Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 21/24

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

महावस्तु-अवादन

Thông tin
GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

___राहुलो दानि भगवतो छायाये स्पृष्टः / तस्य दानि सर्वरोमाणि हृष्टानि सर्वगात्राणि प्रक्लिन्नानि सर्वशरीरं च प्रीणितं / भगवतः छायाये निषीदित्वा

[_mvu_3.258_] भगवन्तम् अनिमिषं निध्यायति // राहुलो दानि मातरं पृच्छति // अम्बे कहिं पिता गतो // यशोधरा आह // पुत्र दक्षिणापथं गतः // राहुल आह // अम्बे केनार्थेन दक्षिणापथं गतः // यशोधरा आह // वाणिज्येन गतो // राहुल आह // किस्य दानि सो मम तातो न किंचित् शोभनं प्रेषयति // यशोधरा आह // पुत्र क्षत्रियेहि मार्गो विरुद्धः // तद् यदि आगच्छ्यति तदा स्वयं आगमिष्यति // राहुलो आह // अम्बे किं एष श्रमणको मह्यं ज्ञातिको भवति / न कहिंचित्* मम एदृशो मनो निपतति यथायं श्रमणो / मन्याम् अहं इदानीं मे सर्वहृदयं हरति / तं नाहेतुकं यन् मम इमस्य श्रमणस्य सह दर्शनेन ईदृशं प्रेमं अतिरिव (उत्पादितं) यथा नान्येषां शाक्यानां / तन् मन्याम् अहं पिता व सो मम // सा दानि यशोधरा आह // पुत्र न एषो तव पिता // राहुलो दानि मातृकरुणकण्ठिकाय याचति // अम्बे अन्यवश्यं मे आचिक्षाहि को मम एष श्रमणको भवति // तस्या यशोधराये प्रेम्नस्नेहेन हृदयं परिपीडितं / पश्यति किं से करिष्यामि / यदि ताव आचिक्षिष्यं वधो दण्डो / अथ दानि नाचिक्षिष्यं स्वको मे पुत्रो परिवंचितो भविष्यति / जाने किं भवतु आचिक्षिष्यं अहं // कामं खलु मे शाक्या तीक्ष्णेन शास्त्रेण अंगम् अंगानि च्छिन्देन्सुः संप्रदालेन्सुः न त्व् एव राहुलशिरिस्य स्वकस्य पुत्रस्य नाचिक्षिष्यं // कामं खलु मे शाक्या कायं तीक्ष्णेन शास्त्रेण वद्धपट्टिकायं पाटयेन्सुः न त्व् एवाहं राहुलशिरिस्य स्वकस्य पुत्रस्य नाचिक्षिष्यं // कामं खलु मे शाक्या कायं तीक्ष्णेन शस्त्रेण कहापणमांसिकं पि च्छिन्देन्सुः न त्व् एवाहं

[_mvu_3.259_] राहुलशिरिस्य स्वकस्य पुत्रस्य नाचिक्षिष्यं // कामं खलु मे शाक्याः काये अपि बिलशतानि पाटेन्सुः न त्व् एवाहं राहुलशिरिकस्य स्वकस्य पुत्रस्य नाचिक्षिष्यं //

अथ दृष्ट्वा आगतं तं गणवरपरिवारितं पुरुषसिंहं / मीलितविगतः अभिमनो निध्यायति राहुलो सुगतं //

वाराणचकोरनयनां अंजनपूरेहि मुदितनयनेहि / मातरम् अवलोकयन्तो निध्यायति राहुलो सुगतं //

तं दृष्ट्वा उपनिषण्णं गणवरपरिवारितं पुरुषसिंहं / वत्सो इव क्षीरपको उपागमे येन संबुद्धो //

सो च मुदितो नरोत्तमो निषण्णो . . . . सुगतच्छायायां / आमन्त्रयति जननीं सुखं श्रमणस्येयं छाया //

बहुका शाक्यकुमारा दृष्टा मया गता दशसु दिशासु / आभरणभारभरिता नो मह्यं मनं प्रसीदेति //

यथेमं काषायधरं दृष्ट्वा तूर्णं प्रीण्यति मे गात्रं / भाषन्तं मधुरवचनं श्रुत्वान प्रीणितं मे गात्रं //

जालमृदुहस्तपादो समन्तप्रासादिको प्रदर्शनियो / प्रेक्षन्तो पि नंदाम्य् अहम् असेचनकदर्शनो खु अयं //

तुष्टो भवामि दृष्ट्वागच्छन्तं दूरतो कनकवर्णं / प्रतिगच्छन्ते तु अहं दुःखितो भवामि अभावेन //

पश्यन्तो नाहेतुकं मह्यं यमसंस्तवं कनकवर्णं /

[_mvu_3.260_] सहदर्शनाद्* . . . .अतिरिव मनं प्रसादियति //

मन्याम् अहं पिता मम भ्राता ततः तहिं तहिं जातीषु / आसीद् मम श्रमणको तथा ह्य् अयं प्रीणयति गात्रं //

आचिक्षे मह्यं जननि यदि ते दृष्टं श्रुतं पि वा पूर्वं / कस्यार्थाये मम सो अतिरिव चित्तं प्रसादेति //

तस्य वचनं श्रुणित्वा स्वकस्य पुत्रस्य भाषमाणस्य / उष्णम् इव विश्वसन्तो राहुलमाता अतो अब्रवीत्* //

परिदह्यते मे हृदयं परिपृच्छति वाचाय मधुराय सो / न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुं //

कामं खु मह्यं कायं छिन्देन्सुः सुनिशितेन शस्त्रेण / न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुं //

कामं खु मह्यं कायं शाक्या वद्धपट्टिकायं पाटेन्सुः / न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुं //

कामं खु मह्यं कायं कहापणमासिकं पि च्छिन्देन्सुः / न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुं //

कामं खु मह्यं काये शाक्या अपि बिलशतानि पाटेन्सुः / न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुं //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं / कर्णिकारं व संकुसुमितं सुवर्णवर्णं प्रसादनियं //

[_mvu_3.261_] यस्यैषा शंखवला भमुकान्तर ऊर्णा दक्षिणवर्ता / एषो ते पुत्र पिता यस्यैषा प्रभा च निश्चरति //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं / कालानुसारिसदृशं प्रवायंतं शीलगंधेन //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं / हिमवां व शैलराजा प्रतिष्ठितं ध्यान चत्वारि //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं / नाग इव हेमवन्तो अभ्युद्गत आर्यसंघस्य //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं / सिंह इव दाठि बली विलोकयन्तं दशदिशासु //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं / ऋषभो इव गोगणस्य परिवारितम् आर्यसंघेन //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं / चन्द्रो व पूर्णमासी प्रभाय लोकं विरोचयति //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं / सूर्यो व उदयन्तो अन्धान जनेति ओभासं //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं / शक्रो व देवराजा पुरस्कृतो देवतागणेहि //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं / ब्रह्मा व ब्रह्मलोके उदीरयति अद्भुतं घोषं //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं /

[_mvu_3.262_] सालवनं व संकुसुमितं द्वात्रिंशलक्षणरुचिरांगः //

एषो ते पुत्र पिता यो नगरवरं त्वां चापि ममं च / अवहाय निष्क्रान्तो अनपेक्षी ज्ञातिसंघस्य //

एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं / शयने सुखप्रसुप्तां कण्ठकम् अभिरुह्य निर्यातो //

एतस्य देवता हि द्वारं विवरेन्सु लोकनायकस्य / शब्दं चान्तरहाये मा कोचि जनो श्रुणे शब्दं //

सो तत्र मल्लविषये आमन्त्रेसि च्छन्दकम् आसीनो / चूडा सा परिगृहीता आहर शुद्धोदनसकाशं //

आभरणा कण्ठकं च . . . उपनामय पृथिवीपाले / अभिवादनं च ब्रूहि मातुश् च ममं नरपतिं च //

अनिवर्तितं गमिष्यं कृतस्वकार्थश् च आगमिष्यामि / ओहितभारविशल्यो पुण्यक्षेत्रो भवे लोके //

ओहितभारविशल्यो कृतस्वकार्थो जितक्लेशो ज्ञाति / गणं अनुकम्पमानो इह आगतो व कपिलवस्तुं //

राहुलो दानि मातुः सकाशातो श्रुत्वा एषो मे पिता ति ततः भगवतो चीवरकोणके श्लिष्ट आह // अम्बे यदि एष मम पिता भवति अगारस्यानगारियं प्रव्रजिष्ये पैतृकं मार्गं अन्वेष्यं // समनन्तरं राहुलो भगवतश् चीवरकोणके संश्लिष्टः / ताहि दानि अन्तःपुरिकाहि रावो सृष्टो // राजा दानि शुद्धोदनो

[_mvu_3.263_] तं रवं श्रुत्वा भीतो पृच्छति // कस्यैष पापको शब्दः महतो जनकायस्य निर्घोषा यादृशो सर्वार्थसिद्धे अभिनिष्क्रान्ते // ततः अपरेहि आख्यातं // देव राहुलकुमारो भगवतश् चीवरकोणके संश्लिष्टो अहम् अपि प्रव्रजिष्यामीति // राजा दानि शुद्धोदनो उत्कण्ठितो उत्कण्ठं उत्सृजति राजवंशे // राजा दानि शुद्धोदनो प्ररुण्डो यदा राजा प्ररुण्डो तदा सर्वं शाक्यमण्डलं प्ररुण्डं / एवं दानि अभ्यन्तरतो वाह्यतो च एकोरोदनं वर्तति // राजा शुद्धोदनो रोदित्वा अश्रूणि परिमार्जयन्तो येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ वन्दित्वा एकासम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठापयित्वा येन भगवान्स् तेनांजलिं प्रणामयित्वा भगवन्तम् एतद् अवोचत्* // पर्याप्तं यं भगवां चक्रवर्तिराज्यम् अवहाय महान्तं च . . . . एको अभिनिष्क्रान्तो तत् साधु भगवं राहुलकुमारं अनुजानाहि यं न प्रव्रजिष्यति मा अयं राजवंशो उद्विद्धिष्यति // भगवान् आह // चरमभविको महाराज एषो सत्वो कृताधिकारो वासितवासनो अन्येहि बुद्धेहि अभव्यो एषो गृहकलत्रमध्यावसितुं / एतेहि एव स्कंधेहि परिनिर्वापयितव्यं // राजापि शुद्धोदनो श्राद्धप्रसंनो श्रद्दधाति भगवतो आह च // यतो भगवान् अभिनिष्क्रान्तो ततो एकेहि अस्माभि न शक्षितं किंचिद् राहुलस्य अधिकारं कर्तुं न जातकर्मापि न जटाकरणकर्मापि न कुण्डलवर्धनं / यदा भगवं राहुलेन अत्यवश्यं प्रव्रजितव्यं तत् साधु भगवां आगमेतु सप्त दिवसानि सप्तमे दिवसे अभिनिष्क्रमणं करिष्यति तम् एव से भविष्यति जातिकर्म तम् एव चूडाकरणं तम् एव कुण्डलवर्धनं तम् एव अभिनिष्क्रमणं //

[_mvu_3.264_] अथ खलु भगवां राहुलम् आमन्त्रयति // निवर्ताहि राहुल यथा ते अय्यको आणपेति तथा करोहि // राहुलः दानि भगवतो चीवरकोणका ओसृष्टो //

___यशोधराये दानि राहुलं हस्ते गृहीत्वा अन्तःपुरं प्रवेशितो उत्संगेन गृहीत्वा निषण्णा आह // पुत्र राहुल मा प्रव्रजाहि दुरभिसंभुणं नाम दानि पुत्र मन्यसि / एदृशानि काशिकसूक्ष्माणि वस्त्राणि धारेतव्यानि यथा इह राजकुले एदृशाहि महार्हाहि शय्याहि शयितव्यं यथेह राजकुले एदृशानि मृष्टानि भोजनानि भोक्तव्यानि यथेह राजकुले / अपि तु पुत्र राहुल प्रव्राजिकेन भूम्यां तृणसंस्तरिके शयितव्यं वृक्षमूले शेय्यासनं चण्डालपुक्कसकुलानि पिण्डाय गन्तव्यं क्रुड्ढप्रसन्नानां मुखं निरीक्षितव्यं अपि श्वसमानं पि उच्छिष्टं भोजनं भोक्तव्यं / अपि कुम्भवासीये श्मशाना उज्झितचोडका साहर्तव्या अरण्यायतनेहि विहर्तव्यं / तत्र भैरवाणि शब्दानि श्रूयन्ति सय्यथीदं सिंहशब्दा पि व्याघ्रशब्दा पि भेरुण्डकशब्दा पि / त्वं च पुत्र राहुल सुकुमारो सुखोचितो राजकुले संवृद्धो त्वं च पुत्र संमर्जितको वीणावंशपणवमधुरां शब्दां श्रुणमाणो कथं ते रतिर् भविष्यति तं कुहं नाम संभुणिष्यसि // तत्र साधु पुत्र राहुल इह अन्तःपुरे पंचहि कामगुणेहि क्रीडाहि प्रविचारयाहि किं चानेन प्राव्राज्येन // राहुल आह // अम्बे न सो मम पिता महाराजकुले संवृद्धो // यशोधरा आह // एवम् इदं // राहुल आह // अम्बे यो कोचित् सम्यग्वदमानो वदे सो सुकुमारो परमसुकुमारो ति तत् सो यो मे पिता

[_mvu_3.265_] न सो भूम्यां तृणसंस्तरिके शयति वृक्षमूले शय्यासनं कल्पयति कुलाकुलेषु पिण्डाय चरति उच्छिष्टानि भोजनानि भुंजति अरण्यायतने विहरति न सो पि नाम एवं सुकुमारो एवं सुखोचितो तेनापि अभिसंभुणितं तद् वयं नाभिभुणिष्यामः // अपि च अम्बे कामान् अवहाय अगारस्यानगारियं प्रव्रजिष्यं अत्यवश्यं निर्वाणं प्रापयिष्यामो / अपि च अम्बे यद्य् अत्र कोचि धृतिमां स्मृतिमां मम एवं तत्र गणयाहि अहम् एव प्रव्रजिष्यं अन्वेष्यं पैतृकं मार्गं // यशोधरा आह // पुत्रावश्यं प्रव्रजिष्यसि // राहुल आह // बाढं अत्यवश्यं // यशोधरा आह // नास्ति मोक्षो // राहुल आह // नास्ति // यशोधरा आह // परित्यजसि ममं च आर्य्यकं च ज्ञातिवर्गं च // राहुलो आह // बाढं परित्यजिष्ये // यशोधरा आह // शृणु पुत्र यदि तावद् अत्यवश्यं अगारस्यानगारियं प्रव्रजसि ततो षडिन्द्रियेहि सुसंवृतगुप्तद्वारेण विहरितव्यं भोजने च ते मात्रज्ञताये भवितव्यं / पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन भवितव्यं / आरब्धवीर्येण ते भवितव्यं / स्थानचंक्रमनिषद्यायोगम् अनुयुक्तेन ते विहरितव्यं / अपि मान्सशोणितं ते पुत्र परित्यजितव्यं / न चैव बुद्धप्रज्ञप्तिशिक्षापदं अतिक्रमितव्यं / प्रज्ञप्तं च ते पुत्र भगवतो शिक्षापदं परिपूर्ण्णं धारयितव्यं / अपि जीवितहेतोर् अपि ते पुत्र अण्वेतव्यं / अप्राप्तस्य निर्वाणस्य प्राप्तये सुसंवृतेन च ते पुत्र भवितव्यं // तत् कस्य हेतोः // आगच्छन्ति हि पुत्र स्त्रीमहल्लिका प्रासादिका दर्शनीया भगवतो पादवन्दीयो तेषां ते पुत्र मातृसंज्ञा उपस्थापयितव्या / आगच्छन्ति पुत्र स्त्रीकुमारीयो प्रासादिका दर्शनीया आभरणभरिता तत्र ते पुत्र च्छन्दो न करणीयो अपि तु ते

[_mvu_3.266_] पुत्र तस्मिं समये दुःखानुपश्यिना विहरितव्यं अनित्यानुपश्यिना विहरितव्यं // यदि शक्नोसि पुत्र राहुल प्रव्रज्यातो चित्तं विनिवर्तयितुं ततः सप्रसादो भवाहि //

___अथ खलु राज्ञा शुद्धोदनेन कपिलवस्तुनगरे आणत्तिका दिन्ना / यत्तकं कपिलवस्तुस्मिं नगरे सामन्तं द्वादश योजनानि यत् किंचिद् गन्धं च माल्यं च पुष्पं च चूर्णं च तं सर्वं समुदानयथ / यत्तका नटनर्तक-ऋल्लमल्लपाणिस्वरिका संनिपातेथ //

मनसा देवानां वचसा पार्थिवानां अचिरेणाढ्यानां कर्मणा दरिद्राणाम् इति //

राज्ञो वचनमात्रेण तं नगरम् अलंकृतं शोधितं अपगतशर्करकठल्लं धूपघटिकाविधूपितं अवसक्तपट्टदामकलापं चित्रदुष्यपरिक्षिप्तं विततवितानं मुक्तपुष्पावकीर्णं //

. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . किंकारणा विविधमाल्यभूषणा प्रथमयौवनधरीयो / शृंगाटके स्थितानि बहूनि प्रमदासहस्राणि //

प्रासादगर्भनिलया कुमारिका . . . . तदा आसि / मृगिका व त्वरितत्वरिता ओलोकनका निधावन्ति //

शुद्धोदन-आत्मजस्य पुत्रो बुद्धस्य राहुलो नाम / विजहिय . . . . भगवां राज्यं चवहाय प्रव्रजति //

[_mvu_3.267_] पटहानि च वीणायो वादेन्ति वरस्वरा प्रमुंचंति / आहन्यन्ति मृदंगा न चिरं निर्यास्यति कुमारो //

वल्लकिपरिवादिनीयो मधुरं गुमुगुमुन्ति कोणपरिघटिता / . . . . . . . . . न चिरं निर्यास्यति कुमारो //

द्वीपि-अजिनेहि विचित्रो सनन्दिघोषो रथो परिच्छन्नः / अभिरुह्य रथं . . . . अभिमनो कुमारो भिनिष्क्रमति //

कामस्वस्त्ययनानि पाणिघटसहस्रा अमितयशस्य / निनंदिंसुः अग्रतो राहुलस्य अभिनिष्क्रमन्तस्य //

एते अंशुकशिखरीजाता शाटककम्बलकनिवस्ता / हस्तिस्कंधवरगता कुमार निर्यान्तम् अनुयान्ति //

एते अंशुकशिखरीजाता शाटककम्बलकनिवस्ता / विचित्रसुमधुरभणिता कुमार निर्यान्तम् अनुयान्ति //

रथयुग्ययानयोजनं समाचितं शिरिये विय पश्यन्ति / पुनः अश्रुपूर्णनयना राज्ञो अन्तःपुरिका दुःखिता //

वारणचकोरनयनो संप्रति नगरद्वारम् अनुप्राप्तः / इन्द्रो व मरुहि परिवृतो अन्तःपुरिकाहि ललिताहि //

न्यग्रोधारामं गतं नरुत्तमं नायकं पुरुषसिंहं / उपगम्य कनकवर्णं नरुत्तमं राहुलो पितरं //

[_mvu_3.268_] वन्दति च उत्तमयशं यशप्राप्तो मृदुतलेहि जालेहि / शीर्षं परिमार्जते च नरर्षभो कुंजरपुत्रस्य //

किं राहुलभद्र फलिता नियमप्रेक्षा त्वं सकरुणरूपं / विजहिय भवान्तको भव स्पर्षेहि निर्वाणं //

भगवां दानि आयुष्मन्तं शारिपुत्रम् आमन्त्रयति // प्रव्राजेहि शरिपुत्र राहुलं सकुटिको ते भविष्यति // स्थविरो दानि भगवन्तं पृच्छति // कथं भगवं प्रव्राजयिष्यं // भगवान् आह // यथा शारिपुत्र आर्ये धर्मविनये प्रव्रज्य कुमारभूतस्य // भणाति अहं राहुलो बुद्धं शरणं गच्छामि धर्मं शरणं गच्छामि संघं शरणं गच्छामि / द्वितीयं पि अहं राहुलो बुद्धो मे शरणो अनन्यशरणो धर्मो मे शरणो अनन्यशरणो संघो मे शरणो अनन्यशरणो // अहं राहुलो यावज्जीवं प्राणातिपातात् प्रतिविरमिष्यं यावज्जीवम् अदत्तादानात् प्रतिविरमिष्यं यावज्जीवं कामेहि मिथ्याचारात् प्रतिविरमिष्यं यावज्जीवं मृषावादात् प्रतिविरमिष्यं यावज्जीवं सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरमिष्यं उपासकं मे धारेहि इमेहि पंचहि शिक्षापदेहि // अहं राहुलो बुद्धं भगवन्तं प्रव्रजितम् अनुप्रव्रजामि द्वितीयकं पि बुद्धं भगवन्तं प्रव्रजितम् अनुप्रव्रजामि तृतीयं पि राहुलो बुद्धं भगवन्तं प्रव्रजितम् अनुप्रव्रजितो हम् अस्मि // अहं राहुलो यावज्जीवं प्राणातिपातात् प्रतिविरतो वैरमणं श्रामणेरस्य शिक्षापदं यावज्जातरूपरजतप्रतिग्रणशिक्षापदं धारयामि / इमे हि दश शिक्षापदानि // स्थविरो दानि राहुलस्य केशान्य् ओतारेत्वा प्रव्राजेत्वा दक्षिणेन हस्तेन

[_mvu_3.269_] शारिपुत्रो गृहीत्वा वामतो मौद्गल्यायनो तृणसंस्तरकं उपविशेन्सुः // एवं दानि भगवां कर्तव्य . . . . . दिवि भुवि च विश्रुतयशं विनीतगणश्रावकं विपुलप्रज्ञं / श्रावकयुगं दशबलो आमन्त्रये करकन्दिकरो //

तीक्ष्णा हि इन्द्रियाणि आज्ञास्यति राहुलो इमं धर्मं / प्रव्रजतु कुमारो सो कृतानुकारी भवतु मह्यं //

कालज्ञो शारिसुतो . . . . . लोकनायकं अवचि / प्रव्राजेमि कथम् अहं राहुलशिरि मान्सजं जिनस्य //

लोकम् अनुकम्पमानो ब्रह्मस्वरो नायको समाख्याति / यथ आर्यधर्मविनये प्रव्रज्या कुमारभूतस्य //

वामेन ग्रहेत्वा मौद्गल्यायनो दक्षिणेन उपतिष्यो / प्रव्राजेत्वा एतं तृणसंस्तरकं उपविशेन्सुः //

सो वलयकानि सुवर्णसूत्रं च यस्य काये ओहरति / न भूयो चरे दुःखार्त्तो आर्त्ता स्मरन्ति दशबलस्य //

वारणचकोरनयनं माता पुत्रं विशालताम्राक्षं / उत्संगे स्थापयित्वा इमाहि गाथाहि अध्यभाषि //

उत्तमप्रावारधरो अनुलेपनरागवासितशरीरः / दुःचरकं स्रामण्यं अत्यन्तसुखोचितेन त्वया //

तायीनां प्रमुदितव्यं चोलकखण्डा वर्चे खनित्वान /

[_mvu_3.270_] उच्छिष्टं भोक्तव्यं अपि राहुल कुम्भदासीये //

तुवं सुवर्णनूपुरो . . . . . . . . . . . / उत्तप्तकांचनसबलो ज्ञाती तुह्यं अभिरमेन्ति //

किन् तव पुत्र अरण्येन श्रुत्वा तासां घोषं वीणानां / मधुरमंजूघोषाणां . . . . . . नकुलकानां //

न धारेसि इमस्मिं प्रावचने . . . . . . एहि पुत्र / प्रतिगच्छ पराङ्मुख्यो न हि सुलभं अच्युतं स्थानं //

राहुल आह //

यदि मातः केचिद् उद्घटितज्ञा ममापि तत्र गणयाहि / अहम् अपि हि क्लेशमथनो अनुगंसं पैतृकं मार्गं //

निशिशाति नापितो खुरं राहुलो च मणिचूडं मुंचेति / तदा अभिमनो . . . . . अनुस्मरन्तो द्विपदश्रेष्ठं //

दृष्ट्वा च नं अभिमनं उद्युक्तं शासने दशबलस्य / तं प्रापुणाहि क्षिप्रं स्फृश निर्वाणं सुखं शान्तं //

ये ते पुत्रक धर्मा जातिं च जरां च वीतिवर्तेन्ति / तां प्रापुणाहि क्षिप्रं इति राहुलं अपि सो अवच //

तां शिरसिजसल्लेखां आवल्लितनीलकण्ठसहवर्णां /

[_mvu_3.271_] उत्संगेन ग्रहेत्वान मातास्य प्रतिच्छुपति केशां //

सा अश्रुपूर्णनयना यशोधरा धर्मवेगसंजातं / पुत्रं स्वं राहुलशिरिं अपगतकेशशिरं दृष्ट्वान //

तं अपगतगृहिलिंगं द्रुमरक्तं काषायप्रावृतकं / मौद्गल्यानुपतिष्या प्रव्राजयि राहुलकुमारं //

स प्रव्रजितो ततो वै पुत्रो द्वात्रिंशल्लक्षधरस्य / विहरति शिक्षाकामो उपतिष्यं निश्राय स्थविरं //

एवं त्वयि प्रतिरूपं यो त्वं श्रद्धाय प्रव्रजित्वान / कामगुणेष्व् अनपेक्षो चरसे अलिप्तमनो . . . //

शालीनमोदनं शुचि अनेकसूपरसव्यंजनोपेतं / भुंजित्व शाकियकुले पिण्डाये राहुलो चरति //

तमतिमिरपटलमथनं पुत्रं बुद्धस्य राहुलं नाम / सर्वाश्रवप्रहीनं वन्दथ शिरसा च मनसा च //

अथ खलु यशोधरा राहुलमाता यदा भगवान् अन्तःपुरिकानां मूले भुजित्वा ततः यशोधरा राहुलमाता तासां ज्येष्ठिकानां गौरवेण पश्चिमके दिवसे येन भगवान्स् तेनांजलिं प्रणामयित्वा भगवन्तं सश्रावकसंघं शुवेतनाय भक्तेन निमन्त्रेति / अधिवासये भगवां तूष्णीभावेन // अथ खलु यशोधरा भगवतस् तूष्णीभावेनाधिवासनां विदित्वा हृष्टा प्रीतिसौमनस्यजाता संवृत्ता // तस्या एव रात्र्या

[_mvu_3.272_] अत्ययेन प्रभूतं खादनीयभोजनीयं प्रतिजागरित्वा बहूनि प्रत्यग्रप्रणीतानि मोदकानि वर्णगन्धरसोपेतानि प्रतिजागरित्वा तस्यैव रात्र्यात्ययेन स्वकं निवेशनं सिक्तसंमृष्टं कारापितं ओसक्तपट्टदामकलापं मुक्तपुष्पावकीर्णं विततवितानं भगवतो महार्हासनप्रज्ञप्तिः कृता यथोपकं च भिक्षुसंघस्य //

___अथ खलु भगवां काल्यस्यैव निवासयित्वा पात्रचीवरम् आदाय भिक्षुसंघपरिवारितो न्तःपुरं प्रविशति // अथ खलु यशोधरा राहुलमाता नानाप्रकारेहि वस्त्रेहि चाभरणेहि चात्मानम् अलंकृत्वा भगवन्तं परिविशति मोदकेन च भगवन्तं प्रलोभयति अप्य् एव नाम आर्यपुत्रः अगारम् अध्यावसेया न च भगवतो चित्तस्यान्यथात्वं // अथ भगवां यं कालं भुक्तो धौतपाणिर् अपनीतपात्रो भिक्षुसंघो च ततः भगवता राजा शुद्धोदनो महाप्रजापती गौतमी यशोधरा च राहुलमाता सपरिवारा धर्मया कथया . . . . संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रामि //

___भिक्षू दानि भगवन्तम् आहन्सुः // पश्य भगवं कथं यशोधरा सर्वालंकारविभूषिता आत्मानम् अलंकृत्वा भगवन्तं परिविशति मोदकेन च भगवन्तं प्रलोभयति न च चित्तस्यान्यथाभावो // भगवान् आह // न हि भिक्षवः एतरहिम् एव अन्यदापि एषा यशोधरा सर्वालंकारविभूषिता आत्मानं अलंकृत्वा परिविशति मोदकेन च प्रलोभयति अत्रान्तरे एकशृंगजातकं पुनः कर्तव्यं //

___भगवान् अनुत्तरं सम्यक्संबोधिम् अभिसंबुद्धित्वा तत्रैव बोधिमूले तृणसंस्तरके निषण्णो पर्यंकम् अभिद्यन्तो प्रीतिसुखेन सप्ताहं आसति // इह मया बोधिद्रुमे अग्रता प्राप्ता

[_mvu_3.273_] सप्ताहं पूर्णो संबोधिं बुद्धित्वा जातिजरामरणगहनकान्तारस्य पर्यन्तं कृतं / इह मया क्लेशमारो भग्नो देवपुत्रमारो भग्नो इह मम अपरिमितम् असंख्येयप्रणिहिता प्रणिधि समृद्धा / इहाहं बोधिद्रुमे अनवराग्रस्य . . . . . . . . [सप्ताहपूरं संबुद्धो बोधिं बुद्धित्वा] उत्तमां / आसनातो न उत्थेसि सर्वलोकस्य चेतियो //

देवकोटीसहस्राणि गगणस्मिं समागता / पुष्पवर्षं प्रवर्षेन्सुः सप्तरात्रम् अनूनकं //

उत्पलां पदुमां दिव्यां पुण्डरीकां मनोरमां / सहस्रपत्रां रुचिरां तत्र देवा प्रवर्षति //

मारश् च दुर्मना आसि काण्डेन लिखते महीं / जितो स्मि देवदेवेन शाक्यसिंहेन तायिना //

त्रयस्त्रिंशा च यामा च तुषिता ये च निर्मिता / परनिर्मिता देवा च कामधातुप्रतिष्ठिता //

लोहितं चन्दनं दिव्यं अगुरुं तथ चम्पकं / दिव्या च पुष्पवर्षाणि अन्तरीक्षातो ओकिरे //

दिव्यं च रतनचूर्णं अन्तरीक्षातो ओसिरे / अक्षमात्राहि धाराहि बुद्धक्षेत्रं स्फरी इमं //

ब्रह्मकोटीसहस्राणि गगनस्मिं समागता / वर्षंति सूक्ष्मं चूर्णं हि दिव्यं लोहितचंदनं //

भूम्यां देवां उपादाय शुद्धावासां स्वयंप्रभां /

[_mvu_3.274_] एषा परंपरा आसि देवताहि परिस्फुटा //

छत्त्रध्वजपताकाहि अन्तरीक्षं परिस्फुटं / करोन्ति पूजनां श्रेष्ठां संबुद्धस्य शिरीमतो //

आभा च विपुला मुक्ता बुद्धक्षेत्रं परिस्फुटं / भवाग्रलोकधातूयो अग्निशुभ्रा व तिष्ठति //

प्रशान्ता निरया आसि बुद्धरश्मिभि सर्वशो / शीतीभूता च अंगानि सर्वे च सुखिता अभूत्* //

येषां नैरयिकं दुःखं परिक्षीणं तद् अनन्तरं / निरयेषु च्यवित्वान देवेषु उपपद्यिषु //

संजीवे कालसूत्रे च तपने च प्रतापने / प्रशान्तो रौरवे अग्निर् लोकनाथस्य रश्मिभिः //

अवीच्याम् अथ संघाते प्रत्येकनिरयेषु च / प्रशान्तो सर्वशो अग्निर् लोकनाथस्य रश्मिभिः //

यावन्ता लोकधातूषु प्रत्येकनिरया अभूत्* / प्रशान्तो सर्वशो अग्निर् लोकनाथस्य रश्मिभिः //

ये च तिरच्छानयोनीयं मान्सरुधिरभोजना / मैत्राय स्फुट बुद्धेन न हिंसन्ति परस्परं //

छत्त्रध्वजपताकाभिः बोधिवृक्षो अलंकृतो / कूटागारेहि संछन्नो देवपुत्रेहि निर्मितो //

खण्डकान्तारका पि च शर्करसिकता पि च / समन्ता बोधिमण्डातो हेष्टा भूमौ प्रतिष्ठिता //

[_mvu_3.275_] रत्नामयीये भूमीये बोधिमण्डं परिस्फुटो / या नाभि बुद्धक्षेत्रस्य देवपुत्रेहि निर्मिता //

देवपुत्रसहस्राणि धरणीये प्रतिष्ठिता / धूपनेत्रां ग्रहेत्वान पूजयन्ति लोकनायकं //

हेष्टा च धरणी सर्वा पद्मेहि च परिस्फुटा / जाम्बुनदसुवर्णस्य बुद्धतेजेन उद्गता //

ये चापि व्याधिदुःखार्त्ता अलेना अपरायणा / अरोगा सुखिता भूता बुद्धरश्मिपरिस्फुटा //

जात्यन्धा रूपा पश्येन्सु लब्ध्वा चक्षुं विशारदं / परस्परं चालपेन्सुः बोधिप्राप्तस्य तायिनो //

रागश् चाप्य् अपि च दोषो मोहश् च अन्तकीकृतः / यं कालं शाक्यसिंहेन प्राप्ता बोधि महर्षिणा //

प्रासादा च विमाना च कूटागारा मनोरमा / सर्वे ततोमुखा आसि बोधिसत्वस्य तायिनो //

यावन्तो बुद्धक्षेत्रस्मिं नरनारी च किन्नरा / सर्वे ततोमुखा आसि येन बोधि महर्षिणः //

देवता देवपुत्राश् च देवकन्या च शोभना / सर्वे ततोमुखा आसि येन सो पुरुषोत्तमः //

नागाश् चाप्य् अथ गन्धर्वा यक्षा कुम्भाण्डराक्षसा / सर्वे ततोमुखा आसि येन बोधि महर्षिणो //

दारका दारिका चैव शय्यायं अवरोपिता /

[_mvu_3.276_] ततोमुखा संस्थिहंसु येन बोधि महर्षिणो //

ये चाप्य् आभरणा दिव्या विशिष्टा रतनामया / आबद्धा आसि देवानां सर्वे ततोमुखा अभू //

नागानां अथ यक्षाणां पिशाचराक्षसान च / अभू आभरणा सर्वे येन बोधि निरिंगिता //

देवानाम् अथ नागानां यक्षाणां राक्षसान च / ततोमुखा विमानाभू येन बोधि महर्षिणो //

नूपुरा वलया चैव अथ वा पारिहारका / बोधिप्राप्तस्य बुद्धस्य येन बोधि निरिंगिता //

वलंजिता च निष्कानि कण्ठे हारा च शोभना / आबद्धका मनुष्याणां येन बोधि निरिंगिता //

मुक्ताहारा च आबद्धा चित्रा च मणिकुण्डला / ओगुण्ठिका मुद्रिका च येन बोधि निरिंगिता //

यावन्ति बुद्धक्षेत्रस्मिं सत्वधातू अचिन्तिया / जानन्ता च अजानन्ता येन बोधि निरिंगिता //

वाता च शीतला वाये मंजुगन्धा मनोरमा / समन्ता बोधिक्षेत्रस्मिं बोधिप्राप्तस्य तायिनो //

एकपुत्रस्मिं यं प्रेम्नं शुश्रूषा च प्रतिष्ठिता / मातापितॄणां इष्टस्मिं एवं आसीत् तद् अनन्तरं //

यावन्ति बुद्धक्षेत्रस्मिं देवा नागा च मानुषा / असुरा च किन्नरा यक्षा सर्वे पश्यन्ति नायकं //

[_mvu_3.277_] धूपनेत्रां ग्रहेत्वान सर्वे तेन सुखस्थिता / पूजेन्ति लोकप्रद्योतं [बोधिमण्डे प्रतिष्ठितं] //

अंजलीहि नमस्यन्ति गाथाहि च स्तवन्ति ते / पूजां करोन्ति बुद्धस्य बोधिमण्डे प्रतिष्ठिता //

सर्वे आसन्नं पश्यन्ति लोकनाथं प्रभंकरं / न कश्चिद् दूरे संजाने व्याममात्रे यथा स्थितं //

न कश्चित् पृष्ठतो बुद्धं लोकधातूय पश्यति / सर्वदिशा हि बुद्धस्य समन्ता पश्यति मुखं //

वामदक्षिणपार्श्वेन न कश्चिल् लोकनायकं / संजानति महावीरं सर्वे पश्यन्ति संमुखं //

धूपनं बुद्धक्षेत्रस्मिं धूपितं च तद् अनन्तरं / समन्ता बुद्धक्षेत्राणां गन्धेन कोटियो स्फुटा //

न शक्यं गणनां कर्तुं एत्तिया सत्वकोटियो / पश्यित्वा शिरिं बुद्धस्य ये बोधिम् अभिप्रस्थिताः //

तृणा च ये केचिद् अस्ति औषधीयो वनस्पति / सर्वे ततोमुखा आसि येन बोधि महर्षिणो //

को इमां एदृशां धर्मं लोकनाथेन देशितां / श्रुणित्वा न सिया तुष्टो अन्यत्र मारपक्षिकात्* //

न शक्या सर्वम् आख्यातुं वाचाय ऋद्धिभाषतः / या शिरी आसि बुद्धस्य बोधिप्राप्तस्य तायिनो //

[_mvu_3.278_] येहि च दृष्टो संबुद्धो बोधिमण्डे प्रतिष्ठितः / पूजितश् च महावीरो ते श्रुत्वा तुष्ट पण्डिता //

शीलस्कन्धेन अच्छिद्रा ये च भिक्षू प्रतिष्ठिता / तेषां श्रुत्वा इदं सूत्रं महाहर्षं जनेष्यति //

भद्रकक्षान्तिसौरभ्यसंपन्ना अदीनमानसा / अर्थिका बुद्धज्ञानेन तेषां तुष्टिर् भविष्यति //

ये हि आश्वासिता सत्वा मोचेष्यामि उपद्रुता / बुद्धित्वम् उत्तमां बोधिं तेषान् तुष्टिर् भविष्यति //

येहि ते पुरिमा बुद्धा सत्कृता द्विपदोत्तमा / ते इदं सूत्रं श्रुत्वान तेषान् तुष्टिर् भविष्यति //

हर्षिता येहि ते सत्वा अन्नपानेन तर्पिता / ते पीदं सूत्रं श्रुत्वान बुद्धे काहिन्ति गौरवं //

येहि ते अधना सत्वा धनेन अभिच्छादिता / ते इदं श्रुत्वान सूत्रं बुद्धे काहिन्ति गौरवं //

येहि च पूर्वबुद्धानां चेतिया मापिता शुभा / उद्विद्धा वरप्रासादा ते खु भविष्यन्ति प्रीणिता //

येहि प्रलुज्यन्तो सद्धर्मो लोकनाथान धारितो / त्यजित्वा लाभसत्कारं ते खु भेष्यन्ति प्रीणिताः //

ये ते असंस्कृतायुश् च दण्डकर्मेहि वर्जिता / उरसा लोकनाथस्य ते खु भेष्यन्ति हर्षिता //

ये ते मैत्रेयं संबुद्धं पश्यित्वो भविष्यतिओ भविष्यति //

[_mvu_3.279_] ये ते मैत्रेयं संबुद्धं पश्यित्वा द्विपदोत्तमं / काहिन्ति विपुलां पूजां तेषां हर्षा भविष्यति //

ये ते सिंहं महानागं पश्यित्वा लोकचेतियं / काहिन्ति विपुलां पूजां तेषां हर्षो भविष्यति //

केतुस्य लोकनाथस्य ये करिष्यन्ति पूजनां / अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति //

प्रद्योतस्य च बुद्धस्य ये करिष्यन्ति पूजनां / अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति //

ज्योतीवरं च ये बुद्धं पश्यित्वा अपराजितं / महतीं पूजां काहिन्ति तेषां हर्षो भविष्यति //

सुनेत्रं लोकप्रद्योतं दृष्ट्वा ये सत्करिष्यति / अर्चमानाय पूजाय तेषां हर्षो भविष्यति //

द्वौ बुद्धौ कुसुमनामौ लोकनाथौ तथागतौ / ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति //

मेरुं च द्विपदश्रेष्ठं संबुद्धं वदतां वरं / ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति //

पुष्पं ये चाग्रसंबुद्धं पश्यित्वा द्विपदोत्तमं / काहिन्ति परमां पूजां तेषां हर्षो भविष्यति //

चतुर्णां च नरेन्द्राणां ये संघं सत्करिष्यति / इमस्मिं भद्रकल्पस्मिं ते उदग्रा भविष्यति //

ये गृद्धा लाभसत्कारे जिह्मविज्ञाननिश्रिता / बह्विच्छा तं श्रुणित्वान तेषां त्रासो भविष्यति //

[_mvu_3.280_] ये च संगणिकारामा गणवासे प्रतिष्ठिता / विवेकं श्रुत्वा बुद्धेन तेषां च सौमनस्यता //

ये च दुःशील श्रुत्वान एवं बुद्धेन भाषितं / नता लोकप्रदीपस्मिं तीव्रं काहिन्ति गौरवं //

ये ते व्याकृता बुद्धेन बोधिसत्वा अनागता / सूरता सुखसंवासा तेषां तुष्टिर् भविष्यति //

येषां विवर्तना नास्ति बुद्धज्ञानातो सर्वशः / ते इदं सूत्रं श्रुत्वान भविष्यन्ति सुखिता नराः //

ये हि पुरिमबुद्ध सत्वसारा गुरुकृता सत्कृता पूजिता नरेन्द्रा / प्रणतमना शिष्ट बुद्धज्ञाने नरवरवर्ण श्रुणित्व तुष्ट भोन्ति //

येषाम् अविकला समन्त श्रद्धा वरगुणकोटिशतेहि ये उपेता / ये च धारयि धर्म लुज्जमानं मुदितमना सुगतस्य शासनस्मिं //

ये च अचपला अनुद्धता च अमुखरा अभू अकीर्णवाचा / सुसखिलवाचा न मानुपेता जिनवरवर्ण श्रुणित्व तुष्ट भोन्ति //

येषाम् अपरित्यक्तं बुद्धज्ञानं

[_mvu_3.281_] एवं विरजा अनन्ततुल्यबोधि / ये च व्रतं चरन्ति अप्रमत्त जिनवरज्ञान श्रुणित्वा तुष्ट भोन्ति //

अथ खलु भगवां सप्ताहस्यात्ययेन सिंहासनातो उत्थाय बोधिद्रुमं नागविलोकितेन विलोकयन्तो अनिमिषाये दृष्टीये प्रीतिसुखेन द्वितीयं सप्ताहं अनाहारो अस्थासि बोधिद्रुमं अनिमिषाये दृष्टीये निरीक्षन्तो इह मम बोधिद्रुमे अनवराग्रस्य जातिजरामरणसंसारगहनकान्तारस्य पर्यन्तं कृतं इह मम क्लेशमारो भग्नो मृत्युमारो भग्नो स्कन्धमारो भग्नो देवपुत्रमारो भग्नो इह ममापरिमितमसंख्येयप्रणिहिता प्रणिधि समुद्धा इहाहं बोधिद्रुमे लोके अग्रतां प्राप्तः लोके श्रेष्ठतां प्राप्तो सत्वसारतां प्राप्तः //

___भगवां सप्ताहं प्रीतिसुखेन बोधिद्रुमं अनिमिषाये दृष्टीये निध्यायित्वा तृतीयं सप्ताहं प्रीतिसुखेन दीर्घं चंक्रमं चंक्रमे // तेन खलु पुनः समयेन मारो पापीमां भगवतो अविदूरे संनिषण्णो अभूषि दुःखी दुर्मनो विप्रतिसारी काण्डेन भूमिं विलिखन्तो श्रमणो मे गौतमो विषयातो उपातिवृत्तो श्रमणो मे गौतमो विषयातो उपातिवृत्तो ति // अथ खलु तन्त्री च मारधीता अरती च मारधीता येन मारो पापीमांस् तेनोपसंक्रमित्वा मारं पापीमं गाथाये अध्यभाषति //

कामं त्वं दुर्मनो तात पुरुषं आनयाम्य् अहं / रागपाशेहि बंधित्वा अरण्यादिव कुंजरं //

प्रबन्धित्वान आनेमि वशिको ते भविष्यति //

[_mvu_3.282_] अथ खलु मारो पापीमां धीतरो गाथाये प्रत्यभाषति //

अरहां सुगतो लोके न रागेण सुवानयो / विषयो मे अतिक्रान्तो तस्माच् छोचाम्य् अहं भृशं //

अथ खलु ता मारधीतरो पितुर् मारस्य वचनं अकरित्वा येन भगवांस् तेनोपसंक्रमित्वा भगवन्तं चंक्रमन्तम् अनुचंक्रमेन्सुः / पादान् ते भगवन् परिचरेम्ह पादान् ते सुगत परिचरेम्ह // भगवां तां न चित्तीकारये यथापीदं अनुत्तरे उपधिसंक्षये सम्यक् सुविमुक्तचित्तो // अथ ता मारधीतरो एकान्तम् उपसंक्रम्य मन्त्रा मन्त्रयेन्सुः उच्चावचं पुरुषाणां छन्दो उच्चावचं पुरुषाणां छन्दः यं नूनं वयं सय्यथापि नाम पंचदशवर्षदेशिका वा षोडशवर्षदेशिका वा एवंरूपा एवंरूपाणां एकशतं एकशतं ऋद्ध्या अभिनिर्मिणित्वा येन श्रमणो गौतमस् तेनोपसंक्रमित्वा श्रमणं गौतमं चंक्रमन्तम् अनुचंक्रमेन्सुः / पादान् ते भगवं परिचरेम्ह पादां ते सुगत परिचरेम्ह / न च सानं भगवां चित्तीकारये यथापीदं अनुत्तरे उपधिसंक्षये सम्यक् सुविमुक्तचित्तो // अथ खलु ता मारधीतरो एकमन्तम् उपसंक्रम्य मन्त्रा मन्त्रयेन्सुः उच्चावचं पुरुषाणां छन्दो उच्चावचं पुरुषाणां छंदो यं नूनं वयं सय्यथापि नाम एकप्रसूता वा द्विप्रसूता वा एवंरूपा एवंरूपाणां एकशतं एकशतं निर्मिणित्वा येन श्रमणो गौतमस्

[_mvu_3.283_] तेनोपसंक्रमित्वा श्रमणं गौतमं चंक्रमन्तम् अनुचंक्रमेन्सुः / पादान् ते भगवन् परिचरेम्ह पादान् ते सुगत परिचरेम्ह / न च सानं भगवां चित्तीकारये यथापीदं अनुत्तर उपधिसंक्षये सम्यक् सुविमुक्तचित्तो // अथ खलु ता मारधीतरो एकान्तम् उपसंक्रम्य मन्त्रा मन्त्रयेन्सुः उच्चावचं पुरुषाणां छन्दो उच्चावचं पुरुषाणां छन्दो यं नूनं वयं सय्यथापि नाम मध्यस्त्रीयायो एवंरूपा एवंरूपाणां एकशतं एकशतं ऋद्ध्या अभिनिर्मिणित्वा येन भगवान्स् तेनोपसंक्रमित्वा भगवन्तं चंक्रमन्तम् अनुचंक्रमेन्सुः / पादान् ते भगवन् परिचरेम्ह पादान् ते सुगत परिचरेम्ह / न च सानं भगवां चित्तीकारये सय्यथापीदं अनुत्तरे उपधिसंक्षये सम्यक् सुविमुक्तचित्तो // अथ खलु ता मारधीतरो एकान्तम् उपसंक्रम्य मन्त्रा मन्त्रयेन्सुः अहो परमवयोवर्णनिभं अभिनिर्मिणन्ती अभिनिर्मिणेयं / यं नूनं वयं जीर्णा भवित्वा वृद्धिका भवित्वा स्थविरिका भवित्वा पलितिका भवित्वा कुब्जगोपानसीवंका दण्डम् अवलंब्य येन श्रमणो गौतमस् तेनोपसंक्रमित्वा श्रमणस्य गौतमस्य पादौ शिरसा वन्दित्वा श्रमणं गौतमं प्रत्येका प्रश्नं पृच्छेम // अथ खलु ता मारधीतरो जीर्णिका वृद्धिका स्थविरिका पलितिका कुब्जगोपानसीवंका भवित्वा दण्डम् अवष्टभ्य येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सुः // एकान्ते स्थिता तन्त्री मारधीता भगवन्तं गाथाये अध्यभाषति //

कथंविहारी बहुलीह भिक्षु पंचोघतीर्णो तरतीह षष्टं /

[_mvu_3.284_] कथंध्यायी बहुली कामसंज्ञा परिबाहितो भवति अलब्धगाढा //

अथ खलु भगवां तन्त्रीं मारधीतरां गाथाये प्रत्यभाषति //

अञ्ञाय धर्मं अवितर्कध्यायी नो रज्यते नो सरतीह थीनं / एवंविहारी बहुलीह भिक्षु पंचोघतीर्णो तरतीह षष्टं //

प्रश्रब्धकायो सुविमुक्तचित्तो स्मृतिमानकोप्यो अपनीतमानो / अवंध्यायी बहुली कामसंज्ञा परिबाहितो भवति अलब्धगाढा //

अथ खलु अरती मारधीता भगवन्तं गाथाये अध्यभाषति //

सोकाभितुन्नो व वनस्मिं ध्यायसि चिताय जीवं अभिप्रार्थयन्तो / आसाद्य ग्राम्या न करोषि साख्यं कस्माज् जने न करोषि साख्यं //

अथ खलु भगवां अरतीं मारधीतारं गाथाये अध्यभाषे //

शोकस्य मूलं परिखन्य सर्वं सर्वं प्रहाय भवलोभम् आप्स्ये /

[_mvu_3.285_] अर्थस्य प्राप्तिं हृदयस्य शान्तिं ध्यानानुयुक्तो सुखसारबुद्धिः / तस्माज् जने न करोमि साख्यं साख्यं न संविद्यते तेन अस्मे //

अथ खलु अरती मारदेवी भगवन्तं गाथाये अध्यभाषे //

आच्छेत्व तृष्णां गुणसंप्रचारी बह्व् अत्र रक्ता करिष्यन्ति च्छन्दं / बहुं वतायं जनतां सुवेध आच्छेत्व . . . . . . मृत्युराज्ञो नयिष्यति अच्युतपदम् अशोकं //

अथ खलु भगवां तां मारधीतरो गाथाये प्रत्यभाषति //

गिरिं नखेहि खनथ अयो दन्तेहि खादथ / पर्वतं शिरसा हनथ अगाढे गाढम् एषथ / किमु अन्वेथ पापीयो अपि बुद्धासूया सदा //

अथ खलु ता मारधीतरो जानाति मां श्रमणो गौतमो ति दुःखी दुर्मना विप्रतिसारी येन पिता मारस् तेनोपसंक्रमित्वा पितरं मारं गाथाये अध्यभाषे //

अद्य मे वधं पि तात न रागेण स आनिये / विषयं मे अतिक्रान्तः तस्माच् छोचाम्य् अहं भृशं //

अन्यो व तात पुरुषो अवीतसंगो अस्माकं तेन रूपेण समन्वागतानां पश्यित्व

[_mvu_3.286_] सो जितं मूर्छित्वा प्रपतिष्यद् वा उष्णं वास्य शोणितं मुखतो आगच्छे तेनैव च आबाधेन कालं अकरिष्यत्* चित्तक्षयं वा प्रापुणे श्रमणो पुनर्* तात गौतमो अरहो विगतरागो विगतदोषो विगतमोहो अभिभूय भूतो //

___अथ मारो पापीमां येन भगवांस् तेनोपसंक्रमित्वा एकान्ते अस्थासि / एकान्तस्थितो मारो पापीमां भगवन्तं गाथाये अध्यभाषे //

इहागता हर्षयन्ती तन्त्री च अरती रती / ता प्रणुदे महावीरो तूलं भ्रान्तं व मारुतं //

इत्थम् उक्त्वा च मारो पापीमां दुःखी दुर्मना विप्रतिसारी तत्रैवान्तरहाये //

___यदा भगवां प्रवृत्तप्रवरधर्मचक्रो भिक्षू भगवन्तम् आहन्सुः // कथं भगवं मारधीतरो भगवन्तम् उपसंक्रान्ता अवतारार्थी अवतारं गवेषी अलभंता च अवतारं निर्विद्य प्रत्यवक्रान्ता // भगवान् आह // न भिक्षवः एतरहिम् एव एता मारधीतरो मम उपसंक्रान्ता अवतारार्थी अवतारं गवेषी अलभंता च अवतारं निर्विद्य प्रत्यवक्रान्ता / अन्यदापि एते उपसंक्रान्ता मम अवतारार्थी अवतारं गवेषी अलभंता च अवतारं निर्विद्य प्रत्यवक्रान्ता // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवो //

___भूतपूर्वं भिक्षवः अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे धर्मलब्धो नाम वाणिजो अभूषि // स समुद्रजातिको सार्थवाहो महासमुद्रम् अवतरति सिद्धयानपात्रो च आगच्छति // तस्य ततो वाराणसीतो पंचमात्रा वाणिजशता उपसंक्रान्ता

[_mvu_3.287_] वयं पि त्वयैव सार्धं महासमुद्रम् अवतरिष्यामः // धर्मलब्धो आह // न यूयं शक्तास् तेन मार्गेण गन्तुं येनाहं गच्छामि // अहं राक्षसीद्वीपस्य मध्येन गच्छामि / तायो च राक्षसीयो वाणिजानि उपायशतेहि लोभेन्ति / तत्र बहूनि वाणिजशतानि राक्षसीहि लोभिता अनयव्यसनम् आपद्यन्ति / न शक्यं युष्माभिः मया समानं गन्तुं // सो दानि धर्मलब्धो सार्थवाहो तेषां पंचानां वाणिजशतानां न करोत्य् अवकाशं / मा तत्र राक्षसीहि लोभिता अनयव्यसनम् आपद्यथ // ते दानि पंच वाणिजशतानि संनिपतित्वा आहन्सुः // अयं धर्मलब्धो वाणिजको शोभनेन मार्गेण महासमुद्रं गच्छति क्षेमेन गच्छति क्षेमेनागच्छति लघुं चागच्छति सिद्धपात्रो च आगच्छति / अस्माकं च न किंचिद् अवकाशं करोति गमनाय / भवन्तो यादृशको एषो धर्मलब्धो वाणिजको पुण्यवन्तो पुण्यं संगृह्णाति तादृशकं यूयं पि संगृह्णथ यं वेलं एष इतो वाराणसीतो प्रतिष्ठति तं वेलं वयं पि प्रस्थास्यामः // तेहि सर्वेहि यादृशं धर्मलब्धो पुण्यं संगृह्णाति तादृशं तेहि पि पंचहि वाणिजशतेहि पुण्यं संगृहीतं यत्र काले च धर्मलब्धो वाणिजको समुद्रं प्रस्थितो तत्र काले ते पि पंच वाणिजशता संप्रस्थिता धर्मलब्धेन सार्थवाहेन सार्धं गच्छन्ति // यं कालं तत्र देशं प्राप्ता यत्र तायो राक्षसीयो ततो धर्मलब्धेन सार्थवाहेन सर्वे ते पंच वाणिजशता शब्दावियान बुध्यन्ति // भवन्तो इमे सर्वे पंच वाणिजकशता मया सार्धं वाराणसीतो संप्रस्थिता इमं च तं राक्षसीभवनं अस्माभिर् अनुप्रापुणितव्यं / तायो च युष्माकं राक्षसीयो बहुप्रकारं प्रलोभयिष्यन्ति अन्या रूपेहि प्रलोभयिष्यन्ति

[_mvu_3.288_] अन्या शब्देहि अन्या गन्धेहि अन्या रसेहि अन्या स्पर्शेहि तत्र मार्गे विविधानि नानाप्रकाराणि कामकल्याणानि अभिनिर्मिणिष्यन्ति आपणं च मार्गेषु प्रसारितं अभिनिर्मिणिष्यन्ति / यत्र तु सो कोचित् कामकल्याणं तत्र न पश्यिष्यथ / तत्र युष्माबिर् न केनचिल् लोभं कर्तव्यं न केनचित् किंचिद् गृहीतव्यं न केनचित् किंचित् प्राशितव्यं / वृक्षसहस्राणि नानाप्रकाराणि पुष्पफलोपेतानि अभिनिर्मिणिष्यन्ति मदनपुष्पेहि च मदनफलेहि च भरितानि मूलतो उपादाय यावत् पुष्पं पत्रलभारभरितानि पुष्पं वा फलं वा न आनयितव्यं / पुष्किरिणीयो च नानाप्रकाराणि अच्छानि शुभानि शीतलजलानि सुवर्णवालिकासंस्तृतानि उत्पलपदुमकुमुदपुण्डरीकसौगन्धिकसंछन्नानि सुखोपतीर्थानि अभिनिर्मिणिष्यन्ति / तत्र भवन्तेहि न केनचिद् अल्लीपितव्यं न च ततो केनचित् पुष्किरिणीहि उदकं वा पद्मं वा उत्पलं वा पुण्डरीकं वा बिसमृणालं वा स्वादयितव्यं // अन्यानि च नानाप्रकाराणि रत्नरतनानि अभिनिर्मिणिष्यन्ति / तत्र च युष्माभिर् न केनचित् कहिंचिल् लोभो उत्पादयितव्यः / यो युष्माकं तत्र लोभम् उत्पादयिष्यति सो न भूयो जंबुद्वीपं गमिष्यति / तत्रैव अनयातो व्यसनम् आपद्यिष्यति / यो च ततो राक्षसीभवनातो सर्वतो निरपेक्षो अभिनिष्क्रमिष्यति सो सिद्धपात्रो स्वस्तिना पुनः आगतो स्वदेशं गमिष्यति //

पुण्यं समुदानेत्वान जम्बुद्वीपातो वाणिजा / महासमुद्रं प्रस्थिहेन्सुः यं धनरतनाकरं //

[_mvu_3.289_] तेन चाभिरुहित्वान ओगाहेत्वान सागरं / द्वीपेषु रतनं गृह्य स्वस्तिना पुनर् आगता //

तेषाम् आसि सार्थवाहो पण्डितो अर्थचिन्तको / धर्मलब्धो ति नामेन सो तेषां अनुशासति //

इमस्मिं वाणिजा मार्गे राक्षसीयो भयानिका / ऋद्धीये वशितां प्राप्ता मायाचारे च शिक्षिता //

यस् तासु काहिति च्छन्दं बालो दुष्प्रज्ञजातिको / न सो पुनर् जम्बुद्वीपं गमिष्यति आत्मनो घरं //

यो च खु तासु अनपेक्षो भविष्यति इह वाणिजो / स्वस्तिना सो जंबुद्वीपं गमिष्यति आत्मनो घरं //

ते मार्गं प्रतिपद्येन्सुः यत्र राक्षसियो अभू / ता च तान् उपलभेन्सुः यथाधिमुक्तवाणिजां //

रूपेहि अथ शब्देहि स्पर्शगन्धरसेहि च / सुविचित्रेषु कामेषु उपलभेन्सु वाणिजां //

तत्र ये रूपाधिमुक्ता वाणिजा ते रूपेहि लोभिता ये शब्दाधिमुक्ता वाणिजा ते मनोज्ञगीतवादितशब्देहि लोभिता ये गन्धाधिमुक्ता वाणिजा ते नानाप्रकारेहि सुमनोज्ञगन्धेहि लोभिता ये रसाधिमुक्ता वाणिजा ते पि नानाप्रकारेहि रसाग्रेहि लोभिता ये स्पर्शाधिमुक्ता वाणिजा ते नानाप्रकारेहि स्पर्शेहि लोभिता // सर्वे पंच वाणिजशता आहन्सुः // यस्यार्थाय वयं रात्रिं वा दिवा वा

[_mvu_3.290_] परिक्लिश्यमाना नानाप्रकारां कर्मान्तां अनुतिष्ठियेम तान्य् अस्माभिर् इहानुप्राप्ता रूपशब्दगन्धरसस्प्रष्टव्यं / इमहिम् एव वयं क्रीडिष्याम अभिरमिष्यामः न भूयो जंबुद्वीपं गमिष्यामः // धर्मलब्धं सार्थवाहं संदिशन्ति // अस्माकं वचनेन जम्बुद्वीपे मित्रज्ञातिसालोहितानां [आरोग्यं] पृच्छसि एते इमहिम् एव वयं अभिरमिष्यामः // सार्थवाहो तान् आह // भवन्तो न एता मानुषिका राक्षसीयो एता / तं मया युष्माकं आदित एवोक्तं / एते वयं शुवे तं राक्षसीभवनम् अतिक्रमिष्यामः ते च युष्माकं राक्षसीयो बहुप्रकारं लोभयिष्यन्ति / तत्र भवन्तेहि लोभं न कर्तव्यं / यदि इच्छथ क्षेमेन स्वदेशं गन्तुं मा भवन्तो राक्षसीहि मानुषिका ति चित्तं उत्पादेथ मा सर्वे अनयातो व्यसनम् आपद्यिष्यथ // ते दानि धर्मलब्धेन सार्थवाहेन बहुप्रकारं वुच्चंता न शृणोन्ति मोहेन मोहिता //

___ततः धर्मलब्धो सार्थवाहः स्वकेन परिवारेणातिक्रान्तो च तं सर्वं राक्षसीनिर्मितानि भवनानि अन्तरहितानि स्वप्नं व प्रतिभायेन्सुः // ततो पंच वाणिजशतानि पंचहि राक्षसीशतेहि सर्वे खादिता अस्थीन्य् अवशेषितानि // पंच वाणिजकशतानि भक्षयित्वा सर्वं तं राक्षसीगणं सन्निपतितं / संनिपतित्वा आहन्सुः // अयं धर्मलब्धो सार्थवाहो पुनर्पुनः इमेन मार्गेण महासमुद्रम् अवतरति लब्धलाभो च पुनःपुनर् क्षेमेण स्वदेशं गच्छति अन्यान् अपि वाणिजकां विग्राहेति मा एतेन मार्गेणागच्छथ मा राक्षसीहि खज्जिष्यथ / का उत्सहति एतं धर्मलब्धं लोभेत्वा भक्षयितुं // तत्र एका राक्षसी बहुमाया प्रविष्टा याये बहूनि वाणिजशतानि

[_mvu_3.291_] उपलोभित्वा भक्षिता / सा ताहि राक्षसीहि उत्साहिता / धर्मलब्धं लोभेहि तव भक्षो भविष्यति // सा तरुणाभिरूपां स्त्रीम् आत्मानं अभिनिर्मिणित्वा धर्मलब्धस्य गच्छंतस्य पृष्ठतो अनुबद्धा तस्य सार्थवाहस्य दर्शनपथेन पुनःपुनो अभिक्रामति न च सार्थवाहस्य तत्र स्त्रीयं मनं गच्छति // सार्थवाहः तं पुण्यं समुद्रपत्तनम् अवतरित्वा नानाप्रकाराणि रतनानि गृह्य समुद्रातो क्षेमेण जंबुद्वीपं प्रत्युत्तीर्णो / सा राक्षसी तेन स्त्रीरूपेण तरुणाभिरूपेण सार्थवाहस्य धर्मलब्धस्य बहुप्रकारं प्रलोभेन्ती पृष्ठिमेन पृष्ठिमं अनुगच्छति //

___यं वेलं धर्मलब्धो क्षेमेन वाराणस्यां जानपदं प्राप्तः तत्र राक्षसी धर्मलब्धस्य सार्थवाहस्य सदृशं दारकं अभिनिर्मिणित्वा सार्थवाहस्य उपनामेति / यदि त्वं मम उज्झित्वा गच्छसि इमं पुत्रकं गृह्णाहि को एतं त्वया गतेन उन्नेष्यति // सार्थवाहो आह // न एषो मम पुत्रो नापि मे त्वं भार्या अहं च मानुषो त्वं च राक्षसी बहूनि वाणिजकशतानि ये युष्माभिः लोभिता अनयातो व्यसनम् आपादि // सा ग्रामेहि च नगरेहि च निगमेहि च जानपदेहि च महाजनस्य गर्हति // एषो मे धर्मलब्धो अमुकातो पत्तनातो प्रियशब्देहि आनेत्वा इह मे छड्डेति / इमं पि पुत्रं न गृह्णाति ममापि न उन्नेति // सो दानि सार्थवाहो महाजनेन स्त्रियाहि च पुरुषेहि च उपलभ्यति / मा सार्थवाह एतां स्त्रियं समुद्रपत्तनातो आनेत्वा इमहिं मेल्लेहि एषो ते पुत्रो तव सदृशो // सार्थवाह आह // न एषो मम पुत्रो नाप्य् एषा भार्या मम राक्षसी एषा बहूनि वाणिजकशतानि एताहि राक्षसीहि लोभेत्वा खादिता // सापि राक्षसी तस्य जनस्याह // एदृशा एते अर्थलब्धा पुरुषा यं वेलं स्त्रिय अनुरक्ता भवन्ति ततो गुणशतानि भाषन्ति यं

[_mvu_3.292_] वेलं विरक्ता भवन्ति तं वेलं पिशाचनीयो च क्रियामो राक्षसी च अवर्णशतेन चाक्रुष्यामः // एवं राक्षसी तं जनकायं पत्तीपयति // एवं सार्थवाहो धर्मलब्धो क्षेमेण वाराणसी स्वगृहम् अनुप्राप्तो //

ततो च वाणिजा आहुः सार्थवाहं निरन्तरं / यस्यार्थाय वयं घट्टाम रात्रिंदिवम् अतन्द्रिताः / कथं रूपान् अधिगच्छेम ते नो द्याधिगता इह //

आरोग्यं वार्य वदेसि जम्बुद्वीपस्मि ज्ञातयो / इह एवं रमिष्याम नास्ति आगमनं तहिं //

सार्थवाह आह //

न खलु स्मृतिर् वो अस्ति विपर्यस्ताहो मारिष / राक्षसीनां तथ भक्षा नचिरेण भविष्यथ //

त्वचं वसां च मांसं च पीत्वान रुधिरं च वो / तुष्टा राक्षसी भविष्यन्ति आहारेण समर्पिता //

यो मे न काहिति वचनं पश्चात्तापी भविष्यति / अपरे वाणिजा आहुः सार्थवाहं तद् अनन्तरं //

यस्यार्थाय वयं घट्टाम रात्रिंदिवम् अतंद्रिताः / कथं शब्दान् अधिगच्छेम ते नो प्य् अधिगता इह //

आरोग्यं वार्य वदेसि जम्बुद्वीपस्मि ज्ञातयो / इहैव वयं रमिष्यामो नास्ति आगमनं तहिं //

[_mvu_3.293_] अपरे खु वाणिजा आहुः सार्थवाहं तद् अनन्तरं / यस्यार्थाय वयं घट्टाम रात्रिंदिवम् अतंद्रिताः / कथं गन्धान् अधिगच्छेम ते मं अधिगता इह //

आरोग्यं वार्य वदेसि जंबुद्वीपस्मि ज्ञातयो / इहैव वयं रमिष्याम नास्ति आगमनं तहिं //

अपरे खलु वाणिजाहुः सार्थवाहं तद् अनन्तरं / यस्यार्थाय वयं घट्टाम रात्रिंदिवम् अतंद्रिताः / कथं रसान् अधिगच्छेम ते नो प्य् अधिगता इह //

आरोग्यं वार्यं वदेसि जंबुद्वीपस्मि ज्ञातयो / इह एव रमिष्यामो नास्ति आगमनं तहिं //

सार्थवाह आह //

तं खलु वो न स्मरथ विपर्यस्ताहो मारिष / राक्षसीनां तथ भक्षा नचिरेण भविष्यथ //

त्वचं च वसां च मांसं च पीत्वान रुधिरं च वो / तुष्टा राक्षसी भविष्यन्ति आहारेण समर्पिताः //

यं मे न कुर्वथ वचनं पश्चात्तापी भविष्यथ / अपरे खु वाणिजा आहुः सार्थवाहं तद् अनन्तरं //

यस्यार्थाय वयं घट्टाम रात्रिंदिवम् अतन्द्रिताः / कथं स्पर्शान् अधिगच्छेम ते मं अधिगता इह //

[_mvu_3.294_] आरोग्यं वार्य वदेसि जंबुद्वीपस्मि ज्ञातयो / इहम् एव रमिष्यामो नास्ति नो गमनं तहिं //

सार्थवाह आह //

तं खु न स्मृतिर् वो अस्ति विपर्यस्ताहो मारिष / राक्षसीनां तथ भक्षा नचिरेण भविष्यथ //

त्वचं च वसां च मान्सं च पीत्वान रुधिवं च वो / तुष्टा राक्षसी भेष्यन्ति आहारेण समर्पिताः / यं मे न कुर्वथ वचनं पश्चात्तापी भविष्यथ //

ततो च वाणिजका सर्वां राक्षसीयो भयानिका / आयसे नगरे घोरे प्रतितिष्ठे तद् अनन्तरं //

ता राक्षसीयो समागत्वा मतिं कुर्वन्सु तावता / अयं वाणिजको एको आगत्वान पुनर्पुनः / स्वस्तिना तरत पारं न तं शक्यति खादितुं //

ततो च राक्षसी एका पण्डिता अर्थचिन्तिका / बहवो वाणिजा ताय उपलोभेत्वान खादिता //

सा च तां अवच सर्वां मांसभक्षा सुदारुणां / अहं तं लोभयिष्यामि मम भक्षो भविष्यति //

वाणिजको सागरं तीर्णो सापि उत्तीर्ण राक्षसी / पृष्ठतो अनुबन्धेति अनुबद्धा पदंपदं //

अयं ते दहरो पुत्रो तव शोकेन मरिष्यति / गृह्ण त्वं किस्य उज्झ्यति ओरसो आत्मनो तव //

[_mvu_3.295_] धर्मलब्धो आह //

अप्पेहि यस्य से भार्या अपुत्रे पुत्रं भाषसि / मानुषा न तुवं रक्षी न मां शक्ष्यसि खादितुं //

सा च ग्रामेषु निगमेषु राष्ट्रे जनपदेषु च / जनजनस्य आख्याति अयं उज्झति मे पति //

महाजनो समागम्य स्त्रियश् च पुरुषा पि च / पुरुषं परिभाषन्ति कस्माद् उज्झेसि भार्यरां //

क्षत्रिया ब्राह्मणा वैश्या शूद्रा चात्र समागता / परुषं परिभाषन्ति कस्य उज्झेसि भार्यरां //

धर्मलब्धो आह //

न मे एषा मारिष भार्या राक्षस्य् एषा भयानिका / मनुष्यखादिका रौद्रा एवं जानेथनत्तवे //

यत्र कालं महाजनेन उपलभ्यमानो धर्मलब्धो न इच्छति नैव मे एष पुत्रो नैव मे एषा भार्या राक्षसी एषा निशाचरा राक्षसी तं जनकायं संज्ञापयति / एदृशा एते अर्थलब्धा पुरुषा तत्रैव सारज्यन्ति तत्रैव विरज्यन्ति / यत्र कालं अर्थिका भवन्ति स्त्रीभिः सततं प्रियशतानि मन्त्रेन्ति यत्र कालं विरक्ता भवन्ति ततः राक्षसीयो च क्रियाम पिशाचिनीयो च दुःकुलीना च क्रियाम अप्रियशतेन आक्रुष्यामः // सा दानि स्त्री धर्मलब्धेन अनिच्छियति // अमात्येहि राज्ञो ब्रह्मदत्तस्य

[_mvu_3.296_] निवेदितं // महाराज धर्मलब्धेन महासार्थवाहेन समुद्रपत्तनातो स्त्री आनीता प्रासादिका दर्शनीया परमेण रूपेण समन्वागता समानरूपा न ज्ञायति // धर्मलब्धो केनचि कारणेन नैव भार्यां इच्छति नैव तं पुत्रं // राज्ञा अमात्या आणत्ता // शब्दापयथ धर्मलब्धं सार्थवाहं // सो दानि अमात्यै राज्ञो सकाशं शब्दापितो शब्दापिता अपि सा स्त्री // राज्ञो ब्रह्मदत्तस्य तां स्त्रियं पश्यित्वा अभिरूपां दर्शनीयां उत्तमेन रूपेण समन्वागतां राज्ञो तत्र स्त्रियं अत्यर्थं अनुरागो उत्पन्नो // सो दानि तं सार्थवाहं आह // यदि तव एताये स्त्रिये नार्थो मम तां देहि // मा महाराज प्रमादं करोहि न एषा मम भार्या न ममैष पुत्रो / एषा समुद्रातो उपलोभेन्ती मम पृष्ठेन पृष्ठिमं समनुबद्धा प्रलोभनार्थं / न एषा स्त्री राक्षसी एषा मा महाराज अत्र मनं करोहि // सो दानि राजा तत्र स्त्रियं अनुरक्तो तारुण्येन रूपेण च धर्मलब्धस्य न शृणोति / यथोक्तं भगवता //

रक्तो ह्य् अर्थं न जानाति रक्तो धर्मं न पश्यति / अन्धतमस् तदा भवति यं रागो सहते नरः //

तेन राक्षसी अन्तःपुरं प्रवेशिता // ताये सार्धं राजा ब्रह्मदत्तो क्रीडित्वा रमित्वा प्रविचारयित्वा शयितो // ताये राक्षसीये सर्वस्य राजकुलस्य ओस्वापनं कृतं / सपुत्रिकाये राजा खादितो // राजानं भक्षयित्वा सो पुत्रः तत्र राक्षसीनां मूलं प्रेषितो / आगच्छथ शीघ्रं इमं राजकुलं भक्षयितव्यं // आमुहूर्तस्य सो तं राक्षसीगणं गृह्यागतो // ताहि ताये रात्रिये सर्वं तं राजकुलं साभ्यन्तरबाहिरं [_mvu_3.297_] सस्त्रीपुरुषं सकुमारीकं सहस्ति साश्वं ताये रात्रिये सर्वं खादितं अस्थिकरंकानि अवशेषीकृतानि //

___प्रभाताये रात्रीये अमात्या राजकुलं गता पश्यन्ति द्वाराणि बद्धकानि / पुरोहिता पि आगता भटबलाग्रा आगता श्रेष्ठिनैगमा धर्मलब्धसार्थवाहप्रमुखो वाणिजग्रामो आगतो सर्वे सुखरात्रीपृच्छिका यथा अन्यदापि / पश्यन्ति तानि राजकुलद्वाराणि बद्धकानि // ते अमात्या परस्परं पृच्छन्ति // किम् एवाद्य राजकुलद्वारा न मुंचन्ति / अन्यकालं राजकुलद्वाराणि मुक्तानि भवन्ति राजकुलं सिक्तसंमृष्टं भवति आसनप्रज्ञ्प्ती च कृता भवति / न कस्यचिच् छब्दं श्रुणीयति स्त्रीशब्दं वा पुरुषशब्दं वा हस्तिशब्दं वाश्वशब्दं वा एवं विस्तीर्णे राजकुले एवं महाजनकाये न कस्यचिच् छब्दो श्रूयति // धर्मलब्धो सार्थवाहो आह // भवन्तो यूयं न राजकुलातो शब्दं श्रुणिष्यथ / सा राक्षसी अत्र दारुणा मान्सशोणितभोजना प्रवेशिता / ताये अत्र महादीनवं उत्पादितं / मुंचापेथ एतानि द्वाराणि यावज् जानाम राजकुलस्य वर्तमानं // अमात्येहि निश्रेणिं आनयित्वा पुरुषा आरोपिता गच्छथ द्वाराणि मुंचथ त्ति // पुरुषा राजकुलं चारूढा पश्यन्ति च अत्र हस्तिकरंकानि चाश्वकरंकानि च / एते च निवेदयन्ति जनकायस्य // सर्वं इमं राजकुलं खादितं करंकान्य् एवावशेषितानि // ते दानि वुच्यन्ति ओतरित्वा मुञ्चथ एतानि द्वाराणि // ततो ओतरित्वा द्वाराणि मुक्तानि अमात्या च भटबलाग्रा च नैगमा

[_mvu_3.298_] च बाहिरराजकुलद्वारं प्रविष्टाः पश्यन्ति च हस्तिबाहिरीये अस्थिकरंकानि अश्वबाहिरीये पि करंकान्य् अवशेषितानि तेषां हस्तिमेण्ठानां अश्वमेण्ठानां पि अस्थीन्य् अवशेषितानि / यथा श्मशानं एवन् तं बाह्यतो राजकुलं भयभैरवदुर्गन्धं // अभ्यन्तरतो पि राजकुलद्वाराणि मुंचित्वा द्वारं प्रविष्टा तत्रैव राज्ञो पि देवीनां पि अस्थीन्य् अवशेषितानि / एवन् तं राजकुलं अभ्यन्तरबाह्यतो श्मशानभूतं भयभैरवदुर्गन्धं //

___ततो तेहि अमात्येहि च नैगमेहि च महाजनकायं संनिपातेत्वा तं राजकुलं साभ्यन्तरबाहिरं शोधापितं सिक्तसंमृष्टं कारापितं धूपनधूपितं तस्य राज्ञो देवीनां च सर्वेषां शरीरे पूजा कृता समन्ततो नगरस्य गुल्मा स्थापिता चतुरंगबलकायं निवेशितं हस्तिकायं अश्वकायं रथकायं पत्तिकायं // एवन् तं नगरं सजनपदं रक्षीयति मा कोचि राजा अपराध्येयाति // ते दानि अमात्या च नैगमा च जानपदा च संनिपतित्वा मन्त्रं धारेन्ति परस्परं संमन्त्रेन्ति // भवन्तो को इह अस्माकं वाराणसीये राजा भविष्यति यो शक्येय इमं राज्यं धर्मेण परिपालयितुं // तेषां सर्वेषां राजामात्यानां नैगमजनपदानां च एतद् अभूषि // नान्यो राजा योग्यो वाराणस्यां स्थापयित्वा धर्मलब्धं सार्थवाहं / एषो पुण्यवन्तो चाप्रमत्तो च / यक्षराक्षसा अपि न शक्नुवन्ति अवतारम् अधिगन्तुं / तत्र त्रिष्कुत्तं महासमुद्रं अवतीर्णः सिद्धपात्रो च सर्वकालं क्षेमेण प्रत्यागतो // तेहि सो धर्मलब्धो सार्थवाहो सर्वसौवर्णमहासिंहासने निषीदापेत्वा राज्ये भिषिक्तो //

___भगवान् आह // स्यात् खलु पुनः भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन

[_mvu_3.299_] तेन समयेन धर्मलब्धो नाम सार्थवाह अभूषि / न एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं स भिक्षवः तेन कालेन तेन समयेन धर्मलब्धो नाम सार्थवाह अभूषि // या सा राक्षीमहत्तरिका एता सा मारधीता / (तदा राक्षसीनां महत्तरिका अभून्सुः) तदापि एता ममावतारार्थी अवतारंगवेषी उपसंक्रान्ता न च मम शक्ता अवतारम् अधिगन्तुं एतरहिं प्य् एता ममावतारार्थी अवतारंगवेषी उपसंक्रान्ता नो तत्र नाम मे शक्ता अवतारम् अधिगन्तुं //

अश्रोषीत् खलु यदा राजा महामात्राणम् अन्तिके / महासमुद्रपारां स्त्रीं धर्मलब्धो न इच्छति //

आणपेसि तदा राजा महामात्यां तद् अनन्तरं / सचे एष नेच्छति स्त्रीं प्रवेशेथान्तःपुरं मम //

अन्तरायं विजानित्वा न सानं खायि राक्षसी / सा तत्र पुत्रं प्रेषेति राक्षसीणां निवेदकं / भक्षितो खु मया राजा क्षिप्रं आगच्छथत्तवे //

राक्षसीनां गता पंच रौद्रा रुधिरभोजना / सर्वे राजकुलं गत्वा पराक्रमेन्सु यथागतं //

पूर्वे निवासं भगवान् पूर्वेजातिम् अनुस्मरं / जातकम् इदम् आख्यासि शास्ता भिक्षूणम् अन्तिके / ते स्कन्धा ते च धातवः तानि आयतनानि च //

[_mvu_3.300_] आत्मानम् अधिकृत्य भगवां एतम् अर्थं वियाकरेत्* / अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा //

धर्मलब्धो अहं आसि वाणिजको अर्थचिन्तको / मारधीतरो राक्षसी एवं धारेथ जातकं //

एवम् अपरिमितं बहुदुःखं उच्चनीचं चरितं पुराणं / विगतज्वरो विगतशोको भगवां भाषति भिक्षुसंघमध्ये //

_____धर्मलब्धस्य सार्थवाहस्य जातकं समाप्तं //

___कालो नागराजा तहिं खु महाचंक्रमे भगवन्तं उपसंक्रान्तो // सो दानि भगवतः पादौ शिरसा वन्दित्वा एकांशीकृतो प्रांजलीकृतो भगवन्तम् एतद् उवाच // मम भगवं भवनो पुरिमकेहि सम्यक्संबुद्धेहि परिभुक्तो क्रकुच्छन्देन भगवता कोनाकमुनिना काश्यपेन साधु भगवान् अपि मम भवनं परिभुंजतु अनुकंपाम् उपादाय // तत्रापि भगवां कालस्य नागराजस्य भवने चतुर्थं सप्ताहं प्रीतिसुखेन वीतिनामेति / ततो पि भगवां कालस्य नागराजस्य भवनातो चतुर्थस्य सप्ताहस्यात्ययेन उत्थितो //

___मुचिलिदो नागराजः पुरिमबुद्धदर्शावी भगवतः उपसंक्रान्तो // सो पि भगवतः पादौ शिरसा वंदित्वा एकान्ते प्रांजलीकृतो भगवन्तं याचति // मम भगवं भवनो पुरिमकेहि सम्यक्संबुद्धेहि परिभुक्तो भगवता क्रकुच्छन्देन कोनाकमुनिना काश्यपेन साधु भगवां पि मम भवनं परिभुंजतु अनुकंपाम् उपादाय // भगवां मुचिलिंदस्यापि नागराजस्य भवने पंचमं सप्ताहं सुनिराहारः प्रीतिसुखेन

[_mvu_3.301_] वीतिनामेसि // ततो पि तहिं सप्ताहिकं अकालवार्दलं उत्पन्नं सप्ताहं रात्रिंदिवं देवेन वर्षितं मुचिलिंदेनापि नागराज्ञा भगवतर् अर्धयोजनकपरिक्षेपेन सप्तकुत्तं भगवन्तं भोगेन परिक्षिपित्वा उपरि विपुरि विपुलेन फणेनाच्छादेसि / यथा च भगवन्तं विषगंधेन किल्विषगन्धेन वा न व्याबाधेय त्ति मुचिलिन्दो नाम नागराजा स्वकातो भवनातो उत्तरित्वान भोगेन आछायेसि शिरिघनसुकृतेन फणेन सप्ताहं विपुलपुण्यं प्रसूतं / विनिपातेन नागराजेन च पुण्यं प्रसूतं परिक्षिपि हि महता परिभोगेन सप्ताहं //

___यदा भगवान् सम्यक्संबुद्धः दुष्करं चरति नदीये नैरंजनाये तीरे तत्र भगवां दुष्करं चरन्तो अजपालकेन दृष्टो // तस्य भगवन्तं उग्रतपं तप्यन्तं दृष्ट्वा प्रसादम् उत्पन्नं // तेन दानि प्रसन्नचित्तेन भगवन्तम् उद्दिश्य न्यग्रोधपोतो रोपितो // सो तं न्यग्रोधपोतं रोपित्वा भगवन्तम् उपसंक्रम्य प्रांजलीकृतो आह // भगवं इमो मया न्यग्रोधपोतो भगवन्तम् उद्दिश्य रोपितो यदा एषो न्यग्रोधपोतो संवृद्धो भवेया भगवां संपूर्णकल्पो भवेया ति / ततो मे एतं न्यग्रोधं अनुग्रहार्थं परिभुंजसि // भगवता तस्याजपालस्य तूष्णीभावेनाधिवासितं / सो दानि तूष्णीभावेनाधिवासनां विदित्वा तुष्टो आत्तमना प्रमुदितो प्रीतिसौमनस्यजातो संवृत्तो // सो दानि तं न्यग्रोधपोतं कालेन कालं अनुखनेति परिखनेति परिकीलेति परिकुड्डालेति कालेन च कालं शीतलेन वारिणा अभिष्यंदेति परिष्यंदेति पर्यार्द्रेति परिघारेति // सो दानि अजपालेन न्यग्रोधपोतो क्षिप्रं प्रशाखो संवृत्तो प्रासादिको दर्शनीयो भगवतो

[_mvu_3.302_] तेजानुभावेन // तस्य दानि अजपालस्य न्यग्रोधपोतं ओशाखप्रशाखं प्रासादिकं प्रसादनीयं दृष्ट्वा अतिरिव चित्तं प्रसीदति // सो दानि तेन चित्तप्रसादेन च कुशलमूलेन च कायस्य भेदात् त्रयस्त्रिंशदेवनिकाये उपपन्नो न्यग्रोधो नाम देवपुत्रो महर्द्धिको महानुभावो / सो पश्चाद् उपपंनो समानो अन्यां पूर्वोत्पन्नांस् त्रयस्त्रिंशकायिका देवपुत्रां दिव्येहि पंचहि स्थानेहि अभिभवति दिव्येनायुषा दिव्येन वर्णेन दिव्येन सुखेन दिव्येनैश्वर्येण दिव्येन परिवारेण // तस्य समनन्तरोपपन्नस्य एतद् अभूषि / किं मया मनुष्यभूतेन कुशलं कर्म कृतं उपचितं कस्य कर्मस्य विपाकेन इह त्रायस्त्रिंशभवने उपपन्नो हं // सो दानि न्यग्रोधो देवपुत्रो कुशलमूलं समन्वाहरन्तो पश्यति भगवन्तम् उद्दिश्य न्यग्रोधं नदीये नैरंजनाये तीरे रोपितं // सो दानि न्यग्रोधो देवपुत्रो अनेकदेवपुत्रसहस्रेहि परिवृतः अभिक्रान्तवर्णो अभिक्रान्तवर्णेन केवलकल्पं मुचिलिंदस्य नागराज्ञो भवनं उदारेण वर्णेन ओभासेत्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि // एकांशीकृतो प्रांजलीकृतो भगवन्तम् एतद् उवाच // मया भगवन् मनुष्यभूतेन अजपालेनाजानि पालेन्तेन एषो न्यग्रोधो रोपितः भगवन्तम् उद्दिश्य तेनाहं कुशलमूलेन मनुष्येषु च्यवित्वा भगवन् त्रायस्त्रिंशे देवनिकाये उपपन्नो / साधु भगवान् एतं न्यग्रोधं परिभुंजतु अनुकंपाम् उपादाय यथा मे महाफलतरं भवेया // अधिवासते भगवां तस्य देवपुत्रस्य तूष्णीभावेन // अथ खलु सो देवपुत्रो तूष्णीभावेनाधिवासनां विदित्वा तुष्टो हृष्टो आत्तमनो प्रीतिसौमनस्यजातो भगवतः पादौ शिरसा वन्दित्वान तृष्कृत्यो प्रदक्षिणं कृत्वा तत्रैव अन्तरहाये //

___भगवान् मुचिलिंदस्य नागराज्ञो भवनातो उत्थिहित्वा षष्ठं सप्ताहं निराहारो प्रीतिसुखेनाजपालन्यग्रोधमूले वीतिनामेसि // ततो अजपालस्य न्यग्रोधमूलातो

[_mvu_3.303_] षष्ठस्य सप्ताहस्यात्ययेन क्षीरिकावनषण्डे बहुदेवतके चेतिये निराहारो प्रीतिसुखेन सप्तमं सप्ताहं वीतिनामेसि // एवं भगवां सप्तसप्ताहं एकूनपंचाशद् दिवसां निराहारो //

___उत्तरापथे उक्कलं नामाधिष्ठानं / ततो उक्कलातो अधिष्ठानातो त्रपुसो च भल्लिको च नाम सार्थवाहा आढ्या महाधना महाभोगा पुण्यवन्तो महापरिवारा दक्षिणापथातो पंचहि धुरशतेहि तेन मार्गेण आगच्छन्ति // तेषां मङ्गलीयानां बलीवर्दानां पुंगवा एको सुजाताये नक्षत्रे जातको अपरो कीर्तिके / तेषां एवं नक्षत्राणां नामेन सुजातकीर्तिकनामेन ज्ञायन्ति // सर्वस्य सार्थवाहस्य पुरतो सार्थवाहस्य यानकं वहन्ति / यत्र मार्गे किंचिद् भयो भवति सिंहभयो व्याघ्रभयो द्वीपिभयं वा गण्डकभयं वा हस्तिभयं वा वनदेवभयं वा उदकवाहभयं वा चौरभयं वा तत्र ते न गच्छन्ति ततः ते वाणिजका जानन्ति भयं भविष्यतीति तथा संहरित्वा चतुर्दिशं प्रधावन्ति समन्तेन अवलोकेत्वा // ते दानि बलीवर्दा सुजातकीर्तिका तहिं क्षीरिकावनखण्डं चानुप्राप्ता / अत्र त्रपुषभल्लियानां च वाणिजानां पूर्वज्ञातिसालोहितेहि देवभूतेहि तहिं क्षीरिकावनखण्डे ऋद्धिये निगृहीता न शक्नोन्ति गन्तुं // तेहि स्थितेहि सर्वे ते पुरुषा सार्थातो भीता तत्र संनद्धा // तेषान् ते देवता पूर्वज्ञातिसालोहिता अन्तरीक्षगता घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः // मा भायथ वाणिजा त्ति न भवति वो उपद्रवं / एष बुद्धो भगवान् इह वनषण्डे प्रतिवसति सप्तहि असंख्येयकल्पेहि प्रादुर्भूतः बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च

[_mvu_3.304_] मनुष्याणां च तस्याद्य सप्तसप्ताहं एकूनपंचाशद् दिवसा अनाहारस्य / तम् आहारेण प्रतिमानेथ ततो वः अप्रमेयं कुशलमूलं भविष्यति // तेहि दानि त्रपुषभल्लिकेहि वाणिजेहि तानं देवतानां वचनं श्रुत्वा मधुसर्पिसंयुक्तं तर्पणं गृहीतं / ते देवता तेषां वाणिजकानां पुरतो गच्छन्ति / इतो आगच्छथ // ते दानि वाणिजा तेहि देवतेहि भगवतो सकाशम् उपनीता // ते तं मधुतर्पणं गृह्य भगवन्तम् उपसंक्रान्ता / इमं भगवन् मधुतर्पणं परिभुंजतु अस्माकम् अनुग्रहार्थं // अथ खलु भगवतो एतद् अभूषि // किं नु खलु पुरिमका सम्यक्संबुद्धा भाजनप्रतिग्राहका उताहो पाणिप्रतिग्राहका भाजनप्रतिग्राहका सम्यक्संबुद्धा ति // सह चित्तोत्पादेनैव भगवतः चत्वारि महालोकपाला चत्वारि सुवर्णपात्राण्य् आदाय भगवन्तम् उपसंक्रान्ता रतनपात्रा ति कृत्वा न प्रव्रजितसारूप्यानि भगवां न प्रतिगृह्णाति // ते दानि रूप्यामयानि पात्राण्य् आदाय भगवन्तम् उपसंक्रान्ता / तान् अपि भगवां रतनपात्राणीति कृत्वा न प्रतिगृह्णाति // एवं मुक्तामयानि वैडूर्यामयानि स्फटिकमयानि मुसारगल्वमयानि लोहितिकामयानि तान् अपि भगवां रत्नपात्राणीति कृत्वा न प्रव्रजितसारूप्याणीति कृत्वा न प्रतिगृह्णाति // ते दानि चत्वारो शैलपात्राणि आदाय भगवन्तम् उपसंक्रान्ता // अथ खलु भगवतः एतद् अभूषि / यद् अहम् एकस्य लोकपालस्य पात्रं प्रतिगृह्णीष्यामि त्रयाणां भविष्यति चित्तस्यान्यथात्वं // भगवता सर्वेषां चतुर्णां लोकपालानां चत्वारि पात्राणि प्रतिगृह्णित्वा अंगुष्ठेन आक्रान्ता एकपात्रो च अधिष्ठितो / ते दानि चत्वारो पात्रा एकं पात्रं संजाता सर्वेषां चतुर्णां पात्राणां चत्वारि पात्रकोटीनि दृश्यन्ति / तत्र भगवता त्रपुसभल्लिकानां वाणिजानां मधुतर्पणं परिभुक्तं //

[_mvu_3.305_]___भगवां दानि त्रपुसमल्लिकानां वाणिजानां मधुतर्पणं पीत्वा प्रत्यग्रप्रणीतवर्णगन्धरसोपेतं दक्षिणाम् आदिशति //

अनेकाकारसंपन्नं तर्पणन्ति प्रवुच्चति / वर्णेन चैव संपन्नं गन्धेन च रसेन च //

प्रत्यग्रं च प्रणीतं च एषणीयं च कल्पियं / तर्पणं प्रथमं शास्तु अदेन्सुः त्रपुसभल्लिया //

मधुसर्पिसंयुक्तं तं पिबे च पुरुषोत्तमः / तेहि संतर्पितो वीरो प्रतिसंलान-उत्थितो / तर्पये धर्मवृष्टीये देवगन्धर्वमानुषां //

दिशे सोवत्थिकं दिव्यं मंगल्यं चार्थसाधकं / यं श्रुत्वा सुमना सर्वे सर्वार्थां साधयिष्यति //

स्वस्ति वो द्विपदे भोतु स्वस्ति वो स्तु चतुष्पदे / स्वस्त्य् अस्तु व्रजतां मार्गे स्वस्ति प्रत्यागतेषु च //

स्वस्ति रात्रौ दिवा स्वस्ति स्वस्ति मध्यंदिने स्थिते / सर्वत्र स्वस्ति वो भोतु मा च पापं समागमत्* //

शिरी वो दक्षिणे स्कन्धे शिरी वामे प्रतिष्ठिता / शिरी वो अंगमंगेषु मालेव सुप्रतिष्ठिता //

भद्रं वो भद्रशिरी वो वाणिजा भद्रम् अस्तु वो / येन केनचित् कार्येण गच्छथ पुरिमां दिशां //

नक्षत्राणि वो पालेन्तु ये तां दिशम् अधिष्ठिता / कृत्तिका रोहिणी चैव मृगार्द्रा च पुनर्वसु //

पुष्यं च वरनक्षत्रं अश्लेषा भोति सप्तमा //

[_mvu_3.306_] इत्य् एते सप्त नक्षत्रा लोकपाला यशस्विनः / आदिष्टा पुरिमे भागे एतेषां पुरिमा दिशा //

एते वो अधिपालेन्तु भूमीये भवनेन च / क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमे / लब्धार्था च निवर्तेथ तेहि नक्षत्रेहि रक्षिता //

पुरस्तिमे दिशोभागे अष्ट देवकुमारिका / नन्दोत्तरा नन्दिसेना नन्दिनी नन्दिरक्षिता //

जयन्ती विजयन्ती च सिद्धार्था अपराजिता / तेषाम् अधिपती राजा धृतराष्ट्रो ति नामतः //

गंधर्वाधिपती राजा देवेहि स च रक्षितः / सो पि वो अभिपालेतु भूमीये भवनेन च //

क्षेमा च वो दिशो भोन्तु मा च वो पापम् आगमी / लब्धार्था च निवर्तेथ सर्वदेवेहि रक्षिता //

पुरिमस्मिं दिशोभागे चापलं व नाम चेतियं / नित्यं ज्वलति तेजेन नित्यं सत्योपयाचनं / सो पि वो अभिपालेतु भूमीये भवनेन च //

क्षेमा च वो दिशो भोन्तु मा च वो पापम् आगमी / लब्धार्था च निवर्तेथ सर्वचेतियसुरक्षिता //

येन केनचिद् अर्थेन गच्छथ दक्षिणां दिशं / नक्षत्राण्य् अभिपालेन्तु ये तां दिशाम् अधिष्ठिता //

मघा चोभे च फाल्गुण्यौ हस्ता चित्रा च पंचमा /

[_mvu_3.307_] स्वाती चैव विशाखा च एतेषां दक्षिणा दिशा //

इत्य् एते सप्त नक्षत्रा लोकपाला यशस्विनः / आदिष्टा दक्षिणे भागे एतेषां दक्षिणा दिशा //

ते पि वो अभिपालेन्तु भूमीये भवनेन च / क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी / लब्धार्था च निवर्तेथ तेहि नक्षत्रेहि रक्षिता //

दक्षिणस्मिं दिशोभागे अष्ट देवकुमारियो / लक्ष्मीमती शिरीमती यशोमती यशोधरा //

शुभेष्ठिता सुप्रभाता सुविशुद्धा सुव्याकृता / ता पि वो अभिपालेन्तु भूमीये भवनेन च //

क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी / लब्धार्था च निवर्तेथ देवकन्याहि रक्षिता //

तासाम् अधिपती राजा विरूढको ति नामतः / कुम्भाण्डाधिपती राजा यमेन सह रक्षतु //

क्षेमा च वो दिशो भोन्तु मा च वो पापम् आगमी / लब्धार्था च निवर्तेथ कुम्भाण्डेहि सुरक्षिता //

दक्षिणस्मिं दिशोभागे अभिपश्यं नाम चेतियं / नित्यं ज्वलति तेजेन नित्यं सत्योपयाचनं //

सो पि वो अभिपालेतु भूमीये भवनेन च / क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी / लब्धार्था च निवर्तेथ चेतियेन सुरक्षिता //

येन केनचिद् अर्थेन गच्छथ पश्चिमां दिशं /

[_mvu_3.308_] नक्षत्रा वो भिपालेन्तु ये तां दिशम् अधिष्ठिता //

अनुराधा च ज्येष्ठा च मूलश् च दृढवीर्यवान्* / उभे आषाढे भिजिच् च श्रवणा भवति सप्तमी //

ते पि वो अभिपालेन्तु भूमीये भवनेन च / क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी / लब्धार्था च निवर्तेथ तेहि नक्षत्रेहि रक्षिता //

पश्चिमस्मिं दिशोभागे अष्टौ देवकुमारियो / अलंबुषा मिश्रकेशी अरिष्टा सुप्रभायका //

. . . . . . . कृष्णा शुक्रा च द्रौपदी / ता पि वो अभिपालेन्तु आरोग्येन शिवेन च //

क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी / लब्धार्था च निवर्तेथ देवकन्याहि रक्षिता //

तासाम् अधिपती राजा विरूपाक्षो ति नामतः / स वो नागाधिपो राजा वरुणेन सह रक्षतु //

सो पि वो अभिपालेतु भूमीये भवनेन च / क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी / लब्धार्था च निवर्तेथ सर्वनागेहि रक्षिता //

पश्चिमस्मिं दिशोभागे अस्तो नामेन पर्वतो / आवर्तो चन्द्रसूर्याणां अस्तो अर्थं ददातु वो //

सो पि वो अभिपालेतु भूमीये भवनेन च //

क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी / लब्धार्था च निवर्तेथ सर्वे अस्तेन रक्षिता //

येन केनचिद् अर्थेन गच्छथ उत्तरां दिशां /

[_mvu_3.309_] नक्षत्रा वो भिपालेन्तु ये तां दिशम् अधिष्ठिता //

धनिष्ठा शतभिषा चैव उभौ प्रोष्ठपदा पि च / रेवत्य् अथाश्विनी चैव भरणी भवति सप्तमी //

ता पि वो अनुपालेन्तु भूमीये भवनेन च / क्षेमा च वो दिशो भोन्तु मा च वो पापम् आगमी / लब्धार्थाश् च निवर्तेथ तेहि नक्षत्रेहि रक्षिता //

उत्तरस्मिं दिशोभागे अष्टौ देवकुमारियो / इला देवी सुरा देवी पृथिवी पदुमावती //

आशा श्रद्धा हिरी च श्री . . . . . समागता / ता पि वो अभिपालेन्तु भूमीये भवनेन च //

क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी / लब्धार्थश् च निवर्तेथ देवकंन्याहि रक्षिता //

तासाम् अधिपती राजा कुवेर इति नामतः / सर्वयक्षाधिपो राजा राक्षसीहि सह रक्षतु //

सो पि वो अभिपालेतु भूमीये भवनेन च / क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी / लब्धार्थाश् च निवर्तेथ यक्षराक्षसरक्षिता //

उत्तरस्मिं दिशोभागे कैलासो नाम पर्वतः / आवासो यक्षसंघानां राक्षसानां निवेशनं //

सो पि वो अभिपालेतु भूमीये भवनेन च / क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी / लब्धार्थाश् च निवर्तेथ यक्षराक्षसरक्षिताः //

अष्टाविंशति नक्षत्रा सप्तसप्त चतुर्दिशं /

[_mvu_3.310_] सह चन्द्रमसूर्येहि त्रिंशद् भोन्ति अनूनकं //

द्वात्रिंशद् देवकन्यावो अष्ट अष्ट चतुर्दिशं / चत्वारश् च महाराजा लोकपाला यशस्विनः / प्रज्वलमानवर्णेन रक्षन्ति चतुर्दिशं //

अष्ट श्रमणा ब्राह्मणा अष्ट जनपदेषु क्षत्रिया / अष्ट स-इन्द्रका देवा सदा रक्षां करोन्तु वः //

तेषां दानि भगवता त्रीणि शरणगमनानि दिन्नानि / गच्छथ बुद्धशरणं गच्छथ धर्मशरणं गच्छथ अनागतं च भगवतो श्रावकसंघशरणं // ते दानि बुद्धशरणं गता धर्मशरणं गता संघशरणं गता // ते दानि आहन्सुः // वयं भगवं वाणिजका देशदेशानि च राज्यानि च अण्वाम / साधु मं भगवां कंचिद् ददेय धातुं यं वयं पूजयेम // भगवता दानि तेषां शीर्षातो पाणिना केशानि ओतारित्वा दिन्नानि इमं केशस्तूपं कारयेथ नखानि च ओतारित्वा दिन्नानि इमं नखस्तूपं कारापेथ शिला च आगमिष्यन्ति तां च शिलां प्रतिष्ठापेथ // तेहि दानि यत्र केशस्थाली नाम अधिस्थानो तहिं केशस्तूपं कारापितं / वालुक्षो नाम नगरं तहिं नखस्तूपं कारापितं / शिलुक्षं नामाधिष्ठानं तत्रापि शिला प्रतिष्ठापिता सा भगवता ऋद्धीये पाणिना क्षिप्ता //

___भगवता दानि सप्तसप्ताहेहि एकूनपंचाशद् दिवसानि निराहारेण त्रषुभल्लिकानां

[_mvu_3.311_] वाणिजकानां मधुतर्पणं पीतं पीतेन भगवतो ते च अभिष्यन्दिता // ततो शक्रेण देवानाम् इन्द्रेण भगवतो हरीतकी उपनामिता / धातूनां मुखं भविष्यति // भगवता दानि सा हरीतकी परिभूक्ता तं च हरीतकीवृन्तकं भगवता तत्रैवोद्देशे रोपितं सा च तं दिवसम् एव जातावशाखप्रशाखा महान्तं हरीतकीवृक्षं पुष्पफलोपेतं संवृत्तं / इमं भगवतो प्रथमं ऋद्धीवृक्षं / या च ततो वृक्षातो हरीतकीयो तानि अद्य चेतकीया हरीतकीप्रबाला ति बुध्यन्ति //

___ततो भगवता उरुविल्वायां षड्वर्षाणि दुष्करं तपं चीर्णं // तदा उरुविल्वायां सेनापतिग्रामातो नगरावलंबिकाये शाणपांसुकूलं भगवतो दुष्करचारिकां चरन्तस्य प्रसन्नचित्ताय उपनामितं / यदा भगवं परिपूर्णसंकल्पो भवेसि तदा इमं शाणपांसुकूलम् अनुग्रहार्थाय परिभुंजेसि // भगवतो तूष्णींभावेनाधिवासनां विदित्वा तुष्टा आत्तमवा पांसुकूलं वृक्षशाखाये ओलंबित्वा भगवतः पादौ शिरसा वन्दित्वा त्रिष्कुत्तं प्रदक्षिणीकृत्वा प्रक्रमि // सा दानि नचिरस्यैव कालगता भगवतो सन्तिका प्रसन्नचित्ता तं पांसुकूलदानं समनुस्मरन्ती समनन्तरकालगता त्रयस्त्रिंशे देवनिकाये उपपन्ना अन्यतरस्य महर्द्धिकस्य महानुभावस्य देवपुत्रस्य विमान अप्सरसां शतसहस्रप्रवरा // सा दानि अप्सरा समन्वाहरति / किं मया मनुष्यभूताये कुशलमूलं कृतं केवरूपा च दक्षिणा प्रतिष्ठापिता येनाहं त्रयस्त्रिंशे देवनिकाये उपपन्ना // सा दानि समन्वाहरती पश्यति उरुविल्वायां सेनापतिग्रामके गवा नाम नगरावलंबिका आसि दुःखिता / तं मया मरणकाले बोधिसत्वस्य दुष्करं चरन्तस्य प्रसन्नचित्ताये शाणपांसुकूलं दिन्नं तेनाहं कुशलमूलेन

[_mvu_3.312_] मनुष्येषु च्यवित्वा इह त्रयस्त्रिंशे देवनिकाये उपपन्ना / न च मे तं देयधर्मं भगवताम् अद्यापि परिभुक्तं / यद् इमम् एव देयधर्मं भगवान् अनुग्रहार्था परिभुंजेया तत्* मम महत्फलतरं भवेया // सा दानि अप्सरशतसहस्रपरिवृता महता देवानुभावेन महता देव-ऋद्धीये त्रयस्त्रिंशभवनातो वृक्षशाखातो तं शाणपांसुकूलं गृह्य भगवन्तम् उपसंक्रान्ता // इमं मया भगवन्तं शाणपांसुकूलं मनुष्यभूताये भगवतो दुष्करं चरन्तस्य प्रसन्नचित्ताये दिन्नं यदा भगवं परिपूर्णसंकल्पो भवेसि ततो भगवन् ममानुग्रहार्थं परिभुंजेसि तेनाहं कुशलमूलेन मनुष्येषु च्यावित्वा त्रयस्त्रिंशेषु देवनिकायेषु उपपन्ना / साधु मं भगवां इमं शाणपांसुकूलं परिभुंजतु अनुकंपाम् उपादाय यथा मे महत्फलतरो भवेया // देवा अन्तरीक्षगता भगवन्तम् आहन्सुः // मा भगवान् इमं शाणपांशुकूलं परिगृह्णातु / वयं भगवतो दिव्यां विकल्पदूष्याणि दास्यामः // भगवान् तेषां देवतानां विकल्पदूष्यप्रदानानि नाधिवासयति / तं गवाये नगरावलंबिकाये शाणपांशुकूलं प्रतिगृहीतं देवताशतसहस्रेहि च अन्तरीक्षातो चेलक्षेपाणि च भगवतः कृतानि हक्कारकिलिकिलानि च अकरेन्सुः // चक्रवर्तिराज्यं परित्यक्तं किं नो पांशुकूलेषु चित्तं रमति //

___भगवां दानि शाणपांशुकूलं धोवितुकामो / उदकेन कार्यं // अथ खलु शक्रेण देवानाम् इन्द्रेण पाणीहि नदी खता अद्यापि च पाणिखाता नाम नदी वुच्चति // शिलापट्टेन कार्यं यत्र तं शाणपांशुकूलं धोविष्यति // चतुर्हि महाराजेहि चत्वारि शिलापट्टा उपनामिता / भगवता एकत्र शिलापट्टे तं शाणपांशुकूलं धौतं //

[_mvu_3.313_] द्वितीये शिलापट्टे तं पाशुकूलं शोषितं // तृतीयं शिलापट्टं भगवता त्रपुसभल्लिकानां शिलुक्षनामनिगम आवासितानां तत्र ऋद्धीये पुरतो उत्क्षिप्तं // तेहि तं शिलापट्टं तत्रैव चेतिये प्रतिष्ठापितं / अद्यापि गन्धारराज्ये अधिष्ठानं शिलानामेन ज्ञायति // चतुर्थे शिलापट्टे भगवता निषीदित्वा तं शाणपांशुकूलं सीवितं / यद् अपि तत्र शिलापट्टं भगवतो अनुसीवननामापद्ये // सर्वे चत्वारो शिलापट्टा भगवता परिभुक्ता तानि च जम्बुद्वीपे सदेवमानुषस्य लोकस्य चेतियभूता //

___भगवां दानि तं शाणपांशुकूलं धोवित्वा सीवित्वा च पाणिखातनदीस्नायको ओकस्तो / स्नायित्वा भगवां पाणिखातातो नदीतो उत्तरिष्यतीति अकिलन्तकाया बुद्धा भगवन्तो अकिलन्तचित्ता तहिं तीरे ककुभो नाम वृक्षो ओशाखप्रशाखो प्रासादिको दर्शनीयो यंनामो च वृक्षो तंनामा च वृक्षस्य देवता ककुभो नाम देवपुत्रो प्रतिवसति / सो देवपुत्रो भगवता ततो नदीतो उत्तरन्तेन आभाष्टो // आहर ककुभ हस्तं // वरविमलकुण्डलधरेण ककुभेन देवपुत्रेण भगवतो बाहा प्रणामिता / भगवां ककुभस्य देवपुत्रस्य बाहां गृह्य पाणिखातातो नदीतो उत्तीर्णो समं च भगवता ततो ककुभस्य देवपुत्रस्य बाहातो हस्तं स्वकं अपनीतं तत्र च वृक्षशाखायां भगवतो पंचांगुलस्य करतलस्य पद्मं दृश्यति // (यं दानि अहं बोधिं आहतहस्तो च सुंदरो ककुभो नदीका च पाणिखाता शिला च देवेहि निक्षिप्ता // ) ___ततो भगवां अजपालन्यग्रोधं गतो // भगवान् अजपालस्य न्यग्रोधमूले विहरन्तो

[_mvu_3.314_] लोकं मीमांसेति // गंभीरो अयं मम धर्मः अभिसंबुद्धो निपुणो सुखुमो दुरनुबोधो अतर्कावचरो पण्डितवेदनीयो सर्वलोकविप्रत्यनीको / आलयारामो खलु पुनर् अयं आलयरतो आलयसमुदितो आलयारामायां च प्रजायां आलयरतायां आलयसमुदितायां दुर्दृशम् इमं स्थानं यद् इदंहेतु इदंप्रत्ययः प्रतीत्यसमुत्पादः सर्वोपधिप्रतिनिःसर्गो पूर्वसंस्कारसमथधर्मोपच्छेदः तृष्णाक्षयो विगतरागो निरोधो निर्वाणं अहं च न परेषां देशयेयं परे खु मे न विभावयेन्सुः सो मे स्या विघातः // यं नूनाहं एको अरण्यपर्वते तूष्णीभूतो विहरेयं / इमा च गाथावो भगवतो ताये वेलाये प्रतिभायेन्सुः //

प्रतिश्रोतगामिनं मार्गं गम्भीरं दुर्दृशं [मम] / न रागरक्ता द्रक्ष्यन्ति अलं दानि प्रकाशितुं //

कृच्छ्रेण मे अधिगतो अलं दानि प्रकाशितुं / अनुश्रोतं हि वह्यन्ति कामेषु ग्रसिता नराः //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.