Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/24

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

महावस्तु-अवादन

Thông tin
GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भूतपूर्वं भो धुतधर्मधर एषैव भगवान् सार्थवाहो बभूव संमतः // सार्थो चानेनैव असत्पुरुषेण देवदत्तेन देशिकेन सार्थचौरैर् उपस्कृतेन कान्ताराध्वानमार्गप्रतिपन्नः // पूर्ववैरानुषङ्गप्रतिबद्धमानसस् तं सार्थचौरैर् घातापयितुम् उपसंक्रान्तः // तैश् च वाणिजैः सार्थवाहप्रमुखैस् ते चौरा निगृहीता देशिकपूर्वंगमाश् च वधम् उपनीयन्ता विक्रोशन्ता अशरणाः सार्थवाहम् एव शरणम् उपगताः देशिकश् च पराधापराद्धः कृतांजलिपुटः सार्थवाहम् अभयं याचि // तस्य भवशतसहस्रपरिचिता करुणाविहारिणो करुणा समुत्थिता प्राणहरेषु अपि तेषु अभयं दत्त्वा देशिकम् उवाच //

अनुवातं मया मुक्तः धूमो देशं विनाशयेत्* / देशिकं सह चौरेभ्यः अनुजानामि जीवितम् इति //

भूयश् च भो धुतधर्मधर इमिना एव च भगवता राज्ञा सता अग्रमहिष्याः महापराधापराद्धाया

[_mvu_1.133_] वधस्थानप्राप्तायाः याचिन्त्या अभयं दत्तं / पूर्वोपचितमार्दवार्जवसंपन्न अग्रमहिषीं शान्त्वयित्वा इमं श्लोकम् उवाच //

हन्तास्या आमपात्रेण शस्त्रं कायेन पातयेत्* / अभयन् ते अहं देमि तच् च स्थानं यथापुरम् इति //

एवम् आदीनि भो धुतधर्मधर दुष्करशतसहस्राणि कृतानि बोधिसत्वेहि ये अवैवर्तिका एवं कायेन एवं वाचा एवं मनसा // बहुविधगुणयुक्ता संसारं संसरन्ता बोधिसत्वाश् च भवन्ति / अपि तु कर्मवशम् उपागम्य गुणसंक्षेपकीर्तितक्रिया ते बोधिसत्वा भवन्ति / दृढविक्रमा धृतियुक्ताः सत्यप्रतिज्ञा आर्जवा अशठा भवन्ति / अकृपणाश् च भवन्ति / अलोलाश् च भवन्ति / मार्दवाश् च भवन्ति / सानुक्रोशाश् च विमर्दसहाश् च अपर्यादिन्नचित्ताश् च अलोलितचित्ताश् च दुर्धर्षाश् च दुर्जयाश् च सत्वयुक्ताश् च त्यागसंपन्नाश् च प्रतिज्ञासंपन्नाश् च भवन्ति / प्रतिभानवन्ताश् च विचित्रप्रतिभानवन्ताश् च नयनसंपन्नाश् च अतित्तिगाश् च भवन्ति / परमार्थाभिनिविष्टाश् च भवन्ति / संगृहीतग्राहिणश् च भवन्ति / शुचिसमाचाराश् च भवन्ति / आनिंज्यचित्ताश् च भवन्ति / अतीव बहुमानयुक्ताश् च भवन्ति / गुरुजनसज्जन-उपचारसंपन्नाश् च भवन्ति / उपायकुशलाश् च भवन्ति / सर्वकार्येषु सन्धिग्रहसंयोजकाश् च भवन्ति / राजकार्येषु पदसन्धिविदुषश् च भवन्ति / परिषास्खलितवचना उग्रवचनमर्षयितारश् च भवन्ति / ज्ञानकेतवो बहुजनसंग्रहकुशलाश् च भवन्ति / समचित्ता अनुपक्रुष्टवृत्तिद्वाराश् च भवन्ति / प्रसिद्धकर्मान्ता अभ्युपपत्तिकुशलाश् च भवन्ति / परदुःखेषु परिकरणकुशलाश्

[_mvu_1.134_] च भवन्ति / आस्वादादीनवेषु अशिथिलमधुराश् च कुत्सितदर्शनेषु दोषसमुद्घातकुशलाश् च भवन्ति / परकोपीनच्छादनेषु अपरिखिन्नाश् च भवन्ति / फलनिर्वृत्यपरिकांक्षिणः रागद्वेषमोहविवेककुशलमूलाश् च भवन्ति / क्लेशव्ययशमाभ्युपकारकुशलाश् च भवन्ति / सर्वोपकारिषु विचिकित्सापरिवर्जिताश् च भवन्ति / सर्वधर्मेषु अपरिखिन्नसंकल्पाश् च भवन्ति / गम्भीरबुद्धधर्मेषु ईहोपसंपन्नाश् च भवन्ति / परमार्थाधिगमे अनुपलिप्तकायकर्मवाक्कर्ममनोकर्माश् च भवन्ति / भवसज्जीवतत्वे अपरामृष्टशुभकर्माश् च भवन्ति / ज्ञानपरमा असंक्लिष्टप्रतिभानाश् च भवन्ति / बुद्धविषयाभिलाषिणः अप्रत्यादेशनपराश् च भवन्ति / ज्ञानकेतव अखिन्नवचनाः प्रवर्जनाकुशलाश् च भवन्ति / अदुष्टस्वभावगता पराभवापगताश् च भवन्ति / विगतसावद्याश् च भवन्ति / त्रिविधौद्धत्यपरिवर्तिजताश् च भवन्ति / स्थितलपा अकामकामिनश् च भवन्ति / अमैथुनगामिनः सर्वसत्वसंग्रहणाविदूषकाश् च लोकम् अनुप्रविष्टाः कृतनिश्चयबलाधानाश् च भवन्ति / सर्वकर्मेषु नानास्थानास्थानकुशलाश् च भवन्ति सत्वाद्याश् च इत्य् एवं गुणसंपन्ना भवन्ति / पुङ्गवा असंख्येयगुणधीरा सत्वेषु समबुद्धिनो भवन्ति च / अत्र उच्यते //

न शक्यं गगनस्य अन्तं गन्तुं सर्वविहंगमैः / न शक्यं सर्वसत्वेहि गुणा ज्ञातुं स्वयम्भुवाम् इति //

ये च भो धुतधर्मधर लोकहितसुखार्थं मन्त्रा वा अगदा वा सत्वानाम् उपकाराये

[_mvu_1.135_] कल्पेन्ति सर्वे ते बोधिसत्वेहि प्रणीता // यानि च भैषज्यानि लोके प्रचरन्ति सत्वानां हितसुखार्थं सर्वाणि तानि बोधिसत्वेभ्यः उपशिष्टानि // यानि च शास्त्राणि तत्त्वनिश्चययुक्तानि लोके प्रचरन्ति सर्वाणि तानि बोधिसत्वनीतानि // यच् चेह लोके संख्यागणनं मुद्रास्थानानि च सर्वा एषा बोधिसत्वानां नीति // या वा इमा लोके संज्ञा ब्राह्मी पुष्करसारा खरोस्ती यावनी ब्रह्मवाणी पुष्पलिपी कुतलिपी शक्तिनलिपी व्यत्यस्तलिपी लेखलिपी मुद्रालिपी उकरमधुरदरदचीणहूणापीरा वङ्गा सीफला त्रमिदा दर्दुरा रमठभयवैच्छेतुका गुल्मला हस्तदा कसूला केतुका कुसुवा तलिका जजरिदेषु अक्षबद्धं सर्वा एषा बोधिसत्वानां नीति // कनकरजतत्रपुताम्रसीसमणिरतनक्षेत्राणि सर्वाण्य् एतानि बोधिसत्वानां नीतिः // यानि यानि च कारणानि लोकस्य उपकाराये कल्पेन्ति सर्वाण्य् एतानि बोधिसत्वनीतानि // तत्रेदम् उच्यते //

लोकस्य अर्थविदुषः पुरुषप्रधानाः संसारम् अप्रतिसमाः परिवर्तमानाः / श्रेयश् चरन्ति मरुमानुषगुह्यकानां परमो हि समुदागम ईश्वराणाम् इति //

[_mvu_1.136_] एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // ये ते भो जिनपुत्र अवैवर्तिकास् तेषां किं चित्तम् उत्पद्यते // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // ये ते भो धुतधर्मधर बोधिसत्वा अवैवर्तिकास् तेषां सप्तमातो भूमितो अष्टमां भूमिं संक्रमन्तानां महाकरुणासंप्रयुक्तं चित्तम् उत्पद्यते //

___इत्य् एषा सप्तमा भूमि बोधिसत्वानम् उच्यते इति //

_____इति श्रीमहावस्तु-अवदाने सप्तमा भूमिः समाप्ता //

एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // भगवता भो जिनपुत्र सम्यक्संबुद्धेन शाक्यमुनिना प्रथमाद्वितीयातृतीयाचतुर्थापंचमाषष्ठासप्तमासु भूमिषु वर्तमानेन येषु सम्यक्संबुद्धेषु कुशलम् अवरोपितं तेषां सम्यक्संबुद्धानां कानि नामानीति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // येषु भो धुतधर्मधर सम्यक्संबुद्धेषु भगवता शाक्यराजवंशप्रसूतेन कुशलमूलम् उपचितं तेषां विपुलबलवरकीर्तिनां नामानि शृणु // प्रथमतः सत्यधर्मविपुलकीर्तिः ततः सुकीर्तिः लोकाभरणः विद्युत्प्रभः इन्द्रतेजः ब्रह्मकीर्तिः वसुन्धरः सुपार्श्वः अनुपवद्यः सुज्येष्ठः सृष्टरूपः प्रशस्तगुणराशिः मेघस्वरः हेमवर्णः सुन्दरवर्णः मृगराजघोषः आशुकारी धृतराष्ट्रगतिः कोकाभिलाषितः जितशत्रुः सुपूजितः यशराशिः अमितततेजः सूर्यगुप्तश् चन्द्रुभानुः निश्चितार्थः कुसुमगुप्तः पद्माभः प्रभंकरः दीप्ततेजः सत्वराजा

[_mvu_1.137_] गजदेवः कुञ्जरगतिः सुघोषः समबुद्धिः हेमवर्णलम्बदामः कुसुमदामः रत्नदामः अलंकृतः विमुक्तः ऋषभगामी ऋषभः देवसिद्धयात्रः सुपात्रः सर्वबन्धः रत्नमकुटः चित्रमकुटः सुमकुटः वरमकुटश् चलमकुटः विमलमकुटः लोकंधरः विपुलोजः अपरिभिन्नः पुण्डरीकनेत्रः सर्वसहः ब्रह्मगुप्तः सुब्रह्मः अमरदेवः अरिमर्दनश् चन्द्रपद्मः चन्द्राभश् चन्द्रतेजः सुसोमः समुद्रबुद्धिः रतनशृङ्गः सुचन्द्रदृष्टिः हेमक्रोडः अभिन्नराष्ट्रः अविक्षिप्तांशः पुरंदरः पुण्यदत्तः हलधरः ऋषभनेत्रः वरबाहुः यशोदत्तः कमलाक्षः दृष्टशक्तिः नरंप्रवाहः प्रनष्टदुःखः समदृष्टिः दृढदेवः यशकेतुश् चित्रच्छदश् चारुच्छदः लोकपरित्राता दुःखमुक्तः राष्ट्रदेवः रुद्रदेवः भद्रगुप्तः उदागतः अस्खलितप्रवराग्रः धनुनाशः धर्मगुप्तः देवगुप्तः शुचिगात्रः प्रहेतिः प्रथमशतम् आर्यपक्षस्य // भगवान् धर्मधातुः गुणकेतुः ज्ञानकेतुः सत्यकेतुः पुष्पकेतुः वज्रसंघातः दृढहनुः दृढसन्धिः अत्युच्चगामी विगतशत्रुः चित्रमालः ऊर्ध्वसध्निः गुणगुप्तः ऋषिगुप्तः प्रलम्बबाहुः ऋषिदेवः सुनेत्रः सागरधरपुरुषः सुलोचनः अजितचक्रः उन्नतः अजितपुष्यलः पुराषः मङ्गल्यः मुभुजः सिंहतेजः तृप्तवसन्तगन्धः अवध्यपरमबुद्धिः नक्षत्रराजः बहुराष्ट्रः आर्याक्षः सुगुप्तिः प्रकाशवर्णः समृद्धराष्ट्रः कीर्तनीयः दृढशाक्तिः हर्षदत्तः यशदत्तः नागबाहुः विगतरेणुः शान्तरेणुः दानप्रगुरुः उदात्तवर्णः बलबाहुः

[_mvu_1.138_] अमितौजः धृतराष्ट्रः देवलोकाभिलाषितः प्रत्यग्ररूपः देवराजगुप्तः दामोदरः धर्मराजः चतुरस्रवदनः योजनाभः पद्मोष्णीषः स्फुटविक्रमः राजहंसगामी स्वलक्षणमण्डितः शिति चूडः मणिमकुटः प्रशस्तवर्णः देवाभरणः कल्पदुष्यगुप्तः साधुरूपः अक्षतबुद्धिः लोकपद्मः गम्भीरबुद्धिः शक्रभानुः इन्द्रध्वजः दानवकुलः मनुष्यदेवः मनुष्यदत्तः सोमच्छत्रः आदित्यदत्तः यामगुप्तः नक्षत्रगुप्तः सुमित्ररूपः सत्यभानुः पुष्यगुप्तः वृहस्पतिगुप्तः गगनगामी शुभनाथः सुवर्णः कनकाक्षः प्रसन्नबुद्धिः अविप्रनष्टराष्ट्रः उदग्रगामिः शुभदन्तः सुविमलदन्तः सुवदनः कुलनन्दनः जनक्षत्रियः लोकक्षत्रियः अनन्तगुप्तः धर्मगुप्तः सूक्ष्मवस्त्रः द्वितीयं शतम् आर्यपक्षस्य // प्रत्यासन्नबुद्धिः सत्वसहः मनुष्यनागः उपसेनः सुवर्णचारी प्रभूतवर्णः सुभिक्षाकान्तः भिक्षुदेवः प्रबुद्धशीलः नहीनगर्भः अनालम्भः रतनमुद्रः हारभूषितः प्रसिद्धवेदनः सुगन्धिवस्त्रः सुविजृम्भितः अमितलोचनः उदात्तकीर्तिः सागरराजः मृगदेवः कुसुमहेस्थः रत्नशृङ्गश् चित्रवर्णः पद्मरजवर्णः समन्तगन्धः उदारगुप्तः प्रशान्तरोगः प्रदक्षिणार्थः संक्षिप्तबुद्धिः अनन्तच्छत्रः योजनसहस्रदर्शी उत्पलपद्मनेत्रः अतिपुरुषः अनिवर्तिकबलः स्वगुणशाखः संचितोरः महाराजः चारुचरणः प्रसिद्धरंगः त्रिमङ्गलः

[_mvu_1.139_] सुवर्णसेनः वर्तितार्थः असंकीर्णः देवगर्भः सुप्रीत्यरतिः विमानराजा परिमण्डनार्थः देवसत्वः विपुलतरांशः सलीलगजगामी विरूढभूमिर् इति //

_____इति श्रीमहावस्तु-अवदाने अष्टमा भूमिः समाप्ता

ततो भूयो धुतधर्मधर अतो ऽनन्तरं भगवाञ् चित्रभानुः चारुभानुः दीप्तभानुः रुचितभानुः असितभानुः हेमरथः चामीकरगौरः रजकरथः सुयक्षः अक्षोभ्यः अपरिश्रोतवाहनः देवालंकृतः सुभूषितखण्डः शिथिलकुण्डलः मणिकर्णः सुलक्षणः सुविशुद्धः विमलजेन्द्रः देवचूडः मन्दारवगन्धः पतंगचरश् चारुगन्धः इन्द्रचूर्णः शैलराजकेतुः अरिमर्दनः मणिचक्रः विमलोत्तरीयः सत्याभरणः दृढवीर्यः नन्दिगुप्तः आनन्दमालः चक्रवालगुप्तः दृढमूलः आनन्दचन्द्रः ब्रह्मध्वंसदेवः सौम्यवत्सबाहुः समीक्षितवदनः सत्यावतारः सुप्रतिष्ठितबुद्धिः हारशीतलांगः सुखप्रभः भूरिसत्वः भद्रगुप्तश् चन्द्रशुभः भद्रतेजः इष्टरूपश् चक्रवर्तिदत्तः सुविचक्षणगात्रः वैश्रावणराजा समृद्धयज्ञः संमतरश्मिः दर्शनक्षमः स्रजमालाधारी सुवर्णविषाणः भूतार्थकेतुः रत्नरुधिरकेतुः महार्षचूडः तेजगुप्तः वरुणराजः उदात्तवस्त्रः वज्रगुप्तः धन्यभानुः उत्तप्तराष्ट्रः विशालप्रभः लोकसुन्दरः अभिरूपः हिरण्यधन्यशिरिकः प्रभूतदेहकर्णः

[_mvu_1.140_] प्रागजितः विचित्रमकुटः दानवगुप्तः राहुवमी पुण्यराशिः सलिलगुप्तः शमितशत्रुः रत्नयूपः सुविकल्पाङ्गः अजितबलः सत्यनामः अविरक्तराष्ट्रः वैश्वानरगुप्तः मधुरवदनः कुसुमोत्पलः उत्तरकुरुराजः अञ्जलिमालाधारी धनपतिगुप्तः तरुणार्कभानुः अनुरूपगात्रः रत्नकरण्डकेतुः महाकोशः बहुलकेशः पुष्पमंजरिमण्डितः अनपविद्धकर्णः अनाविद्धवर्णः सितासितलोचनः अरक्तप्रवाडः सिंहोरस्कः अरिष्टनेमिः बहुराजा // नवमायां भूमौ प्रथमं शतम् आर्यपक्षे // भूमिदेवः पुण्डरीकाक्षः साधुप्रभः ज्योतिगुप्तः बहुप्रभः सत्यंवचः भवदेवगुप्तः संवृत्ततेजः निरुपघातः जानुत्रस्तः रत्नशयनः कुसुमशयनः चित्रशयनः दन्तशयनः सुप्रतिष्ठितचरणः सर्वदेवगुप्तः अरजोत्तरीयः स्वायंभवेन्द्रः प्रसन्नवर्णः भवकेतुः क्षीरपूर्णाम्भ्यः अनन्तबुद्धिः कनकनागराजतेजः बन्धनान्तकरः अनुग्रवर्णक्षेमगुप्तः जिनकान्तारः विमलः मरीचिजालः अजितसेनराजा कनकराशिः गौरः पद्ममालः राजक्षेत्रगुप्तः समपक्षश् चातुर्देवः देवगुप्तः पुष्कलाङ्गः द्विजातिराजः बहुसेनः कुमुदगन्धः शवलाश्वः षड्विषाणपातः सुरभिचन्दनः राजा सहस्रदाता अभयदेवः अरिनिहन्ता विमलशिखरः दुरारोहबुद्धिः यज्ञकोटिगुप्तः रत्नचंक्रमः जालान्तरः परिशुद्धकर्मः कामदेवः गुरुरत्नः

[_mvu_1.141_] शतसहस्रमाता शुचिप्ररोहः स्तिमितराजा वृद्धदेवः गुरुजनपूजितः जयन्तदेवः सुजातबुद्धिः समीक्षितार्थः उज्झितपरः देवाभिकः असुरदेवः गन्धर्वगीतः वीणारवघोषः शुद्धदन्तः सुदन्तश् चारुदन्तः अमृतफलः मार्गोद्योतयिता मणिकुण्डलधरः हेमजालप्रभः नागभोगबाहुः कमलधरः अशोकसत्वः लक्ष्मीपुत्रः सुनिर्मितरूपः ईश्वरगुप्तः लोकपालराजा सुनिध्यानः अग्रपुरुषः अनिहतवर्णः कुन्दपुष्पगन्धः अङ्कुशः आर्द्रवल्लिप्रतिरूपः कार्यताविचारः स्वतेजदीप्तः प्रकाशधर्मः आर्यवंशकेतुः देवराजप्रभः प्रत्यक्षदेवः अहिभानुरागः कुसुमोत्तरीयः अविरसः प्रथमराजा पुण्डरीकराजा सुभिक्षराजः // द्वितीयो आर्यपक्षः नवमायां भूमौ // स्निग्धगात्रः परमार्थसत्वः अक्लिन्नगात्रः धर्मशूरः सुतीर्थः लोकालोकनिहितमल्लः कुन्दपुष्पगन्धः निरंकुशः अनोतप्तगात्रः उपाध्यायराजा प्रवराग्रमतिः अनभिभूतयशः अनुपच्छिन्नालम्भः देवगुरुः रत्नपुष्पः शुद्धसत्वः वैडूर्यशिखरश् चित्रमाल्यः सुगन्धकायः अनन्तकोशः सममथितः सत्यप्रभः अदीनगामी सुविक्रान्तः असंभ्रान्तवचनः गुरुदेवः नरदेवः नरवाहनः रत्नहस्तः लोकप्रियः परिन्दितार्थः अविशुष्कमूलः अपरितृषितः सर्वशिल्पराजः ग्रहकोशः अनुरक्तराष्ट्रः शिवदत्तमालः शिखरदत्तः चित्रमालः महाविमानः अनोतप्तगात्रश् चित्रहेमजालः शान्तरजः संगृहीतपक्षः अप्रकृष्टः रक्तचन्दनगन्धः अचलितसुमनः उपचितहनु ज्वलितयशा रचितमालः शिरमकुटः तेजगुप्तराजा इति //

_____श्रीमहावस्तु-अवदाने नवमी भूमिः समाप्ता //

[_mvu_1.142_] एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // ये पुनर् भोजिनपुत्र बोधिसत्वाः परिपिण्डतकुशलमूलाः कृतकर्माणः नवमां भूमिं समतिक्रम्य दशमां भूमिं परिपूरयित्वा तुषितभवनम् उपगम्य मनुजभवम् अभिकांक्षमाणाः मातुः कुक्षिम् अवतरन्ति अपुनावर्तम् एवम् आदीनि कृत्वा संकीर्तय परमपुद्गलानाम् आश्चर्याद्भुतधर्मा असाधारणा प्रत्येकबुद्धादिभिः वशिभूतगणादिभिश् च शैक्षपृथग्जनादिभिश् चेति // एवम् उक्ते महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // गर्भावक्रान्तिसंपन्नाश् च सम्यक्संबुद्धा भवन्ति / गर्भस्थितिसंपन्नाश् च जातिसंपन्नाश् च / जनेत्रीसंपन्नाश् च भवन्ति सम्यक्संबुद्धा / अभिनिष्क्रमणसंपन्नाश् च भवन्ति सम्यक्संबुद्धाः / वीर्यसंपन्नाश् च भवन्ति सम्यक्संबुद्धाः / ज्ञानाधिगमनसंपन्नाश् च भवन्ति सम्यक्संबुद्धाः //

___कथं भो धुतधर्मधर गर्भावक्रान्तिसंपन्नाः सम्यक्संबुद्धा भवन्ति //

तुषितभवना शिरिघनो पुरिमकुशलमूलसंचयो वीरः / अवलोकयति अतिशयेन्ऽ; ओलोकितानि च्यवनकाले //

चिन्तयति एवं हितकरो चिन्ताम् अर्थावहां नरमरूणां / अमरवरसंपरिवृतो देवगणगुरुर् महापुरुषो //

च्यवितुं समयो खु दानि मे संप्रति सत्वा महान्धकारगता / हतनयना कलुषनयना मां प्राप्य तस्माद् वीमुच्यन्ते //

[_mvu_1.143_] का दानि शीलसंवरे एवं नारी रता उपशमे च / अग्रकुलीना सुवचा त्यागरुचिमार्दववती च //

तेजस्विनी च . . . . . का नु खलु हततमरागदोषा च / रूपगुणपारमिगता अहीनवृत्ता विपुलपुण्या //

का मां समर्था धारयितुं दश मासां का च प्रत्यरहसौख्या / भवे मम का नु जननी कुक्षिम् अहम् उपैमि कस्याद्य //

पश्यति विलोकयन्तो राज्ञो शुद्धोदनस्य ओरोधे / नारीम् अमरवधुनिभां विद्युल्लतानिभां अथ मायां //

सो तां निशाम्य जननीम् आमन्त्रयति अमरान्* च्यविष्यामि / अन्तिमम् उपेत्य वासं गर्भे सुरमानुषहितार्थं //

तं अवच देवसंघो कृतांजलिपुटो वराभरणधारी / ऋध्यतु उत्तमपुद्गल प्रणिधि तव अहीनगुणपुण्या //

वयम् अपि लोकहिता बहु मनोरमां ओशिरित्वा कामरतिं / पूजार्थम् अनिन्दितस्य मनुष्यलोके वसिष्यामो //

किं चापि विप्रयोगं त्वया न इच्छाम भूतसंघगुरु / अपि तु अरविन्दनयना भविष्यसि गती नरमरूणां //

[_mvu_1.144_] एवं खलु भो धुतधर्मधर सम्यसंबुद्धा गर्भावक्रान्तिसंपन्नाश् च भवन्ति //

___कथं च भो धुतधर्मधर सम्यक्संबुद्धा गर्भस्थितिसंपन्ना भवन्ति // बोधिसत्वाः खलु भो धुतधर्मधर मातुः कुक्षिगता मातुर् योनिं निश्राय तिष्ठन्ति / मातुः पृष्ठं निश्राय तिष्ठन्ति / मातुर् उदरं निश्राय तिष्ठन्ति / मातुः पार्श्वं निश्राय तिष्ठन्ति // विष्टम्भितया भो धुतधर्मधर कुसूत्रं प्रवाडवैडूर्यमणिम् उपालम्ब्य न क्वचिद् उपलभ्यते प्रदेशस् तु अस्ति सर्वशस् तथा बोधिसत्वा मातुः कुक्षौ न तिष्ठन्ति तिष्थन्ति च / बोधिसत्वं पुनः खलु भो धुतधर्मधर मातुः कुक्षिगतं देवसंघाः उपसंक्रम्य पृच्छन्ति प्रह्वाः कृतांजलिपुटाः सुमुहूर्तं सुदिवसं प्रीतमनसः / तां च देवसंघान् तथा पृच्छमानां बोधिसत्वा प्रत्यभिनन्दन्ति दक्षिणकरम् उत्कृष्य मातरं च न बाधन्ति // न खो पुनर् भो धुतधर्मधर बोधिसत्वा मातुः कुक्षिगता उत्कुटकेन पार्श्वेन वा यथा कथंचिद् वा स्थिता भवन्ति / अथ खलु भो धुतधर्मधर बोधिसत्वाः पर्यङ्कम् आभुंजित्वा निषण्णा भवन्ति मातरं च न बाधन्ति // बोधिसत्वाः खो पुनर् भो धुतधर्मधर मातुः कुक्षिगता च सन्तो भववादिकथां कथयन्ति कुशलमूलत इति // बोधिसत्वस्य खलु पुनर् भो धुतधर्मधर मातुः कुक्षिगतस्य पूजार्थं सततसमितं दिव्यानि तूर्याणि वाद्यन्ति न कदाचिद् दिवा वा रात्रौ वा तिष्ठन्ति // बोधिसत्वं च भो धुतधर्मधर

[_mvu_1.145_] मातुः कुक्षिगतं पूजार्थं अप्सरशतसहस्राणि सन्दर्शयन्ति दिव्यं पुष्पवर्षं दिव्यं चूर्णवर्षं नोपरमन्ते कदाचित्* // मातुः कुक्षिम् आदौ कृत्वा बोधिसत्वानां यावत् परिनिर्वृता दशबला च दिव्या च अगुरुधूपा नोपरमन्ति // न खलु भो धुतधर्मधर बोधिसत्वा मातापितृनिर्वृत्ता भवन्ति / अथ खलु स्वगुणनिर्वृत्ता उपपादुका भवन्ति // तत्रेदम् उच्यते //

अथ सा कमलदलनयन अनुबद्धा गन्धर्वबहुभि श्यामा / सहितं पि तं सुमधुरं शुद्धोदनम् अब्रवीत्* माया //

एषा समादियामि प्राणेहि अहिंसं ब्रह्मचर्यं च / विरमामि चाप्य् अदिन्ना मद्याद् अनिबद्धवचनाच् च //

परुषवचनाच् च नरवर प्रतिविरमामि तथैवं पैशुन्या / अनृतवचनाच् च नरपति विरमामि अयं मम छन्दो //

परकामेषु च ईर्ष्यां न संजनेष्यं नापि अभिद्रोहं / भूतेषु मैत्रचित्ता मिथ्यादृष्टिं च विजहामि //

एकादशप्रकारं शीलं सेवाम्य् अहं पृथिवीपाल / रजनीम् इमाम् अनूनाम् एवं मे जायते छन्दो //

अपि च खलु भूमिपाला कामवितर्को मा मां प्रतिकांक्षि / प्रेक्षस्व मा ति अधर्मो भवेय मयि ब्रह्मचारिणिये //

संकल्पं प्रपूरेष्यन् ति पार्थिवो भारियाम् इदम् अवोचत्* /

[_mvu_1.146_] अभिरम भवनवरगता अहं च राज्यं च ते वश्यं //

सा स्त्रीसहस्रम् अग्र्यं अनुरक्तं गृह्य तं विमानवरं / अभिरुह्य सन्निषीदे मनापपरिपूर्णपरिवारा //

सा कंचिद् एव कालं तस्मिं हिमपाण्डुपुण्डरीकनिभे / शयने प्रशमदमरता तुष्णीभावेन क्षेपयते //

अथ कौतूहलमनो संजनिया बहुदेवकन्या वरमाल्यधराः / जिनमातुः उपगता द्रष्टुमना प्रासादसुन्दराग्रेण स्थिता //

उपसंक्रमित्व शयनोपगतां मायां निशाम्य वरविद्युनिभां/ प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमं//

मानुष्यकं पि किल ईदृशकं रूपं सुजातम् इदम् आश्चर्यं / किंचित् कालं स्थिहिय अन्तरतो नायं समा मरुवधूहि भवे //

लीलां निशामयथ हे सखिका प्रमदाये यादृशीं यथोपयिकां / शयने विरोचति मनं हरति विभ्राजते कनकरीतिः इव सा //

इयं तं धरेष्यति महापुरुषं अत्यन्तदानदमशीलरतं /

[_mvu_1.147_] सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू //

चापोदरे करतलप्रतिमे वररोमराजिनि चित्रस्तवने / इह वासम् अभ्युपगतो वरदो अविम्रक्षितो अशुचिना भगवां //

अनुरूपा त्वं च प्रमदा प्रवरा माता स चैव पुरुषप्रवरो / पुत्रो भवान्तकरणो भगवां किं हायते तव नरेन्द्रवधू इति //

यस्यां खलु भो धुतधर्मधर जातीयां बोधिसत्वमातरो चरमभविकं बोधिसत्वं धारयन्ति तस्यां जातौ प्रमदावराणां परिशुद्धं परिपूर्णम् अखण्डं ब्रह्मचर्यं भवति // मनसापि तासां प्रमदोत्तमानां रागो नोत्पद्यते सर्वपुरुषेषु भर्तारम् आदौ कृत्वा // बोधिसत्वे च भो धुतधर्मधर मातुः कुक्षिगते बोधिसत्वमाता दिव्यवस्त्रसंवृतशरीरा च भवति दिव्याभरणधारिणी च सुस्नातोच्छादनपरिमर्दनपरिषेकं च अप्सरोगणाः बोधिसत्वमातुः प्रतिजागरन्ति // बोधिसत्वे मातुः कुक्षिगते बोधिसत्वमातुः देवकन्याशतसहस्रेहि सार्धं हास्यं भवति // तथा प्रसुप्तां च बोधिसत्वमातरं देवकन्या मन्दारवपुष्पदामैः परिवीजयन्ति अग्रयौवनमण्डप्राप्ता // यदा च तस्या प्रमदोत्तमायाः बोधिसत्वः कुक्षिम् अवतरति न बोधिसत्वमाता कानिचिद् दुःखान्य् अनुभवति यथान्या प्रमदा // तुषितभवनम् आदौ कृत्वा सर्वेषां बोधिसत्वानां पंच नीवरणानि

[_mvu_1.148_] विष्कम्भितानि भवन्ति अप्राप्ते धर्मराज्ये // परिपूर्णेहि च दशहि मासेहि सर्वे बोधिसत्वाः मातुः कुक्षौ प्रादुर्भवन्ति दक्षिणेन पार्श्वेन न च तं पार्श्वं भिद्यते / न चात्र किंचिद् विलम्बं भवति जात इत्य् एवं भवति // तत्रेदम् उच्यते //

अथ प्रतिपूर्णे दशमे मासे माता प्रभूतपुण्यस्य / शुद्धोदनं उपगम्य इदम् अब्रवीत्* दृष्टसंकल्पा //

उद्यानगमनबुद्धी उत्पन्ना मे नराधिपा शीघ्रं / सज्जेहि वाहनं मे यथोचितां चैवम् आरक्षां //

एतं श्रुत्वा वचनं राजा शुद्धोदनो सुप्रीतमनो / आलपति साभिलाषं परिवारवरं पृथिविपालो //

शीघ्रं गजतुरगवतीं सेनां पदातिसमाकुलां विपुलां / प्रासशरशक्तिचित्रां सज्जिय प्रतिवेदयध्वं मम //

चतुघोटान तथ अश्वरथान दशशतसहस्रा युज्यन्तु / प्रवरा काञ्चनघण्टारवाणि मधुरानुनादानि //

अंजनघनसदृशानां नागानां वर्मधारिणां शीघ्रं / प्रतिधेयथ अधिमात्रा सज्जानि दशशतसहस्राणि //

आयुक्तवर्मकवचा शूरा सज्जीभवन्तु अनिवर्त्या / सज्जीभवन्तु चपलं विंशत्साहस्रियो तेषां //

[_mvu_1.149_] विपुल सकिंकिणिरणितं सहेमजालं उडार-अश्वरथं / वरमाल्यवस्त्रधारिणो प्रमदा धारेन्तु देवीये //

लुम्बिनिवनं च शीघ्रं व्यपगततृणरेणुपत्रसंकारं / सुशोधितं मनोज्ञं कुरुत देवीये देवभुवनं वा //

एकैकं च द्रुमवरं कुकूलपट्टोर्णकोशिकारेहि / कल्पयथ कल्पवृक्षां यथा दिवि देवप्रवरस्य //

साधू ति प्रतिश्रुत्वा तस्य वचनेन नरेन्द्रगर्भस्य / नचिरेण यथाज्ञप्तं कृतम् इति प्रतिवेदितं राज्ञः //

सा सलीलचारुवदना माता मारबलसंप्रमथनस्य / अभिरूहि सपरिवारा तानि मनोज्ञानि यानानि //

सा विविधाभरणवती पादौघरथौघसंकुला . . . . / शोभति सुसंप्रयाता सेना मनुजप्रधानस्य //

अवगाह्य तद् वनवरं माया सखिसंवृता जिनजनेत्री / विचरति चित्ररथे इव अमरवरवधू रतिविधिज्ञा //

सा क्रीडार्थम् उपगता प्लाक्ष्णा शाखां भुजेभिः अवलम्ब्य / प्रविजृम्भिता सलीलं तस्य यशवतो जननकाले // {सेनर्त्: प्रतिजृम्भिता}

अथ विंश सहस्राणि अप्रतिमानि तदा अप्सरवराणां / दशनखकृतांजलिपुटा मायाम् अभिनन्दिय भणन्ति //

[_mvu_1.150_] अद्य जराजातिमथनं जनयिष्यसि अमरगर्भसुकुमारं / देवी दिवि भुवि महितं हितं हितकरं नरमरूणां //

मा खु जनयी विषादं परिकर्म वयं तवं करिष्यामः / यत् कर्तव्यम् उदीरय दृश्यतु कृतम् एव मा चिन्ता //

मातरम् अबाधमानो प्रादुर्भूतो मनापो मायाये / दक्षिणपार्श्वेन मुनिः सुसंप्रजानो परमवादी //

अथ विविधरतननिचया नगरनगरा अनेकसहस्राणि / प्रज्वलि प्रभा च विमला प्रादुर्भूते नरवरेन्द्रे ति //

न खलु भो धुतधर्मधर सो अस्ति सत्वो सत्वनिकाये यो चरमां जातिं समनन्तरजातं बोधिसत्वं समर्थो व्याकर्तुं अन्यत्र शुद्धावासेभ्यो देवेभ्यः // तत्रेदम् उच्यते //

अंशुकसुवेष्टितशिरा अष्ट सहस्रा महेश्वरवराणां / ब्राह्मणवेषधाराणां अभिगच्छि पुरं कपिलवस्तु //

ते राजकुलद्वारे वरवसनधरा वराभरणधारी / अपगम्य मुदितमनसा प्रतिहारम् उवाच सत्ववरा //

शुद्धोधनम् उपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञा / तिष्ठन्ति अष्टसहस्रं प्रविशेद् इति यद्य् अनुमतन्ते //

एतं श्रुत्वा वचनं प्रतिहाररक्षो उपेत्य राजवरं /

[_mvu_1.151_] कृतांजलिपुटः प्रणम्य इदं उवाच नराधिपतिं //

सुखं अतुलबल दीप्तिद कारय राज्यं चिरं निहतशत्रुः / द्वारे ते अमरसदृशा तिष्ठन्ति प्रवेष्टुम् इच्छन्ति //

प्रतिपूर्णविमलनयना मधुरस्वरमत्तवारणविचारी / भवन्ति मम तेषु संका न ते मनुष्या मरुसुतास् ते //

परिकंक्रमतां तेषां धरणिरजः क्रमवरा न संकिरति / न च तेषु सन्धिशब्दश् चंक्रमता श्रुय्यति कदाचित्* //

गम्भीरमधुरचेष्टा आर्यकारा प्रशान्तदृष्टिपथा / विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमाणस्य //

निःसंशयं नरवरा पुत्रवरं उपगता तवं द्रष्टुं / देवगणपुरुषप्रदेवं अभिवाद्य नन्दितुं नरसिंहं //

एतं श्रुत्वा वचनं प्रतिहाररक्षं नराधिपोवाच / मयि भो कृताभ्यनुज्ञा प्रविशन्तु निवेशनम् उदारं //

अमरप्रवरगणस् ते गगनसमनिभा विशुद्धाकर्मान्ता / प्रविशेन्सुः पार्थिवकुलम् अहीनकुलवंशमुख्यस्य //

शुद्धोदनो पि राजा महेश्वरां दूरतो निशामेत्वा /

[_mvu_1.152_] प्रत्युत्थित आसनातो सपरिजनो गौरवबलेन //

अभिवादते नरपतिः स्वागतम् अनुरागतं च सर्वेषां / प्रीता स्म दर्शनेन प्रशमदमबलेन च भवतां //

संविद्यन्ते इमानि वरासनानि वररूपविकृतानि / आस्तां ताव भवन्तो अस्माकम् अनुग्रहार्थाय //

अथ तेष्व् आसनवरेषु कनकरजतवर्णचित्रपादेषु / विगतमदमानदर्पाः ते तत्र सुखं निषीदेन्सुः //

ते कंचिद् एव कालं निषण्णमात्रा नराधिपम् उवाच / शृण्वतु भवां प्रयोजनं यं अस्माकम् इह गमनाय //

सर्वानवद्यगात्रो पुत्रस् तवं अनुजातो . . . . . . / लक्षणपारमिप्राप्तो . . . . . . . . . . . . . . . . //

वयम् अपि लक्षणकुशला दोषगुणां लक्षणैर् विजानाम / यदि न गुरु तव सुतन् ते पश्येम महापुरुषरूपं //

सो वदति एथ पश्यथ सुव्यपदेशक्षेमं मम पुत्रं / मरुमनुजकीर्तियशसं लक्षणगुणपारमिप्राप्तं //

अथ मृदुककाचलिन्दिकप्रवेणिशयितं च कनकवर्णाभं / उपनयति पार्थिववरो नरमरुपरिवन्दितं सुगतं //

आलोकयित्व दूरा महेश्वराः क्रमवरान् नरवरस्य /

[_mvu_1.153_] मूर्ध्ना विगलितमकुटा धरणिवरतले प्रणिपतेन्सुः //

गोक्षीरविमलचन्द्रं महीतले मूर्ध्नं प्रतिष्ठापेत्वा / दशबलम् अभिनन्दन्ताः स्थिता सुचिरकालम् अभिकांक्षितं इति //

जाता खलु भो धुतधर्मधर बोधिसत्वाः सर्वाणि मानुष्यकानि शिल्पानि अनाचार्यका प्य् अनुतिष्ठन्ति //

___न खलु भो धुतधर्मधर बोधिसत्वाः तुषितभवनात् प्रभृति कामां प्रतिसेवन्ति // भो जिनपुत्र को हेतुः कः प्रत्ययः यं अप्रहीणेहि क्लेशेहि बोधिसत्वाः कामां न प्रतिसेवन्ति राहुलश् च कथम् उत्पन्न इति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // परिपिण्डत्वात् कुशलस्य बोधिसत्वा कामां न प्रतिसेवन्ति कल्याणाध्याशयत्वात्* अग्राध्याशयत्वात् प्रणीताध्याशयत्वाच् च बोधिसत्वा कामां न प्रतिसेवन्ति / अकामकामित्वात्* ज्ञानध्वजत्वात्* अतत्परायणत्वात् स्पृहानुपस्थितत्वात् बोधिसत्वाः कामां न प्रतिसेवन्ति / आर्यत्वात्* अनीचत्वात् कुशलपरिभावितत्वाच् च बोधिसत्वाः कामान् न प्रतिसेवन्ते परमपुरुषसंभावितत्वाच् च लोकस्य सम्यक्संबुद्धो भविष्यतीति // अथ राहुलस् तुषितकायाच् च्यवित्वा मातुः यशोधरायाः क्षत्रियकन्यायाः कुक्षिम् अवतीर्ण इति // एवम् अनुश्रुयते भो धुतधर्मधर // राजानश् चक्रवर्तिनः औपपादुका बभूवु // तद्यथा कुसुमचूडः हेमवर्णः गान्धर्वः सुमालः रत्नदण्डः सुविमानः

[_mvu_1.154_] आर्जवः मान्धाता सुनयः सुवस्त्रः बहुपक्षः तोरग्रीवः मणिविरजः पवनः मरुदेवः सुप्रियः त्यागवां शुद्धवंशः दुरारोह इति इत्य् एवम् आदयश् चक्रवर्तिगणाः औपपादुका आसन् न तथा राहुलभद्र इति //

___कथं भो धुतधर्मधर बोधिसत्वा अभिनिष्क्रमणसंपन्ना भवन्ति // भूतपूर्वं भो जिनपुत्र बोधिसत्वो अभिनिष्क्रान्तः // राजकुलगतश् छन्दकं गाथयाध्यभाषते //

क्षिप्रं छन्दक कण्ठकम् उपनीत्वा मा चिरं विलम्बाहि / संग्रामम् अहं दुर्जयं जयिष्ये अद्य भव वूदग्रो //

सो वाष्पपूर्णवदनो परिनिःश्वसन्तो छन्दकः सशोकरवितानि समुत्थितानि / वाष्पाणि मुञ्चति इमानि प्रबोधनार्थं सुप्तस्य पार्थिवजनस्य . . . . . . //

किं दानि आविगलिता वरकोशभारा वाष्पौघसंस्तरगता मदनाभिभूता / लालस्यसोकपरिदेवितकाल एव सुप्ता इदानि यद जाग्रणदेशकालः //

देवी पि नाम सुचिरं प्रतिजागरित्वा सौदामनीप्रतिमरूपनिभा शयाना / निर्याणकालसमये नरलम्बकस्य वरसुरपुरे सुरवधूप्रतिमा सलीला //

[_mvu_1.155_] सा दानि तस्य महिषी मनुजेश्वरस्य माता सवत्सलविशालसुचारुनेत्रा / संपश्यमान करुणं प्रियविप्रयोगं निद्राभिभूत न विजानति आलपन्तं //

सा दानि कुञ्जरवराश्वसमाप्तयोधा नाराचप्रासशरशक्तिविचित्रवर्मा / सेना कहिं वसति कं वा गुणं करोति या शाक्यपुङ्गवं न बुध्यति निष्क्रमन्तं //

कं बोधयामि मम को नु भवे सहायो किं वा करोमि दिवसे अपि विप्रनष्टे / हा हेमकाञ्चननिभेन किल विहीनो राजा जहिष्यति सबन्धुजनो शरीरं //

तं देवसंघ अवची मधुरप्रलापी किं छन्दका लपसि किं ति विहन्यितेन / नैतस्य मारकपुत्राण्य् अपि उद्यतानि विघ्नं समर्थ जनयेयु कुतो पुनस् त्वं //

भेरिमृदङ्ग यदि शंखसहस्रशब्दं कुर्यात् कोचित् कपिलवस्तुनि बोधनार्थ / नैतद् विबुद्धि अमरेश्वर-म्-आदिकेहि तं सोपितं पुरवरं हि समृद्धवारं //

पश्यासि ताव गगने मणिरत्नचूडा

[_mvu_1.156_] देवा दिवि गुरुकृतस्य वसानुवर्ती / प्रह्वा कृतांजलपुटा प्रणिपत्य मूर्ध्ना त्वं बन्धु त्वं च शरणं ति नमस्यमाना //

तत् साधु कण्ठकम् उपानय नायकस्य गोक्षीरहेमवपुषं सहजं तुरंगं / न ह्य् अस्ति सो भुवि दिवि नरलम्बकस्य यो विघ्नं कुर्या उपनेहि तुरंगश्रेष्ठं //

सो तं प्रफुल्लकुमुदाकरकुन्दगौरं संपूर्णचन्द्रवपुषं सहजं तुरंगं / तस्य महागुणधरस्य वचाभितुन्नो सुश्रूषकारि उपनामयते रुदन्तो //

एषो ति नाथ वरलक्षणभूषिताङ्गो सज्जः सुद्योतचरणो ललिताग्रगामी / यं दानि ते ऽध्यवसितं वररूपधारि तन् ते समृध्यतु विशालभुजान्तरांशा //

शत्रुश् च ते ऽग्रबल दुर्बलभग्नशूको शीघ्रं तपेतु तव तेजवराभिभूतः / आसा च ते नरलम्बक महार्थयुक्ता संपूर्यतां कनकपर्वतसन्निकाशा //

ये तुभ्य विघ्रकरा ते तु अपक्रमन्तु

[_mvu_1.157_] श्रेयावहा तु ति बलं विपुलं लभन्तु / यं च व्रतं समुपगच्छसि तस्य पारं गच्छासि मत्तवरवारणखेलगामि //

मणिकुट्टिमा च वसुधा राजकुले कण्ठकस्य पादेहि / समनिहता रसति मधुरं निशां स्फुरति अद्भुतं शब्दं //

चतुरश् च लोकपाला विगलितमकुटा प्रलम्बवरमालाः / कण्ठकपादेषु करां न्यसन्ति रक्तोत्पलसकाशां //

अग्रतो वज्रवरधरो त्रिदशगुरू आबद्धमणीचूडो / इन्द्रो सहस्रनयनो गच्छति पुरतो नरवरस्य //

संज्ञाकृतमात्रम् इदं कण्ठको वहतीति वादिशार्दूलं / देवा प्रवरकरहृतं वहन्ति अंशुप्रवरवर्षं //

निष्क्रम्य नगरवरातो अवलोकयि पुरवरं पुरुषसिंहो / न तं पुनर् अहं प्रवेक्ष्यम् अप्राप्य जरामरणपारम् इति //

एवम् अभिनिष्क्रमणसंपन्ना खलु धुतधर्मधर सम्यक्संबुद्धा इति // न प्रतिबलो खल्व् अहं भो धुतधर्मधर बोधिसत्वस्य गर्भावक्रान्तिम् आदौ कृत्वा यावद् अभिनिष्क्रमणतो विस्तरेण भाषितुं कल्पं कल्पावशेषं वा न च गुणा समन्ता शक्यम् अभिगन्तुं //

___इत्य् अपि बहुगुणसंपन्ना सम्यक्संबुद्धा इति //

[_mvu_1.158_] बोधिमूलम् उपगम्य चाप्राप्तायां सर्वाकारज्ञतायां पंचचक्षुसमन्वागता भवन्ति // एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // विस्तरेण भो जिनपुत्र पंच चक्षूणि परिकीर्तय अवहितश्रोता देवमनुष्यसंकुला परिषा सर्वभूतगणा इति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // पंच इमानि भो धुतधर्मधर सम्यक्संबुद्धानां चक्षूणि भवन्ति // कतमानि पंच // मान्सचक्षुः दिव्यचक्षुः प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुः // इमानि भो धुतधर्मधर पंच चक्षूणि सम्यक्संबुद्धानां भवन्ति असाधारणानि प्रत्येकबुद्धेभ्यः अर्हन्तेभ्यः शैक्षेभ्यः सर्वबालपृथग्जनेभ्य इति // तत्र भो धुतधर्मधर मान्सचक्षुस् तथागतानां // याये प्रभाये समन्वागतं याये शूक्ष्मदर्शनाये समन्वागतं याये तत्त्वदर्शनाये समन्वागतं तन् मान्सचक्षु अन्यस्य सत्वस्य सत्वकाये नास्ति // प्राप्ते च सर्वदर्शित्वे बोधिसत्वा यावत्तकम् अवकाशम् अवलोकयितुम् इच्छन्ति तं दर्शनं तत्र अप्रतिहतं प्रवर्तते // किं कारणं // विपुलकुशलसंचितत्वात्* // तद्यथापि नाम ऋद्धिबलेन राजा चक्रवर्ति सार्धं चतुरंगिनीया सेनाये वैहायसं द्वीपातो द्विपं संक्रामति तथेदं पि द्रष्टव्यं // सम्यक्संबुद्धानां चरिते ऋद्धिबलेन अनाकांक्षमाणानां निश्चलां वसुमतिं प्रतिक्रमन्तानां उन्नता च ओनमति ओनता च उन्नमति तथैतद् अपि द्रष्टव्यम् इत्य् एवम् आदिना

[_mvu_1.159_] लक्षणमात्रेण सम्यक्संबुद्धानां मान्सचक्षुः निरुपदिश्यते // न च कल्पेन सम्यक्संबुद्धानां मान्सचक्षुस्य शक्यं गुणपर्यन्तम् अधिगन्तुं // किं कारणं // नहि किंचित् सम्यक्संबुद्धानां लोकेन समं // अथ खलु सर्वम् एव महर्षिणां लोकोत्तरं // तथा हि सम्यक्संबुद्धानां समुदागमः सो पि लोकोत्तरो // तच् च सम्यक्संबुद्धानां मान्सचक्षुषः वर्णं प्रवृत्तं स्थानं च यथान्येषां सत्वानां सत्वकाये // येन चक्षुषा भौम्या देवाश् च यक्षाश् च राक्षसाश् च कामावचराश् च रूपावचराश् च देवाः विशिष्टतरं च विपुलतरं च स्फुटतरं च सम्यक्संबुद्धानां दिव्यचक्षुः // तत् प्रवृत्तं मनोमयेषु रूपेषु //

___येनेह प्रज्ञाचक्षुषा समन्वागता चक्षुत्वपरीक्षया अष्टमकादिका पुद्गला यावद् अर्हत्पुद्गला इति अतो परिव्यक्ततरं सम्यक्संबुद्धानां प्रज्ञाचक्षुः // तत्र कतमं सम्यक्सम्बुद्धानां धर्मचक्षुः // स दशानां बलानां मनोविभुता // तत्र कतमानि दशबलानि // तद्यथा स्थानास्थानं वेत्ति प्रथमं बलं अप्रमेयबुद्धीनां / सर्वत्रगामिनीं च प्रतिपदं वेत्ति बलं द्वितीयं //

नानाधातुकं लोकं विदन्ति ख्यातं बलं तृतीयं / अधिमुक्तिनानात्वं वेत्ति चतुर्थं बलं भवति //

परपुरुषचरितकुशलानि वेत्ति तत् पंचमं बलं च /

[_mvu_1.160_] कर्मबलं प्रतिजानन्ति शुभाशुभं तद् बलं षष्ठं //

क्लेशव्यवदानं वेत्ति सप्तमं बलं ध्यानसमापत्तिं वेत्ति / अष्टमं बलं पूर्वनिवासं वेत्ति बहुप्रकारं //

बलं नवमं भवति परिशुद्धदिव्यनयना भवन्ति / सर्वक्लेशविनाशं प्राप्नोन्ति दशमं बलं भवति //

एतानि मनोविभुबलानि यैः सर्वदर्शी दिवि भुवि च जातकीर्तिः दशबल इत्य् एवम् आख्यातो // यं एतेषु दशबलेषु मनोविभुज्ञानं इदम् उच्यते धर्मचक्षुर् इति // तत्र कतमं बुद्धचक्षुः // अष्टादशावेणिका बुद्धधर्माः // तद्यथा अतीते अंशे तथागतस्य अप्रतिहतं ज्ञानदर्शनं / अनागते अंशे अप्रतिहतं ज्ञानदर्शनं / प्रत्युत्पन्ने अंशे अप्रतिहतं ज्ञानदर्शनं / सर्वं कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति / सर्वं वाचाकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति / सर्वं मनोकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति / नास्ति छन्दस्य हानिः / नास्ति वीर्यस्य हानिः / नास्ति स्मृतिये हानिः / नास्ति समाधीये हानिः / नास्ति प्रज्ञाये हानिः / नस्ति विमुक्तिये हानिः / नास्ति खलितं / नास्ति रवितं / नास्ति मुषितस्मृतिता / नास्ति असमाहितं चित्तं / नास्ति अप्रतिसंख्याय उपेक्षा / नास्ति नानात्वसंज्ञा // यं इमेषु अष्टादशस्वावेणिकेषु बुद्धधर्मेषु ज्ञानम् इदम् उच्यते बुद्धचक्षुर् इति //

[_mvu_1.161_] एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // किं पुनर् भो जिनपुत्र भवतो एतद् अधिवचनं यादृशानां भूमीनां व्याकरणं उताहो सम्यक्संबुद्धानाम् एतद् इति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // एकस्मिं समये भो धुतधर्मधर भगवां वाराणस्यां विजहार ऋषिवदने मृगदावे अष्टाविंशतीनां वशीभूतशतानां पुरस्कृतः // तत्र भगवता अष्टादश बुद्धधर्मा विभक्ताः अतीते अंशे अप्रतिहतं ज्ञानदर्शनम् एव सम्यक्संबुद्धानां भवतीति दश भूमयो समुत्कीर्तये // शाक्यमुनिं सम्यक्संबुद्धं आदौ कृत्वा दश भूमयो देशिता // तत्रेदम् उच्यते //

प्रियाणि वस्तूनि ददाति चक्षुमां चिरं प्रसन्नेन मनेन संसरन्* / ततो प्रियं बुध्यति ज्ञानम् उत्तमं स्वयं महीमण्डगतो तथागतो //

विचित्रवस्त्राभरणैर् अलंकृताः स्त्रियो ददाति परितुष्टमानसो / विचित्रम् अस्य प्रतिज्ञानम् अद्भुतं उदीर्यते तस्य फलेन कर्मणः //

न शक्तिनाराच न प्रासतोमरा / प्रासेसि सत्वेषु भवेषु संसरन्* / तथास्य मार्गो ऽतृणखण्डकण्टको

[_mvu_1.162_] अघाति ग्रामां नगरां च संसरन्* //

स्वकस्य दासस्य पि धर्मवादिनः शृणोति सत्कृत्य कथां न च्छिन्दति / ततो स्य धर्मं ब्रुवतो महाजने न कश्चि नो रम्यति नो च तुष्यति //

प्रणीतदानानि ददाति . . . . . विनेति कांक्षाञ् च तत एव संशयं / ततो स्य कायात्* ज्वलनार्चिसन्निभा प्रभा समुत्तिष्ठति शीतलप्रभा //

न कस्यचिद् याचनकस्य याचना भवन्ति बन्ध्या नरदेववेशिता / ततो अबन्ध्या भवि तस्य देशना तद् अद्भुतं मारबलप्रमर्दने //

मनोरमां काञ्चनतालपर्णियो जिनेषु देन्ति परितुष्टमानसाः / ततो अनालोकिया लोकबान्धवा सदा च लोकेषु .. एतद् अद्भुतं //

उपानहा रत्नमया च पादुका ददाति नित्यं परितुष्टमानसः /

[_mvu_1.163_] ततः सदा चंक्रमते नरोत्तमः असंस्पृशन्तो चतुरंगुलं महीं //

परेहि उक्तो परुषं पुनः पुनः प्रभुः समानो क्षमते न ऊहते / ततो पियं चंक्रमतो सपर्वता समुन्नतान्तोनमति वसुन्धरा //

करोति दीनान नयेन संग्रहं पतन्तम् अभ्युद्धरते महाजनं / ततो स्य रत्नामयरत्नसंचया समोनता उन्नमते वसुंधरा //

स्वगुणपरिकीर्तनेन च सम्यक्संबुद्धेन बुद्धानुस्मृतिर् नाम धर्मपर्यायो भाषितः // तस्य पर्यवसाने आयुष्मता वागीसेन सम्यक्संबुद्धो संमुखम् अभिस्तुतो //

नमो ऽस्तु ते बुद्ध अनन्तदर्शन समन्तचक्षुः शतपुण्यलक्षण / हितानुकम्पी परमार्थकोविद नमामि त्वां वल्गुगिराहि गौतम //

तारेसि तीर्णो जनतां महामुने न भायसि क्षेमकराग्रपुद्गल /

[_mvu_1.164_] यथातथं स्थानम् अभिप्रकाशयं विनेसि सत्ये अमृते बहुं जनं //

शीलं महर्षिस्य अनन्तदर्शिनः गम्भीरम् आर्यं विपुलं सुभाषितं / शीले विशिष्टो त्वम् अरिप्रमर्दनः इमस्मिं लोके परतश् च सुव्रतः //

अखण्डम् अच्छिद्रम् अकाचम् अव्रणं अनाश्रवन् ते चरणं महामुने / शुचि विशुद्धिं परमां गतो सदा विरोचसे नगशिखरे यथानलो //

चित्तस्थितित्वे असि पारमिंगतो वशी समाधिस्मि तथापि पुद्गल / चित्ते वशी त्वं वशितां परां गतः वंकावकाशा विगतो विरोचसे //

यथेच्छकं अरणसमाधि शान्तर . . . . . देवनरेषु अर्चित / निषेवसे काञ्चनदामप्रभः {सेनर्त्: निवेशसन्*} नमो ऽस्तु ते गौतम सत्यविक्रम //

विरोचनो नभसि यथा महाप्रभो शुद्धे नभे पंचदशीय चन्द्रमा /

[_mvu_1.165_] तथा समाधिस्मि स्थितो विरोचसे सुवर्णम् उत्तप्तम् इवात्र पुद्गला //

आकांक्षमाणा विमना11 विपण्डिता {सेनर्त् विगता} सत्वा न जानन्ति समन्त उद्यमां / सुखं समाधिं अरणानि सेवतो नमो ऽस्तु ते देवमनुष्यपूजित //

यदा च आलोकसि नागगामि यदा च आगत मरणाय पारं / मतीस्मृतीमां विमलेन चेतसा तदा अयं भूतधरा प्रकम्पते //

सत्या अभिसमेतिय दर्शनं तथा स्वयं अभिज्ञाये अनुश्रुतं पुरा / इमां गिरां व्याहर अग्रपुद्गल सहस्रनेत्रो मघवां व शोभसे //

इदं समाप्तं व्यसनं महद्भयं इतो न भोति अग्रे अस्य संभवो / तस्यावरोधनम् अधो प्रवर्तते निर्वाति वातान स्वरो व पाकः //

विमुक्तिचित्तस्य विमुक्तिदर्शना अचिन्तिया तर्कपथेन निश्रिता /

[_mvu_1.166_] असंकिया वीरगिरा विरोचते या सा सुवेला मृदु सत्यसंभवा //

अनुद्धतां तां च गिरां प्रकाशय त्वं . . . . . . हि जनस्य सन्निधौ / ते तुह्य श्रुत्वा मधुरां सुभाषितां पिबन्ति तृष्णार्त इवाम्भसार्णवे //

हतेषु त्वं प्राणिषु मैत्रं चिन्तय ऐश्वर्य-ऋद्धिं प्रतिभानम् उत्तमं / श्रेष्ठेषु धर्मेषु हि पारमीगतो यथा न कोची इह लोकधातुये //

प्रज्ञा च ते अस्ति अनुत्तरा मुने सर्वस्मि लोके ऽप्रतिमा अनोपमी / त्वम् एव श्रेष्ठो सकलस्य प्राणिनो शिलोच्चयानां यथ मेरुपर्वतः //

न ते ऽस्ति तुल्यो सदृशो समानो कुतोत्तरो गुणेषु गुणंधरस्य / त्वम् एव श्रेष्ठो परमार्थपुद्गलो धर्माण निर्वाणम् इवाचलं सुखं //

रागं च मोहं च प्रहाय दोषं मानं च म्रक्षं तसिणां च जालिनीं /

[_mvu_1.167_] विराजसे दोषविमुक्तमानसो यथा शशी पूर्ण इव नभे शुभे //

यद् अत्र सत्यं तुवं मार्गसे ऋजुः सेतुर् महा सत्पुरुषेण सेवितः / इमां गिरं व्याहर अग्रपुद्गल सहस्रनेत्रो मघवां च शोभसे //

क्लेशैर् विमुक्तं विमलं सुशान्तं निषेव सत्वशरणं समाधिं / हिताय भूतान ऽभिभुर् विराजसे रवी यथा देवमनुष्यपूजितः //

अनिश्रितः त्वं इह च परत्र च ध्यायन्तो ध्याने रमसे प्रतिष्ठितः / वन्दन्ति देवा बहवो समागता नमस्कृतं प्रांजलियो महामुनिं //

बहुधा बहुप्रकारं चक्षुं भवते विशुद्धचक्षूणां / जरामरणमर्दनान बुद्धान अदान्तदमकानां //

लोकोत्तरा भगवतो चर्या लोकोत्तरं कुशलमूलं / गमनं स्थितं निषण्णं शयितं लोकोत्तरं मुनिनो //

यत् तत् सुगतशरीरं भवते भवस्य बन्धनक्षयकरणं / [_mvu_1.168_] लोकोत्तरं तद् अपि भो इत्य् अत्र न संशयः कार्यो //

चीवरधरणं मुनिनो लोकोत्तरं अत्र संशयो नास्ति / आहाराहरणम् अथो लोकोत्तरम् एव सुगतस्य //

देशना नरनागानां सर्वलोकोत्तरा मता / यथातथं प्रवक्ष्यामि माहात्म्यं वरबुद्धिणां //

देशकालवशं प्राप्य परिपाकं च कर्मणः / सत्यं वा अभिनिर्वृतं धर्मं देशेन्ति नायकाः //

लोकानुवर्तनां बुद्धा अनुवर्तन्ति लौकिकीं / प्रज्ञप्तिम् अनुवर्तन्ति यथा लोकोत्तराम् अपि //

ईर्यापथां दर्शयन्ति चत्वारः पुरुषोत्तमाः / नो च परिश्रमस् तेषां जायते शुभकर्मिणां //

पादां च नाम धोवन्ति न चैषां सज्जते रजः / पादाः कमलपत्राभा एषा लोकानुवर्तना //

स्नायन्ति नाम संबुद्धा न चैषां विद्यते मलो / बिम्बे कनकबिम्बाभे एषा लोकानुवर्तना //

दन्तधोवञ् च सेवन्ति मुखं च उत्पलगन्धिकं / निवसनं निवासेन्ति प्रावारं च त्रिचीवरं //

चैलं वातानि वायित्वा विकोपेन्ति न देहकं /

[_mvu_1.169_] वस्त्रं पुरुषसिंहानां एषा लोकानुवर्तना //

छायायां च निषीदन्ति आतपश् च न बाधति / बुद्धानां शुभनिष्यन्दानां एषा लोकानुवर्तना //

औषधं प्रतिसेवन्ति व्याधि चैषां न विद्यते / नायकानां फलं महन्तं एषा लोकानुवर्तना //

प्रभूश् च कर्म वारयितुं कर्मं दर्शयन्ति च जिना / ऐश्वर्यं विनिगूहन्ति एषा लोकानुवर्तना //

करोन्ति नाम आहारं न चैषां बाधते क्षुधा / जनताया उपदार्थं एषा लोकानुवर्तना //

पिबन्ति नाम पानीयं पिपासा च न बाधते / तद् अद्भुतं महर्षिणां एषा लोकानुवर्तना //

चीवराणि निवासेन्ति सदा च प्रावृतो जिनः / यथारूपो भवे देवो एषा लोकानुवर्तना //

केशां च ओरूपयन्ति न चैषां छिन्दते क्षुरः / केशां नीलाञ्जननिभां एषा लोकानुवर्तना //

जरां च उपदेशेन्ति न चैषां विद्यते जरा / जिना जिनगुणोपेता एषा लोकानुवर्तना //

कल्पकोटीम् असंख्येयां पुण्येषु पारमिंगता / आरब्धम् उपदेशेन्ति एषा लोकानुवर्तना //

[_mvu_1.170_] न च मैथुनसम्भूतं सुगतस्य समुच्छ्रितं / मातापितृञ् च देशेन्ति एषा लोकानुवर्तना //

दीपंकरम् उपादाय वीतरागस् तथागतः / राहुलं पुत्रं दर्शेति एषा लोकानुवर्तना //

कल्पकोटीम् असंख्येयां प्रज्ञापारमितां गता / बालभावं च दर्शेन्ति एषा लोकानुवर्तना //

असन्मन्त्रा विभाषित्वा अस्मिं लोके सदेवके / पुनः पर्येषन्ति तीर्थे एषा लोकानुवर्तना //

बोध्यित्वा-म्-अतुलां बोधिं सर्वसत्वान कारणा / अल्पोत्सुकत्वं प्रदेशेन्ति एषा लोकानुवर्तना //

परमगुणसंपन्ना वचनसंपन्नाश् च सर्वे सम्यक्संबुद्धा // षष्टिभिः गुणैः सम्यक्संबुद्धानां वाचा समन्वागता भवति // कतमेहि षष्टिभिः //

गीतरवमधुरवादी नरवरवचना विनिश्चरति वाचा / वीणारववेणुरवा हंसरवरुता सुगतवाचा //

जीमूतरसितमधुरा परभृतरथनेमितुल्यनिर्घोषा / सागरनर्दितसारसप्रभावा वरबुद्धिनो वाचा //

किन्नरकलविंकरुता मेघवरस्वररवा वरगजरुता /

[_mvu_1.171_] ऋषभमृगराजरसिता वाचा वरलक्षणधराणां //

दुन्दुभिरवगम्भीरा वनदेव-अनिलविधूतस्वरप्रपाता / भूमीविक्षोभनरवा गिरा नरमरुप्रधानानां //

पंचांगिकतुल्यरवा प्रलुलितकलहंसबर्हिणनिवाता / बिम्बोष्ठसुतनुजिह्वा जिनवदना निश्चरति वाचा //

गन्धर्वगीतमधुरा जलधाराणां निपाततुल्यरवा / अविस्तरपिण्डितरवा गिरा गुणवरप्राधानानां //

वरकिंकणीकसलीलसुसंचिता हेमजालतुल्यरवा / आभरणघट्टितरवा भुवि दिवि च गिरा प्रधानानां //

नातिद्रुता अनमन्ती अनुपच्छिन्ना विवर्तते मधुरा / गलितपदसंचयवती वाचा वरलक्षणधराणां //

सर्वाम् एव अनुचरति परिषां यदि लोकधातुनयुतानि / विज्ञापयते सर्वां परिषां सुमधुरा वाचा दशबलानां //

शकयावनचीणरमठपह्लवदरदेषु दस्युपरिषायां / एकविधम् उच्यमाना सर्वविषयचारिणी भवति //

परिषां न अतिक्रमते निश्चरमाणा गिरा नरवराणां /

[_mvu_1.172_] न वर्धते न च हायति गिरा स्थितलया दशबलानां //

न च भिद्यते न नुद्यति न च उपतप्यते . . . . . . . . . / न च विखलखलखलायति अभिस्वररुता सुगतवाचा //

न च सा अपशब्दवती शब्दभ्रष्टा अशेषं अनुयुक्तशब्दा / शब्देषु कुशलाकुशलां सर्वां जनतां प्रहर्षयति //

वदना सुविमलदशना निश्चरति गिरा यदा गुणधराणां / माद्यन्ति शकुनसंघा गगनतलगता वनगताश् च //

यो यस्य स्वर अभिमतः सा तं पूरयति तस्य संकल्पं / सुगतवचनप्रभूता वाचा परिषदि विचरमाणा //

वरवासनसहितघोषा गिरिनदिनिर्घोषसन्निभा शुद्धा / उत्क्रोशकुरररुतनया प्रभवति वाचा वररुतानां //

शकुन्तजीवंजीवक जिनवाचा कनकतालपत्ररवा / पटुपटहप्रवदमृदंगचाटुस्वरतुल्यनिर्ग् होषा //

आज्ञेया विज्ञेया गम्भीरभीष्मरूपा कर्णसुखा / हृदयंगमा च नित्यं वाचा वरपारमिगतानां //

वल्लकीश्रवणीया च प्रेमणिया च गिरा गुणधारीणां / विपुलशुभसंचयानां सर्वेषां अनन्तयशसानाम् इति //

[_mvu_1.173_] यथाभूतं देशिता वाचा // सम्यक्संबुद्धा एवं धर्मं देशयन्ति // नाहं भिक्षवो ये धर्मा अनित्यास् ते नित्यतो देशयामि / नापि ये धर्मा नित्या ते अनित्यतो देशयामि / नापि ये धर्मा दुःखाः ते सुखातो देशयामि / नापि ये धर्मा सुखा ते दुःखातो देशयामि / नापि ये धर्मा अनात्मीया ते आत्मतो देशयामि / नापि ये धर्मा आत्मीयास् ते अनात्मतो देशयामि / नापि ये धर्मा अशुभाः ते शुभतो देशयामि / नापि ये धर्माः शुभास् ते अशुभातो देशयामि / नापि ये धर्मा रूपिणस् ते अरूपिणो देशयामि / नापि ये धर्माः कुशलास् ते अकुशलाः ते देशयामि / नापि ये धर्मा अकुशलास् ते कुशलातो देशयामि / नापि ये धर्मा अनाश्रवाः ते साश्रवा ति देशयामि / नापि ये धर्माः साश्रवाः ते अनास्रवा ति देशयामि / नापि ये धर्माः व्याकृतास् ते अव्याकृता इति देशयामि / नापि ये धर्मा अव्याकृतास् ते व्याकृता इति देशयामि / नापि ये धर्मा हीनास् ते प्रणीता इति देशयामि / नापि ये धर्मा प्रणीतास् ते हीना इति देशयामि / नापि ये धर्माः गृहाश्रितास् ते नैष्क्रम्याश्रिता इति देशयामि / नापि ये धर्मा नैष्क्रम्याश्रितास् ते गेहाश्रिता इति देशयामि // अथ खलु भो धुतधमधर सम्यक्संबुद्धाः सत्यवादि कालवादि भूतवादि अर्थवादि तथावादि अनन्यथावादि अवितथवादि धर्मवादि विनयवादि इति //

[_mvu_1.174_]___भूतपूर्वं भो धुतधर्मधर तुषितभवनकायिको देवपुत्रो शिखरधरो नाम बोधिसत्वः सम्यक्संबुद्धं ऋषिवदनगतं वाराणस्यां वनवरे वरचक्रप्रवर्तनदिवसे भगवन्तं संमुखाभिर् अध्यभाषे सगौरवः सप्रतीसः प्रह्वः कृतांजलिपुटः //

साधु ते साधुरूपस्य वाचा न प्रतिहन्यते / साधु अर्थान्विता साध्या वाचा तव मनोरमा //

साधु सुस्वरसंयोगा वर्णसन्धिगुणान्विता / साधु सत्यानि चत्वारि प्रवदसे महामुने //

साधु ते देवगन्धर्वा पिबन्ति मधुरां गिरां / साध्व् इहाप्रतिमं चक्रं प्रवर्तसि अनुवर्तिकं //

तुभ्यं लोके समो नास्ति रूपे वर्णे कुले बले / ईर्यापथे च वीर्ये च ध्याने ज्ञाने शमे दमे //

अद्य हृष्टा दश वीर कोट्यो ते प्रथमे फले / विनीता देवपुत्राणां शासने प्रथमे मुने //

त्रिंश कोट्यो प्रभो वीर विनेसि प्रथमे फले / द्वितीये शासने नर देवपुत्राण एव च // {सेनर्त् ऐव च}

पञ्चाश कोटीयो भूयो शासने तृतीये मुने / विनीता देवपुत्राणां अपायेहि विमोचिता //

[_mvu_1.175_] अशीति कोटीयो भूयो श्रोतापत्तिफले विभू / चतुर्थे शासने दमेत्वा दुर्गतीहि विमोक्षिताः //

तस्मात् ते सदृशो नास्ति मैत्राय पुरुषोत्तम / करुणाये कारुणको भूतो भूयो नरर्षभ //

हृष्टा पुरुषशार्दूला उत्पन्ना लोकसुन्दरा / हिताय सर्वसत्वानां विचरन्ति महामुने //

अतिचिरस्य राजसुत उत्पन्नो सि नरर्षभ / प्रणेता विप्रनष्टानां आर्त्तानां नयनन्दनं //

मा च कदाचिद् भूतगुरु नाथो अन्तरहायतु / अपर्यन्तं तव स्थानं भवति लोकबान्धव //

अपाया तनुकीभूता स्वयम्भू तव तेजसा / अनोकाशा कृता स्वर्गा त्वां प्राप्य पुरुषोत्तम //

यस्य मिथ्यात्वनियतो राशिः पुरुषपुद्गल / एष वानियतं राशिं त्वां प्राप्य पूरयिष्यते //

यस्याप्य् अनियतो राशिः त्वां प्राप्य सुरवन्दित / पूरयिष्यति सो राशिं सम्यक्तेजकुलोदित //

अद्भुतानां च धर्माणां विशुद्धिः उपलभ्यते / त्वां प्राप्य पुरुषादित्य तमोन्तकरम् अच्युतं //

[_mvu_1.176_] तस्य ते भाषमाणस्य भूतां धर्मां जिनर्षभ / अभिनन्दन्ति वाक्यन् ते सेन्द्रा लोका महामुने //

इति स्तुवन्ति देवगणा वरदं प्रीतिमानसा / अनन्तगुणसंपन्नं संस्तवार्हं नरोत्तमम् इति //

उपचारविधिसंपन्ना भो धुतधमधर सम्यक्संबुद्धा कालज्ञानसमर्थका विशुद्धनेत्रा अनुच्चावचदर्शना पूर्वान्तनयसंपन्ना उच्छ्रापितधर्मध्वजा निष्प्रतिमानध्वजा कलहरणनिशातका प्रवचनविदुषो अनवसानज्ञानाः समये च आवुसादयन्तो अनयनानां प्रवर्तकाः अपमार्गककुत्सका इति // तत्रेदम् उच्यते //

सर्वाकारगुणोपेता सर्वे सर्वार्थनिश्चिता / प्रनेतारो विनेतारो बुद्धा बुधजनार्चिताः //

असंकीर्णेन ज्ञानेन विशुद्धेन मनेन च / त्रिषु लोकेषु भ्राजन्ते पूर्णचन्द्र इव नभे //

चरणेन मनोज्ञेन सतां कान्तेन नायकाः / नदन्ति च महानादं सम्यक्कुशलसंभवाः //

शासन्ति जनतां वीरा उपचारेषु निश्चिताः / विवादं परसत्वानां मथन्ति तत्त्वदर्शिनः //

लोके जाता नरश्रेष्ठा न च लोकेन लिप्यथ / प्रज्ञप्तिसमतिक्रान्ता गम्भीरविषया विभूः //

[_mvu_1.177_] गुरुं धुरं समारोप्य न विषीदन्ति पण्डिता / यथावादीतथाकारी अनुपक्रुष्टचारणा //

दृष्टिविषं तं घोरं च दग्ध्वा ज्ञानाग्निना प्रभूः / अनुत्त्रासितासन्त्रस्ता परं प्रदन्ति प्राणिनां //

कान्तारं समतिक्रम्य क्षेमं प्राप्य नरर्षभाः / आह्वायन्ति जनधीरा इहैव निर्भयं इदं //

जरामरणरोगाणां उत्पत्ति नेह विद्यते / इह आयासशोकानां प्रवृत्तिर् नोपलभ्यते //

ते तस्य वचनं श्रुत्वा मधुरं देवमानुषा / अनुशास्तिं तथा कृत्वा प्रतिपद्यन्ति तत्सुखं //

तेनास्ति कीर्तिविस्तीर्णाः त्रिषु लोकेषु चोत्तमाः / चरन्ति अर्चिता सद्भि न चैव प्रशमन्ति ते इति //

परोपहारांश् च भो धुतधर्मधर उपहरन्ति सम्यकस्ंबुद्धाः सत्वानाम् अनुग्रहार्थं // तद्यथा कलिंगराज्ञः कुसुमाये देव्या परोपहारं भगवां ध्रुवस्य श्रेष्ठिनो वचनोपहारं भगवां वृत्तवां //

तथैव च राजगृहे पुरोत्तमे परोपहारं भगवां प्रवृत्तवां /

[_mvu_1.178_] समुत्कर्षेसि स्वविधानकोविदो उपालिनो तं वचनोपहारं //

तथा परं मेरुतटे समागतां स वादिसिंहो वशिनां वशी वशी / परोपहारं भगवां स भिक्षु- संघस्य तं इदम् अवचा महामुनिर् इति //

एतां सर्वां प्रवक्ष्यामि उपहारां मनोरमां / तस्य सत्वप्रधानस्य शृणु विक्रीडितं शुभं //

उत्पन्ने पुरुषश्रेष्ठे धर्मचक्रे प्रवर्तिते / कलिंगराजा कारयति राज्यं स्फीतम् अकण्टकं //

नामेन अभयो नाम तस्येदं दर्शनं अभूत्* / शुभाशुभानां कर्माणां फलं नास्तीति निश्चयः //

परलोको तथा नास्ति दानफलं क्वचिद् यत्र / वीतरागो वीतदोषो वीतमोहो न विद्यते //

सो तं च दर्शनं प्राप्य जनतां सन्निपातयेत्* / स्वकां दृष्टिं समाख्याति पश्चाच् च न निवर्तते //

यदि मह्यं पिता ब्रुयात् प्रत्यक्षं मम अग्रतः / स्वयम् उपगम्य एवन् तच् छ्रद्दधे तदा तथा //

सर्वदा स तदा आसि शीलवां मैत्रमानसो /

[_mvu_1.179_] यदि तस्य फलम् अस्ति तस्य देवपुरं गतिः //

देवभूतो मम ज्ञात्वा इमां दृष्टिं विमोचयेत्* / इत्य् उक्त्वास्ति परलोको दृष्टिं मुञ्चाहि पापकां //

यस्य च परलोकस्य प्रवृत्तिर् नोपलभ्यते / तस्मात् पिता ममागत्वा संप्रहर्षयतु मानसं //

ततो लोकानुकम्पार्थं कारुणो महद्विशारदः / कलिंगराजस्य रूपं निर्मणति स्वयं मुनिः //

प्रासादवरं आरुह्य अन्तःपुरगतो तथा / अन्तःपुरस्य दर्शेति यत् तं प्रकृतिदर्शनं //

ततो स निर्मितो राजा अन्तरीक्षगतस्थितः / राजानम् अभयं धीरो उवाच पुरुषोत्तमः //

परित्यज्य स्वकार्याणि परकार्येषु व्यापृतः / मिथ्यादर्शनसंयुक्तं अराज्यं राज्यसंज्ञितं //

अद्य भवे गती तुभ्यं नरको दारुणो महत्* / ये च ते दर्शयिष्यन्ति तेषाम् अपि च सा गति //

अन्यान्* हि विहतो हन्ति नष्टो नाशयते परां / अन्धीकरोति अन्या पि स्वयम् अन्धव्यपत्रपो //

सुमुष्टो मुषसे अन्या मृतो च मारसे परां / सुखितान् अपि सत्वा त्वं दुःखापयसि दुर्मते //

निमग्नो कामपंकस्मिं गृद्धु काम् एषु मूर्च्छितः /

[_mvu_1.180_] परलोकं द्रष्टुकामो धर्माणां नयनं नृपः //

अस्थानम् एतं भूमिपति यस् त्वं कामपरायणः / असमर्थो तहिं गन्तुं परलोकम् इमं प्रभो //

आस्वादं पि तु कामेषु बुद्ध्वा दोषान् तथैव च / कामे निःसरणज्ञस्य ते वै जाने परंपरां //

एतच् छ्रुत्वा नरश्रेष्ठो अभयो कम्पितो भयात्* / प्रह्वो इदम् उवाच तं अन्तरीक्षे सुदर्शनं //

श्रद्दधामि तं ते देव एवम् एतं नान्यथा / प्रसीद भव मे नाथ अभयं परिमोचय //

तद्वसान्तःपुरामात्यः शास्ता मे अप्रतिपुद्गलः / विनयवशी तवास्मि तथान्या जनता बहु //

परोपहार इति एषस् तेन परमबुद्धिना / वृत्तो अनुग्रहार्थाय सत्वानां वरबुद्धिना //

देवी कुसुम्भराजस्य कुसुमा इति विश्रुता / इष्टा कुसुम्भराजस्य स्त्रीसहस्राणम् उत्तमा //

तस्य माता पिता चैव जीर्णा दण्डपरायणा / धीतरम् एवम् आहन्सु कुसुमे पुत्रि हे शृणु //

वयं जीर्णा तुवं बाला कामप्रलुलिता असि /

[_mvu_1.181_] इच्छेम प्रतिसृज्यन्तौ इच्छेम मरणम् आत्मनः //

एतच् च वचनं श्रुत्वा कुसुमा लभते मतं / अवर्णो यं मम अस्या यद्य् अम्बातातो प्रघात्यते //

दास्यामि विषसंयुक्तं भक्तम् एषां सुदारुणं / भुक्त्वा येन उभाव् एतौ मरिष्यन्ति न संशयः //

यदास्या निश्चिता बुद्धि मातापितृषु दारुणा / ततो उत्पादये शास्ता कारुण्यं कुसुमां प्रति //

ततः कुसुमाये शास्ता मातरं पितरं तथा / अपनामयति संबुद्धो अन्यौ स्थापेति निर्मितौ //

कुसुमा विषसंयुक्तं तं भोजनम् आपद्यति / निर्मितान् आह भुंजन्तु अम्बा तातो च भोजनं //

अविकम्पमाना भुंजन्ति भोजनं जिननिर्मिताः / न चैषां बाधते किंचित् कायं निर्मितका हि ते //

द्वितीयं दिवसं चैव तृतीयं चतुर्थं पंचमं / विषसंयुक्तं भुक्त्वान सुधां व यापेन्ति निर्मितौ //

ततः कृतांजली भूत्वा कुसुमा निर्मितां ब्रवीत्* / आत्मानं मे निवेदयथ अनुग्राह्या यदि अहं //

तां याचमानां प्राञ्जलिकां कुसुमां निर्मिता ब्रवीत्* /

[_mvu_1.182_] या तवापत्ति जानाथ तथा च अनुतिष्ठथ //

बुद्धः पुरुषशार्दूलः द्वात्रिंशवरलक्षणः / उत्पन्नः कुलसंपन्नः सर्वविद्यागुणान्वितः //

तस्य सर्वं गुणाभूतं अतीतानागतस्थितं / विदितं वादिसिंहस्य अत्र विजह संशयं //

प्रासादवरम् आरुह्य सस्त्र्यागारो स पार्थिवः / याचेद् दर्शनम् इच्छाम वयं सर्वार्थदर्शिनः //

तं सर्वगुणसंपन्नं वन्दित्वा शरणं व्रजे / ततो अस्माकं यं तत्रैव पृच्छसि वक्ष्यते जिनो //

साधू ति प्रतिश्रुत्वान निर्मितां प्रति सो तदा / राजा सान्तःपुरो शीघ्रं प्रासादम् अभिरूढवां //

सत्वरं स प्रह्वो राजा सस्त्र्यागारो कृतांजलिः / इमां व्याहरते राजा वाचां कुसुमया सह //

ये सर्वगुणसंपन्ना लोकानाम् अनुकम्पका / गृहीता अत्यन्तं तेषां साञ्जली सौमनस्यका //

ततो अमन्त्रये शास्ता श्रावकां शासने रतां / चारुवर्णं सिंहहनुं दृढबाहुं अनिन्दितं //

कीर्तिमन्तं महानागं च चातुरन्तं महाबलं / नीलकेशं च बुद्धं च शान्तं सास्त्रविशारदं //

तथा शारसम् अतुल्यं गुप्तकामम् अनिन्दितं /

[_mvu_1.183_] सिंहनन्दिं विशालाक्षं लक्षणेयम् अनुत्तमं //

एष भिक्षवो गच्छामि शास्तारम् अनुबन्धथ / कुसुमां प्रमुखां कृत्वा विनेष्यामि बहुं जनं //

साधू ति ते प्रतिश्रुत्वा वशीभूता स्वयंभुवः / परिवारयित्वा संबुद्धं इदं वचनम् आहु ते //

अस्माकं पि पादो वीरा विहंगमध्यम् अक्रमः / अनुयास्याम संबुद्धं यत्र गच्छति चक्षुमां //

निमेषान्तरेण संप्राप्तो भगवां शिष्यसंवृतः / नगरं कुसुमायास् तु अनुकम्पाय प्राणिनां //

आकारं वज्रपाणिस्य नायको अभिनिर्मिणे / देवसंघं च मनसा ध्याये ध्यानविशारदः //

प्रभामण्डलम् उत्सृजे योजनानि चतुर्दश / देवता च अभिवादेन्ति यात्रां परमबुद्धिनः //

ततो च कुसुमा देवी प्रह्वी सुगतम् अब्रवीत्* / एषा ते प्राञ्जली नाथ पादां इच्छामि वन्दितं //

ततः प्रतिष्ठितो शास्ता प्रासादवरमूर्धनि / प्रभया च दिशा सर्वा अभिभूय यशस्करः //

ततो च कुसुमा देवी सह राज्ञा जिनक्रमां / वन्दते परिवारो च देविये नरपुङ्गवं //

शरणं त्वां नरश्रेष्ठ गच्छाम सुरवन्दित / मातरं पितरं हत्वा कीदृशं लभते फलं //

[_mvu_1.184_] शृणोहि कुसुमे सत्यं मातापितृवधे फलं / अनन्तरं महावीचिं नरकं उपपद्यते //

ततो बुद्धानुभावेन शास्ता वदथकोविदः / कुसुमाया महावीचिं उपदर्शेति नायकः //

ततो च कुसुमा देवी निरयं त्रस्य दारुणं / अश्रुवेगं प्रमुञ्चन्ती इदं वचनम् अब्रवीत्* //

मातापितृभ्यां कारुणिका दुष्टचित्तस्य किदृशं / परलोके फलं भवति यत् सत्यं तद् उदीरय //

दुष्टचित्तस्य कुसुमे तं चित्तं स्याद् अमुञ्चियं / तद् एव परलोकस्मिं फलं सद्यं च हिंसया //

ततो च प्रतिनिःसृजति कुसुमा दारुणं मनं / पुरतो धर्मराजस्य प्रीतिसुखसमर्पिता //

ततो कामान आस्वादं भाषते सर्वकोविदः / आदीनवं च कामानां भाषते पुरुषोत्तमः //

ततो कामानां निःसरणं भाषते चिन्त्यविक्रमः / गुणान् वदति निर्वाणे अद्भुतां भूतदर्शिमान् //

कुसुमां प्रमुखां कृत्वा कोटीयो द्वादश मुनिः / मानुषाणां विनयति उपहारो अयं इति //

ध्रुवो नाम अभूच् छ्रेष्ठी नगरे काशिवर्धने / तस्येदं दर्शनं पापं मातापितृसमागमे //

यो मातरं च पितरं च जीर्णकं गतयौवनं /

[_mvu_1.185_] ज्ञातिपक्षं समानेत्वा भक्ष्यभोज्येन तर्पयेत्* //

अग्निस्कन्धे च ज्वलिते दाहयेय पितॄन् उभौ / उपहारो विधातव्यो तस्य पुण्यम् अनन्तकं //

राक्षसीनां सहस्राणि नायको अभिनिर्मिणि / प्रासादवरसुप्तस्य ध्रुवस्य पुरतः स्थिता //

दण्डहस्ता कशाहस्ता शक्तिहस्ता तथैव च / कुठारहस्ता असिहस्ता उल्काहस्ता तथैव च //

अथ तोमरहस्ता च नाराचशतपाणियो / कुन्तमुद्गरहस्ताश् च श्रेष्ठिस्य पुरतः स्थिताः //

धिक्कृतां धिक्कृतां दृष्टिं प्राप्तो ऽसि पुरुषाधमा / धिक्कृतं मिथ्यात्वम् आसाद्य न श्रद्दधितुम् अर्हसि / ये ते दुष्करकर्तारः ये ते पूर्वोपकारिणः / मैत्रचित्ता आपन्नेषु तेषु त्वं वधम् इच्छसि //

येषां न शक्यं प्रतिकर्तुं अपत्येन कथंचन / सर्वरत्नं पि ददता तेषां त्वं वधम् इच्छसि //

जीवितात् ते मृतं श्रेयो न च दर्शनम् ईदृशं / यः त्वं सुपुरुषाचीर्णं दर्शनं प्रतिबाधसे //

अद्य ते जीवितं नास्ति सभार्यस्य सबन्धुनः / सभृत्यस्य सपुत्रस्य प्रेत्य च निरयं गतिः //

इमंहि नाम एवं वा मारिष भद्रम् अस्तु वः / मिथ्यादर्शनसम्पन्नं मूड्ःआपण्डितमानसं //

[_mvu_1.186_] परां अन्यां पि जनतां ग्राहेन्तं पापदर्शनं / ध्रुवं श्रेष्ठिं विनाशेम आर्यदर्शनकुत्सकं //

एतन् तु वचनं श्रुत्वा ध्रुवो उद्विग्नमानसः / सस्विन्नगात्रो प्रह्वश् च बभूव त्रस्तमानसः //

भ्रान्तचित्तो दिशोवेक्षी त्रस्तो भवति मानसः / कृताञ्जलिपुटो भूत्वा इदं वचनम् अब्रवीत्* //

रक्षोगणो प्रसीदंतु परिवारस्य मह्य च / युष्मे गतिश् च लेनश् च मम शरणम् एव च //

आज्ञापयथ किं कृत्वा मह्याद्य अभयं भवे / मम सबन्धुवर्गस्य न चागच्छेय दुर्गतिं //

ते च ब्रवीन्सु भूतगणा ध्रुवं श्रेष्ठिं नभे स्थिता / मा अस्माकं शरणं गच्छ तम् एव शरणं व्रज //

हितैषिणं सर्वभूतानां बुद्धं धुतजनार्चितं / सर्वलोकोत्तरं वादिं शाक्यसिंहं मनोरमं //

कहिन् नु सो . . . . . . . भगवां भूतवन्दितो / वयं पि तं नरश्रेष्ठं गच्छेम शरणं मुनिं //

एषो सर्वगुणोपेतः पुरे रतनखोलके / नानाकुसुमसंच्छन्ने उद्याने गन्धमादने //

वशीभूतसहस्राणां नवतीहि पुरस्कृतो / विहारकुशलो धीरो तत्र विहरते मुनिः //

[_mvu_1.187_] तं त्वं शरणं गच्छाहि सर्वेहि ज्ञातिभिः सह / तं च पश्य नरादित्यं तां च दृष्टिं परित्यज //

यं च सो देशते धर्मं दृष्टान्तविहितं शुभं / तं च प्रज्ञाय पश्याहि एवन् ते जीवितं भवेत्* //

अगत्वा च तुवं श्रेष्ठि न ध्रुवं प्रतिपत्स्यसे / इदन् ते मरणं सद्यं तं श्रद्धानो समाचर //

ततः श्रेष्ठि सबन्धुजनो भूत्वा सुदीनमानसो / मूर्धिना पतितो भूमौ यतो सो पुरुषोत्तमः //

सर्वाकारगुणोपेतो महाकारुणिको मुनि / सबन्धुपक्षो शरणं उपेमि त्वा महायशा //

भीतस्य भयान्तकर अभयं दातुम् अर्हसि / सपक्षो भो महासत्व अहं भयपरायणो //

इच्छामि चरणं शास्तुः वन्दितुं वादिनां वर / द्रष्टुम् इच्छामि सत्पुरुषं अनुग्राह्या यदि वयं //

ततो अभ्युद्गतो शास्ता वशीभूतपुरस्कृतः / निमेषान्तरेण संप्राप्तो सत्वानुकम्पाय नायकः //

तं दृष्ट्वा गगणे स्थितं दान्तं क्षान्तं पुरस्कृतं /

[_mvu_1.188_] सौमनस्यं समुत्पन्नं श्रेष्ठिस्य सह बन्धुभिः //

शरणं वादिशार्दूलं श्रेष्ठी तत्र उपागतः / सुजातदर्शनत्वं च श्रेष्ठी पर्यधिगच्छसि //

तस्यात्ययं नरश्रेष्ठो परिगृह्य तथागतो / सत्यवादी उदीरेति सत्यानि चतुरा मुनिः //

शुभाशुभानां कर्माणां फलं विस्तरशो विभुः / प्रकाशये नरादित्यो सिंहो वा नदते वने //

सिंहनादं इमं श्रुत्वा श्रेष्ठि परिजनैः सह / प्राप्नोति मधुरं सत्यं फलं प्रथमके क्षणे //

यत् तस्य परिकर्म तत् कृतं पन महर्षिणा / तम् आहुर् उपहारो ति सर्वधर्मविशारदाः //

तरुर् नाम अभू राजा द्वीपे कस्मिं चि सागरे / तस्य दर्शनम् उत्पन्नं पापकं बालिशप्रियं //

यो ब्राह्मणं वा श्रमणं वा अन्यं वापि वनीयकं / आमन्त्रेत्वा न भोजयते तम् आहुः श्रेष्ठलक्षणं //

महाजनं निमन्त्रेत्वा बहुं च शूद्रब्राह्मणां / यो बुभुक्षायम् आनेति कृत्वा कारानिबन्धनं //

[_mvu_1.189_] उत्तरागमने कुलवा महेशाख्यो महायशाः / प्रभूतवस्त्राभरणो तत्र सो चोपपद्यते //

ग्राहेति जनतां राजा एवं पापेन चेतसा / ते तस्य वचनं श्रुत्वा श्रद्दधाति महाजनः //

एतं दर्शनं विज्ञाय देवगन्धर्ववन्दितः / पंच भिक्षुसहस्राणि क्षणेन निर्मिणे मुनिः //

ते तं द्वीपम् उपागम्य तरुर् यत्र जनाधिपः / राज्यं पालयते तत्र चंक्रमिषु वशीगणा //

ते तु नराधिपो दृष्ट्वा निर्मिता भिक्षुवर्णिता / वाहनतो तरित्वान वन्दित्वा पादम् अब्रवीत्* //

निमन्त्रयामि ऋषयो प्रीतो भक्तेन तत्त्वतः / अधिवासेन्सु मे ऋषयो अनुग्राह्या यदि वयं //

अधिवासितं विदित्वा ततो निर्धावते पुनः / पादां वन्दित्वा ऋषीणां गतो राजकुलं स्वकं //

रात्रिं प्रभातां विज्ञाय राजपुरुषम् अब्रवीत्* / गच्छ त्वं ऋषयोपगम्य सिद्धेन त्वं निमन्त्रय //

ते च प्रवेशिता राज्ञा ऋषि वेशम् अत्यद्भुतं / शरण्यं गुणसंपन्नं दृढार्गलसुयन्त्रितं //

सप्ताहे समतिक्रान्ते राजा तां प्रत्यवेक्षते /

[_mvu_1.190_] अदीनमुखवर्णाश् च ध्यायन्ते भिक्षुवर्णिता //

सो भूयः परिवर्जेत्वा निर्मिता मनुजाधिपः / द्वितीयं समतिक्रम्य द्वितीये प्रत्यवेक्षते //

तृतीये च चतुर्थे च पंचमे षष्ठसप्तमे / नवमे दशमे सप्ताहे इदं वचनम् अब्रवीत्* //

देवा च नागा गन्धर्वा यक्षा च गुह्यकासुरा / आगता ऋषिरूपेण मम संवेगकारणात्* //

निवेदयथ आत्मानम् अनुग्राह्या यदि वयं / अथास्माकम् अनुग्राह्यो आत्मानं परिवेदये //

अनुग्राह्यो ऽसि भूमिपते इदं वचनम् उवाच ते / यद् वयं वचनं ब्रूम तथा तम् अनुतिष्ठत //

एषो काशीपुरे शास्ता वाराणस्यां वने शुभे / पारगः सर्वधर्माणां सर्वसंशयसूदनः //

प्रासादवरम् आरुह्य याचे प्रह्वः सबान्धवः / इच्छाम पुरुषश्रेष्ठं द्रष्टुम् अप्रतिपुद्गलं //

स एतत् वचनं श्रुत्वा तथेति उदपादयि / अथ वैहायसं शास्ता तं द्वीपम् उपसंक्रमीत्* //

वशीभूताश् च चत्वारो कुंजरो करभोगजः /

[_mvu_1.191_] वारणो ऽथ महाध्यायी मनापो ऽथ समागता //

ते पश्यितून संबुद्धं विरोचन्तं शशिप्रभं / तथा स्तुवन्ति प्रांजलियो भूतधर्मगुरुं गुरु //

प्रसन्नचित्ता सुमना सर्वाकारगुणान्विता / नाथ मरुमनुष्याणां नमस् ते नरलम्बक //

को नाम त्वं महासत्व महातेजा महाद्युते / महाबुद्धि महाबाहु यथातथम् उदीरय //

राजवंशसमुत्पन्नो धर्मराज्यप्रतिष्ठितः / शरणं सर्वभूतानां अहं बुद्ध इति विदुः //

अहं मरुमनुष्याणां नाथो नेता चिकित्सकः / अहं संशयान्तकरः संबुद्धो देववन्दितः //

एतत् श्रुत्वा तरु राजा संबुद्धम् इदम् अब्रवीत्* / नमस् ते वादिशार्दूल सर्वसंशयसूदन //

प्रासादवरम् आरुह्य सबन्धुपक्षो सज्जना / सराष्ट्रो शरणं गच्छामि तस्य नो शरणं भव //

स्वकं च दर्शनं राजा समाख्याति महर्षिणः / तच् छ्रुत्वा नरशार्दूलो राजानम् इदम् अब्रवीत्* //

न ते लाभा भूमिपते यस् त्वं दुर्गतिगामिनं /

[_mvu_1.192_] पापं श्रद्दधसे मार्गन्तां दृष्टिं प्रतिनिःसृज //

तां दृष्टिं प्रतिनिःसृज्य राजा वचनम् अब्रवीत्* / धर्मम् आख्याहि मां धीर यत्र दुःखं निरुध्यते //

तस्य च धर्मसंयुक्तं भावये पुरुषोत्तमः / कुशलं सर्वसत्वानां बुद्धधर्मविशारदः //

सो तं धर्मं विजानित्वा राजा परिजनैः सह / त्रीणि संयोजनां त्यक्त्वा प्राप्तवां प्रथमं फलं //

असंख्येया च जनता प्राप्तवान् प्रथमं फलं / पश्य सत्पुरुषा राजं मैत्रिया बलम् उत्तमं //

ये तत्र निर्मिता भिक्षूः न चैते भिक्षुणो मता / उपहारं वदन्त्य् एतं जिना शास्त्रविशारदाः //

अस्थानम् एव जिनपुत्र यदा स्थूलाहि भूमिहि / तत् पुरे अधिगच्छेयुः सर्वज्ञत्वं तथागताः //

कालं व नातिनामेन्ति परिपूर्णाहि भूमिहि / दर्शेन्सु वादिशार्दूला इत्य् एवं पुरुषोत्तमा //

वाराणसीं वनं गत्वा बुद्धधर्मपुरस्कृतो / विस्तरेण प्रकाशयति नायको भूमयो दश //

नयानयज्ञाः संबुद्धाः सर्वपरमतं विदुः / अध्याशयं परीक्षन्ति जातका सर्वप्राणिनां //

मधुरेण सुगीतेन नयेन गुणदर्शिनः /

[_mvu_1.193_] सुविनीता बहु जनता संबुद्धेन प्रजानता //

न जायन्ति न जीर्यन्ति न मृयन्ति कथंचन / परमं मित्रम् आसाद्य विनीता वरबुद्धिना //

गम्भीरचरितं धीरा प्रजानन्ति परस्परं / अनन्तप्रतिभानं च सर्वे सर्वाङ्गशोभना इति //

_____इति श्रीमहावस्तु-अवदाने अभिषेकवती नाम दशमा भूमिः समाप्ता //

शिखरे गृद्धकूटस्मिं पञ्चानां वशीभूतशतानां समवाये दशभूमिकं नाम उपदेशमुखं भाषितं // समाप्तं दशभूमिकं // ये सत्वा बुद्धत्वाय प्रणिधेन्ति तेहि उद्देशितव्यं दशभूमिकं बोधिसत्वानां च दृष्टसत्यानां श्रद्दधानानां दातव्यं नान्येषां एते ह्य् अत्र श्रद्दधाना अन्ये विचिकित्सेयुः //

___समाप्ता आदिभूमि यावद् दशमा दशभूमयः महावस्तुपरिसरं //

दीपंकरवस्तुस्यादिः // इतो महामौद्गल्यायन अपरिमिते असंख्येये कल्पे राजा अर्चिमां नाम अभूषि चक्रवर्ती कृतपुण्यो महेशाख्यो सप्तरत्नसमन्वागतो चातुर्द्वीपो विजितावी अनुरक्तपौरजानपदो धार्मिको धर्मराजा दश कुशला कर्मपथा समादायवर्ती // तस्य सप्त रतनानि अभूत्* / तद्यथा चक्ररत्नं हस्तिरतनं अश्वरत्नं मणिरतनं स्त्रीरतनं गृहपतिरत्नं परिणायकरतनं एवं सप्तरत्नं // पूर्णं चास्य पुत्रसहस्रं अभूषि शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां // सो इमां चत्वारि महाद्वीपां सागरगिरिपर्यन्तां अखिलां अकण्टकां अदण्डेणाशास्त्रेणानुत्पीडेन धर्मेणेमां अभिनिर्जिणित्वा अध्यावसि // अर्चिमतो खलु पुनः महामौद्गल्यायन

[_mvu_1.194_] राज्ञो दीपवती नाम राजधानी अभूषि द्वादश योजनानि आयामेन पुरस्तिमेन च पश्चिमेन च सप्त योजनानि विस्तारेण दक्षिणेन च उत्तरेण च सप्तहि प्राकारेहि परिक्षिप्ता अभूषि सौवर्णेहि सुवर्णप्रच्छन्नेहि // दीपवती खलु पुनर् महामौद्गल्यायन राजधानी सप्तहि तालपंक्तिहि परिक्षिप्ता अभूषि चित्राहि दर्शनीयाहि सप्ताणां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकायाः // सौवर्णस्य तालस्कन्धस्य रूप्यमयं पत्रं च फलं च अभूषि / रूप्यमयस्य तालस्कन्धस्य मुक्ताया पत्रा च फला च अभूषि / मुक्तामयस्य तालस्कन्धस्य वैडूर्यमया पत्रा च फला च अभूषि / वैडूर्यमयस्य तालस्कन्धस्य स्फटिकस्य पत्रा च फला च अभूषि / स्फटिकमयस्य तालस्कन्धस्य मुसारगल्वमया पत्रा च फला च अभूषि / मुसारगल्वमयस्य तालस्कन्धस्य लोहितिकामया पत्रा च फला च अभूषि / लोहितिकामयस्य तालस्कन्धस्य मुक्तामया पत्रा च फला च अभूषि // तेषां खलु पुनः महामौद्गल्यायन तालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय // तद्यथा अपि नाम पंचाङ्गिकस्य तूर्यस्य कुशलेहि वादकेहि सम्यक्सुप्रवादितस्य घोषो निश्चरति वल्गु मनोज्ञो आसेचनकः अप्रतिकूलो श्रवणाय // एवम् एव . . . . . . . . . भो महामौद्गल्यायन तेन कालेन तेन समयेन दीपवतीये राजधानीये मनुष्या अभूषि शुण्डापेया ते तेन तालपत्रनिर्घोषेण पंचहि कामगुणेहि समर्पिता समङ्गीभूता क्रीडेन्सु रमेन्सु प्रविचारेन्सु //

___दीपवती खलु पुनर् महामौद्गल्यायन राजधानी सप्तहि वेदिकाजालेहि परिक्षिप्ता अभूषि चित्राहि दर्शणीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाया // सौवर्णस्य पादकस्य रूप्यमयी सूचिका

[_mvu_1.195_] आलम्बनमधिष्ठानकं चाभूषि / रूप्यमयस्य पादकस्य मुक्तामया सूचिका आलम्बनम् अधिष्ठानकं च अभूषि / मुक्तामयस्य वैडूर्यमयी वैडूर्यमयस्य स्फटिकमयी स्फटिकमयस्य मुसारगल्वमयी मुसारगल्वमयस्य लोहितिकामयी / लोहितिकामयस्य पादकस्य सौवर्णिका सूचिका आलम्बनम् अधिष्ठानकं च अभूषि // ते च खलु पुनर् महामौद्गल्यायन वेदिकाजाला द्विहि हेमजालेहि प्रतिच्छन्ना अभूषि सुवर्णमयेन च हेमजालेन रूप्यमयेन च // सौवर्णस्य हेमजालस्य रूप्यमयीयो किंकिणीयो अभूषि / रूप्यमयस्य हेमजालस्य सौवर्णिका किंकिणिका अभूषि // दीपवतीयं खलु पुनः राजधानीयं समन्ततो त्रीणि त्रीणि द्वाराणि अभूषि चित्राणि दर्शनीयानि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकायाः // तेषां खलु पुनर् महामौद्गल्यायन द्वाराणां द्विन्नां वर्णानां व्यामोत्संगा अभूषि सुवर्णस्य च रूप्यस्य च / द्विन्नां वर्नानां तुला अभून्सुः सुवर्णस्य च रूप्यस्य च / द्विन्नां वर्णानां अनुवर्गा अभून्सुः सुवर्णस्य च रूप्यस्य च / द्विन्नां वर्णानां फटिकफलकानि अभून्सुः सुवर्णस्य च रूप्यस्य च / द्विन्नां वर्णानां फलकस्तारा अभून्सुः सुवर्णस्य च रूप्यस्य च / चतुर्णां वर्णानां पटिमोदका अभून्सुः सुवर्णस्य च रूप्यस्य मुक्ताया वैडूर्यस्य // तेषां खलु पुनर् महामौद्गल्यायन द्वाराणां द्विन्नां वर्णानां एलूका अभून्सुः सुवर्णस्य रूप्यस्य च // तेषां खलु पुनर् महामौद्गल्यायन द्वाराणां चतुर्णां वर्णानां इन्द्रकीलका अभून्सु सुवर्णस्य च रूप्यस्य च मुक्ताया वैडूर्यस्य च / द्विन्नां वर्णानां कपाटानि अभून्सुः सुवर्णस्य च रूप्यस्य च / द्विन्नां वर्णानां अर्गलपाशा अभून्सुः सुवर्णस्य च रूप्यस्य

[_mvu_1.196_] च // तेषां खलु पुनर् महामौद्गल्यायन द्वाराणां पुरतो इषिकानि मापितानि अभून्सुः त्रिपौरुषनैखान्यानि त्रिपौरुषपरिगोह्यानि द्वादशपौरुषा उद्वेधेन चित्राणि दर्शनीयानि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकायाः // ते खलु पुनर् महामौद्गल्यायन द्वारा द्विहि द्विहि हेमजालेहि प्रतिच्छन्ना अभून्सुः सौवर्णिकेन हेमजालेन रूप्यमयेन हेमजालेन // सुवर्णस्य हेमजालस्य रूप्यमयीयो किंकिणीयो अभून्सुः रूप्यमयस्य हेमजालस्य सौवर्णिका किंकिणीयो अभून्सुः // तेषां खलु पुनर् महामौद्गल्यायन हेमजालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय / . . . . . . . . . . एवम् एव महामौद्गल्यायन तेषां हेमजालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय // दीपवती खलु पुनर् भो महामौद्गल्यायन राजधानी अशून्या अभूषि इमेहि एवंरूपेहि शब्देहि सय्यथापि हस्तिशब्देहि रथशब्देहि पत्तिशब्देहि भेरीशब्देहि मृदङ्गशब्देहि पणवशब्देहि शंखशब्देहि वेणुशब्देहि वीणाशाब्देहि गीतशब्देहि वादित्रशब्देहि अश्नुथ खादथ पिबथ देथ दानानि करोथ पुण्यानि धर्मे चरथ श्रमणब्राह्मणेषु भद्रम् अस्तु वः ति शब्देहि // दीपवतीयं खलु पुनः राजधानीयं मध्ये वल्गुया नाम यष्टि अभूषि चित्रा दर्शनीया सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाया द्वादशयोजनानि उद्वेधेन चत्वारि योजनानि अभिनिवेशेन //

___अर्चिमतो खलु पुनः महामौद्गल्यायन राज्ञः सुदीपा नाम अग्रमहिषी अभूषि प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाये शुभाये वर्णपुष्कलताये समन्वागता //

___द्वादशेहि महामौद्गल्यायन वर्षेहि दीपंकरः बोधिसत्वो तुषितभवनातो च्यविष्यति

[_mvu_1.197_] शुद्धावासा देवा प्रत्येकबुद्धानाम् आरोचयन्ति // बोधिसत्वो च्यविष्यति रिंचथ बुद्धक्षेत्रं //

तुषितभवनाद् अतियशो च्यविष्यति अनन्तज्ञातदर्शावी / रिंचथ बुद्धक्षेत्रं . . . . वरलक्षणधरस्य //

ते श्रुत्व बुद्धशब्दं प्रत्येकजिनाः महेश्वरवराणां / निर्वांसु मुक्तचित्ता स्वयंभुनो चित्तवशवर्ती //

द्वादशेहि महामौद्गल्यायन वर्शेहि दीपंकरो बोधिसत्वो तुषितभवनातो च्यविष्यति शुद्धावासा देवा ब्राह्मणवेषं निर्मिणित्वा मन्त्रांश् च वेदांश् च द्वात्रिंशच् च महापुरुषलक्षणानि ब्राह्मनानां वाचेन्ति यथा बोधिसत्वे इहागते व्याकरेन्सुः //

___अथ खलु महामौद्गल्यायन बोधिसत्वो च्यवनकाले तुषितभवनातो चत्वारि महाविलोकितानि विलोकयति / तद्यथा कालविलोकितं देशविलोकितं द्वीपविलोकितं कुलविलोकितं // द्विहि कुलेहि महामौद्गल्यायन बोधिसत्वा जायन्ति क्षत्रियकुले ब्राह्मणकुले वा // यस्मिं कुले महामौद्गल्यायन बोधिसत्वा जायन्ति तं कुलं षष्टीहि अङ्गेहि समन्वागतं भवति // कतमेहि षष्टीहि अङ्गेहि समन्वागतं भवति // अभिज्ञातं च महामौद्गल्यायन तं कुलं भवति / परिज्ञातं च तं कुलं भवति / अक्षुद्रावकाशं च तं कुलं भवति / जातिसम्पन्नं च भवति / गोत्रसम्पन्नं च पूर्वपुरुषयुगसम्पन्नं च / अभिज्ञातपूर्वयुगसम्पन्नं च / महेशाख्यपूर्वयुगसम्पन्नं च / बहुस्त्रीकं च / बहुपुरुषं च / अलोलं च / अलुब्धं च / अभीतं च / अदीनं च / प्रज्ञावन्तं च / शीलवन्तं च / स्वापतेयम् अप्रेक्षमाणं च / तं कुलं भोगां च भुंजति / दृढमित्रं च तं कुलं भवति / कृतज्ञं च / विधिज्ञं च / अच्छन्दगामि च / अदोषगामि

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.