Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महावस्तु-अवादन
- Thông tin
- GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यं बोधिसत्व अकामकानां मातापितॄणां अश्रुकण्ठानां रुदन्मुखानां अभिनिष्क्रान्तो राज्ञा शुद्धोदनेन पुरुषा विसर्जिता / कुमारस्य दिवसवार्तां नित्यम् आनेथ // ततो यं कुमारो अनोमियं गतो वशिष्ठस्य ऋषिस्य आश्रमपदं ततो प्रवृत्ति आगता // यं वशिष्ठस्य ऋषिस्य आश्रमपदातो वैशालिं गतो ततो च राज्ञो शुद्धोदनस्य प्रवृत्ति आगता // यं वैशालियं अरडं कालामम् उपसंक्रान्तो ततो पि प्रवृत्ति आगता // यं वैशालितो राजगृहं गतो ततो पि प्रवृत्ति आगता // यं राजगृहे उदकं रामपुत्रम् उपसंक्रान्तो ततो पि प्रवृत्ति आगता // यं राज्ञा श्रेणियेन बिम्बिसारेण विस्तीर्णेहि भोगेहि प्रवारितो ततो पि प्रवृत्ति आगता // यं राजगृहातो गयाशीर्षं पर्वतं गतो ततो पि प्रवृत्ति आगता // यं गयाशीर्षातो पर्वतातो उरुविल्वां गतो नदीय नैरंजनाय तीरे उरुविल्वके वनषण्डे ततो राज्ञो शुद्धोदनस्य प्रवृत्ति आगता //
[_mvu_2.208_] यं उरुविल्वके वनखण्डे उग्रं च तपं तप्यति प्रहाणं च प्रतिदधाति ततः प्रवृत्तिर् गच्छति // यं बोधिसत्वो आस्फानकं ध्यानं ध्यायति लूखताय च नासिकाश्रोत्रेहि च उभयतो च कर्णश्रोत्रविवरान्तरेहि बोधिसत्वेन आश्वासप्रश्वासा उपरुद्धा तेषां पुरुषाणां भवति कालगतो कुमारो ति नो उश्वसति न प्रश्वसति तेहि गत्वा कपिलवस्तुं राज्ञो शुद्धोदनस्य निवेदितं / महाराज कालगतो कुमारो ति // राजा न पत्तीयति / तेषां पुरुषाणां पृच्छति / कथं यूयं जानथ कुमारो कालगतो ति // ते आहन्सुः // महाराज उग्रेण तपेन लूहाहारताये च कालगतो नापि उश्वसति न प्रश्वसति काष्ठभूतो आसति / ततः अस्माकं भवति यथा कुमारो न उश्वसति न प्रश्वसति कृशो च दुर्बलशरीरो कालगतः कुमारो ति // राज्ञो दानि शुद्धोदनस्य एतद् अभूषि // यादृशा कुमारस्य गर्भावक्रान्ति आसि यदृशा च देवसहस्रेहि पूजा कृता गर्भचंक्रमस्य यादृशाये च विधीये लुम्बिनीवने उद्याने कुमारो जातो जातमात्रो च पृथिवीयं सप्त पदानि प्रक्रान्तो दिशा च अभिलोकितो महाहसितं च ऊहसितो वचनं प्रव्याहृतो अहं लोके अग्रो ज्येष्ठो श्रेष्ठो पूज्यो देवानां च मनुष्याणां च यादृशानि च कुमारे जातमात्रे आश्वर्याद्भुतानि अचेतना पृथिवी कंपिता देवसहस्रेहि च पूजा कृता यादृशा च अभिनिष्क्रमणसम्पदा आसि तत्र न एदृशा महापुरुषा अल्पायुष्का भवन्ति // भवितव्यं कुमारो यथा पूर्वे प्रव्रज्याम् अप्रव्रजितो सीतलाये जम्बुच्छायाये पर्यंकेन निषण्णः शान्तं समाधिं समापन्नो भविष्यति / तद् एते जानन्ति कालगतो कुमारो ति // सो दानि तेषां पुरुषाणां आह // गच्छथ कुमारस्य सकाशं न कुमारो कालगतो शान्तं समाधिं समापन्नो // कुमारस्य
[_mvu_2.209_] दिवसप्रवृत्तिं मम आनेथ // ते दानि पुरुषा भूयो उरुविल्वां गताः तपोवनं च प्रविष्टाः कुमारं च अरोगं स्वस्तिवन्तं समाधितो व्युत्थितं पश्यन्ति // ते दानि पुरुषा विस्मिता पण्डितो राजा शुद्धोदनो // यदा भगवां प्रवृत्तप्रवरधर्मचक्रो एतं प्रकरणं भिक्षूहि श्रुतं // भिक्षू भगवन्तं पृच्छन्ति // कथं भगवं राजा शुद्धोदनो तेषां आपृष्टपुरुषाणां श्रुत्वा कुमारो कालगतो ति नाभिश्रद्दधाति // भगवान् आह // न हि भिक्षवो न एतरहिं एव राजा शुद्धोदनो ममान्तरेण कालगतो ति श्रुत्वा नाभिश्रद्दधाति / अन्यदापि ममान्तरेण एष कालगतो ति श्रुत्वा नाभिश्रद्दधाति // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवो //
___भूतपूर्वं भिक्षवो अतीतमध्वने नगरे वाराणसी काशिजनपदे अपरो ब्राह्मणो // तेन अष्टचत्वारिंशद्वर्षात् कौमारं ब्रह्मचर्यं चीर्णं वेदा च अधीता // तेन दानि अष्टचत्वारिंशद्वर्षात् कौमारं ब्रह्मचर्यं चरित्वा वेदा च अधीत्य नास्ति अनपत्यस्य लोके पि धर्मो दारं कृतं अपत्यो च उत्पादितो // तस्य भवति ब्राह्मणस्य / परिभुक्ता मानुष्यका कामा समयो मे प्रव्रजितुं // सो दानि ब्राह्मणो तां ब्राह्मणीम् आमन्त्रयति / भवति आमन्त्रेमि प्रव्रजिष्यामीति // सा नं आह // ब्राह्मणस्य वा पुत्रस्य को विवेष्यति मम वा को विवेष्यति / यदि तव अभिप्रेतं प्रव्रजितुं अहं पि प्रव्रजिष्यामि अहं पि तपश्चरणं करिष्यामि अहं पि ब्रह्मचर्यं चरिष्यामि / यथापि त्वं तपश्चरणं करिष्यसि तथाहं पि तपश्चरणं करिष्यमि // ब्राह्मणो आह // एवम्
[_mvu_2.210_] अस्तु त्वं पि प्रव्रजाहि // ते दानि वाराणसीतो निर्गता // अनुहिमवन्ते साहंजनी नाम आश्रमपदो / तहिं गौतमो नाम महर्षि प्रतिवसति पंचतपरिवारो चतुर्ध्यानलाभी पंचाभिज्ञो // सो दानि ब्राह्मणो ताये ब्राह्मणीये तहिं साहंजनीं आश्रमपदं गत्वा गौतमस्य ऋषिस्य मूले प्रव्रजितो / सापि ब्राह्मणी प्रव्रजिता // तेन दानि तस्य आश्रमपदस्य अविदूरे आश्रमो मापितो तृणकुटी वर्णकुटी च कृता / तस्या पारगाये तापसीये एकान्ते तृणकुटी कृता // तेहि दानि तहिं आश्रमपदे प्रतिवसन्तेहि वाहिरकेन मार्गेण युज्यन्तेहि घटन्तेहि व्यायमन्तेहि ध्यानानि च अभिज्ञा च साक्षात्कृता चतुर्ध्यानलाभी पंचाभिज्ञा महाभागा संवृत्ता उग्रतपाश्रिता ब्रह्मचारी // यं ऋषि आनेति मूलविकृतिं वा फलविकृतिं वा कोद्रवकं वा श्यामाकं वा प्रियंगु वा भंगं वा प्रासादिकं वा शाकं वा मूलकं वा ततः तस्या पि पारगाय सगर्भरूपाये संविभागं करोति // तेषां भवति / किं इमस्य माणवकस्य नामं भवतूति // तेषाम् एतद् अभूषि / अयं माणवको श्यामवर्णको भवति इमस्य माणवकस्य श्यामको ति नाम // तस्य दानि माणवकस्य तेहि मातापितृहि श्याभको ति नाम कृतं //
___तहिं आश्रमपदे सो माणवको उन्नीयति / एवम् अनुपूर्वेण सो माणवकः यं कालं संवर्धितो पादेहि अण्वितः ततो यं एवं मृगपोतकेहि सार्धं रमति // मैत्रीविहारी ऋषयो महाभागा / तेषां मृगपक्षिणः न सन्त्रसन्ति // मृगपक्षिसहस्रेहि तम् आश्रमपदं उपशोभितं / यं वेलन् ते मृगपोतका मातरो स्तनं पिबन्ति ततः श्यामको पि तेहि एवं मृगपोतकेहि सार्धं तं मृगीये स्तनं पिबति / यस्या यस्या मृगीये अल्लीयति सा एव स्तनं पायेति यथा स्वकपोतकं पायेति तथा श्यामकं पि
[_mvu_2.211_] पायेति // एवं सो श्यामको ऋषिकुमारो तहिं आश्रमपदे तेहि मृगपोतकेहि पक्षीहि च सार्धं संवर्धति // यतो यतः मृगपोतका च पक्षी च अण्वन्ति तत्र तत्र श्यामको ऋषिकुमारो तेहि मृगपक्षीहि परिवारितो अण्वति / ते पि मृगपक्षी ऋषिकुमारेण सार्धं अभिरमन्ति // यं वेलं ऋषिकुमारो उटजे शयितो भवति ततः अनेकमृगपोतका च पक्षी च नानाप्रकारा उटजस्य द्वारमूलम् अन्वासन्ति यावत्* श्यामको ऋषिकुमारो ततो उटजातो निर्धावितो भवति / ततः आश्रमपदस्य परिसामन्त अण्वन्ति // श्यामको तेहि मृगपक्षीहि सार्धं आश्रमपदे अभिरमति मृगपक्षी पि तेन श्यामकेन सार्धं तहिं आश्रमपदे अभिरमन्ति // शयितस्यापि ऋषिकुमारस्य आश्रमपदे मृगपोतका च मृगा च पक्षी च अनुपरिवारित्वा आसन्ति / यदा अण्वितुकामा भवन्ति मृगपोतका च पक्षी च ततो तं श्यामकं ऋषिकुमारं मुखतुण्डकेन प्रतिबोधयन्ति // एवं सो ऋषिकुमारो तेहि मृगपक्षीहि सार्धं आश्रमपदे संवर्धति // यं वेलं ऋषिकुमारो विवृद्धो संवृत्तो ततः मृगाणाम् अजिनेन निवस्तो च प्रावृतो च // या तत्र आश्रमपदे भवति मूलविकृतिर् वा फलविकृतिर् वा कोद्रवो वा श्यामको वा चिन्नको वा प्रियंगुर् वा भंगं वा प्रासादिको वा शाकं वा मूलका वा तम् आनयित्वा मातापितॄणां उपनामेति / उदकम् आनेति काष्ठनि आनेति तृणकुटिपर्णकुटीनि संस्थापेति / तम् आश्रमपदं सिंचति संमार्जति // परमगौरवेण तेषां मातापितॄणाम् उपस्थिहति / प्रथमं मातापितरं प्रतिचरति पश्चात्* स्वयं आहारं करोति / यत उपादाय ऋषिकुमारो विज्ञप्राप्तो ततः उपादाय न कदाचिद् अदत्त्वा
[_mvu_2.212_] मातापितॄणाम् आहारं स्वयं आहारं कृतपूर्वो / एवं श्यामको ऋषिकुमारो तहिं आश्रमपदे मातापितरम् उपस्थिहति // इष्टेन कान्तेन प्रियेन मनापेन कालो गच्छति ऋषिकुमारस्य मातापितरं उपस्थिहन्तस्य // मातापितरो पि तहिं आश्रमपदे प्रतिवसन्ता जीर्णा संवृत्ता दुर्बलशरीरा चक्षुपरिहीणा परप्राणेया अशक्या आत्मणा आहारविधानं कर्तुं उदकहाराय वा गन्तुं तृणकुटीय वा पर्णकुटीय वा वेषितुं // श्यामको ऋषिकुमारो तेषां मातापितॄणां वृद्धानां जीर्णानां दुर्बलशरीराणां चक्षुहीनानां सर्वहितोपस्थानेन उपस्थिहति दश कुशलां कर्मपथां समादाय वर्तति प्रासादिको ऋषिकुमारो अभिरूपो दर्शनाये शुभेन कर्मणा अभिनिर्वृत्तः मातापितृवर्तको कौमारब्रह्मचारी उग्रतपसाश्रितो प्रान्तशय्यासनविहारी महाभागो प्रियो देवानां नागानां यक्षाणां राक्षसानां पिशाचानां कुम्भाण्डानां किन्नराणां किन्नरीणां मृगानां पक्षीणां प्रियो सर्वभूतानां // यतो यतो ऋषिकुमारो गच्छति मूलहारी वा पत्रहारी वा पुष्पहारी वा फलहारी वा ततो ततो मृगपक्षीहि च देवनागेहि च किन्नरेहि किन्नरीहि च संपरिवृतो गच्छति //
___सो दानि घटम् आदाय मृगपक्षीहि संपरिवृतः देवनागेहि च किन्नरेहि च किन्नरीहि च उदकहारी गिरिनदीं ओकस्तो ततः उदकघटं परिपूरयति // पेलियक्षो नाम काशिराजा महाबलो महाकोशो महावाहनो मृगव्ये अण्वन्तो वातजवसमेन तुरगेण मृगम् अनुजवति / उज्झित्वा बलवाहना न कश्चन तं प्रदेशम् अनुप्राप्तो // यथोक्तं भगवता धर्मपदे //
गति मृगानां पवनं आकाशं पक्षिणां गतिः / धर्मो गतिर् विभागीयानां निर्वाणम् अर्हतां गतिर् इति //
[_mvu_2.213_] सो मृगो तहिं एव वनखण्डे नष्टो // राजा तहिं वनखण्डे श्याम-ऋषिस्य ततो गिरिनदीतो उदकघटं भरन्तस्य शब्दं शृणोति / तस्यैतद् अभूषि मृगस्य एतं शब्दं ति न मनुष्यचरितो अयं वनो // तेन दानि यतो तं शब्दं श्याम-ऋषिस्य उदकघटं भरन्तस्य ततो क्षुरप्रं क्षिप्तं // सो दानि क्षुरप्रो ऋषिकुमारस्य हृदये निपतितो विषकृतो // ते मृगपक्षिणो तेन विषकृतस्य क्षुरप्रस्य शब्देन शब्दवेधिगन्धेन दिशो दश प्र्पलाना / श्यामक-ऋषि उदक्घटं नदीतीरे स्थापेत्वा करुणानि परिदेवति // मान्सस्यार्थं मृगवराहा हन्यन्ति / चर्मणार्थाय सिंहव्याघ्रा द्वीपयो हन्यन्ति / बालार्थ्ं चमरीयो हन्यन्ति / दन्तार्थं हस्तिनागा हन्यन्ति / भैषज्यार्थं तित्तिरकपिंजलानि हन्यन्ति / अस्माकं पुनर् नैवं शक्या मान्सेन कार्यं कर्तुं न चर्मेण न केशेहि न दन्तेहि कस्यार्थाय वयं अहेठका अदूषका अनपराधिनो एकेन इषुणा त्रयो जना हता / अहो यथा संप्रज्वलितो अधर्मो // सो च श्याम-ऋषिकुमारो तथा परिदेवति काशिराजो च नं प्रदेशम् अनुप्राप्तो पश्यति तम् ऋषिकुमारं परिदेवन्तं अजिनजटावल्कलधरं महाभागं अश्रु प्रपातेन्तं // सो राजा तम् ऋषिकुमारं क्षुरप्रेण आहतं दृष्ट्वा भीतो अस्तो संजातो / मा हैव मे सनगरजनपदं शापेन भस्मीकरिष्यति // सो ततो अश्वातो अवतरित्वा श्याम-ऋषिस्य कुमारस्य मूर्ध्ना निपतितो // भगवं मृगसंज्ञेन मया एतं इषु क्षिप्तं अजानमानेन अनुक्षमापयिष्यं भगवन्तं ये चैते अश्रुविन्दू भूमिं पतन्ति केवलकल्पं ज्म्बुद्वीपं एते अश्रुविन्दू दहेन्सुः
[_mvu_2.214_] किम् अंग पुनः अस्मद्विधानां बालानां // येन भगवान् आह एकेन इषुणा त्रिवर्गं हतन्ति एतं न विजानामि / भगवान् एको न त्रिवर्गो / कथं एकेन इषुणा त्रयो जना हताः // ऋषिकुमार आह // महाराज मम मातापितौ जीर्णा वृद्धा दुर्बलशरीरा चक्षुहीना ब्रह्मचारी महाभागा सदेवकस्य लोकस्य दक्षिणीया परप्राणेया अहं च तेषाम् उपस्थायको / प्रथमं तेषाम् आहारविधानं करोमि पश्चाद् आत्मनो यं कंचित् तेषां उपस्थानपर्यन्तं अहं सर्वं करोमि नास्ति तेषां अन्यो कोचिद् यो सानं उपस्थिहेय ततः मया हतेन ते पि हता / नास्ति मया मृतेन तेषां जीवितं / तद् एतेन कारणेन जल्पामि एकेषुणा त्रयो जना हता ति // काशिराजा श्यामशिरिम् ऋषिकुमारं आह // तीक्ष्णविषकृतेन इषुणा हृदयस्मिं आहतो सो मया अजानमानेन जानामहं यथा तव जीवितं नास्ति / तं चरे एकं सत्यं प्रतिश्रुणामि / राज्यं ऋद्धं स्फीतम् अवहाय तव गुरुमातापितरं अहं परिचरिष्यं // यथा परिचीर्णं तथा परिचरिष्यं // ऋषिकुमारो आह / महाराज तेन मे शोकशल्यो हृदयातो अपगतः // एतं वचनं प्रतिश्रुत्वा यथा सत्यप्रतिज्ञो भवेसि मे गुरुषु तथा करोहि महीपाल महान्तं ते कुशलं भविष्यति / तेषां महाभागानां उपस्थानपरिचर्यं कृत्वा एतं महाराज उदकघटम् आदाय एताये एकपदिकाये मम मातापितॄणाम् आश्रमपदं गच्छेसि / मम वचनेन अभिवादनं पृच्छेसि / श्यामशिरि अभिवादनं पृच्छति एवं चाह / मृतो वो एकपुत्रको तन् न शोचितव्यं न रोदितव्यं जातेन जीवलोके अवश्यं मर्तव्यं अल्भनीयं स्थानं तन् न शक्यं रोदितेन वा शोचितेन वा लब्धुं न शक्यं स्वयंकृतानां
[_mvu_2.215_] कर्मणां पलायितुं / नापि मम एकस्य मरणं सर्वसत्वा मरणधर्मा / तन् मा शोचिष्यथ मा उत्कण्ठिष्यथ / सर्वेहि प्रियेहि मनापेहि नानाभावो विनाभावो // यथा महाराज सत्यप्रतिज्ञो मे गुरुषु भवसि तथा करोहि // एवं संविदित्वा ऋषिकुमारो विपरिगतशरीरो कालगतो //
___राजा ऋषिकुमारं कालगतं विदित्वा रोदित्वा परिदेवित्वा अश्रूणि संमार्जित्वा तम् उदकघटम् आदाय ताये एकपदिकाये यथोपदिष्टाये श्यामकशिरिणा तम् आश्रमपदं गच्छति // समनन्तरप्रक्रान्तो च काशिराजा श्यामकशिरिस्य मूलातो श्यामकशिरि च मृगपक्षिशतेहि मृगपक्षिसहस्रेहि परिवारितो देवेहि नागेहि यक्षेहि किन्नरेहि किन्नरीहि तथान्येहि भूतेहि / ऋषिकुमारं परिवारेत्वा महान्तं आरोदनं करेन्सुः महान्तं निनादं अकरेन्सुः / नूनं सो पापकर्मो तमातो तमं गमिष्यति अपायेषु अपायं गमिष्यति येन ताव अहेठकस्य अदूषकस्य अनपराद्धस्य अपराद्धं // सर्वं वनखण्डं ता पर्वतदरी तं च आश्रमपदं भूतनिनादेहि निनादितं मृगपक्षिरवेहि च आरावितं // श्यामकशिरिस्य मातापितरौ तानि भूतानि श्रुत्वा मृगपक्षिरवाणि श्रुत्वा चिन्ताम् आपन्ना / किम् इदं अद्य नास्मभिः कदाचिद् एदृशाणि भूतानां निर्नादशब्दानि श्रुतपूर्वाणि न एदृशानि मृगपक्षिरवशब्दानि श्रुतपूर्वाणि मा हैव श्यामकशिरि सिंहेन व्याघ्रेण वा अन्येन वा व्याडमृगेण विहेठितो भूद् इति // यादृशानि एतानि निमित्तानि यादृशो च अस्माकं हृदयो अनिर्वृत्तो यथा च मे अक्षीणि परिस्फुरन्ति // ते च तथा अनिर्वृत्ता कायेन च चित्तेन च श्यामकशिरिं विचिन्तेन्ति / काशिराजा च तम् आश्रमपदम् अनुप्राप्तः मृगपक्षिशतानि च ततः आश्रमपदातो भैरवाणि
[_mvu_2.216_] रवाणि रवन्ता प्रपलाना / ऋषयो अस्याधिकं सन्त्रस्ता // काशिराजा एकमन्ते वृक्षदण्डे अश्वं बन्धित्वा तं उदकघटम् आदाय श्यामकशिरिस्य मातापितॄणां सकाशम् उपसंक्रान्तो // अभिवादयामि भगवन्* // ते पृच्छन्ति नन्दन्ता // को तुवन्ति // राजा आह // भगवन् अहं पेलियक्षो नाम काशिराजा कच्चिद् भगवान् इह तपोवने सुखं भवति व्याडमृगानुचरिते निर्मनुष्ये उत्पद्यन्ति मूलफलानि कोद्रवं श्यामाकं शाकमूलं अल्पकिसरेण लभ्यति अल्पा वा व्याधि शरीरे अल्पा दंशमसकसरीसृपसंस्पर्शा काये उपनिपतन्ति // ते दानि आहन्सुः // तं खु महाराज सुखं वसामः इह अरण्ये व्याडमृगानुचरिते निर्मनुष्ये आश्रमपदे मूलपत्रफलानि च कोद्रवश्यामकमूलकानि अल्पकिसरेण लभ्यन्ति अल्पो च व्याधि शरीरस्मिं अल्पानि च दंशमसकसरीसृपसंस्पर्शा काये उपनिपतन्ति / कच्चित्* महाराज तवापि अन्तःपुरे कुमारामात्येषु बलवाहनकोशकोष्ठागारेषु क्षेमं निरीतिकं निरुपद्रवं पौरजानपदा अनुवर्तन्ति प्रतिराजानो न कच्चिद् अपराध्यन्ति देवो च कालेन वर्षति शस्यानि संपद्यन्ति क्षेमं च ते राज्यं सुभिक्षं निरुपद्रवं // सो दानि आह // तं खु भगवन् अन्तःपुरे कुमारामात्येषु बलवाहनकोशकोष्ठागारेषु क्षेमं निरीतिकं निरुपद्रवं पौरजानपदा अनुवर्तन्ति प्रतिराजानो न कच्चिद्* अपराध्यन्ति देवो च कालेन वर्षति शस्यानि संपद्यन्ति क्षेमं च राज्यं सुभिक्षं च निरुपद्रवं च // ते दानि आहन्सुः // महाराज एताहि शिविकाहि निषीदाहि यावत् श्यामकशिरि आगच्छति उदकहारी गतको ततो ते फलोदकम् उपनामेष्यति // एवं च तेहि ऋषीहि उक्तो राजा प्ररुण्डो // ते पृच्छन्ति // महाराज किं रोदसि // राजा आह // भगवं यस्य यूयं कीर्तयथ श्यामकशिरि आगमिष्यति फलोदकं उपनामेष्यतीति सो
[_mvu_2.217_] कालगतो अयं च उदकघटो मम हस्ते विसर्जितः अभिवादनं च वः पृच्छति एवं च संदिशति / न शोचितव्यं न रोदितव्यं / न शोचितेन वा रोदितेन वा कोचिद् अर्थो / सर्वेण जातेन अवश्यं मर्तव्यं / नैव मरणं मम एकस्य सर्वसत्वा मरणधर्माः च्यवनधर्मा न स्वयंकृतानां कर्मणां पलायितुं शक्यं // ते पृच्छन्ति // महाराज कथं श्यामशिरि कालगतो // राजा आह // अहं मृगव्ये अण्वन्तो वातजवसमेन तुरंगेण मृगम् अनुजवन्तो तम् उदेशम् अनुप्राप्तो उदकसमीपं यत्र शामशिरिः घटं पूरेति / तत्र च वनगहने सो मृगो नष्टो // तस्य श्यामशिरिस्य तं उदकघटं भरन्तस्य शब्दं शृणोमि / तस्य च मे तद् अभूषि / स एव मृगो उदकेन गच्छतीति // तस्येदं गच्छन्तस्य शब्दं शृण्वतो मम येन तं शब्दं तेन विषकृतो क्षुरप्रो क्षिप्तः / सो श्यामकशिरिस्य हृदये निपतितो / एष ऋषिकुमारो कालगतो // ते डानि तस्य राज्ञो श्रुत्वा प्ररुण्डा अश्रुकण्ठा रुदन्मुखा परिदेवेन्सुः // महाराज मान्सार्थं मृगवराहा हन्यन्ति चर्मार्थं सिंहव्याघ्रद्वीपयो हन्यन्ति दन्तार्थं हस्तिनागा हन्यन्ति भैषज्यार्थं तित्तिरलोपाका हन्यन्ति अस्माकं पुनर् महाराज न मन्सकार्यकं न चर्म न केशा न दन्ता / तत् कस्य हेतोः वयम् अहेठका अदूषका अनपराधिनो एकिना इषुणा त्रयो जना हता // काशिराजा ऋषयो प्रणिपतित्वा क्षमापयति // भगवं यद् एते युष्माकं अश्रू भूमिं निपतन्ति ते केवलकल्पं जम्बुद्वीपम् अपि दहेन्सुः किं पुनर् अस्मद्विधानां बालानां // अहं राज्यम् अवहाय सस्वजनं सबान्धवं
[_mvu_2.218_] इह युष्माकं उपस्थानं करिष्यामि यथा श्यामकशिरिस्य उपस्थितं तथा व च उपस्थिहिष्यामि // ते दानि आहन्सुः // महाराज वयं अन्धा चक्षुर्हीना न प्रतिबला तं प्रदेशं गन्तुं विना प्रणेतरेण / तन् नेतु महाराजा अस्माकं तं प्रदेशं यत्र श्यामकशिरिः // वयन् तं ऋषिकुमारं सत्यवाक्येन उपस्थापेष्यामः सत्यव्क्येन च तं मृगविषं हनिष्याम // तस्य राज्ञो भवति / यादृशा इमे ऋषयो महाभागा प्रतिबला एते तम् उपस्थापयितुं // सो आह // नेमि वः भगवन्तं प्रदेशं यत्र श्यामकशिरी //
___ते दानि तस्य राज्ञो स्कन्धे हस्तं दत्त्वा तं प्रदेशं गता // श्यामक-ऋषिस्य शीर्षं उत्संगे कृत्वा पारगा श्यामकशिरिस्य माता मुखमण्डलं पाणिना संपरिमार्जन्ती बहुप्रकारं रोदति परिदेवति // शून्यो आश्रमपदः श्याम्कशिरिणा विहीनो भविष्यति / वनदेवता करुणं परिदेवित्वा गमिष्यति / मृगपक्षिणो पि श्यामकशिरिं अपश्यन्तः आश्रमपदातो करुणं परिदेवन्ता गमिष्यन्ति //
___ऋषि आह // पारगे मा रोदाहि मा शोचाहि किं रुण्डेन शोचितेन वा किंचिद् अर्थो भवति // वयम् पि उग्रतपचीर्णवरिताविनो ब्रह्मचारी समर्था वयं एतं सत्यवचनेन उत्थापयितुं / तं करोम सत्यवचनं येनास्य मृगविषं हनिष्यामः जीवितं च उपस्थपेष्यामः // तेहि दानि तस्य सत्यवचनेन तं मृगविषं हतं // यथा त्वया पुत्र न जातु कस्यचिद् विषमं चिन्तितं मैत्रचित्तो सर्वसत्वेषु तथा तव हतो मृगविषो भवतु // यथा त्वया न जातु अदत्त्वा मातापितॄणां आत्मनो आहारं कृतं तथा तव हतं मृगविषं भवतु // यथा तव पुत्र मातापितरौ नित्यकालं शीलं परिशुद्धं
[_mvu_2.219_] रक्षतः तथा तव हतं मृगविषं भवतु // सो दानि ऋषिकुमारो तेषां मातापितॄणां तेजानुभावेन सत्यवचनेन स्वकेन च सुचरिततेजेन यथा शयितको पुरुषो बुद्द्येया तथा विजृम्भन्तो उत्थितो //
___भगवान् आह // स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन श्यामको ऋषिकुमारो // नैतद् एवं द्रष्टव्यं // तत् कस्य हेतोः // अहं सो भिक्षवः तेन कालेन तेन समयेन श्यामको नाम ऋषिकुमारो अभुषि // अन्यो सो भवति र्षि श्यामकस्य पिता / एषो शुद्धोदनो राजा तं कालं श्यामकस्य पिता अभुषि // अन्या सा तेन कालेन तेन समयेन श्यामकस्य ऋषिकुमारस्य पारगा नाम माता अभूषि / एषा सा मायादेवी अभूषि // अन्यो सो पेलियक्षो नाम काशिराजा अभूषि // नैतद् एवं द्रष्टव्यं // तत् कस्य हेतोः // एष भिक्षवः आनन्दस्थविरस् तेन कालेन तेन समयेन पेलियक्षो नाम काशिराजा अभूषि // तदापि भिक्षवः एष शुद्धोदनो राजा मम कारणेन कालगतो ति श्रुत्वा न श्रद्दधाति / न सो महाराज कालगतो श्यामकशिरि मृगविषेण सो मोहितो / नेहि त्वं अस्माकं तं प्रदेशं वयं तं मृगविषं सत्यवचनेन हनिष्यामः तं च श्यामकशिरिं उत्थापेष्यामः // एतरहिं पि एष शुद्धोदनो राजा मम अर्थाय कालगतो ति श्रुत्वा नाभिश्रद्दधाति //
_____समाप्तं श्यामकजातकस्य परिकल्पं //
लोकोत्तरस्य लोके अपरिमितयशस्य लोकनाथस्य / पूर्वचरितं भगवतो . . . गुणवतो प्रवक्ष्यामि //
न हि बोधिसत्वचरितं सदेवगन्धर्वमानुषे लोके /
[_mvu_2.220_] शक्यम् अभिभवितुं केनचि तेन दशबलो अनभिभूतो //
यं यं तथागतानां स्मृतिये बलं तासु तासु जातीषु / मैत्राय च करुणाय च लोकं अनुकम्पमानानां //
तं सुचरितं भगवतो कल्पशतसहस्रसंचितशुभस्य / अहम् अभ्युदाहरिष्यं अवधानं देथ सत्कृत्य //
तेन समयेन भगवां वानप्रस्थान तापसकुलस्मिं / अत्यन्तशुद्धे सत्वं उपपद्यिथ बुद्धिसम्पन्नो //
तस्य मातापितरौ जीर्णा च अभून्सुश् चक्षुविहीना / एतेषाम् उत्पद्ये हिताय लोकोत्तरो . . . . //
सर्वमनवद्यगात्रो ऋद्धीमां सौम्यको विशालाक्षो / तद् एव तस्य नामं अभूषि श्यामो ति तं कालं //
आश्चर्यं ऋषिकुमारं यो पश्यति मानुषो वा देवो वा / रूपगुणपारमिगतं निध्यायन्तो स न तृप्यति //
स्वयम् एव बोधिसत्वो किं कुशलं गवेषयं समादियति / शुक्लं कुशलं धर्मं तं च समादाय वर्तेति //
अखण्डकम् अकल्माषं परिशुद्धं दुष्कृतं कुशीदेहि / स्वयं चरति ब्रह्मचर्यं परं च तत्र नियोजयति //
मातापितॄषु वीरो उपस्थपेत्वा तीव्रं परिचरति / ब्रह्मचर्यं ब्रह्मचारि स्वयं ब्रह्मचारिव्रतं चरति //
[_mvu_2.221_] तस्यासि समादानं प्रियेषु मातापितॄषु दयितेषु / न खु मे प्रपञ्चयितव्यं अन्धेषु परप्रणेय्येषु //
मूलफलम् आहरन्तो गिलानका जीर्णका वयोवृद्धान्* / प्रेम्नेन गौरवेण च सत्कृत्य गुरून् उपस्थास्यं //
अन्नेन च पानेन च गिलानभैषज्यानुप्रदानेन / वस्त्रैः शय्यासनेन मातापितरं उपस्थास्यं //
अपि चात्र बोधिसत्वो मातापितरं भणासि मा खु भवे / न खु ताव शोचितव्यं अहं च परिचारको अस्मि //
तं अवच श्यामसुन्दरि चीरंभाजी च मा च तव पापं / उत्पथपन्थगतस्य च तुह्य मा त्रासेन्तु भूतानि //
मान्सरुधिरार्थिनो पि मृगराजा अतिबला च मातंगा / मार्गाद् अपक्रमन्तु ते मा च ते त्रासेन्तु भूतानि //
मृगपोतकेहि सार्धं प्रतिवसति आश्रमेषु रमणियेषु / मृग इव मृगेहि सार्धं वसति अरण्ये ऋषिकुमारो //
तस्य तहिम् आश्रमपदे प्रतिवसतो क्षमदमप्रहाणस्य / मैत्राय च करुणाय च लोकं अनुकंपमानस्य //
प्रादुर् अहु काशिराजा नृपति महावाहनो महेशाख्यो / सो तस्मिं आश्रमपदे त्रासयति मृगा च पक्षी च //
राजा वनान्तरेण अदर्शि एणीमृगाण यूथानि / दृष्ट्वान त्वरितत्वरितो वितने धनु सन्दहे क्षुरप्रा //
[_mvu_2.222_] एषो अश्वावाही अनिलजवं ओसरे मृगाभिमुखं / सकलतुरंगश्रेष्ठं प्रकीर्णशिरजं त्वरितगामिं //
संप्रति च ऋषिकुमारो कलशं आदाय प्रस्थितो उदकं / अवगाहि ताव गिरिनदिं त्रस्ता च मृगा च पक्षी च //
अथ परमकोपकुपितो सो राजा आभतेन चापेन / अनुधावन्तो मृगान् न अद्दशि कुपितो ऋषिकुमारं //
तेन मृगस्य खुरप्रो संदहितो येन आहतो श्यामः / विषलिप्तेन अविषमो शल्येन समर्पितो पतितो //
सो अवच हन्यमानो केनास्मि अदूषको पिता माता / एकेषुणा त्रयो हता संप्रज्वलितो पुन अधर्मो //
दन्तान नाम कारणा हनन्ति नागा मृगा च मान्सार्थं / चमरी च बालहेतोर् द्वीपयो चार्थाय चर्मस्य //
मह्यं पुनर् न दन्ता न पि चर्म न शिरजा नापि च मान्सं / किस्य खु नाम कृतेन अहेठका हता भविष्यामः //
सो तां गिरां श्रुणित्वा राजा अधिगम्य तं ऋषिकुमारं / अनुनेति क्षमापेति च अजानता आहतो भगवान्* //
नैषो क्षुरप्रो संधितो त्वम् आहतो सि मय अजानन्तेन / यम् अजानन्तेन क्षतं एतं मया क्षम्यताम् एव //
यं च परिदेवन्तो भणेसि एकेषुणा हता त्रीणि /
[_mvu_2.223_] वियाहर ब्रह्मचारी एतं मे अर्थम् आख्याहि //
तं अवच बोधिसत्वो प्रियेषु मातापितॄषु दयितेषु / कारणम् उपसंजनेत्व इमां गिराम् अभ्युदीरेमि //
ते मे चिरब्रह्मचारी माता च पिता च जीर्णका वृद्धा / तेषाम् अचक्षषुषाणाम् अहम् एव गतिश् च नाथश् च //
तेषाम् अनाथमरणं उपस्थितन् तेन राज शोचामि / ते मह्यम् अपरिचीर्णा अनाथमरणं मरिष्यन्ति //
एतेन हेतुना अहं भणामि हता त्रीणि / किंचि त्वयि पोषियन्तो न हतो . . . भविष्यामि //
काशिपतिः तीक्ष्णबुद्धि तेनापि अस्य संभावितो अर्थो / तं अवच ऋषिकुमारं प्रणम्य शिरसा हि पादेषु //
निरयं अहं पतिष्यं अदूषकं ऋषिपुत्रं हनित्वान / एतादृशा हि हत्वा नरकेषु न मुच्यितुं शक्या //
ये पि तव अश्रुविन्दू पतन्ति अत्यन्तशुद्धसत्वस्य / लोकम् अपि ते दहेन्सुः किं पुन अस्मादृशां बाला //
सत्यं भणामि यदि मे मरणेन जीवितं तव भवेय / प्राणम् अपि अहं त्यजेयं न वैष संविद्यते स्थानं //
तीक्ष्णेन विषकृतेन हृदयस्मिं आहतो सि ऋषिपुत्र / जानामि जीवितं तव नास्ति न च मे प्रियं भवति //
एवं च ते महायश प्रतिश्रुणिष्यामि तं मे पत्तीय /
[_mvu_2.224_] सत्यं हि जीवलोके प्रतिष्ठितं एष परमार्थं //
राज्यम् अपहाय स्फीतं स्त्रीयो च कामांश् च परित्यज्य / मूलफलम् आहरन्तो गुरू तवाहं परिचरिष्यं //
तं अवच बोधिसत्वो खरं मम शोकशल्यपरिदाघं / व्यपनयसि राजकुंजर इमां गिराम् अभ्युदीरेन्तो //
इदम् एव उदककुम्भं आदाय इमाहि एकपदिकाहि / अस्माकम् आश्रमपदं गत्वा वचनेन मे भणेसि //
अभिवादनं पुनः पुन भणेसि त्वं मातरं च पितरं च / कालगतो वो पुत्रो सो च वो अभिवादनं आह //
न कथंचित्* शोचितव्यं नापि च रुण्डेन शोचितेनार्थो / जातेन जीवलोके सर्वेण अवश्यं मर्तव्यं //
एषा किलानुपूर्वा न सुचिरं जीवितं मनुष्याणां / मरणं पर्यवसानं आढ्यानां दुर्गतानां च //
नापि च स्वयंकृतानां कर्माणां फलं पलायितुं शक्या / चक्रपरिवर्तकस्य हि उपरिपतति सुखं च दुःखं च //
नापि च मनोन्वितानां मया श्रुतं नापि चाहं जानामि / क्षणिकस्य दुर्बलस्य च संस्कारगतस्य अध्रुवतां //
नापि . . . . . मरणं नापि च मम एव एदृशं दुःखं / अनुभूतो एष अर्थो न किंचि लोके अनागम्यं //
एषो मे शोकशल्यो यं जीर्णा चक्षुषा च परिहीना / होहन्ति शोकबहुला तव श्रुणित्वान वृत्तान्तं //
[_mvu_2.225_] स्यामे थ पश्य दानिं काशिवर्धन सत्यप्रतिज्ञो भवेसि / तं मे गुरूसु पारिचर्याये जनाधिप भविष्यति //
तं महार्थं जीर्णेषु दुर्बलेषु च पण्डिता प्रशंसन्ति / परिचर्यं हि जनाधिप त्रीणि पि तस्यास्ति अंगानि //
पुण्यं च नाम होहति यशो च कीर्ती च कशलमूलं च / पृच्छाहि काशिराज वचनम् अभिगमनं समुपस्थाहि //
साधूति श्रुत्वान स विमनो अश्रूणि संप्रमार्जन्तो / प्रक्रमति काशिराजा मृतो स्ति श्यामो ति विदित्वान //
सम्प्रति च काशिराजा प्रक्रान्तो मृगशतानि च बहूनि / परिवारेन्सुः श्यामं पक्षिगणा देवता अपि च //
तं पश्यियान पतितं शयमानं मूर्च्छितं नदीतीरे / रोदेन्सुः देवता पि मृगपक्षिशतानि च बहूनि //
सो नूनं पापकर्मा तमा तमं दुर्गतीषु दुर्गतियं / गच्छति यो तव पापं चिन्तयति अपापधर्मस्य //
भूतानां च निनादो आकाशे पृथिवीये च निर्घोषो / वाता च विप्रवान्ति चिन्तयति ऋषि अहो कष्टं //
मा हैव ऋषिकुमारो विहेठितो यादृशानि दृश्यन्ति / रौद्राणि कारुणानि च रुतरुतशब्दानि सुबहूनि //
वाता प्रवान्ति कष्टं शकुना प्रव्याहरन्ति च खराणि / हृदयं च व्युत्थस्थानो सर्वो च अनिर्वृतो कायो //
[_mvu_2.226_] एते मनोवितर्का वर्तन्ति सो च पेलियशो नाम / प्रक्रमति आश्रमपदं मृगपक्षिगणा च सन्त्रस्ता //
भीता दिशो व्रजन्ति भयार्दिता देवता पि संज्ञात्वा / दुर्मनतरा अभून्सुः निष्प्रत्याशा पश्यन्तीयो //
न इमां दिशां मनुष्यो अमनुष्यो वापि क्वचिद् आगम्य / न पि दृष्ट्वा ऋषिकुमारं मृगपक्षिगणा भयं एन्ति //
निःसंशयं भविष्यति महद्भयो रोमहर्षणो सत्वो / यं पश्यिया मृगगणा सन्त्रस्यन्ति पक्षिसंघा च //
विदितविदितं उपगम्य मातापितरं अनागमनेन स्य / प्राणहरो पि त्रस्यन्तं मधुराहि गिराहि अभिनन्दि //
ते अवच स्वागतं तव कुतो तुवं कस्य वासि त्वं दूतो / अन्धा स्म अचक्षुष्का श्यामो च गतो उदकहारी //
राजाह अहं मृगव्यं काशिपुरा निर्गतो सह बलेन / नामेन पेलियक्षो अण्वामि मृगा गवेषन्तो //
कच्चि तव राजकुंजर वर्षति देवो रोहति च वीजं / अन्तःपुरं अरोगं मह्य कुमारा बलाग्रं च //
नगरेषु जनपदेषु च क्षेमं मे प्रकृतयो च अनुरक्ता / न च वर्धन्ति अमित्रा सर्वो च विवर्धति कोशो //
श्रमणेषु ब्राह्मणेषु च आरक्षो धार्मिको जनपदेषु /
[_mvu_2.227_] वर्धति न चैव हायति दानानि च देमि सत्कृत्य //
युष्माकं पि अरण्ये तस्करव्याघ्रबहुव्यालचरितस्मिं / न करोन्ति केचिद्* हिंसां भूतानि यथोत्पथगतानि //
पुष्पकलं प्रभूतं श्यामाकं शाकमूलकं प्रचुरं / अल्पकिसरेण लभ्यति अल्पा व्याधी शरीरस्मिं //
नचिरेण गतो कुमारो निषीद एताहि पर्णशिविकाहि / भव्यस्य धार्मिकस्य अतिरिव च मनोमनापस्य //
अथ विषकृताम् अनिष्टां प्राणहरां तस्य तापसकुलस्य / वाचां प्रव्याहरति राजा अश्रूणि वर्तेन्तो //
यं भणथ ब्रह्मचारी ऋषिपुत्रः धर्मचारि समचारि / सो संप्रति कालगतो सो वो अभिवादनं आह //
न कथंचि शोचितव्यं न पि रुण्डशोचितेन कोचार्थो / जातेन जीवलोके सर्वेण अवश्यं मर्तव्यं //
ते तां गिरां अनिष्टां अमनोज्ञां अप्रियां श्रुणित्वान / अवचिंसु जीवितं खु मे उपरुन्धसि एवं जल्पन्तो //
सो अवच एषो अर्थो नयेन जातो यदा मया पापं / अविजानन्तेन कृतं एवं क्षम्यन्तु मे देवा //
अहम् अपि च एतम् अर्थं इहागतो यां धुराम् ऋषिकुमारो /
[_mvu_2.228_] वहेति च तां वहिष्यं अहं च देवा उपस्थास्यं //
परिदेवते स्य माता इन्दीवरसुप्रसूतवर्णस्य / हसितभणितानि पूर्वं प्रियस्य पुत्रस्य विगणेन्ती //
हा दयित स्याम सुन्दर त्वया विनाभावसम्भवो पूर्वं / मह्यं हृदयं दहिष्यति शुष्कं तृणकाष्ठम् इव अग्नि //
शून्यम् इमम् आश्रमपदं ख्यायति भयभैरवं अनभिरम्यं / भव्येन धार्मिकेन विहीनं ऋषिणा उदारेण //
यं नूनं सो सर्वा नो शक्ति कामम् अहु तेन च शमं / तं मम अस्य वरतरं न जातु एतादृशं दुःखं //
अस्मेहि न्यूना मन्ये कृता विचित्रा विविधा तपश्चर्या / तस्यैष फलविपाको यं स्म विहीना प्रियपुत्रेण //
रुण्डेन शोचितेन महत्तरं पीडिता परिकिलन्ता / बह्व्यस्य धार्मिकस्य अनुस्मरन्ती गुणशतानि //
ते अवच काशिराजं एवं सो याचितो तहिं नेहि / अन्धा स्म अचक्षुका स्म न स्म समर्था तहिं गन्तुं //
सो अवच तहिं खु नेष्यं तं देशं यत्र सो ऋषिकुमारो / अप्य् एव नाम जीवे युवा स निहतो मृगविषेहि //
स काशिराजा . . . मार्गेण यथागतेन गच्छन्तो /
[_mvu_2.229_] नचिरस्य तं प्रदेशं अगमि यहिं सो ऋषिकुमारो //
तं पश्यियान पतितं शयमानं मूर्छितं नदीतीरे / मुखरतनम् अस्य माता करेण परिमार्जति रुदन्ती //
हा दयित एकपुत्र अकिंचनानां तुवं दरिद्राणां / बन्धु अबन्धूनां त्वं कथं असि विहेठितो वत्स //
वनदेवता पि सत्ये न किंचिद् अर्थो यममनुष्यभूतेषु / पश्यन्ति किंचित्* श्यामो स्तोकं पि न वारितो वत्सो //
दुःसोढं यात्रान्नं विद्यते . . . . . बहुदलशतानि / भव्येन धार्मिकेन यहिं विहीना प्रियपुत्रेण //
ते नूनं करुणकरुणं मृगा च पक्षी च आश्रमपदस्मिं / श्यामकशिरिम् अपश्यन्ता गर्जन्ति रतिं अलभमाना //
मा शोच पारगे त्वं न पि रुण्डशोचितेन कोचार्थो / जातेन जीवलोके सर्वेण अवश्यं मर्तव्यं //
वयभपि च ब्रह्मचारी चिरविरता मैथुनेहि योगेहि / {वयम् अपि?} काहाम सत्यवाक्यं तेनास्य विषं हनिष्यामः //
यथ तुह्य स्याम सुन्दर पापे चित्तं न सज्जति कदाचित्* / तथ तव हतं मृगविषं उत्थेहि च सत्यवचनेन //
यथ तव मातापितरौ शीलं रक्षन्ति नित्यपरिशुद्धं / तथ तव हतं मृगविषं उत्थेहि च सत्यवचनेन //
यथा तव भवनेत्ती मानो च मदो च नास्ति म्रक्षो वा / तथ तव हतं मृगविषं उत्थेहि च सत्यवचनेन //
[_mvu_2.230_] अथ सो विजृम्भमाणो समुत्थितो अपगते मृगविषस्मिं / मातापितृतेजेन च सुचरिततेजेन च स्वकेन //
तं पश्यियान राजा समुत्थितं तेन सत्यवचनेन / संहृष्टरोमकूपो निपति चरणेषु क्षमापयसि //
तं अवच बोधिसत्वो सयुग्यबलवाहनो सदेवीको / सनगरनिगमजनपदो सुखी भवाहि महाराज //
पश्याहि काशिवर्धन मातापितुगारवस्य निष्यन्दं / यथा समूहतं मृगविषं सुचरिततेजेन सुवकेन //
येषां मातापितरौ सुश्रूषा अंजलिं प्रणामः च / कर्तव्यं काशिवर्धन यदि इच्छन्ति स्वर्गं गन्तुं // {सेनर्त्: स्वगं गन्तुं}
अस्मिं जम्बुद्वीपे रत्नानि आहरित्वा सर्वाणि / पूजय मातापितरं मातापितॄषु न प्रतिकुर्यात्* //
एवं न सुप्रतिकरं भणामि मातापितुं महाराज / अनुकम्पाहि एते पूर्वाचार्या व लोकस्य //
देवानाम् इव तेषां सन्नमितव्यं मनुष्यदेवानां / येषां मातापिरौ लभन्ति पूजां न ते शोच्या //
या सा अभूषि माता तं कालं सा अभूत् तदा माया / शुद्धोदनो स राजा पिता भगवतो तदा आसि //
यो सो महानुभावो समुत्थितो तेन सत्यवाक्येन /
[_mvu_2.231_] सो आसि बोधिसत्वो भगवां श्यामो हि तं कालं //
यो सो अभूषि राजा तं कालं सो अभूषि आनन्दो / भगवतो ज्ञाति प्रेष्यो बहूनि जातीसहस्राणि //
नायं क्व पि संबुद्धो नापि च स्वयंप्रतिभञ्जितग्रन्थो / भूतं हि तद्* भगवतो पूर्वचरिधर्मनिष्पत्तिः //
_____समाप्तं श्यामकजातकं
बोधिसत्वो उरुविल्वाये तपोवने दुष्करं चरति / एकेन कोलेन दिवसं यापेन्तो अष्टादश मासां कोलाहरताये प्रतिपन्नः / एकेन तिलेन दिवसं यापेन्तो अष्टादश मासां तिलाहरताये प्रतिपन्नो / एकेन तण्डुलेन दिवसं यापेन्तो अष्टादश मासां तण्डुलम् आहरताये प्रतिपन्नो / अष्टादश मासा सर्वशो अनाहरताये प्रतिपन्नः //
एकं कोलं तस्य भक्षं एकं तिलकतण्डुलं //
क्वचि स्य सम्बुद्धज्ञानं न वीर्यवन्ते संश्रये //
कालाशीतको सर्वो व एवं अंगानि से अभूत्* //
विष्कम्भे यथोष्ट्रपदं हनुका से तदा अभू //
जीर्णगोपानस्यान्तरिका ओशीर्णा पार्श्वके यथा //
एवं कायं महर्षिस्य तपेन परिशोषितं //
वेष्टनवेणीव दीर्घा उन्नतावनता यथा //
एवम् अस्य पृष्ठि कण्ठश् च उन्नतावनता अभूत्* //
[_mvu_2.232_] तस्य नेत्रा प्रकाशन्ति उदुपाने व तारका //
गम्भीरं स्य तदाश्वासं कर्माराणां व गर्गरी //
सारदं वा यथालंबु हरितच्छिन्नमिलायितं //
एवं शीर्षं महर्षिस्य तपेन प्रमिलायितं //
शान्तकायो महावीरो अश्रुतं आत्मचेतसं //
उग्रं तपं निषेवते सर्वसत्वान कारणा //
न शक्यं च परिकीर्तयितुं सर्ववाचाय भाषतः //
यं दुष्करं चरे वीरो सत्वां दृष्ट्वान दुःखितान्* //
पक्षिर् वा च यथाकाशे पर्यन्तं नाधिगच्छति //
यथापि सागरे वारि अप्रमेयो महोदधिः //
एवं लोकप्रदीपानां बुद्धान् आदित्यबन्धुनां //
न शक्यं गुणपर्यन्तं सर्ववाचाय भाषितुं //
अनालिप्ता छवी तस्य पृष्ठीयम् उपलेपिता //
गात्रा च पतिता सर्वे न च वीर्यते संसति //
गृह्णीय पुरिमं कायं पृष्ठिमं परिगृह्णति //
यदा उत्थासि वेगेन सुखेन प्रपते मुनि //
चत्वारि देवता दृष्ट्वा कायं वीरस्य दुर्बलं //
आहन्सु मुनि कालगतो न च वीर्यतो सन्सति //
एवंरूपं तपम् उग्रं चरन्ते पुरुषोत्तमे //
विस्मयं लोक आपन्नो सदेवासुरमानुषो //
[_mvu_2.233_] एतम् एवंरूपं उग्रतपं कुमारस्य श्रुत्वा राजा शुद्धोदनो आपृष्टपुरुषाणां सकाशातो महाप्रजापती च गौतमी यशोधरा च सर्वं च शाक्यराष्ट्रं उत्कण्ठिता / अपि च नाम कुमारो क्षेमेण तावद् उग्रातो तपातो व्युत्थितो येय // यशोधराये पि एतद् अभूषि / न एतं मम साधु भवेय न प्रतिरूपं यम् अहं आर्यपुत्रेण दुःखितेन दुष्करं चरन्तेन तृणसंस्तरकेन लूहाहारेण अहम् इह राजकुले राजार्हाणि भोजनानि भुंजेयं राजारहाणि पानानि पिबेयं राजार्हाणि वस्त्राणि धारयेयं राजार्हाणि शय्यासनानि कल्पयेयं // यं नूनाहं पि लूखं च आहारं आहरेयं प्राकृतानि च वस्त्राणि धारयेयं तृणसंस्तरे पि शय्यां कल्पयेयं // सा दानि लूखं च आहारं आहरेसि प्राकृतानि पि वस्त्राणि धारयेसि तृणसंस्तरके पि शय्यां कल्पयेसि //
___यदा च भगवां प्रवृत्तप्रवरधर्मचक्रो राजगृहे विहरति अर्धत्रयोदशभिक्षुशतपरिवारितो तदा राज्ञा शुद्धोदनेन च्छन्दको च कालोदायी च राजगृहं प्रेषिता भगवतो दूता / अनुकम्पिता भगवता देवा मनुष्या च ज्ञातीं पि भगवान् अनुकंपतु / यं च भगवां वदेय्य तं करेथ // ते पि कपिलवस्तुनो राजगृहम् अनुप्राप्ता भगवन्तं च उपसंक्रान्ता यं च राज्ञो शुद्धोदनस्य संदेशं सर्वस्य ज्ञातिवर्गस्य तं सर्वं भगवतो आरोचितं // भगवां च कालज्ञो वेलज्ञो समयज्ञो कालं च वेलं च समयं च आगमयति जातिभूमिं गमनाये // भगवां छन्दककालोदायीन् आमन्त्रयति // प्रव्रजिष्यथ च्छन्दककालोदायी // ते अवचंसु // राज्ञा शुद्धोदनेन आणत्ता यं वो भगवां वदेय्य तं कुर्याथ // यं च पश्यन्ति नाप्य् अत्र नापितो नापि काषायाणि
[_mvu_2.234_] येहि प्रावृता प्रव्रजेयामः ते भगवन्तम् अनुवर्तन्ता आहन्सुः // प्रव्रजिष्यामः भगवन्* // ते दानि भगवता एहिभिक्षुकाय आभाष्टा // एहथ भिक्षवः छन्दककालोदायी चरथ तथागते ब्रह्मचर्यं // तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यं किंचिद् गृहिलिंगं गृहिध्वजं गृहिगुप्ति गृहिकल्पं सर्वं समन्तरहितं त्रिचीवरा च प्रादुर्भूता सम्भृतं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो च सानं संस्थिहे तद्यथापि नाम वर्षशतोपसम्पन्नानां भिक्षूणां एषा आयुष्मन्तानां छन्दककालोदायिनां प्रव्रज्या उपसम्पदा भिक्षुभावो //
___आयुष्मां उदायी भगवन्तम् आह // भगवं यशोधरा भगवतो अनुव्रता भगवतो तपोवने दुष्करं चरन्तस्य यशोधरापि लूखं आहारम् आहरेसि प्राकृतानि च वस्त्राणि धारेसि राजारहाणि शय्यासनानि उत्सृज्य तृणसंस्तरके सेय्यां कल्पेसि // भिक्षू भगवन्तं पृच्छन्ति // कथं भगवं यशोधरा भगवतो अनुव्रता // भगवान् आह // न भिक्षवो एतरहिं एव यशोधरा मम अनुव्रता // अन्यदापि यशोधरा मम अनुव्रता // भिक्षू आहन्सुः // अन्यदापि भगवं // भगवान् आह // अन्यदापि हि भिक्षवो //
___भूतपूर्वं भिक्षवो अतीतमध्वाने अन्यतरस्मिं अरण्यायतने शिरिप्रभो नाम मृगो प्रतिवसति प्रासादिको दर्शनीयो सुसंस्थितशरीरो रक्तेहि खुरेहि रक्तेहि पादेहि अंजितेहि अक्षीहि पंचशतमृगयूथं परिहरति // तस्य दानि मृगराज्ञो अग्रमहिषी / सा तस्य प्रभावानुरक्ता अनुव्रता च // तेन मृगेण मुहूर्तम् अपि विनाभावो न भवति // अपरो च नीलको नाम लुब्धको / तेन तहिं अरण्यायतने मृगाणां
[_mvu_2.235_] पाशा शोड्डिता // सो शिरिप्रभो तेन महन्तेन मृगयूथेन संपरिवारितो तहिं अरण्यायतने चरमाणो बद्धो // सर्वे च मृगा च मृगी च मृगराजं बद्धं दृष्ट्वा पलाना एका मृगी या तस्य मृगराज्ञो भक्तिमन्ता च अनुव्रता सा स्थिता न पलायति / सा च मृगी शिरिप्रभं गाथयाध्यभाषे //
विक्रमाहि शिरिप्रभा विक्रमाहि मृगाधिप / पुरा सो लुब्धको एति येन सो पाशो ओड्डितो / छिन्दे वारत्रकं पाशं न रमिष्यं त्वया विना //
अथ भिक्षवो शिरिप्रभो मृगराजा तां मृगीं गाथाय प्रत्यभाषे //
विक्रमामि न शक्नोमि भूमौ पतामि वेगितो / दृढो वारत्रको पाशो पादं मे परिकर्तति //
रमणीयान्य् अरण्यानि पर्वतानि वनानि च / रमिष्यसि तुवं भद्रे अन्येन पतिना सह //
अथ कह्लु भिक्षवः सा मृगी तं मृगराजं गाथाय प्रत्यभाषति //
रमणीयान्य् अरन्यानि पर्वतानि वनानि च / रमिष्याम्य् अहं त्वया सार्धं अपि अन्यासु जातिषु //
तेषां च विलपन्तानां श्रुत्वान च विक्रन्दतां / लुब्धको तत्र सो गच्छि पापकर्मा सुदारुणो //
सो दानि मृगराजा तं पश्यति लुब्धकं तदा दूरतो एव आगच्छन्तं कृष्णं पाण्डुरेहि
[_mvu_2.236_] दन्तेहि रक्ताक्षं पुरुषादसमं नीलाम्बरधरं दृष्ट्वा च पुन तां मृगीं गाथाय प्रत्यभाषे //
अयं सो लुब्धको एति कृष्णो नीलाम्बरप्रावृतो / यो मे चर्मं च मान्सं च च्छिन्दित्वा मह्यं हनिष्यति //
तस्याविदूरे सा मृगी येन सो लुब्धको तेन प्रत्युद्गम्य तं लुब्धकं गाथाये अध्यभाषे //
संस्तराहि पलाशानि असिं आवृह लुब्धक / मम पूर्वं बधित्वान पश्चा हिंसि महामृगं //
अथ खलु भिक्षवो तस्य लुब्धकस्य एतद् अभूषि // मम दूरतो एव मृगा दृष्ट्वा पलायन्ति अदर्शनं गच्छन्ति इयं पुनर् मृगी अतीव अनुत्त्रस्ता आत्मत्यागं कृत्वा अभिमुखी आगच्छति नैषा भायति नापि पलायति // सो दानि लुब्धको तस्या मृगीये विनयं दृष्ट्वा विस्मित आश्चर्यं प्राप्तो / यादृशी इयं मृगी / अस्माकं न ते गुणाः ये एतेषां / न ते तिरिच्छा येषां इमं एदृशं गुणमाहात्म्यं एदृशा दृढचित्तता एदृशा कृतज्ञता एदृशा च अनुव्रतता मुखतुण्डकेन आहारं पर्येषन्तो वयं तिरिच्छा ये वयं एदृशं महात्मानं मृगं उपयाता नाम हेठां उत्पादेम / मा वहेष्यं एतं मृगं पाशतो // सो दानि लुब्धको तां मृगीं गाथाये प्रत्यभाषति //
न मे श्रुतं वा दृष्टं वा यं मृगी भाषति मानुषं //
त्वं च भद्रे सुखी भोहि मुंचामि ते महामृगं //
तेन दानि लुब्धकेन सो शिरिप्रभो मृगराजा पाशबद्धो मुक्तो // सा दानि मृगी तं
[_mvu_2.237_] मृगराजं मुक्तं दृष्त्वा आत्तमना प्रमुदिता प्रीतिसौमनस्यजाता लुब्धकं गाथाये प्रत्यभाषे //
एवं लुब्धक नन्दाहि सह सर्वेहि ज्ञातिहि //
यथाहं अद्य नन्दामि दृष्ट्वा मुक्तं महामृगं / पूर्वेनिवासं भगवां पूर्वेजातिम् अनुस्मरन्* / जातकम् इदम् आख्यासि शास्ता भिक्षूणम् अन्तिके //
ते स्कन्धा ते च धातवः तानि आयतनानि च / आत्मानम् अधिकृत्य भगवान् एतम् अर्थं वियाकरे //
अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा / शिरिप्रभो अहं आसि मृगी आसि यशोधरा //
आनन्दो लुब्धको आसि एवं धारयथ जातकं / एवम् इमं अनुपरीतं बहुदुःखं उच्चनीचचरितं इदं पुराणं / विगतज्वरो विगतभयो अशोको स्वजातकं भाषति भिक्षुसंघमध्ये //
_____समाप्तं शिरिप्रभस्य मृगराजस्य जातकं //
अथ बोधिसत्वं दानि उरुविल्वायां तपोवने नद्या नैरंजनायास् तीरे दुष्करचारिकां चरन्तं मारो पापीयां उपसंक्रम्य वदयति // किं प्रहाणेन करिष्यसि अगारमध्ये वस / राजा भविष्यसि चक्रवर्ति / महायज्ञानि च यजाहि अश्वमेधं पुरुषमेधं सोमप्रासं निरर्गडं पदुमं पुण्डरीकं च / एतानि यज्ञानि यजित्वा प्रेत्य स्वर्गेषु मोदिष्यसि बहु च पुण्यं प्रसविष्यसि / प्रहाणं च दुष्करं दुरभिसंभणं अनवद्यपुण्यपारिहाणि
[_mvu_2.238_] ब्रह्मचर्यवासं // बोधिसत्वो आह // नाहं पापीमं पुण्येहि अर्थिको / रमणीयान्य् अरण्यानि वनगुल्मां च पश्यिय / उरुविल्वाय सामन्ते प्रहाणं प्रहितं मया //
परिक्राम्य व्यायमन्तं उत्तमार्थस्य प्राप्तये / नमुचि करुणां वाचं भाषमाण इहागमत्* //
कृशो त्वम् असि दुर्वर्णो सन्तिके मरणं तव / संहर महाप्रहाणं न आशा तुह्य जीविते //
जीवितं ते हितं श्रेष्ठं जीवन् पुण्यानि काहिसि / करोहि पुण्यानि तानि येन प्रेत्य न शोचसि //
चरन्तेन ब्रह्मचर्यं अग्निहोत्रं च जुहूता / अनन्तं जायते पुण्यं किं प्रहाणेन काहिसि //
दूरं आशा प्रहाणस्य दुष्करं दुरभिसंभुणं / इमां वाचां भणे मारो बोधिसत्वस्य सन्तिके //
तं तथा इदानिं मारं बोधिसत्वो ध्यभाषत / कृष्णबन्धु पापीमं नाहं पुण्यार्थिको इहागतः //
अणुमात्रैः पुण्यैः अर्थो मह्यं मार न विद्यति / येषां तु अर्थो पुण्येहि कथं तां मार न विद्यसि //
नाहं अमरो ति मन्यामि मरणान्तं हि जीवितं / अनिवर्तं गमिष्यामि ब्रह्मचर्यपरायणः //
[_mvu_2.239_] नदीनाम् अपि श्रोतांसि अयं वातो व शोषयेत्* / किं मम प्रहितात्मस्य शोणितं नोपशोषये //
शरीरं उपशुष्यति पित्तं श्लेष्मं च वातजं / मान्सानि लोहितं चैव अवजीर्यतु सांप्रतं //
मान्सेहि क्षीयमाणेहि भूयो चित्तं प्रसीदति / भूयो स्मृति च वीर्यं च समाधि चावतिष्ठति //
तस्य चैवं विहरतो प्राप्तस्य उत्तमं पदं / नायम् अत्र क्षतं कायं पश्य सत्वस्य शुद्धतां //
अस्ति च्छन्दो च वीर्यं च प्रज्ञा च मम विद्यति / नाहं तं पश्यामि लोके यो प्रहाणातो वारये //
. . . . . . . . . . . . . . . . / एषो सज्जो प्राणहरो धिग्ग्राम्यं नो च जीवितं //
तस्मा स्मृतिमन्तो सन्तो संप्रजानो निरोपधिः / . . . . . . . . . . . . . . . . //
एषो हं च परं चित्तं भावयित्वान योधने / बलेन वनं भिन्दित्वा अनुष्ठेयम् अनुष्ठितो //
अहं बोधितरोर् अधस्तात्* अप्राप्ते अमृते पदे / दृष्ट्वा नमुचिनो सेनां सन्नद्धाम् उत्सृतध्वजां //
[_mvu_2.240_] युद्धाय प्रतियास्यामि नाहं स्थानार्थम् उपाविशे / ताम् अहं निवर्तिष्यामि सेनां ते अनुपूर्वसः //
कामा ते प्रथमा सेना द्वितीया आरति वुच्चति / तृतीया क्षुत्पिपासा च चतुर्थी तृष्णा वुच्चति //
पंचमा स्त्यानमिद्धं ते षष्ठी भीरु प्रवुच्चति / सप्तमा विचिकित्सा ते मानार्थो भोति अष्टमा / लोभो ति श्लोको सत्कारो मिथ्यालब्धो च यो यशो //
एषा नमुचिनो सेना सन्नद्धा उच्छ्रितध्वजा / प्रगाढा अत्र दृश्यन्ते एके श्रमणब्राह्मणाः //
न ताम् अशूरो जयति जित्वा वा अनुशोचति / तां प्रज्ञाय ते भेत्स्यामि आमपात्रं व अम्बुना //
वशीकरित्वान ते शल्यं कृत्वा सूपस्थितां स्मृतं / आलब्धवीर्यो विहरन्तो विनेष्यं श्रावकां पि तु //
प्रमादम् अनुयुजन्ति बाला दुर्मेधिनो जना / गंसामि ते अकामस्य यत्र दुःखं निरुध्यति //
तस्य शोकपरीतस्य विनाशं गच्छि उच्छ्रिति / ततश् च सुर्मनो यक्षो तत्रैवान्तरहायिथा //
यथा बोधिसत्वो संप्रजानं मृषावादं भयभीतो संप्राजानमृषावादम् एव विजुगुप्सन्तो
[_mvu_2.241_] अलम् इति च तां वेदतां प्रतिक्षिपित्वा अनुसुखं औदरिकम् आहारं अभ्यवहृतो ततो पंचका भद्रवर्गीया निर्विद्य प्रत्यवक्रान्ताः // समाधितो विभ्रष्टो श्रमणो गौतमो शैथिलिको बाहुलिकं पुन औदरिकम् आहारम् अभ्यवहृतं //
___मारो पि पापीयां षड्वर्षाणि बोधिसत्वस्य दुष्करचर्यां चरन्तस्य पृष्ठतो पृष्ठतो समनुबद्धो अवतारार्थी अवतारं गवेषी // सो पि बोधिसत्वस्य षड्वर्षाणि अनुबद्धन्तो अलभन्तो वतारं अलभन्तो आलम्बणं अलभन्तो अभिनिवेशनं निर्विद्य प्रत्यवक्रान्तो //
यन् तत्र तत्र मारो न प्रसहे मारुतो व हिमवन्तं / तं मृत्युराजप्रणुदं पूजयति सदेवको लोको //
भिक्षू भगवन्तम् आहंसुः // मोक्षाभिप्रायेण भगवता दुष्करं चीर्णं // भगवान् आह // न भिक्षवो एतर्हि एव मये मोक्षाभिप्रायेण दुष्करं चीर्णं // भिक्षू आहन्सुः // अन्यदा अपि भगवं // भगवान् आह // अन्यदापि भिक्षवो //
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे शाकुन्तिको शकुना निगृह्णीय अरण्यायतनेषु जालेहि च पाशेहि च पंजरेहि च उपरुध्य निवापेन पानीयेन च पोषिय वड्डवड्डानि कृत्वा इष्टेन अर्घेन विक्रीणति // तहिं अपरो शकुन्तको गृह्णीयान पंजरे उपरुद्धो // सो दानि शकुन्तको पण्डितजातिको पश्यति ये ते शकुन्तका पूर्वे प्रक्षिप्ता पंजरे निवापपुष्टा वड्डवड्डा ते जनेन क्रिणिय ततः पंजरेहि कड्ढियन्ति // सो पश्यति सकुन्तको पण्डितजातिको / न एष अस्माकं शाकुन्तको हितकामताये निवापं वा पानीयं वा देति अर्थहेतोः एष अस्माकं निवापं वा उदकं वा देति यदा वड्डवड्डा भवेन्सुः ततो इष्टेन अर्घेन विक्रीयेन्सुः /
[_mvu_2.242_] तद् अहं तथा करिष्यामि यथा मे न कोचित् क्रीणिष्यति अधिकारं पि मे अलभमानो न कोचि गृह्णीष्यति // तत्तकं आहारं करिष्यामि यथा नैवं वड्डीभविष्यामि न वा मरिष्यामि // सो दानि तत्तकं आहारं परिभुंजति उदकं तत्तकं पिबति यथा नैव वड्डीभवति नापि मरति चापि // पुरुषो शकुन्तकानां क्रयिको आगच्छति // ततो सो शकुन्तको तस्य पंजरस्य द्वारस्य अग्रतो एवन् तिष्ठति // सो शकुन्तक्रयिको पुरुषो हस्तं पंजरे प्रक्षिपित्वा तं शकुन्तकं परामृशति न च तंमान्सं हस्तेन गच्छति उत्तोलेति न च गुरुको // ततः पंजरातो एकान्तेन कृत्वा अन्ये वड्डवड्डा शकुन्तका गुरुका ततो निलयं गृह्णति / तं शुष्कशकुन्तको ति ग्लानको ति कृत्वा न कोचि तं गृह्णाति // सो पि शाकुन्तिको पश्यति / भवितव्यं स एष शकुन्तको ग्लानो ति यदा एषो ग्लानभूतो मुक्तो भविष्यति ततो निवापं च बहुतरक भुंजिष्यति उदकं च बहुतरकं पिबिष्यति / ततः वट्टीभूतो समानो विक्रास्यति // मा एषो अन्यान् अपि शकुन्तकां ग्लानां करिष्यति संसर्गेन पंजरातो निष्कुट्टिय वाह्यतो पंजरस्य अत्तीयति पाटियेकं निपापं लभति पाटियेकं पानीयं लभति यं वेलं वट्टो भविष्यति ततो विक्रयिष्यतीति //
___सो पि पण्डितो शकुन्तको तस्य शाकुन्तकस्य विस्रम्भेसि / यं वेलं सो शाकुन्तिको तं पंजरद्वारं मुंचति शकुन्तकानाम् अर्थाये निवापस्य वा अर्थाये उदकस्य वा ततः सो शकुन्तको अप्य् अज्ञातो व तं पंजरं प्रविशति / यं वेलं सो परोक्षो भवति
[_mvu_2.243_] ततो स्वयं तं पंजरं प्रविशति / यदापि पंजरकातो निष्क्रमितुकामः भवति ततो स्वयम् एव निर्धावति / तं न कोचि ग्लानको ति कृत्वा निवारेति // सो दानि शकुन्तको तथा दुर्बलशरीरो यथा ततो पंजरातो अद्वारेणापि प्रविशति विनिष्क्रमति पि ते पि तं शकुन्तको ग्लानको ति कृत्वा उपेक्षन्ति // सो दानि यं वेलं जानति स्म विश्वस्ता मम एते शाकुन्तिका ति बहुतरकं च निवापं चरति बहुतरकं च पानीयं पिबति याव शक्यं पलायितुं दूरं उड्डीयितुं // सो दानि यं वेलं समुत्साहीभूतो अयं मे कालो पलायितुं ति सो तस्य पंजरस्य उत्तरिं स्थित्वा ताये वेलाये तेषां शकुन्तकानां पुरतो इमां गाथां अध्यभाषे //
नाचिन्तयन्तो पुरुषो विशेषम् अधिगच्छति / पश्य चिन्ताविशेषेण मुक्तो स्मि च स्वबन्धनात्* //
सो शकुन्तको एतां गाथां भाषित्वा ततो शाकुन्तिकस्य गृहातो उत्पत्तित्वा पुनः अरण्यं गतो //
___भगवान् आह // स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन पण्डितजातिको शकुन्तको अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं सो भिक्षवस् तेन कालेन तेन समयेन पण्डितजातिको शकुन्तको अभूषि // अन्यो सो तेन कालेन तेन समयेन शाकुन्तिको अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवो मारो पापीयां तेन कालेन तेन समयेन सो शाकुन्तिको अभूषि // तदापि मया एतस्य मारस्य शाकुन्तिकस्य पंजरातो मोक्षाभिप्रायेण दुष्करं चीर्णं //
_____समाप्तं शकुन्तकजातकं //
[_mvu_2.244_] भिक्षू भगवन्तम् आहन्सुः // बुद्धिविशेषेण भगवान्* शकुन्तभूतो मारस्य हस्तगतो वशगतो पंजरगतो मुक्तो // भगवान् आह // अन्यदापि बुद्धिविशेषेण एतस्य मारस्य हस्तगतो वशगतो करण्डकगतो मुक्तो // भिक्षू आहन्सुः // अन्यदापि भगवं // भगवान् आह // अन्यदापि भिक्षवः //
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे परिपात्रिका नाम नदी // तस्या कूले अपरमालाकारस्य वनमालं / असौ दानि मालाकारो मालस्यैव तं वेलं वनमालम् आगत्वा पुष्पाणि उद्विचिय पुष्पकरण्डकम् आदाय मालाकारणातो निर्धावति ग्रामाभिमुखो च प्रस्थितो // ततो च नदीतो कच्छपो उद्धरित्वा गोमयं भक्षयति तस्य मालाकारस्य अविदूरे // सो तंमालाकारेण दृष्टो / तस्य एतद् अभूषि / शोभनो मम अयं अद्य कच्छपो ओलंको भविष्यति // तेन दानि तं पुष्पकरण्डं एकान्ते स्थपिय सो कच्छपो गृहीतो // सो तं तहिं पुष्पकरण्डे प्रक्षिपति / तं च सो कच्छपो मानुषिकाये वाचाये आह // इमाहं कर्दमम्रक्षितो ततो मयेतं पुष्पं कर्दमेन विनाशिष्यति / अत्र मे उदके धोवित्वा करण्डे प्रक्षिप / तद् एते पुष्पा न विनास्यन्ति // सो दानि मालाकारो पश्यति // शोभनो खल्व् अयं कच्छपो गच्छामि तं अत्र उदके धोवामि / ततो एषा पुष्पाणि न विनाशिष्यन्ति कर्दमेन // सो पैतृकविषये शुण्डिकापंचमानि अंगानि प्रसारेत्वा तस्य मालाकारहस्तातो भ्रष्टो // तहिं उदके गाढो ताये नदीये अविदूरे तटम् उदेत्वा तं मालाकारं गाथाये ध्यभाषति //
[_mvu_2.245_] निरामया पारिपात्रि कृषिकारणा च कूलेन शक्तितो / कर्दमकृतो स्मि मालिक धोविय पेलाय मां प्रक्षिप //
अथ खलु भिक्षवः स मालाकारो कच्छपं गाथाये प्रत्यभाषति //
बहुका मये संचितासु राज्ञा त्रिगणो बहुको समागतो / तत्र तुवं कच्छप करण्डे मालकृते रमिष्यसि //
अथ खलु भिक्षवः स कच्छपस् तं मालाकारं गाथाये अध्यभाषे //
बहुका तव संचितासु राज्ञा त्रिगणो बहुको समागतो / मत्तो प्रलपसि मालिक तैले भुंजथ भद्रकच्छपं //
भगवान् आह // स्यात् खलु भिक्षवः पुनर् युष्माकं एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन भद्रकच्छपो अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं सो भिक्षवः तेन कालेन तेन समयेन कच्छपो अभूषि // अन्यः स तेन कालेन तेन समयेन मालाकारो अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषो सो भिक्षवो मारो पापीयां तेन कालेन तेन समयेन सो मालाकारो अभूषि // तदापि अहं एतस्य मालाकारस्य हस्तातो बुद्धिविशेषेण मुक्तो / एतरहिं पि अहं एतस्य मारस्य विषयातो बुद्धिविशेषेण मुक्तो //
_____समाप्तं कच्छपजातकं //
अपि च न भिक्षवः एतरहिं एव एतस्य विषयातो मुक्तो अन्यदाप्य् अहं एतस्य हस्तगतो
[_mvu_2.246_] विषयातो प्रमुक्तो // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवः //
___भूतपूर्वं भिक्षवो अतीतमध्वाने समुद्रकूले महावनखण्डं नानावनषण्डेहि नानावार्णेहि वृक्षेहि पुष्पफलोपेतेहि उदुम्बरबहुलेहि उपशोभितं // तहिं वानरो महान्तस्य वानरयूथस्य यूथपतिः // सो तत्र वनषण्डे तेन वानरयूथेन सार्धं प्रतिवसति शान्ते प्रविविक्ते बहुमृगपक्षिशतेहि निषेविते निर्मनुष्यचरिते // सो च वानराधिपो तहिं समुद्रकूले महान्ते उदुम्बरवनवृक्षे शाखापलाशबहुले उदुम्बराणि भक्षयति // ततो च समुद्रातो महान्तो शुशुमारो तं प्रदेशम् आगतो // स तत्र समुद्रतीरे आसति / तेन वानराधिपेन दृष्टो // तस्य शुशुमारं दृष्ट्वा कारुण्यं संजातं / कुत्र व तेषां जलचराणां समुद्रमध्ये पुष्पो वा फलो वा / यं नूनम् अस्य इतो हं उदुम्बरफलानि ददेहं // सो दानि तस्य ततो उदुम्बरवृक्षातो वड्डवड्डानि उदुम्बराणि पक्वानि वर्णसंपन्नानि रससंपन्नानि अग्रतो पातेति निपतितनिपतितानि च उदुम्बराणि भक्षयति // एवं शुशुमारो पुनः पुनो तं प्रदेशं तस्य वानरस्य समीपं आगच्छति // सो तस्य वानराधिपो आगतागतस्य वृक्षातो उदुम्बराणि पातेति // ते दानि उभये वानरो च शुशुमारो च परस्परस्य प्रियमाणा संजाता // तस्यापि दानि शुशुमारस्य भार्या तं स्वामिं अपश्यन्ती उत्कण्ठयति // भवितव्यं मम स्वामिकेन अन्या शुशुमारी प्रगृहीता / ततः सो मम मूलातो गत्वा ताये सार्धं आसति // सा दानि तं स्वामिकं पृच्छति // कहिं त्वं मम मूलातो गत्वा आससि // सो ताम् आह // समुद्रतीरे अमुकस्मिं उद्देशे महावनखण्डे तत्र मम वानरो मित्रो
[_mvu_2.247_] तेन सह आलापसंलापेन आसामि // तस्या दानि शुशुमारीये एतद् अभूषि // याव सो वानरो जीविष्यति तावद् एषो मम स्वामि तहिं गत्वा वानरेण सार्धं आलापेन आसिष्यति / ततो तं वानरं मारापेमि तेन च मारितेन एषो मे स्वामिको न भूयो तं प्रदेशं गमिष्यति // सा दानि शुशुमारी ग्लानकं कृत्वा आसति // सो तां शुशुमारो पृच्छति // भद्रे किं ते कृत्यं किन् ते दुःखं किन् ते अभिप्रेतं आख्याहि किन् ति देमि आणपेहि // सा नं आह // आर्यपुत्र मर्कटहृदयस्य मे दोहलो / यदि मर्कटस्य हृदयं लभामि एवं जीवेयं अथ न लभामि नास्ति मे जीवितं // सो नां आह // प्रसादं करोहि कुतो इह समुद्रे मर्कटस्य प्रचारो यदि अन्यस्मिं अभिप्रायो जलचरे तव उपस्थपेमि // सा दानि आह // न मे अन्यत्र अभिप्रायो मर्कटहृदये अभिप्रायो तन् मे उपस्थपेसि यदि इच्छसि मे जीवन्तीं // सो नां पुनः पुनो संज्ञपयति // प्रसीदाहि भद्रे कुतो इह उदकमध्ये मर्कटो // सा दानि // यो सो तव समुद्रकूले मर्कटो वयस्यो स्य वयस्यस्य हृदयं आनेहि // सो आह // प्रसादं करोहि सो मर्कटो मम वयस्यो च मित्रो च कथं अहं शक्यामि तस्य हृदयम् उत्पाटयितुं // सा दानि आह // यदि न शक्नोसि मम मर्कटहृदयम् उपस्थपयितुं नास्ति मे जीवितं // सो दानि शुशुमारो ताये शुशुमारीये सुष्टु उपग्रहीतो समानो आह // अहं जलचरो सो च मर्कटो स्थलचरो च वनचरो च यत्र चरति तत्र मम अगति / तत् कथं अहं शक्यामि तस्य मर्कटस्य हृदयम् आनयितुं // यथोक्तं पण्डितेहि //
शतं माया क्षत्रियाणां ब्राह्मणानां दुवे शते //
सहस्रं माया राजानां स्त्रीणां माया अनन्तिका इति //
[_mvu_2.248_] सा दानि तस्य शुशुमारस्य आह // एते वानरा फलभक्षा फललोला तस्य वानरस्य जल्पाहि / वयस्य एत्थ समुद्रपारे नानावर्णानि वृक्षाणि नानाप्रकाराणि पुष्पफलपिण्डभारभरितानि आम्राणि जम्बूनि च पनसानि भव्यानि च पालेवतानि च क्षीरकानि च तिन्दुकानि पिप्पलानि च / आगच्छ तत्र त्वां नेष्यं नानाप्रकाराणि फलानि परिभुंजिष्यसि / ततो यदा तव हस्तगतो भवेय ततो तं मारित्वा हृदयं आनेसि // तेन दानि शुशुमारेण अभ्युपगतं // आनेष्यन्तस्य मर्कटस्य हृदयं प्रीता भवाहि न भूयो उत्कण्ठं करोहि मा परितप्यासि //
___सो दानि शुशुमारो तां भार्यां च आश्वासेत्वा तं प्रदेशं गतो यहिं सो वनषण्डे वानराधिपो प्रतिवसति // सो दानि तेन वानराधिपेन शुशुमारो दृष्टो / सो दानि वानरो तं दृष्ट्वा शुशुमारं प्रतिमोदित्वा पृच्छति // वयस्य किं दानि सुचिरेण आगतो अस्माकम् अवलोकयितुं किं क्षेमं मा वा किंचित्* शरीरपीडा आसि // सो दानि आह // वयस्य क्षेमं च न च किंचि शरीरपीडा आसि अपि मे समुद्रपारं गत्वा आगत्वा // सो तं पृच्छति कीदृशं समुद्रपारं भवति // शुशुमार आह // वयस्य रमणीयं समुद्रपारं नानाप्रकारेहि वृक्षसहस्रेहि पुण्यफलोपेतेहि उपशोभितं आम्रेहि च जंबूहि च पनसेहि च भव्येहि च पालेवतेहि उपशोभितं मातुलुंगेहि तिन्दुकेहि च पियालेहि च मधुकेहि च क्षीरिकेहि च अन्येहि च फलजातीहि येषाम् इह प्रचारो नास्ति / यदि तव अभिप्रायो आगच्छ नानाप्रकाराणि फलानि परिभोक्तुं तहिं गम्यते // तस्य दानि वानरस्य फलभुक्तस्य फललोलस्य नानाप्रकाराणि फलानि श्रुत्वा तहिं समुद्रपारे गमनबुद्धी उत्पन्ना // सो दानि तं शुशुमारम् आह //
[_mvu_2.249_] स्थलचरो कथं शक्येया समुद्रपारं गन्तुं // शुशुमारो आह // अहं ते नेष्यामि मम इह ग्रीवायाम् आरुह्य उपशेहि उभयेहि च हस्तेहि कर्करीय लग्नेहि // सो दानि वानरो आह // एवं भवतु गच्छामि यदि मनेसि // सो दानि शुशुमारो आह // ओतराहि अहं ते नेमि // सो दानि वानरो उदुम्बरातो ओतरित्वा तस्य शुशुमारस्य ग्रीवायाम् आरुह्य उभयेहि हस्तेहि कर्करीय लग्नो // सो दानि शुशुमारो तं वानरं गृहीत्वा समुद्रं प्रतीर्णो नातिदूरे समुद्रस्य तं वानरं उदके चालेति // सो तं वानरो आह // वयस्य किं दानि मे उदके चालेसि // सो नं आह // वयस्य न जानासि कस्यार्थाय मया त्वम् आनीतो / तस्य मे वयस्यीये मर्कटहृदयस्य दोहलो / ततो मर्कटस्य हृदयस्यार्थाय त्वं मया आनीतो / सा मे वयस्य भार्या तव हृदयं खादिष्यति / एवं त्वं मया आनीतो // सो दानि वानरो आह // वयस्य मम हृदयो उदुम्बरे उत्कण्ठितो स्थपितो यथा लहुकतरो समुद्रं तरेयं न च अतिभारो भवेयाति / तद् यदि ते अवश्यं मर्कटहृदयेन कार्यं ततो निवर्ताम ततो उदुम्बरातो तं मर्कटहृदयं ओतारियान दास्यामि // तस्य दानि मर्कटस्य यथाजल्पन्तस्य तेन शुशुमारेण पत्तीयितं // सो दानि शुशुमारो तं गृह्णीय तहिं प्रतिनिवृत्तो क्षणान्तरेण तं वनखण्डप्रत्युद्देशम् अनुप्राप्तो // ततो वानरो तस्य शुशुमारस्य ग्रीवातो उप्फारित्वा तं उदुम्बरं प्रक्रान्तो // सो दानि शुशुमारो आह // वयस्य ओतराहि एतं अतो उदुम्बरातो हृदयं गृह्णीय // अथ खलु भिक्षवः सो वानरो तं शुशुमारं गाथाभिर् अध्यभाषे //
वट्टो च वृद्धो च होसि प्रज्ञा च ते न विद्यते / न तुवं बाल जानासि नास्ति अहृदयो क्वचि //
[_mvu_2.250_] प्रत्युत्पन्नेषु कार्येषु गुह्यम् अर्थं न प्रकाशयेत्* / लभन्ति पण्डिता बुद्धिं जलमध्ये व वानरः //
अलम् एतेहि आम्रेहि जंबूहि पनसेहि च / यानि पारे समुद्रस्य अयं पक्वो उदुम्बरो //
भगवान् आह // स्यात् खलु भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन समुद्रतीरे वनषण्डनिवासी वानरो अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं सो भिक्षवः तेन कालेन तेन समयेन समुद्रतीरे वनषण्डनिवासी वानरो अभूषि // अन्यः स तेन कालेन तेन समयेन महासमुद्रे शुशुमारो अभूषि / (न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषो सो मारो पापीयां तेन कालेन तेन समयेन महासमुद्रे शुशुमारो अभूषि) // तदाप्य् अहं एतस्य हस्तगतो वशगतो बुद्धविशेषेण विषयातो अतिक्रान्तो एतरहिं पि एतस्य अहं मारस्य पापीमतो विषयातो अतिक्रान्तो //
_____समाप्तं मर्कटजातकं //
भिक्षू भगवन्तम् आहन्सुः // पश्य भगवन् कथम् अयं मारो पापीमां भगवतो तपोवने दुष्करचारिकां चरन्तस्य पृष्ठतो अनुबद्धो ओतारार्थी ओतारगवेषी अलभन्तो च ओतारं निर्विद्य प्रत्यवक्रान्तो // भगवान् आह // न भिक्षवः एतरहिं एव एषो मारो पापीमां पृष्ठतो नुपृष्ठतो समनुबद्धो ओतारार्थी ओतारगवेषी अलभन्तो च ओतारं निर्विद्य प्रत्यवक्रान्तो // भिक्षू भगवन्तम् आहन्सुः // अन्यदापि हि भगवं // भगवान् आह // अन्यदापि भिक्षवो //
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे शाकुन्तिकेन
[_mvu_2.251_] अरण्यायतने शकुन्तकानाम् अर्थाये कालपाशा ओड्डिता निवापो प्रकीर्णो / ततः एकान्तं गत्वा तेषां पाशानां दर्शनपथे आसति // तहिं च अपरो शकुन्तको पण्डितजातिको अरण्यायतने महान्तं शकुन्तकयूथं परिहरति // तस्य शकुन्तस्य यूथपतिस्य बुद्धिविशेषेण तं शकुन्तकयूथं वर्धति न परिहीयति / स तेषां शकुन्तकानां परिरक्षति साकुन्तकानाम् अपि मूलातो चाण्डालकानाम् अपि मूलातो मृगलुब्धकानाम् अपि मूलातो विडालक्रोष्टुकानाम् अपि मूलातो नकुलानाम् अपि भंगकुलानाम् अपि // सो दानि साकुन्तिकेन विगतेन शकुन्तकयूथेन सार्धं तहिं अरण्यायतने विहरन्तो तहिं उद्देशे अनुप्राप्तो यत्र तेन शाकुन्तिकेन तानि कालपाशानि ओड्डितानि तं च निवापं प्रकीर्णं // तेहि शकुन्तेहि तहिं उद्देशे चरमाणेहि तिलतण्डुलकोद्रवश्यामानां गन्धं घ्रायितं // ते दानि तस्य निवापस्य तं गन्धं घ्रायित्वा इतः इतो निरीक्षन्तेहि दृष्टं तं निवापं {सेनर्त्: विवापं} तहिं पि उद्देशे सानं परिसमन्ते दृष्टं // ते तं यूथपतिं शकुन्ता आमन्त्रयन्ति // यूथपति अत्र उद्देशे तिलतण्डुलानि च कोद्रवश्यामाकानि गच्छाम परिभुंजाम // सो शकुन्तो तेषां शकुन्तकानाम् आह // मा गच्छिष्यथ अयं अरण्यायतनं न इह निवापं तण्डुलानां कोद्रवश्यामाकानां वा प्रवृद्धि अथ क्षेत्रेषु एतानि चान्यजातानि भवन्ति तेषां केषांचित्* न अरण्यायतने / नूनं अत्र देशे शाकुन्तिकेहि शकुन्तानाम् अर्थाय कालपाशो ओड्डितो निवापो च प्रकीर्णं मा अत्र अल्लीयिष्यथ / येन अहं चरामि उद्देशेन तेन तेनापि चरथ // तेन साकुन्तिकेन तं महान्तं शकुन्तयूथं तहिं अरण्यायतने उपलक्षितो / ततो सो शाकुन्तिको दिवसे अन्यमन्येहि प्रत्युद्देशेहि // येहि प्रत्युद्देशेहि तेषां शकुन्तकानां गमनो प्रविचारो तेहि उद्देशेहि दिवसे तानि कालपाशानि ओड्डितानि
[_mvu_2.252_] निवापानि च प्रकिरेति / समन्तेन च यूथपति शकुन्तो तेषां शकुन्तानां तेहि तेहि प्रत्युद्देशेहि ततो कालपासेहि विवापा च वारेति // एवं कालपाशोकासा गच्छन्ति //
___तस्य शाकुन्तिकस्य तत्र अरण्यायतते तस्य शकुन्तयूथस्य गोचरे शकुन्तानां निवापार्थाय खिद्यन्तस्य बुभुक्षाये पिपासाये पि सन्तप्तस्य एवं भवति / इदानि बन्धिष्यन्ति मुहूर्ते बन्धिष्यन्ति एते शकुन्ता एतेहि पाशेहि अल्लीयन्तीति // ते नं शकुन्ता यूथपतस्य पृष्ठतो तेषां कालपाशानां परिसामन्तेन चरन्ति तच् च निवापं पश्यन्ति न च निवापपाशभूमिं आक्रमन्ति सर्वकालं चरन्तो कालपाशेहि निवापातो च आत्मानं रक्षन्ति // शाकुन्तिको पि एको ततो पश्यति तां शकुन्तकां तेषां कालपाशानां परिसामन्तेन चरन्ता एवं च तस्य भवति / एते अल्लीयन्ति विकालं एते बन्धिष्यन्ति इदानि बन्धिष्यन्ति मुहूर्ते बन्धिष्यन्ति // एवं शाकुन्तिको तहिं अरण्यायतने तस्य शाकुन्तयूथस्य गोचरातो दिवसे दिवसे बुभुक्षाये च पिपासाय च सन्तप्तो शुष्केन मुखेन स्फुटितेहि ओष्ठेहि शीतकालेन शितेन दह्यन्तो उष्णकालेन उष्णेन पच्यन्तो वातातपेन दह्यन्तो खिज्जित्वा नित्यं विकालं क्षणितेन हस्तेन गृहं गच्छति हतो भवति //
___स तु शकुन्तयूथं दृष्ट्वा अखिज्जन्तं नित्यं तस्य शकुन्तयूथस्य गोचरे आगत्वा कालपाशानि च ओड्डेति निवापानि च प्रकिरेति // सो दानि ग्रीष्माणां पश्चिमे मासे तहिं अरण्यायतनं गत्वा तस्य शकुन्तयूथस्य गोचरे पुनः कालपाशे ओड्डित्वा
[_mvu_2.253_] निवापानि च प्रकिरित्वा एकान्तं गत्वा कालपाशदर्शनपथे आसति // सो च शकुन्तो यूथपति शकुन्तयूथं परिहरन्तो तेन महन्तेन शकुन्तयूथेन सार्धं तेषां कालपाशानां निवापस्य च परिसमन्तेन चरति // शकुन्तका भूयो तानि तिलतण्डुलानि पुनो पुनः पश्यन्ति दृष्ट्वा दृष्ट्वा तं यूथपतिं आपृच्छन्ति // इमानि तिलतण्डुलानि चरेम // यूथपति जल्पति // मा अत्र अल्लीष्यथ कुतो इह अरण्यायतने तिलानां वा तण्डुलानां वा प्रवृद्धि क्षेत्रेहि व तिलानि भवन्ति केदारेहि न शालिव्रीहितण्डुलानि भवन्ति अन्यानि च धान्यजातानि / मा अल्लीष्यथ अपक्रमथ इमातो उद्देशातो // सो पि दानि शकुन्तिको पश्यति // एवं चिरं कालं मम इह अरण्यायतने एतेषां शकुन्तानाम् अर्थाये खिज्जन्तस्य कालपाशानि च ओड्डेन्तस्य निवापानि प्रकिरेन्तस्य अल्पस्मिं एतस्मिं अरण्यायतनोद्देशे एवं चरकालं विस्तीर्णो यत्र मया कालपाशानि च ओड्डितानि निवापानि च प्रकीर्णा न च कदाचिद् एते शकुन्तका अत्र कालपाशेषु अल्लीयन्ति निवापानि वा चरन्ति // बहूनि वर्षाणि खिज्जन्तस्य शीतकाले शीतेन दह्यन्तस्य उष्णकाले उष्णेन पच्यन्तस्य वातातपेहि च हन्यन्तस्य बुभुक्षाये पिपासाये शुष्यन्तस्य मम न कदाचि एत्तकेहि वर्षेहि परिभ्रममाणस्य एवं महन्ततो शकुन्तयूथातो एको पि शकुन्तको हि हस्तम् आगतो // को उपायो भवेया येनाहम् एतां शकुन्तकान् तेहि कालपाशेहि बन्धेयं // तस्य एतद् अभूषि // यन् नूनाहं पत्रशाखेहि परिवेठित्वा एतं शकुन्तकयूथं येन एते कालपाशा तेन आकालेयं //
___अथ खलु भिक्षवः सो शाकुन्तिको ग्रीष्माणां पश्चिमे मासे ग्रीष्मिकेहि वातातपेहि
[_mvu_2.254_] सन्तप्यन्तो क्षुत्पिपासापरिगतो पत्रशाखेहि आत्मानं परिवेष्टयित्वा तं महान्तं यूथं येन ते कालपाशा तेन संपरिकालेति // अथ खलु भिक्षवो ते शकुन्तका तं शाखान्तिकं वृक्षशाखेहि संपरिवेठितं अतिदूरेण परिसक्कन्तं दृष्ट्वा यूथपतिं आमन्त्रयेन्सुः // यूथपति एष वृक्षो इमस्य शकुन्तयूथस्य वाहिरवाहिरेण गच्छति // एवं स भिक्षवः यूथपति शकुन्तको तां शकुन्तां गाथाये अध्यभाषे //
दृष्टा मया वने वृक्षा अश्चकर्णा विभीतका / एवं च कर्णिकारा पि मुचिलिन्दा च केतका //
तिष्ठन्ते ते वने जाता अथायं गच्छते द्रुमो / नायं केवलको वृक्षो अस्ति तत्रैव किंचन //
अथ खलु भिक्षवः सो शाकुन्तिको ग्रीष्माणां पश्चिमे मासे ग्रीष्मिकेहि वातातपेहि संतप्तो खिन्नो भग्नो मथितो ताये वेलाये गाथाम् अध्यभाषि //
पुराणतित्तिरिको यं भित्त्वा पंजरम् आगतो / कुशलो कालपाशानां क्रमापक्रमन्ति भाषति //
भगवान् आह // स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन तेषां शकुन्तकानां यूथपतिः परिकड्ढको पण्डितजातिको शकुन्तको अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं भिक्षवस् तेन कालेन तेन समयेन शकुन्तयूथपति परिकड्ढको पण्डितजातिको शकुन्तको अभूषि // अन्यो सो शाकुन्तिको अभूषि / नैतद् एवं द्रष्टव्यं // एष भिक्षवो मारो पापीमां तेन कालेन तेन समयेन
[_mvu_2.255_] शाकुन्तिको अभूषि // तदापि एषो मम कालपाशानि च जालानि च निवापानि च ओड्डित्वा चिरं कालं पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारं गवेषी अलभन्तो च अवतारं निर्वद्य प्रत्यवक्रान्तो / एतरहिं पि एष मम षड्वर्षाणि तपोवने दुष्करं चरन्तस्य पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारगवेषी अलभन्तो अवतारं निर्विद्य प्रत्यवक्रान्तो //
_____समाप्तं शकुन्तकजातकं //
भिक्षू भगवन्तम् आहन्सुः // भगवता सुभाषितस्य अर्थाये मान्सशोणितं परित्यक्तं // भगवान् आह // न भिक्षवो एतरहिं एव सुभाषितस्य अर्थाये मान्सशोणितं परित्यक्तं / अन्यदापि मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तं // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवः //
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं अनुहिमवन्ते सुरूपो नाम हरिणो प्रतिवसति प्रासादिको रमणियो मनोरमशरीरो रक्तेहि खुरेहि रक्तेहि शृंगेहि अंजितेहि अक्षीहि चित्रोपचित्रेण कायेन महान्तं मृगयूथं परिहरति पण्डितो बुद्धिमन्तो सुकशलमूलपुण्य-उपस्तब्धो // तस्य मृगस्य पुण्योपचयेन तं सर्वं मृगयूथं सुखितं नानाप्रकाराणि भोजनानि चरमाणा शीतलानि च पानीयानि पिबमाना तहिं अनुहिमवन्ते प्रतिवसति अभीता अनुत्त्रस्ता न केनचित्* शक्यं विहेठयितुं मनुष्येण वा व्याडमृगेन वा परिणायकसंपन्ना // शीतकाले उष्णप्रदेशेहि तं मृगयूथं परिकड्ढति उष्णकाले शीतेहि वनषण्डेहि तं मृगयूथं परिकड्ढति प्रियो देवानां नागानां यक्षाणां
[_mvu_2.256_] किन्नराणां वनदेवानां मृगानां तथान्येषां पि भूतानां // अथ खलु भिक्षवः शक्रो देवानाम् इन्द्रो तं मृगं जिज्ञासनार्थं लुब्धकवासम् आत्मानम् अभिनिर्मिणित्वा येन सो सुरूपो मृगराजा तेनोपसंक्रमित्वा तं मृगराजम् आह // मम सुभाषिता गाथा अस्ति यदि आत्ममान्सं परित्यजासि ततो गाथां श्रवयिष्यामि // सो मृगराजा तस्य लुब्धकस्य वचनं श्रुत्वा प्रीतो संवृत्तो यदि चाहं इमेन विनाशधर्मेण सुभाषितं शृणोमि महतानुग्रहेण अनुग्रहीतो भवामि // सो दानि मृगराजा तं मृगलुब्धकं आह // परित्यजामि आत्ममान्सं सुभाषितस्य अर्थाये श्रावेहि मे सुभाषितं शीघ्रं अविघ्नेन // शक्रो देवानाम् इन्द्रो मृगराजस्य ताये धर्मगौरवताये प्रीतो संवृत्तो // सो तं आह // वरं एवंरूपाणां एव सत्पुरुषाणां पादपान्सुरजो न सौवर्णो पर्वतो / सत्पुरुषाणां पादपान्सुरजो शोकहानाय संवर्तति सुवर्णपर्वतो पि शोकवृद्धिये संवर्तति / शक्रो देवानाम् इन्द्रो मृगराजस्य जिज्ञासनं कृत्वा तत्रैवान्तरहायि //
सुरूपं नाम हरिणं लुब्धको एतद् अब्रवीत्* / अस्ति सुभाषितगाथा मान्सं देहि शृणोहि मे //
यदि विनाशधर्मेण मान्सेनाहं सुभाषितं / शृणोमि मान्सं ते देमि शीघ्रं ब्रूहि सुभाषितं //
लुब्धको आह //
सतां पादरजः श्रेयो न गिरि कांचनामयं / सो रजो शोकहानाय स गिरि शोकवर्धनः //
भगवान् आह // स्यात् खलु पुनः भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन अनुहिमवन्ते सुरूपो नाम मृगयूथपति परिकड्ढको धर्मिको मृग अभूषि /
[_mvu_2.257_] नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं सो भिक्षवः तेन कालेन तेन समयेन अनहिमवन्ते मृगयूथपति परिकड्ढको सुरूपो नाम धर्मिको मृगराजा अभूषि // तदा मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तं एतरहिं पि मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तं //
_____सुरूपस्य मृगराज्ञो जातकं समाप्तं //
एवं मया श्रुतं एकस्मिं समये भगवान् राजगृहे विहरति गृद्धकूटे पर्वते महता भिक्षुसंघेन सार्धं पंचहि भिक्षुशतेहि // अथ खलु नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो एते चान्ये च संबहुला शुद्धावासकायिका देवपुत्रा अभिक्रान्तवर्णा अतिक्रान्ताये रात्रीये केवलकल्पं गृद्धकूटं पर्वतं वर्णेनावभासयित्वा येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकमन्ते अस्थासि सगौरवा सप्रतीसा एकांशीकृता प्रांजलिकृता भगवन्तम् एव नमस्यमाना // एकान्तसंस्थितस्य नन्दस्य देवपुत्रस्य अयम् एवरूपो चेतसो परिवितर्को उदपादि // इमं अवलोकितं नाम व्याकरणं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भाषितपूर्वं च साधु भगवां पि एतरहिं भिक्षूणां भाषे // भगव्तो संमुखं प्रतिश्रुत्वा संमुखं प्रतिगृहीतं तथत्वाय धारयिष्यन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // अधिवासेति भगवान् नन्दस्य देवपुत्रस्य तूष्णीभावेन अनुकम्पाम् उपादाय // अथ खलु नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च
[_mvu_2.258_] देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो भगवतो तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तरहायेन्सुः //
___अथ खलु भगवान् तस्यैव रात्र्या अत्ययेन येन संबहुला भिक्षवः तेनोपसंक्रमित्वा प्रज्ञप्त एवासने निषीदि // निषद्य खलु भगवान् तां भिक्षून् आमन्त्रयति // दोषा भिक्षवः नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनश् च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो अभिक्रान्तवर्णा अतिक्रान्तायां रात्र्यायां केवलकल्पं गृध्रकूटं पर्वतं वर्णेनावभासयित्वा येन तथागतस् तेनोपसंक्रमित्वा तथागतस्य पादौ शिरसा विन्दत्वा एकमन्ते अस्थासि सगौरवा सप्रतीशा एकांशीकृता तथागतम् एव नमस्यमाना // एकान्तस्थितस्य भिक्षवो नन्दस्य देवपुत्रस्य अयम् एवरूपो चेतसो परिवितर्को उदपासि // अयं अवलोकितं नाम व्याकरणं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भषितपूर्वं च // अथ खलु भिक्षवः नन्दो च देवपुत्रो तथागतम् एतद् अवोचत्* // अयं भगवन्* अवलोकितं नाम व्याकरणं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भाषितपूर्वं च // साधु भगवां पि एतरहिं भिक्षुणां भाषेया / भिक्षू भगवतः संमुखं श्रुत्वा तथत्वाय धारयिष्यन्ति / तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च // अधिवासेति भिक्षवः तथागतो नन्दस्य देवपुत्रस्य तूष्णीभावेनानुकम्पाम् उपादाय // अथ खलु भिक्षवो नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो तथागतस्य तूष्णीभावेनाधिवासनां विदित्वा हृष्टतुष्टा आत्तमना प्रमुदिता प्रीता सौमनस्यजाता
[_mvu_2.259_] तथागतस्य पादौ शिरसा वन्दित्वा तथागतम् एव च त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तरहायेन्सुः // तत्र ते भिक्षू भगवन्तम् एतद् अवोचत्* // साधु भगवान् भिक्षूणाम् एतम् अर्थं भाषे भिक्षू भगवतः संमुखं श्रुत्वा प्रतिगृहीत्वा तथत्वाय धारयिष्यन्ति // एवम् उक्ते भगवान् तां भिक्षून् एतद् अवोचत्* // अवलोकितं भो भिक्षवो व्याकरणन् तं शृणोथ साधु भो शृणोथ मनसिकरोथ भाषिष्यामि च // साधु भगवन्* इति ते भिक्षू भगवतः प्रत्यश्रोषीत्* // भगवां सो तां एतद् उवाच //
___यदा भिक्षवो बोधिसत्वो अपारिमातो तीरातो पारिमं तीरं अभिविलोकेति अभिविलोकनापूर्वंगमेहि धर्मेहि समुदागच्छमानेहि ये पि ते महेशाख्या देवा ते पि तथागतम् अग्राये परमाये पूजाये पूजयन्ति अग्राय परमाय अपचिताय अपचायन्ति शुद्धावासा च देवा अष्टादश आमोदनीयां धर्मान् प्रतिलभन्ति // कतमे अष्टादश // पूर्वयोगसंपन्नो महाश्रमणो ति शुद्धावासा देवा आमोदिनीयं धर्मं प्रतिलभन्ति / पूर्वोत्पादसंपन्नो ज्येष्ठताम् अनुप्राप्नुवन्तो च अनुत्तरं च लोके युगोत्पादसंपन्नो कल्याणोत्पादसंपन्नो अग्रोत्पादसंपन्नो ज्येष्ठोत्पादसंपन्नो श्रेष्ठोत्पादसंपन्नो प्रणिधिपूर्वोत्पादसंपन्नो निश्रयसंपन्नो उपधानसंपन्नो उपस्तम्भसंपन्नो संभारसंपन्नो अविपरीतधर्मं श्रमणो देशयिष्यति नैर्याणिकं लोकोत्तरं असाधारणं अव्यावध्ययशं गम्भीराभासं महाश्रमणो धर्मं देशयिष्यति सर्वाकारप्रतिपूरं सर्वाकापरिशुद्धं इति शुद्धावासा देवा आमोदनीयं धर्मं प्रतिलभन्ति // यद् भिक्षवो बोधिसत्वो अपारिमातो
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
