Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महावस्तु-अवादन
- Thông tin
- GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[_mvu_1.60_] गुरुकरेसि मानेसि पूजेसि अपचायेसि // सत्कृत्वा गुरुकृत्वा तां च समितिम् अनुगृह्णन्तो तं च श्रावकसंघम् अनुगृह्णन्तो तं च आयुःप्रमाणम् अनुगृह्त्णन्तो एवं चित्तम् उत्पादेसि // अहो पुनर् अहं भवेयम् अनागते ऽध्वनि तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवान् सुप्रभासो एतरहि // एवं सर्वाकारसंपन्नं सर्वाकारप्रतिपूरं धर्मं देशेयं यथापीह भगवान् सुप्रभासो एतरहि // एवं समग्रं श्रावकसंघं परिहरेयं यथापि भगवान् सुप्रभासो एतरहि // एवं च मे देवाश् च मनुष्याश् च श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथापीदं भगवतो सुप्रभासस्य एतरहिं / तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // एवं चाह महामौद्गल्यायन अतो च भूयो अन्यं // चतुरचत्वारिंशत्कल्पसंप्रस्थितस्य खलु पुनर् महामौद्गल्यायन मैत्रेयस्य बोधिसत्वस्य पश्चा ताये बोधये चित्तम् उत्पादितं // अपराजितध्वजो नाम महामौद्गल्यायन तथागतो ऽर्हं सम्यक्संबुद्धो यो मये सश्रावकसंघो वर्षसहस्रं सत्कृतो गुरुकृतो मानितो पूजितो पचितो राज्ञा दृढधनुना चक्रवर्तिभूतेन आयतिं संबोधिं प्रार्थयमानेन महन्तेहि च पंचेहि
[_mvu_1.61_] दुष्ययुगशतेहि अभिच्छादितो // परिनिर्वृतस्य च स्तूपं कारितं योजनम् उच्चत्वेन योजनम् अभिनिवेशेन // एषा च महामौद्गल्यायन प्रणिधि सततसमिता अभूषि // यस्मिं समये सत्वा भवेन्सुः अलेना अत्राणा अशरणा अपरायणा उत्सदलोला उत्सददोषा उत्सदमोहा अकुशलान् धर्मा समादाय वर्तेन्सुः योभूयेन च अपायप्रतिपूरका भवेन्सु तस्मिं काले तस्मिं समये अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येहं // तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // दुष्करकारका महामौद्गल्यायन तथागतार्हन्तो सम्यक्संबुद्धा लोकस्यार्थं चर्यां चरन्ति // इदम् अवोचद् भगवान् आत्तमनो आयुष्मान् महामौद्गल्यायनो भगवतो भाषितम् अभ्यनन्दत्* //
शाक्यमुनिनामकानाम् उपस्थितास् त्रिंश कोटियो जिनानां / अष्टशतसहस्राणि दीपंकरनामधेयानां //
षष्टिं च सहस्राणि प्रद्योतनामधेयानां . . . . . / तथ पुष्पनामकानां त्रयो कोटियो वादिसिंहानां //
अष्टादश सहस्राणि मारध्वजनामकानां सुगतानां / यत्र चरे ब्रह्मचर्यं सर्वज्ञताम् अभिलाषाय //
पूजयि पंच शतानि पद्मोत्तरनामकानां सुगतानां / [_mvu_1.62_] कौण्डिण्यनामकानाम् अपराणि द्वि सहस्राणि //
अपरिमितासंख्येया प्रत्येकजिनान कोटिनयुतां च / पूजयि बुद्धसहस्रं जम्बुध्वजनामधेयानां //
चतुरशीति सहस्राणि इन्द्रध्वजनामकानां सुगतानां / नवतिं च सहस्राणि काश्यपसहनामधेयानां //
पंचदश बुद्धसहस्राणि प्रतापनामकानां सुगतानां/ पंचदश च सहस्राणि आदित्यनामधेयानां //
द्वाषष्टिं च शतानि सुगतानां अन्योन्यनामधेयानां / चतुषष्टिं च सहस्राणि समितावीनामधेयानां //
एते च कोलितशिरी अन्ये च दशबला अपरिमाणा / सर्वे अनित्यताय समिता लोकप्रद्योता //
यानि च बलानि कोलित तेषां महापुरुषलक्षवराणां / सर्वे अनित्यताय कालं न उपेन्ति संख्यां च //
ज्ञात्वानानित्यबलं सुदारुणं सत्कृतस्य अनन्तरं / वीर्यारम्भो योजितो अनित्यबलस्य विघाताय //
इतो मौद्गल्यायन अपरिमिते असंख्येये कल्पे रत्नो नाम सम्यक्संबुद्धो अभूषि तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च // अहं तदा राजा चक्रवर्ति अभूषि // ततो मयैतस्य भगवतो रतनवतो चतुरशीति कूटागारसहस्राणि कारितानि चित्राणि
[_mvu_1.63_] दर्शनीयानि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फाटिकस्य मुसारगल्वस्य लोहितिकायाः // तानि मया तस्य भगवतो निर्यातेत्वा बोधाय अनुप्रणिहितं // न तावत् बुद्धा भगवन्तो परिनिर्वायन्ति यावद् युवराजा अनभिषिक्तो भवति / एषो मम अनन्तरं बुद्धो लोके भविष्यति / यथैतर्हि मया मैत्रेयो व्याकृतो एषो ममानन्तरं बुद्धो भविष्यतीति // सो भगवां चतुरशीतिहि श्रावकसहस्रेहि सार्धं चतुरशीतिसंवर्तविवर्तस्थितो संवर्तमाने लोके भगवाञ् चतुरशीतिहि श्रावकसहस्रेहि सार्धं आभास्वरं देवनिकायं गच्छति विवर्तमाने लोके इहागच्छति इह धर्मं देशयति / अहं भूयो राजा चक्रवर्ती भवामि / चतुरशीतिकूटागारसहस्राणि कारापयित्वा भगवतो रतनवतो निर्यातेमि // इयं महामौद्गल्यायन प्रणिधिचर्या //
___कतमा च अनुलोमचर्या // इह महामौद्गल्यायन बोधिसत्वो महासत्वो बोधाय अनुलोमताये स्थितो भवति // इयं महामौद्गल्यायन . . . . . ___ . . . . . . . अविवर्तचर्या // विवर्तन्ति संसरन्ति विवर्तचर्या // अवैवर्तिया बोधाय भवन्ति अविवर्तचर्या //
_____अत्र दशभूमिको कर्तव्यो दीपंकरवस्तु च //
नामो ऽस्तु बुद्धानां नमो ऽर्हतां // दशभूमिकस्यादि
_____वत्ते अप्रतिम धर्मदर्शनं
[_mvu_1.64_] न एककल्पशतसंचितात्मनां / भूमयो दश जिनान श्रीमतां यैर् विकुर्विषु सदा पण्डिता //
मानदर्पमदमोहमोचिता सर्वशः समियमार्दवान्विता / गौरवं जनिय सर्वदर्शिषु श्रूयतां जिनवरस्य शासनं //
निर्वृते कनकराशीसन्निभे शाक्यनन्दिजनने तथागते / कंपि मेदिनि सशैलकानना सागरांबरधरा सपर्वता //
कम्पितं परमरोमहर्षणं भूमिकंपम् अनुदृश्य दारुणं / काश्यपो धूतगुणाग्रपारगो चित्तम् अभ्युपगतः तदा अभूत्* //
किं नु अद्य धरणी सपर्वता सागराम्बरधरा वसुन्धरा / कम्पते परमदारुणस्वरं नूनं निर्वृतिं गतः तथागतः //
सो च दिव्यनयनस् तथागतं देवकिन्नरवरेहि वन्दितं
[_mvu_1.65_] दृश्य सर्वभवबन्धनान्तकं निर्वृतं यमकशाल-अन्तरे //
न खलु मे समुचितं तथागतं ऋद्धिये समनुगन्तु गौतमं / पद्भिर् एव वदतां वरं मुनिं द्रष्टुम् अप्रतिमं प्रव्रजाम्य् अहं //
सो च मत्व त्वरमाणो सूरी काश्यपो मथितमानसो भिक्षुः / भिक्षुभिः बहुभिः उत्तमो परि- निर्वृतभुवम् अनुपूर्वम् आगमि //
तस्य च प्रणिधिर् आसि उत्तमा काश्यपस्य जिनपादवन्दने / तौ . . . . . चरणौ महामुने मूर्धिना उपनिपीड्य वन्दितुं //
संगृह्योल्कां विपुलां अथ चतस्रो मल्लका उपगता बलवन्तः / वीजितां परममल्लविनीतां दग्धडल्कां अभिप्राणमयेन्सुः // {लिएस्: दग्ध-उल्कां}
तैश् चिताम् अभिमुखं उपनीता तैः पराक्रमबलै रथशूरैः /
[_mvu_1.66_] निर्वृता च . . . सा समकालं प्राप्य वारिपरिषेकम् इवोल्का //
संशयं विमतिमध्यम् उपेत्य मल्ला दिव्यनयनं अनिरुद्धं / गौरवा नतशिरा सुविनीता प्रश्नम्* . . . इदं परिपृच्छे //
को नु हेतुर् इह प्रत्ययो च को येन्ऽ; इमा जिनसुता उपनीता / निर्वृतिं उपगता सहसोल्का ब्रूहि कारणम् इहार्य यथावत्* //
देवता खलु प्रसन्ना काश्यपे तस्य एष खलु ऋद्धिभावना / नैव ताव ज्वलनो ज्वलिष्यति याव नागतो अग्रपारगः //
तस्य चैष प्रणिधिः समृध्यति काश्यपस्य धुतधर्मधारिणः / तौ क्रमौ दशबलस्य श्रीमतः वन्दितुं हि शिरसा महामुने //
सो च भिक्षुगणसंपुरस्कृतः काश्यपो धुतरजो जिनात्मजः / प्रांजली जिनचिताम् उपागतो गौरवा प्रणतशीर्षमानसः //
[_mvu_1.67_] दृश्य तं प्रवररूपधारिणं काष्ठसंचयगतं तथागतं / धिग् भवान् इति गिराम् उदीरयी दर्शितप्रकृतिभावलक्षणां //
को नु सो भवम् उपेत्य प्राणको यो न मृत्युवशम् आगमिष्यति / यत्र्ऽ; अयं ज्वलनकांचनोपमो निर्वृतो शिखिर् इवेन्धनं विना //
कृत्व अंजलिपुटं महायशो पादतो जिनवरस्य काश्यपो / मूर्धिना निपतितो महर्षिणो पश्चिमं इदं नमस्यते मुने //
तौ च चक्रवरलक्षितौ क्रमौ देवदानववरेहि वन्दितौ / निःसृतौ तथ विदार्य तां चितां देवयक्षभुजगानुभावितौ //
तौ क्रमौ शिरसि सन्निपातिय पाणिभिः समनुगृह्य चा मुने / आलपे श्रुतिधरं महर्षिणं अन्तिकावचरः काश्यपस् तदा //
[_mvu_1.68_] किं त्व् इमौ श्रुतिधर क्रमौ मुने ध्यामताम् उपगतौ न सुप्रभौ / ब्रूहि कारणम् अशेषम् आह्वय येन्ऽ; इमौ न नयनाभिनन्दिनौ //
एतं श्रुत्व श्रुतसंचयंधरो काश्यपं इदम् उवाच पण्डितो / अश्रुवेगदुषिता व शोचतां रोदितेहि मथिता ह्ऽ; इमौ क्रमौ //
तेन्ऽ; इमौ क्रमवरौ महामुनेः रोदनेन जनताभिपीडितौ / नो विभान्ति मुनिनो यथा पुरा एवम् एतद् अनुपश्य सुव्रत //
सो निपत्य शिरसा पुनः पुनः तौ क्रमौ प्रवरचक्रलक्षणौ / करतलेहि अभिपीडयेत् मुने शास्तु गौरवपराय बुद्धिये //
वन्दितौ च धुतधर्मधारिणा तौ क्रमौ गुणधरेण शास्तुनो / लोकनाथचितकाष्ठ तेजसा वायुवेगविधुतेन दीप्यति //
[_mvu_1.69_] दह्यमाने जिनचन्द्रशरीरे पंच तानि वशिभूतशतानि / मन्त्रयन्ति सहिता समुपेत्य निर्वृतीसमयकाले संगीतिं //
निर्वृतो प्रवरलक्षणधारी यो नु शास्तु ससुरासुरनेता / को गुणो इह चिरं परिवासे वयम् अपि अद्य विजहामथ देहं //
सर्वथा सुपरिनिष्ठितकार्याः प्राप्य अच्युतम् अशोकम् अनन्तं / सर्वभावभववीतिगता स्म एष निर्वृतिम् उपेम इहैव //
एवम् उक्ते धुतधर्मविशुद्धो काश्यपो ऽब्रवि तदा वशिभूतां / न खु भवद्भिः अनुपादि विमुक्ति निर्वृती समनुगम्य इहैव //
तीर्थिका च बहिधानुगताश् च क्रेयुर् अप्रतिमशासनदोषं / धूमकालिकम् इति श्रमणस्य एतत् एव च तु रक्षणीयं नो //
लोकनाथ बहवो नरसिंहा
[_mvu_1.70_] ये च्ऽ; अनागत महामतिशूरा / ते हि नो उपपदेयुर् उदग्रा यदि न संकलिये शासनं शास्तुः //
तेन अप्रतिहताः सुसमग्राः गायथा सुगतशासनम् अग्र्यं / यथा इदं सुपरिगीत यथार्थं चिरतरं नरमरूषु विरोचे //
एवम् अस्तु इति ते वशिभूता काश्यपस्य वचनं प्रतिपूज्य / चित्तम् अप्य् उपगता क्व इदानीं देशि धर्मधरसंगणना स्यात्* //
रम्यकाननवने सुसमृद्धे मागधस्य मगधाधिपतिस्य / पुरवरे भवतु राजगृहस्मिं सप्तपर्ण-अभिधानगुहायां //
पर्वतस्य वैहायवरस्य उत्तरस्मि तीरे वरपार्श्वे / विविधपादपे शिलातलभूमेः भागे यं भवतु धर्मसमास्या //
ते च ऋद्धिवशिभावबलस्था
[_mvu_1.71_] उद्गताः खगपथे जिनपुत्रा / तत्क्षणान्तर . . . . . प्रपलाना मानसं सरो यथा हंसयूथो //
ते प्रतिष्ठिता नगाग्रवरस्य पार्श्वे तत् वनम् उपेत्य निषण्णा / शासने च सुगतस्य सुगीते देवदुन्दुभिगणानि नदेन्सुः //
ते च दुन्दुभिन नादं नदन्तं श्रुत्व शासनकरा सुगतस्य / भूमिकम्पम् अनुदृश्य च घोरं काश्यपं धुतरजं इदम् ऊचुः //
किन् तु भोः धुतधरा समकंपि मेदिनी ससरिता ससमुद्रा / देवदुन्दुभिरवाश् च मनोज्ञा दिव्यमाल्यविकिरणं च भवन्ति //
तान् उवाच धुतधर्मसमंगी काश्यपो जिनसुतां वशिभूतां / एते सन्निपतिता मरुसंघा श्रुत्व शासनवरं सुसमग्र्यं //
ते समग्रवरलक्षणधारी गौरवात् प्रमुदिता मरुसंघाः / पूजां अप्रतिमकस्य करोन्ति
[_mvu_1.72_] शासनं शृणुयु सर्वसमग्र्यं //
सो हि ऽनेकभवकल्पशतेहि हितसुखाय नरदेवगणानां / एवम् अभ्युपगतो चिररात्रं मोक्षयिष्ये ऽहं प्रजाः परिमुक्तः //
सो लभित्व परमार्थम् अशोकं सर्वभावभवदुःखनिरोधं / काशिपुर्यां नरदेवहितार्थं वर्तयिष्यि वरचक्रम् अद्भुतं //
पंचकेहि सह तेहि मुनीहि मरुगणां विनयवादिनां वरो / सत्वकोटिनयुतानि नायको जातिजन्ममरणात् समुद्धरे //
सो विमोक्षयि भवाभिनन्दिनो तोषयं नरमरू नरसिंहो / मथिय सर्वपरवादि सांप्रतं निर्वृतो तु भगवां निरपेक्षो //
एत श्रुत्व वचनं मनोरमं काश्यपस्य धुतधर्मधारिणो / देवसंघा मुदिता नभे स्थिता व्याहरन्ति वचनं मनोरमं //
साधु साधु धुतधर्मकोविदा
[_mvu_1.73_] शास्तु शासनकरा अनन्यथा / भाषसे गुणम् अनन्तबुद्धिनो जेतवने नरमरू सुतोषिता //
सो हि देवमनुजान उत्तमो सो हि अग्रपुरुषो महामुनिः / सो हि निःशरणम् उत्तमं प्रभुः दृष्टदर्शनो हिताय प्राणिनां //
तेन स्कन्धा तडिबुद्बुदोपमा फेनपिण्डकम् इव प्रभास्वरं / देशिता दशबलेन जानता यस्य्ऽ; इयं गुणकथा प्रवर्तते //
कृष्णसर्पशिरसन्निभास् तथा काम अग्रपुरुषेण देशिता / शस्त्ररुच्छविषकुम्भसन्निभा यस्य्ऽ; इयं गुणकथा प्रवर्तते //
तेन दृष्टम् अचलं परं सुखं दृष्टिभिः परमसाधुदृष्टिभिः / तं अमत्सरवता प्रकाशितं संविभागरुचिना यद् अद् भुतं //
उद्गते दिनकरे यथा किमि
[_mvu_1.74_] निष्प्रभो भवति नो च भ्राजति / उद्गते जिनदिवाकरे तथा निष्प्रभा परगणी असंयता //
ऋद्धिपादबलपारमिं गतो ईश्वरो जिनबलेन चक्षुमां / लोचनं भगवतस्य पश्यथ निर्वृतो कनकबिम्बसन्निभो //
धिग् भवां सरद-अभ्रसन्निभा वालिकानगररूपसन्निभा / यत्र नाम कुशलान संचयो निर्वृतो परमबुद्धिसागरो //
हेतुकारणशतेहि नायको नर्दते पुरुषसिंहनर्दितं / भवम् अनन्यमरणं निरीक्ष्य तस्य उक्तम् अन्तरं न विद्यते //
दिव्यपुष्पवरमण्डितं नभं शोभते सुगतवर्णभाषणे / दिव्यचन्दनरसानुवासितं शोभते अमृतगन्धिकं नभम् इति //
अथ खल्व् आयुष्मान् महामौद्गल्यायनो आयुष्मन्तं महाकाश्यपम् आमन्त्रयति // व्यवस्थापय जिनपुत्र वशिभूता ये परिषायां संशयगतानि मानसानि विजानेयुर् इति //
[_mvu_1.75_] अथानिरुद्धं उपालिं च स्थविरं च अलकुण्डलभट्टियं सुन्दरनन्दं च काश्यप उवाच //
अवलोकेथ जिनात्मजाश् चित्तानि या परिषायां / संशयं च परिपृच्छथ यस्य यत्र तथा भवेद् इति //
साधू ति ते प्रतिश्रुत्वा जिनशास्त्रविशारदाः / पश्यन्ति परचित्तानि करे वामलकं यथा //
प्रलम्बबाहुं वशिभूतं काश्यपो इदम् अब्रवीत्* / गृध्रकूटस्य शिखरे निर्मिणे वसुधां लघुं //
अष्टादश सहस्राणि परिषायां समागता / यथा सर्वाभिजानेया ऋद्धिं संजनया तथा //
विचिन्तचूतं वशिभूतं काश्यप इदम् अब्रवीत्* / गंगोदकमया मेघा निर्मिणे गगने लघुं //
विविधगन्धपुष्पाश् च उपवायन्तु सर्वतः / मानुषाणाम् आमगन्धा च शीघ्रम् अन्तरहापय //
हर्यक्षं नाम वशिभूतं काश्यप इदम् अब्रवीत्* / तथा उत्पादय शीघ्रं समाधिं सुगतात्मज / यथा गृहीणां द्रव्याणि न गच्छेयुः परां गतिं //
वरुणं नाम वशिभूतं काश्यपो इदम् अब्रवीत्* / अरतिदंशमशका मनुष्याणां निवर्तये //
[_mvu_1.76_] अजकर्णं वशिभूतं कास्यपो इदम् अब्रवीत्* / क्षुधां पिपासां व्याधिं च मनुष्याणां निवर्तय //
साधू ति ते प्रतिश्रुत्वा काश्यपस्य जिनात्मजाः / यथाज्ञप्तानि स्थानानि यथोक्तं परिजाग्रिषु //
ततः काश्यपस्थविरः कात्यायनम् उवाच स / समुदीरय महात्मनां चरितं धर्मराजिनां //
एवम् उक्ते महाप्राज्ञो कात्यायनकुलोद्गतः / उवाच चर्या बुद्धानां काश्यपस्य अनुपृच्छतः //
श्रुयतां भो जिनसुता बुद्धानां सर्वदर्शिनां / चर्या चरणशुद्धानां यथावत् अनुपूर्वशः //
दश खलु भो जिनपुत्रा बोधिसत्वान भूमयो / . . . . . . . . . भवन्ति कतमा दश //
दुरारोहेति प्रथमा भूमी समुपदिश्यते / द्वितीया बद्धमाना नाम तृतीया पुष्पमण्डिता //
चतुर्थी रुचिरा नाम पंचमी चित्तविस्तरा / षष्टी रूपवती नाम सप्तमी दुर्जया स्मृता //
अष्टमा जन्मनिदेशो नवमी यौवराज्यतो / दशमी त्व् अभिषेकातो इति एता दश भूमयः //
[_mvu_1.77_] एवम् उक्ते तु गाथाभिः काश्यपो ऽब्रवि पण्डितः / कात्यायनम् अतो ऽत्यर्थं वाक्यम् अप्रतिमं इदं //
भूमीनां परिणामानि यथावत् अनुकीर्तय / यथा च ते विवर्तन्ते संसरन्तो महायशा //
यथा चापि संवर्तन्ते सत्त्वसाराः तथा वदे / यथैवाध्याशया तेषां भवन्ति तां उदाहरे //
यथा च परिकल्पेन्ति सत्वा सत्वसमन्विता / यथा च देन्ति दानानि तत् सर्वम् अनुकीर्तये //
तथा च दृष्ट्वा संबुद्धा भाषन्तो च मनोजनं / संज्ञोत्पादं तथा ब्रूहि काश्यपो इदम् अब्रवीत्* //
इदं ते वचनं श्रुत्वा वशिभूता उपस्थिता / गौरवेण महासत्वा संबुद्धानां महात्मनां //
एवम् उक्ते कात्यायनो काश्यपम् उवाच // न खलु भो जिनपुत्र शक्यं बोधिसत्वानां भूमीः प्रमातुं एत्तककल्पा वा अनन्ता भवन्ति / सर्वं संसारो बोधिसत्वानां खण्डसंज्ञया भूमिर् इति परिकल्पितं तेन भूमिर् इति स्मृता // एवम् उक्ते आयुष्मान् आनन्द आयुष्मन्तं कात्यायनम् उवाच // यदि भो जिनपुत्र एका भूमि अप्रमेया
[_mvu_1.78_] कथम् इदानीं परिशेषाणां भूमीनां ग्रहणं भविष्यति इति // एवम् उक्ते आयुष्मान् कात्यायनो आयुष्मन्तम् आनन्दं गाथाभिर् अध्यभाषे //
कल्पो यथा अपरिमितः प्रकाशितः प्रजानता अवितथवादिना स्वयं / कल्पेषु च भवति बहूसु देशना इदं नु भो पुरुषवरस्य शासनं //
भूमिस् तथा अपरिमिता प्रजानता प्रकाशिता स्वयम् अनिवृत्तबुद्धिना / प्रवर्तते तथ परिशेषभूमिषु सामान्यसंकेतानां निरूपणं //
प्रथमायां भो जिनपुत्र भूमौ वर्तमाना बोधिसत्वा पृथग्जना इति प्राप्तफला भवन्ति इति दक्षिणीयाः च लोकानां विरोचेन्ति भवन्ति चात्र त्यागेन त्यागसम्पन्ना बोधिसत्वा महायशाः / लोकां च अभिरोचन्ते चन्द्रभानुर् इव अंशुमां //
प्रथमायां भूमौ बोधिसत्वानां वर्तमानानाम् अष्ट समुदाचारा भवन्ति // कतमे अष्ट // तद्यथा त्यागः करुणा अपरिखेदः अमानो सर्वशास्त्राध्ययिता विक्रमं लोकानुज्ञा धृतिर् इति // भवन्ति चात्र
[_mvu_1.79_] ते संविभागरुचयः करुणायमाना दुःखसंहती भगवतां मधुरस्वराणां / वचनैः गुणैश् च परितोषम् उपेन्ति धीराः एवं चरन्ति धरणी प्रथमाये सत्वा //
शास्त्राणि यानि प्रसरन्ति असारकानि एता विचार्य जनता अनुरागबुद्धी / निष्क्रम्य तं तृणसमं च विचार्य लोकं तीव्रां वेदेन्ति वेदना कुशलं चिनोन्ति //
एकेन कारणेन बोधिसत्वा विवर्तन्ति द्वितीयायां भूमौ // कतमेन एकेन // भवेषु आस्वादसंज्ञिनो भवन्ति // द्विहि कारणेहि बोधिसत्वा विवर्तन्ति द्वितीयायां भूमौ // कतमेहि द्विहि // कामगुणेहि अभिलाषिनश् च भवन्ति कुशीदाश् च // पुनस् त्रीभिर् आकारैर् बोधिसत्वा द्वितीयायां भूमौ विवर्तन्ति // कतमेहि त्रीहि // स्पृहालवश् च भवन्ति उत्त्रासबहुला दुर्बलाध्याशयाश् च // षड्भिर् आकारैः बोधिसत्वा प्रथमायां भूमौ स्थिता द्वितीयायां भूमौ विवर्तन्ति // कतमैः षड्भिः // न च अनित्यसंज्ञाबहुला विहरन्ति / आघातबहुलाश् च भवन्ति / दृधवैराश् च भवन्ति / स्त्यानमिद्धबहुलाश् च भवन्ति / लोककार्यपरायणाश् च भवन्ति // ये भो जिनपुत्र
[_mvu_1.80_] बोधिसत्वा विवर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति सर्वे ते इमेहि द्वादशभिर् आकारैर् विवर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति नातो भूय इति //
___एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच // इमे भो जिनपुत्र बोधिसत्वा विवर्तियाश् च अविवर्तियाश् च ये प्रथमं चित्तम् उत्पादयन्ति सम्यक्संबुद्धा भवेम इति केत्तकं पुण्यं प्रसवन्त इति // एवम् उक्ते आयुष्मान् कात्यायन आयुष्मन्तं महाकाष्यपम् उवाच // पश्य भो जिनपुत्र यो दद्या जम्बुद्वीपं सप्तरत्नसंचयं दशबलानां अतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो // यश् च भो जिनपुत्र चत्वारो द्वीपां दद्यात्* रत्नाचितां दशबलानां अतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो / यश् च भो जिनपुत्र दद्यात् त्रिसाहस्रां बहुरत्नधरां महागुणधराणां अतो बहुतरकं पुण्यं प्रसवति बोधाय प्रणिधेन्तो / यश् च भो जिनपुत्र गंगानदीवालुकासमा लोकधातुयो अनेकरत्नाचितपूर्णा लोकनाथान पूजयेत्* अतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो / यश् च भो जिनपुत्र सागरवालुकासमा लोकधातुयो बहुविधरत्नाचिता पूर्णा अग्रपुद्गलान पूजया दद्यात्* अतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो //
किं कारणं न ह्य् एते प्राकृतपुरुषाणां भवन्ति संकल्पाः / बहुजनहिताय यत्र ते जनयन्ति मनोरथां वीराः //
एवम् उक्ते आयुष्मान् महाकाष्यपः आयुष्मन्तं कात्यायनम् अब्रवीत्* // ये पुनर् भो जिनपुत्र
[_mvu_1.81_] बोधिसत्वा अवैवर्तिकतायै परिणामेन्ति किन् तु खलु तेषाम् उपचितकुशलपुण्यानां प्रथमा प्रणिधिर् उत्पद्यति आहोस्विद् उपचितकुशलमूलानाम् इति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिर् अध्यभाषति //
पूजयन्ति प्रथमं तथागतां गौरवेण महता महायशा / नैव ताव जनयन्ति मानसं अग्रपुद्गलगतं नरोत्तमा //
ते च प्रत्येकबुद्धकोटियो पूजयन्ति परमार्थपुद्गलां / नैव ताव जनयन्ति मानसं सर्वधर्मविदुताय पण्डिताः //
पूजयन्ति वशिभूतकोटियो पूर्वम् एव वशिपारमिं गता / नैव ताव जनयन्ति मानसं ज्ञानसागरतराय नायकाः //
ते यदा विपुलपुण्यसंचया भोन्ति भावितशरीरमानसाः / ते समेत्य वररूपधारिणां बोधये उपजनेन्ति मानसं //
यं मया कुशलमूलम् अर्जितं तेन मे भवतु सर्वदर्शिता /
[_mvu_1.82_] मा च मे प्रणिधि तच् चिरंतरो / एवम् एष प्रणिधिः प्रवर्ततु //
यश् च मे कुशलमूलसंचयो सो महा भवतु सर्वप्राणिभिः / यच् च कर्म अशुभं कृतं मया तत् फलं कटुकं निस्तराम्य् अहम् इति //
एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् एतद् उवाच // कथं च भो जिनपुत्र बोधिसत्वा दृढविक्रमा भवन्ति ये ते अवैवर्तिका भवन्ति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं काश्यपं गाथाभिर् अध्यभाषे //
येनान्तरेण परमार्थविदुर् भवामि तं अन्तरं यदि अवीचिगतो वसामि / तं अभ्युपेमि न च तं प्रतिसंहरामि सर्वज्ञताये प्रणिधिं इति निश्चयो मे //
जातीजरामरणशोक-उपद्रवांश् च त्यक्तुं प्रभुः न हि विवर्तयि मानसानि / दुःखसंहति जगतो अर्थकरो प्रजानाम्* इत्य् एतं विक्रमबलं पुरुषर्षभानाम् इति //
एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् अब्रवीत्* // यं पुनर् भो जिनपुत्र अवैवर्तियो बोधिसत्वो प्रथमं चित्तम् उत्पादयति कतमेषां तदा अद्भुतानां
[_mvu_1.83_] धर्माणां प्रादुर्भावो भवति // एवम् उक्ते आयुष्मान् महाकात्यायनो आयुष्मन्तं महाकाश्यपं गाथाभिर् अध्यभाषति //
सनगरनिगमसरिता रणति वसुमती प्रभूतरत्नवती / प्रभवति यदा प्रथमतो प्रणिधानं जगत्प्रधानानां //
दिवसकरसदृशतेजश् चाभासो विकसते दिशः सर्वाः / यदा पुरुषसिंहताये आद्यप्रणिधिः समुद्भवति //
सुरवरगणाश् च उदग्राः परंपरान् अभिगिराम् उदीरेन्ति / एष नरसिंहताये प्रणिधेति अनन्तवूदग्रो //
अस्माभिः रक्षितव्य एष हि जगतो ऽर्थं अतितेजस्वी / चिनोति शुभं शुभकरो इदम् आश्चर्यं तदा भवति //
एवम् उक्ते आयुष्मान् काश्यप आयुष्मन्तं महाकात्यायनम् उवाच // ये इमे भो जिनपुत्र अविवर्तिका बोधिसत्वा केवत्तकानि तैः प्रथमायां भूमौ स्थितैः दुष्कराणि कृतानीति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं श्लोकान् उवाच //
भार्यां प्रियां हृदिसुखांश् च सुतां शिरांसि नेत्राणि चाभरणवाहनविस्तरांश् च / दत्त्वा न विश्रमम् उपेन्त्य् अथ दैन्यतां वा
[_mvu_1.84_] सर्वज्ञताम् अभिमुखाः पुरुषर्षभास् ते //
आधर्षिता च वधबन्धनताडनेभ्यो रौद्रैर् नरैर् अशुभकर्मम् अतिप्रवणैः / तान् एव दृष्ट्व परमार्दवमैत्रचित्ता श्लक्ष्णाभि वाग्भिर् अनघाः समुदाचरन्ति //
दृष्ट्वा च याचनक मानप्रमादुपेतं हर्षं परं प्रतिलभन्ति महामनुष्याः / दत्त्वा च वर्धितगुणात्तमना भवन्ति पश्चात्तपो न तु तपन्ति तपोनिराशा इति //
_____इति श्रीमहावस्तु-अवदाने प्रथमा भूमिः समाप्ता
ततश् च काश्यपस्थविरः महाकात्यायनम् अब्रवीत्* / निर्दिष्टा प्रथमा भूमि महासत्व मनोरमा //
द्वितीयां संक्रमन्तानां भूमिं नरवरात्मजा / किं चित्तं बोधिसत्त्वानां जायते समनन्तरं //
के च अध्याशया सन्ति द्वितीयायां जिनात्मज / भूमिं तां बोधिसत्वानां यथाभूतम् उदीरयेद् इति //
ततः कात्यायनः स्थविरः काश्यपम् इदम् अब्रवीत्* / निर्देशं बोधिसत्वानां कीर्तयिष्ये मनोरमं //
[_mvu_1.85_] द्वितीयां संक्रमन्तानां प्रथमतो ऽनुजायते / अरती बोधिसत्वानां भवेष्व् इति न संशयं //
बोधिसत्वानां भो जिनपुत्र द्वितीयायां भूमौ वर्तमानानां इमे अध्याशया भवन्ति / तद्यथा कल्याणाध्याशया भवन्ति स्निग्धाध्याशयाश् च भवन्ति मधुराध्याशयाश् च भवन्ति तीक्ष्णाध्याशयाश् च भवन्ति विपुलाध्याशयाश् च भवन्ति विचित्राध्याशयाश् च भवन्ति गम्भीराध्याशयाश् च भवन्ति अपर्यादिन्नाध्याशयाश् च भवन्ति अनुपहताध्याशयाश् च भवन्ति असाधारणाध्याशयाश् च भवन्ति उन्नताध्याशयाश् च भवन्ति अकृपणाध्याशयाश् च भवन्ति अनिवर्ताध्याशयाश् च भवन्ति अकृत्रिमाध्याशयाश् च भवन्ति शुद्धाध्याशयाश् च भवन्ति दृढाध्याशयाश् च भवन्ति स्वभावाध्याशयाश् च भवन्ति तृप्ताध्याशयाश् च भवन्ति पुद्गलाध्याशयाश् च भवन्ति अनन्ताध्याशयाश् च भवन्ति //
___कथं भो धुतधर्मधर बोधिसत्वाः कल्याणाध्याशयाः भवन्ति // उच्यते //
बुद्धे धर्मे च संघे च न कांक्षन्ति कथंचन / इति अध्याशयस् तेषां कल्याण उपदिश्यते //
कथं भो धुतधर्मधर बोधिसत्वाः स्निग्धाध्याशया भवन्ति // उच्यते //
अङ्गेषु छिद्यमानेषु मनस् तेषां न कुप्यते / एवम् अध्याशयस् तेषां स्निग्धमृदूपदिश्यते //
कथं च भो धुतधर्मधर बोधिसत्वाः मधुराध्याशया भवन्ति // उच्यते //
[_mvu_1.86_] अन्तःकुशलकर्माणि सेवन्ति पुरुषोत्तमाः / एवम् अध्याशया मधुरा भवन्ति धुतबुद्धिनाम् इति //
कथं भो धुतधर्मधर बोधिसत्वाः तीक्ष्णाध्याशया भवन्ति // उच्यते //
बुध्यन्त्य् आशयसंयुक्ता लोके लोकोत्तरे तथा / एवम् अध्याशया तीक्ष्णा भवन्ति शुद्धकर्मणाम् इति //
कथं च भो धुतधर्मधर बोधिसत्वा विपुलाध्याशया भवन्ति // उच्यते //
सर्वभूतान हितार्थं संचिनोन्ति शुभं बहुं / एवम् अध्याशया विपुला भवन्ति परमर्षिणाम् इति //
कथं भो धुतधर्मधर बोधिसत्वा विचित्राध्याशया भवन्ति // उच्यते //
विचित्राणि मनोज्ञाणि देन्ति दानान्य् अमत्सराः / एवम् अध्याशया विचित्रा भवन्त्य् उत्तमदर्षिनाम् इति //
कथं च भो धुतधर्मधर बोधिसत्वा अपर्यादिन्नाध्याशया भवन्ति // उच्यते //
अपर्यादिन्नचित्तास् ते प्रतिवेधपराक्रमाः / एवम् अध्याशयस् तेषाम् अपर्यादिन्न उच्यते //
कथं च भो धुतधर्मधर बोधिसत्वा अनुपहताध्याशया भवन्ति // उच्यते //
न ते शक्यन्ति संहर्तुं दुष्टचित्तेन केनचित्* / एवम् अध्याशयस् तेषां न जातु उपहन्यते //
[_mvu_1.87_] कथं च भो धुतधर्मधर बोधिसत्वा असाधारणाध्याशया भवन्ति // उच्यते //
यं नान्यः प्रणिधिः कश्चित्* एवं सत्वस्योपजायते / सर्वसत्वसुखार्थाय तद् असाधारणं विदुर् इति //
कथं च भो धुतधर्मधर बोधिसत्वा उन्नताध्याशया भवन्ति // उच्यते //
अपरतीर्थिकमतं श्रुत्वावज्ञा प्रतिष्ठते / उन्नताध्याशयास् तेन नरसिंहा भवन्ति ते ति //
कथं च भो धुतधर्मधर बोधिसत्वा अकृपणाध्याशया भवन्ति // उच्यते //
न कामगुणभोगार्थं संचिन्वन्ति शुभं विदूः / ततश् चाकृपणास् तेषां भवन्त्य् अध्याशया सदेति //
कथं च भो धुतधर्मधर बोधिसत्वा अनिवर्तियाध्याशया भवन्ति // उच्यते //
कामैः ते नावकीर्यन्ते बुद्धत्वे कृतनिश्चयाः / तेनानिवर्तियास् तेषाम् अध्याशया इति स्मृताः //
कथं च भो धुतधर्मधर बोधिसत्वा अकृत्रिमाध्याशया भवन्ति // उच्यते //
वशि प्रत्येकबुद्धानां न स्पृहेन्ति कथंचन / एवं चाकृत्रिमो भवति तेषाम् अध्याशयः सदेति //
कथं च भो धुतधर्मधर बोधिसत्वाः शुद्धाध्याशया भवन्ति // उच्यते //
[_mvu_1.88_] लाभसत्कारम् उत्सृज्य परमार्थाभिकांक्षिणो / शुद्ध अध्याशयस् तेषाम् इत्य् एवम् उपदिश्यते //
कथं च भो धुतधर्मधर बोधिसत्वा दृढाध्याशया भवन्ति // उच्यते //
न संहरन्ति वीरियं धर्मे लोकैर् अभिद्रुता / एवम् अध्याशयास् तेषां दृढा सन्ति महर्षिणाम् इति //
कथं च भो धुतधर्मधर बोधिसत्वाः स्वभावाध्याशया भवन्ति // उच्यते //
मूर्छितास् ते न भुंजन्ति परान्नान्य् अवस्रुता / स्वभावाध्याशयस् तेषाम् एवम् आर्य प्रशंस्यते ति //
कथं च भो धुतधर्मधर बोधिसत्वाः तृप्ताध्याशया भवन्ति // उच्यते //
नात्र प्रस्यन्दन्ति कामेषु निष्क्रम्याभिरताः सदा / एवम् अध्याशयो तृप्तो बोधिसत्वे प्रशंस्यते ति //
कथं च भो धुतधर्मधर बोधिसत्वाः पुद्गलाध्याशया भवन्ति // उच्यते //
स्वयंभूसर्वदर्शित्वम् अभिकाङ्क्षन्ति पण्डिताः / पुद्गलाध्याशया भवन्ति चैवम् अप्रतिमा ध्रुवाः //
[_mvu_1.89_] कथं च भो धुतधर्मधर बोधिसत्वा अनन्ताध्याशया भवन्ति // उच्यते //
न प्रार्थयन्ति महाभोगान् अदानगुणसंपदा / अनन्ताध्याशयाश् चैवं भवन्ति पुरुषोत्तमा इति //
सर्वेहि एतेहि विंशद्भिः सर्वधर्मविशारदा / समन्विता सत्पुरुषा शुभैर् अध्याशयैर् वरा इति //
इमेहि खलु भो धुतधर्मधर बोधिसत्वा विंशद्भिर् अध्याशयैः समन्वागता भवन्तीति //
___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // कतिहि भो जिनपुत्र आकारेहि बोधिसत्वा द्वितीयायां भूमौ वर्तमानास् तृतीयायां भूमौ विवर्तन्ति // एवम् उक्ते आयुष्मान् महाकात्यायनो आयुष्मन्तं महाकाश्यपम् उवाच // अष्टाविंशद्भिः भो धुतधर्मधर कारणेहि बोधिसत्वा द्वितीयायां भूमौ वर्तमानाः तृतीयायां भूमौ विवर्तन्ते // कतमैर् अष्टाविंशद्भिर् आकारैः // तद्यथा लाभगुरुकाश् च भवन्ति / सत्कारगुरुकाश् च भवन्ति / कीर्तिश्लोकपराश् च भवन्ति / शठाश् च भवन्ति / विषमेण च वृद्धिं कल्पयन्ति / गुरुकोपनभाषणपराश् च भवन्ति / त्रिषु रतनेषु न च चित्रिकारबहुला वितरन्ति / दक्षिणीयेषु बोधिसत्वचरितं च न पर्येषन्ति / यतश् च बोधिसत्वचरितभूमिं प्राप्नुवन्ति तां न पूजयन्ति / अतिरेकपूजाये प्राप्यं च भारं न उपादियन्ति / अप्राप्यं च भारं उपादियित्वा वितरन्ति / आकीर्णविहारेण च नार्तीयन्ति / माल्यवस्त्रालंकाराभारणानुलेपनधराश् च भवन्ति / अल्पगुणपरितुष्टाश्
[_mvu_1.90_] च भवन्ति / अभीक्ष्णं लोकरमणीयाभिरताश् च भवन्ति / न च सर्वधातू अनित्या संकल्पयन्ति / स्वेन च वर्णरूपेण परम् अभिमन्यन्ति / न च विपरीतदर्शनत्यागं करोन्ति / न च यथोद्दिष्टं पदव्यंजनं परिपूर्णं करोन्ति / देशनामत्सरिणश् च भवन्ति / अपात्रदर्शिनश् च भवन्ति / पात्रे च न प्रतिपादयन्ति / कठिनसन्तानाश् च भवन्ति / असमीक्षकारिणश् च भवन्ति // ये केचि भो धुतधर्मधर बोधिसत्वा द्वितीयायां भूमौ वर्तमाना तृतीयायां भूमौ विवर्तन्ति सर्वे ते इमेह्i-r-aष्टाविंशद्भिर् आकारैर् विवर्तन्ति //
___तत्र इदम् इति उच्यते //
इत्य् एषा द्वितीया भूमि बोधिसत्वानम् उच्यते / नानाकुशलकोशानां लोकार्थसुखचारिणां //
ये हि दोषेहि संयुक्ता विवर्तन्ति तथाविधा / ये चैवं परिवर्तन्ता न विवर्तन्ति पण्डिताः //
दुरारोहां धुरधीराः प्रतिपद्यन्ति शूरतां / तां च लोकानुकम्पार्थं बहुदुःखा चरन्ति ते //
ते ते देवमनुष्याणां पूज्याः सर्वे तथागताः / तथा हि विविधं दुःखं उपेन्ति ज्ञानपूर्वकं //
नानाधातुम् इमं लोकम् अनुवर्तन्ति पण्डिताः / तेन तेषां गता कीर्ति लोके समरुमानुषे इति //
_____इति श्रीमहावस्तु-अवदाने द्वितीयभूमिः समाप्ता //
[_mvu_1.91_]___एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच // द्वितीया भूमितो तृतीयां भूमिः संक्रमन्तानां बोधिसत्वानां नरवरात्मज कीदृशं जायते चित्तम् इति //
ततः कात्यायनस्थविरः काश्यपम् इदम् अब्रवीत् / श्रुयतां बोधिसत्वानां सन्धिचित्तम् अनुत्तमं //
त्यागे प्रवर्तते चित्तं बोधिसत्वानम् आवुसो / तृतीयां संक्रमन्तानां द्वितीयातो जिनात्मज //
सुखेन्ति सर्वसत्वानां संस्थितानि नरेश्वराः / तं च न आत्मसुखार्थाय न अपि बोधेः कथंचन //
क्रिणन्ति पुत्रदारेण एकगाथां सुभाषितां / . . . . . . . . . . . . . . . . . . . . . . . . . . . साधुना बोधिसत्वेन राज्यं कारयता पुरा / . . . . . . . . . . . . . . . . . . . . . . . . . . . वनगहनं बलगहनं गिरिगहनानि त्यागग्रहणानि / विषमाप्रतिसन्निषण्णवनानि तु मनुष्यगहनानि //
तृणगुल्मकण्ठकलताकुलानि वृक्षग्रहणा गहनानि / शठनिकृतिपैशुन्यानि तु मनुष्यगहनानि //
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . भण्डिना ब्रूहि ब्राह्मण //
[_mvu_1.92_] . . . . . बोधिसत्वेन एका गाथा सुभाषिता / बोधिसत्वेन सा क्रीता परमार्थाभिकांक्षिणा //
अहितुण्डिकातो हस्तातो यत्नात् क्रीतं सुभाषितं / यावज् जीवन्ते अमुष्यां पेलायां दुष्कृतं कृतं //
ब्राह्मणो अभ्युपगम्य ऋषिदेवं नरेश्वरं / इदम् उवाच प्रीतात्मा अस्ति एषा सुभाषिता //
तस्य मूल्यं तव शीर्षं त्यक्त्वा शीर्षम् इत्य् अब्रवीत्* / ब्रूहि ब्राह्मण शीघ्रं मे गाथाम् एतां सुभाषितां //
यदि अपि किञ्चित् अशुभं समुदाचरन्ति संबोधिसत्वचरितान्य् अभिकांक्षमाणाः / तैलप्रदीप इव सूर्यमरीचिच्छन्नः न भ्राजते विपुलपुण्यबलाभिभूतं //
सुरूपं नाम भूमिपतिं राक्षसो इदम् अब्रवीत्* / अस्ति सुभाषिता गाथा क्रेया यदि क्रीणासि तां //
तस्या मूल्यं कुमारं च देवीं त्वां चैव भक्षयेत्* / गृह्यतां यदि ते कृत्यं गाथा हि धर्मसंहिता //
सो ऽब्रवीद् राजा सुरूपो निःसंगो धर्मगौरवात्* / गृह्यतां दीयतां गाथा युक्तं भवतु मा चिरं //
[_mvu_1.93_] तत्रेमां गाथां सुभाषितां राक्षसो अब्रवीत्* परिदेवितकंपनेषु अनिष्टसंयोगप्रियहीनेषु / उषितं नरकेषु वरं न च कुपुरुषसंश्रयनिकेतः //
अमात्यं संजयं नाम पिशाचो इदम् अब्रवीत्* / स्वकं मे हृदयं देहि शृणु गाथां सुभाषितां //
स्वकन् ते हृदयं देमि ब्रूहि गाथां सुभाषितां / पिशाचम् अब्रवीद् वीरो संजयो विगतव्यथो //
तत्रेमां गाथां सुभाषितां पिशाचो ऽब्रवीत्* न जातु तृणकाष्ठेहि ज्वलनः शाम्यते ज्वलन्* / न जातु उपभोगेभ्यः तृष्णा कामेषु शाम्यति //
श्रेष्ठिं वसुन्धरं नाम दरिद्रो इदम् अब्रवीत्* / इयं सुभाषिता गाथा सर्वस्वेन तु दीयते //
बोधिसत्वो ऽब्रवीत्* सर्वस्वं ददामि एषां ब्रूहि गाथां सुभषितां / एतं सन्तः प्रशंसन्ति धर्मेषु यत् सुभाषितं //
तत्रेमां गाथां सुभाषितां दरिद्रो ऽब्रवीत्* //
आकीर्णान्य् अपि शून्यानि बालिशा यत्र जन्तवः /
[_mvu_1.94_] शून्यान्य् आकीर्णा च सन्ति एकेनापि प्रजानता //
सुरूपं नाम राजानं पुरुषो एतद् अब्रवीत्* / जम्बुद्वीपेन मूल्येन शक्यं श्रोतुं सुभाषितं //
बोधिसत्व उवाच //
जम्बुद्वीपं च ते देमि सर्वं यत् किंचि इच्छसि / शीघ्रं सुभाषितं ब्रूहि ब्रूहि सत्यं यद् इच्छसि //
तत्रेमां गाथां सुभाषितां पुरुषो ऽब्रवीत्* //
अहंकारममकारा माना यत्र समुपस्थिता / {सेनर्त्: नाना} मानं यत्र निरोधाय उत्पद्यन्ते तथागताः //
सत्वरं नाम हरिणं लुब्धक इदम् अब्रवीत्* / इयं सुभाषिता गाथा देहि मान्सं शृणोहि तां //
यदि विनाशधर्मेण मान्सेनाहं सुभाषितं / शृणोमि देमि ते मान्सं क्षिप्रं ब्रूहि सुभाषितं //
तत्रेमां सुभाषितां गाथां लुब्धको ऽब्रवीत्* //
सतां पादरजः श्रेयो न सुवर्णमयो गिरिः / सो पान्सु शोकहाराय सो गिरि शोकवर्धन इति //
[_mvu_1.95_] राजानं नागभुजं नाम तद्दासो इदम् अब्रवीत्* / चातुर्द्वीपेन राज्येन शक्यं प्राप्तुं सुभाषितं //
बोधिसत्वो ऽब्रवीत्* //
चातुर्द्वीपं च ते राज्यं देमि क्षिप्रम् उदीरय / एतां सुभाषितां वाचां मा विलम्ब ब्रवीहि मे ति //
तत्रेमं श्लोकं सुभाषितं तद्दासो ऽब्रवीत्* //
लोमोत्पाटनतुल्यम् आहु विदुषः प्राज्ञस्य या विक्रिया तस्मा ज्ञानबलं समेतिय पुनर् दोषां समूलां नया / छित्त्वा दोषविवर्जितेन मनसा संभाति संघः शुचिः भाति लोकगुरुः सताम् अनुगतो ऽनिक्षिप्तभारो शुचिः इति //
एवं सुभाषितार्थाय प्रपाते पतितः पुनः / भूयः सुभाषितार्थाय पोतस् त्यक्तो महार्णवे //
भूयो अक्षीणि त्यक्तानि श्रुत्वा गाथां सुभाषितां / अग्निस्कन्धे पुनः पतितः श्रुत्वा गात्ःआं सुभाषितां //
बहूनि एवमादीनि दुष्कराणि जिनर्षभाः / सुभाषितानाम् अर्थाय प्रतिपद्यन्ते महायशा //
[_mvu_1.96_] एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच // ये पुनर् भो जिनपुत्र बोधिसत्वाः तृतीयायां भूमौ वर्तन्ते कथं चतुर्थायां भूमौ विवर्तन्ति इति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // चतुर्दशभिर् भो धुतधर्मधर आकारैर् बोधिसत्वाः तृतीयायां भूमौ वर्तमानाः चतुर्थायां भूमौ विवर्तन्ते // कतमेहि चतुर्दशेहि // अक्षवंकद्यूतक्रीडानुयोगम् अनुयुक्ताश् च भवन्ति / अत्यभीक्ष्णं विवेकं सेवन्ति / राज्यं च कारापयमाणा लोभेनाभिभूता अत्रान्तरविजितवासिनां सर्वस्वहारिणो भवन्ति / अपराधं च अननुयुज्या वधम् आक्षेपयन्ति / बध्यांश् च न संगोपायन्ति / पुरुषांश् च वध्रयन्ति / विप्रतिपन्नाश् च भवन्ति / न च भोगयात्रायां संविभजन्ति विद्यमानेषु विभवेषु / प्रव्रजित्वा च सम्यक्संबुद्धानां भाषतां वा बाहुश्रुत्यं न पर्याप्नुवन्ति / पुरा प्रणिधित्वा च बाहुश्रुत्यं न देशयन्ति / आमिषप्रतिबद्धांश् च सेवन्ति न धर्मप्रतिबद्धा / न चाभीक्ष्णं बुद्धवर्णं भाषन्ति / सम्यक्संबुद्धांश् च लोकसमताये देशेन्ति / न च सम्यक्संबुद्धां लोकोत्तरा इति बोधयन्ति // इमेहि भो धुतधर्मधर चतुर्दशभिर् आकारैः बोधिसत्वाः तृतीयायां भूमौ वर्तमानाश् चतुर्थायां भूमौ विवर्तन्ति // ये हि केचिद् भो धतुधर्मधर बोधिसत्वाः तृतीयायां भूमौ वर्तमानाः चतुर्थायां भूमौ विवर्तेन्सुः विवर्तन्ति विवर्तिष्यन्ति वा सर्वे ते इमेहि चतुर्दशेहिर् आकारैर् नातो भूय इति //
[_mvu_1.97_]___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // ये पुनर् भो जिनपुत्र बोधिसत्वा अवैवर्तिया प्रथमं चित्तम् उत्पादयन्ति बोधाय केवरूपेण सुखेन युज्यन्ति केवत्तकाश् च सत्वा सुखसातसंगता भवन्तीति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिर् अध्यभाषि //
सर्वसत्व सुखसातसंगता संभवन्ति यद् अचिन्त्यम् अद्भुतं / जायते यद मनो महर्षिणां बोधिमार्गपरिभावनात्मकं //
सप्तरात्रम् इति निश्चयाश् च ये ये पि ते निरयदारुणालया / ये च प्रेतभवनेषु प्राणिनो ते भवन्ति सुखिताश् च नाम //
सप्तरात्रं न च्यवन्ति प्राणिनो बोधिसत्वकुशलानुकंपया / क्षुभ्यते च वसुधा ससमुद्रा सप्रभो भ्रमति मेरुमस्तकः //
भूमि सन्धिषु अयं प्रवर्तते निश्चला नभसि नआत्र संशयः / तेषु सर्वशुभकर्मराशिनां तेजसा भ्रमति सर्वसंततं //
[_mvu_1.98_] अथ खलु नामतिदेवो नाम त्रायस्त्रिंशको बोधिसत्वो भूतो एकांसम् उत्तरासङ्गं कृत्वा येन भगवन्तो दृष्टो तेनांजलिं प्रणमय्य भगवन्तम् अभिस्तुतः संमुखं वशीभूतगणस्य इमैः श्लोकैः //
यस्य रूपं हेमाभासं तरुणरवि-अविहतवपुं विराजिततेजसा द्वात्रिंशद्भिः पूर्णैः पूर्णं कुशलचरपुरुषकथितैः सुलक्षणलक्षणैः / शीलेनाग्र्यं संपूर्णाभं धरणिनगगुरुतरबलं बलोत्तमधारिणं ते वन्दे शान्तं ते दान्तं . . . स्मृतिविनयकुशलं सुरासुरसत्कृतं //
दीर्घं कालं चित्राचारो कुशल अतिविपुलफलदो भवक्षयकांक्षया श्लाघ्यैर् नानैः मैत्रीपूर्वैर् बहुविविधजनितकुशलैः शमाभिमुखो मुनिः / त्यक्त्वा आवासं नित्यं विद्वान् असुरसुरमहितं सुखितं सत्वप्रतिबोधने इक्ष्वाकूनां वंशोद्भूतो धरणितलम् अवतरि यशःस्थितो अचलाधृतिः //
मायाया देव्याः कुक्षिस्मिं प्रविशिषु स कुमुदसदृशो वरो गजरूपवां एवं . . . लोकालोकः तुषितवरभवननिलयं विहाय इहागतः / सत्वां मत्तां अन्धां दृष्ट्वा विमतिपथविषमपतितां समुद्धरितुं प्रजाः
[_mvu_1.99_] तस्मिं काले रत्नाकीर्णा विविधनिधिनिचयभरिता चचाल वसुन्धरा तं शाक्येन्द्रं चारित्राढ्यं स्मृतिनिभृतम् अधिगुणचितं अवन्दि महामुनिं //
प्रासादाग्रे देवी माया सुरपतिप्रवरभवने वा सुखैः प्रविचार्यते नृत्यैर् गीतैर् लास्यैर् वाद्यैः श्रवणहृदिनयनसुभगैः सुरेष्व् इव देवता / सा देवी राजानं खिन्नं वदति वनवरं महिपते व्रजेयं यद्ऽ; इच्छसि लुम्बोद्यानं पुष्पाकीर्णं मधुमधुरपरभृतरुतं मनोहृदिनन्दनं //
गत्वा तस्मिं स्त्रीभिः सार्धं प्रविचरति मुदितसुखिता वने वनलोलया सा चोद्यानं पर्यण्वन्ती तरुणलतकिशलयधरां ददर्श ऽथ लुम्बिनीं / {सेनर्त्: ददर्शथ} तस्याः शाखां . . . गृह्यान परमरतिसुखमुदिता सलील-अवस्थिता सा तत्र शाखां रक्षन्ती जनयि जिनम् अजितमनसं महामुनिम् उत्तमं //
शीतोष्णे च द्वे वारिधारे प्रवरकुसुमभरिते जिनं यत्र स्नपयिंसु तं देवा जायन्तं जातमात्रं नृपतिं सुरभुवनमहितं त्रिलोकमहेश्वरं / सानुक्रोशं लोकातीतं शरणम् इह दिवि च भुवि चा जरामरणान्तकं अप्राप्तं तं भूमौ धीरं कमलदलसदृशनयनं सुरासुरनन्दनं //
हृष्टा तुष्टा देवा सर्वे त्रिदशप्रभृतिभवनच्युता प्रतिस्थिहिषुर् वनं
[_mvu_1.100_] इक्ष्वाकूनां वंशोद्भूतो धरणितलम् अवतरि यशस्थितो अचलाधृति / विक्रमांश् च सप्त पूर्णं मृगवृषराजामतिर् इव रसमानीकं ज्येष्ठो श्रेष्ठो लोकाग्रो हं न च मम पुन जरमरणा हतो भव्ऽ; उपद्रवः //
छत्रं दैवं रत्नाकीर्णं स्फटिकरुचिरकुसुमचित्रं सिताभ्रसितप्रभं हस्ता मुक्तं स्थाये सामं समभिच्छदि नृपतितनयं विहायसे उत्थितं / वालैश् चोउग्रैः शंखाजाभैर् मृदुभिर् उपचितम् अनुपमं दिवौकसनिर्मितं उच्चैर् दण्डं मुक्ताश्वेतं भ्रमति मणिकनकविकृतं सुचामरवीजनं //
दुन्दुभ्यो चा मेघोन्नादा पवनखगगगनपरिगा नदन्ति महत्स्वराः पुष्पौघाश् चा दिव्या सृष्टा मरुभि जिनबलवरमुखे सचन्दनचूर्णिताः / संतोषातीशययुक्तेभिः सुरमरू जयति सुखकरो रसे रवणीशतैः क्षुब्धासन्ना नानारत्ना उदधिभुवि तलसलिलयोस् तथागततेजसा इति //
_____इति श्रीमहावस्तु-अवदाने तृतीया भूमिः समाप्ता
[_mvu_1.101_] एवम् उक्ते आयुष्मान् महाकाश्यपो आयुष्मन्तं महाकात्यायनम् उवाच // ये पुनर् भो जिनपुत्र बोधिसत्वा अविवर्तिकताये सन्स्थिहन्ति केवत्तकानि कर्माणि अस्थानताये समुपचरन्ति इति //
ततः कात्यायनस्थवीरो जिनशास्त्रविशारदः / काश्यपं धुतधर्माणं गाथाभिर् अध्यभाषत //
यानि कर्माणि सेवन्ते बोधिसत्वा विजानथ / अस्थानताये न सेवन्ते यानि तानि विजानथ //
मातरं पितरं चैवाप्य् अरहन्तं तथैव च / जीविता न विरोपेन्ति बोधिसत्वा महायशाः //
संघं च ते न भिन्दन्ति न च स्तूपभेदका / न ते तथागते चित्तं दूषयन्ति कथंचन //
न ते पापानि सेवन्ते विपरीताये दृष्टिये / अल्पं कृतं न नाशेन्ति किं मम पुनर् यं बहुं //
संसरन्ता च संसारे न जातु दृष्टिपूर्वके / प्रतिरज्यन्ति धर्मार्थे पुण्ये वा ज्ञानपूर्वके //
यस्य वृक्षस्य छायायां सीदन्ति च शयन्ति च / न तस्य पत्रहिंसा च न घातेन्ति च रोषिताः //
दश कर्मपथां कुशलां सेवन्ति पुरुषोत्तमा /
[_mvu_1.102_] न च मन्त्रं प्रयोजेन्ति परस्य देहघातकं //
कर्मसंनिश्रिताः सन्तः कौतूहलविनिःश्रिताः / आपत्सु न विषीदन्ति न च मोदन्ति वृद्धिषु //
कायकर्म वचीकर्म मनोकर्म तथैव च / अध्याशयाश् च परिशुद्धाः दानपारमिता च या //
अष्टमीप्रभृतिं भूमीं गता ते अनिवर्तिया / एकांशेन शुभं कर्म सेवन्ति लोकपूजिताः //
प्रथमां च उपादाय भूमीं यावच् च सप्तमी / व्यामिश्रं कर्म सेवन्ति भूमीष्व् एतासु जनोत्तमा //
एवमादीनि कर्माणि सेवमाना महानराः / लोकानाम् अनुकंपार्थं पूरेन्ति भूमयो दशेति //
एवम् उक्ते आयुष्मां महाकाश्यपो आयुष्मन्तं महाकात्यायनम् उवाच // ये पुनः भो जिनपुत्र बोधिसत्वा अवैवर्तिका सामन्ते पृथग्जनताये अपायां यान्ति आहोस्विदं नेति / सामन्ते पृथग्जनताये अवरावराश् च गतियो गच्छन्ति आहोस्विदं नेति // एवम् उक्ते आयुष्मां महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // ये इमे भो धुतधर्मधर बोधिसत्वा अवैवर्तिकधर्मा ते सप्तसु भूमिषु न कथंचित् किञ्चित् कदाचित्* यदृच्छया निरयं पि गच्छन्ति तिर्यग्योनिं वा गच्छन्ति दरिद्रा वा भवन्ति
[_mvu_1.103_] दुर्बला वा // अथ खलु ब्राह्मणा भवन्ति प्रत्येकब्राह्मणा वा इन्द्राश् च उपेन्द्राश् च यक्षाधिपतयश् च यक्षाश् च नागाश् च नागराजानश् च गन्धर्वा गन्धर्वाधिपतयश् च चक्रवर्तिनश् च प्रादेश्याश् च राजानः अग्रामात्याश् च श्रेष्ठिनश् च जनपदप्रधानाश् च राजपुत्राश् च श्रेष्ठिपुत्राश् च अग्रमहिषीपुत्राश् च नायकाश् च सर्वशौर्यवीर्याश् च भवन्ति बलसम्पन्नाः च भवन्ति उल्लोकनीयाश् चावलोकनीयाश् चाभिवन्दनीयाश् चादेयवाक्याश् च बहुजनप्रियाश् च बहुजनकान्ताश् च बहुजनमनापाश् च संकीर्तनीयाश् च प्रह्लादनीयाश् च महाधनाश् च महाविभवाश् च महापरिवाराश् च महोत्साहा महातेजाश् च भवन्ति // यदि केचित् कथंचित् आर्यापवादहेतोः सप्तसु भूमिषु वर्तमाना अवीचिं महानिरयं गच्छन्ति अथ खलु प्रत्येकनिरयं गच्छन्ति / प्रेतेषु अत्यन्तकायेषु नोपपद्यन्ति / असुरेषु नोपपद्यन्ति / क्षुद्रतिर्यग्योनिं न गच्छन्ति / उत्तरकुरुषु न उपपद्यन्ति / स्त्रीत्वं न गच्छन्ति / विपण्डकत्वं न गच्छन्ति // अथ खलु सर्वासु दशभूमिषु पुरुषा भवन्ति सर्वांगप्रत्यंगोपेताः अविकलेन्द्रिया // यश् च बोधिसत्वो बोधिसत्वं जीविताद् व्यपरोपयति सम्यक्संबुद्धश्रावकं वा श्रोतापन्नं वा ये वा सत्वा प्रत्येकबुद्धत्वाय विनिष्ठास् तथारूपं
[_mvu_1.104_] पुद्गलं जीविताद् व्यपरोपयित्वा निरयं गच्छति // यं बोधिसत्वाः सप्तसु भूमिषु प्राणातिपातं वा करोन्ति अदत्तं वा हरन्ति सर्वपरिपूर्णं वा अकुशलकर्म न समर्थं बोधिसत्वं निरयं नयितुं // यानि च कर्माणि बोधिसत्वैः पुरतो प्रणिधानस्योपचितानि अकुशलानि तानि च प्रथमचित्तोत्पादाय आवृतानि तिष्ठन्ति यथा महता शैलेन मृगसंघो // असंप्राप्तस्य प्रणिधिचित्तं द्वितीयतृतीयचतुर्थपंचमषष्ठसप्तमासु जातिषु विपच्यति अन्तशो शीर्षपरितापेनापि //
___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // ये पुनर् भो जिनपुत्र बोधिसत्वा अवैवर्तिका सम्यक्संबुद्धान् आराधयित्वा अगारस्था अनगारियं प्रव्रजन्ति ते तथागताः केवरूपेण ओवादेन ओवदन्ति इति //
ततः कात्यायनस्थविरः काश्यपं इदम् अब्रवीत्* / दृष्टान्ते हि विविक्ताभिः कथाभिः अनुपूर्वशः //
बोधिसत्वचरितं महापकं जातकापरमतेषु कोविदा / देशयन्ति दमदानसंवरं बोधिसत्वपरिषाय ईश्वरा //
यो महाजनहिताय सेवते कर्मम् अप्रतिसमं नरोत्तमः / इत्य् एव तं च मतिमां तथागतो बोधिसत्वपरिषाय भाषति //
सो प्रभुः भगवतो प्रवुच्यति ज्ञानपूर्वकम् उपेति दुष्करं /
[_mvu_1.105_] तस्य लोकि सदृशो सुदुर्लभो बोधिसत्व इति शासने जिनः //
एवम् आदिकं भो धुतधर्मधर सम्यक्संबुद्धा बोधिसत्वपर्षायं धर्मं देशयन्तीति //
___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् इदम् उवाच // यानीमानि भो जिनपुत्र जातकानि जिनभाषितानि इमानि कुतःप्रभृतिकानि विज्ञेयानीति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् इदम् उवाच // यानीमानि भो धुतधर्मधर जातकानि जिनभाषितानि इमां अष्टमां भूमीं प्रपद्यन्तीति //
___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् इदम् उवाच // कुतः प्रभृति भो जिनपुत्र बोधिसत्वाः सर्वस्वपरित्यागांश् च परित्यजन्ति दुष्करपरित्यागांश् चेति // एवम् उक्ते महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // अष्टमां भूमिं प्रभृति भो धुतधर्मधर बोधिसत्वाः सर्वस्वपरित्यागांश् च परित्यजन्ति दुष्करपरित्यागां च कुर्वन्ति इति // अष्टमां भूमिं प्रभृति भो धुतधर्मधर बोधिसत्वाः सम्यक्संबुद्धपूजया पूजयितव्या इति // तत्रेदम् उच्यते //
अष्टमां प्रभृति भूमिं बोधिसत्वा जिनात्मज / सम्यक्संबुद्धा इति द्रष्टव्या अतः प्रभृत्य् अनिवर्तियाः //
अतः प्रभृति ध्यानानि गम्भीराणि लभन्ति ते /
[_mvu_1.106_] अतः प्रभृति उत्तप्तं ज्ञानं तेषां प्रवर्तते //
अतः प्रभृति भाषन्ति वाचां ज्ञानपुरोगमां / अतः प्रभृति कुच्छत्ता आयुं मुञ्चन्ति पण्डिताः //
अतः प्रभृति या शुद्धा तां जातिम् अनुयान्ति ते / अतः प्रभृति यं शुद्धं तद् रूपम् अनुभवन्ति ते //
अतः प्रभृति यं लिङ्गं इच्छन्ति भवन्ति तथा / अतः प्रभृति यं देवं इच्छन्ति भवन्ति तथा //
अतः प्रभृति तिर्थिका वा भवन्ति भवसूदनाः / अतः प्रभृति कुच्छन्ति कामां शंसन्ति निर्वृतिं //
अतः प्रभृति भूयिष्ठा भवन्ति वदतां वराः / शिष्या देवातिदेवानां संबुद्धानां यशस्विनां //
अध्येष्यन्ति ततः परेत्य बुद्धैर् धर्मप्रकाशनैः / धर्मं देशयथ प्राज्ञा प्रतिगृह्णथ ऋषिध्वजं //
अतः प्रभृति विनयन्ति अर्हत्वे सुबहुं जनं / अतः प्रभृति विनयन्ति शैक्षभूमौ बहुं जनं //
अतः प्रभृति अनुबद्धा देवा यक्षा सगुह्यकाः / बोधिसत्वं महासत्वं यावत् प्राप्ता स्वयंभूता //
अतः प्रभृति तद् रूपं अग्र्यं सदेवके लोके / अतः प्रभृति वर्णो पि तेजोकीर्तियशोबलं /
[_mvu_1.107_] लोकेन विषमं भवति बोधिसत्वानम् उत्तमं //
अनुत्पादाच् च बुद्धानां पंचाभिज्ञा भवन्ति ते / नैष्क्रम्यम् अनुवर्णयन्ति कामेषु दोषदर्शिनः //
अतः प्रभृति देवाश् च असुरा ब्रह्मणा सह / गुणैः तेषां अनुरज्यन्ता आगच्छन्ति कृतांजली //
वशिभूतान या चेष्टा बोधिसत्वान तादृशी / अष्टमाभूमिं या चेष्टा भवन्ति तादृशी तथा //
एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // ये इमे भो जिनपुत्र बोधिसत्वा अवैवर्तिकाः चक्रवर्तिराज्यानि कारयन्ति केवरूपं धर्मं देशयन्ति सत्वानां अनुत्पादे च बुद्धानां केवरूपेण संग्रहेण सत्वा संगृह्णन्ति केवरूपां च जनतां उपेक्षन्त इति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // ये इमे भो धुतधर्मधर बोधिसत्वा अवैवर्तिका चक्रवर्तिराज्यानि कारयन्ति ते सत्वानाम् एवं धर्मं देशयन्ति // दशकुशलकर्मपथसमायुक्ता सत्वानाम् अनुदर्शयन्ति // मा भवन्तु प्राणिवधम् अदत्तहरणं रक्षितव्यानि परदाराणि अनृतपिशुनपरुषम् अबद्धप्रलापाभिध्याव्यापादमिथ्यादर्शनानि वर्जयितव्यानि इति देशेन्ति // हिरण्यसुवर्णस्य धनस्य अग्रतो निवेशनस्य राशयो उपस्थापयित्वा एवं च वदन्ति वैकलियं यस्य येन इतो स गृह्णतु धनं /
[_mvu_1.108_] धर्मलब्धा मम भोगा मा भवन्तो विषीदथ //
अहं माल्यं च गन्धं च धूपं चूर्णं मनोरमं / ददामि मा विषीदन्तु भवन्तो रम्यताम् इति //
एवम् उक्ते महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // केवरूपैः कर्मभिर् बोधिसत्वानां चक्रवर्तिराज्यानि कारयमाणानां सप्तरत्नानि भवन्ति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिः अध्यभाषे //
यथ लभति मनुजवृषभो चातुर्द्वीपो प्रभूतधनकोशो / सप्त रतनानि राजा अहं इदम् उदीरयिष्यामि //
तरुणरविमण्डलनिभं प्रवरदशशतारसंचयमनोज्ञं / चक्ररतनं नरवरो पुरिमकुशलसंभवं लभति //
परिचारविधिसंयुक्तं ददाति दानम् अनवद्यसंकल्पे / अजितजयम् अप्रतिहतं तेन नरवरो लभति चक्रं //
हिमनिचयकुमुदवर्णं सप्ताङ्गप्रतिष्ठितं महानागं / अनिलबलतुल्यवेगं हस्तिरतनम् अद्भुतं लभति //
दुर्गेषु च विषमेषु च संक्रमम् अरिसूदनो प्रतिष्ठपिय / तेन खगपथेगामिं गजवररतनं . . . लभति //
तद भृङ्गनीलं सुवर्णमनिलजवकेशरिं समुद्यतपादं / प्रतिलभति तुरगरतनं सुकृतकुशलसंचयो राजा //
[_mvu_1.109_] हयनवरेहि परिवही मातापितरं गुरुं तथाचार्यं / तेन कुशलेन राजा अश्वरतनं अद्भुतं लभति //
मणिरतनम् अनुपमवर्णं वैडूर्येण शीरम् अनुपसंपन्ना / . . . . . . . . . . . . . . . . . . . . . . . . . . . लभति प्रमदां मनापां रतनवरम् अनन्तबलवीर्यैः //
पूर्वभवे हि निवासे स्वदारसन्तोषसंयमाभिरतो / आसीच् च नराधिपती स्त्रीरतनं तेन सो लभति //
आढ्यं विविधधनवरं प्रभूतनिधिनिचयसंचयोपेतं / गृहपतिरतनम् उदार प्रतिलभति महावशी राजा //
विविधधनसंचयानां दाता गुरुषु गुरुगौरवोपेतो / तेन स गृहपतिरतनं प्रतिलभति प्रभूतधनकुशलं //
नयनयज्ञं मेधाविं व्यक्तं नायकध्वजं चातुर्द्वीपं / परिणायकरतनवरं प्रतिलभति महीपतिः विरतो //
मार्गगतो प्रणष्टानां हतहतनयनानां देशयि मार्गं / तेन परिणायकवरं लभति रतनं उत्तमनायकं //
एतैर् धुतधर्मधरा कर्मेहि समुत्थितानि रतनानि / तेन च एव नरेन्द्रो धर्मेण महीं प्रशासयति //
[_mvu_1.110_] एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // ये इमे हि भो जिनपुत्र बोधिसत्वाः प्रथमचित्तम् उत्पादयन्ति ते कतिभिर् आकारैश् चतुर्थ्यां भूमौ वर्तमानाः पञ्चमायां भूमौ विवर्तन्ते // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् एतद् उवाच // ये इमे भो धुतधर्मधर बोधिसत्वाः प्रथमचित्तोत्पादा सप्तभिर् आकारैश् चतुर्थ्यां भूमौ वर्तमानाः पंचमायां भूमौ विवर्तन्ते // कतमेहि सप्तहि // भिक्षुणीदूषकाश् च भवन्ति / पुरुषदूषकाश् च भवन्ति / पण्डकदूषकाश् च भवन्ति / मन्त्रबलेन चापि परस्य असन्तं रोगम् उत्पादयन्ति / सुशीलवन्तांश् च शीलाच् च्यावयन्ति / अहिरीकाश् च भवन्ति / अनोत्रापिणश् च भवन्ति // ये केचिद् भो धुतधर्मधर बोधिसत्वाः प्रथमं चित्तम् उत्पादयन्ति ते इमेभिः सप्तभिर् आकारैश् चतुर्थायां भूमौ वर्तमानाः पंचमायां भूमौ विवर्तन्ति //
इत्य् एषा भुमिर् उपदिष्टा चतुर्थी सुगतात्मज / रमणीया बोधिसत्वानां ये ते बोधिपरायणा इति //
_____इति श्रीमहावस्तु-अवदाने चतुर्थी भूमिः समाप्ता //
एवम् उक्ते आयुष्मान् महाकाश्यपो आयुष्मन्तं महाकात्यायनम् एतद् उवाच // भो जिनपुत्र बोधिसत्वा अवैवर्तिका चतुर्थीभूमितो ये पंचमां भूमिं संक्रामन्ति तेषां कतमं सन्धिचित्तं भवतीति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // आदीप्तां सर्वभवां पश्यन्ति रागद्वेषमोहेभ्यः / अशरण्यं निरानन्दं सन्धिचित्तं चतुःपंचमानन्तरं भवतीति //
___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // ये पुनर् भो
[_mvu_1.111_] जिनपुत्र सम्यक्संबुद्धेन भगवता पंचमायां भूमौ सम्यक्संबुद्धाः पूजितास् तेषां सम्यक्संबुद्धानां कानि नामानि गोत्राणि केवत्ता श्रावकसन्निपाता केवत्तिका प्रभा केवत्तिकम् आयुःप्रमाणम् इति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकश्यपं गाथाभिः अध्यभाषि //
शाक्यमुनि नाम जिनवरो अभूषि वशिभूतकोटिपरिवारो / व्यामप्रभो गिरिघनो कनकगिरिनिभो निहतशत्रुः //
षड्वर्षसहस्राणि आयुः पुरुषोत्तमस्य तत्कालं / नामं तस्य यशव्रतो अभूषि अतिसुन्दरो बुद्धो //
गोत्रेण गौतमो ऽसौ अयं च भगवान् तदासि श्रेष्ठिसुतो / य्वागूदानं दत्वा बुद्धप्रमुखे कृता प्रणिधिः //
यं मये कुशलम् उपचितं संश्लिष्य संघे अर्हन्ते दत्त्वा / तेन परमार्थदर्शी भवेयम् अखिलं ममं पुण्यं //
अन्तिम्ऽ; अवतरणगामी सुन्दरो सुदर्शनो नाम नरसिंहः / भारद्वाजसगोत्रो प्रभा च दशयोजना तस्य //
वशिभूतानां कोटी परिवारो तस्य सत्वसारस्य / दशवर्षसहस्राणि आयुः तद मारदमकस्य //
[_mvu_1.112_] राजा च चक्रवर्ती अभूषि धरणींधरो ति नामेन / सो तं जिनं सुदर्शनं सशिष्यसंघं इदम् उवाच //
सर्वं हितोपधानं अहं ति देमि इति पण्डितो अवची / एवं च भवेयम् अहं प्रणिधेसि परं प्रणिधि राजा //
जरामरणस्य सागरगतां अलीनो जनतां तारेय्यं / . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . अनुपहतकुशलमूलो अभूषि भगवां नरेश्वरो नाम / गोत्रेण च वासिष्ठो आभा दशयोजना तस्य //
वशिभूतानां कोटी परिवारो तस्य द्वादश आसि / नव च वर्षसहराणि मनुजान तदा अभूष्य् आयुः //
राजा च चक्रवर्ती अभूषि अपराजितो ति नामेन / सो दशबलं नरेन्द्रं प्रसन्नचित्तो इदम् उवाच //
सप्तरतनाङ्गचित्रा इमां अनेकरतनसम्पत्तीयो / शीति चतुर् उत्तरा तव विभू विहारान् अहं देमि //
सो तं दानं दत्त्वा तस्मिं नरेश्वरके अनुप्रणिधिं / प्रणिधेसि एवं भवेयम् अधिगच्छेयं जिनबलानि //
विजयो नाम अमात्यो अभूषि पूर्वं जिनः सुप्रभो नाम /
[_mvu_1.113_] गोत्रेण काश्यपो ऽसौ प्रभा च दशयोजना तस्य //
तस्य च शिष्यसंघो अष्टादश कोटी धुतरजानां / विंशन् नराण आयुः वर्षसहस्राणि तत्कालं //
सो वन्द्य जिनवरं तं विजयो निमन्त्रयी भवनिर्घातिं / अधिवासयति दशबलो अथ विजयो हर्षितो आसि //
अग्रेण प्रणीतेन च अधिगतस्वादेन भक्ष्यभोज्येन / संन्तर्पयित्वानुगतं प्रणिधेसि तदा अनुप्रणिधिं //
सो ऽहम् अपि भवेयम् एवं नरवरमहितो नरमरुण हितकरो/ तेनापि नायकवरो दशबलो भवे वादिशार्दूलो //
आसीत् पूर्वं बुद्धस् तथागतो रतनपर्वतो नाम / गोत्रेण गौतमो ऽसौ प्रभा च दशयोजना तस्य //
त्रिंशत् मनुष्यकोट्यो परिवारो आसि दान्तचित्तानां / वर्षसहस्राणि विंशं आयुः तदासि मनुष्याणां //
राजा च चक्रवर्ती अभूषि तत्कालम् अच्युतो नाम / जिनक्रमाणि निपीडिय इदम् अवचि वरं नरमरूणां //
प्रासादसहस्राणि मह्यं नरनागा चतुरशीतिं /
[_mvu_1.114_] तानि समलंकृतानि सशिष्यसंघस्य अहं देमि //
अधिवासनां विदित्वा राजा . . . . . . प्रीतमनो / अनुप्रणिधिं प्रणिधेसि पुरतो वरलक्षणधरस्य //
कुशलेन अनेन अहं कुशलोपचितवराणां चरितानां / दुरन्तकवीर्यकर्मो भवेय नाथो अनाथानां //
गगनतलविमलचित्तो संबुद्धो कनकपर्वतो नाम / अभूषि नरतामहितो कौण्डिन्यो नाम गोत्रेण //
तस्य शुभकर्मजाता शरीरप्रभा अभू योजनानि षट्* / पंच वशीभूतानां कोटीयो च परिवारो ऽस्य //
दश षड्वर्षा आयुं तदा अभूषि मनुजानां च चतुर्दश सहस्राणि / वर्षाणां सप्तत्रिंश वर्षसहस्राणि इत्येव //
आसि तद चक्रवर्ती राजा प्रियदर्शनो ति नामेन / सप्तरतनद्युतीमान्* चतुर्द्वीपः पृथिविपालो //
सो कनकवर्णपर्वतं संबुद्धं क्रमवरेषु निपतित्वा / याचति सामात्यगणो मुक्ताहारान्तपुरो प्राह //
मम नगरनिगमभरितं राज्यं चतुरो महाधनद्वीपाः / तान् तव ददामि वीरा सशिष्यसंघस्य निरपेक्षः //
[_mvu_1.115_] यद् भोजनं ऋषीणां यद् वस्त्रं या च ओषधिविधीयो / यानि शयनासनानि च प्रासादवरे तथा येव //
निःसृष्टम् एव सर्वं परिभोज्यं यस्य द्वादशाकारं / मम प्रवररूपधारि अनुकम्पार्थं कुरुहि करुणां //
एतद् दत्त्वा दानं सो पार्थिवलम्बको अनुप्रणिधिं / प्रणिधेसि प्रीतिमानसो पुरतो संपूर्णकुशलस्य //
परमार्थं शूक्ष्मदर्शि वैशारद्यवरपारमिप्राप्तः / तेनाहं नायकवरो भवेय सर्वोपधिक्षयकरो //
द्वात्रिंशलक्षणधरो भगवान् नामेन पुष्पदन्तो ति / अभूत् परमार्थदर्शि वत्सो गोत्रेण संबुद्धो //
तस्यापि योजनानि नव शरीरप्रभा जिनप्रवरस्य / वशिभूतकोटियो चतुस्त्रिंशद् दशबले समनुबद्धाः //
पंचाशं च अभूषि वर्षसहस्राणि आयुःपरिमाणं / मनुजान एवं न विमति कार्या तत्रोपदेशस्मिं //
पार्थिवो चैव नरपती तं कालं आसि दुर्जयो नाम / अपगम्य पुष्पदन्तं वन्दति पादां सपरिवारः //
[_mvu_1.116_] कृतकरपुटो प्रसन्नः नरप्रभो पुष्पदन्तम् इदम् आह / अधिवासयतु मे दशबलो सप्ताहं भोजनविधानं //
अधिवासनं विदित्वा राजास्य दुर्जयर्द्धि बल एव / {सेनर्त्: दुर्जयोर्ध्वबल} छादयति मेदिनितलं सुवर्णपट्टेहि रुचिरेहि //
तत्र रतनामयानि विनिक्षिपति आसनानि चित्राणि / भोजनविधिं च चित्रां स्थापयति सुगन्धिप्रत्यग्रां //
सप्तरतनामयानि छत्राणि नरमरूणां अष्टशतं / धारेन्ति भूषणधरा चित्राभरणधारिणो पुरुषा //
एवं एकैकस्य वशिभूतस्य धारेन्ति हृदिमनो / छत्ररतनं विचित्रं शशिशंखतलोपमं विमलं //
सन्तर्पयित्व राजा सपरिवारं पुष्पसाह्वयं सुगतं / अथ मनसा प्रणिधेति तदा व सो तं अनुप्रणिधिं //
त्वम् इव-म्-अहं संबुद्धो धर्मं प्रकाशयेय नरमरूणां / . . . . . . . . . . . . . . . . . . . . . . . . . . . . द्वात्रिंशल्लक्षणधरो नामेन ललितविक्रमो संबुद्धो / आसि भगवां भवनुदो वासिष्ठगोत्रो धुतकिलेशो //
तस्य च स्वशरीरजाता प्रभा अभू योजनानि त्रिंश दुवे /
[_mvu_1.117_] वशिभूतकोटियो च त्रिंश नरवरस्य परिवारो //
आयुं तदा नराणां वर्षसहस्राणि आसि चतुरशीतिं / राजा च तदा आसी चतुरंगबलो प्रियो मनापो //
प्रासादकोटियो च चत्वारिंशं अनेकरतनानां / कारयति भूमिपालो प्रवरं एकं च प्रासादं //
शय्यासनं च विपुलं कारयते पार्थिवो निरुपवद्यं / भोजनगिलानप्रच्चयम् ऋषियोग्यं सन्निवेशेति //
भगवतो निर्यातित्वा सशिष्यसंघस्य सो अनुप्रणिधिं / प्रणिधेति हृष्टचित्तो राजा पुरतो दशबलस्य //
दुर्लभसदृशो असमः दशबलो च जरामरणविमतिमथनो / भवेयं श्रेष्ठो नरमरुणां कुगणीगणवचनमथनो //
द्वात्रिंशलक्षणधरो भगवां आसी महायशो नाम / गोत्रेण काश्यपो सो विस्तीर्णयशो अमितकीर्तिः //
शरीरभासा तस्य पंचाशं योजनानि पुण्यवतो / वशिभूतकोटियो च तस्यासी पंचपंचाशं //
वर्षसहस्राणि तदा चतुरशीतिं आयुःपरिमाणं /
[_mvu_1.118_] आसि तदा मनुजानां चतुर्गुण एष चतुरशीति //
राजा तदा अभूषी नामेन सो मृगपतिस्वरो नाम / चातुर्द्वीपाधिपतिर् विपुलबलवरो अजितचक्रो //
सो रत्नस्कन्धशाखां वनखण्डां योजनानि षण्णवति / कारापयि भूमिपति प्रवरां वरवस्त्रसंछन्नां //
वैडूर्यमणितलां च कृत्वान वसुधां विभूषणविचित्रां / अगुरुवरधूपगन्धां सुगन्धपुष्पावकीर्णतलां //
तं तत्र वादिसिंहं ऋषभं सो भोजनेन सप्ताहं / तर्पयति भूमिपालो प्रसन्नचित्तो प्रणीतेन //
तं सुरवरवन-उपमं ततो वनं तस्य सत्वसारस्य / निर्यातयति प्रसन्नो दिवाविहारं दशबलस्य //
दत्त्वा स राजा . . . महायशस्य सशिष्यसंघस्य / राजा उदग्रचित्तो प्रणिधेति तदा अनुप्रणिधिं //
बहुजनमहितो स्वयंभु अनन्यनेयो भवेय सर्वज्ञो / कुशलेन हि मे तेन तथागतबलो विभू भोमि //
विपुलबलपुण्यकोशो नयानयज्ञो जिनो रतनचूडो /
[_mvu_1.119_] आसि अभिनीलनेत्रो निरुपमगुणसंचयो धीरो //
तस्य च प्रभा शरीरे योजनशतविस्तरा समन्तेन / भारद्वाजसगोत्रो स सर्वदर्शी तदा आसि //
तस्य संघो आसी नवनवति कोटियी धूतरजानां / वर्षाणां च सहस्राणि चतुराशीतिं तदा आयुं //
राजा तद चक्रवर्ति अभूषि चातुर्द्वीपो महिस्थामो / नामेन मणिविषाणो शासति धर्मेण यो जनतां //
द्वानवति कोटिनयुतां प्रासादानाम् अनेकरूपाणां / कारयति भूमिपालो तं रतनजिनं समुद्दिश्य //
सो प्रवरकाञ्चननिभं नरमरुगणसत्कृतं रतनचूडं / भोजयति सपरिवारं वर्षाणि दश अविश्रामं //
प्रथमदिवसं च सुगतं भोजेत्वा सार्धं शिष्यसंघेन / निर्यातेति नरवरो प्रासादवरां गुणधरस्य //
सो तं दानं दत्वा तस्य महापुद्गलस्य राजवरो / अनुप्रणिधेति प्रणिधिं प्रसन्नचित्तो जिनसकाशं //
उच्छिन्नमोहजालो प्रसन्नचित्तो असंगप्रतिभानो / तारेय्य सर्वजनतां संसारमहार्णवे पतितां //
एवम् एव अप्रमेया पंचम्यां भूमियां पुरुषसिंहाः /
[_mvu_1.120_] प्रत्येकजिना तथापि शैक्षाशैक्षा च जिनपुत्राः //
संपूजिता भगवता इमे तथान्ये तथागताः सर्वे / समुपचित कुशलमूलं अर्थे जगतस्य सर्वस्य //
एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // ये भो जिनपुत्र बोधिसत्वा बोधाये प्रणिधेन्ति ते कतिभिर् आकारैः पञ्चमायां भूमौ वर्तमानाः षष्ठायां भूमौ विवर्तन्ति // एवम् उक्ते आयुष्मान् महाकात्यायनः आयुष्मन्तं महाकाश्यपम् उवाच // चतुर्भि भो जिनपुत्र आकारैर् धुतधर्मधर बोधिसत्वा बोधाये ये प्रणिधेन्ति पंचमायां भूमौ वर्तमानाः षष्ठ्यां भूमौ विवर्तन्ति // कतमेहि चतुर्हि // सम्यक्संबुद्धानुशासने प्रव्रजित्वा योगाचारेहि सार्धं सम्भुवं कुर्वन्ति / अष्टमके धुतवेदनागृद्धा भावना उत्त्रसन्ति / शमथविपश्यनाभावनाबहुलाश् च अभीक्ष्णं विहरन्ति / आलंबणालंबणचित्तं हेतुशो परिकल्पेन्ति // ये हि केचि भो धुतधर्मधर बोधिसत्वा बोधाय प्रणिधेन्तो पंचमायां भूमौ वर्तमाना षष्ठ्यां भूमौ विवर्तन्ति सर्वे ते इमेहि चतुर्हि आकारेहि विवर्तेन्सुः विवर्तन्ति विवर्तिष्यन्ति वा //
इत्य् एषा पंचमी भूमी व्याकृता संनिदर्शिता / तेषां बहुविधपुण्यानां बोधिसत्वान मारिष इति //
_____इति श्रीमहावस्तु-अवदाने पंचमी भूमिः समाप्ता //
[_mvu_1.121_] ततः स्थविरः काश्यपः कात्यायनम् अथाब्रवीत्* / किं चित्तं बोधिसत्वानां पंचमायां विपश्चितां //
ततः कात्यायनस्थविरः मुनिकाश्यपं धुतधर्मधरं गाथयाध्यभाषि //
अल्पास्वादनिबद्धो ऽयं लोकावर्तो ऽतिदारुणः / . . . . . . . . . . . . . . . . . . . जायते //
एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच // क्षेत्रम् इति //
ततः स्थविरः कात्यायनः महाकाश्यपम् अथाब्रवीत्* / श्रूयतां लोकनाथानां क्षेत्रं तत्वार्थनिश्रितं //
उपक्षेत्रं च वक्ष्यामि तेषां परमवादिनां / तानि निशम्य वाक्यानि शासनं च नरवर //
एकषष्टिं त्रिसहस्राणि बुद्धक्षेत्रं परीक्षितं / अतो चतुर्गुणं ज्ञेयम् उपक्षेत्रं तथाविधं //
एवम् उक्ते आयुष्मां महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच // किं पुनर् भो जिनपुत्र सर्वेषु बुद्धक्षेत्रेषु उत्पद्यन्ति सम्यक्संबुद्धा उताहो केषुचिद् एव उत्पद्यन्ति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिः अध्यभाषे //
किंचित् एव भवति अपरिशून्यं [_mvu_1.122_] क्षेत्रम् अप्रतिमरूपधरेहि / क्षेत्रकोटिनयुतानि बहूनि शून्यकानि पुरुषप्रवरेहि //
दुर्लभो हि वरलक्षणधारी दीर्घकालसमुदागतबुद्धी / सर्वधर्मकुशलो अतितेजः सर्वसत्वसुखताधरसत्वो इति //
एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // खलु भो जिनपुत्र को हेतुः कः प्रत्ययः यं एकस्मिं क्षेत्रे द्वौ सम्यक्संबुद्धौ नोपपद्यन्ति इति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिः अध्यभाषते //
यत् कार्यं नरनागेन बुद्धकर्म सुदुःकरं / तत् सर्वं परिपूरेति एषा बुद्धान धर्मता //
असमर्थो यदि सियाद् बुद्धधर्मेषु चक्षुमां / ततो दुवे महात्मानौ उत्पद्येते तथागतौ //
तं चासमर्थसद्भावं वर्जयन्ति महर्षिणां / तस्मात् दुवे न जायन्ते एकक्षेत्रे नरर्षभौ //
न जातु सावशेषेषु बुद्धधर्मेषु श्रुय्यते / निर्वृताः पुरुषश्रेष्ठा अतीताध्वे जिनात्मजा //
[_mvu_1.123_] अनागता अतिक्रान्ता संबुद्धा ये च सांप्रतं / कृतेन बुद्धधर्मेण निर्वायन्ति नरोत्तमा इति //
एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच // कतमानि भो जिनपुत्र सम्प्रति अन्यानि बुद्धक्षेत्राणि यत्रैतर्हि सम्यक्संबुद्धा धर्मं देशयन्तीति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिर् अध्यभाषे //
पुरस्तिमे दिशो भागे बुद्धक्षेत्रं सुनिर्मितं / तत्र मृगपतिस्कन्धो नामेन जिनपुङ्गवः //
पुरस्तिमे दिशो भागे बुद्धक्षेत्रं कृतागदं / तत्र सिंहहनुर् नाम जिनो द्वात्रिंशलक्षणः //
पुरस्तिमे दिशो भागे बुद्धक्षेत्रं विभूषितं / तत्र लोकगुरुर् नाम सर्वदर्शी महामुनिः //
पुरस्तिमे दिशो भागे बुद्धक्षेत्रम् अकण्ठकं / तत्र ज्ञानध्वजो नाम शास्ता शासति प्राणिनां //
पुरस्तिमे दिशो भागे बुद्धक्षेत्रम् अवेक्षितं / तत्र कनकबिम्बाभो जिनो नामेन सुन्दरः //
दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रं द्रुमध्वजं / तत्र अनिहतो नाम संबुद्धो देवनन्दितः //
दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रं मनोरमं / तत्र नामेन संबुद्धो चारुनेत्रो महामुनिः //
[_mvu_1.124_] दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रम् अकर्दमं / तत्र नामेन संबुद्धो मालाधारी विनायकः //
पश्चिमस्मिं दिशो भागे बुद्धक्षेत्रम् अविग्रहं / तत्र नामेन संबुद्धो अम्बरो भवसूदनः //
उत्तरस्मिं दिशो भागे बुद्धक्षेत्रं मनोरमं / तत्र नामेन संबुद्धो पूर्णचन्द्रो विधिश्रुतः //
हेष्टिमस्मिं दिशो भागे बुद्धक्षेत्रं सुनिष्ठितं / तत्र नामेन संबुद्धो दृढबाहुस् तथागतः //
उपरिष्टा दिशो भागे बुद्धक्षेत्रम् अनुद्धृतं / तत्र बुद्धो महाभागो नामेन अरिसूदनः //
बुद्धक्षेत्रसहस्राणि अनेकानि अतः परं / बुद्धक्षेत्रसहस्राणां कोटी न प्रज्ञायते ऽपरा //
बुद्धक्षेत्राणां शून्यानां कोटी न प्रज्ञायते ऽन्तरा / लोकधातूसहस्राणां कोटी न प्रज्ञायते ऽन्तरा //
यथा संसारचक्रस्य पूर्वा कोटी न प्रज्ञायते / तथाइव लोकधातूनां पूर्वा कोटी न प्रज्ञायते //
अतिक्रान्तानां बुद्धानां पूर्वा कोटी न प्रज्ञायते / प्रणिधेन्तान बोधाय पूर्वा कोटी न प्रज्ञायते //
अवैवर्तिकधर्माणां पूर्वा कोटी न प्रज्ञायते / अभिषेकभूमिप्राप्तानां पूर्वा कोटी न प्रज्ञायते //
[_mvu_1.125_] तुषितेषु वसन्तानां पूर्वा कोटी न प्रज्ञायते / तुषितेभ्यश् च्यवन्तानां पूर्वा कोटी न प्रज्ञायते //
मातु कुक्षौ शयन्तानां पूर्वा कोटी न प्रज्ञायते / स्थितानां मातुः कुक्षौ तु पूर्वा कोटी न प्रज्ञायते //
जायमानानां वीराणां पूर्वा कोटी न प्रज्ञायते / जातानां लोकनाथानां पूर्वा कोटी न प्रज्ञायते //
अङ्केषु गृह्यमाणानां पूर्वा कोटी न प्रज्ञायते / पादानि विक्रमन्तानां पूर्वा कोटी न प्रज्ञायते //
महाहासं हसन्तानां पूर्वा कोटी न प्रज्ञायते / दिशां विलोकयन्तानां पूर्वा कोटी न प्रज्ञायते //
अङ्केन धारियन्तानां पूर्वा कोटी न प्रज्ञायते / उपनीयमानानां गन्धर्वैः पूर्वा कोटी न प्रज्ञायते //
पूरेभ्यो निष्क्रमन्तानां पूर्वा कोटी न प्रज्ञायते / बोधिमूलम् उपेन्तानां पूर्वा कोटी न प्रज्ञायते //
प्राप्नुवन्तानां तथागतज्ञानं पूर्वा कोटी न प्रज्ञायते / धर्मचक्रं प्रवर्तेन्तानां पूर्वा कोटी न प्रज्ञायते //
सत्वकोटी विनेन्तानां पूर्वा कोटी न प्रज्ञायते / सिंहनादं नदन्तानां पूर्वा कोटी न प्रज्ञायते //
आयुःसंस्कारं उत्सृजन्तानां पूर्वा कोटी न प्रज्ञायते / निर्वायन्तानां वीराणां पूर्वा कोटी न प्रज्ञायते //
[_mvu_1.126_] निर्वृतानां शयन्तानां पूर्वा कोटी न प्रज्ञायते / ध्यापियन्तानां वीराणां पूर्वा कोटी न प्रज्ञायते //
एवम् एतं यथाभूतं शास्तुपूगं विजानथ / क्वचित् क्वचित् च संबुद्धो बुद्धक्षेत्रेषु दृश्यते //
एवम् उक्ते आयुष्मान् महाकाश्यपो आयुष्मन्तं महाकात्यायनम् उवाच // यदि भो जिनपुत्रा एत्तका सम्यक्संबुद्धा एको च सम्यक्संबुद्धो अपरिमितान् सत्वा परिनिर्वापयति ननु अचिरेण कालेन सर्वसत्वान् परिनिर्वापयिष्यन्ति / एवम् अयं लोकः सर्वेण सर्वशून्यं भविष्यति सर्वसत्वविरहित इति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यप गाथाभिः अध्यभाषे //
समनन्तरसंपूरं शून्यं भवतु सर्वदा / अप्रतिष्ठम् अनालम्बनं निविष्टं भवतु सर्वदा //
यत्तिका पृथिवीधातु सत्वा बहुतरका अतो / पृथग्जना खु निर्दिष्टा तेन परमदर्शिना //
शृण्वतां पुरुषवरस्य शासनं बहुनां कुतः / पर्यन्तो भेष्यति सत्वानाम् इति उक्तं महर्षिणेति //
एवम् उक्ते आयुष्मान् महाकाश्यपो आयुष्मन्तं महाकात्यायनम् उवाच // ये इमे भो
[_mvu_1.127_] जिनपुत्र सत्वा सम्यक्संबोधाये प्रणिधेन्ति ते ते कतिभिर् आकारैः षष्ठ्यायां भूमौ वर्तमानाः सप्तमायां भूमौ विवर्तन्त इति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // दुभि खलु भो धुतधर्मधर आकारैर् बोधिसत्वा बोधाय प्रणिधेन्तो षष्ठ्यायां भूमौ वर्तमानाः सप्तमायां भूमौ विवर्तन्ति // कतमेहि दुभि // संज्ञावेदयितनिरोधसमापत्तियो च स्पृहयन्ति यस्मिंश् च काले सम्यक्संबुद्धा सत्वपरिज्ञया अहं महात्मा शमीकरो त्ति देवतां सत्कृत्य अवहितश्रोता शृण्वन्ति // ये हि केचिद् भो धुतधर्मधर बोधिसत्वाः षष्ठ्यायां भूमौ वर्तमानाः सप्तमायां भूमौ विवर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति वा सर्वे इमेहि दुभि आकारेहि विवर्तन्ति विवर्तेन्सु विवर्तिष्यन्ति इति //
एवं एषा षष्ठी भूमिर् भवति तेषां गुणवराणां / हरिणपतीनां हितान महर्षिणां बोधिसत्वानाम् इति //
_____इति श्रीमहावस्तु-अवदाने षष्ठी भूमिः समाप्ता //
एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // ये इमे भो धुतधर्मधर बोधिसत्वाः अवैवर्तिकाः षष्ठातो भूमितो सप्तमां भूमिं संक्रमन्ति तेषां केवरूपं सन्धिचित्तं भवतीति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिर् अध्यभाषत //
आत्मदमथे प्रवर्तयते चित्तं परममहाजनहितान / यत् सप्तमां भूमि संक्रमन्ति तथा भूमिषु तत्सन्धिचित्तम् इति //
[_mvu_1.128_] एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच // ये इमे भो जिनपुत्र बोधिसत्वा अवैवर्तिकाः ते प्रथमायां भूमौ उपादाय केवरूपेण कायकर्मेण समन्वागता भवन्ति केवरूपेण वाचाकर्मेण समन्वागता भवन्ति केवरूपेण मनकर्मेण समन्वागता भवन्ति केवरूपेण सत्त्वेन समन्वागाता भवन्ति // एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच // ये इमे भो धुतधर्मधर बोधिसत्वा अवैवर्तिकास् तेषां प्रथमां भूमिम् उपादाय इमानि कर्माणि भवन्ति // प्रणातिपातवैरमणं प्राणातिपातवैरमणस्य व वर्णं भाषन्ति तदध्याशयान् भूमिषु सत्वान् प्रशंसन्ति ये न परं च किंचित् पापमित्रसंयोगेन प्राणां जीविताद् व्यपरोपयन्ति // परं सप्तहि भूमीहि तेहि विक्रोशमानेहि सत्वेहि करुणां प्रतिलभित्वा शीलं समादियित्वा राज्यं वा परित्यज्य यद् वा तद् वा ऐश्वर्यं त्यक्त्वा अगारेभ्यो ऽनगारियं प्रव्रजित्वा प्राणातिपातवैरमणस्य बहुलं धर्मं देशयन्ति //
___भूतपूर्वं च भो धुतधर्मधर सप्तमायां भूमौ वर्तमानो अयं परमपुरुषो राजा कुशो नाम बभूव // तस्य देवी अप्रतिमा नाम अभूषी या इयं यशोधरा राहुलशिरिस्य माता // यो चायं एतरहि कलिपुरुषो देवदत्तः सो तदा जठरो नाम प्रदेशराजा बभूव // तां श्रुत्वा देवीम् अप्रतिंआं कामरागो मानसं पर्यादिन्नवां // सो राज्ञः कुशस्य दूतम् अप्रेषये //
देहि अप्रतिमां देवीं मम भार्या भविष्यतीति / अथ न दासि युद्धं ते सज्जं सज्जय वाहनं //
यत् ते व्यवसितं राज तद् अनुप्रेषयस्व मे /
[_mvu_1.129_] अथ नानुप्रेषयसि मे सराज्यो वसम् एष्यसि //
एवं श्रुत्वा कुशो राजा भारियाम् इदम् अब्रवीत्* / शृणोहि देवि जठरस्य वचनं ब्रूहि निश्चयं //
ततो देवी अश्रुवेगं प्रमुंचित्वा राजानं कुशम् उवाच //
भद्र वत अहं छेद्ये अहं भेद्ये नराधिप / त्वया अनतिरिच्चापि शस्त्रेहि पारमिं गता //
जठरस्य शिरं राज पश्य समकूटं मया / छिन्नं रुधिरसंक्लिन्नं तव पादेषु वेष्टतु //
मया तु जन्तुना त्यक्तः सोनाहारीकृतं शरः / जठरस्य भित्त्वा स्वदेहं भूयो भेत्स्यति मेदिनीं //
अश्वपृष्ठे रथे स्कन्धे वारणस्य कृतं मया / योधनरवराग्रे च जठरस्यान्तं कृतं महं //
अहं मन्त्रे अहं सन्ध्या अहं वचनकर्तृमे / अघात्यम् अपि घातये हेतुभिः कारणैः तथा //
द्वाभ्यांश् च परिमोक्षेयं अहम् एव निरोपम / मम माया ह्य् असंख्येया लोकः तृणमयो मम //
[_mvu_1.130_] गन्धमाल्यधरो राजा प्रासादतलगोचरः / स्त्रीसहस्रांकम् आसृत्य यथा च निरुत्सुको सिया इति //
अथ भो जिनपुत्र देवी अप्रतिमा तथारूपं उपायम् आदेशयि येनोपायेन राजा जठरो विश्वस्त अन्तःपुरं राज्ञः कुशस्य प्रविशि वशम् उपागतो देव्या अप्रतिमाया // अथ सा देवी अप्रतिमा राज्ञो जठरस्य हृदये पदं दक्षिणं कृत्वा सव्यं पादं गुल्फे प्रतिष्ठाप्य श्लोकान् इमान् अगासि //
यां पुष्पितां वनलतां भ्रमराः पिबन्ति पुष्पागमे कुसुमरेणुविचित्रपक्षा / नैव त्वया कुपुरुष श्रुतपूर्वरूपं नात्रापरे मधुकराः प्रणयं करोन्ति //
यां पद्मिनीं वनगजो अरुहे कदाचित्* पंके जलप्रलुलितां मदनातुराङ्गः / नैव त्वया कुपुरुष श्रुतपूर्वरूपं नात्रापरे वनगजाः प्रणयं करोन्ति //
या भूमिपालमहितस्य उरे वितीर्णा मुक्ताकलाप इव संरमते निशायां / कमलां तुवं व्यवसितो अनवद्यगात्रीं प्राप्तुं महीतलगतो इव पूर्णचन्द्रम् इति //
[_mvu_1.131_] अथ खलु भो धुतधर्मधर राजा जठरो तस्मिं काले विक्रोशति // प्रसीद देवि शरणं प्रयच्छथेति // तां देवीम् अप्रतिमां कुशो राजा उवाच //
अभयं ददाहि देवी कापुरुषस्य शरणं उपगतस्य / तस्य कृतांजलिपुटस्य यावं एषु हि सतां धर्म इति //
भूतपूर्वं भो धुतधर्मधर एषो भगवान् उग्रो नाम नागराजा अहितुण्डिकेन मन्त्रौषधिबलैर् वशनीतः सम्बाधम् आपन्नो बभूव // सो च प्रमादात्* अहितुण्डिको भ्रष्टमन्त्रो बभूव // अथ तस्य उग्रस्य नागराज्ञो एतद् अभवत्* // प्राप्यो खल्व् अयं मम कापुरुषो भस्मीकर्तुम् इति / अपि तु नैतद् अस्माकम् अनुरूपं धर्मरक्षानुरक्तानाम् इति // श्लोकान् उवाच //
यो पि तुवं मम प्राप्यो भस्मीकर्तुं स्वतेजसा / भ्रष्टमन्त्रस्य ते देमि अभयं जीव मे चिरम् इति //
भूतपूर्वं भो धुतधर्मधर एष एव भगवान् सिंहो मृगराजा एष चायं कुपुरुषदेवदत्तो लुब्धको बभूव // अथैनं सिंहयोग्यावस्थोपवने वनविचारिं एकचरं उपासीनं विश्वस्तं निर्विचेष्टं निर्वृतम् अपरिपश्यन्तं पूर्वाशयोपचितबद्धवैरः लुब्धको दिग्धेषुणा अविद्ध // सो च विद्धः स्तिमितो गम्भीरधैर्योपपन्नः स्वबले पर्यवस्थितः असन्त्रस्त
[_mvu_1.132_] ईषदुन्नतशिरोधरो तदा तम् असत्पुरुषं भीतं लयनम् उपगतं निशाम्य चिन्ताम् आपन्नः // प्राप्यो खल्व् अयं मम अधमपुरुषो गिरिशिखरगुहावृक्षरसातलगतो पि हन्तुं / अपि तु न वैरेण वैराणि शाम्यन्ते इति कृत्वा इमं श्लोकम् उवाच //
विषलिप्तेन विद्धो ऽहं शरेण मर्मघातिना / अद्यैवं न भवेत् तस्य भीतस्य नास्ति ते भयम् इति //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
