Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 10/24

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

महावस्तु-अवादन

Thông tin
GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

___कुमारो पुनर्निवर्तित्वा गृहं प्रविष्टो // राजा शुद्धोदनो अमात्यां पृच्छति // भो भणे किं कुमारो पुनर् निवृत्तो उद्यानभूमिं न निर्गतो // अमात्या आहन्सुः // महाराज कुमारो जीर्णो पुरुषं दृष्ट्वा निर्यातो न भूयो उद्यानभूमिं निर्गतो // राज्ञो भवति / मा हैव यथा असितेन ऋषिणा कुमारो व्याकृतो तथा भविष्यति // राज्ञा कुमारस्य अन्तःपुरं संदिष्टं / सुष्टु कुमारं क्रीडापेथ रमापेथ प्रविचारापेथ नाट्येहि गीतेहि वादितेहि यथा कुमारो गृहे अभिरमेया // यथा देवलोके एवं कुमारस्य एवंरूपा अन्तःपुरे संगीति वर्तन्ति / न च कुमारस्य संगीतिषु मनं गच्छति / तम् एव जीर्णं पुरुषं स्मरति //

___अपरकालेन कुमारो आह // उद्यानभूमिं निर्धाविष्यामीति // राजा आह // मानापिकानि रूपशब्दानि उपस्थापेथ यथा कुमारो उद्यानभूमिं अभिनिष्क्रमन्तो न किंचिद् अमनापं पश्येय // एवं राज्ञो वचनमात्रेण अमात्येहि याव च राजकुलं

[_mvu_2.152_] यावच् च तां कुमारस्य उद्यानभूमिं यथाणत्तं मार्गं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिता यथा उद्यानभूमिं निर्यान्तस्य पुरतो न क्वचिज् जीर्णो वा वृद्धो वा व्याधितो वा काणो वा खाडो वा द्रदुरो वा कण्डूलो वा कच्छुलो वा विचर्चिको वा अन्यो वा किंचिद् अमनापं कुमारस्य उद्यानभूमिम् अभिनिष्क्रमन्तस्य पुरतो न तिष्ठेया // एवं कुमारो महारहेण सप्तरत्नचित्रेण यानेन महता राजानुभावेन महता राज-ऋद्धीये महतीये विभूषाये उद्यानभूमिं निर्यान्तस्य राजपुरुषा वामदक्षिणेन उत्सारणां कारयन्ता गच्छन्ति यथा कुमारो न केनचिद् अमनापं पश्येया // एवं कुमारो मानापिकानि रूपाणि पश्यन्तो मानापिकानि शब्दानि शृण्वन्तो मानापिकानि गन्धानि घ्रायन्तो उभयतो वामदक्षिणेन अंजलिशतसहस्राणि प्रतीछन्तो विविधानि च पुष्पवर्षाणि संप्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्धावन्तस्य घटिकारेण च कुम्भकारेण शुद्धावासदेवपुत्रभूतेन तथा अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि व्याधितो पुरतो अभिनिर्मितो शूनहस्तपादो शूनेन मुखेन पीतपाण्डुवर्णो दकोदरिको नाभीये दकधाराये प्रवहन्तीये मक्षिकासस्रेहि खाद्यमाना अद्राक्षणीयो संवेगकारको // बोधिसत्वो तं दृष्ट्वा सारथिं पृच्छति / भो भणे सारथि किम् इमो पुरुषो एवं प्रतिकूलो पीतपाण्डुकवर्णो शूनहस्तपादो भिन्नमुखवर्णो नाभीये दकधाराये श्रवन्तीये मक्षिकासहस्रेहि खाद्यति // सारथि आह // कुमार किन् ते एतेन पृच्छितेन एषो पुरुषो व्याधिना परिगतशरीरो गच्छाम उद्यानभूमिन् तहिं देव क्रीडाहि रमाहि प्रविचारेहि // कुमारो आह // भो भण सारथि वयम् अपि व्याधिधर्मा व्याधिधर्मतायाम् अनतीता // यत्र नाम जातस्य जरा प्रज्ञायति व्याधि च प्रज्ञायति अत्र पण्डितस्य का रतिः / रूपस्य

[_mvu_2.153_] व्यसनं बलस्य मथनं सर्वेन्द्रियाणां वधः शोकानां प्रभवो रतिव्युपसमो चित्ताश्रयाणां निधि धर्मस्योपशमः गात्राश्रितानां गृहं यो लोकं पिबते वपुश् च ग्रसति व्याधिस्य को नोद्विजेत्* // कुमारो आह // सारथि निवर्तेहि रथं अलं मे उद्यानगमनाये // कुमारो पुनः निवर्तित्वा गृहं प्रविष्टः // राजा शुद्धोदनो अमात्यां पृच्छति // भो भणे किं कुमारो निवृत्तो उद्यानभूमिं न निर्गतो // अमात्या आहन्सुः // महाराज कुमारो व्याधितं पुरुषं दृष्ट्वा निवृत्तो न भूयो उद्यानभूमिं निर्गतो // राज्ञो भवति // मा हेवं यथा असितेन ऋषिणा कुमारो व्याकृतो तथा भविष्यति // राज्ञा कुमारस्य अन्तःपुरं संदिष्टं // सुष्टु कुमारं क्रीडापेथ रामापेथ नाट्येहि गीतेहि वादितेहि यथा कुमारो गृहे अभिरमेया // एवं कुमारस्य यथा देवलोके एवंरूपा अन्तःपुरे संगीति वर्तन्ति / न च कुमारस्य संगीतिषु मनं गच्छति तम् एव जीर्णं च व्याधितं च पुरुषं समनुस्मरति //

___अपरकालेन कुमारो भूयो पितरम् आपृच्छति / तात उद्यानभूमिं निर्यास्यामि दर्शनाये // राज्ञा अमात्यानाम् आणत्ति दिन्ना / कुमारो उद्यानभूमिं निर्यास्यति उद्यानभूमिम् अलंकारापेथ मार्गं प्रतिजागरेथ नगरं च अलंकारापेथ यावच् च राजकुलं यावच् च राजकुमारस्य उद्यानभूमिं सिक्तसंसृष्टं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु च पुष्पयन्त्राणि नटनर्तक-ऋल्लमल्लपाणिस्वर्याकुम्भतूणिका मानापिकानि च रूपानि शब्दानि गन्धानि उपस्थापेथ यथा कुमारो उद्यानभूमिं निर्यान्तो न किंचिद् अमनापं पश्येया जीर्णं व्याधितं वा काणं वा खोडं वा दद्रुरं वा कण्डूलं वा कच्छुलं वा अन्धं वा गिलानं वा // यथा कुमारो न किंचिद् अमनापं प्श्येया तथा करोथ // वचनमात्रेण च राज्ञो

[_mvu_2.154_] अमात्येहि यथाणत्तं प्रतिजाग्रितं वामदक्षिणतो च पुरुषाः स्थापिता ये जनस्य उत्सारणां करोन्ति यथा कुमारो उद्यानभूमिं निर्यान्तो न किंचिद् अमनापं पश्येया // एवं कुमारो सप्तरत्नचित्रेण यानेन विततवितानेन ओसक्तपट्टदामकलापेन हेमजालसंछन्नेन सवैजयन्तेन सनन्दीघोषेण सखुरप्रवालेन उच्छ्रितध्वजपताकेन सामात्यपरिजनो महता राजानुभावेन महता राज-ऋद्धीये महतीये विभूषाये महता समुदयेन उभयतो वामदक्षिणेन अंजलिशतसहस्राणि संप्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्याति / घटिकारेण च कुम्भकारेण शुद्धावासदेवपुत्रभूतेन अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि मृतको पुरुषो कुमारस्य पुरतो निर्मितो मञ्चके समारोपितो पुरुषेहि नीयते ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि परिकीर्णकेशेहि उरं पीडेन्तेहि करणं प्रलपन्तेहि // कुमारो तं दृष्ट्वा सारथिं पृच्छति // भो भणे सारथि किम् इदं पुरुषो मञ्चकम् आरोपितो विनीयते ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि // सारथि आह // कुमार एषो पुरुषो मृतो ज्ञातीहि मञ्चकम् आरोप्य अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि श्मशानं नीयति // कुमारो आह // भो भणे एष सारथि भूयो पुरुषो पितरं वा मातरं वा भ्रातरं वा भगिनीं वा ज्ञातिमित्रसालोहितं वा चित्रं वा जंबुद्वीपं पश्यति // सारथि आह // आम कुमार न एष भूयो पुरुषो मातरं वा द्रक्ष्यति पितरं वा भ्रातरं वा भगिनीं वा मित्रज्ञातिसालोहितं वा चित्रं वा जम्बुद्वीपं // कुमारो आह //

मरणं तव मम च तुल्यं नैव शत्रुः न बन्धु ऋतु यथ परिवर्तते दुर्जयं दुर्विनीतं //

[_mvu_2.155_] न गणयति कुलीनं न नीचं न नाथवन्तं दिनकर इव निर्भीतो अत्र मार्गेण याति //

सारथि आह //

कामां संपत्तिं राजलक्ष्मीं रतिं श्रीं एतां पृच्छाहि सर्वलोकप्रधानां //

किं तुह्यं रौद्रं रोगसंतापमूलं मृत्युं तं दृष्ट्वा यो विनाशो नराणां //

बोधिसत्वो आह //

जीर्णातुरं मृतं दृष्ट्वा यो नोद्विजति संसारे / शोचेतव्यः स दुर्मेधा अन्धो ध्वनि यथा नष्टः //

कुमारो आह // भो भणे सारथि वयम् अपि मरणधर्मा मरणधर्मतायै अनतीता / यत्र नाम जातस्य व्याधि प्रज्ञायति मरणः प्रज्ञायति अत्र पण्डितस्य का रतिः / निवर्तेहि रथं मे उद्यानभूमिगमनाये // कुमारो ततो एवं प्रतिनिवर्तित्वा पुनः गृहं गतो // राजा शुद्धोदनो अमात्यानां पृच्छति / किं कुमारो भूयो प्रतिनिवर्तितः न उद्यानभूमिं निर्गतो // अमात्या आहन्सुः // देव कुमारेण मृतको पुरुषो मंचके समारोपितो ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि आर्तस्वरं रवन्तेहि श्मशानं नीयन्तो दृष्टो / तस्य दृष्ट्वा संवेगो जातं / ततः एव प्रतिनिवृत्तो // राज्ञो शुद्धोदनस्य एतद् अभूषि // मा हैवं निमित्तकानां ब्राह्मणानां सत्यवचनं भविष्यति ये ते एवम् आहन्सुः / प्रव्रजिष्यति कुमारो // राज्ञा दानि कुमारस्य अन्तःपुरं दूतो प्रेषितो / वर्षवरा कंचुकीया च सुष्टु कुमारं

[_mvu_2.156_] क्रीडापेथ नृत्यगीतवादितेन यथा कुमारो अभिरमेया // ते दानि अन्तःपुरिका कुमारं सुष्टु अभिरमेन्ति नृत्येहि गीतेहि वादितेहि न च कुमारस्य अत्र चित्तं वा मनो वा नान्यत्र तां जीर्णान् आतुरान् मृतां स्मरति //

___कुमारो भूयः अपरकालेन पितरम् आपृच्छति / तात उद्यानभूम्यां निर्यास्यामि दर्शनाये // राजा आह // यस्य कुमार कालं मन्यसे // राज्ञा अमात्यानाम् आणत्तं / उद्यानस्य भूमिम् अलंकारापेथ नन्दनवनममिव देवराजस्य नगरं च अलंकारापेथ यावच् च राजकुलं यावच् च राजकुमारस्य उद्यानभूमिं सिक्तसन्सृष्टं कापापेथ विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु च पुष्पयन्त्राणि धूपयन्त्राणि नटनर्तक-ऋल्लमल्लपाणिस्वर्याकुम्भतूणिकं प्रतिजागरापेथ मानापिका पि च रूपशब्दगन्धां यथा कुमारो कपिलवस्तुतो उद्यानभूमिं निर्यान्तो न किंचिद् अमनापं पश्येया जीर्णं वा व्याधितं वा मृतं वा अन्धं वा काणं वा खोडं वा दद्रुरं वा कण्डूलं वा कच्छुलं वा विचर्चिकं वा तथा करोथ // अमात्येहि आणत्तमात्रेहि यथा राज्ञो संदेशो तथा सर्वं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिताः यथा कुमारो कपिलवस्तुतो उद्यानभूमिं निर्यान्तो न किंचिद् अमनापं पश्येया // कुमारो पि दानि सप्तरत्नचित्रेण यानेन हेमजालप्रतिच्छन्नेन स्वलंकृतेन सुविभूषितेन सवैजयन्तीकेन सनन्दिघोषेण सखुरप्रवालेन उच्छ्रितध्वजपताकेन सामात्यो सपरिजनो महता राजनुभावेन महता राज-ऋद्धीये महता वियूहाये महता संवृद्धिये महता विभूषाये कपिलवस्तुतो उद्यानभूमिं निर्यातो // निर्यान्तस्य घटिकारेण कुम्भकारेण शुद्धावासकायदेवपुत्रभूतेन अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि कुमारस्य

[_mvu_2.157_] पुरतो प्रव्रजितो निर्मितो काषायाम्बरधरो प्रशान्तेन्द्रियो इरियापथसंपन्नो युगमात्रप्रेक्षमाणो जनसहस्रे कपिलराजमार्गे // सो दानि प्रव्रजितो कुमारेण दृष्टो दृष्ट्वा च पुनर् अस्य मनो प्रसीदे / अहो प्रव्रजितस्य प्रज्ञानं // कुमारो तं प्रव्रजितं दृष्ट्वा पृच्छति // आर्य किमर्थं सो प्रव्रजितो // प्रव्रजितो आह // कुमार आत्मदमशमथपरिनिर्वाणार्थं प्रव्रजितो // कुमारो तं प्रव्रजितस्य वचनं श्रुत्वा प्रीतो संवृत्तो // कुमारो आह // प्रव्रजितो खलु नाम कषायपटावलम्बितप्रकर्षी वितीर्णो जनविकीर्णे ऐन्द्रमार्गे / भूरिकमलरजावकीर्णगात्रो शरवने यथ एकचक्रवाकः //

मृगी शाक्यकन्या आनन्दस्य माता / सा कुमारं तादृशीये लक्ष्मीये तादृशाये विभूषाये कपिलवस्तुतो निर्यान्तं दृष्ट्वा गाथाहि कुमारं अभिस्तवति //

निर्वृत खलु ते माता पिता पुनः ते निर्वृतो / निर्वृता पुनः सा नारी यस्य भर्ता भविष्यसि //

बोधिसत्वस्य निर्वाणशब्दं श्रुत्वा निर्वाणस्मिं एव मनं प्रसीदे तिष्ठे संप्रस्कन्दे //

निर्वाणघोषं श्रुत्वान निर्वाणे श्रोत्रम् आददे / निर्वाणम् अनुत्तरं दृष्ट्वा ध्यायते अकुतोभयं //

कुमारेण तं निर्वाणं ध्यायन्तेन मृगी शाक्यकन्या नावलोकिता नाभाष्टा // तस्या दानि मृगीशाक्यकन्याये दौर्मनस्यं संजातं // एत्तकस्य जनकायस्य मध्यतो मया कुमारो अभिस्तुतो न चानेन अहम् अवलोकितापि //

___शुद्धोदनेन राजकुमारस्य षड्वालको नाम द्वारो कारापितो पंचपुरुषशतेहि

[_mvu_2.158_] अपावुरीयति // तस्य अपावुरीयन्तस्य समन्तायोजनं शब्दो गच्छति // पंच राजान शतानि नगरं परिवारेत्वा स्थिता // राजा अभिषेके भाण्डा कारापेति / पुष्यनक्षत्रे कुमारम् अभिषिंचिष्यं // बोधिसत्वस्यापि एवं भवति / पुष्यनक्षत्रे अभिनिष्क्रमिष्यन्ति // शुद्धावासा देवा बोधिसत्वम् आहन्सुः // काले सि महापुरुष तुषितकायाच् च्युतो काले सि मातुः कुक्षिं ओक्रान्तो काले सि जातो कालो च ते अभिनिष्क्रमितुं कालनिर्नामसम्पन्नो चासि महापुरुष / बहु त्वां जनता अभिकांक्षन्ति कर्षका विय उदकपरीक्षया महामेघां // ईश्वरो देवपुत्रो गाथां भाषति //

सम्यग्वितर्कय बोधिसत्वैवं वितर्कयन्ति विद्वांसः / उत्पन्न ते कुशलस्य मूला यथा वितर्कयसि सप्रज्ञ //

महेश्वरो गाथां भाषति //

अभिनिष्क्रम महावीर अभिनिष्क्रम महामुने / सर्वलोकस्य अर्थाये बुध्याहि अमृतं पदं //

महाब्रह्मा आह // सचे द्य महापुरुष नाभिनिष्क्रमिष्यसि सप्तमे दिवसे सप्तरत्नानि प्रादुर्भाविष्यन्ति राजा त्वं भविष्यसि चक्रवर्ती चातुर्द्विपो विजितावि धार्मिको धर्मराजा सप्तरत्नसमन्वागतो / नभतो इमानि सप्त रत्नमयानि प्रादुर्भवन्ति सय्यथीदं चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नं एवं सप्तमं / पूरं च ते भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां वराणां // सो इमां चत्वारि महाद्वीपां सय्यथीदं जम्बुद्वीपं पूर्वविदेहं अपरगोदानिकं

[_mvu_2.159_] उत्तरकुरुं सागरगिरिपर्यन्तां अखिलां अकण्टकां अदण्डेन अशस्त्रेण अनुत्पीडेन धर्मेण अभिविजिनित्वा अध्यावसिष्यसि //

___राहुलो तुषितभवनाच् च्यवित्वा मातुः कुक्षिम् ओक्रमे अर्धरात्रे समये // बोधिसत्वो प्रतिबुद्धो पश्यति अन्तःपुरम् ओसुप्तं काचिद् वीणाम् उपगुह्य काचिद् वेणु काचिन् नकुलं काचित् सुघोषं काचित् तूणकं काचिच् चन्दीसकं काचित् सम्भारिकां काचित्* महतीं काचिद् विपंचिकां काचिद् ढक्कपटहं काचिद् वल्लकिं काचित्* मृदंगं काचित्* मुकुन्दं काचित् पणवं काचिद्* झर्झरकं काचिद् आलिंगं काचित् परिवादिनीं काचिद् गले हस्तं कृत्वा काचित्* मृदंगं शीर्षे कृत्वा काचित् परस्परस्य उत्संगे शीर्षं कृत्वा काचित् परस्परस्य अंशे बाहां कृत्वा काचित् परस्परस्य उपगृह्य काचिद् वामदक्षिणातो विक्षिप्तगात्रा कासांचित्* मुखातो लाला श्रवति // बोधिसत्वस्य एवं धरणीगतम् अन्तःपुरं प्रतिकण्ठं दृष्ट्वा अन्तेपुरे श्मशानसंज्ञा उत्पन्ना // बोधिसत्वेन पर्यङ्कातो उत्थिहित्वा कशिकसूक्ष्माणि प्रावृतानि करण्डकातो गृह्य छन्दको च नं उपस्थापको उपस्थापितो // उपनामेहि मे छन्दक अश्वं कण्ठकं // छन्दक आह // कुमार अर्धरात्रे समयो किं इमस्मिं देशकाले अश्वकार्यं // वैश्रवणभवनसदृशो वेश्मो अभिरम किं ते अश्वकार्यं इमं देशकालं / अप्सरगणसन्निभं अन्तःपुरं अभिरम किन् ते अश्वकार्यं // एवम् इदानीं बहुप्रकारं छन्दको आलपति / कुमार नायम् अश्वकालो

[_mvu_2.160_] राजारहेहि कुमार शयनेहि इमं शयनकालं किं इदानीम् अश्वकार्यं // कुमारो आह // छन्दक इदानीं मे अश्वकार्यं उपनामेहि मे कण्ठकं // छन्दकस्य भवति / यथा कुमारो इमस्मिं देशकाले कण्ठकं सुखप्रसुप्तस्य जनस्य नूनं कुमारो अभिनिष्क्रमितुकामो // तेन दानि कण्ठकं पल्लानयन्तेन उच्चेन स्वरेण आरावं मुक्तं यथा राजा बुध्येय जनो च सर्वो कपिलवस्तुस्मिं / छन्दकस्वरेण न दानि ततः कोचिद् विबुध्यति / देवेहि सर्वस्य जनस्य आभ्यन्तरस्य बाहिरस्य ओसोपनं कृतं / कण्ठकेनापि बोधिसत्वस्य उपनामयन्तेन उच्चेन स्वरेण हीषितं मम हीषणशब्देन राजा शुद्धोदनो विबुद्धिष्यति जनकायो च तेन समन्तायोजनं स्वरेण अभिविज्ञापितं न कोचिद् विबुध्यति // देवकोटिसहस्रियो कपिलवस्तुं समागताः गन्धमाल्यम् आदाय बोधिसत्वस्य अभिनिष्क्रमन्तस्य पूजार्थं //

___बोधिसत्वो कण्ठकं हयराजं आरूढो देवसहस्रेहि च नभगतेहि पुष्पवर्षं ओसृष्टं मण्डरवाणि महामण्डरवाणि कर्कारवाणि महाकर्कारवाणि रोचमानानि महारोचमानानि मंजूषकाणि महामंजूषकाणि भीष्माणि महाभीष्माणि समन्तगन्धानि महासमन्तगन्धानि पारिजातकानि दिव्यानि सुवर्णपुष्पाणि दिव्यानि रूप्यपुष्पाणि दिव्यानि रत्नपुष्पाणि दिव्यानि चन्दनचूर्णानि दिव्यानि अगुरुचूर्णानि दिव्यानि केशरचूर्णानि दिव्यानि तमालपत्रचूर्णानि दिव्यानि च गन्धोदकशीतलानि कपिलवस्तुनः समन्तेन षष्टि योजनानि जानुमात्रं दिव्यं कुसुमौघं संवृत्तं समन्ताच् च षष्टि योजनानि दिव्यगन्धोदकेन कर्दमं संवृत्तं अभवत्* रुतानि च दिव्यानि कोटिसहस्रनियुता संप्रवाद्येन्सुः दिव्यानि च संगीति निर्वर्तेन्सुः अप्सरसहस्राणि च प्रणद्येन्सुः

[_mvu_2.161_] च गायेन्सु च / चतुर्हि महाराजेहि कण्ठकस्य पादा गृहीता // कण्ठकजातानुगामी अनुश्रोत्रं पेलवको च निष्क्रान्तो यदि न समजवो तेन भवामि // छन्दकसहजो सुप्रतिष्ठितो नाम यक्षो पंचशतपरिवारो / तेन षड्वालकद्वारम् अपावृतं घोषं च निगृहीतं //

___अथ बोधिसत्वो महान्तं हस्तिकायं अवहाय अगाराद् अनगारियम् अभिनिष्क्रामति महान्तं पत्तिकायम् अवहाय महान्तं भोगस्कन्धम् अवहाय महान्तम् ऐश्वर्यम् अवहाय महान्तं ज्ञातिवर्गम् अवहाय अगाराद् अनगारियम् अभिनिष्क्रमति // बोधिसव्तो जातीये अर्त्तीयन्तो जातिसमतिक्रमणं मार्गम् अधिगमनार्थं अगाराद् अनगारियम् अभिनिष्क्रमति / [महान्तम् अश्वपत्तिकायम् अवहाय महान्तं रथकायम् अवहाय महान्तं पत्तिकायम् अवहाय महान्तं भोगस्कन्धम् अवहाय महान्तम् ऐश्वर्यम् अवहाय महान्तं ज्ञातिवर्गम् अवहाय अगाराद् अनगारियं अभिनिष्क्रमति] // बोधिसत्वो [जातीये अर्त्तीयन्तो] मरणेन अर्त्तीयन्तो मरणसमतिक्रमणं मार्गम् अधिगमनार्थाय अगाराद् अनगारियम् अभिनिष्क्रमति // शोकेहि अर्त्तीयन्तो उपायासेहि अर्त्तीयन्तो उपायाससमतिक्रमणं मार्गम् अधिगमनार्थं अगाराद् अनगारियम् अभिनिष्क्रामति // न खलु पुनर् भिक्षवः बोधिसत्वो परिजुञ्ञेन परिजूर्णो अगाराद् अनगारियम् अभिनिष्क्रमति / अथ खलु भिक्षवः बोधिसत्वो अग्रेण परमेण यौवनेन समन्वागतः अगाराद् अनगारियम् अभिनिष्क्रमति // न खलु भिक्षवः बोधिसत्वो व्याधिपरिजुञ्ञेन परिजूर्णो अगाराद् अनगारियं अभिनिष्क्रमति / अथ खलु भिक्षवः बोधिसत्वो अग्रेण परमेण आरोग्येन समन्वागतो अगाराद् अनगारियं अभिनिष्क्रमति // न खलु पुनर् भिक्षवः भोगपरिजुञ्ञेन परिजूर्णो

[_mvu_2.162_] अगाराद् अनगारियं अभिनिष्क्रमति / अथ खलु भिक्षवः बोधिसत्वो महान्तं भोगस्कन्धम् अवहाय अगाराद् अनगारियं अभिनिष्क्रमति // न खलु पुनर् भिक्षवः बोधिसत्वो ज्ञातिपरिजुञ्ञेन परिजूर्णो अगाराद् अनगारियं अभिनिष्क्रमति / अथ खलु भिक्षवः बोधिसत्वो महान्तं ज्ञातिवर्गम् अवहाय अगाराद् अनगारियं अभिनिष्क्रामति //

___शैलाः संधूयेन्सुः सलिला ललेन्सुः सागरो च निरामितो क्षुभ्ये देवा च दिव्यं चन्दनचूर्णम् ओकिरेन्सुः / दिव्यानि अगुरुचूर्णानि दिव्यानि केशरचूर्णानि दिव्यानि तमालपत्रचूर्णानि दिव्यानि मुक्तपुष्पवर्षाणि ओकिरेन्सुः // इयं महापृथिवी अतीव षड्विकारं कंपे प्रकम्पे संप्रकम्पे बोधिसत्वस्यैव तेजेन अप्रमेयस्य च उदारस्य च महतो ओभासस्य लोके प्रादुर्भावो अभूषि / या पि ता लोकान्तरिकाः अन्धकारा अन्धकारार्पिता तमिस्रा तमिस्रार्पिता अघा असंविदितपूर्वा यत्र इमे चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभूणन्ति आलोकेन वा आलोकं न स्फरन्ति ता पि च तेन ओभासेन स्फुटा अभून्सुः / ये पि तत्र सत्वा उपपन्नाः ते पि अन्योन्यं संजानेन्सुः / अन्ये पि किल भो इह सत्वा उपपन्ना / एकान्तसुखसमर्पिता च पुनस् तत्क्षणं तन्मुहूर्तं सर्वसत्वा अभून्सुः // ये पि तत्र अवीचिस्मिं महानरके उपपन्नाः अतिक्रम्यैवं देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं / ध्यामानि च अभून्सुः मारभवनानि निष्प्रभानि निस्तेजानि निरभिरम्यानि // क्रोशिकान्य् अप्य् अत्र खण्डानि प्रपतेन्सुः द्विक्रोशिकान्य् अत्र खण्डानि प्रपतेन्सुः त्रिक्रोशिकान्य् अप्य् अत्र खण्डानि प्रपतेन्सुः योजनकान्य् अप्य् अत्र खण्डानि प्रपवेन्सुः /

[_mvu_2.163_] ध्वजाग्राण्य् अपि चात्र प्रपतेन्सुः / मारो च पापीमां दुःखी दुर्मना विप्रतिसारी अन्तशल्यपरिदाघजातो अभूषि //

___बोधिसत्वो खलु पुनः भिक्षवो अभिनिष्क्रमन्ते अतीव पुरिमा दिशा परिशुद्धा पर्यवदाता अभूषि / अतीव दक्षिणा दिशा परिशुद्धा पर्यवदाता अभूषि / अतीव पश्चिमा दिशा परिशुद्धा पर्यवदाता अभूषि / अतीव उत्तरा दिशा परिशुद्धा पर्यवदाता अभूषि / अतीव हेष्टिमा दिशा अतीवोपरिमा दिशा परिशुद्धा पर्यवदाता अभूषि // अतीव चन्द्रमसूर्याणाम् उद्गमनानि परिशुद्धानि पर्यवदातानि अभून्सुः अतीव पथगमनानि अतीव ओगमनानि परिशुद्धानि पर्यवदातानि अभूषि // अतीव नक्षत्राणि परिशुद्धानि पर्यवदातानि अभूषि / अतीव तारकरूपाणि परिशुद्धानि पर्यवदातानि अभूषि // अतीव चातुर्महाराजिकानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभूषि / अतीव त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीणां परनिर्मितवसवर्तिनां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभूषि // अतीव मारभवनानि ध्यामानि अभून्सुः / दुर्वर्णा निष्प्रभाणि ध्वजाग्राणि मारकायिकानां देवानां मारो च पापीमां दुःखी दुर्मनो विप्रतिसारी ध्यामन्तवर्णो अन्तोशल्यपरिदाघजातो // ब्रह्मकायिकानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभून्सुः / शुद्धावासानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभून्सुः / एवं च तेषु शुद्धावासेषु देवेषु परीत्ताभानां सम्यक्संबुद्धानां अधिष्ठितानि चंक्रमा निषद्यानि शय्यानि तानि पि अतीव परिशुद्धानि अभून्सुः पर्यवदाता // शुद्धावासा देवा अतीव हृष्टा अभूषि उदग्रा प्रमुदिता प्रीतिसौमनस्यजाता // बोधिसत्वे खलु पुनर् भिक्षवः अभिनिष्क्रमन्ते यावता नागानाम् अधिपतयो नागराजानो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका

[_mvu_2.164_] वा ते महतीं चतुरंगिनीं सेनाम् अभिनिर्मिणित्वा महान्तं हस्तिकायं अश्वकायं रथकायं पत्तिकयम् अभिनिर्मिणित्वा बोधिसत्वम् एव पुरस्करेन्सुः अगाराद् अनगारियं प्रव्रजितुं // बोधिसत्वे खलु पुनर् भिक्षवः अभिनिष्क्रमन्ते यावता सुवर्णाधिपतयो सुवर्णराजानो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते महतीं चतुरंगिनीं सेनां अभिनिर्मिणित्वा महान्तं हस्तिकायं अश्वकायं रथकायं पत्तिकायं अभिनिर्मिणित्वा बोधिसत्वम् एव पुरस्करेन्सुः // नगरदेवता बोधिसत्वस्य गच्छतः पुरतः स्थित्वा दीनमना आह //

नाग नाग अवलोकयाहि मे सिंह सिंह अवलोकयाहि मे //

सत्वसार अवलोकयाहि मे सार्थवाह अवलोकयाहि मे //

कपिलाह्वयातो निर्गम्य अवलोकिय पुरवरं पुरुषसिंहो शाक्यकुलानन्दजननो इमां गिराम् अभ्युदीरयति //

अपि नरकं प्रपतेयं विषं च खादेतुं भोजनं भुंजे //

न तु पुनर् इह प्रविश्य अप्राप्य जरामरणपारं //

अयं भिक्षवः बोधिसत्वस्य अभिनिष्क्रमणसम्पदा //

___बोधिसत्वो देवसहस्रेहि चतुर्हि च महाराजेहि संप्रतिगृहीतो कपिलवस्तुतो दक्षिणेन द्वादश योजनानि नीतो मल्लविषयं अनोमियं नाम अधिष्ठानं वशिष्ठस्य ऋषिस्य आश्रमपदस्य नातिदूरे // तहिं बोधिसत्वो प्रतिष्ठितो छन्दको च // बोधिसत्वो

[_mvu_2.165_] छन्दकस्य हस्ते आभरणानि च देति कण्ठकं च अश्वं छत्ररत्नं च पितुश् च शुद्धोदनस्य संदिशति महाप्रजापतीये गौतमीये सर्वस्य च ज्ञातिवर्गस्य कौशल्यं जल्पेसि कृतकृत्यो आगमिष्यामि प्रवृत्तवरधर्मचक्रः // छन्दको आह // मातुः पितुः न उत्कण्ठितं स्या ते // बोधिसत्वो आह // छन्दक इत्यर्थम् एवम् अहं तव दोषदर्शी भोक्षार्थं मोक्षमति स्वजनं त्यजामि //

जातस्य जन्मनि कथं पुनर्भवेया इष्टेन बान्धवजनेन विप्रयोगः //

यदि न मरणं नो जातं स्यान् न रोगजरादयः यदि च न भवेद् इष्टत्यागो न चाप्रियसंश्रयो //

यदि च विफला नो स्याद् आसा सुखं च न चंचलं विविधविषया मानुष्यस्मिं इमापि रतिर् भवेत्* //

छन्दको आह // त्वं नाम आर्यपुत्र निर्दिष्टो सर्वशास्त्रकुशलेहि चातुर्द्वीपगतिर् भविष्यसीति / न तं सत्यं // बोधिसत्वो आह // भो भणे छन्दका किम् अन्यं च भणितं तेहि नैमित्तिकेहि कुशलेहि // वर्तति खु सत्यकालो यदि ते मम गौरवं अस्ति // छन्दको आह // एषो भणामि / अथ वा विजहित्वा मेदिनीं प्रव्रजति भवति भवरागहन्ता अशेषदर्शी इदं द्वितीयं //

___बोधिसत्वस्य एतद् अभूषि / कथं प्रव्रज्या च चूडा च // बोधिसत्वेन असिपट्टेन चूडा छिन्ना सा च चूडा शाक्रेण देवानाम् इन्द्रेण प्रतिच्छिता त्रायस्त्रिंशद्भवने पुज्यति

[_mvu_2.166_] चूडामहं च वर्तति // समसमं कण्ठको बोधिसत्वस्य पादां लिहति / बोधिसत्वो अनपेक्षो प्रक्रमति //

प्रव्रज्यां कीर्तयिष्यामि यथा प्रव्रजि चक्षुमां //

जीर्णं कालगतं दृष्ट्वा संवेगम् अलभे मुनिः //

योनिशो लब्धसंवेगो महाप्रज्ञो विपश्यको //

दृष्ट्वा आदीनवं लोके प्रव्रजि अनगारियं //

अवहाय मातापितरं ज्ञातिसंगमनं तथा //

निर्यासि कपिलवस्तुतो अश्वम् अभिरुह्य कण्ठकं //

अवहायाश्वच्छन्दके छित्त्वान गृहबान्धनां //

सर्वम् एतम् अवसृज्य अनपेक्षो एव प्रक्रमेत्* //

यं दानि बोधिसत्वेन अभिनिष्क्रमित्वा अनोमियातो अधिष्ठानातो वशिष्ठस्य ऋषिस्य आश्रमस्य नातिदूरतो छन्दको निवर्तितः सकण्ठको आभरणानि च विसर्जितानि राज्ञो शुद्धोदनस्य कौशल्यं संदिष्टं महाप्रजापतीये गौतमीये तथान्येषाम् अपि ज्ञातीनां / यशोधराये न संदिशति // यदा भगवां प्रवृत्तवरधर्मचक्रः तं भिक्षूहि श्रुतं / भिक्षू भगवन्तम् आहन्सुः // कथं यशोधराये अनपेक्षो प्रक्रान्तो // भगवान् आह // नाहं भिक्षवः एतरहिं एवानपेक्षो प्रक्रान्तो / अन्यदापि अहं यशोधराये अनपेक्षो प्रक्रान्तः // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवः //

___भूतपूर्वं भिक्षवो ऽतीतमध्वाने उत्तरापथे तक्षशिला नाम नगरं तत्र वज्रसेनो

[_mvu_2.167_] नाम श्रेष्ठिपुत्रो अश्ववाणिज्येन तक्षशिलातो वाराणसिं गच्छति अश्वपण्यम् आदाय // सो दानि गच्छन्तो अन्यश् च वाराणसीये सार्थो चोरेहि विप्रहतो / वणिजा हतविहता कृता सर्वे अश्वा हृता // सो दानि सार्थवाहो मृतकेन पुरुषकुणपेन आत्मानं प्रतिच्छादेत्वा शयितो एवं न हतो // यदा ते चोरा तं सार्थवाहं हतविप्रहतं कृत्वा ग्रहणम् आदाय गता तदा सो वज्रसेनो अश्ववाणिजो उदकभ्रमेन वाराणसीं नगरं प्रविशित्वा शून्यागारे शयितो // तां एव दानिं रात्रीं वाराणसीये नगरे चोरेहि राजकुलातो सन्धिं छित्त्वा प्रभूतं द्रव्यं हृतं / प्रभाताये रात्रीये राजकुले सन्धिः छिन्ना अमात्येहि दृष्टा // तेहि राज्ञे {सेनर्त्: राज्ञे} निवेदितं // महाराज राजकुले सन्धिः छिन्ना // राज्ञा आणत्ता // प्रत्यवेक्षथ राजकुलं // अमात्येहि प्रत्यवेक्षन्तेहि दृष्टं प्रभूतं द्रव्यं हृतं // तेहि राज्ञ आरोचितं // महाराज प्रभूतो राजकुलातो द्रव्यं हृतं // राज्ञा अमात्या आणत्ता // मार्गथ तां चोरां // ते राज-आणत्तीये तन्मुहूर्तं वाराणसीये चौरा मार्गीयन्ति सर्वगृहाणि लोलीयन्ति देवागाराणि शून्यागाराणि //

___ते राजभट्टा मार्गन्ता तहिं शून्यागारं प्रविष्टा यत्र वज्रसेनो अश्ववाणिजको चौरेहि विप्रहतो शयितो // सो दानि मार्गश्रमेण च रात्रीजागरेण च चिन्ताये च श्रान्तोकान्तो प्रसुप्तो सूर्ये पि उदिते न विबुध्यति // सो तेहि राजभट्टेहि चौरा मार्गन्तेहि दृष्टो रुधिरेण सिक्तावसिक्तगात्रवस्त्रो सद्रव्यो शयितो तेषां राजभट्टानां च दृष्ट्वा एतद् अभूषि // अयं चौरो राजकुलमोषको // सो दानि राजभट्टेन पादेन

[_mvu_2.168_] प्रहारं दत्त्वा उत्थापितो / उत्तिष्ठ पाप चौर अस्ति नाम त्वं राजकुलं धर्षयसि // सो दानि अश्ववाणिजको भीतो त्रस्तो उत्थितो किम् एतं ति // ते दानि राजभट्टा आहन्सुः // अस्ति नाम त्वं पाप चौर राजकुलं पि धर्षयसि // सो दानि आह // आर्या प्रसीदथ नाहं चौरो अश्ववाणिजको अहं ति // ते दानि राजभट्टा आहन्सुः // एदृशको अश्ववाणिजको भवति यादृशो त्वं पापचौरो त्वं // तेहि स उदीरयन्तो पश्चाद्बाहुं बन्धयित्वा राज्ञो उपनामयितो // एवं देव शून्यागारे शयितो लब्धो // राजा पि चण्डो च उग्रशासनो च / तेन आणत्तं // गच्छथ नं अतिमुक्तकश्मशाने नेत्वा जीवशूलकं करोथ //

___सो दानि पश्चाद्बाहुं बन्धनबुद्धो पद्यपानेन पायी वध्यकण्ठगुणेन खरस्वरेण {सेनर्त्. स्वरस्वरेण} पटहेन वाद्यमानेन असिशक्तितोमरधरेहि पुरुषेहि वध्यघाटकेहि परिवृतो जनसहस्रेहि अतिमुक्तकश्मशानं निर्नीयति गणिकावीथिं च संप्राप्तः / तहिं च श्यामा नाम अग्रगणिका आढ्या महाधना महाकोशा प्रभूतजातरूपरजतोपकरणा प्रभूतदासीदासकर्मकरपौरुषेया // सो दानि सार्थवाहः वधं नीयन्तो ताये श्यामाये अग्रगणिकाये दृष्टो / सह दर्शनमात्रेण गणिकाये तस्मिं सार्थवाहे प्रेम्नं निपतितं // यथोक्तं भगवता //

पूर्वं वासनिवासेन प्रत्युत्पन्ने हितेन वा //

एवं संजायते प्रेम्नं उत्पलं वा यथोदके //

संवासेन निवासेन प्रेक्षितेन स्मितेन च //

एवं संजायते प्रेम्नं मानुषाणां मृगाण च //

[_mvu_2.169_] यत्र मनं प्रविशति चित्तं वापि प्रसीदति //

सर्वत्र पण्डितो गच्छे संस्तवो वै पुरे भवेत्* //

सा दानि गणिका तहिं अश्ववाणिजके जातीसहस्राणि प्रेम्नानुबद्धा / तस्या तहिं अत्यर्थं प्रेम्नं उत्पन्नं // तस्या दानि एतद् अभूषि / यदि एतं पुरुषं न लभामि मरिष्यामि // सा दानि तन्मुहूर्तं चेटिकाम् आह // अमुके गच्छ मम वचनेन एतां वध्यघातां वदेहि अहं वो एत्तकं हिरण्यसुवर्णं दास्यामि मा एतं पुरुषं घातेथ / अन्यो पुरुषो आगमिष्यति एतद्वर्णो एतद्रूपो च तं गृह्य तं मारेथ // तथा च जल्पसि द्वितीयो न जानीते // ततः सा चेटी गत्वा तेषां च घातकानां यथासन्दिष्टं आरोचयेसि // तस्या ते वध्यघातका आहन्सुः // वाढं एवं भवतु // ते दानि कृतान्तसूनिकां गच्छन्ति // तहिं दानि गणिकाकुले श्रेष्ठिस्य एकपुत्रको द्वादशवर्षिकेन क्रयेण प्रविष्टको दश वर्षा अतिक्रान्ता द्वे वर्षा अवशिष्टा // तद्यथाह //

शातं माया क्षत्रियाणां ब्राह्मणानां दुवे शता //

सहस्रं माया राजानां स्त्रीमाया हि अनन्तिका //

सा दानि गणिका श्यामा तस्य श्रेष्ठिपुत्रस्य अग्रतो भोजनं व्यपनेति व्यंजनं च / श्रेष्ठिपुत्रो पृछ्हति // स्यामे किम् इमं भविष्यति // सा आह // आर्यपुत्र तं मे वध्यं दृष्ट्वा कृपा उत्पन्ना / तस्या मे एतद् अभूषि // स्वयं इमं भोजनं हरिष्यामि // श्रेष्ठिपुत्रो आह // मा त्वं स्वयं गच्छे चेटिं प्रेषेहि // सा आह // को जनाति दास्यति वा चेटी न वा दास्यतीति / स्वयं आहरित्वा दास्यामि // ततो सो श्रेष्ठिपुत्रो

[_mvu_2.170_] आह // आनेहि अहं गमिष्यामि मा त्वं स्वयं गच्छासि // सा दानि भूयस्या मात्रया मायां दर्शयति / आह // न होति मा आर्यपुत्रो गच्छतु अहं गमिष्यामि // श्रेष्ठिपुत्रो पि आह // न हि मा त्वं गच्छ अहं गमिष्यामि // गणिका आह // यथा आर्यपुत्रस्य अभिप्रायो भवतु अहं वा गच्छेय आर्यपुत्रो वा // सो दानि श्रेष्ठिपुत्रो तं भोजनम् आदाय प्रस्थितो // ताये दानि गणिकाये चेटी उक्ता // गच्छ यदा एषो श्रेष्ठिपुत्रो घातितो भवति ततः तं पुरुषं प्रतिच्छन्नं आनयाहि यथा न कोचित् पश्येया याव दानि सूर्यो अस्तमेति // सर्वो जनकायो निवृत्तः ते च वध्यघाताः श्मशानम् अनुप्राप्ताः सो च श्रेष्ठिपुत्रो तं भोजनम् आदाय उपगतो / तेन सो भोजनो तस्य वध्यस्य उपनामितो / तेहि दानि वध्यघातेहि तं श्रेष्ठिपुत्रं घातेत्वा सो अश्ववाणिजको ओसृष्टः //

___सो दानि ताये चेटिकाये प्रच्छन्नं तं गणिकाकुलं प्रवेशितो // सो दानि अश्ववाणिजको तत्मुहूर्तके उच्छापितो स्नापितो महारहं वस्त्रं परिहापितो महारहे पर्यंके उपविशापितो गन्धमाल्यं च उपनामितं भोजनम् उपनामितं / पंचहि कामगुणेहि समर्पितः समग्रीभूतो // उभौ क्रीडन्ति रमन्ति प्रविचारयन्ति // सो दानि प्रथमको श्रेष्ठिपुत्रो दशवर्षप्रविष्टो आसि / यदा घातापितो तदापि द्वे वर्षाणि सर्वोपकरणं मातापितॄणां सकाशातो आनीयति // सो दानि अश्ववाणिजको तं वर्तनं तादृशं पश्यिय शोकसमर्पितो पाण्डुवर्णो भवे / न भुक्तं पि यं भोजनं तं छड्डेति मा हैवं अहं पि तथा एव हनिष्यामि यथा सो पुरिमको श्रेष्ठिपुत्रो // सा दानि गणिका तं अश्ववाणिजकं पृच्छति // आर्यपुत्र एत्तको कालो

[_mvu_2.171_] यतः आर्यपुत्रो इह प्रविष्टो न च ते पश्यामि अभिरतं न उदग्रं / केन ते वैकल्यं किं प्रार्थयसि कस्य वा ते अभिलाषो तं लभिष्यसि / सो दानि अश्ववाणिजको आह // सा अस्माकं नगरी तक्षशिला उद्यानोपशोभिता पुष्करिणीहि च तत्र च अभीक्ष्णं जनो उद्यानयात्रां निर्धावति क्रीडार्थं तानि चोद्यानानि तां च उद्यानक्रीडां दकक्रीडानि च समनुस्मरामि // गणिका आह // आर्यपुत्र इहापि वाराणस्यां उद्यानानि पुष्करिण्यश् च आरामानि च पुष्पफलोपेतानि रमणीयानि यदि आर्यपुत्रस्य उद्यानगमने अभिप्रायो निर्धावामि उद्यानभूमिं क्रीडार्थं // सो आह // वाढं विर्धावामो ति //

___ताये दानि गणिकाये अन्यतरा उद्यानभूमी सिक्तसंसृष्टा कारापिता / तं अश्ववाणिजकं ओनद्धहयने प्रक्षिपित्वा खाद्यभोज्यं च पानं च गन्धमाल्यं च आदाय चेटीहि पुरस्कृता निष्क्रान्ता // तेन दानि वज्रसेनेन श्रेष्ठिपुत्रेण सा गणिका उक्ता // एतां पुष्करिणीं प्रतिसीराहि प्रतिवेठापेहि विश्वस्ता दकक्रीडां क्रीडिष्यामः न कोचित् पश्यति // तस्या गणिकाये भवति // सुष्टु आर्यपुत्रो जल्पति तत्र विश्वस्तं क्रीडिष्यामः न च नं कोचित् प्रत्यभिजानिष्यति // ताये दानि गणिकाये पुष्करिणी प्रतिसीराहि वेठापिता / ते दानि उदकक्रीडाये क्रीडन्ति रमन्ति प्रविचारयन्ति उभये अतृतीया // तस्य दानि अश्ववाणिजकस्य भवति / यदि अहं अद्य न पलायामि न भूयः शक्यं पलायितुं // सो दानि पानं अग्रे स्थापयित्वा तां गणिकां पायेति यदा च एषा प्रमत्ता भवेद् अहं तदा शक्येयं पलायितुं // गणिका पि पश्यति प्रेम्नेन पश्यति मां आर्यपुत्रो पायेतीति / सा दानि पिबन्ती मत्ता

[_mvu_2.172_] संवृत्ता // सो दानि अश्ववाणिजको तेषां चेटीनाम् आह // गच्छथ यूयं भाण्डमूले आसथ वयं विश्वस्ता उदकक्रीडां क्रीडिष्यामः // ता दानि चेटी एकान्ते भाण्डमूले आसन्ति // ते दानि उभयो पुष्करिणीम् ओतीर्णा उदकक्रीड्यकेहि क्रीडितुं // सो दानि अश्ववाणिजको तां श्यामां कण्ठे समालिंगं कृत्वा निवर्तेति मुहूर्तं वारेत्वा उद्यच्छति / श्यामा जानाति आर्यपुत्र उदकक्रीडां करोति / एवं तेन अश्ववाणिजेन वज्रसेनेन भूयोभूयो चिरतरं निवुट्टिय वार्यति श्यामा च पीडियति वज्रसेनो च तहिं उदके निवुट्टापिय करोति अल्पप्राणां संजातां // वज्रसेनस्य भवति / मृता एषा श्यामा अयं वेला मम पलायनाये // सो दानि श्यामां मृताम् अभिज्ञात्वा पुष्करिणीये सोपानस्मिं स्थपेत्वा इतो इतः प्रत्यवेक्षित्वा पलायते यथा न केनचिद् दृष्टो //

___तेषां चेटीनाम् एतद् अभूषि / विलोडेन्ति अत्र पुष्करिणीयं आर्यपुत्रो आर्यधीता च क्रीडार्थं न च सानं किंचित् क्रीडान्तानां शाब्दं शृणोम गच्छाम जानाम // ते दानि पुष्करिणीं अल्लीना पश्यन्ति च तां श्यामां तत्र पुष्करिण्यां सोपाने मृतिकां शायमानां / कथंचिद् आश्वासयन्ति // सा दानि श्यामा तेहि चेटीहि तन्मुहूर्तं ओमूर्धिकम् आलम्बापिता सर्वं च से उदकं मुखेन आगतं // सा दानि श्यामा यं वेलं प्रत्याश्वस्ता ततः चेटीनि पृच्छति कहिं आर्यपुत्रो ति // चेटी आहन्सुः // आर्यधीते न खल्व् आर्यपुत्रो कहिंचिद् दृश्यति भवितव्यं पलानो // सा आह // मा चिरं करोथ नगरं प्रवेक्ष्यामः // ता दानि नगरं प्रविष्टा //

[_mvu_2.173_]___सा दानि श्यामा गणिका तन्मुहूर्तं चण्डाला शब्दापियान आह // अहं युष्माकं एत्तकं च एत्तकं च हिरण्यं उपजीवनं दास्यामि इच्छामि प्रत्यग्रमृतकं पुरुषं अनादष्टं आनीयन्तं // आहन्सु // वाढं आनीयति // तेहि श्मशानं गत्वा प्रत्यग्रमृतको पुरुषो अनादष्टो आनीयते यथा न केनचिद् दृष्टो // ते दानि चण्डाला उपजीवनं दत्त्वा विसर्जिता // ताये दानि श्यामाये सो मृतको पुरुषो गन्धोदकेन स्नापयित्वा गन्धेहि अनुलिपित्वा अर्हन्तेहि वस्त्रेहि वेठित्वा चमुस्मिं प्रक्षिपित्वा सुबद्धं कृत्वा तेषां चेटीनाम् आह // सर्व एककण्ठा रोदनं करोथ एवं च वदथ आर्यपुत्रो कालगतो आर्यपुत्रो कालगतो ति // तेहि चेटीहि यथायथा ताये श्यामाये सन्दिष्टं रोदनं कृतं // महता जनकायेन गणिकाये श्यामाये गृहे रोदनशब्दं श्रुत्वा श्रेष्ठिपुत्रो कालगतो ति / तस्य श्रेष्ठिपुत्रस्य मातापितृभिः श्रुतं सो अस्माकं एकपुत्रको कालगतो ति // ते दानि रोदनं करोन्ता तं गणिकाकुलं गताः सर्वो च ज्ञातिवर्गो / गणिकावीथिजनेन समास्यति // ते आहन्सु // अपहरथ एतां चमुं पश्चिमदर्शनं पुत्रं पश्याम // तस्या दानि गणिकाये एतद् अभूषि / यदि चमुं हरिष्यन्ति ततो बुद्धिष्यन्ति तद् अहं खण्डखण्डं छिन्दिष्यं // सा तेषां आह // मा तुम्हे चमुं अपहरिष्यथ // ते आहन्सुः // किंकारणं // सा आह // यं कालं आर्यपुत्रो ग्लानो तं कालं मया उक्त आर्यपुत्र गच्छाहि मातापितॄणां कुलं / सो दानाह / एत्तकेहि वर्षेहि न गतो न इदानीं गमिष्यं यावद् वार्त्तीभवामि ततः गमिष्यं मातापितॄणि द्रष्टुं / सो दानि यं वेलं न वार्त्तीभवति व्याधिना च ग्रस्तो ततो नं अहं संदिष्टा मा मे

[_mvu_2.174_] मृतस्य मातापितॄणां ज्ञातीनां वा दर्शयिष्यसि एत्तकं मे प्रियं करोहि / मया च आर्यपुत्रस्य प्रतिज्ञातं न आर्यपुत्र मृतकं कस्यचित्* मातापितॄणां वा ज्ञातीनां वा उपदर्शयिष्यामि / कामं आत्मानम् उपसंक्रमेयं न पुनर् आर्ययुत्रस्य शरीरसंदर्शनं करेयं / ततो यदि तुम्हे एवं चमुं अपहरथ आत्मानं अहम् उपसंक्रमेयं / एवं मया आर्यपुत्रस्य चरिमकाले प्रतिज्ञातं // श्रेष्ठिस्य भवति // एवम् एतं यथा एषा जल्पति यत् कारणं एषा मम पुत्रस्य अत्यर्थं प्रिया मनापा च आसि या मरणकाले पि मम पुत्रेण एषा न परित्यक्ता एषापि च मम पुत्रस्य भावानुरक्ता हितकामा च आसि अत्माकं च पुत्रको मृतो अलभनीयो एषो र्थो यदि वयं एतत् पुत्रं मृतं न लभामः तस्माद् अपनेतुं चमुं // श्रेष्ठिना आणत्तं // मा अपहरथ चमुं यथा मम पुत्रस्य मरणकाले अभिप्रायो तथा भवतु // सो दानि महता सत्कारेण नगरातो निष्कासिय एकान्ते ध्यायितो // सा दानि गणिका अतिकरुणानि रोदति शोचति परिदेवति बहूनि मायानि दर्शयति / निवारीयन्ती येन चिता ततः अभिमुखा धावति इच्छति चितायां पतितुं सर्वजनेन निवारिता चितायां पतन्ती // तस्य दानि श्रेष्ठिपुत्रस्य मातापितॄणाम् एतदभूषि // इमा श्यामा गणिका अस्माकं पुत्रस्य इष्टा च दयिता च आसि एताये पि च अस्माकं पुत्रो इष्टो च दयितो आसि यं नूनं वयेमेतां श्यामां गृहं प्रवश्यामः या अस्माकं पुत्रस्य दर्शनं भविष्यति // तेन दानि श्रेष्ठिना सा श्यामा राजकुलातो अनुजानापेत्वा गृहं प्रवेशिता // सा दानि ओमुक्तमणिसुवर्णा ओदातवस्त्राम्बरधरा एकवेणीधरा वज्रसेनम् अश्ववाणिजकं शोचन्ती आसति / श्रेष्ठिपुत्रस्य च मातापितॄणाम् एतद् अभूषि / अस्माकम् एषा एकपुत्रस्य

[_mvu_2.175_] शोचति // सो दानि श्रेष्ठि सभार्यको यथा व पुत्रकं तथा तां श्यामां चेष्टति //

___कदाचिद् दानि तक्षशिलका नटा वाराणसीम् आगताः / ते दानि नटदारका भिक्षार्थका तं श्रेष्ठिकुलं प्रविष्टा // ताये दानि श्यामाये तेषां नटदारकानाम् उत्तरापथकं भाष्यं प्रगृहीतं / सा तां नटदारकां पृच्छति / कुतो यूयं ति // ते आहन्सुः // उत्तरापथका वयं // सा आह // कतमातो अधिस्थानातो // ते आहन्सुः // तक्षशिलातो // सा आह // योनं प्रत्यभिजानथ यूयं तक्षशिलायां श्रेष्ठिपुत्रो वज्रसेनो नाम अश्ववाणिजो // नटदारका आहन्सुः // आम प्रत्यभिजानाम // सा आह // शक्यथ मम व्यापारं कर्तुं // ते आहन्सुः // वाढं शक्यामो ति किं कर्तव्यं // सा आह // इमं श्लोकं श्रेष्ठिपुत्रस्य वज्रसेनस्य सन्तिके भणथ //

यान् त्वं सालेहि फुल्लेहि श्यामां कौशेयवासिनीं //

गाढं अंकेन पीडेसि सा ते कौशल्यं पृच्छति //

ते दानि नटदारका अनुपूर्वेण तक्षशिलाम् आगता अश्ववाणिजकं वज्रसेनम् उपसंक्रमित्वा आहन्सुः //

यान् त्वं सालेहि फुल्लेहि श्यामां कौशेयवासिनीं //

गाढं अंकेन पीडेसि सा ते कौशल्यं पृच्छति //

सो दानि वज्रसेनो श्रेष्ठिपुत्रो तं श्लोकं श्रुत्वा तां नटदारकां गाथया प्रतभाषे //

[_mvu_2.176_] रागाभिभूता न सुखं शयन्ति कृतानुकारं प्रतिकर्तुकामा //

नराः कृतज्ञा न सुखं शयन्ति वैरप्रसंगी न सुखं शयन्ति //

तं वो न श्रद्दधाम्य् अहं वातो वा गिरिम् आवहे //

कथं सा मृतिका नारी मम कौशल्यकं भणे //

ते दानि नटदारका आहंसुः //

नापि सा मृयते नारी नाप्य् अन्यम् अभिकांक्षति / एकवेणीधरा बाला त्वाम् एव अभिकांक्षति //

श्रेष्ठिपुत्रो वज्रसेनो आह //

असंस्तुतं मे चिरसंस्तुतेन न निर्मिणेया ध्रुवम् अध्रुवेण //

इतो प्य् अहं दूरतरं गमिष्यं ममापि सा अन्यं न निर्मिणेय //

स्यात् खलु भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन वज्रसेनो नाम अश्ववाणिजको अभूषि / नैतद् एवं द्रष्टव्यं / तत्कस्य हेतोः / अहं स भिक्षवः तेन कालेन तेन समयेन वज्रसेनो नाम अश्ववाणिजको अभूषि // अन्या सा तेन कालेन तेन समयेन नगरे वाराणसीये गणिका श्यामा नाम अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषा सा भिक्षवः यशोधरा तेन कालेन तेन समयेन वाराणस्यां

[_mvu_2.177_] नगरे श्यामा नाम अग्रगणिका अभूषि / तदापि अहं एताये अनपेक्षो एतरहिं पि एताये अनपेक्षो //

_____समाप्तं श्यामाये जातकं //

अथ भिक्षू आहन्सुः // भगवां यशोधराये वधे निर्नीयन्तो त्रायितो / बहुकरा भगवतो बोधिसत्वभूतस्य संसारे संसरन्तस्य यशोधरा आसि // भगवान् आह // वाढं भिक्षवः बहुकरा यशोधरा आसि तथागतस्य संसारे संसरन्तस्य / अन्यदापि अहं एताये यशोधराये अमित्रहस्तगतो रक्षितो // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवः //

___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे उग्रसेनो नाम राजा राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाकोशो महावाहनो / तस्य तं राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करव्यवहारसंपन्नं च // तस्य दानि जनपदे चम्पको नाम नागराजो प्रतिवसति कृतपुण्यो उत्सदकुशलसंचयो अनेकनागशतसहस्रपरिवारः // तस्य दानि चंपकस्य नागराज्ञो भवनं देवभवनसंनिभं सप्तरत्नमयानि विमानानि सर्वत्रकानि सर्वकालिकानि पुष्पफलानि रत्नमयायो पुष्करिणीयो उत्पलपदुमनलिनिकुमुदपुण्डरीकसंछन्ना // ताये पुष्करिणीये अविदूरे वैडूर्यस्तम्भप्रासादो रत्नामयो मुसारगल्वतलास्तृतो // तस्य च राज्ञो षोडशनागकन्यासहस्राणि अन्तःपुरं // सो दानि तहिं नागभवने यथा देवराजा तथा मोदति // सो दानि अष्टमीं चतुर्दशीं पंचदशीं त्रिष्कृत्वो पक्षस्य चतुर्महापथे उपोषधं उपोषति / अष्टांगसमन्वागतो ओसृष्टकायो विहरति //

[_mvu_2.178_] सो दानि नागराजा तहिं चतुर्महापथे उपवासं समादत्तो अहितुण्डकेन दृष्टो / तेन सो अहितुण्डिकेन चम्पको नागराजो ततश् चतुर्महापथातो गृह्य सर्पकरण्डके प्रक्षिप्तो आसति / नापि तस्य अहितुण्डिकस्य कुप्यति नान्तरहीयन्तो महाबलो महातेजो नागराजा इच्छति सजनपदां वाराणसीं भस्मीकरेया // तत्र सर्पकरण्डे तं व्रजम् अनुपालेन्तो आसति // तेनापि नागराज्ञा परिवारस्य निमित्तानि आचिक्षितानि यदि मम एत्थ चतुर्महापथे उपवासं समादत्तस्य कोचिद् विहेठेय तहिं नागभवने निमित्तानि भविष्यन्ति / यदि इह नागभवने एतानि वनस्पतीनि संमिलायेन्सुः एतानि च उत्पलपदुमकुमुदपुण्डरीकसौगन्धिकानि ततो जानेथ बद्धो सो नागराजा / यदि एतानि वनस्पतीनि सर्वाणि सर्वशुष्कपत्रा भवेन्सुः एतानि च पुष्करिणीनि निरोदकानि भवेन्सुः ततः जानेथ हतो नागराजा ति // तेन दानि चम्पकेन नागराज्ञा अहितुण्डकेन सर्पकरण्डके बद्धेन तहिं नागभवने एतानि निमित्तानि प्रादुर्भवन्ति // ते दानि नागा च नागकन्या च तहिं नागभवने तानि निमित्तानि दृष्ट्वा सर्वे उत्कण्ठिता बद्धो नागाराजा / किं ततो // एकमेको समर्थो तं नागराजं ततः अहितुण्डिकस्य हस्तातो मोक्षयितुं न च तं नागराजं भोक्षयन्ति // यत् कारणं पूर्वे व नागराजेन परिवारस्य संदिष्टं / यदि मम उपवाससमंगिस्य कोचिद् हरेय वा बन्धेय वा न युष्माभिस् तस्य केनचिद् अप्रियो वा विप्रयो वा कर्तव्यो / यत् कारणं एष मम व्रतोत्तमः //

___तस्य दानि नागराज्ञो अग्रमहिषी षोडशानां स्त्रीसहस्राणां . . . . . / ताये च वाराणसीं गत्वा राज्ञो उग्रसेनस्य उपरिप्रासादवरगस्य नागराज्ञो ग्रहणं सनिदानम् आरोचितं // राजा उग्रसेनो तस्या नागिनीये सकाशातो चम्पकस्य नागराज्ञो

[_mvu_2.179_] तं गुणपरिकीर्तनं श्रुत्वा प्रीतो संवृत्तो / राजा तां नागकन्याम् आह // निषीदाहि वा स्वकं वा भवनं गच्छाहि यावत् सुदूता तं नागराजम् अन्वेषिय आगच्छन्ति इति // नागिनी आह // महाराज अहितुण्डिकं संतोषयित्वा ग्रामवरेण वा हिरण्यसुवर्णेन वा तं नागराजानं मोक्षेहि मा राजाज्ञया // राजा आह // नागिनि एवम् अस्तु अहितुण्डिकं परितोषेत्वा ग्रामवरेण वा हिरण्यसुवर्णेन वा चंपकं नाम नागराजानं मोक्षयिष्यामि // सा दानि नागकन्या उग्रसेनस्य काशिराज्ञो आह // शरणगतो ते महाराज चंपको नाम राजा सार्धं षोडशहि स्त्रीसहस्रेहि // एवम् उक्त्वा सा नागकन्या अन्तरहिता // राज्ञा उग्रसेनेन समन्ता दूता प्रेषिता / चम्पको नागराजा उपवाससमंगी अहितुण्डिकेन गृहीतको तं आनेथ //

मनसा देवानां वचसा पार्थिवानां अचिरेणाढ्यानां कर्मणा दरिद्राणां //

राज्ञो उग्रसेनस्य वचनमात्रेण राजदूतेहि अहितुण्डको सनागराजो आनीतो // राज्ञा तं अहितुण्डिकं परितोषेत्वा ग्रामवरेण हिरण्यसुवर्णेन च चंपको नागराजो भोक्षितः // मुक्तमात्रो च चम्पको नागराजा देवराजविषयो संवृत्तो नागभवनो च यथापौराणं संवृत्तं देवभवनसन्निभं तस्य च नागराज्ञो परिवारो यथापौराणं नं भवनं दृष्ट्वा प्रीता तुष्टा संवृत्ता / मुक्तो नागराजा //

___सो दानि नागराजा उग्रसेनेन काशिराजा सार्धं एकपर्यंकेन निषण्णो // सो तं काशिराजं निमन्त्रेति इच्छामि महाराज यं सपरिवारो मम भवनं पश्येसि // राजा आह // यूयं नागा तीक्ष्णविषा च क्रोधना च / न शक्यामि नागभवनं गन्तुं // नागराजा तम् आह // महारज सशरीरो सो महानरके प्रपतेया यो

[_mvu_2.180_] अस्माकम् एदृशं तव पूर्वोपकारिम् अपकृत्वान जीवं नरके पतेया / सचन्द्रतारा पृथिवी पतेया नद्यो च प्रतिश्रोतं वहेन्सुः // न खल्व् एवं अहं मृषावादं भाषेया तव च कृतं न जानेया // राजा आह // यथा नागराजस्य इष्टं तथा भवतु / पश्यामि ते भवनं // राज्ञा उग्रसेनेन अमात्या आणत्ता / युज्यन्तु रथा हस्ति अश्वा विविधानि च यानानि नागराज्ञो भवनं द्रक्ष्यामः // वचनमात्रेण राज्ञो अमात्येहि प्रतिजागृतं // राजा सामात्यपरिजनो सयुग्यबलवाहनो चम्पकेन नागराज्ञा सार्धं एकयानम् अभिरुहित्वा महता राजानुभावेन महता राज-ऋद्धीये महतो जनकायस्य हक्कारहिक्कारमरुपटहशंखसन्निनादेन वाराणसीये नगरातो निर्यात्वा येन चम्पकस्य नागराज्ञो भवनं तेन प्रयासि / यावत्तां यानानां भूमिं ताव यानेहि यात्वा पदचारेण चंपकस्य नागराज्ञो भवनं प्रविष्टो सपरिवारो // सो दानि तं चम्पकस्य नागराज्ञो भवनं पश्यति देवभवनसंनिभं पुष्पफलोपेतेहि वृक्षसहस्रेहि उपशोभितं नानाप्रकारेहि च माल्येहि उपवासितं पुष्करिणीहि च रत्नामयीहि उपशोभितं उत्पलपदुमनलिनिकुमुदपुण्डरीकसौगन्धिकसंछन्नाहि नानाविचित्रेहि च रत्नमयेहि कूटागारेहि प्रासादेहि च वैडूर्यस्तम्भेहि मुसारगल्वास्तृततलेहि // तत्र काशिराजा चम्पकेन नागराजेन रत्नामये पर्यङ्के उपविशापितः // तानि षोडश नागकन्यासहस्राणि चंपकं नागराजं उपक्रम्य पृच्छन्ति / कथन् ते अमित्रमध्ये वासो आसि कथं ते क्षुधापिपासा विनोदिता कथं वा ततः मोक्षो आसि // नागराजा आह // लब्धो मे यथोचितम् अन्नपानं इमेन च काशिराज्ञा मोक्षितो // ता दानि षोडश नागराजकन्यासहस्राणि राज्ञो उग्रसेनस्य प्रीता तुष्टा संवृत्ता मुक्तानां पंच वैडूर्यमिश्राणि वाहशतानि दिन्नानि // चम्पकेन नागराजेन सर्वाकारं

[_mvu_2.181_] उग्रसेनस्य राज्ञो भवनं पश्यति देवभवनसन्निभं // राजकुलं परिरक्षितं अस्ति दाघो च उत्पन्नो चम्पकेन नागराजेन निर्वापितः //

_____इति श्रीचम्पकस्य नागराजस्य परिकल्पपदं समाप्तं //

अथ का नु विद्युद् इवाभासि सरसि विय तारकाः //

ताम्रपादपयष्टिर् वा पुष्पिता वनम् अन्तरे //

असि त्वं नन्दने जाता जाता चित्ररथे वने //

देवी असि वा गन्धर्वी न त्वं असि हि मानुषी //

नागकन्या आह //

नाहं देवी न गन्धर्वी न महाराज मानुषी //

नागकन्याहं भद्रन् ते अवीची इह आगता //

राजा आह //

चित्रान्तचित्ता विलुतेन्द्रियासि नेत्रेहि ते वारि श्रवन्ति किन् ते //

नष्टं हि किंची अभिप्रार्थयन्ती इहागता तानि न दीर्घं ब्रूहि //

नागकन्या आह //

यम् उग्रतेजं उरगो त्ति आहु नागो ति नं आहु जना जनेन्द्र //

तम् अग्रहे पुरुषो जीवितान्वितं तं बन्धना मुंच पतिं मे देव //

[_mvu_2.182_] नगरं पि नागो भस्मीकरेया तथा हि यावच् च बलोपपेतो //

धर्मं तु नागो अयं याचमानो हस्तत्वम् आगच्छे वणीपकस्य //

राजा आह //

कथं विजानेय गृहीतनागो स उग्रतेजो बलस्थामवन्तो //

दुरासदो दुःप्रसहो भुजंगो हस्तत्वम् आगच्छे वणीपकस्य //

नागकन्या आह //

चतुर्दशीं पंचदशीं च अष्टमीं चतुष्पथे गच्छति नागराजो //

ओसृष्टकायो विचरन्तो नागो हस्तत्वम् आगच्छे वणीपकस्य //

एवं विजानेसि गृहीतनागो सो उग्रतेजो बलस्थामप्राप्तो //

दुरासदो दुःप्रसहो भुजंगो हस्तत्वम् आगच्छे वणीपकस्य //

राजा आह //

निषीद वा तिष्ठहि त्वं व नागि गच्छाहि वा ताव स्वकं निवेशनं //

यावद्मि दूता गतो नीयतां ति अन्वेषिसुः नागनृपं यशस्विनं //

[_mvu_2.183_] नागकन्या आह //

धर्मेण मोचेहि असाहसेन ग्रामेण निष्केन च गोशतेन //

ओसृष्टकायो निगृहीतनागो पुण्यार्थिको मुच्यतु नागराजो //

राजा आह //

धर्मेण मोचेष्यम् असाहसेन ग्रामेण निष्केण गवां शतेन //

ओसृष्टकायो च भुजंगो गच्छतु प्रीतो च संपद्यतु नागराजा //

नागिनी आह //

सोडश स्त्रीसहस्राणि आमुक्तमणिकुण्डला //

वारिवासगृहाश्रिता आर्य त्वां शरणागता //

राजदूतेहि अहितुण्डिको च नागराजा च आनीतो // राजा उग्रसेन आह //

देमि निष्कशतं लब्धं स्थूला च मणिकुण्डला //

चतुःशतं च पर्यंकं दामकपुष्पसन्निभं //

भार्यां च सदृशीदेवीं मुच्यतु उरगाधिपः //

अहितुण्डिको आह //

विना तु दाना वचनान् नरेन्द्र मुंचामिमं धार्मिको नागराजा //

महानुभावो परलोकदर्शी महाबलो सो च न संविहेठ्यो //

[_mvu_2.184_] मुक्तो चम्पको नागो काशिराजानं भाषति //

नमो ते काशिनां राज नमो ते काशिवर्धन //

अंजलिन् ते प्रगृह्णामि पश्य राज मो निवेशनं // {मे निवेशनं?} राजा उग्रसेन आह //

सुदुष्करं नाग मया कृतं ते दुःखासि त्वं बन्धनाद् असि मुक्तः //

जातो च लोके न कृतानि जानति मा खुस्स मे नाग कृतं न जाने //

नागराजा आह //

नरकस्मिं जीवेय चिरं स कामं मा कायिकं किंचि लभेय साधु //

यो बाधते पूर्वकरिस्य राज्ञो अस्मादृशो तुह्य कृतं न जाने //

राजा आह //

तुम्हे हि मे तीक्ष्णविषा उदारा महाबला क्षिप्रकोपा च नागा //

नागाहम् एतं अभिश्रद्दधामि नो त्वं अमनुषो मनुषस्य क्रुद्धो //

नागराजा आह //

नरकस्मिं सो शक्तितले पतेया . . . . ऊर्ध्वपादो अधोशिरो //

[_mvu_2.185_] यो बाधते पूर्वकरिस्य राज्ञो अस्मादृशो तुह्य कृतं न जाने //

अप्य् एव वातो गिरिम् आवहेय चन्द्रो च सूर्यो च क्षितिं पतेय //

सर्वा च नद्यो प्रतिश्रोता वहेन्सुः न त्व् एवहं राज मृषा भणेयं //

राजा आह //

यथेष्टं नागराजस्य तथा भोतूरगाधिप //

यथा तुवं याचेसि पश्यामि ते निवेशनं //

राजा उग्रसेनो अमात्यान् आह //

युज्यन्तु ते राजरथा सुचित्रा कम्बोजका अश्ववरा सुदान्ता //

हस्ती च युज्यन्तु सुवर्णच्छत्रा द्रक्ष्याम्य् अहं नागनिवेशनानि //

अमात्या आहन्सुः //

युक्ता इमे अश्वरथा सुचित्रा कम्बोजका अश्ववरा सुदान्ता //

हस्ती च युक्तास् ते सुवर्णच्छत्रा निर्यातु (राजेन्द्रो) महाबलेन //

ततो च राजा निर्यासि सेना च चतुरंगिनी //

मित्रामात्यपरिवृतो ज्ञातीसहपुरस्कृतो //

[_mvu_2.186_] भेरी मृदंगा पटहाश् च संखा वाद्येन्सु वेणू उग्रसेनराज्ञो //

निर्याति राजा महता बलेन पुरस्कृतो नारिगणस्य मध्ये //

गत्वान काशीनां राजा नागराजनिवेशनं //

अद्राक्षीन् नागराजस्य देवानां भवनं यथा //

आम्रजम्बूहि संछन्नं कोकिलगणसेवितं //

अद्दर्शा नागराजस्य काशिराजा निवेशनं //

समन्ततो वनगुल्मा पुष्पिता सर्वकालिका //

मनोज्ञगन्धं प्रवायन्ति नागराजनिवेशने //

सुवर्णरूप्यसोपाना पुष्करिण्यो अभिनिर्मिता //

पदुमोत्पलसंछन्ना नानाद्विजनिषेविता //

वैडूर्यस्तम्भप्रासादा मुसारगल्वतलास्तृता //

अद्दर्शा नागराजस्य काशिराजा निवेशने //

प्रविश्य काशीनां राजा नागराजनिवेशनं //

पर्यंकस्मिं उपविशे जातरूपमये शुभे //

दृष्ट्वान तं आगतं च नागराजं च चम्पकं //

काशिराजेन सार्धं च कृत्वान अंजलिं नता //

पृच्छति नागकन्या यदासि अमित्रमध्यमे //

ततो पिपासां क्षुधां च कथं तत्र विनोदये //

[_mvu_2.187_] नागराजा आह //

यथोचितं लभ्यति अन्नपानं क्षुधापिपासाय विनोदनार्थं //

अयं च मे . . . . . काशिराजा क्षिप्रं नाम मोचये बन्धनातो //

ता दानि षोडश नागकन्यासहस्राणि उग्रसेनं काशिराजम् अभिस्तवेन्सुः //

एवं नन्दाहि भद्रन् ते काशिराज सबान्धवो //

यथा वयम् अद्य नन्दाम दृष्ट्वानम् उरगाधिपं //

एवं नन्दाहि त्वं राज सह सर्वेहि ज्ञातिहि //

यथा वयम् अद्य नन्दाम समग्रा पतिना सह //

मुक्तान ते वाहशतानि पंच वैडूर्यमिश्रान ददासि राज्ञे //

अन्तःपुरे भूमि समास्तरा हि निष्कर्दमा त्विषिमति नीरराज //

तं तादृशं अथ स राजा दृष्ट्वा अन्तःपुरं देवविमानकल्पं //

नारीगणेन परिचर्यमाणो अनुशासते काशिपुरं समृद्धं //

राजा उग्रसेन आह //

त्वं कंचुकाम्बरधरो सुवस्त्रो तत्र यापेन्तो अनुपमवर्णो //

दिव्येहि कामेहि समंगिभूतः किमर्थं नाग भुवि त्वं चरेसि //

[_mvu_2.188_] नागराजा आह //

नान्यत्र भवे मानुषको जनो तु संचिन्त्यति सो दिवसंगमो वा //

योनिमहं मानुषीं प्रार्थयन्तो तस्य कारणाय तपं चरामि //

राजा उग्रसेनो चिन्तयति //

दृष्टा नागा च नागी च प्रार्थयन्ता मानुषं भवं //

किं करिष्यामि शुभं कर्म अपायसमतिक्रमं //

पूर्वेनिवासं भगवां पूर्वेजातिम् अनुस्मरन्* //

जातकम् इदम् आख्यासि शास्ता भिक्षूण सन्तिके //

ते स्कन्धा तानि धातूनि तानि आयतनानि च //

आत्मानं च अधिकृत्य भगवान् तम् अर्थं व्याकरे //

अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा //

चम्पको हं तदा आसि नागराजा महर्द्धिको //

यशोधरा नागकन्यासि एवं धारेथ जातकं //

एवम् इदम् अपरिमितं बहुदुःखं उच्चनीचं चरितं पुराणं //

विगतज्वरो विगतभयो अशोको स्वजातकं भाषति भिक्षुसंघमध्ये //

भगवानाह // तदाप्य् अहं भिक्षवः नागभूतो अहितुण्डिकेन बद्धो मान्सार्थं यशोधराये मोक्षितो / अश्ववाणिजको पि सन्तो वाराणसीये संजातो मोचितो //

_____इति श्रीचम्पकनागराजस्य जातकं समाप्तं //

[_mvu_2.189_] छन्दको बोधिसत्वेन अभिनिष्क्रमन्तेन अनोमियातो अधिस्थानातो निवर्तितो / छन्दकश् च कण्ठको च कपिलवस्तु आगता // राजा शुद्धोदनो श्रुत्वा छन्दको आगतो कण्ठकम् आदाय छत्रं च आभरणानि च राजकुलातो बाहिरद्वारशालां निर्धावितो सान्तःपुरो यशोधरापि कण्ठकं ग्रीवायाम् उपगृह्य प्ररीदन्ती आह // कहिन् ते कण्ठक कुमारो नीतो किं मया तव अपराद्धं छन्दकस्य च यं यूयं मम सुखप्रसुप्ताये कुमारम् आदाय गता अहं च षष्टिसहस्रं च अन्तःपुरं भवति विधवाकृतं // छन्दको आह // किम् अस्माकं अपराधं कृतं अहं पि उच्चेन स्वरेण आरवामि / कुमारेण अभिनिष्क्रमन्तेन कण्ठकेन उच्चेन स्वरेण हीषणशब्दं न च युष्माकं को पि विबुध्यति // देवसहस्रकोटीयो अन्तरीक्षे समागता // इमां मल्लभूमिं अनोमियं नाम अधिष्ठानं नीतो वशिष्टस्य {वशिष्ठस्य?} ऋषिस्य आश्रमपदस्य नातिदूरे // कुमारेण लुब्धकस्य काशिकानि दत्त्वा काषायाणि गृहीतानि स्वयं चूडा असिपत्रेण च्छिन्ना सा च चूडा शक्रेण देवराजेन प्रतिच्छिता // ततः मो कुमारेण आभरणानि दत्त्वा निवर्तिता / एवं च अहं सन्दिष्टो / पितरं मे कौशल्यं पृच्छेसि मातुस्वसाये पि सर्वस्य ज्ञातिवर्गस्य / कृतकार्यो पि परिपूर्णसंकल्पो आगमिष्यामि // यशोधरा च षष्टिसहस्रं च अन्तःपुरं सर्वं च शाक्यराष्ट्रं रोदित्वा परिदेवित्वा स्वकस्वकानि निवेशनानि गता //

___छन्दकस्य राजकुलं प्रवेशित्वा राजार्हं प्रणीतं अन्नपानखाद्यभोज्यं उपनामितं / कण्ठकस्यापि मधुम्रक्षितानि मोदकानि उपनामितानि तथा अन्यम् अपि राजार्हं खाद्यभोज्यं मोदकप्रकाराणि च कण्ठकस्य पुरतो राशीकृता न च कण्ठको परिभुंजति //

[_mvu_2.190_] बोधिसत्वं समनुस्मरन्तो सर्वकालम् अश्रूणि प्रवर्तेति / अन्तःपुरिका च अंशुकेहि दुकूलेहि पट्टोर्णेहि च महारहेहि राजार्हेहि वस्त्रेहि कण्ठकस्य अन्ये अश्रूणि प्रमार्जेन्ति अन्ये शीर्षं प्रमार्जेन्ति अन्ये ग्रीवं प्रमार्जेन्ति अन्ये पृष्ठं प्रमार्जेन्ति अन्ये स्कन्धं प्रमार्जेन्ति अन्ये बाहुं प्रमार्जेन्ति अन्ये सन्धिं प्रमार्जेन्ति अन्ये बालधिं प्रमार्जेन्ति अन्ये पादानि परिमर्दयन्ति अन्ये मधुम्रक्षितानि आलोपानि मुखे अल्लीयन्ति अन्ये नानाप्रकाराणि खज्जकानि अल्लीयन्ति अन्ये उक्कारिकानि अल्लीयन्ति अन्ये मोदकानि अल्लीयन्ति सुवर्णरूप्यमयेहि भाजनेहि रत्नविचित्रेहि राजारहाणि पानानि अल्लीयन्ति न च कण्ठक आहारं करोति / बोधिसत्वस्य शोकेन अनाहारो च कण्ठको कालगतो बोधिसत्वम् अपश्यन्तो // तस्य कालगतस्य राज्ञा शुद्धोदनेन महता राजानुभावेन शरीरपूजा कृता // समनन्तरकालगतो च त्रायस्त्रिंशेहि उपपन्नो शिखण्डिस्य देवपुत्रस्य पुत्रत्वम् अभ्युद्गतो कण्ठको नाम देवपुत्रो महर्द्धिको महानुभावो अन्येषां पूर्वोपपन्नानां देवसहस्राणां देवपुत्राणां दिव्येहि दशहि स्थानेहि अभिभवति / तद्यथा दिव्येनायुषा दिव्येन वर्णेन दिव्येन सुखेन दिव्येन ऐश्वर्येण दिव्येन परिवारेण दिव्येहि च रूपेहि शब्देहि गन्धेहि रसेहि दिव्येहि च स्पर्शेहि //

___यदा भगवां प्रवृत्तप्रवरधर्मचक्रो वैस्तारिकशासनसंजातो तदायुष्मता महामौद्गल्यायनेन देवेषु चारिकां चरमाणेन कण्ठको देवपुत्रो दृष्टो दृष्ट्वा च पुनः गाथया अध्यभाषे //

[_mvu_2.191_] चन्द्रो यथा पंचदशीं नक्षत्रपरिवारितो / ओभासेति दिशां सर्वां तारका विगता नभा //

तथोपमम् इदं वेश्म दिव्यं देवपुरे तव / प्रज्वाल्यमानो वर्णेन आदित्यो व विरोचसि //

मुसारगल्वमुक्ताहि मणिलोहितकाहि च / चित्रा सुसंस्कृता भूमि न चात्रोद्वायते रजः //

वैडूर्यस्य सुवर्णस्य स्फाटिकरूपियस्य च / कूटागारशुभास्थाना प्रासादा ते मनोरमा //

प्रासादानां च अविदूरे पुष्करिण्यो सुनिर्मिता / वैडूर्यफलकसोपाना सुवर्णवालिकसंस्तृता //

तासां च तीरेषु द्रुमा सुजाता महा महान्तं विटपं समुद्गता / अभ्युद्गता ब्रह्मपुरं च अम्बराद् वातेरिता सर्वदिशा प्रवान्ति //

तेषां च तीरेषु द्रुमा सुजाता महा महान्तं विटपं समुद्गता / संपुष्पिता भान्ति दिशा चतस्रो द्विजेहि घुष्टा रुचिरस्वरेहि //

संछन्ना पुण्डरीकेहि पदुमेहि उत्पलेहि च / नानावर्णेहि पुष्पेहि वान्ति सर्वदीशो दिशो //

एकमेकस्मिं तूर्यस्मिं षष्टि नृत्यन्ति अप्सरा /

[_mvu_2.192_] तासां च नृत्यमानानां दिव्यकन्या कानने //

दिव्यो निश्चरते सब्दो द्विजकन्यागणे यथा / सुवर्णपादे पर्यंके निर्मिते रतनामये //

संस्कृते सुविसृष्टे स्वर्गकायस्मि मोदसि / सुवर्णपादे पर्यंके निर्मिते रतनामये //

प्रेक्षमाणो दिशा सर्वां ब्रह्मा च उपशोभसि / तस्मिं . . . . पर्यंके तूलिकास्तृते //

अलंकृता देवकन्या वीजन्ति चामरेहि ते / तवम् एते अप्सरसंघा हेमजाला अलंकृता //

बाहां विकीर्य नृत्यन्ति गायन्ति च सुवादितं / काचित् तत्र उपगायन्ति उपवादेन्ति अप्सरा //

काचिच् च उपनृत्यन्ति संगीतस्मिं सुवादिते / काचित् ते रुचिरं शब्दं मुंचन्त्य् अंगेहि सर्वशो //

कासांचित् सर्वरोमेहि वान्ति गन्धा अमानुषा / तं देवकन्याहि उपेतरूपं निवेशनं ते पदुमुत्तराहि //

सुवर्णकंचुककृतभूतिम् एतं भवनमहो लंकृतम् अप्सरोहि / किं त्वं कर्म करित्वान पूर्व अन्यासु जातिषु / केन कुशलमूलेन त्रायस्त्रिंशोपपद्यथ //

किं त्वं कर्म करित्वान पूर्वे मानुष्यके भवे /

[_mvu_2.193_] केन कुशलमूलेन विपाकम् अनुभोसिमं //

केन त्वया अयं लब्धो आयुर्वशो यशो बलं / ऋद्धिं च परिवारं च अनुभोसि अमानुषं //

किं त्वया कल्याणं कर्म करित्वा अन्यासु जातिषु / केन कुशलकर्मेण विपाकम् अनुभोसिमं //

केन ते ब्रह्मचर्येण संयमेन दमेन च / केन कुशलकर्मेण स्वर्गकायस्मि मोदसि //

केनापि एवं ज्वलितो अनुभावो वर्णो च ते / केन कुशलकर्मेण सर्वां दिशां प्रभाससि //

पृच्छितो देवपुत्र ब्रूहि कस्य कर्मस्यिदं फलं / सो देवपुत्रो आत्मना मौद्गल्यायनेन पृच्छितो / प्रश्नं पृष्टो वियाकर्षि स्थविरस्येति मे श्रुतं //

अहं कपिलवस्तुस्मिं शाक्यानां नगरोत्तमे / अट्टालकोट्टरचिते दृढप्राकारतोरणे //

गोधामुखनिर्यूहदृढार्गलकपाटतोरणे / हयगजरथाचीर्णे आवासे शाक्यश्रेष्ठिनो //

आकीर्णजनमनुष्ये नगरे साधुनिर्मिते / शुद्धोदनस्य पुत्रस्य सहजो आसि कण्ठको //

यदा चाभिनिष्क्रमेसि प्रव्रज्याये नरोत्तमो / तदा स वचनम् आह बहुसम्यग्गिरां ब्रवीत्* //

[_mvu_2.194_] तां सह गिरां श्रुणित्वा हर्षजातेन चेतसा / वेगजातो नमस्यन्तो वहेद् अहं पुरुषोत्तमं //

परेषां विषयं गत्वा उद्गतस्मिं दिवाकरे / मम च्छन्दकं च विहाय अनवेक्षो स प्रक्रमे //

तस्य ताम्रनखा चरणां जिह्वाया परिलेहिय / रोदमानो उद्वीक्षेयं गच्छन्तं पुरुषोत्तमं //

तस्यैव अदर्शनेन शाक्यपुत्रस्य श्रीमतो / खुर-आबाध उत्पद्येत् ततो कालं करोम्य् अहं //

तस्यैवम् अनुभावेन विमानम् आवसाम्य् अहं / नारीवरगणाकीर्णं कूटागारं वरुत्तमं //

सचेद् भदन्ते गच्छासि शाक्यसिंहस्य सन्तिके / कण्ठको वचनं आह वदेसि पुरुषोत्तमं / एषो चाहम् अपि आमंस्ये वन्दितुं पुरुषोत्तमं //

साधु खु दर्शनं भोति तादृशानां महर्षिणां / तेन मया इदं लब्धं आयुवर्णयशोबलं / ऋद्धिं च परिवारं च अनुभोमि अमानुषं //

तेन मे ब्रह्मचर्येण संयमेन दमेन च / अयं मे तादृशी ऋद्धी अप्रतिक्रान्ता अमानुषी //

तं कर्मं कुशलं कृत्वा यत् तं उपचितं पुरा / तेन कुशलकर्मेण विपाकम् अनुभवाम्य् अहं //

भोगा च मे उत्पद्येन्सु ये केचित्* मनसि प्रिया / देवा च मे नमस्यन्ति तेषां च उपचितो अहं //

[_mvu_2.195_] तस्मिं चित्तं प्रसादेथ दक्षिणीयेषु तादृशं //

पश्यति रक्षभूतेन कर्मं उपचितं शुभं //

_____इति श्रीमहावस्तु-अवदानकथायां कण्ठकस्य व्याकरणं समाप्तं //

शुद्धावसेहि देवेहि तहिं अरण्यायतने काषायप्रावृतो लुब्धको निर्मितो / सो दानि बोधिसत्वेन दृष्टो //

तत्राद्राक्षीद् अरण्यस्मिं लुब्धकं काषायप्रावृतं //

सो तत्र उपसंक्रम्य इदं वचनम् अब्रवीत्* //

इमौ काशिकौ गृह्णित्वा देहि काषायं त्वं मम / सो तौ काशिकौ गृहीत्वा देति काषायं लुब्धको //

ततः काषायौ गृह्णित्वा तुष्टो आत्तमनो अभूत्* / सो पथो मे वरो धीरो उत्तमार्थस्य प्राप्तये ति //

बोधिसत्वो धर्मारण्यं वशिष्ठस्य ऋषिस्य आश्रमपदं प्रविष्टः // वशिष्ठो पि ऋषि बोधिसत्वं दृष्ट्वा विस्मितो को यं भविष्यति मानुषो वा देवो वा शक्रो वा ब्रह्मा वा यस्य कायस्य प्रभाये सर्वम् इमं तपोवनम् ओभासितं // सर्वे ते वटुका बोधिसत्वं दृष्ट्वा त्वरितत्वरिता स्वकस्वकानि पर्णकूटीनि प्रधाविता नानाप्रकाराणि फलानि गृह्य पानीयं च बोधिसत्वम् उपसंक्रान्ता //

तत्र वृद्धं महाप्राज्ञं तापसन्तपतां वरं / वशिष्ठं नाम गोत्रेण ददर्श च जगाम च //

ताम्रधूमारुणजटं ज्वालम् इव अदर्शि तं /

[_mvu_2.196_] आसीनं मुनिम् अव्यग्रं निर्वातम् इव सागरं //

अभिगम्य च धर्मात्मा नं मुनिं शाक्यपुंगवो / अनुज्ञातो प्रविष्टाय भूमियां उपविश्य स //

समुद्र इव गम्भीरो वीर्यवा हिमवान् इव / शाक्यराजसुतं दृष्ट्वा महर्षि विस्मितो अभूत्* //

को न्वयं वपुषा श्रीमान्* ज्वलत्य् अनुपमद्युति / सुवर्णो धूमापगतः जोतिमानो यथानलः //

व्यूढोरस्क्यो महाबाहुः सुप्रशस्तकरांगुलि / समन्तकुक्षिश् च श्लक्ष्णो एणवृत्ति कटीमहान्* //

कांचनस्तम्भसदृशो गोवृषाक्षो महाद्युतिः / शार्दूलवृषभस्कन्धः पद्मपादकरो नघः //

शरीरलक्षणैर् अस्य जातिशतगुणाचितैः / शोभतो शरीरं तस्य नक्षत्रैर् इव चन्द्रमाः //

विभूषणा नैव गात्रेषु रचिता अनुरूपिका / शरीरं भूषयन्त्य् अस्य लक्षणानि महात्मनः //

मेरुमण्डलसारेण गच्छता गजगामिना / आक्रान्ता सहसा पद्भ्यां रणतीव वसुन्धरा //

स्निग्धगम्भीरशब्देन स्वरेण अनुनादिना / त्रिलोकम् अर्हते कृत्स्नम् आज्ञापयितुम् ओजसा //

व्यंजनानि हि या यस्य लक्षणानि च लक्षये /

[_mvu_2.197_] युक्तो यं सर्वभूतानां त्रिलोकपतिर् ईश्वरः //

प्रभया पूरयत्य् एष स्वशरीरसमुच्छ्रया / तपोवनम् इदं सर्वं उदयन्न् इव भास्करो //

अशीतिव्यंजनोपेतो द्वात्रिंशद्वरलक्षणः / सनत्कुमारप्रतिमो कुमारो द्युतिमान् अयं //

सर्वलक्षणसंपन्नं सर्वभूतमनोहरं / कुमारं परिपृच्छेयं महर्षि उपगम्य तं //

गन्धर्वशशिसंकाश देवगर्भोपम युवा / कस्य त्वं किन्निमित्तं वा तपोवनम् उपागतो //

सत्यानुपरिवर्तिन्या सर्वभूतात्मया गिरा / श्लक्ष्णया प्रियवादिन्या बभाषे स नृपात्मजः //

इक्ष्वाकुवंशप्रभवः शुद्धोदननृपात्मजः / विहाय पृथिवीं राज्यं उज्झित्वा मोक्षम् आस्थितः //

लोकन् तु बहुभिर् दुःखैर् दृष्ट्वैवं समभिद्रुतं / मोक्षार्थम् अभिनिष्क्रान्तो जातिव्याधिजरादिभिः //

यत्र सर्वं न भवते यत्र सर्वं निरुध्यते / यत्रोपशाम्यते सर्वं तत् पदं प्रार्थयाम्य् अहं //

एवम् उक्ते महाप्राज्ञो महात्मा सत्यवागृषिः / उवाच वदतां श्रेष्ठं शाक्यराजकुलोदितं //

ईदृशेन हि वृत्तेन वृत्त्या लक्षणसंपदा / प्रज्ञया च महाभाग न किंचिद् यं न प्रापये //

[_mvu_2.198_] बोधिसत्वो दानि वैशालिं गतो आराडं कालामं अल्लीनो / निर्वेदित्वा नायं मार्गो नैर्याणिको ततो राजगृहं गतो //

गत्वा च सो राजगृहं मागधानां गिरिगह्वरे / पिण्डाये अभिसरेसि आकीर्णवरलक्षणः //

तम् अदृशासि प्रासादात्* श्रेणियो मगधाधिपः / प्रसन्नचित्तो दृष्ट्वा च अमात्यां इदम् अब्रवीत्* //

इमं भवन्तो पश्यन्तु आकीर्णवरलक्षणं / आरोहेण च सम्पन्नं युगमात्रं च प्रेक्षति //

उत्क्षिप्तचक्षुर् मेधावी नायम् ऊनकुलोदितो / राजदूतानुबन्धन्तु कहिं वासम् उपेष्यति //

ततो तं संदिशिता दूता पृष्ठतो अनुबन्धिषु / गमिष्यति कहिं भिक्षुः कहिं वासम् उपेष्यति //

पिण्डाये चारं चरित्वान निष्क्रम्ये नगरान् मुनिः / पाण्डवं अभिसरेसि अत्र वासो भविष्यति //

ज्ञात्वा च बासोपगतं एको दूतो उपाविशत्* / अपरो क्षिप्रम् आगम्य राज्ञो आरोचये तदा //

एष भिक्षुः महाराज पाण्डवस्मिं पुरस् ततः / निषण्णो वृक्षमूलस्मिं एकाग्रो सुसमाहितः //

द्वीपीव सुतनुं वित्तं व्याघ्रं वा गिरिसानुगं / सिंहं वा गिरिदुर्गस्मिं महासिंहो मृगाधिपः //

ततो च राजा त्वरमानो अमात्यां अध्यभाषति /

[_mvu_2.199_] क्षिप्रं पन्थं विशोधेथ द्रक्ष्याम पुरुषोत्तमं //

ततो च ते राजदूता महामात्रा यशस्विनो / क्षिप्रं पन्थं विशोधेन्सुः स्वयं राजा इहेष्यति //

ततो च ते राजधूता महामात्रा यशस्विनो / गत्वा राज्ञो निवेदेन्सुः शुद्धो ते देव पाण्डवो //

ततो च निर्याति राजा सेना च चतुरंगिनी / मित्रामात्यपरिवृत्तो ज्ञातिसंघपुरस्कृतो //

यानातो ओतरित्वान पदसा उपसंक्रमे / सारायणीं कथां कृत्वा एकमन्ते उपाविशि //

निषद्य प्रमुखो राजा बोधिसत्वम् अध्यभाषति / उदग्रो त्वमसि राज्ञः अश्वारोहो व सेलको //

ददामि भोगां भुंजाहि जातीं चाख्याहि पृच्छितो / बोधिसत्व आह //

निजजनपदो राज हिमवन्तस्य पार्श्वतः / धनवीर्येण सम्पन्नो कोशलेषु निवासितो / आदित्यो नाम गोत्रेण शाकियो नाम जातिये //

ततो कुला प्रव्रजितो हं न कामां अभिप्रार्थये / प्रहाणाय गमिष्यामि वेश्मं मुक्ता रतनामयं //

तं खो तथा भोतु स्पृशाहि निर्वृतिं बोधिं च प्राप्तो पुनर् आगमेसि /

[_mvu_2.200_] मह्यं पि धर्मं कथयेसि गौतम यम् अहं श्रुत्वान व्रजेय स्वर्गतिं //

बोधिसत्व आह //

तं खो महाराज तथा भविष्यति बोधिं स्पृशिष्यामि न मे त्र संशयो / प्राप्तो च बोधिं पुनर् आगमिष्यं धर्मं च ते देशयिष्यं प्रतिशृणोमीति //

बोधिसत्व उद्रकं रामपुत्रं अल्लीनो नायं मार्गो निर्याणिको ति / ततो पसंक्रम्य गयां गतो // गयाशीर्षे पर्वते तिस्रो उपमा प्रतिभायेन्सुः // ततो उरुविल्वां गतो पिण्डाय प्रविष्टो // काश्यपो पूरणो उरुविल्वां पिण्डाये प्रविष्टो //

नीवरणं विजहित्वा शृणोथ एकाग्रमानसा सर्वे / यथा पुरिमजिनसंगमो यशस्विनो बोधिसत्वस्य //

प्रव्रज्यायभ्युपेत्वा अराड-उद्रकं वने अपरितुष्टो / प्रक्रमि दिशं प्रदक्षिणां पुरिमजिननिसेवितं देशं //

पिण्डाये प्रतिचरन्तो उरुविल्वां प्राप्तो कनकनिष्कनिभो / ग्रामिकघरं आगमि नरनारिसमाकुलं काले //

अथ ग्रामिकस्य धीता नामेन सुजाता पण्डिता कुलीना / तं दृष्ट्वा राजपुत्रं प्रकम्पिता प्रीतिवेगेन //

अश्रूणि प्रवर्तयन्ति पुरतो स्थिता हि सपतिस् सगौरवा /

[_mvu_2.201_] आलपति राजपुत्रं मा त्वं निवर्तयस्य नरवर //

चन्द्रप्रतिपूर्णवदन मा गा नित्यन् तु सर्वतो निगमा / अतृप्टा हि मम नयना तव वीर निरीक्षमाणाये //

किं तु खु सुचारुविक्रम सुरूपलक्षण वराभरणधारि / प्रक्रमसि अतृप्ताया सर्वान्धकृतो यं मे हृदयं //

सा श्रुणति देवतानां गिरां नभगतानां च भाषन्तां / एष खलु कपिलवस्तुतो शुद्धोदनराजवरपुत्रो //

सा तस्य दर्शनतृषा निर्धाविता गुणशता कीर्तयति / वरपुरुष विप्रहीनो स्वबन्धुजनस्य कथं आसी //

प्रमदागणसंपरिवृता रुदन्ति अनुगच्छन्ति कनकवर्णं / परिदेवते च करणं अटविवनमुखे प्रपद्यन्तं //

सुखिता वनेषु सकुला मृगा च वनदेवा वनराजा च / ये राजहंसगतिकं वीक्षन्ति वनेवरं वीरं //

सुकुमारफुल्लगात्रं कमलदलनिभेहि पादरतनेहि / कथम् आक्रमसि वसुधां तृणकुशशरसंस्तृतविदुर्गां //

मृष्टान्नरससमुदितो नानारसप्रवरवृंहितशरीरो / मूलफलपत्रभक्षो भेष्यसि कथं निर्झरवनान्ते //

कनकगजदन्तपादे वरास्तरे कुसुमसंकुले शयने / सुपियान कथं शयिष्यसि तृणकुशशरसंस्तृततलेषु //

श्रुणियान वरेन्द्र भवने पटहत्रिपुष्करनिनादसंगीतिं /

[_mvu_2.202_] श्रोष्यसि खरां भयकरां संरुषितगजगर्जितनिनादां //

मूलफलपत्रसफला ते भवतु दिशा अनुग्रमृगसंघा / मा तृषितभुक्षितस्य ते शिला तपे वनेचर शरीरं //

ग्रीष्मपरितापितस्य ते भवतु सलिलगर्भमण्डपोपवनं / शिशिरे च विगतजलदो दिवाकरो भातु गिरिदरीषु //

राक्षसयक्षभुजंगपरिवारं तव देवगर्भसुकुमारं / नक्षत्रचन्द्रप्रवरं हृदयनयननन्दनशरीरं //

सो विन्ध्यपादपार्श्वे गजवर इव पद्मिनीम् अभिलषन्तो / प्रविशति तपोवनन्तं शृणोथ विविधं वनवरस्य //

क्वचि रक्तपल्लवलता तरुणतरुकुसुममंजलिके रण्ये / क्वचि वनदेवोपतप्ता क्वचित् क्रमत्कुंजरविभग्ना //

क्वचिद् विपुलघनपलाशप्रलम्बफलैः तरु अलंकृत अगम्यैः / क्वचि जीर्णो कोटरतरु वनपादपगुल्मवृतमूलो //

क्वचि पद्मसरो सुरूपो क्वचि गिरिसरितालाभो वनः वीराः / तापसकुलाश्रमा क्वचि कोकिलशुकमोरपरिगीता //

क्वचिद् विवरतृणजांगला क्वचित् . . . . . . शरपल्लवरक्ता / क्वचित् रुरुचमरमहिषा क्वचित् क्वचिद् व्याघ्रसिंहमणाः //

क्वचि रक्तपल्लवलता तरुणतरुप्रलम्बिता नाना / [_mvu_2.203_] उद्यानगमनश्रान्ता प्रमदायो विय निद्रायन्त्यो //

क्वचि कुरवकतरुशिखरो प्रकुसुमितो व्यक्तपुष्पसुविबुद्धो / निद्रागलितनयनानां नारीणाम् इव विबुद्धानां //

मधुरपवनेरिता क्वचि नानाद्रुमकुसुमचित्रवनशाखा / आलम्बन्ति परस्परं प्रमदा सलीला वियान्योन्यं //

क्वचि कुप्यकवनशाखा प्रकुसुमिता भारमप्रसहमाना / अनुवेल्लिता . . . . सहोदरम् इव वत्सला प्रमदा //

क्वचि किंशुका कुसुमिता वनराजिवनान्तरे गुरुकुले वा / रक्ताम्बरोत्तरीया प्रमदा विपुलाक्षियो वनिता //

क्वचित्* वसुमतिप्रदेशो नवसंपुष्पितपुष्पैः संछन्नो / आभरणभरितवसना सललितशयना नववधू व //

क्वचि कठिनकण्टकलता मृगमहिषवराहाण पदनिकेता / शबरशर-आहतानां मृगान रुधिरेण सिक्तानि //

क्वचि गजकरंकनिकरो क्षितिं गले पटपाण्डरास्तरणकल्पो / क्वचि व्याघ्रकेशरिहता विषादि नरवारणवराहा //

क्वचि राक्षसप्रलापा पिशाचकुम्भाण्डभेरवरुतानि / क्वचि गुह्यकभणितानि निशासु पवनेषु प्रचरन्ति //

क्वचित्* निशासु जलधरा गर्जन्ति प्रतिनन्दति व्यालगणा /

[_mvu_2.204_] . . . . भैरवकरा करोन्ति रूपाणि च बहूनि //

पादपवनस्मिं तस्मिं विहरति सो सर्वलोकहितकामो / चण्डमृगराक्षसानां हृतबहुमानेन यो रम्यो //

यथ आत्मनो मृगपतिः सर्वजगहितं ततो विशेषेण / प्रार्थयति सत्वसारो सत्वान तद् अपि दमाश्चर्यं //

एकेकसत्वमोक्षणे यदि कल्पम् असंख्यं सर्वसत्वानां / दुःखम् अनुभोमि तारेष्यं सर्वसत्वानां व्यवसितम् इदं //

सत्वसारस्य षड्वर्षा दुष्करं वने चरित्वा कर्मक्षये / स्मृति लब्धा यत्र पथास्मि गतो नायं मार्गो मोक्षाये //

अस्ति तस्मिं मति पूर्वे जंबुद्रुमे शाक्यराजम् उद्याने / प्रथमं ध्यानं समादयि स भविष्यति बोधिये मार्गो //

न च शाक्यं दुर्बलेन कृशेन परिशुष्करुधिरमान्सेन / बोधिम् अभिगन्तुं यद् अहं पुनर् आहारम् अभ्यवहरेयं //

देवता अवोच मा त्वं आहरयहि मा ते यशो परिहाये / वयम् ओजं गात्रेषु तुह्यं उपसंहरिष्यामथ //

तस्यासि अहं सर्वशो सततम् अनाहार इत्य् अभिज्ञातो / ओजश् चे मह्य तेहि उपसंहारितं मृषा अस्या //

सो अनृतवचनभीतो अलम् इति तां देवतां प्रतिक्षिपिय / मुद्रकुलच्छहरेण्डा फाणिकृतं यूषम् उपभुंजे //

[_mvu_2.205_] अनुपूर्वं च शरीरे स्थामं च बलं च संजनेत्वान / आहारं समगवेषि उरुविल्वम् उपागमि स साधु //

अथ सा पूर्वजनेत्री सुजाता नामेन पण्डितकुलीना / न्यग्रोधपादपमूले तिष्ठति मधुपायसं गृह्य //

किं ब्रह्मचारि अवचा कर्शितम् आयासितं तव शरीरं / सा पायसं ददत्वा परिकीर्तय राजपुत्रस्य //

राज-ऋषिस्य च तस्य आसि मधुपायसं तत्र सुजातं / तां अवचि पार्थिवसुतो किमर्थम् एतं ददसि दानं //

जातिशतानि जनेत्री अभूषि या तस्य शुद्धसत्वस्य / सा प्रतिभणेसि मधुरं प्रार्थेमि समृध्यतु मह्यं //

हिमवन्तपादपार्श्वे नगरं कपिलाह्वयन्ति विख्यातं / दिशविदिशविश्रुतयशं प्रमुदितनरनारिसंकीर्णं //

तस्मिं नगरे कुमारो पुत्रो शुद्धोदनस्य शाक्यस्य / अवहाय बान्धवजनं वनं गतो राज्यम् उत्सृज्य //

षड्वर्ष तस्य व्रजतो तपोवने उग्रे भैरवे वने / दानेन मे तस्य भवति प्रणिधी परिपूरिया //

तेन तपेन वरो यं मार्गेति मे स समृध्यतु अर्थो / अहम् अपि तेन पथेन गच्छेय महानरवरेण //

ततो प्रादुरासि वाचा अन्तरीक्षादमानुषी / सुजाते एषो सो धीरो शाक्यराजकुलोदितो //

[_mvu_2.206_] एतेन तपा आचीर्णा दुष्करा रोमहर्षणा / शुष्कशोणितमान्सेन नानारूपा तपोवने //

ते निरर्थानि उत्सृज्य प्रक्रमे वरपादपं / अत्र अतीता संबुद्धा प्राप्ता संबोधिम् उत्तमं //

ततो अश्रूणि वर्तेन्ति सौमनस्यसमर्पिता / कंपमाना नरव्याघ्रं कृतांजलि उवाच सा //

दृष्टो सि भैरववने उग्रतपाभ्युत्थितो कमलनेत्र / दृष्ट्वा मे शोकमथितं हृदयं प्रीतिं समनुभोति //

षड्वर्षाणि ममाग्रे न सुप्तपूर्वा सुखाय शय्यानि / शोकशरातापेन तव तपम् अनुचिन्तयन्तीये //

तं खो राज्यं जनो च पिता च अभिवत्सला च मातुस्वसा / तव श्रुत्वा तपसो न्तं प्रीतिसुमनसो भविष्यन्ति //

होहिन्ति कपिलनगरे तूर्यशतनिनादितानि भवनानि / आनन्दप्रमुदितानि प्रहसितनरनारिसंघानि //

मधुपायसम् उपभुक्त्वा पुरिमभवनेत्रिये भव निर्घाती / द्रुमराजपृथिवीषण्डे अमृतम् अधिगतो पदम् अशोकं //

व्याकरि नरप्रदीपो जातिशता पंच जननी मह्यासि / भेष्यसि अनागते ध्वनि प्रत्येकजिनो जिनव्रतो ति //

_____इति श्रीमहावस्तुने सुजाताव्याकरणं समाप्तं //

[_mvu_2.207_] अथ बोधिसत्वो उरुविल्वाये सेनापतिग्रामकातो पिण्डाय नानाप्रकाराणां पूपानां भरितेन पात्रेण निर्धावति काश्यपो च पूरणो तिरिक्तकेन पात्रेण निर्धावति // सो बोधिसत्वेन पृच्छियति // आयुष्मं काश्यप लभ्यति भिक्षा ति // सो दानि काश्यपो बोधिसत्वं गाथायम् अध्यभाषति //

प्रस्कन्दको बलाकल्पो उज्जंगलो च जंगलो / एतेहि पापग्रामेहि एकापि भिक्षा न लभ्यति //

अथ बोधिसत्वो काश्यपं पूरणं गाथाय प्रत्यभाषति //

प्रस्कन्दको बलाकल्पो उज्जंगलो च जंगलो / एतेहि भद्रग्रामेहि पश्य पात्रं भरितं अभू //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.