Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/24

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

महावस्तु-अवादन

Thông tin
GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[_mvu_1.198_] च / अमोहगामि च / अभयगामि च / अवद्यभीरु च / स्थूलभिक्षं च / पुरुषकारमतिं च / दृढविक्रमणं च / चेतियपूजकं च / देवपूजकं च / पूर्वपितृपूजकं च / क्रियाधिमुक्तं च / त्यागाधिमुक्तं च / व्रताधिमुक्तं च / लब्धपूर्वापरं च / अभिदेवघोषघुष्टं च / कुलज्येष्ठं च / कुलश्रेष्ठं च / कुलप्रवरं च / कुलवशिप्राप्तं च / महेशाख्यं च / महापरिवारं च / अश्रमपरिवारं च / अनुरक्तपरिवारं च / अभेद्यपरिवरञ् च / मातृज्ञं च / पितृज्नं च / श्रामण्यं च / ब्राह्मण्यं च / कुलज्येष्ठापचायकं च / प्रभूतधनधान्यं च / प्रभूतकोशकोष्ठागारं च / प्रभूतहस्त्यश्वगवेडकं च / प्रभूतदासीदासकर्मकरपौरुषेयं च / दुष्प्रधर्षं च तत् कुलं भवति परेहि प्रत्यर्थकेहि प्रत्यमित्रेहि // यस्मिं कुले महामौद्गल्यायन बोधिसत्वा जायन्ति तत् कुलं इमेहि षष्टीहि अंगेहि समन्वागतं भवति // ये ते सत्वा कुलसंपन्ना भवन्ति एवंरूपा सत्वा महाकरुणां प्रतिलभन्ति //

___अथ महामौद्गल्यायन बोधिसत्वो च्यवनकाले महासंविधानं करोति // देवपुत्रसहस्राणि देवपुत्रेण उक्ता // षोडशहि महाजनपदेहि मध्यदेशेहि उपपद्यथ क्षत्रियमहाशालेषु च कुलेषु गृहपतिमहाशालेषु कुलेषु च राजकुलेषु च राजामात्यकुलेषु च / युष्मेहि विनीतेहि महाजनकायो विनयं आगमिष्यति //

___बोधिसत्वो च्यवनकाले अवलोकयति कहिम् उपपद्यामि // अयं अर्चिमो राजा कतपुण्यो महेशाख्यो च चक्रवर्ती चतुर्द्वीपाधिपतिः एषो मम पिता योग्यो // मातरम्

[_mvu_1.199_] अन्वेषति या प्रासादिका भवेय कुलीना च शुचिगात्रा च मन्दरागा च अल्पायुष्का च यस्या शेषा ससप्तरात्रा दश मासा आयुष्प्रंआणतो अवशिष्टा भवेन्सुः //

सर्वेषां बोधिसत्वानां जनेत्वा पुरुषोत्तमां / चरमे सप्तमे दिवसे माता जहति जीवितं //

अत्र किं कारणं भवति यदि सर्वज्ञमातरो / जनेत्वा पुरुषश्रेष्ठं शीघ्रं जहन्ति जीवितं //

वसन्तो तुषिते काये बोधिसत्वो महास्मृतिं / लभते शुभकर्मेण परीक्षन्तो जनेत्रियं //

यस्येह परिशेषं स्या नारीये जीवितं भवेत्* / दिवसानि सप्त मासा च दश तस्या उरम् ओतरेत्* //

किं कारणं अयुक्तं हि अस्मद्विधम् अनुत्तरं / धारेत्वा उत्तरे काले मैथुनं परिसेवितुं //

अथापि प्रतिसेवेयुः कामां सुगतमातरि / न पिता देवसंघानां भिन्नवृत्तो ति वक्ष्यते //

भगवां च नाम कामानां दोषां सततं भाषति / अथ च लोकनाथस्य माता कामां निषेवति //

ये च नृपतिनां वेश्मस्थानि रत्नकरण्डका / रतनं पुरुषश्रेष्ठा भाजनं जिनमातर इति //

समन्वेषन्तो महामौद्गल्यायन बोधिसत्वो अद्राक्षीत्* // दीपवतीये राजधानीये

[_mvu_1.200_] राज्ञो अर्चिमस्य सुदीपा देवी प्रासादिका च कुलीना शुचिगात्रा च मन्दरागा च अल्पायुष्का च ससप्तरात्राणि चास्या दश मासानि आयुष्प्रमाणतो अवशिष्टा //

पश्यति विलोकयन्तो लोकं अथ अर्चिमस्य ओरोधे / नारीं अमरवधुनिभां विद्युल्लतानिभां इव सुदीपां //

सो तां निशाम्य जननीं आमन्त्रयते अमरां च्यविष्यामि / अन्तिमम् उपेष्यि वासं गर्भे मरुमानुषसुखार्थं //

तं अवच देवसंघो कृतांजलिपुटो वराभरणधारी / ऋध्यतु उत्तमपुद्गल तव प्रणिधि अहीनगुणरूप //

वयं अपि लोकहिताय मनोरमाम् ओशिरित्व कामरतिं / पूजार्थं तव अतिदेव मनुष्यलोके वसिष्यामो //

ते विमलरुचिरवर्णं मन्दारवपुष्पवर्षम् आकाशे / प्रवर्षिन्सु उदग्रचित्ताः शुचिं सुमधुराहि वाचाहि //

यम् अमरवसना प्रशमनमनोरमा शोकदुःखविनिमिश्रा/ न नन्दसि न च निषेवसि कामान् इदम् अद्भुतं तुभ्यं //

यं पि अभिभूय मरुगणं जम्बूनदपर्वतोपमप्रकाशो / उद्योतयसि दश दिशां सुरर्षभ इदं आश्चर्यं //

अभिभवसि देवसंघां समहेश्वरदानवां समारगणां / तारागणां खगचरां अमितमति इदं पि आश्चर्यं //

किं चापि विप्रयोगं त्वया न इच्छाम भूतसंघगुरु /

[_mvu_1.201_] अपि तु अरविन्दनयना भविष्यसि गतिर् नरमरूणां //

अथ च्यवनकालसमये विशुद्धशतपत्रपद्मनयनस्य / आनन्दितो मरुगणः घोषेति दिशाहि सर्वाहि //

एषा च वर्तति कथा तुषितपुरे सा च अप्रतिमा सुदीपा / राज्ञो ऽर्चिमस्य महिषी राजानम् उपेत्य इदम् आह //

सा हरिणवत्सनयना विशुद्धगन्धर्ववधुनिभा श्यामा / सहितम् इदं अर्चिमस्य सुमधुरम् इदम् अब्रवि सुदीपा //

आभरणस्तम्भितभुजा प्रवरवसनधारिणी सखीहि सह / त्वया विना राजर्षभ रजनीम् इमां क्षपयितुं छन्दो //

शतरश्मिस्य नरवरा प्रासादवरस्य उत्तमां भूमिं / शयनवरम् आरुहे यत्र कुमुदवसनसन्निभं विमलं //

तेन वचनेन तुष्टो देवीये अर्चिमां मनापेन / आमन्त्रयति नरवरो परिवारम् उदग्रसंकल्पो //

प्रतिवेदयन्तु मे लघु शतरश्मिं प्रवरकुसुमसंच्छन्नं / मुक्तकुसुमावकीर्णं करोथ दिवि देवभुवनं वा //

ओसक्तपट्टदामं शतरश्मिं शोभतां चपलम् एव / वरहेमजालच्छन्नं सुमेरुवरशृंगसंकाशं //

चतुरंगिनी च सेना सशूलनाराचतोमरविचित्रा / परिवारयतां चपलं शतरश्मिमनोज्ञसंघातं //

ओसृष्टा येवाज्ञा नरपतिना सज्जं एव च सर्व / कृत्वा तत्र स्वकुलं राजानम् उपेत्य इदम् आहु //

[_mvu_1.202_] वर्षसहस्रम् अनूनं आयुः परिपालेतु महीपालो / सज्जं ति विमानवरं शोभति तव हर्षसंजननं //

अथ सा अमरवधुनिभा देवी उत्थाय आसनवरातो / अब्रवीत्* महीपतिवरं आदित्ये अस्तमितमात्रे //

एषा समादियामि प्राणिषु अविहिंसं ब्रह्मचरियं च / विरमामि चाप्य् अदिन्नान् मद्याद् अनिबद्धवचनाच् च //

अखिलवचनाच् च नरवर प्रतिविरमामि तथैवं पैशून्यात्* / परुषवचनाच् च नरपति विरमामि अयं मम च्छन्दो //

परकामेषु च ईर्ष्यां न संजनेष्यं नापि अभिद्रोहं / भूतेषु उपजनेष्यं विपरीतमतिं च विजहामि //

एकादशप्रकारं शीलं सेवाम्य् अहं पृथिवीपाल / रजनीम् इमाम् अनूनाम् एवं मम जायते छन्दः //

अपि च क्खु भूमिपाला कामवितर्को मा मां प्रतिकांक्षि / प्रेषय मा ते अपुण्यं भवेय मम ब्रह्मचारिणिये //

सर्वे तव संकल्पां परिपुरेमीति पार्थिवो अवचि / अभिरम भवनवरगता अहं च राज्यं च ते वश्यं //

सा स्त्रीसहस्रम् अग्र्यं अनुरक्तं गृह्य तं विमानवरं / अभिरुह्य अभिनिषीदे मनापपरिपूर्णसंकल्पा //

सा कञ्चिद् एव कालं तस्मिं हिमकुमुदपुण्डरीकनिभे / शयने प्रसमदमरता तुष्णींभावेन क्षेपयति //

[_mvu_1.203_] सा दानि दक्षिणेन पार्श्वेन परिन्यासे शरीरवरं / कुसुमलता व द्रुमवरं शयनं परिवेल्लियाशायिता //

अथ तां निशाम्य शयनोपगतां देवीं दिवि प्रमदारूपनिभां / तुषितालया च्यविय देवगणाः प्रासादमूर्ध्नि प्रतिस्थिहिंसु //

ते मूर्धना अभिनता सर्वे हृष्टा कृतांजलिपुटाः अमरा / वन्दन्ति तां विपुलपुण्यधरां देवीं जिनस्य जननीं शयने //

अथ कौतूहलपरं संजनिया बहुदेवकन्या शुचिमाल्यधरा / जिनमातुर् उपगता द्रष्टुमना प्रासादमूर्ध्नि प्रतिष्ठिहिंसु //

उपसंक्रमित्वा शयनोपगतां देवीं निशाम्य वरविद्युनिभां / प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमं //

मानुष्यकं पि किल एदृशकं रूपं सुजातम् इदम् आश्चर्यं / कंचित् कालं स्थिहिय-म्-अन्तरतो नायं समा मरुवधूहि भवे //

लीलां निशामयथ हे सखिका प्रमदाय्ऽ; इमस्य यथ ओपयिकां / शयने विरोचति मनं हरति विभ्राजते कनकमरीचिर् इव //

अयन् तं धरेष्यति महापुरुषं अत्यन्तदानदमशीलरतं / सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू //

चापोदरे करतलप्रतिमे वररोमराजिविचित्रे रुचिरे / इह सो भविष्यति अनन्तमतिः सततं अलिप्त अशुभेन शुचि //

बहुदीर्घरात्रनिचितं कुशलं प्रमदाय्ऽ; इमस्य विपुलं परमं /

[_mvu_1.204_] या तं धरेष्यति अनन्तगुणं चिररात्रसन्निचितपुण्यबलं अनुरूपा त्वं च प्रमदा प्रवरा माता स चैष पुरुषप्रवरो / पुत्रो प्रहीनवनथो विरजो किं हायते तव नरेन्दवधू //

अथ राक्षसा विविधरूपधरा आणत्ता दिवि परितो चपलं / तिष्ठन्तु भो प्रवरशस्त्रधराः सर्वदिशा कुरुथ असंवरणा //

तेषाम् अनन्तर द्विजिह्वगणा आरक्षहेतु दिशतासु स्थिताः / वातं पि येष चलितं श्रुणिय क्रोधं समुत्पतति अग्निसमो //

तेषाम् अनन्तरगतास् थपिता यक्षाः प्रदीप्तशिखरा विकृता / ये दुष्टचित्ता विनिवारयाथ मा च वधं कुरुथ कस्य चापि //

तेषाम् अनन्तरस्थिता बलवां गन्धर्वसंघो शुभरूपधराः / आरक्षहेतु शुभचापधरा वरलक्षणा विपुलबुद्धिमतो //

चत्वारि लोकपतिनो स्थपिता गगने स्वयंपरिवारेण सह / अद्य च्यविष्यति किल भगवां लोकस्य अर्थसुखवृद्धिकरो //

त्रिदशेहि सार्धं त्रिदशप्रवरो स्थितु अन्तरीक्षे वरचक्रधरो / अचिरं च्यविष्यति च्युतिं चरमां आकांक्षमाण सुखं अप्रतिमं //

देवीय मूले बहु देवगणा कृत्वा दशांगुलिं नताभिमुखा / समुदीरयन्ति वचनं मधुरं उल्लोकयन्ति तुषितेषु जिनं //

व्यवदानसन्निचितपुण्यबला समयो खु अन्तिमम् उपेतु भवं / सज्जा ताव भवति ते जननी अनुकम्प दानि दुःखितां जनतां //

[_mvu_1.205_] एषो च्यवामि इति मुंचि गिरां शुभं वचनं उदीरयि . . . . . . / अथ सुपिनं जननि जिनस्य तस्मिं क्षणे पश्यते वरविपाकफलं //

हिमरजतनिभो से षड्विषाणो सुचरणचारुभुजो सुरक्तशीर्षो / उदरम् उपगतो गजप्रधानो ललितगतिः अनवद्यगात्रसन्धिः //

न खलु पुनर् महामौद्गल्यायन बोधिसत्वा कालपक्षे मातुः कुक्षिम् अवक्रामन्ति / अथ पूर्णायां पूर्नमास्यां पुष्यनक्षत्रयोगयुक्तायां बोधिसत्वा मातुः कुक्षिम् अवक्रामन्ति // उपोषधिकायां आरोहसम्पन्नायां परिणाहसम्पन्नायां व्यक्तायां अग्रयौवनमण्डप्राप्तायां विनीतायां बहुश्रुतायां स्मृतायां सम्प्रजानायां सर्वाकारप्रदक्षिणचित्तायां सर्वाकारप्रतिरूपायां प्रमदोत्तमायां बोधिसत्वा मातुः कुक्षिम् अवक्रामन्ति // बोधिसत्वेन महामौद्गल्यायन तुषितभवनगतेन च्यवनकाले प्रभा ओसृष्टा याये प्रभाये सर्वं बुद्धक्षेत्रं ओभासितं //

___देवपुत्रो देवपुत्रं पृच्छति //

किं कारणं सुरवरेण प्रभा प्रमुक्ता चन्द्रांशुशीतलतरा कनकावदाता / येनासुरेश्वरगणा मनुजेश्वराश् च प्रह्लादिता च नरका ज्वलनार्चिकल्पा //

सो दानि आह //

ये तत्र तत्र जनतां प्रतिपालयन्ति संसारपंजरगतां मदनाभिभूतां / तेषां विमोक्षकरणेन महायशेन आमन्त्रणार्थं अनघेन प्रभा प्रमुक्ता //

[_mvu_1.206_] बोधिसत्वो आह //

मुंचथ अमरा पुराणि न किल प्रामोद्यस्य अयं कालः / जरामरणपुरं भेत्तुं कालो ज्ञानप्रहारेण //

बोधिसत्वो स्मृतो संप्रजानो प्रदक्षिणचित्तो मातुः कुक्षिम् अवक्रान्तो इति //

सो नदिय सिंहनादं नरसिंहो च्यवनकालसमयस्मिं / अन्तरहितो क्षणेन नरेन्द्रभवने समुत्पद्ये //

यो सो तुषितं कायं ओभासेति शुभेन वर्णेन / देवपुराच् च्यवमानो अनतिवरो लोकप्रद्योतः //

सब्रह्मकं च लोकं सश्रमणब्राह्मणा प्रजा सर्वा / वर्णेन्ऽ; ओभासेति अनतिवरः लोकप्रद्योतो //

आश्चर्यम् अद्भुतम् इदं पश्यथ यावत्* महर्द्धिकः शास्ता/ स्मृतिमां सुसंप्रजानो मातुः कुक्षिस्मिं ओक्रान्तो //

यावच् च नरवरप्रवर उत्तमलक्षणसमंगि अस्थासि / माताये कुक्षिस्मिं स्मृतिमतिमां संप्रजानो च //

समनन्तरौक्रान्ते च महामौद्गल्यायन बोधिसत्वे महासत्वे मातुः कुक्षिस्मिं इयं महापृथिवी अतीव षड्विकारं कम्पे संकम्पे प्रकम्पे संहर्षणीयं च कम्पे दर्शनीयं च हर्षनीयं च मोदनीयं च प्रेमनीयं च प्रह्लादनीयं च निर्वर्णनीयं उल्लोकनीयं च

[_mvu_1.207_] आसेचनकं च अप्रतिकूलं च प्रासादिकं च प्रसरणीयं च निरुद्वेगं च निरुत्त्रासं च // कम्पमाना च पुनर् न कंचित् सत्वं व्याबाधति यम् इदं जंगमं स्थावरं वा //

ततो अयं सागरमेरुमण्डला प्रकम्पिता षड्विधम् आसि मेदिनी / कृतो च लोको विमलो मनोरमो महान्धाकारापनुदस्य तेजसा //

सो ऽयं महानुभावो स्मृतिंआं तुषितभवनाच् च्यवित्वान / पाण्डरवराहकनिभो भवित्व गजरूपी षड्डन्तो //

वीरासने शयन्तिये पोषधिकाये विशुद्धवसनाये / {सेनर्त्: वीरशयने} स्मृतो संप्रजानो कुशलो मातुः कुक्षिस्मिं ओक्रान्तः //

सा च रजनीप्रभाते आख्यासि भर्तुनो मनापस्य / राजवर पाण्डरो मे गजराजा कुक्षिम् ओक्रान्तो //

तं शृणुय भर्तु राजा वैपंचनिकां समागतां अवचि / सुपिनस्मिं अस्या सर्वे भणाथ भूतं फलविपाकं //

ते तत्रापि अवचिंसु निमित्तिका पृच्छिता स्वयं राज्ञा / द्वात्रिंशल्लक्षणधरो कुक्षिं देवीय ओक्रान्तो // {सेनर्त्: -लक्षधरो}

हृष्टो भवासि नरवर यस्य तव कुलस्मिं प्रत्युत्पन्नो / पृथिवीधर वरगर्भो अनुपमसत्वो महासत्वो //

यथ मय पौराणानाम् आचार्याणां स्वयं समुपाहृतं /

[_mvu_1.208_] द्वे ऽस्य गतयो अनन्या भवन्ति नरवीरशार्दूल //

यदि आसिष्यति अगारे महीपति होति सरतनो महर्द्धिको / नित्यानुबद्धविजयो राजशतसहस्रपरिवारो //

अथ खलु प्रव्रजिष्यति चातुर्द्वीपां महीं विजहियान / होहिति अनन्यनेयो बुद्धो तेना नरमरूणां //

यावत्तका नागराजानो नागाधिपतयो ते सर्वे बोधिसत्वस्य रक्षावरणगुप्तीये औत्सुक्यम् आपद्येन्सुः // बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते यावन्तो सुवर्णराजानो सुवर्णाधिपतयो ते सर्वे बोधिसत्वस्य रक्षावरणगुप्तीये औत्सुक्यम् आपद्येन्सुः // चत्वारो पि महाराजानो बोधिसत्वस्य रक्षावरणगुप्तीये औत्सुक्यम् आपद्येन्सुः //

चतुरो पि लोकपाला रक्षाम् अकरिन्सु लोकनाथस्य / मा कोची अहितैषी नमुचिबलनुदं विहिंसेय //

शक्रो देवानाम् इन्द्रो सुयामो पि देवपुत्रो संतुषितो पि देवपुत्रो सुनिर्मितो पि देवपुत्रो वशवर्ती पि देवपुत्रो महाब्रह्मा पि शुद्धावासो पि देवपुत्रो बोधिसत्वस्य मातुः कुक्षिगतस्य रक्षावरणगुप्तीये औत्सुक्यम् आपद्येन्सुः //

सहस्राणि देवानाम् अर्चिमपुरम् उपगतानि तुष्टानि / आरक्षार्थं . . . . . वरबुद्धिनो अमरपुरम् इव //

मनोरमं दीपवतीपुरम् उत्तमं कृतम् अनुविशन्तेहि / मनोमयविक्रमगतेहि अमरगणेहि अभिविरोचति //

[_mvu_1.209_] देवीं परिवारेत्वा महेश्वरगणानां किल सहस्राणि / अष्टौ गगणतलगता आकाशगता अभिनिषण्णा //

तेषां दानिं पृष्ठतो इन्द्रसहस्राणि विमलशिखराणि / सुबहूनि बहुगुणस्य आरक्षार्थं निषण्णानि //

तेषां दानिं पृष्ठतो देवेन्द्राणां सहस्रनयुतानि / कामावचरा देवा निषण्णा गगने निरालम्बे //

तेषां देवगणानां पृष्ठतो असुरा असुराणां च द्विजिह्वगणा //

यक्षाश् च विकृतरूपा राक्षससंघाश् च सन्निषाण्णा //

एताये विधिये गगणं अमरशतसहस्रसंकुलं श्रीमं / अत्यन्तसुपरिशुद्धं कुशलम् उपचितं हि विरजेन //

महाब्रह्मा आह स्वप्नान्तरे या प्रमदा ददर्श सूर्यं नभा कुक्षिम् अनुप्रविष्टं / प्रसूयते सा वरलक्षनांगं सो भवति राजा बलचक्रवर्ति //

स्वप्नान्तरे या प्रमदा ददर्श चन्द्रं नभा कुक्षिम् अनुप्रविष्टं / प्रसूयते सा नरदेवगर्भं सो भवति राजा वरचक्रवर्ती //

स्वप्नान्तरे या प्रमदा ददर्श श्वेतं गजं कुक्षिम् अनुप्रविष्टं / प्रसूयते सा गजसत्त्वसारं सो भवति बुद्धो बुधितार्थधर्मो //

[_mvu_1.210_] देवीं स पृच्छति // किं धरेसि // सा आह // चक्रवर्तिन् ति //

कुक्षिं प्रभासयन्तं कनकवपुं प्रवरलक्षणसमंगिं / धारेमि चक्रवर्तिं वरपुरुषं राजशार्दूलं //

देवा नभे भगवतो घोषम् उदीरयेन्सुः // बुद्धो भविष्यति न राजा बलचक्रवर्ती // महाब्रह्मा गाथां भाषति //

गजं रत्नश्रेष्ठं मदनबलवेगापनयनं प्रदीपं लोकस्य तमतिमिरमोहापनयनं / गुणानां कोषं त्वं अपरिमितरत्नाकरधरं धरेसि राजर्षि अप्रतिहतचक्रं अमररुचिं //

देवी आह यथा मम न रागदोषा प्रसहन्ति नरेन्द्रगर्भम् उपलभ्य / निःसंशयं भविष्यति समरुचि यथ निश्चरति वाचा //

बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता सुखं गच्छति तिष्ठति पि निषीदति पि शय्याम् अपि कल्पयति बोधिसत्वस्यैव तेजेन / शस्त्रं काये न क्रमति न विषं नाग्निर् नाशनिः प्रसहति बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातरं देवकन्या दिव्येहि उच्छादनपरिमर्दनपरिष्कारेहि परिजागरन्ति // दिव्यवस्त्रसंवृतशरीरा दिव्याभरणधारिणी भवति बोधिसत्वस्यैव तेजेन // लाभिनी भवति दिव्यानां गन्धानां दिव्यानां माल्यानां दिव्यानां विलेपनानां दिव्यानां ओजानां बोधिसत्वस्यैव तेजेन // बोधिसत्वे

[_mvu_1.211_] खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते यो ऽस्या अभ्यन्तरपरिवारो सो ऽस्या अतीव शुश्रूषितव्यं श्रोतव्यं मन्यति बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातरं ये पश्यन्ति ते ताम् उपसंक्रमित्वा किंकरणीयकप्रतिसंयुक्तेहि व निमन्त्रेन्ति बोधिसत्वस्य एव तेजेन // न किंचिद् उपरिमेन गच्छति अन्तमशतो पक्षी पि बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता अल्पाबाधा भवति अल्पातंका / समाये विपाकनीयग्रहणीये समन्वागता नाप्य् अतिशीताये नाप्य् अति-उष्णाये सम्मापरिणामाये बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता लाभिनी प्रणीतानां खादनीयभोजनीयानाम् अग्ररसानां प्रत्यग्ररसानां बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता वीतरागा भवति / अखण्डम् अच्छिद्रम् अशबलम् अकल्माषं परिशुद्धं परिपूर्णं ब्रह्मचर्यं चरति // मनसापि तस्याः प्रमदोत्तमाया रागो न उत्पद्यति सर्वपुरुषेहि अन्तमसतो राज्ञापि अर्चिमता // बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता पञ्च शिक्षापदानि समादाय वर्तते / तानि च सपूर्वसमादिन्नानि भवन्ति / बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते यावता नागराजानो नागराजाधिपतयो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते निवेशनम् उपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि प्रकिरन्ति // एवम् अगुरुचूर्णानि मुक्तकुसुमानि च प्रकिरेन्सुः समाप्ताये च नं अर्चनाये अर्चयेन्सुः परिपूर्णाये च नम् अर्चनाये अर्चयेन्सुः परिशुद्धाये च नम् अर्चनाये अर्चयेन्सुः // ते दिव्यानि चन्दननचूर्णानि प्रकिरित्वा केशरचूर्णानि तमालपत्रचूर्णानि मुक्तकुसुमानि प्रकिरेन्ति /

[_mvu_1.212_] समाप्ताये नं अर्चयेन्सुः परिपूर्णाये च नम् अर्चनाये अर्चयेन्सु परिषुद्धाये च नं अर्चनाये अर्चयेन्सुः // परिपूर्णाये अर्चनाये अर्चयित्वा परिशुद्धाये अर्चनाये अर्चयित्वा दिव्येहि चन्दनचूर्णेहि प्रकिरित्वा दिव्येहि अगुरुचूर्णेहि केशरचूर्णेहि तमालपत्रचूर्णेहि मुक्तकुसुमेहि ओकरित्वा अध्योकिरित्वा अभिप्रकिरित्वा बोधिसत्वमातां त्रिखुत्तं अभिप्रदक्षिणं कृत्वा येनकामं प्रक्रमिन्सुः बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते यावता सुवर्णराजानो सुवर्णाधिपतयो अण्डजा वा जरायुजा वा संस्वेदजा वा उपपादुका वा ते निवेशनं प्रविशित्वा दिव्यानि चन्दनचूर्णानि प्रकिरन्ति दिव्यान्य् अनेकचूर्णानि प्रकिरन्ति दिव्यानि केशरचूर्णानि प्रकिरन्ति दिव्यानि तमालपत्रचूर्णानि प्रकिरन्ति दिव्यानि कुसुमचूर्णानि प्रकिरन्ति / समाप्ताये च नं अर्चनाये अर्चयेन्सु परिपूर्णाये च नं अर्चनाये अर्चयेन्सु परिशुद्धाये च नं अर्चनाये अर्चयेन्सुः // दिव्यानि चूर्णानि प्रकिरित्वा अगुरुचूर्णानि केशरचूर्णानि तमालपत्रचूर्णानि प्रकिरित्वा दिव्यानि च मुक्तकुसुमानि प्रकिरित्वा बोधिसत्वमातां त्रिष्खुत्तं प्रदक्षिणं कृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन // बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातां चतुर्महाराजकायिका देवाः त्रायस्त्रिंशा यामा तुषिता निर्माणरतिपरनिर्मितवशवर्ती ब्रह्मकायिका शुद्धावासकायिका देवा तस्य निवेशनं प्रविशित्वा दिव्येहि चन्दनचूर्णेहि प्रकिरेन्सुः दिव्येहि अगुरुचूर्णेहि तमालपत्रचूर्णेहि दिव्येहि च मुक्तकुसुमेहि प्रकिरेन्सुः समाप्ताये च नं अर्चनाये अर्चयेन्सुः संपरिपूर्णाये च

[_mvu_1.213_] नम् अर्चनाये अर्चयेन्सुः परिशुद्धाये च नं अर्चनाये अर्चयेन्सुः // ते दिव्येहि चन्दनचूर्णेहि ओकिरित्वा दिव्येहि अगुरुचूर्णेहि दिव्येहि केशरचूर्णेहि दिव्येहि तमालपत्रेहि दिव्येहि मुक्तकुसुमेहि प्रकिरित्वा समाप्ताये च नं अर्चनाये अर्चयित्वा परिपूर्णाये च नं अर्चनाये अर्चयित्वा परिशुद्धाये च नं अर्चनाये अर्चयित्वा बोधिसत्वमातां त्रिष्कृत्वो प्रदक्षिणीकृत्य येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन //

___बोधिसत्वो खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगतो न चातिनीचं तिष्ठति न च अति-उच्चं तिष्ठति न च अवकुब्जको न उत्तानको न वामपार्श्वे तिष्ठति न उत्कुटिको // अथ खलु मातुर् दक्षिणे पार्श्वे पर्यङ्कम् आभुंजित्वा तिष्ठति // बोधिसत्वो खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगतो न पित्तेन वा श्लेष्मेण वा रुधिरेण वा अन्येन वा पुन केनचिद् अशुचिनापरिशुद्धो तिष्ठति // अथ खलु उच्छादितस्नापितविशदगात्रो बोधिसत्वो मातुः कुक्षिस्मिं तिष्ठति // बोधिसत्वो खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगतो मातरं पश्यति // बोधिसत्वमातापि कुक्षिगतं बोधिसत्वं पश्यति विग्रहम् इव जातरूपस्य दृष्ट्वा च भवति आत्तमना [कुक्षिं ओभासेन्तं विग्रहम् इव जातरूपस्य] // यथा वेरुलियस्य मणि स्फाटिकसमुद्गस्मिं निहितो अस्या एवम् एव बोधिसत्वं पश्यति माता कुक्षिम् ओभासेन्तं विग्रहम् इव जातरूपस्य //

[_mvu_1.214_] बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते देवसंघाः सुखरात्रिं सुखदिवसं पृच्छका आगच्छन्ति / तां च बोधिसत्वो अभिनन्दति दक्षिणकरम् उत्क्षिप्य मातरम् अबाधमानो // बोधिसत्वं खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगतं देवा नागा यक्षा दानवा राक्षसा पिशाचा न जहन्ति दिवा वा रात्रिं वा न चात्र आसंगकथा कथीयति कामोपसंहिता वा अन्या वा असत्या कथा / नान्यत्र बोधिसत्ववर्णम् एव भाषन्ति रूपतः सत्त्वतस् तेजतः वर्णतः यशतः कुशलमूलतः // बोधिसत्वस्य मातुः कुक्षिगतस्य पूजा नोपरमति // दिव्यानि तूर्याणि वाद्यन्ति दिव्यानि अगुरुधूपनि धूपेन्ति दिव्यं पुष्पवर्षं वर्षति दिव्यं चूर्णं वर्षति // अप्सरसहस्राणि च उपगायन्ति उपनृत्यन्ति पि // बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातां देवकन्यासहस्रेहि सार्धं अभ्याभवति हास्यं च कथा च // प्रसुप्तां च पुनर् बोधिसत्वमातरं देवकन्या मान्दारवदामेन परिवीजेन्ति बोधिसत्वस्य तेजेन // अयं च पुनर् महामौद्गल्यायन त्रिसाहस्रमहासहस्रायां लोकधातूयम् अनुत्तरा गर्भावक्रान्तिपारमिता //

अन्यं च दानि पश्यथ आश्चर्यं तस्या देवपर्षाये / ताव विपुलाये या कथा अभू परमहर्षसंजननी //

न च कामकथान्या वा नाप्य् अप्सरसां कथा न गीतकथा / न च वाद्यकथा तेषां न पि भुक्तकथा न पानकथा //

नाभरणकथा तेषां न पि वस्त्रकथा प्रवर्तति कदाचित्* /

[_mvu_1.215_] यानोद्यानकथा वा मनसापि न जायते तेषां // {या नोद्यानकथा?} साधू पुण्यबलवतो द्युती अनुपमा सदेवकं लोकं / अभिभवति नायकस्य विकसति एषा कथा तत्र //

साधुं गर्भावक्रमणाम् अनोपमं रूपपारमिगतस्य / इति विकसति बहुविधा कथा परिषामध्ये एतस्मिं //

साधूहि निरामिषेहि संज्ञापदेहि क्षपेन्ति तं कालं / वरबुद्धिनो इयं अपि कथा विकसति परिषामध्ये //

एवं च बहुप्रकारां कथां कथेन्ता रमन्ति देवगणा / रूपं वर्णं तेजं बलं च विरजस्य कथयन्ता //

सर्वेषां बोधिसत्वानां मातरो परिपूर्णे दशमे मासे प्रसूयन्ति // दशमे मासे पूर्णे सुदीपा नाम देवी राजानम् अर्चिमं आह // देव अभिप्रायो मे पद्मवनं उद्यानं निर्गन्तुं // राजा देवीये सुदीपाये श्रुत्वा अमात्यान् आह // पद्मवनम् उद्यानं सान्तःपुरो निष्क्रमिष्यामि क्रीडार्थम् इति //

पद्मिनिवनं सुचपलं अपगततृणखण्डपत्रसंस्कारं / वरसुरभिकुसुमनिकरं करोथ गन्धोदकसुगन्धं //

पद्मिनिवने च वाता तमालपत्रगन्धवासितशरीरा / सिञ्चन्तु अमृतगन्धां मदजनना च पलायन्तु //

अगरुवरधूपगर्भा समोनमन्तु नभतो जलधरा तं / पद्मिनिवनं छादेतुं वरचूर्णरसाकुलं क्षिप्रं //

[_mvu_1.216_] एकैकं च द्रुमवरं दुकूलपट्टोर्णकोशिकारेहि / कल्पयथ कल्पवृक्षान्* यथ दिवि देवप्रधानस्य //

देवा च देवकन्या च गन्धमाल्या गृह्य पद्मिनिवन-उद्यानम् अर्चिमतो आगच्छन्ति //

स्फटिकमणिकुण्डलधरा विगलितवसना प्रलम्बमणिहारा / आदाय गन्धमाल्यं गगनपथगता ओलीयन्ति //

मान्दारवाण भरिता काचित् संगेरियो भरित्वान / हरिचन्दनस्य काचित् काचि पुनः कल्पदुष्याणां //

स्थलजजलजं च माल्यं गृहीत्वा अप्सरा मुदितचित्ता / रतना आभरणानि च जम्बुद्वीपं अभिमुखीयो //

चतुराशीतिम् अनूनं छत्रसहस्राणि देवकन्यायो / कनकरतनामयानि आदाय नभे प्रलीयन्ति //

कूटागारशतेहि स्फटिकमणिचित्रेहि लेपनलेपितैः / भरितम् अपि अन्तरीक्षं दुष्यशतसमुच्छ्रितपताकं //

गजश्वसनसन्निकाशा शारदमेघा चाभिविरोचन्ति / वरसुरभिकुसुमगन्धा कमलोत्पलचम्पकविमिश्रा //

भुजगपतिनो पि मुदिता मेघेहि सुगन्धतोयभरितेहि / अभ्योकिरन्ति गगणं अन्यानि च अद्भुतशतानि //

अथ महामौद्गल्यायन राजा अर्चिमो महाता राजानुभावेन महता राज-ऋद्धिये महतीये विभूषाये सान्तःपुरो पद्मिनीवनम् उद्यानं निर्यासि //

[_mvu_1.217_] अवगाह्य तं वनवरं देवी सखिपरिवृता जिनजनेत्री / विचरति चित्ररथे देवी अमरवधु यथा रतिविधिज्ञा //

अथ महामौद्गल्यायन सुदीपा देवी सखीहि संपरिवृता पद्मिनीये पुरिमपश्चिमवेदिहि विततवितानेहि विचित्रदुष्यपरिक्षिप्तेहि ओसक्तपट्टदामकलापेहि लेपनलेपितेहि धूपनधूपितेहि मुक्तपुष्पावकीर्णेहि वेदिकाजालसंप्रतिक्षिप्तेहि उच्छ्रितच्छत्रध्वजपताकेहि नावायानेहि प्रक्रीडिता // अथ सुदीपाये देवीये नावायानेन कड्ढीयन्तिये किल चित्तं उत्पन्नं / नावातो ओतरिष्यामीति // बोधिसत्वानुभावेन च मध्ये तडागस्य द्वीपो प्रादुर्भूतो समो अविषमो सुवर्णवालिकासंस्तृतो तृणानि च जातानि मृदूनि नीलानि तूलसंस्पर्शोपमानि मयूरग्रीवासन्निकाशानि चतुरङ्गुलं पृथिवीतो निक्षिप्ते पदे ओनमन्ति वृक्षाणि चात्र प्रादूर्भूतानि फलोपेतानि सुमनोज्ञानि // देवी तम्हि द्वीपे प्रतिष्ठिता // न खलु पुनर् महामौद्गल्यायन बोधिसत्वमाता शयाना निषण्णिका वा बोधिसत्वं जनेति / न खलु महामौद्गल्यायन बोधिसत्वमाता बोधिसत्वं पित्तेन वा श्लेष्मेण वा रुधिरेण वा अन्यतरान्यतरेण वा अशुचिनापरिशुद्धं जनेति अथ खलु उच्छादितस्नापितविशदगात्रं येव बोधिसत्वं जनेति //

सा परिकिलन्तकाया द्रुमस्य शाखां भुजाय अवलम्ब्य / प्रविजृम्भिता सलीला तस्य यशवतो जननकाले //

अथ विंशतिं सहस्रा मरुकन्या आशु-र्-एव सन्निपतिता /

[_mvu_1.218_] देवीं कृतांजलिपुटाः इदम् अवच प्रसन्नसंकल्पाः //

अद्य जराव्याधिमथनं जनयिष्यसि अमरगर्भसुकुमारं / देवी दिवि भुवि महितं हितं हितकरं नरमरूणां //

मा खु जनयी विषादं परिकर्म वयं तवं करिष्यामः / यं कर्तव्यम् उदीरय दृश्यतु कृतम् एव तत् सर्वं //

अथ चतुरि लोकपाला सपरिवारा आशु-र्-एव सन्निपतिता / दिव्यप्रवेणिहस्ता देविम् उपगता प्रदक्षिणतो //

सर्वे पि देवसंघा देवीं परिवारयित्व आकाशे / स्थिता माल्यगन्धहस्ता स्वपरिवारेणोपशोभन्ति //

बोधिसत्वो स्मृतो संप्रजानो मातरम् अबाधमानो दक्षिणेन पार्श्वेन प्रादुर्भवति //

दक्षिणेन हि पार्श्वेन जायन्ते पुरुषोत्तमाः / सर्वे पुरुषशार्दूला भवन्त्य् अत्रविहारिणः //

किन् तं न भिद्यते पार्श्वं तस्या जिनजनेत्रिये / जनेन्तिये नरश्रेष्ठं वेदना च न जायति //

मनोमयेन रूपेण प्रादुर्भोन्ति तथागता / एवं न भिद्यते पार्श्वं वेदना च न जायते //

गर्भावासपरिश्रान्तो सप्तधा विक्रमते भुवि / दिशां च प्रविलोकेति महाहासं च ऊहति //

अत्र किं कारणम् उक्तं यं सप्त क्रमते क्रमान्* / न च अष्ट न च षष्टि अत्र आगमनं शृणु //

[_mvu_1.219_] गर्भावासपरिश्रान्तो सर्वलोकहितो मुनिः / पश्चिमो गर्भावासो यं अथ वेगेन प्रक्रमि //

भूमौ सप्तक्रमे न्यस्ते देवसंघा निलीयथ / सहसा लोकपालानाम् अंकेहि धरितो मुनिः //

अथ वर्षं समुत्पद्यि दिव्यकुसुमशीकरः / मन्दारवरजाकीर्णं दिव्यचन्दनसंकुलं //

दीर्घकालं उदग्राश् च सुरमुख्याग्रधूपनं / प्रमुंचिषु विभूषार्थं तस्य उत्तमबुद्धिनः //

यद् अर्थञ् च विलोकेति दिशां अप्रतिपुद्गलः / तत्राहम् आगमं वक्ष्ये उपदेशं मनोरमं //

न सो विद्यति सत्वानां देवेषु मनुजेषु च / यस्यैवं संभवो भवेत्* गर्भोक्रमणम् एव च //

खद्योतकनकनिर्भासं पार्श्वं जिनजनेत्रिये / जायते यदा सर्वज्ञः जायन्तो चरमे भवे //

जातमात्रस्य तच् चित्तं अभूत् प्रवरवादिनो / अस्ति कश्चित् समबुद्धि मे च्च्ऽ; एतं तर्कं निवर्तितुं //

केचित् संसारपाशेन अर्त्तियन्ते यथा अहं / इत्यर्थं पुरुषादित्यो दिशां सर्वां निरीक्षति //

अथ दिशा विलोकेन्तो पश्यति वदतां वरो / देवकोटिसहस्राणि तस्मात्* हासं प्रमुंचति //

[_mvu_1.220_] तं जातमात्रम् इत्य् आहु देवता मारकायिका / चातुर्द्वीपो महाकोशो चक्रवर्ती भविष्यसि //

अथास्य हासो संभवति न मम सत्वाभिजानथ / सर्वज्ञो सर्वदर्शी च भविष्यं पुरुषोत्तमः //

एवम् एतं प्रशंसन्ति विशेषा उपदेशकाः / तथा हि नरसिंहानां शासनं संप्रकाशितं //

यं तिष्ठन्ती जनये वीरं संकुसुमितेषु शालेषु / शरीरम् अवलम्ब्यमाना तं अनतिवरं जिनं वन्दे //

संप्रतिजातो सुगतो समेहि पदेहि धरणिं अवतिष्ठेत्* / सप्त च पदानि अगमा सर्वां च दिशां विलोकेसि //

तं सामं चंक्रमन्तम् अन्वागमि वीजनं च च्छत्रं च / मा वरविदुनो काये दंशा मशका च निपतेन्सुः //

संप्रतिजातं सुगतं देवा प्रथमं जिनं प्रतिगृह्णे / पश्चाच् च तं मनुष्याः अनतिवरं अङ्के धारेन्सुः //

प्रत्यग्रहेन्सु देवाः सुगतं द्वात्रिंशलक्षणप्रदर्शिं / पश्चाच् च तं मनुष्या अनतिवरं अंके धारेन्सुः //

निर्वायेन्सु प्रदीपा मानुषका ओभासित ऽभूल् लोकं / संप्रतिजाते सुगते उल्काधारे नरमरूणां //

संप्रतिजाते सुगते उदकार्थिका प्रधाविन्सुः / अथ पुरतो उदुपाना पूरा मुखतो विष्यन्देन्सु //

[_mvu_1.221_] द्वि वारिधारा उद्गमि एका शीतस्य एका उष्णस्य / यत्र स्नपयेन्सु सुगतं विग्रहं इव जातरूपस्य //

संप्रतिजाते सुगते बोधिसत्वमाता अक्षता चैव अभूषि अव्रणा बोधिसत्वस्यैव तेजेन // सम्प्रतिजाते खलु पुनर् महामौद्गल्यायन बोधिसत्वे बोधिसत्वमातुः कुक्षि प्रतिपूर्णा येव अभूषि अनारब्धा च बोधिसत्वस्यैव तेजेन // संप्रतिजाते खलु पुनर् महामौद्गल्यायन बोधिसत्वे अन्तरद्वीपे चन्दनवनं प्रादुर्भवे बोधिसत्वस्य उपभोगपरिभोगम् आगच्छे बोधिसत्वस्यैव तेजेन // तत्र देवपुत्रशतसहस्राणि सह गच्छन्ति गन्धमाल्यहस्ता बोधिसत्वस्य पूजार्थं // देवपुत्रो देवपुत्रं पृच्छति कहिं गमिष्यसीति // सो तान् आह //

एषा प्रसूष्यति नरेन्द्रवधूत्तमं तं वत्सं विबुद्धवरपुष्करगर्भगौरं / यो प्राप्स्यते धरणिमण्डगतोत्तमार्थं मारं निहत्य सबलं तम् उपेमि वीरं //

अम्रक्षिता गर्भमलेन गात्रा जातं जले पंकजम् उत्तमं वा / वपुष्मतो बालरविप्रकाशो सब्रह्मकान् अमरान् अभिभोति //

ततो जातमात्रो कुले अर्चिमस्य अतिक्रम्य धीरो पदानि इह सप्त / समोलोकयित्वा दिशां ऊहसासि अयं दानिम् एको भवो पश्चिमो ति //

[_mvu_1.222_] ततश् च च्छत्रं एकं विभ्राजमानं मणीमुक्तश्रेष्ठं पराभाविभ्राजं / विधूतेन दामेन मन्दारवाणां बहू देवपुत्रा नभे धारयेन्सुः //

सबालार्कशंखप्रतीकाशवर्णं वरं हेमच्छत्रं नभे धारयेन्सुः / ततो वीजनीयो विसृष्टा भ्रमेन्सुः करेण गृहीत्वा जिनं वीजयेन्सुः //

ततो पुण्यगन्धा सुखोष्णा प्रभूता लहुं प्रेमणीया हिता मानुषाणां / शिवा नन्दनीया तुषारानुबद्धा दुवे वारिधारा नभे उद्गतासुः //

ततो मेरुशृंगाद् अनेकप्रकारा प्रमुक्तोत्तरीया समन्तोर्मिजाता / भृशं विश्वगन्धाधिवासानुवाता दृढं षड्विकारं महीं कम्पयेन्सुः //

सुवर्णस्य रूप्यमणीनां शुभाना विमानेषु देवा सतूर्याविघुष्टा / सुजातानुजातं जिनं प्रेक्षमाणा सचन्द्रार्कतारं नभं शोभयेन्सुः //

अयं सो सदेवं सनागं सयक्षं

[_mvu_1.223_] महोघं महर्षी जगं उत्तरित्वा / ततः क्षेमम् एकां दिशं प्राप्स्यतीति प्रहृष्टा ऽस्य देवा नभे व्याहरेन्सुः //

राजा अर्चिमो आणापेसि // कुमारं इमाये व देवीये पादवन्दनं नेथ // कीदृशेन यानेन कुमारो अभिनिषीदतीति // देवेहि रतनामयी शिविका निर्मिता // को इमां शिविकां वहिष्यतीति // चत्वारो महाराजा उपस्थिता // वयं सत्वसारं वहिष्याम बोधिसत्वं सुदीपां च देवीं धात्रीं च बोधिसत्वस्य // शिविकाम् आरूढा शक्रो च देवानाम् इन्द्रो महाब्रह्मा च उत्सारणं करोन्ति // एवं बोधिसत्वो महतीये विभूषाये महतीये समृद्धीये महतीये देव-ऋद्धीये महतीये राज-ऋद्धीये पद्मिनीवनातो उद्यानातो दीपवतीं राजधानीं प्रवेशीयति देवीये कलम् उपनीतः //

नरो चेतियेषु प्रविष्टो अकामो महालोकनाथो नरेन्द्राण शास्ता / यदा उत्तमांगेन वन्दापयेन्सुः ततो अस्य पादानि प्रादुर्भवेन्सु //

ततो देवता देवतां इत्य् अवोचत्~ न एषो ऽनुरूपो ममं वन्दमानो / प्रणामं च एषो यद्य् अन्यस्य कुर्यात्* दृढं सप्तधा अस्य मूर्ध्नं फलेया इति //

जातमात्रे कुमारे ऽर्थसिद्धी सुखी सर्वे सत्वा अभूद् यावद् अवीचिं / प्रणामं च कुर्वी देवाः / तस्य सर्वे प्रहृष्टाः //

[_mvu_1.224_] राजकुलं च कुमारे प्रविष्टे उवाच पुरोहितं नृपतिः / लक्षणविधिगुणकुशलां विप्रान् पर्येषथ शीघ्रं //

तं विज्ञाय च देवा महेश्वरा नाम चित्तवशवर्ती / मा लक्षणा अकुशला विकल्पयिष्यन्ति द्विजसंघा //

विगतमदमानदर्पाः अष्ट सहस्रा महेश्वरवराणां / देवगणेहि गुरुकृतं संप्रतिजातं उपगमेन्सुः //

ते राजकुलद्वारे शुचिवसनवरस्थिता स्तिमितशब्दा / प्रतिहाररक्षम् अब्रवीत् सुमधुरकरविंकरुतघोषाः //

राजवरं उपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञाः / तिष्ठन्ति अष्टसहस्रं प्रविशेन्सुः यदि अनुमतन् ते //

साधू ति प्रतिश्रुत्वा प्रतिहाररक्षो प्रविश्य राजकुलं / अब्रवीत् कृतांजलिपुटो प्रीतिमनसो पृथिवीपालं //

अतुलबल दीप्तयशसा कारय राज्यं चिरं निहतशत्रुः / द्वारे ते अमरसदृशास् तिष्ठन्ति प्रवेष्टुम् इच्छन्ति //

प्रतिपूर्णविमलनयना मधुरस्वरमत्तवारणविचारी / भवति मम तेषु संका न ते मनुजा देवपुत्रा ते //

परिचंक्रमतां तेषां धरणिरजो क्रमवरा न संकिरति / न च सान पश्यामि पदं पृथिव्याम् इदं अपि आश्चर्यं //

गम्भीरस्तिमितचेष्टा आर्याकारा प्रशान्तदृष्टिपथा / विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमानस्य //

अन्यं च दानि अद्भुतं शरीरच्छाया न दृश्यते तेषां /

[_mvu_1.225_] न च तेषु सन्धिशब्दो चंक्रमतां श्रूयते कश्चित्* //

निःसंशयं उपगता पुत्रवरं तव नरवराधिप द्रष्टुं / अभिनन्द्य च अभिवन्द्य च पश्यासि अयोनिजां देवां //

वरमाल्यगन्धहस्ता लीलाचेष्टा मनोरमशारीरा / दीप्यन्ता इव शिरिये असंशयं प्रवरमरुतस् ते //

तं अर्चिमो निशाम्य वचनम् इदं हर्षकम्पितशरीरो / अब्रवीद् भणे सुचपलं प्रविशन्तु निवेशनम् उदारं //

किं कारणं न एदृशाः प्राकृतपुरुषाण भोन्ति आकाराः / न पि मानुषाण एदृशी ऋद्धि भवति यादृशीं भणसि //

अथ सो प्रतिहाररक्षो उपगम्य महेश्वरान् इदम् अवोचत्* / प्रह्वो कृतांजलिपुटो प्रणम्य हृष्टो मुदितचित्तो //

अभिनन्दते नरपतिः प्रविशन्तु भवन्तो देवपुरकल्पं / राजवृषभस्य वेश्मं नराधिपतिना अनुज्ञाताः //

एतं श्रुत्वा वचनं अष्टसहस्रं महेश्वरवराणां / प्रविशन्ति पार्थिवकुलं अनिहतकुलवंशमुख्यस्य //

अथ अर्चिमो पि राजा महेश्वरां दूरतो निशामेत्वा / प्रत्युत्थितो सपरिवारो गौरवबलभावितशरीरो //

तान् अवच राजवृषभो स्वागतम् अनुरागतं वः सर्वेषां / प्रीतो ऽस्मि दर्शनेन प्रशमदमबलेन च भवतां //

संविद्यन्ते इमानि अस्माकं आसनप्रधानानि / आस्तां ताव भवन्तो अस्माकम् अनुग्रहार्थाय //

अथ ते तेष्व् आसनेषु बहुरतनविशुद्धचित्रपादेषु /

[_mvu_1.226_] विगतमदमानदर्पा निषीदि अनवद्यकर्मान्ताः //

ते कंचिद् एव कालं आगमयित्वा नराधिपम् अवोचत्* / शृण्वतु भवां प्रयोजनं यं अस्माकम् इह गमनाये //

सर्वानवद्यगात्रः उत्पन्नो लोकसुन्दरो तुह्यं / पुत्रो किल मनुजपते लक्षणगुणपारमीप्राप्तो //

वयम् अपि लक्षणकुशलाः समर्था गुणदोषलक्षणं ज्ञातुं / यदि न गुरुत्वं भवतो पश्येम महापुरुषरूपं //

सो अवच हंत पश्यथ सुव्यपदेशक्षेमं मम पुत्रं / मरुमनुजहर्षजननं लक्षणगुणपारमिप्राप्तं //

अथ स मृदुकाचिलिन्दिकप्रवेणियं गुणधरं ग्रहेत्वान / अंकेन वादिचन्द्रं उपनामयति सुरवराणां //

आलोकयित्व दूरात्* महेश्वराः वरक्रमान् दशबलस्य / मूर्धनि विगलितमुकुटा निपतेन्सु महीतले हृष्टा //

ते दानि राजानम् आरोचेन्ति // लाभा ते महाराज सुलब्धा यस्य ते यं महापुरुषो कुले उत्पन्नो द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो // तद्यथा //

समा हेष्टा च दीर्घा च आयता च उच्छंग पंचमा / एणि वृहच् च तिष्ठन्तो कोश न्यग्रोध ते दशा //

मृदु जाला च प्रतिपूर्णा एका ऊर्ध्वाग्र पंचमा / श्लक्ष्णच्छवि हंसान्तरा च उत्सदा च ते दश //

[_mvu_1.227_] रसं सुवर्ण सीहो च समा शुक्ला च पंचमा / समा प्रभूता ब्रह्मा च नीला गोपक्ष्म ते दश //

ऊर्णा उष्णीष शीर्षं च नाथो द्वात्रिंशलक्षणो / ते दानि ब्राह्मणा राज्ञा अर्चिमेन उच्यन्ति // यं कुमारस्य नामं अनुरूपं तं करोथ // ते ब्राह्मणा आहन्सु // महाराज कुमारे जायमाने दीपो प्रादुर्भूतो महां ओभासो तस्मात् कुमारो दीपंकरो नाम भवतु // एवं कुमारस्य शुद्धावासेहि देवेहि ब्राह्मणवेशं निर्मिणित्वा दीपंकरो ति नाम कृतं //

___तस्य सदृशीयो धात्रीयो कुमारं उपस्थिहन्ति संवर्धयन्ति // यदा च बोधिसत्वो यौवनप्राप्तो राज्ञा त्रयो प्रासादा कारिता कुमारस्य क्रीडार्थं परिचारार्थं विस्तीर्णं च अन्तःपुरं उपस्थापितं // बोधिसत्वो महता राजानुभावेन महता राज-ऋद्धीये महता राजविभूषाये सान्तःपुरो पद्मिनीवनम् उद्यानभूमिं निर्गतो क्रीडार्थं // राज्ञा अर्चिमेनान्तःपुरम् आणत्तं // सुष्ठु कुमारं क्रीडापेथ // बोधिसत्वो नावायानेहि पुरिमपश्चिमवेदिहि वेदिकाजालेहि वेदिकाजालपरिक्षिप्तेहि विततवितानेहि चित्रदुष्यपरिक्षिप्तेहि ओसक्तपट्टदामकलापेहि धूपनधूपितेहि मुक्तपुष्पावकीर्णेहि हारार्धहारचन्द्रसुचित्रेहि उच्छ्रितच्छत्रध्वजपताकेहि नावायानेहि निष्पुरुषे तटे ओतरति // किलान्तं अन्तःपुरम् आसुप्तं काचि हनुकाम् उप्रग्रहियाण काचित् पणवम् उपगुह्य काचिद् वेणुं काचिद् वीणां काचिद् वल्लकीं काचित् सुघोषकीं काचिन् नूपुरं काचित्* मृदंगं काचिल् लालाघरन् ति // बोधिसत्वस्य तां दृष्ट्वा श्मशानसंज्ञा प्रादुर्भूता // मध्ये पुष्करणीये पद्मं प्रादुर्भूतं रथचक्रमात्राहि कर्णिकाहि अपरेहि पद्मसहस्रेहि अनुपरिवारितं //

[_mvu_1.228_] बोधिसत्वो तत् पदुमे पर्यङ्केन निषण्णो तं च पदुमं संकुचितं कूटागारे संस्थितं // बोधिसत्वस्य सर्वं गृहिलिंगम् अन्तर्हितं काषायाणि प्रादुर्भूतानि // अथ खलु महामौद्गल्यायन दीपंकरो बोधिसत्वो विविक्तं कामेहि विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरेसि // सवितर्कविचाराणां व्युपसमाद् अध्यात्मसंप्रसादाच् चेतसः एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरेसि // स प्रीतेर् विरागाद् उपेक्षकश् च विहरति स्मृतः संप्रजानं सुखं च कायेन प्रतिसंवेदयति / यत् तं आर्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति // सुखस्य च प्रहाणा दुःखस्य च प्रहाणात् पूर्वं च सौमनस्यदौर्मनस्ययोर् अस्तंगमात्* अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरेसि // सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपकिलेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्रीये पुरिमे यामे दिव्यचक्षुदर्शानप्रतिलाभाय चित्तम् अभिनिर्हरेसि निर्णामेसि //

___सो दिव्येन चक्षुषा सत्वान् पश्यति च्यवन्तां उपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतान् यथाकर्मोपगान् सत्वान् प्रजानाति // सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्रीये मध्यमे यामे अनेकविधं पूर्वनिवासं समनुस्मरेत्* / सय्यथीदं एकां वा जातिं द्वौ वा जातिं त्रयो वा जातिं चत्वारि वा जातिं पंच वा जातिं दश वा विंशद् वा त्रिंशच् चत्वारिंशं वा पंचाशं वा जातीशतं वा जातीसहस्रं वा अनेकानि च जातीशतानि

[_mvu_1.229_] अनेकानि जातीसहस्राणि अनेकान्य् अपि जातीशतसहस्राणि संवर्तकल्पां वा विवर्तकल्पां वा संवर्तविवर्तकल्पां वा अनेकां पि संवर्तां अनेकां पि विवर्तां अनेका पि संवर्तविवर्तानि कल्पानि // अमुत्राहं आसिं एवंनामो एवंगोत्रो एवंजात्यो एवमाहारो एवमायुःपर्यन्तो एवंसुखदुःखप्रतिसंवेदी इति साकारं सोद्देशं अनेकविधं पूर्वनिवासं समनुस्मरति // सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपकिलेशेन स्थितेन अनिंज्यप्राप्तेन रात्रीये पश्चिमे यामे नन्दीमुखायां रजन्यां अरुणोपघाटकालसमये यत् किंचित् पुरुषनागेन पुरुषसिंहेन पुरुषर्षभेण पुरुषपदुमेन पुरुषपुण्डरीकेण पुरुषधौरेयेण पुरुषेण सत्पुरुषेण पुरुषाजानेयेन अनुत्तरेण पुरुषदम्यसारथिना गतिमेन स्मृतिमेन धृतिमेन मतिमेन सर्वशो सर्वत्रताये ज्ञातव्यं प्राप्तव्यं बोद्धव्यं अभिसंबोद्धव्यं सर्वन्तम् एकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो // इयं च महापृथिवी षड्विकारं कम्पे संप्रकम्पे भूम्या च देवा घोषम् उदीरयेन्सुः शब्दं नभे श्रावयेन्सु // एष मारिष भगवां दीपंकरो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा त्रायस्त्रिंशा यामा तुषिता निर्माणरतयः परनिर्मितवशवर्तिन इति तत् क्षणं तन् मुहूर्तं यावद् ब्रह्मकायं घोषम् अभ्युद्गच्छेत्* // एष मारिष भगवां दीपंकरो सम्यक्संबुद्धो भविष्यति तं भविष्यति बहुजन्हिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // अप्रमेयस्य उदारस्य महतो ऽवभासस्य लोके प्रादुर्भावो अभूषि // यावता लोके लोकान्तरिका अन्धकारा अन्धकारार्पिता तमिस्रा तमसार्पिता अघा

[_mvu_1.230_] अघसंभूतपूर्वा यत्र इमे पि चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वा आलोकं न स्फरन्ति ते पि तेन ओभासेन स्फुटा अभून्सुः // ये पि तत्र सत्वा उपपन्ना ते पि अन्यमन्यं संजानेन्सुः अन्ये पि किल इह भो सत्वा उपपन्ना अन्ये पि किल भो सत्वा उपपन्ना अन्ये पि किल भो सत्वा उपपन्नाः // एकान्तसुखसमर्पिता च पुनस् तत् क्षणं तं मुहूर्तं सर्वे सत्वा अभून्सु // ये पि अवीचे महानरके उपपन्ना अतिक्रमे व देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं // ध्यामानि च अभून्सुः मारभवनानि निष्प्रभाणि निस्तेजानि निरभिरम्याणि // क्रोशिकान्य् अपि तत्र खण्डानि प्रपतेन्सु द्विकोशिकान्य् अपि तत्र खण्डानि प्रपतेन्सु त्रिक्रोशिकान्य् अपि तत्र खण्डानि प्रपतेन्सु योजनिकान्य् अपि तत्र खण्डानि प्रपतेन्सु ध्वजाग्राण्य् अपि प्रपतेन्सु // मारो च पापींआं दुःखी दुर्मनो विप्रतिसारी अन्तोशल्यपरिदाघजातो अभूषि //

___तत्रैव च मौद्गल्यायन पद्मकूटागारे भगवां दीपंकरो चतुर्हि महाराजेहि शक्रेण च देवानाम् इन्द्रेण सुयामेन च देवपुत्रेण संतुषितेन च देवपुत्रेण वशवर्तिना च देवपुत्रेण महाब्रह्मणा च अनेकदेवसंघपरिवारेहि संवृतो // भगवतो दीपंकरस्य उदारा पूजा कृता // दिव्येहि मन्दारवेहि कुसुमेहि महामन्दारवेहि कर्णिकारेहि रोचमानेहि भीष्मेहि महाभीष्मेहि समन्तगन्धेहि महासमन्तगन्धेहि चन्दनचूर्णेहि अगुरुचूर्णेहि केशरचूर्णेहि तमालपत्रचूर्णेहि भगवन्तं दीपंकरं ओकिरित्वा प्रकिरित्वा अभिप्रकिरित्वा दिव्येहि तूर्यसहस्रेहि संपूजयित्वा तत्रैव महाब्रह्मणा याचितो अनुत्तरं धर्मचक्रं प्रवर्तनाय // अधिवासयति महामौद्गल्यायन भगवां दीपंकरो महाब्रह्मणो तुष्णीभवेन // देवा अधिवासनां विदित्वा हृष्टा तुष्टा आत्तमना प्रमुदितप्रीतिसौमनस्यजाता

[_mvu_1.231_] भगवतो दीपंकरस्य पादां शिरसा वन्दित्वा त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तर्हायेन्सु //

___भगवान् तस्यैव रात्र्या अत्ययेन प्रतिसंलयनाद् व्युत्थाय जनपदेषु चारिकां प्रक्रमेत्* //

आदित्यो वरवर्णो बालो अभ्युद्गतो यथाकाशे / योजनशतं प्रभाये दीपंकरो भरित्व अस्थासि //

भगवां दीपंकरो चारिकां चरमाणो महतो जनकायस्य देवानां मनुष्याणां च अर्थचर्यां चरमाणो अशीतिहि भिक्षुसहस्रेहि सार्धं दीपवतीं राजधानीं आगच्छति पितुः अर्चिमतो ज्ञातीनां च अनुकम्पार्थं // राज्ञा अर्चिमेन श्रुतं // भगवां दीपंकरो अशीतिहि भिक्षुसहस्रेहि सार्धं दीपवतीं राजधानीं आगच्छति ज्ञातीनाम् अनुकम्पाय्ःति // ते च यावद् दीपवती याव च पद्मिनीवनम् उद्यानं दशक्रोशमार्गं प्रतिजागृहन्सुः अष्टापदसमं अविषमं पाणितलसमं सिक्तं संमृष्टं विततवितानं विचित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपनधूपितं दशदिशेहि च नटनर्तक-ऋल्लमल्लपाणिस्वर्यालंकृतं चक्रवर्तिपुरं भूयस्य च शतपत्रालंकृतं // राज्ञा अर्चिमेन प्रभूतं गन्धमाल्यं गृहीतं तथा गृहीतं महाजनकायेन समन्ताद् द्वादशयोजनातो गन्धमाल्यं समुदानीतं // राजा अशीतिहि कोट्टराजसहस्रेहि सार्धं अन्याये च जनताये भगवन्तं दीपंकरं प्रत्युद्गतो //

___अपरो श्रोत्रियो षडङ्गवित् त्रयाणां वेदानां पारगो साक्षरप्रभेदानाम् इतिहासपंचमानां सनिघण्टकैटभानां माणवकानां आचार्यो कुशलो ब्राह्मणकेषु देवेषु पंच माणवकशतानि वेदमन्त्रा वाचयति // तहिं द्वे माणवका संमोदिका प्रियमाणा

[_mvu_1.232_] मेघो च नाम माणवको मेघदत्तो च // मेघमाणवको पण्डितो धीरो मेधावी तीक्ष्णबुद्धिको // तेन नचिरस्यैव सर्वे मन्त्रा अधीता // सो दानि अधीतवेदाध्ययनो अनुहिमवन्ता जनपदं ओकस्तो आचार्यस्य आचार्यधनं पर्येषयिष्यामि इति // यष्टिकमण्डलुच्छत्रं उपानहांश् च स्नानशाटिं आदाय यस्य ग्रामस्य वा नगरस्य वा निगमस्य वा सीमाम् आक्रामति तं निरीतिकं निरुपद्रवं च भवति मेघस्य माणवकस्य तेजोधातुभावेन // तेन यायिना पुरुषो विज्ञप्तो // तेनैवं पंच पुराणशतानि दिन्नानि // तस्य दानि एतत् अभूषि // यं नूनाहं आगतको येन दीपवती राजधानी चक्रवर्तिपुरं सप्तरतनामयं अभिरमणीयं पश्येयन् ति // सो दानि दीपवतीं राजधनीं प्रविष्टो पश्यति च दीपवतीं राजधानीं अलंकृतां // तस्यैतद् अभूषि // किम् इदं अद्य दीपवतीये राजधानीये पर्वं वा प्रयोगं वा उत्सवं वा // अथ राज्ञो अर्चिमस्य श्रुतं मेघो माणवको अधीतवेदाध्ययनो अनुहिमवन्तातो जनपदम् ओकस्तो सो दीपवतीं राजधानीं आगमिष्यति / ततो इमं नगरवरम् अलंकृतं ति // सो पुरेगामी यो जनो प्रविशति सो तं कंचित् पृच्छति // तहिं अपरा माणविका प्रासादिका दर्शनीय अचपला अनुद्धता अप्रगल्भा उदकघटम् आदाय सप्त च उत्पलानि गच्छति // सा तेन पृच्छिता भवति // अद्य नगरे उत्सवो // अथ खलु प्रकृति माणविका मेघं माणवकं गाथाभिः अध्यभाषे //

अपि तु नासि माणवा इतो अन्यपुराद् असि त्वं इहागतो / यो लोकहितं प्रभंकरं दीपवतीं प्राप्तं न बुध्यसे //

[_mvu_1.233_] दीपंकर लोकनायको अर्चिमतो तनयो महायशो / बुद्धो नगरं प्रवेक्ष्यति तस्य कृते नगरं अलंकृतं //

सा तेन पृच्छिता // कथं भवति इमा उत्पलानि क्रीतानि // सा तं आह // पंचहि पुराणशतेहि पंच उत्पलानि क्रीतानि द्वे च मे मैत्राय लब्धानि // मेघो माणवो आह // अहन् ते पंच पुराणशतानि देमि देहि मे तानि पंच उत्पलानि / अहं एतेहि पंचहि उत्पलेहि भगवन्तं दीपंकरं पूजयिष्यामि / त्वं हि द्वीहि पि अर्चय // सा आह // समयतो ते पंच उत्पलानि ददेहं / यदि मम भार्याम् उपादियसि यत्र यत्र उपपद्यसि अहं च तव भार्या भवेयं त्वं च मम स्वामिको भवेसि // मेघो माणवो आह // अनुत्तराये सम्यक्सम्बोधये चित्तम् उत्पादयिष्यामि कथं संयोगे चित्तम् उत्पादयिष्यामि // सा आह // उत्पादेहि तुवं तव नान्तरायं करिष्यामि // तेन मेघेन माणवकेनाभ्युपगता // उपादियामि तव भार्या तेषाम् उत्पलानाम् अर्थाये // भगवन्तं दीपंकरं पूजयिष्यामि अनुत्तराये च सम्यक्सम्बोधये चित्तम् उत्पादयिष्यामि // तेन पंच पूराणशतानि दत्त्वा पंचोत्पलानि गृहीता उदारं च से प्रीतिप्रामोद्यं काये उत्पन्नं बुद्धशब्दं प्रकृतिये माणविकाये श्रुत्वा //

यद्ऽ; इच्छसि पूजितुं लोकनायकं जलजेहि माल्येहि मनोरमेहि / उपादियाहि ममम् अद्य भार्यां प्रेम्णानुरक्ता सततं ति भेष्यं //

उदुम्बरस्य यथ पुष्पं दुल्लभं कदाचिद् उत्पद्यति लोके माणव /

[_mvu_1.234_] एम्ऽ; एव बुद्धान महायशान कदाचिद् उत्पादं तथगतानां //

पूजेहि बुद्धं नरदम्यसारथिं जलजेहि माल्येहि मनोरमेहि / बोधाय ते भेष्यति हेतुभूतं भार्या च ते भेष्यि अहं तहिं तहिं //

मेघ आह //

उपादियामि तव अद्य भार्यां जलजान अर्थाय मनोरमाणां / पूजेष्यि बुद्धं नरदम्यसारथिं बोधाय मे भेष्यति हेतुभूतं //

सा हृष्टा संवृत्ता अदासि उत्पलां स्नेहेन प्रेम्णानुगतं विदित्वा / गच्छन्तम् एनं अनुगच्छि चारिकां शृंगाटके यत्र स्थितो हि माणवो //

भगवान् अशीतिहि भिक्षुसहस्रेहि परिवृतो राज्ञा च अर्चिमेन अशीतिहि च कोट्टराजान सहस्रेहि अनेकेहि च क्षत्रियमहाशालसहस्रेहि श्रमणब्राह्मणतीर्थकरेहि दीपवतीं राजधानीं संप्रस्थितो //

गमनसमये भगवतो देवसहस्राणि सन्निपतितानि / सप्तरतनामयानि च्छत्रसहस्राणि आदाय //

अथ सो महागुणधरो संप्रस्थितो अग्रतो गणवरस्य / मत्तगजखेलगामी मरीचिजालावततकायो //

[_mvu_1.235_] वेरुलिकस्फाटिकमयकांचनघनकनकसुकृतदण्डानि / छत्राणि देवपुत्रा धारेन्ति विशुद्धदेवस्य //

देवाभिनिर्मितानि नभे तरुणादित्यमण्डलनिभानि / तपनीयकिंकिणीयारुचिरा वरनन्दिघोषाणि //

सप्तरतनामयं पि च दिव्यं दिव्यकुसुममण्डितच्छत्रं / छत्राधरस्य लोके धारयि च्छत्रं त्रिदशराजा //

त्रिसहस्राधिपतिं पि च कांचनघनकनकसुकृतदण्डाये / वरचामराये विरजं वीजेन्तिं नरेन्द्रं च अनुगताः //

अत्युन्नता च नमति नतापि अत्युन्नता भवति भूमिः / प्रविशन्तस्य भगवतो समं दशबलानुभावेन //

समनन्तरं च भगवां दक्षिणम् एव चरणं कनककमलं / परिहरति इन्द्रकीले तत्र भवति अद्भुतो घोषो //

आडम्बरा मृदङ्गा पटहा असंघट्टिता प्रवाद्यन्ति / शंखा पणवा च वेणु प्रविशन्तस्मिं नरवरस्मिं //

यानि रतनानि नगरे निहितानि पेटककरण्डगतानि / तानि पि संघट्टेन्सुः रतनवरविदुस्मिं प्रविशन्ते //

अथ महारहाणि मृदूनि वस्त्रयुगा मार्गे संस्तरयेन्सु / भगवतो नानाविधानि रंगरक्ता काशिकदुकूला //

अलंकृतो लोकनायको कोशिकारकं क्षौमं यं तूला काचिलिन्दिक अजिनप्रवेणिं

[_mvu_1.236_] च वनरुस्ता तमकूटातपकोट्टवकसुभूमि तोषलकोलमचिरावोकोद्भव आमं रक्तक पंचविधा नय ल्लं //

याव च अग्रोद्यानं याव च अन्तःपुरं महिपतिस्य / शोभति नरेन्द्रमार्गो दुष्यशतसहस्रसंस्तीर्णो //

अथ च वनखण्डरगता प्रमदा अध्योकिरन्ति नरसिंहं / कुसुमनिकरकं ग्रहेत्व कनकगिरिनिभं अभिकिरन्ति //

यथयथ महानुभावो दीपवतीम् अभ्युपेति कारुणिको / तथातथा कुसुमनिकरं मुंचन्ति यशस्विनो भवतो //

तानि च करप्रमुक्ता सुरभीणि पंचवर्णो . . . . . / संस्थिहति पुष्पकंचुको भगवतो लोकनाथस्य //

गगनपथे निरालम्बे अभ्यन्तरकण्टकानि सुरभीणि / स्थातु प्रादक्षणिये अभिदक्षिणं कुर्वि कुसुमानि // {प्रादक्षिणीये?}

गच्छति अनुगच्छन्ति तिष्ठन्ति स्थाति लोकप्रद्योते / ईर्यापथम् ऋद्धिमतो सर्वाभिभुनो न विजहन्ते //

संवर्तका पि वाता यदि विवहेन्सुः इमां त्रिसाहस्रां / न विकोपये कुतो पुन वहेन्सु तं पुष्पकंचुककं //

भगवन्तं कनकनिभं कनकवरम् उच्छुसमवर्णं दृष्ट्वा / दिवि मरूण गणा तद उदीरयेन्सुः अहो धर्मं //

[_mvu_1.237_] प्रमुक्तपुष्पावकीर्णं च अम्बरं धरणियं च कुसुमोघा / शोभन्ति जानुमात्रा पुष्पं च कञ्चुकम् आकाशे //

हिक्कारा तूर्यमिश्रा समन्ततो वर्तन्ति अहो धर्मं / ओनादेन्ति पुरवरं नरवृषभस्मिं प्रविशन्तस्मिं //

हंसकरविंकवर्हिणपरभृतसुरवा च भृंगनिर्घोषा / दीपवतीये निशाम्यति निधिरतनध्वनितविमिश्रा //

अद्दशासि महामौद्गल्यायन मेघो माणवो भगवन्तं दीपंकरं दूरतो येव आगच्छन्तं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतम् अशीतिहि अनुव्यंजनेहि उपशोभितशरीरं अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतं दशहि तथागतबलेहि बलवं चतुर्हि वैशारद्येहि समन्वागतं / नागो विय कारितकारणो अन्तोगतेहि इन्द्रियेहि अवहिर्गतमानसेन स्थितो धर्मावस्थाप्राप्तः शान्तेन्द्रियो शान्तमानसो उत्तमदमशमथपारमिप्राप्तो गुप्तो नागो जितेन्द्रियो ह्रदम् इव अच्छो अनाविलो विप्रसन्नो प्रासादिको दर्शनीयो आसेचनको अप्रतिकूलो दर्शनाये योजनगताये प्रभाये ओभासयन्तो // दृष्ट्वा च पुनर् अस्य अद्वयसंज्ञा उदपासि // अहम् अपि बुद्धो लोके भविष्यामि // अथ खलु मौद्गल्यायन मेघो माणवो ताये वेलाये इमां गाथाम् अभाषि //

चिरस्य चक्षुं उदपासि लोके चिरस्य उत्पादो तथागतानां / चिरस्य मह्यं प्रणिधिः समृद्धा बुद्धो भविष्यामि न मे ऽत्र संशयः //

[_mvu_1.238_] अथ महामौद्गल्यायन मेघो माणवो उदारं हर्षसंवेगं उदारं प्रीतिप्रामोद्यं संजनयित्वा तानि पंचोत्पलानि भगवतो दीपंकरस्य क्षिपि / तानि पि प्रभाजालं मुखमण्डलम् अनुपरिवारेत्वा अस्थासु // प्रकृतिये पि माणविकाये तानि दुवे उत्पलानि क्षिप्तानि / तानि पि अन्तरीक्षे अस्थान्सु // त्रीहि प्रातिहार्येहि बुद्धा भगवन्तो सत्वां विनेन्ति ऋद्धिप्रातिहार्येण आदेशनाप्रातिहार्येण अनुशासनीप्रातिहार्येण // भगवतो दीपंकरस्य या च मेघेन माणवेन पंच उत्पलानि क्षिप्ता या च प्रकृतीये माणविकाये या च अन्याये जनताये क्षिप्ता तं भगवतो पुष्पवितानम् अधिष्ठितं सत्वानां वैनेयवशेन मेघस्य माणवस्य प्रीतिप्रामोद्यसंजननार्थं प्रासादिको दर्शनीयो चतुःस्थूणो चतुःद्वारो ओसक्तपट्टदामकलापो //

___मेघस्य तानि जलजानि भगवतो प्रभामण्डलस्योपरि समन्तेन स्थितानि दृष्ट्वा प्रासादिकानि प्रसदनियानि प्रीतिप्रामोद्यं काये उत्पद्ये उदारो च चेतनाप्रादुर्भावो // सो कमण्डलुम् एकान्ते निक्षिपित्वा अजिनं च प्रज्ञपेत्वा भगवतो दीपंकरस्य क्रमेषु प्रणिपतित्वा केशेहि पादतलानि संपरिमार्जन्तो एवं चित्तम् उत्पादेति // अहो पुनर् अहं पि भवेयं अनागतम् अध्वानं तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवां दीपंकरो एतरहिं // एवं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो भवेयं अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशाहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो यथायं भगवां दीपंकरो एतरहिं // एवं च अनुत्तरं धर्मचक्रं प्रवर्तेयं यथायं भगवां दीपंकरो एतरहिं // एवं समग्रं श्रावकसंघं परिहरेयं // एवं च देवमनुष्याः श्रोतव्यं

[_mvu_1.239_] श्रद्धातव्यं मन्येन्सुः / एवं तीर्णो तारयेयं मुक्तो मोचयेयं आश्वस्तो आश्वासयेयं यथायं भगवां दीपंकरो एतरहि // भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्य अर्थाय हिताय सुखाय देवानां च मषुष्याणां च // अथ महामौद्गल्यायन भगवान् दीपंकरो मेघस्य माणवस्य अनुत्तरेण बुद्धज्ञानेन महासमुदागमनं च ज्ञात्वा कुशलमूलसम्भारं च चेतोप्रणिधानं ज्ञात्वा अखण्डम् अच्छिद्रम् अकल्माषम् अव्रणं अनुत्तराये सम्यक्संबोधये व्याकार्षीत्* // भविष्यसि त्वं माणव अनागतम् अध्वानं अपरिमिते असंख्येये कल्पे शाक्यानां कपिलवस्तुस्मिं नगरे शाक्यमुनिः नाम तथागतो ऽर्हं सम्यक्सम्बुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथाप्य् अहम् एतर्हिं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो // एवं तीर्णो तारयिष्यसि मुक्तो मोचयिष्यसि आश्वस्तो आश्वासयिष्यसि परिनिर्वृतो परिनिर्वापयिष्यसि यथापि अहम् एतर्हि / एवं चानुत्तरं धर्मचक्रं प्रवर्तयिष्यसि / एवं च समग्रं श्रावकसंघं परिहरिष्यसि / एवं च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मनिष्यन्ति / यथापि अहम् एतर्हिं तं भविष्यसि बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्य अर्थाय हिताय सुखाय देवानां च मनुष्याणां च // समनन्तरव्याकृतो च महामौद्गल्यायन भगवता दीपंकरेण मेघो माणवो अनुत्तराये सम्यक्संबोधये तालमात्रं वैहायसम् अभ्युद्गम्य एकांशीकृतो प्राञ्जलीकृतो भगवन्तं दीपंकरं सश्रावकसंघं नमस्यमानो // इयं च महापृथिवी तत्क्षणं तन्मुहूर्तं अतीव षड्विकारं कम्पे संकम्पे / भूम्या च देवा घोषम् उदीरयेन्सु शब्दम् अनुश्रावयेन्सुः //

[_mvu_1.240_] एवं मेघो माणवो भगवता दीपंकरेण अनुत्तराये सम्यक्संबोधये व्याकृतो तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा चातुर्महाराजिका देवा त्रायस्त्रिंशा यामा तुषिता निर्माणरतिनो परनिर्मितवशवर्तिनो इति हि तत्क्षणं तन्मुहूर्तं याव ब्रह्मकायं घोषम् अभ्युद्गमे // एवं मार्ष मेघो माणवो भगवता दीपंकरेण अनुत्तराये सम्यक्संबोधये व्याकृतो तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च् // अप्रमेयस्य च उदारस्य महतो ओभासस्य लोके प्रादुर्भावो आसि // या पि ता लोके लोकान्तरिका अन्धकारा अन्धकारार्पिता तमिस्रा तमिसार्पिता अघा अघसंभूतपूर्वा यत्र इमे पि चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वा आलोकं न स्फरन्ति ते पि तेन ओभासेन स्फुटा अभून्सुः / ये पि तत्र सत्वा उपपन्नाः ते पि अन्योन्यं संजानेन्सुः // अन्ये पि किल भो इह सत्वा उपपन्नाः अन्ये पि किल भो सत्वाः इहोपपन्नाः // एकान्तसुखसमर्पिता च तत्क्षणं तन्मुहूर्तं सर्वसत्वा अभून्सु / ये पि अवीचे महानरके उपपन्ना अतिक्रमे च देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं // ध्यामानि च अभून्सुः मारभवनानि निष्प्रभाणि निस्तेजानि निरभिरम्याणि / क्रोशिकान्य् अप्य् अस्य खण्डानि प्रपतेन्सु / द्विक्रोशिकान्य् अप्य् अस्य खण्डानि प्रपतेन्सु / त्रिक्रोशिकान्य् अप्य् अस्य खण्डानि प्रपतेन्सु / योजनिकान्य् अप्य् अस्य खण्डानि प्रपतेन्सु / ध्वजाग्राण्य् अप्य् अस्य प्रपतेन्सुः / मारो च पापीमां दुःखी दुर्मना विप्रतिसारी अन्तोशल्यपरिदाघजातो अभूषि //

[_mvu_1.241_] अजिनं प्रज्ञपयित्वा कमण्डलुं निक्षिपयित्व एकान्ते / क्षिपियान्ऽ; उत्पलहस्तं निपते क्रमवरेहि चक्षुमतो //

तानि च करप्रमुक्ता सुरभीणि पंचवर्णो . . . . . . / संस्थिहति पुष्पकंचुको भगवतो लोकनाथस्य //

गगनपथे निरालम्बे अभ्यन्तरकण्टकानि सुरभीणि / स्थातु प्रादक्षिणिये अभिदक्षिणं कृत्व कुसुमानि //

गच्छति अनुगच्छन्ति तिष्ठन्ति स्थाति लोकप्रद्योते / ईर्यापथम् ऋद्धिमतो सर्वाभिभुनो न विजहन्ते //

संवर्तका पि वाता यदि विवहेन्सुः इमा त्रिसाहस्रां / न विकोपये कृतो पुन वहेन्सु तं पुष्पकंचुककं // {सेनर्त्: कुतो पुन}

भगवन्तं कनकनिभं कनकवरम् उच्छुसमवर्णं दृष्ट्वा / दिवि मरूण गणा तद उदीरयेन्सुः अहो धर्मं //

अथ सागराम्बरमही संकम्पे च दिवि देवसंघेषु / व्याकरणस्मिं व्याकृते अभ्युद्गमि अद्भुतो घोषो //

एषो मेघो भवता एकान्तसुभाषितोच्छ्रितध्वजेन / दीपंकरेण मुनिना व्याकृतो भविष्यसि जिनो तुवं //

तं हितसुखाय काहसि सब्रह्मसुरासुरस्य लोकस्य / हायिष्यन्ति अपाया नरका मरु संविवर्धन्ति //

[_mvu_1.242_] दीपं च लेनं च परायणं च दीपंकरो नाम अभूषि शास्ता / इतो असंख्येयतरस्मिं कल्पे स्वाख्यातधर्म्मो भगवां नरेशो //

सो उत्तमार्थं अभिगम्य पण्डितो विशारदं वर्तयि धर्मचक्रं / सत्ये च धर्मे च स्मृतो प्रतिष्ठितो महद्भयाद् विषमाद् उद्धरे प्रजां //

मेघो ऽद्दशा श्रमणगणस्य नायकं दीपंकरं परमविचित्रलक्षणं / चित्तं प्रसादेत्व जिनं अवन्दि च सो वन्दमानो प्रणिधिं अकासि //

एवं अहं लोकम् इमं चरेयं यथा अयं चरति असंगमानसो / चक्रं प्रवर्तेयम् अनन्यसादृशं सुसंस्कृतं देवमनुष्यपूजितं //

अर्थं चरेय लोके देवमनुष्या देशेयं धर्मं / एवं विनेय सत्वा यथा अयं लोकप्रद्योतो //

प्रणिधिं च ज्ञात्वान असंगसंगतं सर्वेहि हेतूहि उपस्थितं जिनो / अखण्डम् अच्छिद्रम् अकल्माषाव्रणं मतिमां . . . व्याकरे अर्थदर्शी //

[_mvu_1.243_] बुद्धो तुवं भेष्यसि मेघ माणव अनागते अपरिमितस्मिं कल्पे / कपिलाह्वये ऋषिभवनस्मिं शाकियो तदा त्वं पि प्रणिधिविपाकम् एष्यसि //

तेन अपराणि पंच पुराणशतानि प्रेषितानि आचार्यस्य // निर्यातेत्वा एवंविधं सर्वं मेघदत्तस्य आचिक्षति // एवं मये भगवां दीपंकरः पूजितो अनुत्तराये सम्यक्संबोधये व्याकृतो // गच्छाम तर्हिं भगवतो दीपंकरस्य सन्तिके ब्रह्मचर्यं चरिष्याम तां च समितिम् अनुभविष्यामः // सो आह // अहं ताव असमाप्तवेदो तत्र न शक्यामि गन्तुं //

यथा काष्ठं विवह्यते महन्ते उदकार्णवे / संघट्टितो विनश्यति एवं प्रियसमागमो //

मेघो गत्वा भगवतो दीपंकरस्य सन्तिके प्रव्रजितो // ते तादृशा कल्याणमित्राण्य् आगम्य बुद्धसहस्रकोटियो अपरिमेयां असंख्येयां आराधेत्वा पूजयित्वा च सश्रावकसंघां अप्रमेयानि च प्रत्येकबुद्धकोटिनियुता पूजयित्वा दिव्यमानुषिकां संपत्तिम् अनुभवन्ति यावत् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा // यो रूपं नरदम्यसारथिं श्रुत्वा न रूपं न उपादि गच्छे ऽहं उपादे ऽहं च // सो त्व् आह // शिरःप्रणामाये एष अतीव प्रवणो मेघो वर्तते // मेघस्य माणवस्य सकाशातो बुद्धशब्दं श्रुणित्वा न हृष्टो / पापमित्रसमंगिताये पंचानन्तर्याणि कृतानि // परदारे प्रसक्तो तत्र काले वा विकाले

[_mvu_1.244_] वा गच्छति // तं माता पुत्रस्नेहेन निवारेति मा तत्र पारदारिको ति कृत्वा घातयिष्यति //

रक्तो अर्थं न जानाति रक्तो धर्मं न पश्यति / अन्धकारे तदा भवति यं रागो सहते नरः //

सो तां मातरं घातयित्वा तस्या इस्त्रिकाये सकाशं गतो यत्र प्रसक्तो हस्यैव तां प्रकृतिम् आचिक्षति // एवं त्वं मम इष्टा यं मया तव कारणा माता जीविताद् व्यपरोपिता // सा स्त्री उद्विग्ना संवृत्ता // ताय उक्तो // मा मे भूयो आगच्छसि // अपरमातरं प्रसक्तो // ततो तं सा अपरमाता आह // एथ पितरं जीविताद् व्यपरोपेहि त्वं च मे स्वामिको भविष्यसीति // तेन दानि सो पिता जीविताद् व्यपरोपितो // सो तत्र अधिष्ठाने जुगुप्सितो संवृत्तो // मित्रज्ञातिका परिवर्जेन्ति // सो ततो अधिष्ठानातो अन्यम् अधिष्ठानं संक्रान्तो अत्र मे न कोचि जानिष्यति // तस्य यो मातापितॄणां भिक्षु कुलोपको आसि अरहा महानुभावो सो जनपदचारिकां चरमाणो तम् अधिष्ठानम् अनुप्राप्तो // तेन दानि सो दानपतिपुत्रो भिक्षुणा तहिं अधिष्ठाने दृष्टो // सो पि तं भिक्षुं दृष्ट्वा शंकी संवृत्तो मा मे भिक्षु इमंहि अधिष्ठानंहि दूषयतीति // तेन दानि सो पि अरहा भिक्षु जीविताद् व्यपरोपितो // सो दानि यो तदा आसि सम्यक्संबुद्धो तस्य शासने प्रव्रजितो // तेन दानि शासने प्रव्रजित्वा संघो च भिन्नो बुद्धस्य रुधिरं उत्पादितं // एतानि पंचानन्तर्याणि कर्माणि कृत्वा महानरकेषु उपपन्नो //

___सो अष्टसु महानरकेषु षोडशोत्सदेषु सुचिरं दीर्घम् अध्वानं संधावित्वा संसरित्वा

[_mvu_1.245_] यदा भगवता शाक्यमुनिना अनुत्तरा सम्यक्संबोधिः अभिसंबुद्धा धर्मचक्रो प्रवृत्तः सो महासमुद्रे तिमितिमिंगिलो नाम मत्स्यजाति आयामतो भहुयोजनशतिकेन आत्मभावेन // यदा थपकर्णि गृहपति सयानपात्रो पंचशतपरिवारो तेन महासमुद्रं ओकस्तो तदा तेन मकरभूतेन बुभुक्षितेन मुखं उच्छ्वासितं भोजनार्थिकेन // ततो यानपात्राणि स्थपकर्णिकस्य गृहपतिस्य येन तं मकरमुखं तेन प्रधाविता // निर्यातमुख आह // गृहपति इमानि यानपात्राणि बडवामुखे पतितानि यं दानि करणीयं तं करोथ नास्ति दानि वो जीवितं // ते दानि देवदेवतां नमस्यन्ति स्वकस्वकानि / केचिच् छिवं केचिद् वैश्रवणं केचित् स्कन्धं केचिद् वरुणं केचिद् यमं केचिद् धृतराष्ट्रं केचिद् विरूढकं केचिद् विरूपाक्षं केचिद् इन्द्रं केचिद् ब्रह्मं केचित् समुद्रदेवतां // यावद् आयुष्मां पूर्णको समन्वाहरति पश्यति स्थपकर्णिकं गृहपतिं पंचशतपरिवारं संशयप्राप्तं // सो तुण्डतुरिकातो पर्वतातो वैहायसम् अभ्युद्गम्य महासमुद्रे थपकर्णिकस्य यानपात्रं उपरि वैहायसम् अन्तरीक्षे अस्थासि // ते सर्वे पंच वाणिजशतानि प्राञ्जलिं कृत्वा उत्थिता भगवं भगवं तव शरणगता स्म // स्थविरो आह // नाहं भगवां श्रावको ऽहम् अस्मि // सर्वे एककण्ठा नमो बुद्धस्येति उदीरेथ // तेहि सर्वेहि पञ्चेहि वणिजशतेहि नमो बुद्धस्येति विघुट्ठं // तस्य तिमितिमिंगिलस्य बुद्धशब्दं कर्णपथं गतो // तस्य तं शब्दं श्रुत्वा यो अप्रमेये असंख्येये कल्पे मेघस्य माणवस्य सकाशातो दीपंकरबुद्धशब्दो श्रुतो तं महासमुद्रे तिमितिमिंगिलभूतस्य आमुखीभूतो // अमोघो बुद्धशब्दो ति // तस्य दानि तिमितिमिंगिलस्य भूतस्य एतद् अभूषि // बुद्धो लोके प्रादुर्भूतो वयं च अपायगता // तेन दानि संविग्नेन पुनर् अपि मुखं संमीलितं // अनाहारो कालगतो तं बुद्धशब्दं समनुस्मरन्तो समनन्तरकालगतो श्रावस्त्यां महानगर्यां

[_mvu_1.246_] ब्राह्मणकुले उपपन्नो तेन कालेन तेन समयेन प्रजातो दारको जातो // यथोक्तं भगवता नाहं भिक्षवो कर्मतो ऽन्यद् वदेमि इति //

___तस्य दानि दारकस्य धर्मरुचि नाम कृतं // यदा महन्तो संवृत्तो तदा भगवतः शासने प्रव्रजितो // प्रयुज्यन्तेन घटन्तेन व्यायमन्तेन तिस्रो विद्या षडभिज्ञा बलवशीभावं साक्षात्कृतं // त्रिखुत्तो दिवसस्य भगवतः पादवन्दने उपसंक्रमति // यत्तकम् उपसंक्रमति तत्तकं भगवां चोदेति स्मारेति चिरस्य धर्मरुचि सुचिरस्य धर्मरुचि // सो पि आह // एवम् एतं भगवं एवम् एतं सुगत / चिरस्य भगवं सुचिरस्य सुगत // भिक्षु संशयेन भगवन्तं पृच्छन्ति // त्रिखुत्तो दिवसस्य धर्मरुचिर् भगवन्तम् उपसंक्रमति भगवाञ् च तम् एवम् आह चिरस्य धर्मरुचि सुचिरस्य धर्मरुचीति भगवन्तम् एवम् आह एवम् एतं भगवं एवम् एतं सुगत चिरस्य भगवं सुचिरस्य सुगत न च पुनर् भगवं वयम् इमस्य भाषितस्य अर्थम् आजानाम // तेषां भगवां भिक्षूणां एतां प्रकृतिं विस्तरेणारोचयति दीपंकरम् उपादाय // अहं च मेघो माणवो नामेन आसि एषो च धर्मरुचि मेघदत्तो // एवं भिक्षवो अमोघो बुद्धशब्दो यावद् दुःखक्षयाय संवर्तति //

तेन समयेन स्थविरो धर्मरुचि उपागमेसि शास्तारं / पादौ जिनस्य वन्दति आह पि सुचिरस्य धर्मरुचि //

सुचिरस्य लोकनायक धर्मरुचि प्रतिभणाति शास्तारं / जानन्तं पृच्छति जिनो किंकारणं ब्रुसि सुचिरस्य //

सो पुनर् आह पुरे अहं लवणजले तिमितिमिंगिलो आसि / क्षुधादौर्बल्यपरिगतो विपरिमुषं भोजनार्थाये //

[_mvu_1.247_] तत्र बहु प्राणनयुता प्रविशेन्सुस् तद शरीरदेहं मे / वाणिजकशतानि पंच प्रविशेन्सु तथैव यानेन //

पात्रे च प्रविशमाने अत्राणभयार्दिता व्यसनप्राप्ता / सर्वे एकवाचम् अवचि नमो दशबलस्य बुद्धस्य //

बुद्धेति श्रुत्व घोषं अश्रुतपूर्वम् अभूषिम् अहं प्रीतो / हृष्टो उदग्रचित्तो त्वरितं संमीलयेसि मुखं //

सुनेन्सु प्राणनयुतानि तिर्यग्योनिगता वणिजशतान / घोषेण दशबलस्य व्युत्थितो तदाहम् अपायेषु //

तेन कुशलेन भगवं इदं मे आरोपितं मनुष्यत्वं / सुचरितफलेन तेन धर्मरुचीति मम समाज्ञा //

तेनैवाहं हेतुना प्रव्रजितो तव स्वयंभु प्रावचने / नचिरस्य प्रव्रजित्वा अभूषि अरहां धुतक्लेशो //

बहुकल्पकोटिनयुता संसारं संसरित्वान अनन्तं / अनुस्मारेन्तो सुगतं भणामि सुचिरस्य लोकहित //

सुचिरस्य धर्मचक्षुर् विशोधितं धर्मसंशयं छिन्नं मोहतिमिरावनद्धं उषितो ऽस्मि चिरं अपायेषु //

तेन कुशलेन तिमिरं प्रहीनं रागद्वेषा च ऊहता / अशेषा भवनेत्रिसरिता उच्छोषिता अयम् इह जातिः //

अस्य पि तिमितिमिंगिलस्य बुद्धश्रवणं महत्फलं आसि / किं पुन इदानि भगवं इदं श्रुतं नावहेद् अमृतं //

[_mvu_1.248_] तस्माद् विवर्जयित्वा नीवरणा पंच चेतसावरणा / श्रोतव्यं बुद्धवचनं दुल्लभसंज्ञाम् उपजनेत्वा //

कृच्छ्रो मनुष्यलाभो विवर्जना च असाररूपवनात्* / बुद्धान च उत्पादो श्रद्धा च भवेय च निर्वृतिः //

_____इति श्रीमहावस्तु-अवदाने दीपंकरवस्तु समाप्तं

इतो महामौद्गल्यायन भद्रकल्पातो अपरिमिते अप्रमेये असंख्येये कल्पे दीपंकरातो अनन्तरं मङ्गलो नाम तथागतो ऽर्हं सम्यक्सम्बुद्धो उदपासि // मङ्गलस्य महामौद्गल्यायन सम्यक्संबुद्धस्य वर्षकोटीशतसहस्रं मनुष्याणाम् आयुःप्रमाणम् अभूषि // मङ्गलस्य महामौद्गल्यायन सम्यक्संबुद्धस्य त्रयः श्रावकसन्निपाता अभून्सुः // प्रथमे श्रावक्सन्निपाते कोटीशतसहस्रम् अभूषि सर्वेषाम् अर्हतां क्षीणाश्रवाणाम् उषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानाम् अनुप्राप्तस्वकार्थानां / द्वितीयो श्रावकसन्निपातो नवति कोटीयो अभून्सुः सर्वेषां अर्हतां क्षीणाश्रवाणां उषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानां अनुप्राप्तस्वकार्थानां / तृतीयो श्रावकसन्निपातो अशीति कोटीयो अभुन्सु सर्वेषाम् अर्हतां क्षीणाश्रवाणाम् उषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानां अनुप्राप्तस्वकार्थानां // मङ्गलस्य खलु पुनर् महामौद्गल्यायन सम्यक्सम्बुद्धस्य सुदेवो च धर्मदेवो च नाम श्रावकयुगो अभूषि अग्रयुगो च भद्रयुगो च / एको अग्रो प्रज्ञाये अपरो अग्रो ऋद्धीये // मङ्गलस्य खलु पुनर् महामौद्गल्यायन सम्यक्संबुद्धस्य शीवाली च नाम भिक्षुणी अशोका च अग्रश्राविका अभून्सुः / एका अग्रा प्रज्ञाये अपरा ऋद्धीये // मङ्गलस्य खलु महामौद्गल्यायन सम्यक्संबुद्धस्य पालितो नाम

[_mvu_1.249_] भिक्षु उपस्थायको अभूषि // मङ्गलस्य खलु पुनर् महामौद्गल्यायन सम्यक्संबुद्धस्य नागवृक्षो अभूषि बोधि // मङ्गलस्य खलु महामौद्गल्यायन सम्यक्संबुद्धस्य उत्तरं नाम नगरं अभूषि / द्वादश योजनानि आयामेन पुरस्तिमेन पश्चिमेन च सप्त योजनानि विस्तारेण दक्षिणेन उत्तरेण च / सप्तहि प्राकारेहि परिक्षिप्तं सौवर्णेहि सौवर्णच्छदनेहि // सप्तहि दीर्घिकाहि परिक्षिप्तं अभूषि चित्राहि दर्शनीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्तायाः वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया // तासां खलु पुनर् महामौद्गल्यायन दीर्घिकानां द्विन्नां वर्णानां सोपाना अभून्सुः सुवर्णस्य रूप्यस्य / चतूर्णां वर्णानां सोपानफलका अभून्सु सुवर्णस्य रूप्यस्य च मुक्ताया वैडूर्यस्य च // तायो दीर्घिकायो छन्नायो अभून्सुः उत्पलपदुमकुमुदपुण्डरीकनलिनीसौगन्धिकेहि // तायो दीर्घिकायो इमेहि एवंरूपेहि वृक्षेहि प्रच्छन्नायो अभुन्सुः / सय्यथीदं अम्रजम्बुपनसलकुचभव्यपालेवतप्रच्छन्नायो // तासां खलु पुनर् दीर्घिकानां तीरेषु इमानि एवंरूपाणि स्थलजजलजानि माल्यानि अभुन्सु / सय्यथीदं अतिमुक्तकचम्पकवार्षिकावातुष्कार-इन्दीवरदमनकदेवोपसंहिता // उत्तरं खलु पुनर् महामौद्गल्यायन नगरं सप्तहि तालपंक्तिहि परिक्षिप्तम् अभूषि // विस्तरेण दीपवती राजधानी यथा वर्णयितव्यं // मङ्गलस्य खलु पुनर् महामौद्गल्यायन सम्यक्संबुद्धस्य सुन्दरो नाम क्षत्रियो पिता अभूषि राजा चक्रवर्ती // मङ्गलस्य खलु पुनर् महामौद्गल्यायन सम्यक्संबुद्धस्य शिरी नाम देवी माता अभूषि // तदाहं महामौद्गल्यायन अतुलो नाम नागराजा कृतपुण्यो महेशाख्यो उत्सदकुशलसंचयो //

[_mvu_1.250_] ततो मया सो भगवां मंगलो सश्रावकसंघो . . . . . . . . . . . . सत्कृत्वा गुरुकृत्वा मानयित्वा पूजयित्वा दुष्ययुगम् आच्छादं दत्त्वा बोधाय अनुप्रणिहितं // तेनाप्य् अहं व्याकृतो भविष्यसि त्वम् अनागताध्वाने अपरिमिते असंख्येये कल्पे शाक्यमुनिर् नाम तथागतो ऽर्हं सम्यक्संबुद्धो //

दीपंकरस्य ओत्तरेण मङ्गलो नाम नायको / तमं लोके निहत्वान धर्मोल्काम् अभिज्वालयेत्* //

अतुला आसि प्रभा तस्य जिनेहि अन्येहि उत्तरा / कोटिसूर्यप्रभां हत्वा सहस्रारैः विरोचते //

सो च बुद्धो प्रकाशेति चत्वारि सत्या उत्तमां / ते तं सत्यरसं पीत्वा विनोदेन्सु महातमं //

बोधिं बुद्ध्वा अतुलां देवा प्रथमे धर्मदेशने / कोटिशतसहस्राणां प्रथमाभिसमयो अभूत्* //

यदा . . . . . . . . . . . . . . . . . . . . / तदा आहनि संबुद्धो धर्मभेरीं वरम् उत्तमां //

पुनर् अपि देवसमये यदा सत्यां प्रकाशयेत्* / द्वितीये नवति कोटी द्वितीयाभिसमयो अभूत्* //

यदा सुनन्दो चक्रवर्ती बुद्धधर्मम् उपागमि / तदा आहनि संबुद्धो धर्मभेरीं वरम् उत्तमां //

सुनन्दानुचरा जनता नवतिं आसि कोटियो / सर्वे ते निरवशेषा अभूद् बुद्धस्य श्रावका //

[_mvu_1.251_] पुनर् अपि देवसमये यदा सत्यां प्रकाशयेत्* / अशीतिं तृतीये कोटी तृतीयाभिसमयो अभूत्* //

यदा उत्तरो गृहपति बुद्धदर्शनम् उपागमि / तदा आहनि संबुद्धो धर्मभेरीं वरम् उत्तमां //

उत्तरानुचरा जनता अशीतिं आसि कोटियो / सर्वे ते निरवशेषा अभूत् बुद्धस्य श्रावकाः //

सन्निपाताः त्रयो आसि मङ्गलस्य महर्षिणो / क्षीणाश्रवाणां विरजानां शान्तचित्तानुतापितां //

कोटीशतसहस्राणां प्रथमो आसि समागमो / द्वितीयो नवतिं कोटी अशीतिं तृतीयो अभूत्* //

अहं तेन समयेन नागराजा महर्द्धिको / अतुलो नाम नामेन उत्सदकुशलसंचयो //

नागानां दिव्येहि तूर्येहि मङ्गलस्य महर्षिणो / अर्चये दुष्याणि दत्त्वान शरणं तम् उपागमि //

सो मे बुद्धो वियाकार्षीत्* मङ्गलो लोकनायको / अपरिमेये इतो कल्पे बुद्धो लोके भविष्यसि / शाक्यानां नगरे रम्ये स्फीते कपिलवसाह्वये //

तस्य ते जननी माता माया नामेन भेष्यति / पिता शुद्धोदनो नाम तव भविष्यति गौतमः //

कोलितो उपतिष्यो च अग्रा भेष्यन्ति श्रावकाः / क्षेमा उत्पलवर्णा च अग्रा भेष्यन्ति श्राविका //

आनन्दो नाम नामेन उपस्थायको भविष्यति /

[_mvu_1.252_] बोधि भविष्यति तुह्यं अश्वत्थो वरपादपः //

तस्य व्याकरणं श्रुत्वा मङ्गलस्य महर्षिणः / विरियं प्रग्रहेत्वान दृढं कृत्वान मानसं / चरन्तो बोधिचर्याणि नाहं कंचित् परित्यजे //

उत्तरं नाम नगरं सुन्दरो नाम क्षत्रियो / शिरिका नाम जनिका मङ्गलस्य महर्षिणो //

सुदेवो धर्मदेवो च अभुन्सुः अग्रश्रावकाः / शीवाली च अशोका च भुन्सु अग्रश्राविका //

पालितो नाम उपस्थाको मंगलस्य महर्षिणो / बोधि तस्य नागवृक्षो बोधिवृक्षं सुपुष्पितं //

कोटीशतसहस्राणां संघो आसि महर्षिणो / तिष्ठमानो महावीरो तारेसि जनतां बहुं //

तारयि बहुजनतां वैस्तारिकं कृत्व शासनं / ज्वलितो अग्निस्कन्धो वा सुरियो वा समुद्गतो //

यथा सागरस्य ऊर्मियो न शकियं गणयितुं / तथैव भगवतो पुत्रा न शकियं गणयितुं //

सो च बुद्धो महाभागो सद्धर्मो च गणोत्तमो / सर्वे समनन्तर अतीता अनुरिक्ता एव संस्काराः //

_____इति श्रीमहावस्तु-अवदाने मंगलस्य वस्तुं समाप्तं

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.