Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/24

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

महावस्तु-अवादन

Thông tin
GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[_mvu_1.253_] अथ छत्रवस्तुके आदि // अनुहिमवन्ते कुण्डला नाम यक्षिणी प्रतिवसति // सा दानि समं समं च पुत्रशता पंच प्रजायति / पुत्रसहस्रं प्रजाता सा कालं करोति // ते पि वैशालिं ओजोहारका प्रेषिता // वैशालिं गत्वा मनुष्याणाम् ओजं हरन्ति // रोगजाता आर्द्धा मण्डलको च अधिवासो च / मण्डलको रोगजातो यहिं कुले निपतति न किंचि शेषेति सर्वं हरति / अधिवासो नाम रोगजातो प्रदेशं हरति // तदानि वैशालिका अधिवासेन रोगजातेन स्पृष्टा मरन्ति // ते देवदेवां नमस्यन्ति // तेषाम् एतद् अभूषि // कस्मिन् नु खल्व् आगते वैशालकानाम् आबाधो प्रतिप्रशाम्येया // तेहि दानि काश्यपस्य पूरणस्य प्रेषितं // आगच्छाहि वैशालकानाम् अमनुष्यव्याधि उत्पन्नो त्वयि आगते प्रतिप्रश्रब्धो भविष्यति // काश्यपपूरणो वैशालिम् आगतो न च तं व्याधिं प्रतिप्रस्रभ्यति // तेषाम् एतद् अभूषि // आगतो काश्यपो नैव च वैशालकानाम् अमनुष्यव्याधिः प्रतिप्रस्रभ्यति // तेहि दानि मस्करिस्य गोशालिपूत्रस्य प्रेषितं // सो पि आगतो न च वैशालिकानाम् अमनुष्यव्याधिः प्रतिप्रस्रभ्यति // तेहि दानि ककुदस्य कात्यायनस्य प्रेषितं // सो पि आगतो न च वैशालिकानाम् अमनुष्यव्याधिः प्रतिप्रस्रभ्यति // तेहि दानि अजितस्य केशकम्बलस्य प्रेषितं // सो पि आगतो न च वैशालकानाम् अमनुष्यव्याधि प्रतिप्रस्रभ्यति // तेहि दानि संजयिस्य वेरट्टिपुत्रस्य प्रेषितं // सो पि आगतो न च वैशालकानाम् अमनुष्यव्याधि प्रतिप्रस्रभ्यति // तेहि दानि निर्ग्रन्थस्य ज्ञातिपुत्रस्य प्रेषितं // सो पि आगतो न च वैशालकानाम् अमनुष्यव्याधिः प्रतिप्रस्रभ्यति // तेषां वैशालकानां ज्ञातिसालोहिता कालगता देवेहि उपपन्ना // तेषाम् अन्यतरा देवता वैशालकानाम् आरोचयति //

[_mvu_1.254_] ये एते तुभ्येहि आनीता अशास्तारो अशास्तारवादिनो नैते शक्ता वैशालकानाम् अमनुष्यव्याधिः प्रतिप्रस्रंभयितुं // एष बुद्धो भगवां असंख्येहि कल्पेहि समुदागतो अर्हन् सम्यक्संबुद्धो अपरिशेषज्ञानदर्शनो महर्द्धिको महानुभावो सर्वज्ञो सर्वदर्शावी यत्र ग्रामक्षेत्रसीमायां प्रतिवसति सर्वं तत्र ईतिकलहं कलकलं उपद्रवा उपसर्गा प्रशाम्यन्ति // तम् आनेथ / तेन आगतेन वैशालकानम् अमनुष्यव्याधिः प्रतिप्रस्रभ्यते इति //

राजगृहे मन्दिरपुरे विहरति वरकमलगर्भसुकुमारो / सर्वा कलिकलहानि प्रशमयितानि जितक्लेशेन //

सोपद्रवं काञ्चननिभो यं प्राप्तो ग्रामनिगम नगरं वा / शामयति तत्र ईतयो रजम् इव बलवां सलिलवृष्टिः //

पाण्डरवर्णं काञ्चननिभं दिनकरपरिपूर्णचारुमुखं / वरसुरभिशीलगन्धं आनेथ शाम्यति तु व्याधि //

वैशाल्यां तोमरो नाम लेच्छविमहत्तरको महापक्षो महापरिवारो पण्डितो च // सो गणेन अध्येष्य प्रेषितो // गच्छ राजगृहं तहिं बुद्धो भगवां प्रतिवसति // श्रेणियस्य बिम्बिसारस्य याचितवासो प्रतिवसति // तं गत्वा वैशालकानां लिच्छवीनां वचनेन वन्दनां वदेसि सपरिवारस्य अल्पाबाधतां च अल्पातंकतां च सुखस्पर्शविहारतां च पृच्छेसि एवं च वदेसि // वैशालकानां भगवं लिच्छवीनाम् अमनुष्यव्याधि उत्पन्नो बहूनि प्राणसहस्राणि अनयव्यसनम् आपद्यन्ति / साधु भगवान् अर्थकामो हितैषी

[_mvu_1.255_] वैशालिम् आगच्छेया अनुकम्पाम् उपादाय // अथ तोमरो लेच्छविगणस्य प्रतिश्रुत्वा यथानुरूपेण परिवारेण सार्धं भद्राणि यानानि आरुहित्वा वैशालितो नगरातो निर्गम्य येन राजगृहं नगरं तेन प्रयासि // अथ खलु तोमरो लेच्छवि राजगृहनगरं गत्वा प्रविशित्वा राजगृहनगरं येन वेणुवनं कलन्दकनिवापं तेन प्रक्रमि भगवन्तं दर्शानाय उपसंक्रमणाय पर्युपासनाय // तेन खलु पुनः समयेन भगवान् तदहोपोषधे पंचदश्यां पूर्णायां पूर्णमास्यां पंचानां भिक्षुशतानां अन्याये च जनताये अनेकसहस्राये परिषाये धर्मं देशयति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलपरिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति // अथ तोमरो लेच्छवी यावत्तका यानस्य भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य पद्भ्याम् एव येन भगवांस् तेनोपसंक्रमि // सो दानि महेशाख्यां परिषां सन्निपतितां न शक्नोति प्रसह्य भगवन्तम् उपसंक्रमितुं // सो दानि एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनांजलिं प्रणामेत्वा भगवन्तं गाथाये अध्यभाषि //

उपोषधे पंचदशीविशुद्धये उपासितुं ते ऋषयो समागता / शक्रो च देवो त्रिदशान इन्द्रो पुरस्कृतो तेषु असह्यसाहि //

विरोचमानो भाषसि उत्तमं पदं धर्मेण तर्पेसि बहुं इमां प्रजां / महां व मेघः सलिलेन मेदिनीं ते तुह्य श्रुत्वा मधुराम् इमां गिरां //

अनेलिकां धारयतो महामुने नमस्कृत्वा अंजलिं वन्दमाना /

[_mvu_1.256_] शरणं ते गच्छाम असह्यसाहि तेषां सुलब्धं च सु-आगतं च //

स तोमराणाम् अहम् अन्तिके भवं ये ते प्रसन्ना शरणं उपेन्ति / अथ अप्रमत्ता सुगतस्य शासने काहिन्ति जातीमरणस्य अन्तं //

गाथापर्यवसाने महता जनकायेन अन्तरो दिन्नो // अथ खलु तोमरो लेच्छवी येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् अवोचत्* // वैशालिका भगवं लेच्छवियो सम्वृद्धबाला अभ्यन्तरवैशालका च बाहिरकवैशालका च भगवतः पादा शिरसा वन्देन्ति सश्रावकसंघस्य सुखं च स्पर्शविहारतां च पृच्छेन्ति एवं च वदेन्ति // वैशाल्यां भगवन्न् अमनुष्यव्याधि उत्पन्नः बहूनि प्राणिसहस्राणि अनयव्यसनम् आपद्यन्ति भगवां च अनुकम्पको कारुणिको सदेवकस्य // साधु भगवां वैशालिम् आगच्छेय वैशालिकानाम् अनुकम्पाम् उपादाय // भगवान् आह // तथागतो तोमर राज्ञो श्रेणियस्य बिम्बिसारस्य याचितवासो वसति गच्छम् अनुजानापेहि // अथ खलु तोमरो लेच्छवि भगवतो पादौ शिरसा वन्दित्वा भगवन्तं च त्रिष्खुत्तं प्रदक्षिणीकृत्वा भिक्षुसंघं च येन राजगृहं तेन प्रक्रामि // अथ खलु तोमरो लेच्छवि येन राजा श्रेणियो बिम्बिसारस् तेनोपसंक्रमित्वा राजानं श्रेणियं बिम्बिसारं साधु च सुष्ठु च प्रतिसंमोदेत्वा एतद् उवाच // वैशालीयं महाराज अमनुष्यव्याधि उत्पन्नो बहूनि प्राणिसहस्राणि अनयव्यसनम् आपद्यन्ति // तहिं षच् छास्तारो संमता आनीता काश्यपो च पूरणो मस्करी च गोशाली अजितो च केशकम्बली ककुदो च कात्यायनो

[_mvu_1.257_] संजयी च वेरट्टिकपुत्रो निर्ग्रन्थो च ज्ञातिपुत्रो // एतेहि आगतेहि वैशालकानाम् अमनुष्यव्याधि नोपशाम्यति // ततो महाराज लेच्छवीनां देवताहि आरोचितं // एष बुद्धो भगवान् असंख्येये धर्मानुभावेन हि समुदागतो सदेवकस्य लोकस्य लेनो त्राणो शरणो परायणो देवातिदेवो शास्ता देवमनुष्याणां नागानाम् असुराणां यक्षाणां राक्षसानां पिशाचानां कुम्भाण्डानां // सो यं ग्रामक्षेत्रसीमम् आक्रमति तत्र सर्वे ईतिकलिकालकर्णी प्रशाम्यन्ति बुद्धानुभावेन धर्मानुभावेन संघानुभावेन // तम् आनेथ तेन आगतेन वैशाल्यानाम् अमनुष्यव्याधिः प्रशाम्यतीति // साधु महाराज भगवन्तम् अनुजानाहि वैशालिं गमनाये अनुकम्पाम् उपादाय // एवम् उक्तो राजा श्रेणियो बिम्बिसारो तोमरं लेच्छविम् एतद् उवाच // सचे वासिष्ठ वैशलका लेच्छवयो भगवतो राजगृहातो वैशालिं गच्छन्तस्य एवं प्रत्युद्गमनं करोन्ति यावत् स्वकं विजितं यथाहम् अनुयानं करोमि यावत् स्वकविजितं एत्स्ये हं भगवन्तम् अनुजानये राजगृहातो वैशालिं गमनाय // अथ खलु तोमरो लेच्छवी राज्ञो श्रेणियस्य बिम्बिसारस्य प्रतिश्रुत्वा वैशालिं गणस्य दूतां प्रेषयसि // एवं वासिष्ठाहो राजा श्रेणियो बिम्बिसारो जल्पति // अथ खलु ते दूता तोमरस्य लेच्छविस्य प्रतिश्रुत्वा वैशालिं गत्वा लेच्छविगणस्य आरोचेसि // एवं वासिष्ठाहो राजा श्रेणिको बिम्बिसारो तोमरस्य लेच्छविस्य जल्पति / सचे वैशालका लेच्छवयो भगवतो राजगृहातो वैशालिं गच्छन्तस्य एवं प्रत्युद्गमनं करोन्ति यावत् स्वकं विजितं यथा अहम् अनुयानं करोमि यावत् स्वकं विजितं एत्स्ये हं भगवन्तम् अनुजानेयं राजगृहातो वैशालिं गमनाय // एवम् उक्ते वैशालेयका लेच्छवयस् तान् दूतां . . . . . . . // एतद् वक्तव्यो वासिष्ठाहो राजा श्रेणियो बिम्बिसारो लेच्छविगणस्य वचनेन // करिष्यन्ति महाराज वैशालका लेच्छवयो

[_mvu_1.258_] भगवतः प्रत्युद्गमनं यावल् लेच्छवीनां विजितं // अथ खलु ते दूता लेच्छविगणस्य प्रतिश्रुत्वा राजगृहं गत्वा आरोचेन्सुः // अथ खलु तोमरो लेच्छविः दूतानां वचनं प्रतिश्रुत्वा येन राजा श्रेणिको बिम्बिसारो तेन्ऽ; उपसंक्रमित्वा राजानं श्रेणियं बिम्बिसारम् एतद् उवाच // करिष्यन्ति महाराज वैशालका लेच्छवयो भगवतः प्रत्युद्गमनं // साधु भगवन्तम् अनुजानाहि वैशालिं गमनाय अनुकम्पाम् उपादाय // भगवां दानि राज्ञा श्रेणियेन बिम्बिसारेण अनुज्ञातो वैशालिं गमनाय अमात्या च आणत्ता याव च राजगृहं याव च गंगायास् तीर्थं मार्गं प्रतिजागृथ अष्टपदसमम् अविषमं पाणितलजातं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं / नावासंक्रमं बन्धापेथ येन भगवां सश्रावकसंघो गंगायां तरिष्यति वैशालिं गमनाय / अर्धयोजनिके च अन्तरे मण्डपसंविधानं का[रापेथ अन्नपान]संविधानं कारापेथ शय्यासनसंविधानं च भगवतः सश्रावकसंघस्य सर्वं सुखोपधानं यथा भगवां सश्रावकसंघो राजगृहातो सुखं वैशालिं गच्छेय भिक्षुसंघश् च //

मनसा देवानां वचसा पार्थिवानां / नचिरेणाढ्यानां कर्मणा दरिद्राणाम् इति //

राज्ञा च आणत्तं अमात्येहि च सर्वं प्रतिजागृतं यथा आणत्तं //

___भगवां संप्रस्थितो सार्धं भिक्षुसंघेन // राजा श्रेणियो बिम्बिसारो सयुग्यबलवाहनो सदेवीकुमारामात्यपरिजनो राजार्हेहि पंचहि च्छत्रशतेहि धार्यमाणेहि ओसक्तपट्टदामकलापेहि सध्वजपताकेहि महता राजानुभावेन महता राज-ऋद्धीये महताये विभूषाये भगवन्तं वैशालिं गच्छन्तं समनुयाति अर्धयोजनिकेनान्तरावासेन यावत् स्वकं विषयं गंगायाः तीरं // अश्रोषुः वैशालका लेच्छविका एदृशये विधीये

[_mvu_1.259_] राजा श्रेणियो बिम्बिसारो भगवतो अनुयानं करोति राजगृहातो वैशालिम् आगच्छन्तस्येति // श्रुत्वा च पुनः याव च वैशाली याव च गङ्गातीर्थं वैशालकानां लेच्छवीनां विजितम् अत्रान्तरे मार्गं प्रतिजाग्रंसु अष्टपदसमम् अविषमं पाणितलजातं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं // देशदेशेहि च नटनर्तन-ऋल्लमल्लपाणिस्वर्या स्थापयेन्सु / अर्धयोजनिकेन च अन्तरेण मण्डपसंविधानं च कारयेन्सु शय्यासनसंविधानं च पानीयसंविधानं च भक्तसंविधानं च भगवतः सश्रावकसंघस्य // अभ्यन्तरवैशालीतो चतुरशीति रथसहस्राणि योजापयित्वा द्वेचतुरशीति रथसहस्राणि योजापयित्वा सवैजयन्तिकानि सनन्दिघोषाणि सपुष्पमालानि सच्छत्रध्वजपताकानि प्रभूतं च गन्धमाल्यम् आदाय स्वकस्वकानि भद्राणि यानान्य् अभिरुहित्वा महता राजानुभावेन महता राज-ऋद्धीये महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगमरुपणवशंखसन्निनादेन वैशलीतो नगरातो निर्याता भगवन्तं प्रत्युद्गच्छेन्सु यावद् गङ्गातीर्थं भगवतः पूजार्थं // तेषां पि तं एवं संविधानरूपं अभूषि // सन्त्य् अत्र लेच्छवयः नीलाश्वा नीलरथा नीलरश्मिप्रतोदा नीलयष्टी नीलवस्त्रा नीलालंकारा नील-उष्णीषा नीलच्छत्रा नीलखड्गमणिपादुकवालव्यंजनाः // तत्र इदम् इति उच्यते //

नीलाश्वा नीलरथा नीला रश्मिप्रतोद-म्-उष्णीषा / नीला च पंच ककुदा नीला वस्त्रा अलंकारा //

सन्त्य् अत्र लेच्छवयः पीताश्वाः पीतरथा पीतरश्मिप्रतोदयष्टी पीतवस्त्राः पीतालंकारा पीतोष्णीषा पीतच्छत्रा पीतखड्गमणिपादुका // तत्रेदम् उच्यते //

[_mvu_1.260_] पीताश्वा पीतरथा पीता रश्मिप्रतोद-म्-उष्णीषा / पीता च पंच ककुदा पीता वस्त्रा अलंकारा //

सन्त्य् अत्र लेच्छवयो मंजिष्ठाश्वा मंजिष्ठरथा मंजिष्ठप्रतोदयष्टी मंजिष्ठवस्त्रा मंजिष्ठ-अलंकारा मंजिष्ठ-उष्णीषा मंजिष्ठच्छत्राः मंजिष्ठमणिपादुकवालव्यंजनाः // तत्रेदम् उच्यते //

मंजिष्ठा अश्वरथा मञ्जिष्ठ रश्मिप्रतोदयष्टी च / मंजिष्ठ पंच ककुदा मम्जिष्ठ वस्त्र-अलंकाराः //

सन्त्य् अत्र लेच्छवयो लोहिताश्वा लोहितरथा लोहितप्रतोदयष्टी लोहितवस्त्रा लोहितालंकारा लोहित-उष्णीषा लोहितच्छत्राः लोहितखड्गमणिपादुकवालव्यंजनाः // तत्रेदम् उच्यते //

लोहिता अश्वा रथा च लोहित रश्मिप्रतोदयष्टी च / लोहित च पंच ककुदा लोहित वस्त्रा अलंकाराः //

सन्त्य् अत्र लेच्छवयो श्वेताश्वा श्वेतरथा श्वेतप्रतोदयष्टी श्वेतवस्त्राः श्वेतालंकाराः श्वेतोष्णीषाः श्वेतच्छत्राः श्वेतखड्गाः श्वेतमणिपादुकवालव्यंजनाः // तत्रेदम् उच्यते //

श्वेताश्वा श्वेत रथा श्वेत रश्मिप्रतोदयष्टी च / श्वेता च पंच ककुदा श्वेता वस्त्रा अलंकाराः //

सन्त्य् अत्र लेच्छवयो हरिताश्वा हरितरथाः हरितरश्मिप्रतोदयष्टी च हरितवस्त्रा

[_mvu_1.261_] हरितालंकारा हरितोष्णीषा हरितच्छत्रा हरितखड्गा हरितमणिपादुकवालव्यंजनाः // तत्रेदम् उच्यते //

हरिताश्वा हरित रथा हरिता रश्मिप्रतोदयष्टी च / हरिता च पंच ककुदा हरिता वस्त्रा अलंकाराः //

सन्त्य् अत्र लेच्छवयो व्यायुक्ताश्वा व्यायुक्तरथा व्यायुक्तरश्मिप्रतोदयष्टी व्यायुक्तवस्त्रा व्यायुक्तालंकारा व्यायुक्त-उष्णीषा व्यायुक्तच्छत्रा व्यायुक्तखड्गा व्यायुक्तमणिपादुकवालव्यंजनाः // तत्रेदम् उच्यते //

व्यायुक्ता अश्वरथा व्यायुक्त रश्मिप्रतोदयष्टी च / व्यायुक्त पंच ककुदा व्यायुक्त वस्त्र-अलंकाराः //

सन्त्य् अत्र लेच्छवयो सुवर्णच्छत्रेहि कुंजरेहि नानालंकारभूषितेहि // सन्त्य् अत्र लेच्छवयो सुवर्णशिविकाहि सर्वरतनभुषिताहि // सन्त्य् अत्र लेच्छवयो सुवर्णमयेहि रथेहि सवैजयन्तेहि सनन्दिघोषेहि सखुरप्रवाशीहि उच्छ्रीतच्छत्रध्वजपताकेहि // एवंरूपेण अनुभावेन एवंरूपाये विधिये एवंरूपेण समुदयेन एवंरूपाये राज-ऋद्धीये एवंरूपाये समृद्धीये एवंरूपाये संवृत्ताये एदृशाये विभूषाये वैशालका लेच्छवयो द्वेचतुरशीतिहि यानसहस्रेहि गोशृङ्गी च आम्रपालिका च तद् यथा सो पि महाजनकायो भगवन्तं प्रत्युद्गता यावद् गङ्गाया तीर्थं //

___भगवां गंगाये पारिमे कूले राज्ञो श्रेणियस्य बिम्बिसारस्य मागधकानां ब्राह्मणकानां धर्मया कथया संदर्शयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा मागधकानां ब्राह्मणकानां चतूरशीति सहस्राणि धर्माभिसमये प्रतिष्ठापेत्वा येन वैशालका लेच्छवयो

[_mvu_1.262_] तेन विलोकेत्वा भिक्षूणां आमन्त्रेति // भिक्षवो न दृष्टपूर्वा देवा त्रायस्त्रिंशाः सुदर्शनातो नगरातो उद्यानभूमिम् अभिनिष्क्रमन्ता // ते एतरहि वैशालका लेच्छवयो पश्यथ // तत् कस्य हेतोः // तादृशाये च भिक्षवो ऋद्धिये देवा त्रायस्त्रिंशा सुदर्शनातो नगरातो उद्यानभूमिम् अभिनिष्क्रमन्ति //

स्फीतानि राज्यानि प्रशाम्यमाना सम्यक्* राज्यानि करोन्ति ज्ञातयो / तथा इमे लेच्छविमध्ये सन्तो देवेहि शास्ता उपमाम् अकासि //

त्रायस्त्रिंशा ये हि न दृष्टपूर्वा उद्यानभूमिं अभिनिष्क्रमन्ता / एतादृशी समिति अभूषि तेषां यथा इयं समृद्धि लेच्छवीनां //

सुवर्णच्छत्रेहि च कुंजरेहि शिविकाहि सौवर्णमयीहि चान्ये / रथेहि सौवर्णमयेहि चान्ये प्रत्युद्गमं लेच्छविनो करोन्ति //

सर्वे समेत्वा सह ज्ञातिबन्धवो दहरा च मध्या च महल्लका च / अलंकृता लक्तकरक्तवस्त्रा प्रत्युद्गता ते च विचित्रचारी //

तहिं दानि गंगायां राज्ञो श्रेणियस्य बिम्बिसारस्य नावासंक्रमं अभ्यन्तरवैशालकानां

[_mvu_1.263_] नावासंक्रमं बाहिरवैशालकानां नावासंक्रमं गांगेयेहि नागेहि कम्बलाश्वतरेहि नावासंक्रमो कृतो // भगवान् अस्मदीयेन उत्तरिष्यतीति //

___शुकेन गोशृंगीये वचनेन सश्रावकसंघो शुवेतनाय भक्तेन उपनिमन्त्रितो तस्य च भगवता तूष्णीभावेनाधिवासितं // तेन शुकेन भगवतस् तूष्णीभावेनाधिवासना बुद्धाबुभावेन विज्ञाता // सो भगवतः पादा शिरसा वन्दित्वा भगवन्तं भिक्षुसंघं च प्रदक्षिणीकृत्वा प्रत्यागतो // येन गोशृंगी भगवती तेनोपसंक्रमित्वा आह // निमन्त्रितो सो भगवां तथागतो ऽर्हं सम्यक्संबुद्धो सश्रावकसंघो शुवेतनाये भक्तेन त्वद् वचनेन अधिवासितं तेन भगवता तूष्णीभावेन //

___भगवां नावासंक्रमे आरूढो // राजा श्रेणियो बिम्बिसारो स्वके नावासंक्रमे भगवन्तं पश्यति // अभ्यन्तरवैशालका च स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघं // बाहिरवैशालका स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघं // कम्बलाश्वतरा पि गांगेयमहानागा स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघं // तरमाणं तेहि कम्बलाश्वतरेहि गांगेयकेहि राज्ञो श्रेणियस्य बिम्बिसारस्य पंच च्छत्रशतानि दृष्ट्वा वैशालकानां पि पंच च्छत्रशता दृष्ट्वा तेहि भगवतो तरन्तस्य पंच च्छत्रशतानि प्रगृहीतानि / यक्षेहि पि पंच च्छत्रशतानि प्रगृहीतानि / चातुर्महाराजकेहि पि पंच च्छत्रशतानि प्रगृहीतानि / सुनिर्मितेनापि देवपुत्रेण ततो विशिष्टतरं छत्रं प्रगृहीतं / परनिर्मितवशवर्तिहि पि चतुर्हि पि महाराजेहि पंच च्छत्रशतानि प्रगृहीतानि / त्रायस्त्रिंशेहि पि देवेहि पंच च्छत्रशतानि प्रगृहीता / शक्रेणापि देवानाम् इन्द्रेण च्छत्रं प्रगृहीतं / सुयामेन अपि देवपुत्रेण च्छत्रं प्रगृहीतं / तुषितेहि देवेहि पंच च्छत्रशता प्रगृहीता / संतुषितेन देवपुत्रेण ततो विशिष्टतरं छत्रं प्रगृहीतं / ब्रह्मकायिकेहि देवेहि पंच च्छत्रशतानि प्रगृहीतानि / महाब्रह्मणापि ततो विशिष्टतरं

[_mvu_1.264_] छत्रं प्रगृहीतं / शुद्धावासेहि देवेहि भगवतो गंगाये तरन्तस्य च्छत्रपंचशतानि प्रगृहीटानि / महेश्वरेणापि देवपुत्रेण च्छत्रं प्रगृहीतं भगवतो गंगाये तरन्तस्य // केन तानि सर्वाणि देवमनुष्यकाणि च्छत्रसहस्राणि समभिभूतानि //

आह्निककर्मिकपार्थिवराजान वंशनिर्वृत्तार्हन्ति / अर्हति च महाभागो स एष पुरुषर्षभो छत्रं //

ये बाहिरा जयित्वा रिपुसंघा अश्नन्ति अजितराज्या / . . . . . . . संपन्ना ते पि नरा छत्रम् अर्हन्ति //

किं पुन येन समन्ता सर्वक्लेशा जिता निरवशेषा / अपि च नमुचि ससैन्यो न तु च्छत्रशतारहो भगवां //

तारकतरलप्रकाशान्तारकरूपानप्रतिभासां / वैडूर्यरतनदण्डां च्छत्रशतां पंच आदाय //

राजा बिम्बिसारो अण्वति पृष्ठतो दशबलस्य / संप्रस्थितो च भगवां वज्जि अभिमुखो सह गणेन //

नावाय समभिरूढो भगवां भवति भवौघं उत्तीर्णो / पारे च लेच्छविगणाः छत्रशतां पंच धारेन्सुः //

अथ पश्यिया महीपतिं महामहीधरमहाबलनिकेता / नागा पि गंगनिलया छत्रशता पंच धारेन्सुः //

ऋद्धिमन्तो द्युतिमन्तो धरणिपथगता महाबलनिकेता / यक्षा पि तत्र असुरा मुदिता छत्रशता पंच धारेन्सु //

आगलितमाल्यमुक्ता उडुपतिपरिपूर्णचारुचन्द्रमुखा /

[_mvu_1.265_] देवा पि तत्र मुदिता छत्रशतां पंच धारेन्सुः //

चतुरो पि लोकपाला प्रमुदितमनसा विगतमदनमाना / नटकरजविधमनकरा धारेन्सु धरणिधरसमस्य //

अथ सो त्रिदशाधिपतिः कांचनमणिरत्नसुकृतवरजालं / रक्तकुसुमसुकृतदामं छत्रं जगाग्रस्य धारेसि //

यमवरुणनागवन्दितं यामाधिपतिं उपेत्य वसुयामा / शरदजलाभ्रपाण्डरं धारयि घनपवनगतिस्य //

तुषितभवनाधिवासी पुन भगवतो उपगतो अप्रमोहो / संवर्तितखरसमवपु धारयि च्छत्रं प्रसन्नमनो //

वैडूर्यसुकृतदण्डं प्रावाडदशशतशलाकाचित्रं / फुल्लकुसुमास्थिततलं सुनिर्मितो धारये छत्रं //

परनिर्मितवशवर्ती निर्मिणे वरकनकभारसंछन्नं / रत्नहारलम्बदामं छत्रं त्रैलोक्यकीर्तिस्य //

ब्रह्मा प्रसन्नमनसो पवनपथविशुद्धहृदयस्य / धारेसि चन्द्रसन्निभं छत्रं परवादिमथनस्य //

सप्तरतनामयं पुन दिव्यकुसुमामयं दाममण्डितं / छत्रं छत्रारहस्य महेश्वरो धारये छत्रं //

इत्य् एष सुराधिपेन कामावचरो संघो सन्निपतितो / महा अभु महेश्वरेण अतुलबलधरस्य पूजार्थं //

[_mvu_1.266_] भगवता यत्तकानि तानि च्छत्राणि तत्तका बुद्धा निर्मिता // ते अन्यमन्यस्य न पश्यन्ति भगवन्तं // तेषां प्रत्येकं प्रत्येकं एतद् अभूषि // मम येव च्छत्रे नाथो तिष्ठति सुगतो तिष्ठति ध्वजो तिष्ठति // देवा च मनुष्या च याव अकनिष्ठभवनं पश्यन्ति बुद्धानुभावेन //

अथ भगवां पुरुषचन्द्रो तान् अभिनिर्मिणे संबुद्धान् ऋद्धिं / भगवां विदर्शये न च अन्यमन्यस्य पश्यन्ति //

अकनिष्ठभवनगता तु दशबलबुद्धा अम्बरं प्रसदनियं //

शोभेन्ति गगणतलगता यूपम् इव यथा रतनचित्रं //

सर्वे सुवर्णवर्णा सर्वे द्वात्रिंशलक्षणसमंगी / सर्वे कनकगिरिनिभाः सर्वे वरवारणगतीकाः //

सर्वे मनापाकाराः सर्वेषां शोभते प्रभाजालं / सर्वे अमितगुणधराः सर्वे प्रामोद्यसंजननाः //

दृष्ट्वान देवमनुजा गगनतलं शोभन्तं दशबलेहि / अत्i-r-iva उद्विल्यहर्षा हाहाकारं उदीरेन्सुः //

आस्फोटितप्रक्ष्वेडितकलकलसमाकुला अभिवर्तन्ति / मुंचेन्सुः अम्बरगता वरचूर्णरजाकुलं सुरभिं //

तं भगवतस् तादृशं बुद्धविकुर्वितं ऋद्धिप्रातिहार्यं दृष्ट्वा अतीव देवा भगवतः पूजां करेन्सुः मान्दारवेहि महामान्दारवेहि कर्कारवेहि महाकर्कारवेहि रोचमानेहि

[_mvu_1.267_] महारोचमानेहि भीष्मेहि महाभीष्मेहि समन्तगन्धेहि महासमन्तगन्धेहि पारियात्रकपुष्पेहि सुवर्णपुष्पेहि रूप्यपुष्पेहि रजतपुष्पेहि चन्दनचूर्णेहि अगरुचूर्णेहि केशरचूर्णेहि भगवन्तम् ओकिरेन्सु अभ्योकिरेन्सु समन्तात् षष्टि योजनां दिव्येहि च गन्धचूर्णेहि जानुमात्रमोघो संवृत्तो // भिक्षु भगवन्तम् आहन्सुः // किम् अयं भगवन् देवानुभावो नागानुभावो यक्षानुभावो येन इमानि दानि च्छत्रसहस्राणि देवेहि च नागेहि च राजानेहि च प्रगृहीतानि // भगवान् आह // तथागतस्यैष भिक्षवः पौराणस्य कुशलधर्मस्य अनुभावो // यदि तथागतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो न भविष्यति संसारे संसरन्तो भगवन्तो यत्तका एतानि च्छत्राणि तत्तकानि चक्रवर्तिराज्यानि कारयिष्येत्* // अथ च पुनस् तथागतस्य सर्वपुण्यपापक्षयतो परिनिर्वाणं भविष्यति //

___भगवान् दानि आयुष्मन्तं वगीशम् आमन्त्रेसि // प्रतिभातु ते वागीश तथागतस्य पूर्वयोगो // साधु भगवन् आयुष्मां वागीशो भगवतः प्रतिश्रुत्वा ताये वेलाये इमां गाथां बभाषे //

अभूच् छास्ता अतीतस्मिं ब्राह्मणो अकुतोभयो / प्रहीणजाति ब्राह्मणो ब्रह्मचर्यस्मिं केवली //

सत्वां दुःखितां दृष्ट्वान दुःखधर्मसमर्पितां / धर्मचक्रं प्रवर्तेसि आभां कासि अनुत्तरां //

धर्मचक्रं प्रवर्तित्वा आभां कृत्वा अनुत्तरां / संबुद्धो परिनिर्वायेत्* महर्षिः क्षीणपुनर्भवो //

तस्य स्तूपम् अकरेन्सुः श्रावका अकुतोभया / शैक्षा उत्तमा दान्ताश् च अकरेन्सु कीर्तिहेतवे //

क्षत्रियब्राह्मणवैश्या पूजां कासि महर्षिणो /

[_mvu_1.268_] नृत्यवादित्रगीतेन नानामाल्यसमागता //

ब्राह्मणो पि विचिन्तेति पिता बुद्धस्य पण्डितो / यं नूनं छत्रं कारेयं रत्नाकृतं शुभपाण्डरं //

विमलं छत्रं स्तूपस्मिं अधिरोपिय संचिते / अश्रूणि च प्रवर्तेन्तो पिता पुत्रम् अपूजयि //

सो तं कर्म करित्वान कल्याणं बुद्धवर्णितं / ब्राह्मणो अकरि कालं जातानाम् एव धर्मता //

संवर्ताञ् च विवर्ताञ् च अशीतिन् तेन कर्मणा / दुर्गतिं नोपलभते एतच् च्छत्रस्य तत्फलं //

मनुष्येषु तदा राज्यं धर्मेण अनुशासयं / पृथिव्यां चक्रवर्त्य् आसि विजितावी महाबलो //

चित्रा जनपदा आसि अनुयात्रासि क्षत्रिये / तम् एव अपचायेसि श्वेतच्छत्रं ददत् सुखं //

ततो चापि च्यवित्वान देवेषु उपपद्यिथ / मरूणां प्रवरो आसि देवकायान पूजितो //

पूजितो मरुसंघानाम् ऐश्वर्यकम्बलस्थितो / वसन्त ऽत्रापि वर्तेसि श्वेतच्छत्रस्य तत्फलं //

देवानाम् उत्तमो आसि मनुष्याणां पि उत्तमो / सर्वत्र उत्तमो आसि देवानां मनुजान च //

देवानाम् उत्तमः भूत्वा मनुष्याणां च उत्तमो / तं भवञ् च विजहित्वान आगत्वा पश्चिमं भवं /

[_mvu_1.269_] संबुद्धो पि प्रजायासि ऋषि क्षीणपुनर्भवो //

सो तं मार्गं वाभिज्ञाये दुःखप्रशमगामिनं / यस्य मार्गस्य प्रतिलाभा दुःखस्यान्तं करीयति //

तं चात्र अतीता बुद्धा तं च वीरो प्रतापवां / सर्वे समशीलप्रज्ञा नास्ति बुद्धान अन्तरं //

ये च ते हि काले काले संबुद्धा नात्र संशयं / सर्वे ते सुगतिं यान्ति आत्मकर्मफलोपगाः //

चक्षुमां ब्राह्मणो आसि अन्तेवासिश् च ते अहं / त्वयाहं चोदितो वीर पूर्वां जातिम् अनुस्मरेत्* //

एवम् एव एतद् आसि यथा भाषसि वागीश / ब्राह्मणो हं तदा आसि अन्तेवासि च मे भवं //

मया त्वं चोदितः सन्तो पूर्वां जातिम् अनुस्मरेत्* / तस्मा ध्वजपताकां च श्वेतच्छत्रं च कारयेत्* //

वेदिकां चैव स्तूपेषु कुर्यात् पंचांगुलानि च / साधु पुण्यवरं विपुलं दायकम् अधिवर्तति //

एषा चान्या च या पूजा बुद्धम् उद्दिश्य क्रियते / सर्वा अबन्ध्या सफला भवति अमृतोपगा //

न हि अर्चनां समां लोके पश्यामि विशिष्टतरां कुतो / यं च अन्यं पूजयन्तो पुण्यं यासि महत्तरं //

सचे कोci-m-asmiं लोकस्मिं सर्वा पि देवता सदा /

[_mvu_1.270_] पूजेय सर्वरतनैः नैवं से प्रतिकृतं सिया //

एवं महायशा महाकारुणिका अनुकम्पाहितामिता / ओदुम्बरम् इव कुसुमं न हि सुलभदर्शना संबुद्धाः //

अथ ये मे भणन्ति वर्णं समाधितो च शीलतो च प्रज्ञातो च अधिगमनतो च निष्क्रमणतो च प्रयोगतो च जात्यतो च भूततो च भवन्ति महेशाख्या च कृतपुण्या तासु तासु जातीषु आदेयवचना च भवन्ति कीर्तनीया च बहुजनस्य //

तेनैव कुशलमूलेनारोपितेन उत्तरिं / प्रावरणं अल्पकिसरं तेषां भवति कायिकं //

तस्मात् पुण्यानि कुरियात्* निचयं सांपरायिकं / पुण्यानि परलोकस्मिं निष्ठा भवति प्राणिनां //

भगवां गंगाम् उत्तीर्णो वैशालीये च सीमाम् आक्रान्तो // भगवता ते अमनुष्यका पलाना // मारेण पापीमता भगवतो गच्छन्तस्य यत् तं लेच्छवीहि मार्गं मुक्तपुष्पावकीर्णं सिक्तसंमृष्टं प्रतिजाग्रितं तं सर्वं प्राणकेहि स्फुटं // निर्मितो कुण्डलो नाम परिव्राजको // सो भगवतो तेन मार्गेण गच्छन्तस्य आह // निवर्ताहि //

बहूहि प्राणेहि मही संवृता अणूहि स्थूलेहि च मध्येहि च / बुद्धो यदा गच्छति भूतसंस्तृते व्यथा ततो उपपद्यति आक्रमे //

[_mvu_1.271_] भगवान् आह //

मृदु संस्पर्शः यो तथागतानां तूर्णं यथा ओतरितमारुतानां / न हि बुद्धश्रेष्ठान तथागतानां शरीरम् आगम्य वधो प्रजायति //

भयचेतना नास्ति विहेष्ठना वा प्राणेषु सो गच्छति अप्रतिघो भगवान्* / सर्वेहि भूतेहि निवापषण्डं भगवता हरितशाद्वलं निर्मितं //

भगवां उपविष्टो भिक्षुसंघो च // ते लेच्छवयो भगवन्तं पृच्छन्ति // कस्य भगवता शुवे आगारम् अधिवासितं अभ्यन्तरवैशालकानां बाहिरवैशालकानां वा // भगवान् आह // न हि वासिष्ठाहो अभ्यन्तरवैशालकानां तथागतेनाधिवासितं न बाहिरवैशालकानां // गोशृंगीये मनुष्यालापिको शुको प्रेषितो गंगाये पारं / तेन तथागतो सश्रावकसंघो गोशृंगीये वचनेन शुवेतनाय भक्तेन उपनिमन्त्रितो // तथागतेनाधिवासितं // ते दानि लेच्छवयो अभ्यन्तरवैशालका च दुवेचतुरशीति राजान सहस्राणि अन्यो च महाजनकायो क्षत्रियमहाशाला गृहपतिमहाशाला विस्मयसम्पन्नाः कथं शुको जल्पतीति // भगवान् आह // किम् अत्राश्चर्यं गोशृंगीये शुको जल्पति मानुषिकाय वाचाय / अन्येहि पि वासिष्ठाहो पक्षिभूतेहि राज्यं व्यवहरितं //

___भूतपूर्वं वासिष्ठाहो अतीतम् अध्वाने नगरे वाराणसी काशिजनपदे ब्रह्मदत्तो नाम राजा राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो / तस्य च राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च बहुजनमनुष्याकीर्णं

[_mvu_1.272_] च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसम्पन्नं // विस्तीर्णो च अन्तःपुरो अपुत्रो च // तस्य राज्ञो भवति // कथं मे पुत्रो भवेया // स शृणोति अमात्यानां // अनुहिमवन्ते आश्रमे ऋषयो महानुभावा प्रतिवसन्ति पंचाभिज्ञा चतुर्ध्यानलाभिनो ते पृच्छितव्या कथं पुत्रो भवेय // ते महानुभावा ऋषयो आचिक्षिष्यन्ति यथा देवस्य पुत्रो भविष्यति // सो दानि राजा सान्तःपुरो सकुमारामात्यो सबलवाहनो येन तेषाम् ऋषीणाम् आश्रमस् तेन संप्रस्थितो // अन्तरमार्गे वासम् उपगतो राजा सबलवाहनो सान्तःपुरो // तेन तहिं दृष्टा साम्बलीकोटरातो त्रयो पक्षियो निर्यान्तायो उलूकी शारिका शुकी // तस्य दानि राज्ञो दृष्ट्वा कौतूहलं संजातं // तेन पुरुषो आणत्तो गच्छ जानाहि किम् अत्र कोटरे // सो आरुह्य निध्यायति पश्यति त्रीणि अण्डकानि // सो आह // देव त्रीणि अण्डकानि // राजा आह // पृथक् पृथक् पुटके बन्धिय ओतारेहि यथा न विपद्यन्ते // तेन पुरुषेण पुटकस्मिं पृथक् पृथग् बन्धिय ओतारिता अविपन्नाः // अमात्या पृच्छीयन्ति // कस्येमानि अण्डकानि // अमात्या आहुः // एतेषां खु शाकुन्तिका पृच्छीयन्ति/ एतेषाम् अत्र विषयो // शाकुन्तिका शब्दापिता // शाकुन्तिका राज्ञा पृच्छीयन्ति // राजा आह // भो भणे जानाथ कस्य इमान्य् अण्डकानि // ते तत्र चरिता शाकुन्तिकाः सर्वेषां पक्षीजातीनां अण्डकानां विधिज्ञा पक्षिणां पि विधिज्ञा यो यादृशो पक्षीति // ते आहन्सु // महाराज इमानि त्रीण्य् अण्डकानि एकम् उलूकीये द्वितीयं शारिकाये तृतीये शुकीये // राजा आह // किं भव्यान्य् एतानि अण्डकानि अभिनिर्भेदाय // ते आहन्सुः // भव्यानि महाराज ओतारितानि

[_mvu_1.273_] अविपन्नानि // राजा पृच्छति // को एतेषाम् अण्डकानाम् उपचारो यथैते उपचीर्णा विद्येन्सुः स्वस्तिना च अभिनिर्भेदं गच्छन्ति // शाकुन्तिका आहन्सुः // महाराज विहतं कार्पासं उभयत्राश्रये संस्तरितव्यं // तत्र एतानि अण्डकानि मधुसर्पिषा म्रक्षित्वा निक्षिप्तव्यानि उपरि विहतं कार्पासं तम् एते मातृकार्थं पोषिष्यति // यथा तेहि शाकुन्तिकेहि आणत्तं तथा तानि अण्डकानि निक्षिप्तानि // राजा तं ऋषीणाम् आश्रमम् अनुपूर्वेणानुप्राप्तो // एकान्तेन बलवाहनं स्थापयित्वा सान्तःपुरो ऋषीणाम् आश्रमम् उपसंक्रान्तो // ऋषयो राजानं दृष्ट्वा प्रत्युद्गताः यथा ऋषीणां समुदाचारो // स्वागतं महाराज अनुरागतं महाराज निषीदतु महाराजा इमान्य् आसनानि // राजा सान्तःपुरो ऋषीणां पादा वन्दित्वा निषण्णो // ऋषीणां महत्तरको कुलपती // सो तं राजानं प्रतिसंमोदेत्वा पृच्छति // किं महाराज आत्मनो प्रयोजनं ऋषीणां सकाशातो // राजा आह // मम विस्तीर्णो अन्तःपुरो न कस्याचित् पुत्रो अपुत्रो स्मि यं इच्छामि संदिश्यतु यथा मे पुत्रो भवेय // ऋषीणां महत्तरको आह // महाराज यानि तानि त्रीणि अण्डकानि अमुकातो शाम्बलीकोटरतो ओतारितानि तानि वेष्टावेहि ततो ते पुत्रा भविष्यन्ति // राजा विस्मितो // महाभागा इमे ऋषयो यन् तं नाम यं इमानि अमुकातो शाम्बलीकोटरातो त्रीणि अण्डकानि ओतारापितानि इमेषाम् इह आश्रमे प्रतिवसन्तानां विदितं // महाभागा इमे ऋषयो // सो ऋषीणां पादा वन्दित्वा भूयो वाराणसीं संप्रस्थितो / अनुपूर्वेण वाराणसीं प्रविष्टो // तानि अण्डकानि कालेन समयेन सर्वाणि त्रीणि प्रभिन्नानि //

[_mvu_1.274_] एकतो उलूकपोतको जातो द्वितीयातो शारिकपोतको जातो तृतीयातो शुकपोतको जातो // राजाणत्तीये उन्नीयन्ति वर्धीयन्ति // यत्र वेलाये संवृद्धा सर्वे त्रयो पण्डिता मेघाविनो मनुष्यालापिनो मनुजाये वाचाये आलापसंलापं करोन्ति परस्परं // सो दानि राजा ब्रह्मदत्तो तेषां बुद्धिबलं ज्ञात्वा पृथक् पृथक्* राजधर्मं पृच्छति // ते च ज्ञात्वा व्याकरोन्ति // तेषां व्याकरणं श्रुत्वा सर्वेषां त्रयाणां राजा ब्रह्मदत्तो प्रीतो संवृत्तो //

वाराणस्याम् अभूद् राजा ब्रह्मदत्तो प्रतापवान्* / तस्य राज्ञो अभूत् पुत्रा सकुना त्रीणि पण्डिताः //

प्रथमो कौशिको आसि द्वितीयो आसि शारिको / तृतीयो च शुको आसि सर्वे पण्डितजातिकाः //

तेषां बुद्धिबलं ज्ञात्वा तुष्टो राजा जनाधिपः / राजधर्माणि पृच्छेयं सर्वां प्रत्येकशो रहे //

कौशिकं ताव पृच्छामि शकुन्त भद्रम् अस्तु ते / राज्यं प्रशासमानस्य किं कृत्यं पुत्र मन्यसे //

कौशिको आह //

चिरस्य वत मां तातो राजधर्माणि पृच्छति / हन्त ते हं प्रवक्ष्यामि एकाग्रमनसो शृणु //

न क्रोधस्य वसं गच्छे स तु क्रोधं निवारयेत्* / न हि क्रुद्धस्य अर्थो वा धर्मो वाक्रमति पार्थिव //

अक्रुद्धस्य हि राजस्य अर्थो धर्मो जनाधिप / प्रज्ञाक्रमति सर्वत्र तस्मा क्रोधं निवारयेत्* //

[_mvu_1.275_] ततो विवादे उत्पन्ने उभौ पक्षौ समाहितः / उभाभ्यां वचनं श्रुत्वा यथाधर्मं समाचरेत्* //

मा च च्छन्दा च दोषा च भया मोहा च पार्थिव / उभाभ्यां वचनं श्रुत्वा यथाधर्मं समाचरेत्* //

न च गच्छति सो हानिं पण्डितो हि अर्थकारणात्* / यशकीर्तिञ् च रक्षन्तो स्वर्गं मार्गेति पार्थिव //

ततो अधर्मं वर्जेत्वा राजधर्मेहि पार्थिव / अनुशास महीपाल एवं तत्र गमिष्यसि //

रञ्जनीयेषु कामेषु मातिवेलं प्रमोद्यहि / प्रमत्तस्य हि कामेहि परशत्रु बलीयति //

ततो नगरवृत्तानि सर्वाणि अनुवर्तये / अथ जानपदवृत्तं धर्मेण अनुवर्तयेत्* //

पौरजानपदं राष्ट्रं गुणेहि अभिधारयेत्* / भोगद्रव्यप्रदानेन कृत्यानां करणेन च //

ततः परिजनं सर्वं वट्टेन अभिधारयेत्* / भोगद्रव्यप्रदानेन अभेद्यपुरुषो भवे //

अनुरक्तं विरक्तं च सर्वं जानेसि पार्थिव / बलाग्रे उपजीविषु पौरजानपदेषु च //

प्रत्यवेक्षित्वा कर्मान्ता भूतां हर्षाणि दापयेत्* / सर्वेषु हिंसां वर्जेत्वा धर्मेण फलम् आदिशेत्* //

यथा पूर्वकेहि राजेहि आगतां जनतां बहुं / यथा राष्ट्रं निवेशेय तथा कुरुहि पार्थिव //

अनुग्रहं च दीनानां आढ्यानां परिपालनं /

[_mvu_1.276_] सदा विजितवासीनां करोहि मनुजाधिप //

धनक्रीडारतो राजा परदारनिरतस् सदा / राष्ट्रस्य अप्रियो भवति क्षिप्रं जहति जीवितं //

अलुब्धो पुनर् मेधावी परदारविरतः सदा / राष्ट्रस्य प्रियो भवति सुचिरं तात जीवति //

वैरबन्धं च मा कुर्या पाटिराजेहि पार्थिव / यो वैरी हि महीपाल वैरम् अर्पेन्ति वैरिणः //

मित्रबन्धं च कुर्यासि पाटिराजेहि पार्थिव / दृढमित्रां हि राजानो पूजेन्ति अपरा प्रजा //

प्रकीर्णोच्चारणो मासि सर्वार्थेहि जनाधिप / हेतुकारणसंयुक्तं मन्त्रं कालेन व्याहरे //

गुह्यम् अर्थं च धारेहि सदा वारेहि पार्थिव / भिन्नमन्त्रा हि राजेन्द्रा अनुभोन्ति व्यसनं बहुं //

गुह्यम् अर्थं धारयित्वा लभते विपुलां शिरिं / न चामित्रवसम् एति पश्चाच् च नानुतप्यति //

ये ऽमुढमन्त्रा अविकीर्णवाचा युक्ताश् च कार्यार्थे जना नरेन्द्र / न तेषु शत्रू जनयन्ति क्रोधं मणिविषाणां यथा शतघ्नीयो //

गुह्यकम् अर्थसंबन्धं संधारयति यो नरः /

[_mvu_1.277_] सत्रु भेदभयात् तस्य दासभूतो च वर्तति //

धर्मस्थितेषु आरक्षां सदा कुर्यासि पार्थिव / बलचक्रं हि निश्राय धर्मचक्रं प्रवर्तते //

धर्मस्थितानां तेजेन सर्वा शाम्यन्ति ईतयो / समयेन वर्षन्ति देवा शस्यं निवर्तते तहिं //

दृष्टधर्मे हितार्थं च संपराये सुखानि च / एवं भोति महाराज गुणवन्तेषु यत् कृतं //

तस्मात् तं परिरक्षेया राजा धर्मेण पार्थिव / तं हि राज हितं तुह्यं राष्ट्रस्यापि च तं हितं //

समीक्षाकारी अस्या हि सर्वार्थेहि जनाधिप / कोष्ठागारे च कोष्ठे च अप्रमत्तश् च संभव //

एतावती अर्थवती एषा मह्यानुशासनी / तं सर्वम् ओगृहीत्वान एवं कुरुहि पार्थिव //

एवं ते प्रतिपन्नस्य यशो कीर्तिश् च भेष्यति / क्षेमं भविष्यते राष्ट्रं ऋद्धं स्फीतं जनाकुलं //

कौशिकस्य श्रुत्वा वाक्यं श्रेष्ठं धर्मार्थसंहितं / तथा शारिकं पृच्छामि राजधर्मा ब्रवीहि मे //

सारिकपोतो आह //

चिरस्य वत मां तात राजधर्माणि पृच्छसि / हन्त ते हं प्रवक्ष्यामि एकाग्रमनसो शृणु //

द्विभिस् तु पादकैस् तात अत्र लोकः प्रतिष्ठितः / अलब्धलाभो अर्थस्य लब्धस्य परिरक्षणं //

तस्माद् अर्थस्य लाभार्थं लब्धस्य परिरक्षणे /

[_mvu_1.278_] दृढं कुर्यासि व्यायामं धर्मेण मनुजाधिप //

यो वै भूमिपतिर् देव अधर्मेणानुशासति / राष्ट्रं स्य दुब्बलं भोति च्छिद्रभूतं समन्ततः //

यो च भूमिपतिर् देव धर्मेणानुशासति / राष्ट्रं स्य स्थावरं भवति ऋद्धं स्फीतं जनाकुलं //

निगृह्णे निगृहीतव्यं प्रग्रहार्हां च प्रगृह्णे / संगृह्णे संगृहीतव्यां अनुग्रहरुचिर् भव //

यो निग्रहं न जानाति प्रग्रहं वा जनाधिपः / संग्रहानुग्रहं चापि सो अर्था परिहायति //

पुत्रांश् च भ्रातरां चापि शुरां साहसिकां छवां / मा त्वन् ते ईश्वरां कासि ग्रामे जनपदेषु वा //

अनुग्रहं कुर्या भूपो मातापितार्थं पार्थिव / विमानिता हि दायद्या उद्भ्रान्ता भोन्ति शत्रवः //

पंच राष्ट्रा भवे राज्यं कुटिलशत्रुसेवितं / मा तां च विश्वसे तत्र मा च प्रतिपद्ये उत्पथे //

उत्पथे च प्रतिपन्नो क्षत्रियो च वसानुगो / अमित्राणां वसम् एति पश्चाच् च अनुतप्यति //

आत्मना बललाभार्थं अमित्राणां पि निग्रहे / राष्ट्रस्य अनुकम्पार्थं संतुलेहि जनाधिप //

समीक्षियान कथय रात्रौ वा यदि वा दिवा / उपश्रोता हि तिष्ठन्ति ते श्रुत्वा विकरेन्सु ते //

[_mvu_1.279_] शूरो व्यावर्त्यते क्षिप्रं आढ्यः संगृह्णते बलं / अर्थवशी मन्त्रबली कुपितो करे ऽर्थं न ते //

तस्माद् अर्थवसं विप्रं सपुत्रदारं प्रवासयेत्* / आढ्यं मन्त्रवरं वैश्यं तनुं वापि शठंशठं //

अमात्यं देव कुर्यासि पण्डितम् अर्थचिन्तकं / अलुब्धम् अनुरक्तं च राष्ट्रस्य परिणायकं //

दुष्प्रज्ञानाम् अमात्यानां प्रज्ञाविकल्पकारिणां / राष्ट्राणि दुःखम् एधन्ति राष्ट्राधिपतिना सह //

पण्डितानाम् अमात्यानां प्रज्ञातेजेन पार्थिव / राष्ट्राणि सुखम् एधन्ति राष्ट्राधिपतिना सह //

लुब्धो च अल्पबुद्धी च अमात्यो मनुजाधिप / नैव राज्ञो हितो भोति राष्ट्रस्यापि न सो हितः //

तस्माद् अलुब्धमेधाविं अमात्यं मनुजाधिप / मन्त्रस्यानुयुक्तं कुर्या राष्ट्रस्य परिणायकं //

नास्ति चारसमं चक्षुः नास्ति चारसमो नायो / तस्माच् चारं प्रयोजेय्या सर्वार्थेषु जनाधिपः //

सर्वं परिजनं राष्ट्रं संपरिगृह्ण पार्थिव / बलाग्रम् उपजीविञ् च कृत्याकृत्येहि पार्थिव //

तस्माद् धीरं प्रतीहारं प्रतिपद्यासि पार्थिव / अप्रमादं स कुर्या च तवम् एतत् सुखावहं //

एतावती अर्थवती एषा मह्यानुशासनी /

[_mvu_1.280_] तं सर्वम् ओग्रहेत्वान एवं कुरुहि पार्थिव //

एवन् ते प्रतिपन्नस्य यशो कीर्तिश् च भेष्यति / क्षेमं भविष्यति राष्ट्रं ऋद्धं स्फीतं जनाकुलं //

कौशिको चापि पृच्छितो ते पृष्टा व्याकरेन्सु मे / राजधर्मं यथातथा त्वं दानि शुक पृच्छसि //

बलं कतिविधं राज्ञो पण्डित अर्थचिन्तक / राजधर्मं यथातथा इच्छितव्यं ब्रवीहि मे //

शुको आह //

बलं पंचविधं राज्ञः इच्छितव्यं नराधिप / एकाग्रमनसो भूत्वा शृणोहि वचनं मम //

प्रथमं बलं सहजं द्वितीयं पुत्रबलं तथा / ज्ञातिमित्रबलं चापि तृतीयं मनुजाधिप //

चतुरंगबलं चापि चतुर्थं भवति पार्थिव / पंचमं च बलं क्रुहि प्रज्ञाबलम् अनुत्तरं //

एतं बलं पंचविधं यस्य चापि जनाधिप / राष्ट्रो ऽस्य स्थावरो भोति ऋद्धं स्फीतं जनाकुलो //

बलवं पुनर् एतेषां प्रज्ञाबलम् अनुत्तम / प्रज्ञाबलेन संग्रहे कृत्याकृत्यं जनाधिप //

अकृत्यं परिवर्जेति कृत्यं च अनुतिष्ठति / आत्मनो ज्ञातिमित्राणां राष्ट्रस्य च सुखावहं //

कुलीनो ऽपि हि दुष्प्रज्ञो राजार्थे मनुजाधिप / नैव राज्ञो हितो भोति राष्ट्रस्यापि न सो प्रियः //

[_mvu_1.281_] क्षिप्रं तु नश्यते राज्यं प्रतिराजेहि पार्थिव / विरक्ता प्रकृतियो च अन्यं मार्गन्ति स्वामिकं //

अतीव सत्कृतो भवति पण्डितो अर्थचिन्तकः / वरान्यो च स्थापयति शूरां वीरां विचक्षणां //

यशं च इह लोकस्मिं संपराये च स्वर्गति / अधर्मं परिवर्जेत्वा धर्मम् आचरते सदा //

धर्मं चर महाराज मातापितृषु पार्थिव / इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति //

धर्मं चर महाराज पुत्रदारे जनाधिप / इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति //

धर्मं चर महाराज मित्रामात्ये जनाधिप / इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति //

धर्मं चर महाराज श्रमणे ब्राह्मणे तथा / इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति / धर्मं चर महाराज पुरे जानपदेषु च //

इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति //

धर्मं चर महाराज अस्मिं लोके परत्र च / इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति //

एतावती अर्थवती एषा मह्यानुशासनी / तं सर्वम् ओग्रहीत्वान एवं कुरुहि पार्थिव //

एवन् ते प्रतिपन्नस्य यशो कीर्ति च भेष्यति / क्षेमं भविष्यते राष्ट्रं ऋद्धं स्फीतं जनाकुलं //

तान् एवम् उवाच राजा ब्रह्मदत्तो प्रतापवान्* /

[_mvu_1.282_] समन्तपण्डिता पुत्रा निपुणा अर्थचिन्तका //

सर्वेषां वो करिष्यामि वचनम् अनुशासनीं / दृष्टो धार्मिकथया वो अर्थो यं सांपरायिकः //

पूर्वेनिवासं भगवां पूर्वेजातिम् अनुस्मरन्* / जातकम् इदम् आख्यासि शास्ता भिक्षूणम् अन्तिके //

अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा / शुको अहं तद आसि शारिपुत्रो च सारिको //

आनन्दो कौशिको आसि ब्रह्मदत्तो शुद्धोदनो / एवम् इदम् अपरिमितं बहुदुःखं उच्चनीचं चरितं पुराणं / विगतज्वरो विगतभयो अशोको स्वजातकं भगवां भाषति भिक्षुसंघमध्ये //

_____इति श्रीमहावस्तु-अवदाने त्रिशकुनीयं नाम जातकं समाप्तं //

अथ बोधिसत्वस् तं शुकभवं जहित्वा कुमारो संवृत्तः दशकुशलां कर्मपथां देशेति //

दश वशिता आख्याता बुद्धेनादित्यबन्धुना / बोधिसत्वान शुराणां भाषतो तं शृणोथ मे //

वशी आयुष्मन्तो धीरो प्रतिभाने तथैव च / उपपत्तिया च कर्मे च चिन्ते च वशितां गतो //

धर्मे च ऋद्धिवशिता अभिप्रायवशिस् तथा / कालदेशे वशी धीरो इत्य् एते वशिता दश //

[_mvu_1.283_] वशितादशसु एतासु प्रतिष्ठाय विशारदाः / सत्वकोटिसहस्राणि परिपाचेन्ति नरर्षभाः //

बुद्धक्षेत्रं विशोधेन्ति बोधिसत्वा च नायका / बोधिसत्वा द्युतिमन्तो महाकारुणलाभिनो //

जातकपर्यवसाने तहिं च परिपाचिता / चतुरशीतिहि प्राणिसहस्रेहि धर्मो अभिसंमतो //

बुद्धेन भगवता वैशालीये सीमं आक्रमन्तेन सर्वे अमनुष्यका पलानाः // महन्तो जनकायो प्रीतो भगवन्तं पृच्छति // पश्य भगवन् कथं भगवता वैशालीये सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः // भगवान् आह // किम् अत्र वासिष्ठाहो आश्चर्यं यन् तथागतेन परमसंबोधिप्रप्तेन देवातिदेवेन सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः // अन्यदापि मया ऋषिभूतेन कम्पिल्ले नगरे सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः // लेच्छविका आहन्सु // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि वासिष्ठा //

___भूतपूर्वं वासिष्ठा अतीत-म्-अध्वाने पांचाले जनपदे कम्पिल्ल नगरे राजा ब्रह्मदत्तो नाम राज्यं कारेसि सुसंगृहीतपरिजनो दानसंविभागशीलो // तस्य तं कम्पिल्लं जनपदं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च सुखितमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसम्पन्नं // तस्य दानि राज्ञो ब्रह्मदत्तस्य रक्षितो नाम पुरोहितपुत्रो महेशाख्यो दशकुशलकर्मपथसमादायवर्ती कामेषु आदीनवदर्शावी निःशरणप्रज्ञो संवेगबहुलो नैष्क्रम्याभिप्रायो // सो कामेषु आदीनवं दृष्ट्वा अनुहिमवन्तं गत्वा ऋषिप्रव्रज्यां पर्व्रजीतो // तेन दानि तहिं हिमवन्ते आश्रमं

[_mvu_1.284_] मापेत्वा तृणकुटीपर्णकुटीनि कृत्वा मूलपत्रपुष्पफलभक्षेण बाहिरकेण मार्गेण पूर्वरात्रं अपररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन चत्वारि ध्यानानि उत्पादितानि पंच च अभिज्ञा साक्षीकृता // सो दानि चतुर्ध्यानलाभी पंचाभिज्ञो दशकुशलकर्मपथसमादायवर्ती कुमारो ब्रह्मचारी स्वयम् आश्रमे पर्यंकेन निषण्णो चन्द्रमण्डलं च सूर्यमण्डलं च पाणिना परामृषति / यावद् ब्रह्मकायिककायान् वशे वर्तेति उग्रतपो ऋषि महाभागो // कदाचित् कम्पिल्ले महानगरे सजनपदे अमनुष्यव्याधि दारुणो उत्पन्नो // तेन अमनुष्यव्याधिना स्पृष्टा बहूनि प्राणिसहस्राणि अनयव्यसनम् आपद्यन्ते // राज्ञा ब्रह्मदत्तेन तं कम्पिल्ले महान्तम् आदीनवं दृष्ट्वा अनुहिमवन्ते रक्षितस्य दूतो प्रेषितः // कम्पिल्ले एदृशो अमनुष्यव्याधि उत्पन्नो बहूनि प्राणिसहस्राणि अनयव्यसनम् आपद्यन्ति // साधु भगवान् कम्पिल्लम् आगच्छेया अनुकम्पाम् उपादाय // ऋषिर् दूतवचनं श्रुत्वा अनुहिमवन्तातो कम्पिल्लम् आगतो // तेन ऋषिणा कम्पिल्लस्य सीमाम् आक्रमन्तेन सर्वे ते अमनुष्यका पलानाः // ऋषिणा तहिं कम्पिल्ले स्वस्त्ययनं कृतं दश कुशलाः कर्मपथा देशिता चतुरशीतिनां प्राणिसहस्राणां //

किं सो नरो जल्पम् अचिन्त्यकालं कतमास्य विद्या कतमं स्य दानं / सौख्याध्वगो अस्मिं परे च लोके कथंकरो रक्षितो स्वस्त्ययनं तद् आहु //

यो सिद्धदेवां च नरांश् च सर्वा ज्ञातिं च भूतानि च नित्यकालं / अवजानति प्रज्वलनं च तीक्ष्णं भूतानुकम्पि रक्षितो स्वस्त्ययनं तद् आहुः //

[_mvu_1.285_] यो वा दुरुक्तं वचनं क्षमेया क्षान्तीबलेन अधिवासयन्तो / परुषं श्रुत्वा वचनं अनिष्टं अधिवासनारक्षितो स्वस्त्ययनं तद् आहुः //

यो वा दुरुक्तं वचनं क्षमेय जाता च ये स्निग्धमित्रा सततं भवन्ति / विशारदा अविसंवादका च तां मित्रद्रोहीसमसंविभागी / धनेन मित्रां सदा-म्-अनुकम्पि सो मित्रमध्ये रक्षितो स्वस्त्ययनं तद् आहुः //

यो ज्ञातिमध्ये च सहायमध्ये शीलेन प्रज्ञाय वशीतया च / अभिरोचति सर्वं हि नित्यकालं सो ज्ञातिमध्ये रक्षितो स्वस्त्ययनं तद् आहुः //

यस्मिं राजा भूमिपती प्रसन्ना जानन्ति सत्ये च पराक्रमे / अभव्य एषो इह च पुरा च स राजमध्ये रक्षितो स्वस्त्ययनं तद् आहुः //

यं स्निग्धभावा . . . . . . . . . . . माता प्रजायाम् अनुकम्पिता च / प्रजायते रूपवती सुशीला घरवास रक्षितो स्वस्त्ययनं तद् आहुः //

[_mvu_1.286_] ये आर्यधर्मेण स्तुवन्ति बुद्धं उपस्थिता परिचरियाये सन्तो / बहुश्रुता तीर्णकांक्षा विमुक्ता अर्हन्तमध्ये रक्षितो स्वस्त्ययनं तद् आहुः //

अन्नं पानं काशिकचन्दनं च गन्धं च माल्यं च ददन्ति काले / प्रसन्नचित्ता श्रमणब्रह्मेहि ग्रामस्य मध्ये रक्षितो स्वस्त्ययनं तद् आहुः //

पैशुन्यं मृषावाद परेषु दारं प्राणातिपातं च तथैव मद्यं / एतं प्रहाय स्वर्गतिं गमिष्यथ ग्रामस्य मध्ये रक्षितो स्वस्त्ययनं तद् आहुः //

स्यात् खलु पुनर् वो वासिष्ठाहो एवम् अस्यास्याद् अन्यो स तेन कालेन तेन समयेन रक्षितो नाम ऋषि अभूषि / न खल्व् एव द्रष्टव्यं / तत् कस्य हेतोः / अहं सो वासिष्ठा तेन कालेन तेन स्मयेन रक्षितो नाम ऋषि अभूषि // अन्यो सो तेन कालेन तेन समयेन कम्पिल्ले नगरे ब्रह्मदत्तो नाम राजा अभूषि // न खल्व् एतद् एव द्रष्टव्यं // एषो राजा श्रेणिको बिम्बिसारो तदा कम्पिल्ले नगरे ब्रह्मदत्तो नाम राजा अभूषि // तदापि मये ऋषिभूतेन कम्पिल्ले सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः // एतरहिं पि मये वैशालीये सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः //

___अपि च न एतरहिं येव मये सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः / अन्यदापि मये सीमाम् आक्रमन्तेनैव अमनुष्यका पलानाः //

___भूतपूर्वं वासिष्ठाहो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे राजा राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो सुसंगृहीतपरिजनो

[_mvu_1.287_] दानसंविभागशीलो // तस्य तं नगरं वाराणसी काशिजनपदो ऋद्धो च स्फीतो च क्षेमो च सुभिक्षो च आकीर्णजनमनुष्यो च // तस्य दानि राज्ञो हस्तिनागो कृतपुण्यो महेशाख्यो महातेजो महानुभावो तस्य तेजानुभावेन वाराणसी काशीजनपदो निरीतिको निरुपद्रवो येनान्येषाम् अपि ग्रामजनपदानां सीमाम् आक्रमन्तेनैव निरीतिका निरुपद्रवा भोन्ति // कदाचित्* मिथिलायां विदेहनगरे अमनुष्यव्याधिर् उत्पन्नो बहूनि प्राणिसहस्राणि अनयव्यसनम् आपद्यन्ति // ते शृण्वन्ति काशीराज्ञो हस्तिनागो कृतपुण्यो च महेशाख्यो च महातेजो च महानुभावो च यस्य ग्रामस्य वा नगरस्य वा सीमाम् आक्रमति निरीतिको निरुपद्रवो सो ग्रामो वा नगरो वा भवति // तेन दानि वैदेहकराज्ञा अपरो ब्राह्मणो उक्तो // गच्छ वाराणसीं सो काशिराजा सर्वंददो च दानसंविभागशीलो च // तस्य इमां प्रकृतिं आरोचेहि तं च हस्तिनागं याचेहि // तेन नागेन इह आगतेन सर्वो अमनुष्यव्याधि प्रशमिष्यति // सो ब्राह्मणो राज्ञो वचनं श्रुत्वा अनुपूर्वेण वाराणसिम् अनुप्राप्तो // ब्राह्मणो च वाराणसिं प्रविशति // अयं च काशिराजा वाराणसीतो बहिर् नगरं निर्याति महता राजानुभावेन महतीये राज-ऋद्धीये तं च हस्तिनागं सर्वालंकारविभूषितं हेमजालसंच्छन्नं शिरीज्वलन्तं पुरतो गच्छति // तेन ब्राह्मणेन सो काशिराजा पुरतः स्थित्वा जयेन वर्धापितो // राजा तं ब्राह्मणं दृष्ट्वा स्थितो // केन ते स्ति भो ब्राह्मण अर्थो किन् ते ददामि // ब्राह्मणेन तं मिथिलायाम् अमनुष्यं उपसर्गं सर्वं काशिराज्ञो आरोचितं // एतं महाराज हस्तिनागं देहि मिथिलायाम् अनुकम्पाम् उपादाय // राजा सकृपो परानुग्रहप्रवृत्तो च // तेन तं हस्तिनागं तस्य ब्रह्मणो यथालंकृतं दिन्नं // ददामि ते ब्राह्मण नागम् इमम् अलंकृतं हेमजालेन च्छन्नं राजार्हं राजभोग्यं उदारं

[_mvu_1.288_] ससारथिं / गच्छहि येनकामं // स्यात् खलु पुनर् वो वासिष्ठाहो एवम् अस्यास्या अन्यः स तेन कालेन तेन समयेन वाराणस्यां राजा अभूषि // न एतद् एवं द्रष्टव्यं // एष राजा श्रेणिको बिम्बिसारो तेन कालेन तेन समयेन काशिराजा अभूषि // स्यात् खलु पुनर् वो वासिष्ठाहो एवम् अस्यास्या अन्यो सो तेन कालेन तेन समयेन मिथिलायां राजा भवति // न एतद् एवं द्रष्टव्यं // तत् कस्य हेतोः // एष सिंहसेनापतिस् तेन कालेन तेन समयेन राजा अभूषि // अन्यो सो ब्राह्मणो भवति / एषो तोमरो लेच्छविः // अन्यो सो हस्तिनागो भवति // न खलु पुनर् एवं द्रष्टव्यं // अहं सो तेन कालेन तेन समयेन राज्ञो हस्तिनागो अभूषि // तदापि मये हस्तिनगभूतेन मिथिलायां सर्वे अमनुष्यकाः पलानाः // एतरहिं पि मये वैशालीये सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः //

___अपि तु वासिष्ठाहो न एतरहिम् एव मये सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः // अन्यदापि ऋषभभूतेन सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः //

___भूतपूर्वं वासिष्ठाहो अतीतम् अध्वानं राजगृहे नगरे राजा राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महाबलवाहनो / तस्य तं राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णमनुष्यञ् च बहुजनमनुष्यम् च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसम्पन्नं // तहिं अमनुष्यव्याधि उत्पन्नो बहूनि प्राणिसहस्राणि अमनुष्यव्याधिना अनयव्यसनम् आपद्यन्ति // अङ्गराज्ञो च ऋषभो अभूषि प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो // तस्य तेजानुभावेन सर्वम् अङ्गविषयं निरीतिकं निरुपद्रवं // राजगृहका ब्राह्मणगृहपतिका शृण्वन्ति // अङ्गराज्ञो ईदृशो ऋषभो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो / तस्य तेजानुभावेन सर्वम् अंगविषयं निरीतिकं

[_mvu_1.289_] निरुपद्रवं भवति // तेहि राज्ञो आरोचितं // महाराज शृणोम अंगराज्ञो एदृशो ऋषभो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो महानुभावो / यस्य ग्रामस्य वा नगरस्य वा सीमाम् आक्रमति तं निरीतिकं निरुपद्रवं भवति // महाराज ऋषभं आनय यथा तेन आनीतेन राजगृहे अमनुष्यव्याधि प्रशमिष्यति // राजगृहकेन राज्ञा अङ्गराज्ञो ब्राह्मणो प्रेषितो // गच्छ अङ्गराज्ञ इमं राजगृहे आदीनवं वेदयित्वा तं ऋषभं याचाहीति // सो दानि राज्ञो ब्राह्मणो तथेति प्रतिश्रुणित्वा राजगृहातो अनुपूर्वेण अङ्गराजस्य नगरम् अनुप्राप्तः // तेन अङ्गराज्ञो उपसंक्रमित्वा अङ्गराजानं जयेन वर्धापेत्वा एवं राजगृहकम् अमनुष्यव्याधिं सर्वं विस्तरेण आरोचेत्वा ऋषभं याचितं // सो पि च राजा सकृपो च परानुग्रहप्रवृत्तो च // तेन तं राजगृहकानां महन्तम् आदीनवं श्रुत्वा सो ऋषभो तस्य ब्राह्मणस्य दिन्नः // गच्छ ब्राह्मण सुखी भवन्तु राजगृहका मनुष्या सर्वे सत्वाश् च // ब्राह्मणो तं ऋषभं गृह्य अंगविषयातो मगधविषयम् आगच्छति // समनन्तरं च वासिष्ठाहो ऋषभेण राजगृहस्य सीमा आक्रान्ता सर्वे च ते अमनुष्यका पलाना निरीतिको च निरुपद्रवो राजगृहस्य जनपदो संवृत्तो // स्याद् वो पुनर् एव वासिष्ठाहो एवम् अस्यास्याद् अन्यः स तेन कालेन तेन समयेन अंगनगरे अंगराजा अभूषि // न खलु पुनर् एवं द्रष्टव्यं // तत् कस्य हेतोः // एष वासिष्ठाहो राजा श्रेणियो बिम्बिसारो तेन कालेन तेन समयेन अङ्गराजा अभूषि // अन्यो स तेन कालेन तेन समयेन राजगृहे राजा अभूषि // न एतद् एवं द्रष्टव्यं // तत् कस्य हेतोः // एष सिंहसेनापतिः // अन्यः स तेन कालेन तेन समयेन राजगृहको ब्राह्मणो अभूषि येन तं ऋषभं आनीतं // न एतद् एवं द्रष्टव्यं // तत् कस्य

[_mvu_1.290_] हेतोः // एष वासिष्ठाहो तोमरो लेच्छविस् तेन कालेन तेन समयेन राजगृहे ब्राह्मणो अभूषि येन तं अङ्गराज्ञो सकाशातो ऋषभो राजगृहम् आनीतो // स्यात् खलु पुनर् वो वासिष्ठाहो एवम् अस्यास्या अन्यः स तेन कालेन तेन समयेन अंगराज्ञो ऋषभो अभूषि // न खल्व् एतद् एवं द्रष्टव्यं // तत् कस्य हेतोः // अहं सो वासिष्ठाहो तेन कालेन तेन समयेन अंगराज्ञो ऋषभो अभूषि // तदापि मये ऋषभभूतेन राजगृहस्य सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलाना एतरहिं पि मये परमसंबोधिप्राप्तेन वैशालीयं सीमाम् आक्रमन्तेनैव सर्वे अमनुष्यका पलानाः //

_____इति श्रीमहावस्तु-अवदाने ऋषभस्य जातकं समाप्तं //

अथ भगवान् अनुपूर्वेण वैशालीम् अनुप्राप्तः // भगवां दानि वैशालीये साभ्यन्तरबाहिराये स्वस्त्ययनं करोति / स्वस्त्ययनगाथां भाषति //

नमो ऽस्तु बुद्धाय नमो ऽस्तु बोधये नमो विमुक्ताय नमो विमुक्तये / नमो ऽस्तु ज्ञानस्य नमो ऽस्तु ज्ञानिनो लोकाग्रश्रेष्ठाय नमो करोथ //

यानीह भूतनि समागतानि भूम्यानि वा यानि व अन्तरीक्षे / सर्वाणि वा आत्तमनानि भूत्वा शृण्वन्तु स्वस्त्ययनं जिनेन भाषितं //

इमस्मिं वा लोके परस्मिं वा पुनः स्वर्गेषु वा यं रतनं प्रणीतं / न तं समं अस्ति तथागतेन [_mvu_1.291_] देवातिदेवेन नरोत्तमेन / इमं पि बुद्धे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . इदं पि धर्मे रतनं प्रणीतं / एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

यं बुद्धश्रेष्ठो परिवर्णये शुचिं यम् आहु आनन्तरियं समाधिं समाधिनो तस्य समो न विद्यते / इदं पि धर्मे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

ये पुद्गला अष्ट सदा प्रशस्ता चत्वारि एतानि युगानि भोन्ति / ते दक्षिणीया सुगतेन उक्ताः एतानि दिन्नानि महत्फलानि / इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

सर्वैव यस्य दर्शनसंपदायो

[_mvu_1.292_] त्रयो स्य धर्मा जहिता भवन्ति / सत्कायदृष्टीविचिकित्सितं च शीलव्रतं चापि यत् अस्ति किंचित्* / इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

किं चापि शैक्षो प्रकरोति पापं कायेन वाचा यथ चेतसापि / अभव्यो सो तस्य निगूहनाय अभव्यता दृष्टपथेषु उक्ता / इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

यथा इन्द्रकीलो पृथिवीसन्निश्रितो स्या चतूर्भि वातेहि असंप्रकम्पि / तथोपमं सत्पुरुषं वदेमि यो आर्यसत्यानि सुदेशितानि गम्भीर-अर्थानि अवेत्य पश्यति / इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

ये आर्यसत्यानि विभावयन्ति गम्भीरप्रज्ञेन सुदेशितानि / किं चापि ते भोन्ति भृशं प्रमत्ता

[_mvu_1.293_] न ते भवां अष्ट उपादियन्ति / इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

ये युक्तयोगी मनसा सुच्छन्दसा नैष्क्रम्यिणो गौतमशासनस्मिं / ते प्राप्तिप्राप्ता अमृतं विगाह्य विमुक्तचित्ता निर्वृतिं भुंजमाना / इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

क्षीणं पुराणं नवो नास्ति संचयो विमुक्ता आयतिके भवस्मिं / ते क्षीणबीजा अविरूढिधर्मा निर्वान्ति धीरा यथ तैलदीपा / इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

अग्निर् यथा प्रज्वलितो निषीदे इन्धनक्षया शाम्यति वेगजातो / एवंविधं ध्यायिनो बुद्धपुत्राः प्रज्ञाय रागानुशयं ग्रहेत्वा अदर्शनं मृत्युराजस्य यान्ति /

[_mvu_1.294_] इदं पि संघे रतनं प्रणीतं मनुष्यतो वा अमनुष्यतो वा //

ग्रीष्माणमासे प्रथमे चैत्रस्मिं वने प्रगुल्मा यथ पुष्पिताग्रा वातेरिता ते सुरभिं प्रवान्ति / एवंविधं ध्यायिनो बुद्धपूत्राः शीलेन्ऽ; उपेता सुरभिं प्रवान्ति / इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

यानीह भूतानि समागतानि भूम्यानि वा यानि व अन्तरीक्षे / मैत्रीकरोन्तु सद मनुष्यका प्रजा दिवं चा रात्रिं च हरन्ति वो बलिं / तस्माद् धि तं रक्षथ अप्रमत्ता माता व पुत्रं अनुकम्पमाना / एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

विपश्यिस्मिं विश्वभुवि क्रकुच्छन्दे भामकनकमुनिस्मिं काश्यपे महायशे शाक्यमुनिस्मिं गौतमे / एतेहि बुद्धेहि महर्द्धिकेहि या देवता सन्ति अभिप्रसन्ना /

[_mvu_1.295_] वाढं पि तं रक्षयन्तु च करोन्तु स्वस्त्ययनं मानुषिकप्रजाये / तस्मा हि तं रक्षथ अप्रमत्ता माता व पुत्रं अनुकम्पमाना / [एतं पि संघे रतनं प्रणीतं] एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

यो धर्मचक्रं अभिभूय लोकं प्रवर्तयति सर्वभूतनुकम्पितं / एतादृशं देवमनुष्यश्रेष्ठं बुद्धं नमस्यामि सुस्वस्ति भोतु / धर्मं नमस्यामि सुस्वस्ति भोतु संघं नमस्यामि सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा //

गोशृङ्गीये बुद्धप्रमुखे भिक्षुसंघे भक्तं कृत्वा शालवनं निर्यातितं // लेच्छवीनाम् एतद् अभूषी // प्रतिबलो अस्माकम् एकको भगवन्तं सश्रावकसंघं यावज्जीवम् उपस्थिहितुं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि // अपि तु तथा क्रियतु यथा महाजनो पुण्येन संयुज्येया // मनुष्यतण्डुलो ओहारीयतु // तेहि मनुष्यतण्डुलो ओहारितो पंचविंशम् उत्तरं वा तण्डुलजाता // एवं तेहि भगवां सश्रावकसंघो सप्ताहम् उपस्थितो //

शिरिमन्तं महेशाख्यं वर्णवन्तं यशस्विनं /

[_mvu_1.296_] संबुद्धं पर्युपासन्ति चन्द्रं तारागणा यथा //

पीतालंकारवसनाः कर्णिकारा व पुष्पिता / संबुद्धं पर्युपासन्ति घनकेयूरधारिणः //

हरिचन्दनलिप्तांगा काशिकोत्तमधारिणः / . . . . . . . . . . . . . . . . . . . . . . . . . . तां देवसंघां परिषां समागतां शुचिं सुजातां शतपुण्यलक्षणां / सर्वेण बुद्धो अभिभोति तेजसा नक्षत्रराजा इव तारकाणां //

चन्द्रो यथा विगतवलाहके नभे अभिरोचते तारगणां प्रभांकरो / एवं ह्ऽ; इमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा //

सूर्यो यथा प्रभवति अन्तरीक्षे आदित्यमार्गस्मिं स्थितो विरोचति / एवं ह्ऽ; इमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा //

सूर्यो यथा प्रतपति अन्तरीक्षे आदित्यमार्गस्मिं स्थितो विरोचति / एवं ह्ऽ; इमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा //

पद्मं यथा कोकनदं सुजातं प्रभासितं फुल्लम् उपेतगन्धं /

[_mvu_1.297_] एवं प्ऽ; इमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा //

शक्रो यथा असुरगणप्रमर्दको सहस्रनेत्रो त्रिदशाभिरोचते / एवं इमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा //

ब्रह्मा यथा भूतनुकम्पि सर्वां मरुप्रभां अभिरोचति तेजसा / एवं इमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा //

दशांगुपेतं प्रमुंचि शिरिं शुचिं ततश् च बुद्ध्वा अमृतप्रसादं / विनेस्ऽ; इमां क्षत्रियभूमिपालां धर्मं इमं पाणितले व दर्शये //

एवम् आयुष्मता आनन्देन भगवान् अभिस्तुतो //

___भगवां वैशालकानां लेच्छवीनां धर्मया कथया संदर्शयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा बहूनि च प्राणिशतसहस्राणि अभिविनेति // वैशालकानां लेच्छवीनां तावद् दानं देयधर्मं इमाये अनुमोदनाये //

यथापि ते मधुकरका समेत्वा नानाविधां कुसुमरसां ग्रहेत्वा / तुण्डेहि पादेहि च संहरित्वा . . . . . . . . . . . . . . . . . //

[_mvu_1.298_] सामग्रिये भवति रसगन्धयोसो तं संस्तृतं भवति मधु प्रणीतं / वर्णेन गन्धेन रसेन्ऽ; उपेतं भैषज्यभक्तेषु च तं उपेति //

एम्ऽ; एव ग्रामे निगमेषु वा पुनः महाजनो भवति यहिं स आगतो / सपुत्रदारा पुरुषस्त्रियो च कल्याणकार्येषु समानच्छन्दा //

समोहरित्वान ददन्ति पानं संघस्य भक्तानि करोन्ति यागुं / पानानि संयक्सुखखादनीया रसां च आर्यानुमतां ददन्ति //

यथाप्रसादं च यथानुभावं कल्पं बहुं चापि समोहरित्वा / पुनर् पुनः देन्ति प्रसन्नचित्ता समुच्चयं गच्छति पुण्यराशिः //

अभिवादनांजलिकर्मणो च प्रत्युत्थान-म्-आसनतां ततो च / वैयावृत्यं धर्मनुमोदनां च महाजनो प्रीतो करोति पुण्यं //

ते दिन्नदाना कृतपुण्यकर्मका येनैव वाचाथ समोहरित्व वा /

[_mvu_1.299_] यैनैव च कर्मसभागताये सर्वे पि ते स्वर्गम् उपेन्ति स्थानं //

दिव्येहि रूपेहि समंगिभूता परिचारियन्त्य् अप्सरसां गणेहि / प्रभूतभक्षा प्रवरान्नपाना विमानश्रेष्ठोपगता रमन्ति //

यदा च ते एन्ति मनुष्यलोकं सर्वे पि आढ्यकुलेषु जाता / ऋद्धेषु स्फीतेषु महाधनेषु प्रभूतनारीनरसंकुलेषु //

मधुं कृतं सत्पुरुषप्रशस्तं सर्वेहि पुष्पेहि सुखावहाय / यं किंचिद् अर्थो मनसा च प्रार्थितः सर्वो स ऋद्ध्येय यथामनो च //

सर्वार्थं संगम्य उपेथ निर्वृतिं ससर्वसंस्कारकिलेशसूदनां / संवर्णये लोकहितो महाप्रभुः सपुत्रदारा सहज्ञातिबान्धवा //

ते दानि लेच्छवयो भगवन्तम् आहन्सुः // अयम् अस्माकं भगवन् उद्यानानां महा-उद्यानं यद् इदं महावनं सकूटागारशालं / तं च भगवतो सश्रावकसंघस्य देम निर्यातेम // भगवां दानि भिक्षून् आमन्त्रेसि // तेन हि भिक्षवो अनुजानामि आरामार्थं विहारार्थं कल्पार्थं // भगवां दानि महावनातो चापालं चेतियं आगतः // लेच्छवयो

[_mvu_1.300_] पृच्छन्ति // कहिं भगवां // भिक्षवो आहन्सुः // एष वासिष्ठाहो भगवां महावनातो येन चापालं चेतियं तेनोपसंक्रान्तो दिवाविहाराय // ते दानि लेच्छवयो आहन्सुः // देम भगवतो चापालं चेतियं सश्रावकसंघस्य निर्यातेम // अपरकाले लेच्छविका महावनम् आगता भगवतो पादवन्दका भगवां च कृतभक्तकृत्यो सप्ताम्रचेतियं गतो दिवाविहाराय // लेच्छवयो भिक्षूणां पृच्छन्ति // आर्या कहिं भगवान्* // भिक्षू आहन्सुः // एष वासिष्ठाहो भगवां कृतभक्तकृत्यो येन सप्ताम्रचेतियं तेन्ऽ; उपसंक्रान्तो दिवाविहाराय // ते दानि लेच्छवयो येन सप्ताम्रचेतियं तेन्ऽ; उपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् अवोचत्* // देम भगवं सप्ताम्रचेतियं भगवतो सश्रावकसंघस्य निर्यातेम // एवं बहुपुत्रचेतियं गौतमकं चेतियं कपिनह्यं चेतियं // भूयो चापि भगवान् कृत्यभक्तकृत्यो महावनातो येन मर्कटह्रदतीरं चेतियन् तेन्ऽ; उपसंक्रान्तो दिवाविहाराय // लेच्छवयो आगता महावनं भगवतो पादवन्दकाः // भिक्षूणां पृच्छन्ति // आर्या कहिं भगवान्* // भिक्षू आहन्सु // एष वासिष्ठाहो भगवां कृतभक्तकृत्यो येन मर्कटह्रदतीरं तेन्ऽ; उपसंक्रान्तो दिवाविहाराय // ते दानि येन मर्कटह्रदतीरं चेतियन् तेन्ऽ; उपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् उवाच // देम मर्कटह्रदतीरं चेतियं भगवतः सश्रावकसंघस्य निर्यातेम // आम्रपालीये भगवतः सश्रावकसंघस्य भक्तं कृत्वा आम्रवनं निर्यातितं // बालिकाये भगवतः सश्रावकसंघस्य भक्तं कृत्वा बालिकाछवी निर्यातिता //

_____इति श्रीमहावस्तु-अवदाने छत्रवस्तुं समाप्तं //

अथ अपरिमितयशधर्मराज्ञो नवविधशासनधर्मकोशरक्षो /

[_mvu_1.301_] भवतु गणवरो चिरस्थितिको शिरिप्रवरो अचलो यथा सुमेरू //

बुद्धानाम् अनुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ति // तूष्णीकशोभना महानुभावा एकचरा खड्गविषाणकल्पा एकम् आत्मानं दमेन्ति परिनिर्वायन्ति // अपरो दानि प्रत्येकबुद्धो काशिभूमिषु पूर्वाह्णे ग्रामं पिण्डाय प्रविशति प्रासादिकेन अभिक्रान्तप्रतिक्रान्तेन आलोकितविलोकितेन संमिञ्जितप्रसारितेन संघटीपात्रचीवरधारणेन नागो विय कारितकारणो अन्तर्गतेहि इन्द्रयेहि अबहिर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन युगमात्रं प्रेक्षमाणः // ग्रामिको च ग्रामतो अरण्यं निर्धावति कर्मान्तं प्रत्यवेक्षणाये प्रासादिको अभिप्रसन्नदेवमनुष्यो // प्रत्येकबुद्धो तं ग्रामं सावदानं पिण्डाय चरित्वा यथाधौतेन पात्रेण ततः ग्रामातो निर्धावति // प्रायोन्नकालो वर्तति न च केनचिद् भिक्षा दिन्ना // ग्रामिको कर्मान्ता प्रत्यवेक्षयित्वा पुनर् ग्रामं प्रविशति पश्यति च नं प्रत्येकबुद्धं ग्रामतो निर्धावन्तं // तस्य भवति // प्रायोन्नकालो वर्तति // जानामि तावं किं इमेन प्रव्रजितेन भैक्षं लब्धम् इति // ग्रामिकः प्रत्येकबुद्धम् उपसंक्रम्य पृच्छति // आर्य लब्धं भैक्षं ति // प्रत्येकबुद्धो तूष्णीकशोभनो तुच्छकं पात्रं ग्रामिकस्य दर्शयति // ग्रामिको प्रत्येकबुद्धस्य तुच्छकं पात्रं दृष्ट्वा नम् आह // यावद् असंविभागशीलो जनो यत्र नाम एवरूपो दक्षिणीयो एवं महन्तातो ग्रामातो यथाधौतेन पात्रेण निर्धावति // इमे किं उद्दीपयं परिभुंजन्ति // सो आह // भगवं आगच्छ अहं ते आहारं दास्यामि // सो तं प्रत्येकबुद्धं गृहीत्वा तं ग्रामं प्रविष्टो // सो चतुःमहापथे स्थित्वा अविधाविधा ति क्रन्दति // अवस्थितग्रामिकस्य अविधाविधन् ति शब्दं श्रुत्वा सस्त्रीमनुष्यो ग्रामो सन्निपतितः // ग्रामिकस्य

[_mvu_1.302_] उपसंक्रमित्वा पृच्छन्ति // किं क्षेमं किं अविधाविधं ति क्रन्दसि // ग्रामिक आह // क्रन्दामि येनैते न संविभागरता न संविभागशीलाः यत्र नाम एवं महन्तातो ग्रामातो एको भिक्षु यथाधौतेन पात्रेण निर्धावति // ते दानि ग्रामे महल्लका तस्य ग्रामिकस्य श्रुत्वा तं प्रत्येकबुद्धं सत्कर्तव्यं मन्येन्सु // ग्रामिकेन प्रत्येकबुद्धं गृहं प्रवेशेत्वा आहारेण प्रतिमानेत्वा यावज्जीवम् उपनिमन्त्रितो // अहम् आर्यस्य निमन्त्रेमि यावज्जीवं सर्वसुखोपधानेन // स्वयंधीता संवेदिता // एवन् तुवं आर्यं तं दिवसम् आहारेण उपस्थिहिसि // दारिका प्रीता तुष्टा संवृत्ता // शोभनं मे कल्याणं कर्म सेवितं // सा दानि तं प्रत्येकबुद्धं दिवसम् आहारेण उपस्थिहति प्रासादिकाभिप्रसन्नदेवमनुष्या // प्रत्येकबुद्धो परिज्ञातभोजनो सर्वाशुचिपरिक्षीणो महाभागो // तस्य दानि ग्रामिकस्य धीतुस् तां प्रत्येकबुद्धस्य ईर्यां पश्यित्वा उदारं पसादं जातं // तथा अन्ये पि जना प्रसन्ना // सो दानि प्रत्येकबुद्धो तस्य ग्रामिकस्य प्रसादेन तत्रैव ग्रामक्षेत्रे अनुपादाय परिनिर्वृतो // ततो ग्रामिकेन तं प्रत्येकबुद्धं ध्यायेत्वा स्तूपं कृतं न चातिखुड्डाकं न चातिमहन्तं सुधामृत्तिकालेपनं // सा दानि ग्रामिकस्य धीता तं स्तूपं दैवसिकं कांस्यपात्रेण पूजेति गन्धेन माल्येन च धूपेन च // पश्चात् ततो स्तूपातो तं नानाप्रकारं माल्यं वातेन अपकर्षीयते // ताये दानि तं माल्यं संकड्डित्वा चेटीहि सार्धं दीर्घमालागुडिका निचितोपचिता नानापुष्पाणां // तत्र ताये मालाये तं प्रत्येकबुद्धस्य स्तूपं सर्वं परिवेठितं // तस्या तां मालां तहिं स्तूपे स्थितां च माला च सर्वा रूपेण च तेजेन च अभिभवित्वा तिष्ठन्तीं देवेषु दिव्यम् आयुःप्रमाणं क्षपेत्वा शोभन्तीं दृष्ट्वा अत्i-r-iva चित्तप्रसादम् उत्पन्नं // सा दानि प्रसन्नचित्ता प्रणिधानम्

[_mvu_1.303_] उत्पादेति // यादृशेषा माला अत्र स्तूपे शोभति एतादृशा मे माला मूर्ध्नि प्रादुर्भवेया यत्र यत्र उपपद्येयं //

___सा दानि तं कल्याणं कर्मं कृत्वा तत्र च्यवित्वा देवेषूपपन्ना रतनमालाये आबद्धा तस्या तहिं उपपन्नाये अप्सरसां शतसहस्रं परिवारेसि //

___ततो पि च्युता वाराणसीयं कृकिस्य राज्ञो अग्रमहिषीये कुक्षिस्मिं उपपन्ना // नवानां वा दशानां वा मासानाम् अत्ययेन देवीये दारिका प्रजाता प्रासादिका दर्शनीया रतनमालाये आबद्धा // तस्या मालिनीति नामं कृतं // राज्ञो कृकिस्य प्रिया मनापा तथा सर्वस्य परिजनस्य सम्मता सर्वस्याधिष्ठानस्य यावत् कृतपुण्या दारिका //

प्रतियेकबुद्धो ग्रामं पिण्डाय उपसंक्रमे / यथाधौतेन पात्रेण ततो ग्रामातो निष्क्रमेत्* //

तम् एनं ग्रामिको दृष्ट्वा संबुद्धम् इदम् अब्रवीत्* / किञ्चि अरोगो भगवां लभ्यते पिण्डयापनं //

ततो ऽस्य भगवन् पात्रं ग्रामिकस्य प्रणामये / न चात्र अदर्शी भिक्षां दौर्मनस्यं ग्रामिकस्य ऽभूत्* //

अन्धभूतो अयं लोको मिथ्यादृष्टिहतो सदा / एतादृशं दक्षिणीयं न पूजेन्ति यथारहं //

ग्रामान्तं उपसंक्रम्य स्थिहित्वान चतुष्पथे / अविधाविधं ति क्रन्दति ततो सन्निपते जनाः //

महाजनो समागत्वा इस्त्रियो पुरुषा पि च / ग्रामिकं उपसंक्रम्य किं करोम अविधाविधं ति //

[_mvu_1.304_] ग्रामिको आह //

यं नूनं कोटि युष्माकं न संविभागरतो जनो / एषो हि एतस्मिं ग्रामस्मिं एको भिक्षु विहन्यति //

ग्रामिकस्य वचनं श्रुत्वा सर्वो ग्रामो स-इस्त्रियो / सारायणीयं करेन्सु संबुद्धस्य पुनः पुनः //

तम् एनं ग्रामिको वच सभार्याको सपुत्रको / सर्वसुखविहारेण निमन्त्रेमि तथागतं //

ग्रामिकस्य स्वका धीता शुचिवस्त्रा सुवासना / आचारगुणसम्पन्ना उपस्थीय तथागतं //

ग्रामिकस्य प्रसादेन तस्मिं ग्रामस्मिं सुव्रतो / संबुद्धो परिनिर्वायि ऋषि क्षीणपुनर्भवः //

तं निर्वृतं ध्यायेत्वान स्तूपं कारेसि ग्रामिको / नृत्यवादितगीतेन पूजां कारेसि महर्षिणो //

समासाद्य सितं पुष्पं वातेन अपकर्षितं / एकाध्यं संहरित्वान दीर्घमालां वगूहयेत्* //

सा यादृशी तत्रैव मह्यं माला चित्रा उपनिश्रिता / एतादृशी मे शिरसि भोतु माला यथा अयं //

यत्र यत्रोपपद्येहं तत्र म्ऽ; एतं समृध्यतु //

सा तं कर्मं करित्वान कल्याणं बुद्धवर्णितं / त्रायस्त्रिंशेषु देवेषु उपपद्यि ऽथ अप्सरा //

अप्सराशतसहस्रं च पुरस्कृत्वान तां स्थिता / तासां सा प्रवरा श्रेष्ठा नारी सर्वाङ्गशोभना //

[_mvu_1.305_] ततो तासां च्यवित्वान देवकन्या महर्द्धिका / राज्ञो कृकिस्य भार्याय कुक्षिस्मिं उपपद्यि ऽथ //

निर्गते द्वादशमासे राजभार्या प्रजायत / मालिनीं नाम नामेन नारीं सर्वङ्गशोभनां //

. . . . . . . . अतिवर्णा अतिरूपवती अभूत्* / श्रेष्ठा च राजकन्यानां धीता सा काशिराजिनो //

आचारगुणसम्पन्ना शुचिवस्त्रा सुवासना / राज्ञो कृकिस्य अन्तिके तिष्ठते प्रांजलीकृता //

तम् एनम् अवदद् राजा तिष्ठन्तीं प्रांजलीकृतां / ब्राह्मणां मे तुवं भद्रे भोजापेहि अतन्द्रिता //

पितुः सा वचनं श्रुत्वा ब्राह्मणानाम् अनूनकां / विंशत्सहस्रां भोजेति सर्वकामेहि मालिनी //

तम् एनं ब्राह्मणा दृश्य मालिनीम् अप्सरोपमां / रागग्रसितचित्ताश् च उल्लपन्ति पुनर् पुनः //

उद्धतां उन्नतां दृष्ट्वा चपलां प्राकटेन्द्रियां / मालिनी संविचिन्तेति न इमे दक्षिणारहा //

सा आरुहित्वा प्रासादं समन्तेन विलोकये / अदर्शी भगवतो सिष्यं संबुद्धस्य शिरीमतो //

सा प्रासादवरगता काशिकवरचन्दनेन आलिप्ता / राज्ञो कृकिस्य धीता सर्वा दिशता विलोकेति //

सा अद्दशासि . . . . . प्रासादिकेन्ऽ; इंजितेन प्रविशन्तां / बुद्धस्य श्रावकान् बाहितपापां अन्तिमशरीरां //

[_mvu_1.306_] सा दासीं प्रेषेति एतेषां ऋषीणां वन्दनं ब्रुहि / वन्दित्वा च भणाहि प्रविशथ भदन्त निषीदाथ //

सा दासी उपगम्य पादां वन्दित्वा भावितात्मनां / प्राञ्जलिकृता अवोचत् प्रविशथ भदन्त निषीदाथ //

रागा उपातिवृत्ता विशारदा अग्रपण्डिता लोके / बुद्धस्य श्रावका बाहितपापा अन्तिमशरीराः //

तं पाण्डरं च सुकृतं सुतोरणं खड्ग-असिगुप्तं / प्रविशेन्सुः अन्तःपुरं राज्ञो धीतुः मनापाये //

काशिकप्रत्यास्तरणं सुविचित्रकलापकं मणिविचित्रं / विचित्रपुष्पावकीर्णं प्रज्ञप्तं आसनं आसि //

पद्मम् इव शुभाभासं जलेरुहं यथ जले अनुपलिप्तं / तथ अनुपलिप्तचित्ता तत्र निषीदे विगतमोहा //

शालीनामोदनविधिम् अकालकम् अनेकव्यंजनम् उपेतं / स्वहस्तम् उपनामयते यथा भदन्तान अभिरोचे //

ते भिक्षू अवचेन्सुः शास्ता मो अग्रपण्डितो लोके / तस्या प्रथमं भक्तं सो भुंजये व महावीरो //

बुद्धो ति स्रुणित्व घोषं लोके कुतूहलं अश्रुतपूर्वं / अधिकतरं सा प्रसीदे इमेहि किल सो विशिष्टतरो //

सा मालिनी अवोच भुञ्जित्वा शास्तुनो हरथ भक्तं /

[_mvu_1.307_] अभिवादनं च ब्रुथ मम वचनातो लोकनाथस्य //

अधिवासे भक्तं भगवां सुवेतना सार्धं भिक्षुसंघेन / अन्तःपुरस्य मध्ये राज्ञो धीतुः मनापाय //

ते दानि भगवतो काश्यपस्य अग्रश्रावका तिष्यो च भारद्वाजो मालिनीये भक्तं परिभुंजित्वा भगवतो काश्यपस्य भक्तम् आदाय ऋषिवदनं निर्धाविता // भगवतो काश्यपस्य पिण्डपात्रम् उपनामेत्वा मालिनीये वचनेन भगवन्तं काश्यपं वन्दनं वदेन्सु // कृकिस्य भगवं काशिराज्ञो धीता भगवतो वन्दनं पृच्छति सश्रावकसंघस्य शुवेदानि च भक्तेन निमन्त्रेति सार्धं भिक्षुसंघेन राज्ञो कृकिस्य अन्तःपुरे तस्या भगवां अधिवासेतु अनुकम्पाम् उपादाय // भगवता काश्यपेन वैनेयवशेन अधिवासितं // ये तेहि महाश्रावकेहि सार्धं पुरुषा गता भगवतो काश्यपस्य ओवादम् आदाय तेहि गत्वा मालिनीये निवेदितं // अधिवासितं तेन भगवता काश्यपेन शुवेदानि भक्तं सार्धं भिक्षुसंघेन // मालिनीये तेषां पुरुषाणां श्रुत्वा ताम् एव रात्रिं प्रभूतं खादनीयं भोजनीयं प्रतिजागरित्वा भगवतो काश्यपस्य कालम् आरोचापितं // भगवां कालज्ञो वेलाज्ञो समयज्ञो पुद्गलज्ञो पुद्गलपरापरज्ञो // काल्यम् एव निवासयित्वा पात्रचीवरम् आदाय येन चारिकाविकालो संप्राप्तो सायं मागधे प्रातराशे वर्तमाने सार्धं विंशतीहि भिक्षुसहस्रेहि वाराणसिं नगरं प्रविशेत्* // हंसप्रडीनकम् इव बुद्धा भगवन्तो नगरं प्रविशन्ति // दक्षिणपार्श्वे तिष्यो महाश्रावको // वामे पार्श्वे भारद्वाजो महाश्रावकः // तेषां पृष्ठतो चत्वारो महाश्रावका चतुर्णां अष्ट अष्टानां षोडश षोडशानां द्वात्रिंश द्वात्रिंशतानां चतुषष्टि // एवं भगवां विंशतीहि भिक्षुसहस्रेहि पुरस्कृतो

[_mvu_1.308_] राज्ञो कृकिस्य अन्तःपुरं प्रविशति // भगवतो नगरं प्रविशन्तस्य ओनता भूमिर् उन्नमति समं भूमितलं जातं संस्थाति // अशुचिपाषाणशर्करकठल्ला भूमिं प्रविशन्ति मुक्तपुष्पावकीर्णा मही संस्थाति // पुष्पोपगा वृक्षा पुष्पन्ति फलोपगा वृक्षा फलन्ति / ये तत्र मार्गे वामदक्षिणेन वापीयो वा पुष्करिणीयो वा शीतलस्य वारिस्य भरिता भवन्ति उत्पलपदुमकुमुदपुण्डरीकनलिनीसौगन्धिकाप्रच्छन्ना / उदुपानमुखा तोयं प्रस्यन्दति / अश्वा हीष्यन्ति ऋषभा नर्दन्ति हस्तिकुंजरा नर्दनं मुंचन्ति // समनन्तरं इन्द्रकीलं पादेन चोक्रमति सर्वं च नगरं प्रकम्पति / अन्धा आलोकेन्ति बधिराः शब्दं शृण्वन्ति उन्मत्तकाः स्मृतिं प्रतिलभन्ते व्याधिता व्याधितो मुंचन्ति गुर्विणीयो अरोगाः प्रसूयन्ति नग्नानां चैलाः प्रादुर्भवन्ति बन्धनबद्धानां बन्धनानि स्फुटन्ति पेडाकरण्डावृतानि रतनानि संघट्टन्ति भाजनानि रणन्ति / ये भवन्ति नगरे परिवादिनीयो वल्लकीयो वेणुवीणामृदंगभेरीपणवा असंखतान्य् अपि अघट्टितानि संप्रवाद्यन्ति / शुकसारिककोकिलहंसमयूराः स्वकस्वकानि रुतानि मुंचन्ति // चतुरङ्गुलेन च भूमिं असंस्पृशन्तो गच्छति धरणितले च पदचक्राणि प्रादुर्भवन्ति सहस्राराणि सनाभिकानि सर्वाकारपरिपूर्णानि अन्तरीक्षे च देवा दिव्यानि तूर्यसहस्राणि प्रवादयन्ति दिव्यानि पुष्पवर्षाणि प्रवर्षन्ति // भगवां काश्यपो सश्रावकसंघो एदृशाये विधीये एदृशाये विभूषाये एदृशेन समुदयेन एदृशाये ऋद्धीये एदृशेन विभवेन देवमनुष्येहि सत्क्रियन्तो सश्रावकसंघो राज्ञो कृकिस्य अन्तःपुरं प्रविष्टो // भगवां मालिनीये सश्रावकसंघो तहिं अभ्यन्तरिमे चतुःशाले महासत्कारेण परिविष्टो प्रभूतेन प्रणीतेन स्वादनीयेन भोजनीयेन ऋजुरसेन अग्ररसेन

[_mvu_1.309_] अविगतरसेन प्रत्यग्ररसेन // भगवां भुक्तावी सश्रावकसंघो धौतहस्तो अपनीतपात्रो मालिनीं धर्मया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वोत्थायासनातो प्रक्रमे //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.