.320_] तत्रैव विहरति अन्यतरस्मिं वनखण्डे // किं पुनर् वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेनोपसंक्रमेम भगवन्तं काश्यपं दर्शनाये वन्दनाये पर्युपासनाये // एवम् उक्ते ज्योतिपालो माणवो घटिकारं कुम्भकारम् एतद् अवोचत्* // किं मे भणे घटिकार तेहि मुण्डिकेहि श्रमणेहि दर्शनाये उपसंक्रान्तेहि पर्युपासनाये / द्वितीयं तृतीयं पि आनन्द घटिकारो कुम्भकारो ज्योतिस्पालं माणवम् एतद् उवाच // . . . . . . . किं मे भणे घटिकार तेहि मुण्डेहि श्रमणेहि दर्शनाये उपसंक्रान्तेहि पर्युपासनाये // अथ खल्व् आनन्द घटिकारस्य कुम्भकारस्य एतद् अभूषि // को नु खलु स्याद् उपायो यं ज्योतिपालो माणवो भगवन्तं काश्यपं दर्शनाय उपसंक्रमेय पर्युपासनाय अथ खलु आनन्द घटिकारस्य कुम्भकारस्य एतद् अभूषि // अस्ति खलु तस्यैव वनखण्डस्य अविदूरे सुमुका नाम पुष्करिणी यं नूनाहं ज्योतिपालेन माणवेन सार्धं येन सुमुका नाम पुष्करिणी गच्छेयं शीर्षस्नापनाय // अथ खल्व् आनन्द घटिकारो कुम्भकारो येन ज्योतिपालो माणवो तेन्ऽ; उपसंक्रमित्वा ज्योतिपालं माणवम् एतद् उवाच // किं पुनर् वयं सम्यग्योतिपाल येन सुमुका नाम पुष्करिणी तेनोपसंक्रमेम शीर्षस्नापनाय // एवम् उक्ते आनन्द ज्योतिपालो माणवो घटिकारं कुम्भकारम् एतद् उवाच // तेन हि भणे घटिकार सुखी भव यस्येदानि कालं मन्यसे // अथ खल्व् आनन्द घटिकारो कुम्भकारो शीर्षस्नानीयशाटिम् आदाय ज्योतिपालेन माणवेन सार्धं येन सा पुष्करिणी तेनोपसंक्रमेन्सु स्नानाय // अथ खल्व् आनन्द ज्योतिपालो माणवो शीर्षस्नातो उदकतीरे अस्थासि केशां सन्थापयमानो // अथ खल्व् आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवम् एतद् अवोचत्* // अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिं येन वनखण्डे किं पुनर् वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेन्ऽ; उपसंक्रमेम भगवन्तं काश्यपं दर्शनाय पर्युपासनाय // एवम् उक्ते ज्योतिपालो माणवो घटिकारं कुम्भकारम्
[_mvu_1.321_] एतद् अवोचत्* // किं मे भणे घटिकार तेहि श्रमणकेहि दर्शनाये उपसंक्रमन्तेहि पर्युपासनाये // अथ खल्व् आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवं कृकाटिकायां गृह्य एतद् अवोचत्* // अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिं एव वनखण्डे किं पुनर् वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेन्ऽ; उपसंक्रमेम भगवन्तं काश्यपं दर्शनायोपसंक्रमन्तं पर्युपासनाय // अथ खल्व् आनन्द ज्योतिपालो माणवो घटिकारं कुम्भकारं अपधुनित्वा प्रयाति // तम् एनं घटिकारो कुम्भकारो अनुजवित्वा प्रवेणिकेशेहि गृहीत्वा एतद् अवोचत्* // अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिं एव वनखण्डे विहरति किं पुनर् वयं सम्यग्ज्योतिपाल येन भगवां काश्यपस् तेनोउपसंक्रमेम भगवन्तं काश्यपं दर्शनाय पर्युपासनाय // अथ खल्व् आयुष्मन् आनन्द ज्योतिपालमाणवस्य एतद् अभूषि // न खल्व् अप्रत्ययं वा तं यं मे घटिकारो कुम्भकारो शीर्षस्नातं मुर्ध्नि केशेषु परामृषति नुदन्तकं हीनाय जात्या समानो // तेन हि भणे घटिकार सुखी भव यस्य दानि मन्यसे //
___अथ खल्व् आनन्द घटिकारो कुम्भकारो ज्योतिपालेन माणवेन सार्धं येन भगवां काश्यपो तेन्ऽ; उपसंक्रमित्वा भगवतः काश्यपस्य पादौ वन्दित्वा एकान्ते अस्थासि // एकान्तस्थितः आनन्द घटिकारो कुम्भकारो भगवन्तं काश्यपम् एतद् अवोचत्* // अयं मे भगवन्* ज्योतिपालमाणवो दारकवयस्यो सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य ब्राह्मणस्य पुत्रो तं भगवां ओवदतु अनशासतु // अथ खल्व् आनन्द भगवां काश्यपो ज्योतिपालं माणवं त्रीहि च शरणगमनेहि पंचहि च शिक्षापदेहि समादापये // अथ खल्व् आनन्द ज्योतिपालो माणवो भगवन्तं काश्यपम् एतद् अवोचत्* // न तावद् अहं भगवन् सर्वाणि पंच शिक्षापदानि समादापयिष्यं // अस्ति ताव मे एको पुरुषो विहेठको रोषको जीविताद् व्यपरोपयितव्यो // एवम् उक्ते भगवां ज्योतिपालं माणवम् एतद् अवोचत्* // कतमो पुनर् ज्योतिपाल एको पुरुषो विहेठको रोषको जीविताद्
[_mvu_1.322_] व्यपरोपयितव्यो // एवम् उक्ते आनन्द ज्योतिपालो माणवो भगवन्तं काश्यपम् एतद् अवोचत्* // अयं भगवं घटिकारो कुम्भकारो यो मे तदा एवं शीर्षस्नातं मूर्ध्नि केशेहि परामृषति // तदाहं एवम् आह // उपसंक्रमेम भगवन्तं काश्यपं दर्शनायोपसंक्रमन्तं पर्युपासनाये // . . . . . . . . . . . . . अपि च भवां सुखी भवतु घटिकारो कुम्भकारो एषो ऽहं सर्वाणि एवं पंच शिक्षापदानि समादियामि // अथ खल्व् आनन्द भगवां काश्यपो घटिकारं कुम्भकारं ज्योतिपालं च माणवं धार्म्यया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उद्योजयि // अथ खल्व् आनन्द घटिकारो ज्योतिपालो च माणवो भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा प्रक्रामि //
___अथ खल्व् आनन्द ज्योतिपालमाणवो अचिरप्रक्रान्तो घटिकारं कुम्भकारम् एतद् अवोचत्* // त्वं पि भणे घटिकार भगवतो काश्यपस्य सम्यग्धर्मं देशितम् आजानासि यथैव अहं // एवम् उक्ते आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवम् एतद् अवोचत्* // एवम् उक्ते सम्यग्ज्योतिपाल // अहं पि भगवतो काश्यपस्य एवं सम्यग्धर्मं देशितम् आजानामि यथैव त्वं // एवम् उक्ते आनन्द ज्योतिपालो माणवो घटिकारं कुम्भकारम् एतद् उवाच // कस्मात् पुनः त्वं घटिकार भगवतो काश्यपस्य सन्तिके न अगारस्यानगारियं प्रव्रजसि // एवम् उक्ते आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवम् एतद् अवोचत्* // अस्ति मे सम्यग्ज्योतिपाल मातापितरौ जीर्णवृद्धौ दुर्बलचक्षू तेषां नास्त्य् अन्यो उपस्थायको // तेनाहं भगवतो काश्यपस्य अन्तिके न अगारस्यानगारियं प्रव्रजामि // अथ खल्व् आनन्द ज्योतिपालस्य माणवस्य नचिरस्यैव गृहवासे अरतिर् उत्पद्येत् प्रव्रज्यायै चित्तं नमे // अथ खल्व् आनन्द ज्योतिपालो माणवो येन घटिकारो तेन्ऽ; उपसंक्रमित्वा घटिकारं कुम्भकारम् एतद् अवोचत्* // एहि सम्यग्घटिकार
[_mvu_1.323_] भगवतो काश्यपस्य सन्तिके अनुप्रणिधेमि प्रव्रज्यायै प्रव्रजिष्यामि अगाररस्यानगारियं // अथ खल्व् आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवम् उपादाय येन भगवान् काश्यपो तेन्ऽ; उपसंक्रमित्वा भगवतः काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थासि //
___एकमन्ते स्थितो आनन्द घटिकारो कुम्भकारो भगवन्तं काश्यपम् एतद् अवोचत्* // अयं मे भगवं ज्योतिपालो माणवो दारकवयस्यको सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य ब्राह्मणस्य पुत्रो // तं भगवां प्रव्राजेतु उपसंपादेतु च // अथ खल्व् आनन्द भगवां काश्यपो भिक्षू आमन्त्रेसि // प्रव्राजेथ भिक्षवो ज्योतिपालं माणवं उपसंपादेथ // अथ खल्व् आनन्द भिक्षवो ज्योतिपालं माणवं प्रव्राजेन्सुः // अथ खल्व् आनन्द भगवां काश्यपो ज्योतिपालस्मिं भिक्षुस्मिं अचिरोपसम्पन्ने कोशलेहि काशीषु चारिकां प्रक्रामि //
___अथ खल्व् आनन्द भगवान् काश्यपो काशीषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन काशीनां वाराणासी नगरं तद् अवसारि तद् अनुप्राप्तः तत्रैव विहरति ऋषिवदने मृगदावे // अश्रोषीत् खल्व् आनन्द कृकी राजा भगवां किल काश्यपो काशीषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन काशीनां वाराणसी नगरं तद् अवसारि तद् अनुप्राप्तः तत्रैव विहरति ऋषिवदने मृगदावे // अथ खल्व् आनन्द कृकी काशीराजा अन्यतरं पुरुषम् आमन्त्रेसि // एहि त्वं भो पुरुष येन भगवां काश्यपो तेनोपसंक्रमित्वा मम वचनेन भगवन्तं काश्यपं वन्दनं वदेसि // कृकी काशीराजा भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा अल्पाबाधतां च अल्पातंकतां च बलं सुखतां स्पर्शविहारतां च पृच्छति सुवेतनानि च निवेशनं भक्तेन निमन्त्रेति सार्धं भिक्षुसंघेन सचास्य भगवां काश्यपः अधिवासयति // एवम् उक्ते आनन्द भगवां काश्यपो तं पुरुषम् एतद् उवाच // सुखी भवतु कृकी
[_mvu_1.324_] काशिराजा सकुमारो सपरिजनो / यस्य दानि कालं मन्यसे // अथ खलु स पुरुषो भगवतो अधिवासनां विदित्वा येन वाराणसी नगरं तेन प्रक्रामि // अथ खल्व् आनन्द सो पुरुषो येन कृकी काशीराजा तेन्ऽ; उपसंक्रामि // कृकिं काशीराजम् इदम् अवोचत्* // उक्तं मे महाराज तव वचनेन भगवतो काश्यपस्य वन्दनं // अल्पाबाधतां च अल्पातंकतां च सुखं च बलं स्पर्शविहारतां च पृच्छतो सुवेतनानि च भक्तेन निमन्त्रितो सार्धं भिक्षुसंघेन // अधिवासेति च भगवां काश्यपो यस्येदानि कालं मन्यसे // अथ खल्व् आनन्द कृकी काशीराजा इमाम् एव रात्रिं प्रभूतं प्रणीतं खादनीयं भोजनीयं प्रतिजागरयित्वा तस्या एव रात्रिये अत्ययेनान्यतरं पुरुषम् आमन्त्रेसि // एहि त्वं भो पुरुष येन भगवां काश्यपो तेनोपसंक्रमित्वा भगवन्तं काश्यपम् एवं वदेहि // समये भगवं कृकिस्य काशिराज्ञो निवेशने भक्ताये यस्य भगवं कालं मन्यसे // साधु महाराज त्ति सो पुरुषो कृकिस्य काशिराज्ञो प्रतिश्रुत्वा वाराणसीतो नगरातो निर्गम्य येन ऋषिवदनो मृगदावो तेन प्रक्रामि // अथ खल्व् आनन्द स पुरुषो येन भगवां काश्यपो तेन्ऽ; उपसंक्रमित्वा भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा भगवन्तं काश्यपम् एतद् उवाच // समयो भगवं कृकिस्य राज्ञो निवेशने भक्ताय यस्य दानि भगवं कालं मन्यसे // अथ खल्व् आनन्द भगवां काश्यपो तस्य पुरुषस्य प्रतिश्रुत्वा काल्यस्यैव निवासयित्वा पात्रचीवरम् आदाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतः येन वाराणसीनगरं तेन प्रक्रमते // तेन खलु पुनर् आनन्द समयेन कृकी काशीराजा कुमारामात्यपरिवृतः स्वकस्य निवेशनस्य प्रतिद्वारे अस्थासि भगवन्तं काश्यपं सश्रावकसंघं प्रतिपालयमानो // अद्राक्षीत् खल्व् आनन्द कृकी काशिराजा भगवन्तं काश्यपं सश्रावकसंघं दूरतो एव आगच्छन्तं // दृष्ट्वा पुनर् येन भगवां काश्यपो सश्रावकसंघो तेनोपसंक्रमित्वा भगवतो काश्यपस्य सश्रावकसंघस्य पादौ शिरसा वन्दित्वा भगवन्तं काश्यपं सश्रावकसंघं पुरस्कृत्वा स्वकं
[_mvu_1.325_] निवेशनं प्रवेशेति // तेन खलु पुनः समयेन कृकिस्य काशिराज्ञो निवेशने कोकनदो नाम प्रासादो नवो अचिरनिष्ठितो अपरिभुक्तपूर्वो केनचित् श्रमणकेन वा ब्राह्मणेन वा // अथ खल्व् आनन्द कृकी काशिराजा भगवन्तं काश्यपम् एतद् अवोचत्* // अयं मे भगवन् निवेशने कोकनदो नाम प्रासादो नवो अचिरनिष्ठितो अपरिभुक्तपूर्वो केनचिच् छ्रमणेन वा ब्राह्मणेन वा तं भगवां प्रथमं परिभुंजतु // भगवता परिभुक्तं पश्चाद् वयं परिभुंजिष्यामः // एवम् उक्ते भगवां काश्यपो कृकिं काशिराजं एतद् उवाच // तेन हि महाराज सुखी भव यस्येदानीं कालं मन्यसे // अथ खलु कृकी काशिराजा कोकनदे प्रासादे आसनानि प्रज्ञापयेत् खाद्यभोज्यम् अभिनामयेत्* // अथ खलु भगवां कोकनदं प्रासादं अभिरुहित्वा निषीदे प्रज्ञप्त एव आसने यथासने च भिक्षुसंघः // अथ खल्व् आनन्द खलु कृकी काशिराजा भगवन्तं काश्यपं स्वहस्तेनैव खादनीयभोजनीयेन सन्तर्पयेत् संप्रवारयेत्* // एकमेकं च सप्तसप्त पुरुषा सप्तसप्तेहि निष्ठानेहि पर्णकुलकेन च शालिना //
___अथ खलु कृकी काशिराजा भगवन्तं काश्यपं भुक्ताविं धौतपाणिं अपनीतपात्रं विदित्वा अन्यतरं नीचकम् आसनम् आदाय येन भगवां काश्यपो तेन्ऽ; उपसंक्रमित्वा भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते निषीदि // एकान्ते निषण्णो आनन्द कृकी काशिराजा भगवन्तं काश्यपम् एतद् अवोचत्* // अधिवासेतु भगवां वाराणसीये नगरे वर्षावासं // अहं भगवं आरामं कारापयिष्यं इमस्मिं च सप्त कूटागारसहस्राणि सप्त च पीठसहस्राणि सप्त च वीथिसहस्राणि सप्त च तुरगसहस्राणि सप्त च आरामिकसहस्राणि उपस्थापयिष्यन्ति यानि भिक्षुसंघं प्रत्येकं प्रत्येकं उपस्थिहिष्यन्ति // एवंरूपेण उपस्थानेन भगवन्तं च उपस्थिहिष्यन्ति भिक्षुसंघं च // एवम् उक्ते
[_mvu_1.326_] आनन्द भगवां काश्यपो कृकिं काशिराजानम् एतद् अवोचत्* // न हि महाराज शक्यं वज्जिषु मे वर्षावासो भविष्यति // द्वितीयं पि तृतीयं पि एवम् एव कर्तव्यं // अथ खल्व् आनन्द कृकी काशिराजा नैवं भगवां काश्यपो अधिवासेति वाराणसीयं नगरे वर्षावासं ति प्रारोदीद् अश्रुकानि च प्रवर्तयि // अथ खल्व् आनन्द कृकी काशिराजा भगवन्तं काश्यपम् एतद् अवोचत्* // अस्ति पुनर् भगवतो अन्यो पि एवंरूपो उपस्थायको यथैवाहं // एवम् उक्ते आनन्द भगवां काश्यपो कृकिं राजानम् एतद् अवोचत्* // अपरिपूर्णो खलु मे त्वं महाराज उपस्थायको // एवम् उक्ते आनन्द कृकी काशिराजा भगवन्तं काश्यपम् एतद् उवाच // कतमो पुनर् भगवतो मम पूर्णतरो परिपूर्णतरो उपस्थायको // एवम् उक्ते आनन्द भगवां काश्यपो कृकिं काशिराजानम् एतद् अवोचत्* // अस्ति महाराज तुह्यं एव विजिते वेरुडिङ्गं नाम ब्राह्मणग्रामो // तत्र घटिकारो सो मे उपस्थायको // एवम् उक्ते आनन्द कृकी काशिराजा भगवन्तं काश्यपम् एतद् अवोचत्* // केवरूपा पुनर् भगवं घटिकारस्य भोगा येहि भगवन्तम् उपस्थिहति संघं च // एवम् उक्ते आनन्द भगवां काश्यपो कृकिं काशिराजानम् एतद् अवोचत्* // घटिकारो महाराज कुम्भकारो यावज्जीवं प्राणातिपातातो प्रतिविरतो यावज्जीवम् अदत्तादानातो प्रतिविरतो यावज्जीवं अब्रह्मचर्यातो प्रतिविरतो यावज्जीवं मृषावादात् प्रतिविरतो यावज्जीवं सुरामैरेयमद्यप्रमदस्थानातो प्रतिविरतो यावज्जीवं नृत्यगीतवादिता प्रतिविरतो यावज्जीवं गन्धमाल्यवर्णकधारणात् प्रतिविरतो यावज्जीवं उच्चशयना महाशयनात् प्रतिविरतो यावज्जीवं विकारभोजनात् प्रतिविरतो यावज्जीवं जातरूपरजतप्रतिग्रहणात् प्रतिविरतो // न खलु महाराज घटिकारो कुम्भकारो सामं पृथिवीं खनति इति / अथ खलु ये ते भवन्ति मूषोत्किरा वा वारिप्ररोपिता वा
[_mvu_1.327_] वारुच्छिन्ना वा मृत्तिका ततो मृत्तिकाम् आदाय भाजनकानि कृत्वा चतुर्महापथे निक्षिपति // ये तेहि भाजनेहि अर्थिका भवन्ति ते तानि भाजनानि मुद्गप्रभिन्नं वा माषप्रभिन्नं वा तण्डुलप्रभिन्नं वा पूरेत्वा उत्किरित्वा भाजनकान्य् आदाय अनपेक्षा येव प्रक्रमन्ति // एवंरूपा महाराज घटिकारस्य कुम्भकारस्य भोगाः येहि तथागतश् च उपस्थितो संघश् च // मातापितरौ च जीर्णौ वृद्धौ दुर्बलचक्षू //
___एकम् इदम् अहं महाराज समयं वेरुडिङ्गे ब्राह्मणग्रामे विहरामि // सो हं महाराज काल्यम् एव निवासयित्वा पात्रचीवरम् आदाय वेरुडिङ्गं ब्राह्मणग्रामं पिण्डाय प्रक्रामि // सो हं महाराज वेरुडिङ्गे ब्राह्मणग्रामे सावदानं पिण्डाय चरन्तो येन घटिकारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमित्वा उद्देशे अस्थासि // तेन खलु पुनः समयेन घटिकारो कुम्भकारो स्वकान् निवेशनान् निष्क्रान्तो अभूषि // अथ खलु महाराज घटिकारस्य कुम्भकारस्य मातापितरौ तथागतम् एतद् अवोचत्* // निष्क्रान्तो ते भगवं उपस्थायको // एषो उपरिकोष्ठके सूपश् च ओदनश् च अतो भगवां परिभुंजतु // सो हं महाराज उपरिकोष्ठकात् सूपं ओदनं च देवताहि प्रतिग्राहेत्वा परिभुंजित्वा प्रक्रामि // अथ खलु महाराज घटिकारो कुम्भकारो येन स्वकं निवेशनं तेनोपसंक्रमि // अद्राक्षीत् खलु महाराज घटिकारो कुम्भकारो उपरिकोष्ठका सूपं च ओदनं च परिभुक्तं दृष्ट्वान पुनर् मातापितरौ एतद् अवोचत्* // केन्ऽ; इमा तात घटिकारस्य उपरिकोष्ठका सूपो च ओदनं च परिभुक्ता // एवम् उक्ते महाराज घटिकारस्य कुम्भकारस्य मातापितरौ घटिकारं कुम्भकारम् एतद् अवोचत्* // भगवता पुत्र काश्यपेन // अथ खलु महाराज घटिकारस्य कुम्भकारस्य एतद् अभवत्* // लब्धा पुनर् मे सुलब्धा लाभा यस्य मे भगवां काश्यपो यावद् एको पि अतिविश्वस्तो // तस्य चैवम् अर्धमासं प्रीतिसुखं कायं न विजहति सप्ताहं च मातापितॄणां जीर्णवृद्धानां दुर्बलचक्षूणां //
[_mvu_1.328_]___एकम् इदं महाराज समयं तथागतस्य अरण्यकुटिकाये छाद्यमानाये तृणानि न संभुणन्ति // सो हं महाराज भिक्षुणाम् आमन्त्रयेसि // गच्छथ भिक्षवो घटिकारस्य कुम्भकारस्य निवेशनं तृणानि आनेथ // अथ खलु महाराज ते भिक्षूः येन घटिकारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमेन्सुः // तेन खलु पुनर् महाराज समयेन घटिकारो कुम्भकारः स्वकातो निवेशनातो निष्क्रान्तो अभूषि // ते तत्र नादृशेन्सु तृणानि अद्दशेन्सु नवच्छदनां आवेशनशालां // अथ खलु महाराज ते भिक्षूः येन तथागतो तेनोपसंक्रमित्वा तथागतस्य पादौ शिरसा वन्दित्वा तथागतं च एतद् अवोचत्* // निष्क्रान्तो ते भगवं उपस्थायको नास्ति चात्र कानिचि तृणानि अस्ति चात्र नवच्छदना आवेशनशाला // एवम् उक्ते महाराज तां भिक्षुं एतद् अवोचत्* // गच्छथ भिक्षवो घटिकारस्य कुम्भकारस्य नवच्छदनां आवेशनशालां उत्तृणीकृत्वा तृणानि आनेथ // अथ खलु महाराज ते भिक्षू येन घटिकारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमित्वा घटिकारस्य कुम्भकारस्य नवच्छदनाम् आवेशनशालाम् उत्तृणीकरेन्सु // अथ खलु महाराज घटिकारस्य कुम्भकारस्य मातापितरौ तां भिक्षून् एतद् अवोचत्* // को एष घटिकारस्य कुम्भकारस्य नवच्छदनाम् आवेशनशालाम् उत्तृणीकृत्वा तृणानि हरति // एवम् उक्ते महाराज ते भिक्षू घटिकारस्य कुम्भकारस्य मातापितरौ एतद् उवाच // यत्र आयुष्मं भिक्षूणां भगवतो काश्यपस्य च अरण्यकुटिकाये छाद्यमानाये तृणा न संभुणन्ति तत्र एतानि तृणानि नीयन्ति // एवम् उक्ते महाराज घटिकारस्य कुम्भकारस्य मातापितरौ तां भिक्षून् एतद् अवोचत्* // हरथ हरथ स्वकानि च // अथ खलु महारज घटिकारो कुम्भकारो येन स्वकं निवेशनं तेनोपसंक्रमेसि // अद्रक्षीत् खलु महाराज घटिकारो कुम्भकारो नवच्छदनाम् आवेशनशालाम् उत्तृणीकृतां तृणानि हृतानि दृष्ट्वा च पुनर् मातापितरौ एतद् अवोचत्* // केन्ऽ; इमा तात घटिकारस्य
[_mvu_1.329_] कुम्भकारस्य नवच्छदना आवेशनशाला उत्तृणीकृता तृणानि हृतानि // एवम् उक्ते घटिकारस्य कुम्भकारस्य मातापितरौ घटिकारं कुम्भकारम् एतद् अवोचत्* // भगवतो पुत्र काश्यपस्य अरण्यकुटिकाये तृणानि न प्रभवन्ति तत्र एतानि भिक्षुभिस् तृणानि नीतानि // अथ खलु महाराज घटिकारस्य कुम्भकारस्य एतद् अभवत्* // लब्धा मे सुलब्धा लाभा यत् पुनर् अस्य मे भगवां काश्यपो यावद् एको पि अतिविश्वस्तो // तस्य चैकमासं प्रीतिसुखं कायं न विजहे अर्धमासं च अन्धानां मातापितॄणां // न खलु पुनर् अहं महाराज अभिजानामि घटिकारस्य कुम्भकारस्य इदम् एवरूपं दौर्मनस्यप्रतिलाभं यथैव महाराजे न मे भगवां काश्यपो अधिवासेसि वाराणसीये नगरे वर्षावासन् ति //
___अथ खल्व् आनन्द कृकिस्य काशिराज्ञो एतद् अभवत्* // लाभा पुनर् मे सुलब्धा यस्य मे एवंरूपो ब्रह्मचारी विजिते प्रतिवसति द्विपादकानि पुण्यक्षेत्राणि // अथ खल्व् आनन्द कृकी काशिराजा घटिकारस्य कुम्भकारस्य पर्णकुलशालिस्य शत वाहां प्रेषयेत्* नवोदकं च तैललवणक्वथनं // अथ खल्व् आनन्द काश्यपो कृकिं काशिराजानं धर्म्यया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रामि //
___अथ खल्व् आनन्द भगवां काश्यपो पश्चाद्भक्तं पिण्डपात्रप्रतिक्रान्तो भिक्षुणां आमन्त्रेसि // निषीदथ भिक्षवो सन्निपतिथ भिक्षवो बन्धथ पर्यंकं एषो हि पर्यङ्कं बन्धामि तावन् न भिन्दामि यावन् न इमेषां सप्तानां भिक्षुसहस्राणाम् एतेहि एवं आसनेहि निषण्णानां अनुपादायाश्रवेभ्यश् चित्तानि विमुक्तानि // साधु भगवन्न् इति ते भिक्षु भगवतो काश्यपस्य प्रतिश्रुत्वा सन्निषीदेन्सुः संनिपतेन्सुः बन्धेन्सुः पर्यङ्कं // अथ खल्व् आनन्द ज्योतिपालस्य भिक्षुस्य एकरहोगतस्य प्रतिसंलीनस्य अयम् एवरूपश् चेतसो परिवितर्को
[_mvu_1.330_] उत्पद्ये // अहो पुनर् अहं भवेयम् अनागतम् अध्वानं तथागतो अर्हं सम्यक्सम्बुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च // सो इमं च लोकम् अभिज्ञाय सदेवकं लोकं समारकं सब्रह्मकं सश्रमणं प्रजां सदेवमनुष्यां इहैव वाराणस्यां ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तेयं द्वादशाकारं अप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद् वा पुनर् लोके सह धर्मेण // एवं च सर्वाकारसंपन्नं सर्वाकारपरिपूर्णं च धर्मं देशयेयं यथापि भगवां काश्यपो एतरहिं // एवं च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सु तथा भगवतो काश्यपस्य एतरहिं // तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // हायेन्सु आसुरा काया दिव्या काया अभिवर्धेन्सु // अथ खल्व् आनन्द भगवां काश्यपो ज्योतिपालस्य भिक्षुस्य इदम् एवरूपं चेतसा एव चेतोपरिवितर्कम् आज्ञाय अन्यतरं भिक्षुं आमन्त्रयसि // एहि त्वं भिक्षु येन ज्योतिपालो भिक्षुस् तेनोपसंक्रमित्वा ज्योतिपालं भिक्षुम् एवं वदेहि // शास्ता ते आयुष्मं आमन्त्रेति / उपसंक्रमे येन तथागतो // भगवतो काश्यपस्य प्रतिश्रुत्वा येन ज्योतिपालो भिक्षुस् तेनोपसंक्रमित्वा ज्योतिपालं भिक्षुम् एतद् अवोचत्* // शास्ता आयुष्मं ज्योतिपाल आमन्त्रयति उपसंक्रमे येन भगवां // साध्व् आयुष्मन्न् इति आयुष्मां ज्योतिपालस् तस्य भिक्षुस्य प्रतिश्रुत्वा येन भगवान् काश्यपस् तेनोपसंक्रमित्वा भगवतः काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते निषीदि // एकान्ते निषण्णं आयुष्मन्तं ज्योतिपालं भिक्षुं भगवां काश्यप एतद् अवोचत्* // ननु ज्योतिपाल एकस्य ज्योतिपालस्य रहोगतस्य प्रतिसंलीनस्य अयम् एवंरूपश् चेतसो परिवितर्क उत्पद्ये // अहो पुनर् अहं भवेयं अनागतम् अध्वानं तथागतो अर्हं सम्यक्सम्बुद्धो विद्याचरणसम्पन्नो सुगतो
[_mvu_1.331_] लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च // सो इमं च लोकम् अभिज्ञाय परं च लोकम् अभिज्ञाय सदेवकं च लोकं समारकं सश्रमणब्राह्मणं प्रजां सदेवमनुष्यां इहैव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तेयं त्रिपरिवर्तं द्वादशाकारं अप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा मारेण वा ब्रह्मना वा केनचिद् वा पुनर् लोके सह धर्मेण // एवं च सर्वाकारसंपन्नं सर्वाकारपरिपूर्णं धर्मं देशयेयं यथापि भगवां काश्यपो एतरहिं // एवं च समग्रं भिक्षुसंघं परिहरेयं यथा भगवां काश्यपो एतर्हिं // एवं च मे देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मन्येन्सु यथापि भगवतो काश्यपस्य एतरहि // तं भवेय्या बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // हायेन्सु आसुरा काया दिव्या काया अभिवर्द्धेन्सु // एवम् उक्तो आनन्द ज्योतिपालो भिक्षुर् भगवन्तं काश्यपम् एतद् अवोचत्* // एवम् एतं भगवन्* // एवम् उक्ते आनन्द भगवां ज्योतिपालं भिक्षुम् एतद् अवोचत्* // तस्माद् धि ज्योतिपाल इदं सुवर्णपीठकं दुष्ययुगं बुद्धप्रमुखे भिक्षुसंघे देहि कृतपुण्यास् ते देवा च मनुष्याश् च श्रोतव्यं श्रद्धातव्यं मनिष्यन्ति // अदासि खल्व् आनन्द
[_mvu_1.332_] ज्योतिपालो भिक्षुः सुवर्णपीठकं दुष्ययुगं बुद्धप्रमुखे भिक्षुसंघे // अथ खल्व् आनन्द भगवां काश्यपो स्मितं प्रादुष्करित्वा ज्योतिपालं भिक्षुं व्याकार्षीत्* // भविष्यसि त्वं ज्योतिपाल अनागतम् अध्वानं तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च // सो इमं च लोकं अभिज्ञाय परं च लोकम् अभिज्ञाय सदेवकं च लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यां इहैव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तयिष्यसि त्रिपरिवर्तं द्वादशाकारं अप्रवर्तितं केनचिच् छ्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद् वा पुनर् लोके सह धर्मेण // एवं च सर्वाकारसम्पन्नं सवाकारपरिपूर्णं धर्मं देशयिष्यसि यथापि भगवां काश्यपो एतरहिं // एवं च समग्रं श्रावकसंघं परिहरिष्यसि यथापि भगवां काश्यपो एतरहिं // एवं च ते देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मन्येन्सु यथापि भगवतो काश्यपस्य च एतरहि // तं भविष्यसि बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महातो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्धिष्यन्ति //
___अथ खल्व् आनन्द भगवता काश्यपेन ज्योतिपालस्मिं व्याकृते भूम्या देवा घोषम् उदीरयेन्सु // एषो मारिषा भगवता काश्यपेन ज्योतिपालो नाम भिक्षुर् व्याकृतो सो भविष्यति अनागतम् अध्वानं तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च // सो इमं लोकम् अभिज्ञाय परं च लोकम् अभिज्ञाय सदेवकं च लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यां अभिज्ञाय इहैव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तयिष्यति त्रिपरिवर्तं द्वादशाकारं अपरिवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा
[_mvu_1.333_] मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण // एवं सर्वाकारसम्पन्नं सर्वाकारपरिपूर्णं धर्मं देशयिष्यति यथापि भगवां काश्यपो एतरहिं // तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्द्धिष्यन्ति // भूम्यानां देवानां घोषं श्रुत्वा चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा यामाः तुषिता निर्माणरतयः परिनिर्मितवशवर्तिन इति // तत् मुहूर्तं यावद् ब्रह्मकायिका देवनिकाया घोषम् अभ्युद्गच्छेत्* // एषो मारिष भगवता काश्यपेन ज्योतिपालो नाम भिक्षु व्याकृतो सो भविष्यति अनागतम् अध्वानं तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नो सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च // सो इमं च लोकम् अभिज्ञाय परं च लोकं अभिज्ञाय सदेवकं च लोकं च सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्याम् अभिज्ञाय इह एव वाराणसीयं ऋषिवादने मृगदावे धर्मचक्रं प्रवर्तयिष्यति त्रिपरिवर्तं द्वादशाकारं अप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण // एवं च सर्वाकारसम्पन्नं च सर्वाकारपरिपूर्णं धर्मं देशयिष्यति यथापि भगवां काश्यपो एतरहिं // एवं च देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मनिष्यन्ति यथापि भगवतो काश्यपस्य एतरहिं // तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्द्धिष्यन्ति //
___अथानन्द भगवां काश्यपस् तस्मिं घोषे ऽन्तर्हिते तां भिक्षून् धर्मया कथया संदर्शये
[_mvu_1.334_] समादापये समुत्तेजये संप्रहर्षये // एवं भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ // आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपाः आत्मशरणाः अनन्यशरणाः धर्मद्वीपा अनन्यद्वीपाः धर्मशरणा अनन्यशरणाः // अथ खलु भगवां आदीप्तेन कायेन संप्रज्वलितेन सज्योतिभूतेन एकं तालं वैहायसम् अभ्युद्गतो भिक्षूं धर्मया कथया संदर्शयेत् समादापयेत् समुत्तेजयेत् संप्रहर्षयेत्* // एवं भो भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणाः धर्मद्वीपा अनन्यद्वीपा धर्मशरणा अनन्यशरणाः // अथ खल्व् आनन्द भगवां काश्यपो एकतालाद् द्वितालं वैहायसम् अब्भ्युद्गम्य द्वितालात् त्रितालं त्रितालातो चतुतालं चतुतालातो पंचतालं पंचतालातो षट्तालं षट्तालातो सप्ततालं सप्ततालसंस्थितो तां भिक्षूं धर्मया कथया संदर्शायति समादापयति समुत्तेजयति संप्रहर्षयति // एवं भिक्सवः वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ // आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणा धर्मशरणा अनन्यशरणाः // अथ खल्व् आनन्द भगवां काश्यपो सप्ततालातो षट्तालसंस्थितो षट्तालात् पंचतालं पंचतालातो चतुतालं चतुतालातो त्रितालं त्रितालातो द्वितालं द्वितालातो एकतालं एकतालातो स्वके आसने निषण्णो तां भिक्षूं धर्मया कथया संदर्शयेत् समादापयेत् समुत्तेजयेत् संप्रहर्षयेत्* // एवं भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ // आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणा धर्मद्वीपा अनन्यद्वीपा धर्मशरणा अनन्यशरणाः // अथ खल्व् आनन्द भगवां काश्यपः पर्यङ्कं
[_mvu_1.335_] भिन्दन्तो तां भिक्षूं आमन्त्रयसि // अहं भिक्षवो पर्यङ्कं भिन्दामि सर्वेषाम् इमेषां सप्तानां भिक्षुसहस्राणां एतेहि एव आसनेहि निषण्णानाम् अनुपादायाश्रवेभ्यश् चित्तानि विमुक्तानि स्थापयित्वा ज्योतिपालस्य भिक्षुस्य // सो पि मह्यं व्याकृतो च अनुत्तराये सम्यक्संबोधये // स्यात् खलु पुनर् आनन्द एवम् अस्यास्यात्* अन्यो सो तेन कालेन तेन समयेन ज्योतिपालो नाम भिक्षुः अभूषि // नैतद् एवं द्रष्टव्यं // अहं सो तेन कालेन तेन समयेन ज्योतिपालो नाम भिक्षु अभूषि // इदम् अवोचद् भगवान् आत्तमना आयुष्मान् आनन्दो तानि सप्त च भिक्षुसहस्राणि भगवतो भाषितम् अभिनन्देन्सुः //
_____इति स्रीमहावस्तु-अवदाने ज्योतिपालसूत्रं समाप्तं //
ज्योतिपालेन भिक्षुणा भगवतो काश्यपस्य सश्रावकसंघस्य य्वागूपानं कृत्वा शतसहस्रेण केशरं क्रीणित्वा भगवन्तं काश्यपं सश्रावकसंघं अभ्योकिरेसि सुवर्णपीठकं च दुष्ययोगं भगवतो काश्यपस्य अदासि // एवं च अनुप्रणिधेसि // यथायं भगवां काश्यपो सम्यक्संबुद्धो द्वात्रिम्शतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टदशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदो अहो पुन् अहं पि अनागतम् अध्वानं भवेयं तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नो सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवां काश्यपो एतरहि // एवं च त्रिपरिवर्तं द्वादशाकारं अनुत्तरं धर्मचक्रं प्रवर्तेयं यथापि भगवान् काश्यपो एतरहिं // एवं च श्रावकसंघं परिहरेयं यथायं भगवां काश्यपो एतरहि // एवं च मे ते देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथापि भगवतो काश्यपस्य एतरहि // एवं तीर्णो तारयेयं मुक्तो मोचयेयं आश्वास्तो आश्वासयेयं परिनिर्वृतो
[_mvu_1.336_] परिनिर्वापयेयं यथायं भगवां काश्यपो एतरहिं // तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // ज्योतिपालः काश्यपेन अनुत्तराये सम्यक्सम्बोधये व्याकृतो // भविष्यसि त्वं ज्योतिपाल अनागतम् अध्वानं तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च इमस्मिं एव भद्रकल्पे समनन्तरं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदो // एवं तीर्णो तारयिष्यसि मुक्तो मोचयिष्यसि आश्वस्तो आश्वासयिष्यसि परिनिर्वृतो परिनिर्वापयिष्यसि यथापि अहं एतरहिं // तं भविष्यसि बहुजनहिताय बहुजनसुखाय महतो जनकायस्यार्थाय हिताय सुखाय लोकानुकम्पायै देवानां च मनुष्याणां च // समनन्तरव्याकृतो पुनर् ज्योतिपालो भिक्षुः भगवता काश्यपेन सम्यक्संबुद्धेन इयं महापृथिवी अतीव षड्विकारं कम्पे प्रकम्पे संप्रकम्पे भूम्या च देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सु // यथान्येषु व्याकरणेषु विस्तरेण कर्तव्यं यथापि अयं भगवतो अनुप्रणिधिः // काश्यपम् अनुप्रव्रजित्वा शोधये चारामं पानीयं चोपस्थाये ज्योतिपालो बोधिसत्वो संबुद्धेन अनुशिष्टो //
य्वागूपानं अदासि सुवर्णपीठकं च वस्त्रयुगं च / बोधिसत्वो ज्योतिपालो प्रार्थयमानो भवनिरोधं //
सो तं दानं दत्त्वा प्रणिधेसि लोकनायको अस्यां / देवमनुष्याचर्यो आर्यं धर्मं प्रकाशेय्या //
[_mvu_1.337_] एवं च मह्यं अस्यात् प्रकाशना धर्मस्य एवं च बहूं सत्वा आर्यधर्मेहि निवेशेय्या // एवं च मे श्रुणेन्सु देवमनुष्या वाक्यं एवं च धर्मचक्रं प्रवर्तेयं बहुजनहिताय धर्मोल्कां प्रज्वालेयं पराहणेयं धर्मभेरीं सपताकां उच्छ्रपयेयं धर्मकेतुं धर्मशंखं प्रपूरयेयं कृच्छ्रापन्नैः जातिजरापीडितैर् मरणधर्मैः भवचक्षुकैः अपायेहि प्रज्ञाचक्षु निवेशेय्यं // संजीवे कालसूत्रे संघाते रौरवे अवीचिस्मिं षट्सु गतिषु विकीर्णां भवसंसारात् परिमोचयेयं नरके पक्वविपक्वां अपायनिपीडितां मरणधर्मां अल्पसुखदुःखबहुलां भवसंसारात् परिमोचयेयं // अर्थं चरेयं लोकस्य देवमनुष्याणां देशेयं धर्मं // एवं विनयं सत्वां यथायं लोकप्रद्योतो //
बुद्धो तुवं होहिसि लोकनायको / अनागते इमस्मिं भद्रकल्पे / कपिलाह्वये ऋषिवदनस्मिं शाकियो / तदा तव प्रणिधिविपाको भेष्यति //
अखण्डं अच्छिद्रम् अशबलकल्माषं परिपूर्णं परिशुद्धं ब्रह्मचर्यं चरित्वा कालगतो तुषिते नाम देवनिकाये श्वेतकेतुर् नाम देवपुत्रो महर्द्धिको महानुभावो सो अन्यां देवां दिव्येहि दशहि स्थानेहि अभिभवति दिव्येनायुषा दिव्येन वर्णेन दिव्येन सुखेन दिव्येन ऐश्वर्येण दिव्येन परिवारेण दिव्येन रूपेण दिव्येहि शब्देहि दिव्येहि गन्धेहि दिव्येहि रसेहि दिव्येहि प्रष्टव्येहि // [अन्ये पि देवपुत्रा नं आपृच्छे यं परिपृच्छनीयं इति //] अयं श्वेतकेतुर् नाम देवपुत्रो पण्डितो व्यक्तो विशारदो कुशलो मेधावी चत्वारिंशतीहि बुद्धसहस्रेहि अनुप्रव्राजितो / पंचाशीतीनां बुद्धसहस्राणाम् अधिकारकर्माणि कृतानि षण्णवतीहि प्रत्येकबुद्धकोटीहि को पुनर् वादो श्रावकमहेशाख्येहि //
[_mvu_1.338_] चत्वारिंशं बुद्धसहस्राणि निर्वृता लोकनायका बुद्धा / येषु जिनो अचरि ब्रह्मचर्यं प्रार्थयमानो भवनिरोधं //
पंचाश बुद्धसहस्राणि निर्वृता लोकनायका बुद्धा / येहि जिनो अकासि कालं प्रार्थयमानो भवनिरोधं //
षण्णवति प्रत्येकबुद्धकोटीनि निर्वृत्तानि स्वयंभुनो / येषु जिन अकासि कालं प्रार्थयमानो भवनिरोधं //
अपरिमिता अर्हन्तकोटी निर्वृता येषु महाध्यायीषु / जिनो अकासि कालं प्रार्थयमानो भवनिरोधं //
एतेषु पूर्वयोगा प्रकीर्तिता शास्तुनो दशबलस्य //
___अल्पा भणिता बहू अभणिता येषु जिनो अकासि कालं प्रार्थयमानो भवनिरोधं //
_____इति श्रीमहावस्तु-अवदाने ज्योतिपालस्य व्याकरणं समाप्तं //
राजवंशे आदि // भवति भिक्षवः स कालो भवति स समयो यद् अयं लोको दीर्घस्याध्वनो ऽत्ययेन संवर्तति // संवर्तमाने च पुनर् भिक्षवो लोके योभूयेन सत्वा आभास्वरे देवनिकाये अपपद्यन्ति // भवति भिक्षवः स कालो भवति स समयो यद् अयं लोको दीर्घस्याध्वनो अत्ययेन विवर्तति // विवर्तमाने खलु पुनर् भिक्षवो लोके संस्थिते लोकसन्निवेशे अन्यतरा सत्वा आयुःक्षयाय च कर्मक्षयाय च आभास्वरातो देवनिकायातो च्यवित्वा इच्छत्वम् आगच्छन्ति // ते भवन्ति सत्वा स्वयंप्रभाः अन्तरीक्षचरा मनोमया प्रीतिभक्षाः सुखस्थायिनो येनकामंगताः // धर्मता खलु पुनर् भिक्षवो यं तेषां सत्वानां स्वयंप्रभाणां अन्तरीक्षचराणां मनोमयानां प्रीतिभक्षाणां
[_mvu_1.339_] सुखस्थायिनां येनकामंगतानां // इमे चन्द्रमसूर्या लोके न प्रज्ञायेन्सुः // चन्द्रमसूर्येहि लोके अप्रज्ञायन्तेहि तारकरूपा लोके न प्रज्ञायेन्सुः // तारकरूपेहि लोके अप्रज्ञायन्तेहि नक्षत्रपथा लोके न प्रज्ञायेन्सुः / नक्षत्रपथेहि लोके न प्रज्ञायन्तेहि रात्रिंदिवा लोके न प्रज्ञायेन्सुः / रात्रिंदिवेहि लोके न प्रज्ञायन्तेहि मासार्धमासा लोके न प्रज्ञायेन्सुः // मासार्धमासेषु लोके अप्रज्ञायमानेषु ऋतुसंवत्सरा लोके न प्रज्ञायन्ते // धर्मता खलु भिक्षवो यं तेषां सत्वाणां स्वयंप्रभाणाम् अन्तरीक्षचराणां यावद् येनकामंगतानां // अयम् अपि महापृथिवी उदकह्रदं विय समुदागच्छेत्* // सा चाभूद् वर्णसम्पन्ना रससम्पन्ना सय्यथापि नाम क्षुद्रं मध्वनेडकं एवम् आस्वादो सय्यथापि नाम क्षीरसन्तानं वा सर्पिसन्तानं वा एवं वर्णप्रतिभासो // अथ खलु भिक्षवो अन्यतरः सत्वः चपलो लोलुपजातीयो तं पृथिवीरसं अंगुलीये आस्वादेसि // तस्य तं स्वादयति वर्णेनापि गन्धेनापि रसेनापि // अन्ये पि सत्वा तस्य सत्वस्य दृष्ट्वानुकृतिम् आपद्यन्ते // ते पि पृथिवीरसम् अंगुल्यास्वादयेन्सुः // तेषाम् अपि तं स्वादयति यावत्* रसेनापि // अथ खलु भिक्षवः सो सत्वो अपरकालेन तं पृथिवीरसं आलोपकारम् आहारं आहारेसि // अन्ये पि सत्वा तस्य सत्वस्य दृष्ट्वानुकृतिम् आपद्यन्ते // ते पि तं पृथिवीरसं आलोपकारकम् आहारम् आहारेन्सुः // यतो च भिक्षवस् ते सत्वा तं पृथिवीरसम् आलोपकारकम् आहारम् आहरेन्सुः अथ तेषां काये गुरुत्वं च खरत्वं च कक्खटत्वं च उपनिपते // यापि चाभूत् पूर्वं सानं स्वयंप्रभता अन्तरीक्षचरता मनोमयकायता प्रीतिभक्षता सुखस्थायिता येनकामंगमता सा अन्तरहाये //
[_mvu_1.340_]___स्वयंप्रभताये अन्तरीक्षचरताये मनोमयताये प्रीतिभक्षताये येनकामंगमताये अन्तर्हिताये चन्द्रसूर्या लोके प्रज्ञायेन्सु // चन्द्रमसूर्येहि लोके प्रज्ञायन्तेहि तारकरूपा लोके प्रज्ञायेन्सु / तारकरूपेहि लोके प्रज्ञायन्तेहि नक्षत्रपथा लोके प्रज्ञायेन्सु / नक्षत्रपथेहि लोके प्रज्ञायन्तेहि रात्रिंदिवा लोके प्रज्ञायन्ते / रात्रिंदिवसेहि लोके प्रज्ञायन्तेहि मासार्धमासा लोके प्रज्ञायन्ते / मासार्धमासेहि प्रज्ञायन्तेहि ऋतुसंवत्सरा लोके प्रज्ञायेन्सु //
___अथ खलु भिक्षवस् ते सत्वा तं पृथिवीरसम् आहारम् आहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घम् अध्वानं तिष्ठेन्सुः // ये सानं बहु आहारम् आहरेन्सु ते अभून्सु दुर्वर्णाः ये अल्पम् आहारम् आहारेन्सुः वर्णवन्ता // ये अभून्सुः वर्णवन्ता ते दुर्वर्णां सत्वा अवजानेन्सुः // वयम् अस्म वर्णवन्तो सत्वा इमे भवन्ति दुर्वर्णा // तेषां वर्णाभिवर्णप्रत्ययानां मानाभिमानजातीयानां विहरतां पृथिवीरसो अन्तरहाये // भूमिपर्पटकं प्रादुर्भवेय सय्यथापि नाम च्छात्रकं एवं वर्णप्रतिभासो // सो च अभूद् वर्णसम्पन्नो च गन्धसंपन्नो च सय्यथापि नाम क्षुद्रो मधु अनेडको एवम् आस्वादो // अथ खलु भिक्षवो ते सत्वा अस्मिं पृथिवीरसे अन्तरहिते इमं उदानम् उदानयेन्सु // अहो रसो अहो रसेति // सय्यथापि नाम भिक्षव एतरहि मनुष्या सुभोजनखादिता सुखिता भुक्ताविनो इमं उदानम् उदानेन्तीति // अहो रसो अहो रसो ति // तम् एव पौराणम् अक्षरम् अग्निन्यं उपनिपते अर्थं चास्य न विभावयेन्सु // अथ खलु भिक्षवस् ते
[_mvu_1.341_] सत्वास् तं भूमिपर्पटकं आहारं आहरन्ता तद्वर्णा तद्भक्षास् तदाहारा चिरं दीर्घम् अध्वानं तिष्ठेन्सु // ये सानं बहुं आहारं आहारेन्सु अभून्सु दुर्वर्णा ये अल्पं आहारं आहारेन्सु ते अभून्सु वर्णवन्तो // ये सुवर्णवन्तो ते दुर्वर्णां सत्वां अवजानेन्सुः // वयम् अस्म वर्णवन्ता इमे भवन्ति सत्वा दुर्वर्णा // तेषां वर्णाभिवर्णप्रत्ययानां मानाभिमानजातीयानां विहरतां भूमिपर्पटकम् अन्तरहाये वनलता प्रादुर्भूता // सय्यथापि नाम कलम्बुका एवं वर्णप्रतिभासापि वर्णसम्पन्नापि गन्धसम्पन्नापि रससम्पन्नापि तद्यथापि नाम क्षुद्रं मधुम् अनेऌअकं एवम् आस्वादा // अथ खलु भिक्षवो ते सत्वा भूमिपर्पटके अन्तर्हिते अनुस्तनयेन्सु // अहो वदि अहो वदीति // तद्यथापि नाम भिक्षव एतरहिं सत्वा केनचिद् एवं दुःखधर्मेण स्पृष्टा अनुस्तनयेन्सु अहो वदि अहो वदीति तम् एव पौराणम् अक्षरम् अग्निन्यं उपनिपते अर्थं च न विभावयेन्सुः // एवम् एव भिक्षवस् ते सत्वास् तस्मिं भूमिपर्पटके अन्तर्हिते अनुस्तनयेन्सुः // अहो वदि अहो वदीति //
___अथ खलु भिक्षवस् ते सत्वास् तस्मिं भूमिपर्पटके अन्तरहिते वनलतां आहारम् आहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घम् अध्वानं तिष्ठेन्सु // ये सानं बहुं आहारं आहारेन्सुः ते अभून्सुः दुर्वर्णा ये अल्पाहारं आहारेन्सु अभून्सु वर्णवन्तो // ते तां दुर्वर्णां सत्वा अवजानेन्सु // वयम् अस्म वर्णवन्तो इमे भवन्ति सत्वा दुर्वर्णा // तेषां वर्णाभिवर्णप्रत्ययानां मानाभिमानजातीयानां वनलता अन्तरहाये // शालि
[_mvu_1.342_] अकणो अतुषः सुरभितण्डुलः प्रादुर्भवेया सायं लूनो सो काल्यं भवति जातो पक्वो विरूढो अवदानं पि से न प्रज्ञायति // सो पि काल्यं लूनो सायं भवति जातो पक्वो विरूढो अवदानं चास्य न प्रज्ञायति // अथ खलु भिक्षवो ते सत्वा तस्मिं वनलते अन्तर्हिते अनुस्तनयेन्सुः // अहो वदे अहो वदे ति // तद्यथापि नाम भिक्षवो एतरहिं सत्वा केनचिद् एवं दुःखधर्मेण स्पृष्टा अनुस्तनयेन्सु // तम् एव पौराणम् अक्षरम् अग्निन्यं उपनिपते अर्थं चास्य न विभावयेन्सु // अथ खलु भिक्षवस् ते सत्वा तस्मिं वनलते अन्तर्हिते तं शालिं अकणं अतुषं सुरभितण्डुलफलं आहारम् आहरन्ता चिरं दीर्घम् अध्वानं तिष्ठेन्सु // यतो च भिक्षवस् ते सत्वास् तं शालिं अकणं अतुषं सुरभितण्डुलफलं आहारम् आहारेन्सु अथ सानं स्त्रीणां स्त्रीव्यंजनानि प्रादुर्भवेन्सुः पुरुषाणां पुरुषव्यंजनानि प्रादुर्भवेन्सुः // अतिवेलं रक्तचित्ता अन्योन्यं उपनिध्यायेन्सु // अन्योन्यं रक्तचित्ता अन्योन्यं उपनिध्याय ते अन्यमन्यं संरञ्जेन्सु अन्यमन्यं संरक्ता अन्यमन्यं दूषयेन्सुः // ये खलु पुनर् भिक्षवः सत्वान् पश्येन्सु दूष्यमाणां ते तत्र दण्डं पि क्षिपेन्सु लेष्टुं क्षिपेन्सु पांशु पि क्षिपेन्सु // अधर्मो भवन्तो लोके प्रादुर्भूतो असद्धर्मो भवन्तो लोके प्रादुर्भूतः यत्र हि नाम सत्वो सत्वं दूषयति // तद्यथापि नाम भिक्षवः एतरहिं दारिकाये वुह्यन्तीये दण्डं निक्षिपन्ति लेष्टुं पि निक्षिपन्ति तं एव पौराणम् अक्षरम् अग्निन्यं उपनिपते अर्थं चास्य न विभावयेन्सु // तदा खलु पुनस् तं भिक्षवः अधर्मसंमतं अयज्ञसंमतं च अविनयसंमतं च / एतरहिं खलु पुनस् तं भिक्षवः धर्मसंमतं च यज्ञसंमतं विनयसंमतं च // अथ खलु भिक्षवस् ते सत्वा तेन अधर्मेण
[_mvu_1.343_] अर्तीयन्ता विजिगुप्सिता एकाहं पि विप्रवसेन्सु द्व्यहं पि विप्रवसेन्सु त्र्यहं पि विप्रवसेन्सु चतुरहं पि विप्रवसेन्सु पंचाहं पि पक्षं पि मासं पि विप्रवसेन्सु गृहकर्मान्ता पि कारयेन्सु यावद् एव तस्यैव अधर्मस्य प्रतिच्छदनार्थं //
___अथ खलु भिक्षव अन्यतरस्य सत्वस्य शालिहारकं गतस्य एतद् अभवत्* // किम् अस्य नाम अहं किलमामि कथं पुराहं किलमामि सायं सायमासाय प्रातं प्रातरासाय // यं नूनाहं सकृद् एव दैवसं सायंप्रातिकं शालिं हरेयं // आहरे खलु भिक्षवो सो सत्वो सकृद् एव दैवसं सायंप्रातिकं शालिं // अथ खलु भिक्षवः अन्यतरो सत्वो तं सत्वम् एतद् उवाच // एहि भो सत्व शालिहारं गमिष्यामः // एवम् उक्त भिक्षवः सो सत्वो तं सत्वम् एतद् उवाच // गच्छ तुवं सत्व आनीतो मया सकृद् एव सायंप्रातिको शालिः // अथ खलु भिक्षवस् तस्यापि सत्वस्य एतद् अभवत्* // एवं पि क्रियमाणं शोभनं भवति / यं नूनाहं पि सकृद् एव द्व्यहिकं त्रीहिकं तं शालिं हरेयं // आहरे खलु भिक्षवः सो पि सत्वो सकृद् एव द्वीहिकं त्रीहिकं शालिं // अथ खलु भिक्षवः अन्यतरो सत्वो तं सत्वम् एतद् उवाच // एहि भो सत्व शालिहारं गमिष्याम // एवम् उक्ते सो सत्वो तं सत्वम् एतद् उवाच // गच्छ त्वं भो सत्व आनीतो मया सकृद् एव द्वीहिको त्रीहिको शालिः अथ खलु भिक्षवस् तस्यापि सत्वस्य एतद् अभवत्* // एवं पि दानि क्रियमाणं शोभनं भवति // यं नूनाहं पि चतुरहिकं पंचाहिकं शालिम् आहरेयं // आहरे खलु भिक्षवो सो पि सत्वो सकृद् एव चतुरहिकं पंचाहिकं शालिं // यतो च भिक्षवः ते सत्वा तं शालिं अकणं अतुषं सुरभितण्डुलफलं संनिधिकारं परिभुंजेन्सु अथ खलु तस्य शालिस्य कणो च तुषो च प्रादुर्भवति // सो पि सायं लूनो काल्यं न जातो भवति न पक्वो न विरूढो अवदानं चास्य प्रज्ञायति //
[_mvu_1.344_]___अथ खलु भिक्षवस् ते सत्वा संधावेन्सुः संधावित्वा संनिपतित्वा मन्त्रां मन्त्रयेन्सुः // वयं भवन्तो स्वयंप्रभा अन्तरीक्षचरा मनोमया प्रीतिभक्षा सुखस्थायिनो येनकामंगमाः // तेषाम् अस्माकं स्वयंप्रभाणाम् अन्तरीक्षचराणां मनोमयानां प्रीतिभक्षाणां सुखस्थायिनां येनकामंगमानां चन्द्रमसूर्या न प्रज्ञायेन्सु // चन्द्रमसूर्येहि लोके अप्रज्ञायन्तेहि तारकरूपा न प्रज्ञायन्ते / तारकरूपेहि लोके अप्रज्ञायन्तेहि नक्षत्रपथा लोके न प्रज्ञायन्ते / नक्षत्रपथेहि लोके अप्रज्ञायन्तेहि रात्रिंदिवा न प्रज्ञायेन्सु / रात्रिंदिवेहि अप्रज्ञायन्तेहि मासार्धमासा न प्रज्ञायेन्सु / मासार्धमासेहि अप्रज्ञायन्तेहि ऋतुसंवत्सरा न प्रज्ञायेन्सु // अयम् अपि महापृथिवी उदकह्रदं विय समुदागच्छति // तद्यथापि नाम सर्पिसन्तानं वा क्षीरसन्तानं वा एवं वर्णप्रतिभासा अभूषि वर्णसंपन्ना च गन्धसंपन्ना च रससम्पन्ना च तद्यथापि नाम क्षुद्रो मधु अनेलको एवम् आस्वादो // अथ खलु भवन्तो अन्यतरो सत्वो चपलो लोलुपजातीयो तं पृथिवीरसं अंगुलीये आस्वादयते // तस्य तम् आस्वादयति वर्णेनापि गन्धेनापि रसेनापि // अथ खलु भवन्तो सो सत्वो तं पृथिवीरसम् अपरकालेन आलोपकारकम् आहारं आहारेसि // वयं तस्य सत्वस्य दृष्ट्वानुकृतिम् आपद्यन्ता तं पृथिवीरसं आलोपकारकम् आहारं आहरेम // यतो च वयं भवन्तो पृथिवीरसम् आलोपकारकम् आहारं आहरेम अथास्माकं काये गुरुत्वं च खरत्वं च कक्खटत्वं च उपनिपते // यापि सा पूर्वं अभूषि स्वयंप्रभा अन्तरीक्षचरता मनोमयकायता प्रीतिभक्षता सुखस्थायिता येनकामंगमता सा अन्तरहायि // तेषां भवन्तो स्वयंप्रभताये अन्तरीक्षचरताये मनोमयकायताये प्रीतिभक्षताये सुखस्थायिताये येनकामंगमताये अन्तरहिताये चन्द्रमसूर्या लोके प्रज्ञायेन्सुः // चन्द्रमसूर्येहि लोके प्रज्ञायन्तेहि
[_mvu_1.345_] तारकरूपा प्रज्ञायेन्सुः // तारकरूपेहि प्रज्ञायन्तेहि नक्षत्रपथा प्रज्ञायेन्सुः / नक्षत्रपथेहि प्रज्ञायन्तेहि रात्रिंदिवा प्रज्ञायेन्सुः / रात्रिंदिवेहि प्रज्ञायन्तेहि मासार्धमासा प्रज्ञायेन्सुः / मासार्धमासेहि प्रज्ञायन्तेहि ऋतुसंवत्सरा प्रज्ञायेन्सुः // ते वयं भवन्तो तं पृथिवीरसम् आहारम् आहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घम् अध्वानं तिष्ठेम // यतो च सानं केचित् पापका अकुशला धर्मा प्रज्ञायेन्सुः यतो च मो केचिद् भवन्तो पापका अकुशला धर्माः प्रज्ञायेन्सुः अथ सो पृथिवीरसो अन्तर्हाये भूमिपर्पटकं प्रादुर्भवे // तद्यथा छात्रकं एवं वर्णप्रतिभासो पि अभूषि वर्णसम्पन्नो च गन्धसम्पन्नो च // तद्यथापि नाम क्षुद्रमधु अनेडको एवम् आस्वादो // ते वयं भवन्तो भूमिपर्पटकं आहारम् आहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घम् अध्वानं तिष्ठेम // यतो च सानं केचित् पापका अकुशला धर्मा प्रज्ञायेन्सु अथ सो भूमिपर्पटकं अन्तरहाये वनलता प्रादुर्भवेत्* // तद्यथापि नाम कलम्बुका एवंवर्णप्रतिभासा सापि अभूषि वर्णसम्पन्ना च गन्धसम्पन्ना च रससम्पन्ना च // सय्यथापि नाम क्षुद्रो मधु अनेडका एवमास्वादः // ते वयं भवन्तो तां वनलताम् आहारम् आहरन्ता तंवर्णा तंभक्षा तदाहारा दीर्घम् अध्वानं तिष्ठेम // यतो च सानं केचित् पापका अकुशला धर्मा प्रज्ञायेन्सुः यतो च मो भवन्तो केचित् पापका अकुशला धर्मा प्रज्ञापयेन्सुः अथ सा वनलता अन्तरहाये // शालिं अकणं अतुषं सुरभितण्डुलफलं प्रादुर्भवेया // सायं लूनो सो काल्यं भवति जातो पक्वो विरूढो अवदानं पि च से न प्रज्ञायति // ते वयं भवन्तो तं शालिं अकणं अतुषं सुरभितण्डुलफलं आहारम् आहरन्ता तंवर्णा तंभक्षा
[_mvu_1.346_] तदाहारा चिरं दीर्घम् अध्वानं हि तिष्ठेम // यतो च सानं केचित् पापका अकुशला धर्मा प्रज्ञायेन्सुः अथ से शालिस्य कणो च तुषो च पर्यवनहे // यो च शायं लूनो सो काल्यं न जातो न पक्वो न विरूढो अवदानं पि च से प्रज्ञायति // यो पि काल्यं लूनो सो सायं न जातो ब पक्वो न विरूढो अवदानं पि च से प्रज्ञायति // यं नूनं वयं शालिक्षेत्राणि विभजेम सीमां नयेमः // इमं भवन्तानां शालिक्षेत्रं इमम् अस्माकं मापयेमः // अथ खलु भिक्षवस् ते सत्वाः शालिक्षेत्राणां सीमा नयेन्सुः // इमं भवन्तानां शालिक्षेत्रं इमम् अस्माकं //
___अथ खलु भिक्षवः अन्यतरस्य सत्वस्य शालिहारं गतस्य एतद् अभवत्* // किं स्य नाम अहं भविष्यं केन स्य नाम जीवितं कल्पेष्यं स्वके शलिभागे क्षीणे // यं नूनाहं अदिन्नं अन्यातकं शालिम् आदियेयं // अथ खलु भिक्षवो सो सत्वो स्वकं शालिभागं परिरक्षन्तो अदिन्नम् अन्यताकं शालिभागम् आदियेय // अद्राक्षीद् भिक्षवो अन्यतरः सत्वो तं सत्वम् अदिन्नम् अन्यातकं शालिं आदियन्तं दृष्ट्वा च पुनर् येन सो सत्वो तेनोपसंक्रमित्वा तं सत्वम् एतद् अवोचत्* // अपि नाम त्वं भो सत्व अदिन्नम् अन्यातकं शालिम् आदियसि // एवम् उक्ते भिक्षवः सो सत्वस् तं सत्वम् एतद् अवोचत्* // तेन हि भो सत्व न पुनर् एवं भविष्यति // द्वितीयं पि भिक्षवस् तस्य सत्वस्य शालिहारं गतस्य एतद् अभवत्* // किं स्य नाम अहं भविष्यं केन स्य नाम अहं जीविकां कल्पेष्यं स्वके शालिभागे क्षीणे // यं नूनाहं अदिन्नम् अन्यातकं शालिम् आदियेयं // द्वितीयं पि भिक्षवः सो सत्वो स्वकं शालिभागं परिरक्षन्तो अदिन्नम् अन्यातकं शालिम् आदियेत्* // अद्राक्षीद् भिक्षवः सो सत्वस् तं सत्वं द्वितीयकं पि अदिन्नम् अन्यातकं शालिम् आदियन्तं // दृष्ट्वा च पुनर् येन सो सत्वो तेनोपसंक्रमित्वा तं सत्वम् एतद् अवोचत्* // अस्ति नाम त्वं भो सत्व याव द्वितीयकं
[_mvu_1.347_] पि अदिन्नम् अन्यातकं शालिम् आदियसि // द्वितीयं पि भिक्षवः सो सत्वो तं सत्वम् एतद् अवोचत्* // तेन हि भो सत्व न पुनर् एवं भविष्यति // तृतीयकं पि भिक्षवः तस्य सत्वस्य शालिहारं गतस्यैतद् अभवत्* // किं स्य नाम अहं भविष्यं केन स्य नाम जीविकां कल्पयिष्यं स्वके शालिभागे क्षीणे // यं नूनाहम् अदिन्नम् अन्यातकं शालिम् आदियेयं // तृतीयकं पि भिक्षवः सो सत्वो स्वकं शालिभागं परिरक्षन्तो अदिन्नम् अन्यातकं शालिम् आदियति // अद्राक्षीद् भिक्षवः सो सत्वो तं सत्वं तृतीयकं पि अदिन्नम् अन्यातकं शालिम् आदियन्तं // दृष्ट्वा च पुनर् येन सो सत्वो तेन्ऽ; उपसंक्रमित्वा तं सत्वं दण्डेन परिताडयन्तो एवम् आह // अस्ति नाम त्वं भो सत्व यावत् तृतीयकं पि अदिन्नम् अन्यातकं शालिम् आदियसि // अथ खलु भिक्षवः सो सत्वो उभौ बाहां प्रगृह्य विक्रन्दे विक्रोशे // अधर्मो भवन्तो लोके प्रादुर्भूतः असद्धर्मो भवन्तो लोके प्रादुर्भूतः यत्र नाम लोके दण्डादानं प्रज्ञायति // अथ खलु भिक्षवः सो सत्वो पृथिवीयं दण्डम् आवेष्टित्वा उभौ बाहू प्रगृह्य विक्रन्दे विक्रोशे // अधर्मो भवन्तो लोके प्रादुर्भूतो असद्धर्मो भवन्तो लोके प्रादुर्भूतः यत्र हि नाम अदिन्नादानं च मृषावादं च लोके प्रज्ञायति // एवं च पुनर् भिक्षवः इमेषां त्रयाणां पापकानां अकुशलानां धर्माणां प्रथम एवम् एव लोके प्रादुर्भावो तद्यथादिन्नादानस्य मृषावादस्य दण्डादानस्य च //
___अथ खलु भिक्षवः ते सत्वा संधावेन्सुः संनिपतेन्सुः संधावित्वा संनिपतित्वा संमन्त्रेन्सुः // यं नूनं वयं भवन्तो यो अस्माकं सत्वो सर्वप्रासादिको सर्वमहेशाख्यो च तं संमन्येमः यो अस्माकं निग्रहारहं च निगृह्णीया प्रग्रहारहं च प्रगृह्णेया देशये चायं स्वकस्वकेषु शालिक्षेत्रेषु शालिभागं // अथ खलु भिक्षवस् ते सत्वा यो सानं
[_mvu_1.348_] सत्वो अभूषि सर्वप्रासादिको च सर्वमहेशाख्यो च तं संमन्येन्सुः // भवान् अस्माकं सत्वं निग्रहारहं निगृह्णातु प्रग्रहारहं च प्रगृह्णातु वयं ते सर्वसत्वानां अग्रताये संमन्येम स्वकस्वकेषु शालिक्षेत्रेषु षष्ठं शालिभागं ददाम // महता जनकायेन संमतो ति महासम्मतो ति संज्ञा उदपासि // अरहति शालिक्षेत्रेषु शालिभागे ति राजा ति संज्ञा उदपासि / सम्यक् रक्षति परिपालेति मूर्ध्नाभिषिक्तः . . . . . . संज्ञा उदपासि / मातापितृसमो नैगमजानपदेषु त्ति जानपदस्थामवीर्यप्राप्तो ति संज्ञा उदपासि // तेनाहं राजा क्षत्रियो मूर्ध्नाभिषिक्तो जनपदस्थामवीर्यप्राप्तो ति //
___राज्ञो सम्मतस्य पुत्रो कल्याणो कल्याणस्य पुत्रो रवो रवस्य पुत्रो उपोषधो उपोषधस्य पुत्रो राजा मान्धातो // राज्ञो मान्धातस्य पुत्रपौत्रिकायो नप्तप्रनप्तिकायो बहूनि राजसहस्राणि / पश्चिमको शाकेते महानगरे सुजातो नाम इक्ष्वाकुराजा अभूषि // सुजातस्य खलु इक्ष्वाकुराज्ञो पंच पुत्रा अभूषि ओपुरो निपुरो करकण्डको उल्कामुखो हस्तिकशिर्षो / पंच च धीतरो कुमारियो शुद्धा विमला विजिता जला जली // जेन्तो नाम कुमारो वैलासिकाये पुत्रो // तस्य माता जेन्ती नाम // ताये राजा सुजातो स्त्रीधर्मेण आराधितो / तस्य राजा प्रीतो संवृत्तो // प्रीतेन राज्ञा जेन्ती वरेण प्रवारिता // जेन्ती वरेण प्रवारेमि / यं मे वरं याचसि तं ते वरं ददामि // सा दानि आह // महाराज यावता खु मातापितरं आपृच्छामि ततो देवस्य सकाशातो वरं याचिष्यामि // ताये मातापितॄणां आरोचितं // राज्ञाहं प्रवारिता तद् युष्माकं किं वरम् उच्यति किं राज्ञो वरं याचामि // तेहि
[_mvu_1.349_] दानि यस्य यं मतं सो तं जल्पति // ग्रामवरं याचाहि त्ति // तहिं अपरा परिव्राजिका पण्डिता निपुणा मेधाविनी // सा आह // जेन्ति त्वं वैलासिकाये धीता तव पुत्रो न किंचित् पैतृकस्य द्रव्यस्य प्रभवति किं पुन राज्यस्य // एते पंच कुमारा क्षत्रियकन्यापुत्राः ते पैतृकस्य राज्यस्य च द्रव्यस्य च प्रभवन्ति // त्वं च राज्ञा वरेण प्रवारिता राजा च सुजातो अप्रतिवचनो सत्यवादी यथावादी तथाकारी तं तुवं राज्ञो वरं याचाहि // एते पंच कुमारा राज्यातो विप्रवासेत्वा मम पुत्रं जेन्तं कुमारं युवराज्ये अभिषिंचाहीति // एष देवस्य अत्ययेन शाकेते महानगरे राजा भविष्यतीति ततो तव सर्वं भविष्यति // ताये राजा सुजातो एवं वरं याचितो // महाराज एतां पंच कुमारां राज्यातो विप्रवासेत्वा जेन्तं कुमारं युवराज्ये अभिषिचाहि / यथैषो देवस्य अत्ययेन शाकेते महानगरे राजा भवेय // एतं मे वरं देतु राजा // सुजातो श्रुत्वा दुर्मना संवृत्तो तेषां कुमाराणां प्रेम्नेन न च शक्यं वरं दत्त्वा अन्यथा कर्तुं // राजा जेन्तीये देवीये आह // एवम् अस्तु दिन्नं भवतु एतं वरं // वरदानं नागरेहि जानपदेहि च श्रुतं कुमारां विप्रवासेत्वा जेन्तं कुमारं वैलासिकाये पुत्रं युवराज्ये अभिषिंचिष्यतीति // तत्र जनकाये उत्कण्ठो कुमाराणां गुणमाहात्म्येन या कुमाराणां गतिः सा अस्माकं गतिः // राज्ञा सुजातेन श्रुतं महाजनकायो शाकेतातो जनपदातो कुमारेहि सार्धं विप्रवसिष्यन्ति इति // तेन शाकेते महानगरे घोषणा कारापिता // यो कुमारेहि सह शाकेतातो विप्रवसिष्यति तस्य येन कार्यं तं राजकृत्या कोशातो दीष्यति // येषां हस्तिहि कार्यं अश्वेहि रथेहि वा युग्येहि वा यानेहि वा शकटेहि वा प्रवहणेहि वा बलिवर्देहि वा मस्नियेहि वा अजेहि वा एडकेहि वा धनेहि वा चान्येन वा वस्त्रेण वा अलंकारेहि
[_mvu_1.350_] वा दासेहि वा दासीहि वा सर्वं राजकृत्या कोशातो दीष्यति // कुमारेहि सार्धं विप्रवसन्तानां राजाणत्तीये अमात्येहि एवं कोशकोष्ठागारा मुक्तं यो यं याचति तस्य तं दीयति // एवं ते कुमारा शाकेतातो अनेकेहि जानपदसहस्रेहि सार्धं महता बलकायेन अनेकेहि शकटयुग्ययानसहस्रेहि शाकेतातो नगरातो निर्याता उत्तरामुखं प्रयाता // काशिकोशलेन राज्ञा प्रगृहीता // कुमारा कृतपुण्या च महेशाख्या च निवाता च सुखसंस्पर्शा च पुण्यवन्ता च धार्मिका च // तेषां सर्वकाशिकोशलका मनुष्या मूलातो प्रीता // अहो याव कल्याणा कुमारा धार्मिका च // तस्य राज्ञो यथोक्तं भगवता शक्रप्रश्नेषु // ईर्ष्यामात्सर्यसंयोजनसंप्रयुक्ता देवमनुष्या असुरा गरुडा गन्धर्वा यक्षा राक्षसा पिशाचा कुम्भाण्डा ये वा पुनर् अन्ये सन्ति पृथुकायाः // तस्य काशिकोशलराज्ञो ईर्ष्याधर्मं संवृत्तं // यथैव एषो जनकायो इमेषां कुमाराणां गुणगृहीतो स्थानम् एतद् विद्यति यं एते मम जीवितातो व्यपरोपेत्वा अतो कुमारां राज्ये अभिषिंचेन्सुः // ते दानि तेनापि काशिकोशलेन राज्ञा विप्रवासिता //
___अनुहिमवन्ते कपिलो नाम ऋषिः प्रतिवसति पंचाभिज्ञो चतुर्ध्यानलाभी महर्द्धिको महानुभावो // तस्य तं आश्रमपदं महाविस्तीर्णं रमणीयं मूलपुष्पोपेतं पत्रोपेतं फलोपेतं पानीयोपेतं मूलसहस्र-उपशोभितं महं चात्र शाकोटवनखण्डं // ते दानि कुमारा तहिं पि शाकोटवनखण्डे आवासिता // तत्र समनुक्रान्ता वाणिजका काशिकोशलां जनपदां गच्छन्ति व // ते वाणिजका जनेन पृच्छीयन्ति कुतो आगच्छथ त्ति // ते आहन्सुः // अमुकातो शाकोटवनखण्डातो // शाकेता अपि
[_mvu_1.351_] कोशला वाणिजका तहिं पि गच्छन्ति शाकोटवनखण्डे // ते पि पृच्छीयन्ति // कहिं गमिष्यथ त्ति // ते पि आहन्सुः // शाकोटवनखण्डं अनुहिमवन्तं // तेहि दानि कुमारेहि मा मो जातिसंदोषं भविष्यतीति जातिसंदोषभयेन स्वकस्वका येव मातृयो भगिनीयो परस्परस्य विवाहिता // राजा सुजातो अंआत्यानां पृच्छति // भो अमात्या कुमारा कहिं आवसन्ति // अमात्या आहन्सुः // महाराज अनुहिमवन्तो महाशाकोटकवनखण्डं तहिं कुमारा प्रतिवसन्ति // राजा अमात्यानां पृच्छति // कुतो कुमारेहि दाराणि आनीतानि // अमात्या आहन्सुः // श्रुतं मो महाराज कुमारेहि जातिसंदोषभयेन स्वकस्वका येव मातृयो भगिनीयो परस्परस्य विवाहितायो मा मो जातिसंदोषं भविष्यतीति // राज्ञा दानि सुजातेन पुरोहितो च अन्ये च ब्राह्मणपण्डिता पृच्छिता // शक्या एतम् एवं कर्तुं यथा तेहि कुमारेहि कृतं // ते पुरोहितप्रमुखा ब्राह्मणपण्डिता आहन्सुः // शक्यं महाराज कुमारा ततो निदानं दोषेण न लिप्यन्ति // राजा सुजातो ब्राह्मणपण्डितानां श्रुत्वा हृष्टो तुष्टो आत्तमना इमं उदानम् उदानये // शक्या पुनर् भवन्तो कुमारा // तेषां दानि कुमाराणां शक्यं शाकिया ति समाख्यासमाज्ञाप्रज्ञप्ति उदपासि //
___तेषां दानि कुमाराणां एतद् अभवत्* // केवत्तकं वयं शाकोटकवनखण्डे निवासं कल्पेष्यामः // महांश् च अयं जनकायो आगच्छति // यं नूनं वयं नगरं मापयेमः // ते दानि कुमारा कपिलस्य ऋषिस्य सकाशं संक्रान्ता // ते ऋषिस्य पादौ वन्दित्वा आहन्सुः // यदि भगवां कपिलो अनुजानेय्या वयं इमस्मिं नगरं मापयेमः ऋषिस्य नामेन कपिलवस्तुं // ऋषि आह // यदि मम इदम् आश्रम राजकुलं
[_mvu_1.352_] कृत्वा नगरं मापेथ ततो अनुजानामि // ते कुमारा ऋषिस्य आहन्सुः // यथा ऋषिस्य अभिप्रायो तथा करिष्यामः // इमम् आश्रमं राजकुलं कृत्वा नगरं मापेष्यामः // ऋषिणा तं वस्तुं तेषां कुमाराणां करकं गृह्य उदकेन दिन्नं // कुमारेहि पि तं ऋषिस्य आश्रमं राजकुलं कृत्वा नगरं मापितं // कपिलेन ऋषिणा वस्तुं दिन्नं ति कपिलवस्तुसमाख्या उदपासि // एवं कपिलवस्तुमहानगरं ऋद्धो च स्फीतो च क्षेमो च सुभिक्षो च आकीर्णजनमनुष्यो च बहुजनमनुष्यो सुखितजनमनुष्यो विस्तीर्णजनपरिवारो च संवृत्तो दिशि विदिशि विश्रुतो च संवृत्तो उत्सवसमाजबहुलो वणिजप्रियो व्यवहारसम्पन्नो //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
