Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महावस्तु-अवादन
- Thông tin
- GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[_mvu_3.203_] प्रतिभातु ते एतस्य भगवतो र्हतः सम्यक्संबुद्धस्य पुनर् एवाष्टाव् आश्चर्याद्भुतां धर्मां // अभ्युदाहरे खलु शक्रो देवानाम् इन्द्रो भगवतः पुनर् एवाष्टाव् आश्चर्याद्भुतां धर्मां // यदा खलु पुनः मार्षा स भगवांस् तथागतो र्हं सम्यक्संबुद्धो लोके उत्पन्नो हायन्ति आसुरा काया दिव्याः काया अभिवर्धन्ति // एवं बहुजनहितसुखाय प्रतिपन्नं च मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन तथागतेनार्हता सम्यक्संबुद्धेन / एवं पेयालं यावत् संस्यन्दति खलु पुनर् मार्षाः तस्य भगवतो र्हतः सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा / सय्यथापि नाम मार्षा गंगोदकं च यमुनोदकं च संस्यन्दमानं संस्यन्दति महासमुद्रे एवम् एव मार्षा तस्य भगवतो र्हतः सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा / एवं सुदेशितसुप्रज्ञप्तनिर्वाणधर्मदेशनाप्रतिपन्नं च पुनर् मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन // एवम् उक्ते त्रयस्त्रिंशा देवा भूयस्या मात्रया हृष्टा आत्तमनाः प्रीतिसौमनस्यजाता अभून्सुः //
___अथ भगवन् महाब्रह्मा त्रयस्त्रिंशां देवां भूयस्या मात्रया हृष्टां आत्तमनां प्रमुदितां प्रीतिसौमनस्यजातां विदित्वा गाथाभिर् अध्यभाषि //
मोदंति भो पुनर् देवाः त्रयस्त्रिंशा सशक्रकाः / तथागतं नमस्यन्ता धर्मस्य सुखधर्मता //
ततश् च देवता प्रमुदिता प्रीतिसौमनस्यजाता //
[_mvu_3.204_]___अथ खलु भगवं महाब्रह्मा त्रयस्त्रिंशान् देवां भूयस्या मात्रया हृष्टां प्रमुदितां प्रीतिसौमनस्यजातां विदित्वामन्त्रयेसि // सचेद् धि यूयं मार्षास् तस्य भगवतो ऽर्हतः सम्यक्संबुद्धस्य दीर्घरात्रं महाप्रज्ञप्तिं शृणोथ शुद्धा यूयं भवेथ भूयस्या मात्रया हृष्टा आत्तमनाः प्रमुदिताः प्रीतिसौमनस्यजाताः // एवम् उक्ते भगवं त्रयस्त्रिंशा देवा महाब्रह्माणम् एतद् अवोचत्* // तेन हि मार्ष महाब्रह्म प्रतिभातु ते तस्य भगवतो र्हतः सम्यक्संबुद्धस्य दीर्घरात्रं महाप्रज्ञप्तिं / अभ्युदाहरे खलु महाब्रह्मा भगवतो दीर्घरात्रं महाप्रज्ञप्तिं //
___भूतपूर्वं भवन्तो तीतम् अध्वानं राजा दिशांपती नाम अभूषि // राज्ञः खलु पुनर् भवन्तो दिशांपतिस्य गोविन्दो नाम ब्राह्मणो अभूषि पुरोहितः राजाचार्यो पण्डितो निपुणो मेधावी तेषु तेष्व् अर्थेषु // राज्ञः खलु पुनर् भवन्तो दिशांपतेः पुत्रो रेणुर् नाम अभूषि प्रियो मनापो पण्डितो निपुणो मेधावी तेषु तेष्व् अर्थेषु // गोविन्दस्य खलु पुनर् भवन्तो ब्राह्मणस्य ज्योतिपालो नाम माणवको अभूषि एकपुत्रको प्रियो मनापः पण्डितः निपुणः मेधावी तेषु तेष्व् अर्थेषु // अथ खलु पुनर् भवन्तो दीर्घस्याध्वनो त्ययेन गोविन्दो ब्राह्मणः कालम् अकार्षीत्* // अथ खलु पुनर् भवन्तो राजा दिशांपतिः गोविन्दे ब्राह्मणे कालगते शोचति क्लाम्यति परिदेवति उरस्ताडं क्रन्दति सम्म्मोहम् आपद्यति // हंभो यस्मिं दानि वयं समये गोविन्दस्य अर्थार्थानि सम्यग् निर्यातयित्वा पंचहि कामगुणेहि समर्पिता समंगीभूता क्रीडाम रमाम परिचारेम तस्मिं समये गोविन्दो ब्राह्मणः कालगतो ति // अश्रोषीत् खलु भवन्तो
[_mvu_3.205_] रेणुकुमारो राजा किल दिशांपतिर् गोविन्दे ब्राह्मणे कालगते शोचते क्लाम्यति परिदेवति उरस्ताडं क्रन्दति संमोहम् आपद्यति // अथ खलु भवन्तो रेणुकुमारो येन राजा दिशांपतिस् तेनोपसंक्रमित्वा राजानं दिशांपतिम् एतद् अवोचत्* // मा महाराज शोच मा क्लाम्य मा परिदेव मा उरस्ताडं क्रन्द मा संमोदम् आपद्य / तत् कस्य हेतोः / अस्ति महाराज गोविन्दस्य ब्राह्मणस्य ज्योतिपालो नाम माणवको पुत्रो प्रियो मनापः पण्डितो निपुणो मेधावी तेषु तेष्व् अर्थेषु पितुः पण्डिततरो निपुणतरो व्यक्ततरश् च / यं पि च पिता किंचित् संजानाति सर्वं ज्योतिपालेन माणवकेन रहो न्वभ्यस्तं // तं महाराजा स्वके पैतृके स्थाने स्थापयतु यद् इदं पौरोहित्ये गोविन्दिये //
___अथ खलु भवन्तो राजा दिशांपतिर् अन्यतरं पुरुषम् आमन्त्रयति // एहि त्वं पुरुष येन ज्योतिपालो माणवकस् तेनोपसंक्रमित्वा ज्योतिपालं माणवकम् एवं वदेहि // राजा दिशांपतिर् भवन्तं ज्योतिपालम् आमन्त्रयति / उपसंक्रमतु भवां ज्योतिपालो येन राजा दिशांपतिः // साधु महाराज त्ति स पुरुषो दिशांपतिराजस्य श्रुत्वा येन ज्योतिपालो माणवकस् तेनोपसंक्रमित्वा तं ज्योतिपालम् एतद् अवोचत्* // राजा दिशांपतिर् भवन्तं ज्योतिपालम् आमन्त्रयति उपसंक्रमतु भवां ज्योतिपालो येन राजा दिशांपतिः गोविन्दे ब्राह्मणे कालगते // साधु भवन् ति ज्योतिपालो माणवो तस्य पुरुषस्य प्रतिश्रुत्वा येन राजा दिशांपतिस् तेनोपसंक्रमित्वा राज्ञा दिशांपतिना सार्धं
[_mvu_3.206_] संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते निषीदि // एकान्ते निषण्णं ज्योतिपालं माणवं राजा दिशांपतिर् एतद् अवोचत्* // ओवदतु मे भवां ज्योतिपालो अनुशासतु मे भवां ज्योतिपालो मा च भवां चिरायतु अस्माकं ओवादानुशासनीये / एते च वयं भवन्तं ज्योतिपालं स्वके पैतृके स्थाने स्थापेम यद् इदं पौरोहित्ये गौविन्दीये // अथ खलु भवन्तो ज्योतिपालो माणवः स्वके पैतृके स्थाने स्थापितो पौरोहित्ये गोविन्दीये यद् अप्य् अस्य पिता कर्म कारापयति तद् अपि कर्म कारापयति यद् अप्य् अस्य पिता कर्मान्तानि अभिसंभुणोति तां पि ज्योतिपालो माणवो कर्मान्तां अभिसंभुणोति यद् अप्य् अस्य पिता अर्थार्थं समनुशासति तं ज्योतिपालो माणवो अर्थार्थं समनुशासति यद् अप्य् अस्य पिता अर्थार्थं अभिसंभूणोति तद् अपि ज्योतिपालो माणवो अर्थार्थम् अभिसंभुणोति // अपि हि जितं ब्राह्मणगृहपतिनो नैगमजानपदा एवम् आहन्सुः // गोविन्दो पुनर् भवन्तो ज्योतिपालो माणवो महागोविन्दो ज्योतिपालो इति // अपि हि जितं ज्योतिपालस्य माणवकस्य गोविन्दो महागोविन्दो ति एवम् अक्षरम् अग्निन्यं उपनिपते //
___अथ खलु भवन्तो महागोविन्दो ब्राह्मणो येन ते क्षत्रियास् तेनोपसंक्रमित्वा तेषां क्षत्रियाणाम् एतद् उवाच // एन्तु भवन्तो एन्तु भवन्तो येन रेणुकुमारस् तेनोपसंक्रमित्वा रेणुं कुमारम् एवं वदेथ // यंसुखी भवां रेणुः तंसुखी वयम् अपि यंदुःखी भवान् रेणुः तंदुःखी वयम् अपि / अयं भो रेणु राजा दिशांपति जीर्णो वृद्धो महल्लको अध्वगतो वयम् अनुप्राप्तो दुर्जयं खलु पुनः तं भो रेणु यम् इदं जीवितं मरणान्तं //
[_mvu_3.207_] सचेद् धि भो रेणु राज्ञो दिशांपतेर् अत्ययन राजकर्तारो भवन्तं रेणुं राज्येनाभिषिंचिष्यन्ति शक्ष्यति भवां रेणु अस्माकम् अपि राज्येन संभजितुं // एवम् उक्ते भगवां रेणुकुमारो षट् क्षत्रियान् एतद् अवोचत्* // सचेत्* मां भवन्तो राज्ञो दिशांपतेर् अत्ययेन राजकर्तारो राज्येनाभिषिंचिष्यन्ति संविभजिष्याम्य् अहं भवन्तो राज्येन // अथ कोचि दानि अस्माकं राज्ये अन्यो नाप्य् एवं सुखम् एधिष्यति अन्यत्रैव भवद्भिः //
___अथ खलु भवन्तो दीर्घस्याध्वनो त्ययेन राजा दिशांपतिः कालम् अकार्षीत्* // अथ खलु भवन्तो राजकर्तारो येन रेणुकुमारस् तेनोपसंक्रमित्वा रेणुकुमारम् एतद् उवाच // राज्यं सि कुमार प्राप्तो राज्येन त्वाम् अभिषिंचाम // एवम् उक्ते भवन्तो रेणुः कुमारो तां राजकर्तारां एतद् अवोचत्* // तेन हि भवन्तो सुखी भवथ यस्येदानि कालं मन्यथ // अथ खलु स रेणुराजा राज्येनाभिषिक्तो पंचहि कामगुणेहि समर्पितः समंगीभूतः क्रीडति रमति परिचारयति // अथ खलु भवन्तो महागोविन्दो ब्राह्मणो येन ते षट् क्षत्रिया तेनोपसंक्रमित्वा तान् षट् क्षत्रियान् एतद् अवोचत्* // एन्तु भवन्तो अयं हि भवन्तो रेणुराजा राज्येनाभिषिक्तो पंचहि कामगुणेहि समर्पितो समंगीभूतो क्रीडति रमति परिचारयति कामा च नाम एते भवन्तो मदनीया // एन्तु भवन्तो येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानम् एवं वदेथ / स्मरति भवां रेणु तं वचनं // साधु भवन्ति एते षट् क्षत्रिया महागोविन्दस्य ब्राह्मणस्य प्रतिश्रुत्वा येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानम् एतद् अवोचत्* //
[_mvu_3.208_] स्मरति भवां रेणु तं वचनं // एवम् उक्त भवन्तो रेणुराजा तां षट् क्षत्रियान् एतद् अवोचत्* // स्मराम्य् अहं भवन्तो तं वचनं / अथ को पि दानिम् इमां महापृथिवीं सप्तधा भाजयिष्यति // एवम् उक्ते भवन्तो षट् क्षत्रिया रेणुं राजानम् एतद् उवाच // अथ को हि दानि भो रेणु तेन भगवता महागोविन्देन अन्यो पण्डिततरो वा व्यक्ततरो वा य इमां महापृथिवीं सप्तधा भाजयिष्यति // अथ खलु भवन्तो रेणुराजा अन्यतरं पुरुषम् आमन्त्रयति // एहि त्वं भो पुरुष येन महागोविन्दो ब्राह्मणस् तेनोपसंक्रमित्वा महागोविन्दं ब्राह्मणं एवं वदेहि / राजा रेणुर् भगवन्तं महागोविन्दम् आमन्त्रयति // साधु महाराजेति स पुरुषो रेणुस्य राज्ञः प्रतिश्रुत्वा येन महागोविन्दो ब्राह्मणस् तेनोपसंक्रमित्वा महागोविन्दं ब्राह्मणम् एतद् उवाच // राजा रेणुर् भगवन्तं महागोविन्दं आमन्त्रयति / उपसंक्रमतु भवां महागोविन्दो येन राजा रेणुः // साधूति महागोविन्दो ब्राह्मणः तस्य पुरुषस्य प्रतिश्रुत्वा येन रेणुराजा तेनोपसंक्रमित्वा रेणुना राज्ञा सह संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते निषीदि // एकान्ते निषण्णो महागोविन्दो ब्राह्मणो रेणुं राजानम् एतद् उवाच // इमा भवन्तो महापृथिवी सप्तराज्यविस्तीर्णा //
दक्षिणेन संक्षिप्ता शकटमुखसंस्थितं / अण्डमध्यमं रेणुस्य राज्ञः आसि अतः पुरं //
कलिंगानां च अस्मकानां यो . . . . . . . / माहिष्मती च . . . . . सौवीराणां च रोरुकं //
[_mvu_3.209_] मिथिलां च विदेहानां . . . अंगेषु मापये / वाराणसीं च काशिषु एतं गोविन्दमापितं //
अथ खलु भवन्तो गोविन्दो ब्राह्मणस् तां षट क्षत्रियां स्वकस्वकेषु राज्येषु प्रतिष्ठापये //
___अचिराभिषिक्ता च षड् राजानः क्षिप्रम् एवं संनिपतिता येन महागोविन्दो ब्राह्मणस् तेनोपसंक्रमित्वा महागोविन्दं ब्राह्मणम् एतद् अवोचत्* // ओवदतु मो भवां महागोविन्दो अनुशासतु मो भवां महागोविन्दो यथा च भवां महागोविन्दो रेणुस्य राज्ञः अर्थार्थानि समनुशासति तथा इमेषु षट्सु राज्येषु अर्थार्थानि समनुशासतु // तेन खलु पुनस् समयेन महागोविन्दो ब्राह्मणः सप्तानां राज्ञां अर्थार्थानि समनुशासति / सप्त च ब्राह्मणशतसहस्राणि मन्त्रां वाचेति सप्त च स्नातकशतानि मन्त्रां वाचेति / वदतो मे नुवदथ //
___अपि हि जितं ब्राह्मणगृहपतिनो नैगमजानपदा च महाभागं गोविन्दं ब्राह्मणं एवं संजानन्ति // पश्यति आर्यो महागोविन्दो साक्षान् महाब्रह्माणं महाब्रह्मणा च पुनः सार्धं विज्ञेयं मन्त्रिय मन्त्रिय अर्थार्थानि समनुशासति // अश्रोषीत् खलु भवन्तो महागोविन्दो ब्राह्मणो / मम किल ब्राह्मणगृहपतिनो नैगमजानपदा एवं संजानन्ति आर्यो महाभागो गोविन्दो साक्षात् पश्यति ब्रह्माणं महाब्रह्मणा च पुनः सार्धं चिन्तयति यान्य् अर्थार्थानि समनुशासति / न खलु पुनर् अहं पश्यामि साक्षात
[_mvu_3.210_] महाब्रह्माणं न पुनर् अहं महाब्रह्मणा सार्धं विज्ञेयं मन्त्रिय मन्त्रिय अर्थार्थानि समनुशासामि // न खलु पुनर् मे तत् साधु न प्रतिरूपं यम् अहं अभूतं असन्तं वर्णं अधिवासयेयं // श्रुतं खलु पुनर् मे तं पौराणानाम् आचार्याणां प्रवयानां जीर्णानां वृद्धानां महल्लकानां अध्वगतवयम् अनुप्राप्तानां संमुखाद्भाषमाणानां / यो चत्वारि वार्षिकां मासां प्रतिसंलीनो करुणं ध्यानं ध्यायति तं साक्षात्* महाब्रह्मा उपसंक्रमति यश् चास्यार्थो अभिप्रेतो भवति तं वास्य पृच्छितेन विसर्जियति / यं नूनाहं चत्वारि वार्षिकानि मासानि प्रतिसंलीनः करुणं ध्यानं ध्यायेयं सचे तं भगवां रेणु अनुजानाति // एवम् उक्ते भवन्तो रेणुराजा महागोविन्दं ब्राह्मणम् एतद् उवाच // तेन हि भो महागोविन्द सुखीभव यस्य व कालं मन्यसीति //
___अथ खलु भवन्तो महागोविन्दो चत्वारि वार्षिकां मासां प्रतिसंलीनः करुणं ध्यानं ध्याये // अथ खलु भवन्तो महागोविन्दो ब्राह्मणो चतुर्णां वार्षिकानां मासानां अत्ययेन तदहो पोषधेयं चतुर्दश्यां पौर्णमास्यां शीर्षस्नातो आहतवस्त्रशुचिवस्त्रनिवस्तो अन्तरा च वेदिं अन्तरा चाग्निं स्नातशरीरो पट्टशिलायां आज्यानुलेपनायां अनन्तरहितायां अग्निं प्रज्वालेत्वा श्राद्धानां गृहे निषीदे उत्तरामुखो // अथ खलु भवन्तो नचिरस्यैव उत्तरातो दिशातो महतो आलोकस्य प्रादुर्भावो अभूषि // अद्राक्षीत् खलु भवन्तो महागोविन्दो उत्तरातो दिशातो महतो आलोकस्य प्रादुर्भावं दृष्ट्वा च पुनर् आश्चर्याद्भुतं संविग्नरोमहृष्टजातो अभूषि यथापीदं अदृष्टपूर्वं दृश्यते // अथ खलु भवन्तो महाब्रह्मा नचिरस्यैव उत्तरातो दिशातो वैहायसम् आगत्वा महागोविन्दस्य ब्राह्मणस्योपरिवैहायसम् अन्तरीक्षे अस्थासि // अद्राक्षीत् खलु महागोविन्दो ब्राह्मणो ऊर्ध्वं उल्लोकेन्तो महाब्रह्माणं उपरिवैहायसम्
[_mvu_3.211_] अन्तरीक्षे स्थितं दृष्ट्वा च पुनर् येन महाब्रह्मा तेनांजलिं प्रणामेत्वा महाब्रह्माणं गाथाये ध्यभाषति //
बलं वा यशं वा द्युति वा किन् तुवम् असि मारिष / अजानन्तो ते पृच्छामि कथं जानेम ते वयं //
एवम् उक्ते भवन्तो महाब्रह्मा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति //
यं कुमारो ति संजानन्ति ब्रह्मलोके सनातनं / देवा पि संजानंति एवं एवं गोविन्द जानथ //
एवम् उक्ते भवन्तो महागोविन्दो ब्राह्मणो महाब्रह्माणं गाथाये भाषति //
आसनं उदकं पाद्यं मधुरकल्पं च पायसं / प्रतिगृह्णेहि मे ब्रह्म अग्रं अभिहरामि ते //
अथ खलु भवन्तो महाब्रह्मा महाब्राह्मणं महागोविन्दं गाथाय प्रत्यभाषति //
आसनं उदकं पाद्यं मधुरकल्पं च पायसं / प्रतिगृह्णामि गोविंद अग्रं अभिहराहि मे //
एवम् उक्ते भवंतो महागिविंदो ब्राह्मणो महाब्रह्माणं गाथाये भाषति //
दृष्टे धर्मे हितार्थं वा संपरायसुखाय वा / कृतावकाशो पृच्छेयं यं मे मनसि प्रार्थितं //
[_mvu_3.212_] एवम् उक्ते भवन्तो महाब्रह्मा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति //
दृष्टधर्मे हितार्थं वा संपरायसुखाय वा / कृतावकाशः पृच्छाहि यं भवत्य् अभिप्रार्थितं //
अह खलु पुनः भवन्तो महागोविन्दस्य ब्राह्मणस्यैतद् अभूषि // प्रवारितं मे खलु महाब्रह्मणा प्रश्नव्याकरणेन किं दानिं महाब्रह्माणं पृच्छेयं दृष्टधार्मिकं अर्थम् आरभ्य उताहो सांपरायिकं // अथ खलु भवन्तो महागोविन्दस्य ब्राह्मणस्यैतद् अभूषि // अस्ति तावद् अयं दृष्टधार्मिको अर्थो यम् इदं पंच कामगुणान् आरभ्य // यं नूनाहं महाब्रह्माणं सांपरायिके अर्थे प्रश्नं पृच्छेयं // अथ खलु महागोविन्दो ब्राह्मणो महाब्रह्माणं सांपरायिके अर्थे प्रश्नं पृच्छे //
पृच्छामि ब्रह्माणं सनत्कुमारं कांक्षी अकांक्षं परिचारियेषु / कथंकरो किन्तिकरो किमाचरं प्राप्नोति मनुजो ऽमृतं ब्रह्मलोकं //
एवम् उक्ते भवन्तो महाब्रह्मा गोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति //
हित्वा ममत्वं मनुजेषु ब्रह्म एकोतिभूतो करुणो विविक्तो / निरामगन्धो विरतो मैथुनातो प्राप्नोति मनुजो ऽमृतं ब्रह्मलोकं //
[_mvu_3.213_]___एवम् उक्ते भवन्तो महागोविन्दो ब्राह्मणो महाब्रह्माणम् एतद् अवोचत्* // हित्वा ममत्वं ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतम् अर्थम् आजानाम यदैकत्यो अगारस्यानगारियं प्रव्रजे अल्पं भोगस्कन्धं प्रहाय महान्तं वा भोगस्कन्धं प्रहाय अल्पं वा ज्ञातिवर्गं प्रहाय महान्तं वा ज्ञातिवर्गं प्रहाय / उच्चकुलाद् वा नीचकुलाद् वा संभवति अपहृतगृहिव्यंजनो संघाटीपात्रचीवरम् आदाय शिक्षति शिक्षापदेषु कायकर्मवाचाकर्मणा समन्वागतो परिशुद्धेन परिशुद्धाजीवो हित्वा ममत्वं ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतम् अर्थं जानाम // एकोतीभावं भवन्तो महाब्रह्मणो एतम् अर्थम् आजानाम // यद् इहैकत्यो वितर्कविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति एकोतीभूतो ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतम् अर्थम् आजानाम // करुणो विविक्तो ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतम् अर्थम् आजानाम // यद् इहैकत्यो करुणापरेण चेतसा एकान् दिशां स्फरित्वोपसंपद्य विहरति विपुलेनमुद्गतेन अद्वयेनाप्रमाणेनावैरेणाव्याबाधेन तथा द्वितीयं तथा तृतीयं तथा चतुर्थम् इति ऊर्ध्वम् अधो तिर्यक् सर्वेहि सर्वत्रताये सर्वावन्तं लोकं स्फरित्वोपसंपद्य विहरति करुणो विविक्तो ति वयं भवन्तो महाब्रह्मणो
[_mvu_3.214_] भाषमाणस्य एतम् अर्थम् आजानाम // निरामगन्धं वयं भवन्तो महाब्रह्मणो भाषमाणस्यार्थं न जानाम //
के आमगंधा मनुजेषु ब्रह्म एतं न विन्दे तद्वीर ब्रूहि / येनावृता वारिवहा कुकूल आपायिका निर्वृता ब्रह्मलोकं //
एवम् उक्ते महाब्रह्मा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति //
क्रोधो मृषावाद कथंकथा च . . . . . अतिमानो . . . . . . . / ईर्ष्या च हिंसा परवादरोषणा ते आमगन्धा मनुजेषु ब्रह्म / येनावृता वारिवहा कुकूल आपायिका निर्वृता ब्रह्मलोकं //
एवम् उक्ते भगवान् महागोविन्दो महाब्रह्माणम् एतद् उवाच // आमागन्धो ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतम् अर्थं जानाम // तं न मे शक्यम् अगारम् अध्यावसता एकान्तसंलिखितं एकान्तानवद्यं एकान्तपरिशुद्धं पर्यवदातं च ब्रह्मचर्यं चरितुं / अल्पकं जीवितं गमनीयो सांपरायः नास्ति जातस्यामरणं तस्माज् ज्ञातव्यं मन्तव्यं बोद्धव्यं कर्तव्यं कुशलं कर्तव्यं ब्रह्मचर्यं न किंचिल् लोके पापं कर्म करणीयं //
[_mvu_3.215_] प्रव्रजिष्यामि दानि हंभो महाब्रह्म अगारस्यानगारियं सचेत्* मे भगवां महाब्रह्मा अनुशासेय // एवम् उक्ते भवन्तो महाब्रह्मा महागोविन्दं ब्राह्मणम् एतद् अवोचत्* // तेन हि भो महागोविन्द सुखीभव यस्येदानिं कालं मन्यसि //
___श्रुतं च मे तं भगवां किल तेन समयेन महागोविन्दो नाम ब्राह्मणो अभूषि स्मरति भगवां // एवम् उक्ते भगवां पंचशिखं गन्धर्वपुत्रम् एतद् अवोचत्* // एवम् एतं पंचशिख अहं तेन समयेन महागोविंदो नाम ब्राह्मणो अभूषि स्मरामि चाहं न च ते पुनः पंचशिख श्रुतं यथा सो महागोविन्दो ब्राह्मणो अगारस्यानगारियं प्रव्रजितो // अहं खलु सो पंचशिख महागोविन्दः ब्राह्मणो येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानं गाथाये अध्यभाषि //
आमन्त्रेमि महाराज रेणु भूमिपते तव / प्रव्रजामि प्रजहित्वा राज्यं पौरोहित्यं च मे //
एवम् उक्ते पंचशिख रेणुराजा महागोविन्दं ब्राह्मणं गाथाय प्रत्यभाषति //
सचेद् अस्ति ऊनं कामेहि वयन् ते पूरयामथ / को वा भवन्तं हेठेति वयन् ते धारयामथ / भवां पिता वयं पुत्रो मा गोविन्द प्रव्रजाहि //
एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणो येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानं गाथाये अध्यभाषति //
न अस्ति ऊनं कामेहि हेठयिता न विद्यति / अमनुष्यवचनं श्रुत्वा कथं वर्तेम अन्यथा //
[_mvu_3.216_] एवम् उक्ते पंचशिख रेणुराजा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति //
अमनुष्यो कथं वर्णो किं वा अभाषत / यस्य वाचं श्रुत्वा जहासि अस्माकं गृहं च केवलं //
एवम् उक्ते पंचशिख महागोविंदो ब्राह्मणो रेणुराजानं गाथयाध्यभाषति //
सर्वतो यष्टुकामस्य उपवुस्तस्य मे सतः / अग्नि प्रज्वालितो आसि कुशचीरपरिच्छदो //
ततो हंमि प्रादुरहु ब्रह्मा लोके सनातनो / यस्य वाचं श्रुत्वा जहामि युष्माकं गृहं च केवलं //
एवम् उक्ते पंचशिख रेणुराजा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति //
श्रद्दधाम वयं भवतो यथा गोविन्दो भाषति / अमनुष्यवचनं श्रुत्वा कथं वर्तेम अन्यथा //
अन्यापि वचना भवां महागोविन्दो कुशलानि येव आचिक्षति / या च भवतो गोविन्दस्य गतिर् भविष्यति सा अस्माकं अपि गतिर् भविष्यति //
यथा आकाशे विमलो शुद्धो वेरुलियो मणिः / एवं शुद्धो चरिष्यामि गोविन्दस्यानुशासने //
एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणो रेणुराजानं गाथाभिर् अध्यभाषति //
सचेज् जहथ कामानि यत्र रक्ताः पृथग्जनाः / शस्तं भ्यवेद् दृढीभवथ क्षान्तीबलसमाहिता //
[_mvu_3.217_] एष मार्गो ब्रह्मपुरे एष मार्गः सनातनः / सद्धर्मविद्भिर् आख्यातो ब्रह्मलोकोपपत्तये //
अश्रोषीत् खलु पंचशिख ते षड् राजानो महागोविन्दो ब्राह्मणो अगारस्यानगारियं प्रव्रजिष्यतीति / ते क्षिप्रम् एव संनिपतेन्सुः // अथ खलु पंचशिख महागोविन्दो ब्राह्मणो येन ते षड् राजानस् तेनोपसंक्रमित्वा तां षड् राजां एतद् अवोचत्* // पेन्तु भवन्तो एन्तु भवन्तो अन्यं दानि आचार्यं पर्येषथ यो वो स्वकस्वकेषु राज्येषु अर्थार्थानि समनुशासिष्यति // तत् कस्य हेतोः // प्रव्रजिष्याम्य् अहं अगारस्यानगारियं // श्रुतं हि मया महाब्रह्मणो संमुखाद् आमगन्धं भाषमाणस्य / तं न शक्यं अगारम् अध्यावसता एकान्तसंलिखितम् एकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं अल्पं जीवितव्यं गमनीयो संपरायो नास्ति जातस्यामरणं तस्माद्* ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कुशलं चरितव्यं ब्रह्मचर्यं न च किंचिल् लोके पापं कर्म कर्तव्यं //
___अथ खलु पंचशिख तेषां षण्णां राज्ञाम् एतद् अभूषि // ब्राह्मणा हि नामैते भोगलुब्धा भवन्ति / यं नूनं वयं महागोविन्दं ब्राह्मणं भोगेहि उपनिमन्त्रयेम // अथ खलु पंचशिख ते षड् राजानो महागोविन्दं ब्राह्मणं भोगेहि उपनिमन्त्रेन्सुः // संविद्यन्ति मो महागोविन्द इमेषु षट्सु राज्येषु प्रभूता मानुष्यका भोगा धार्मिका धर्मलब्धा धार्मिकेन बलेन अभिसाहृता अभिसमूढा ततो भवां महागोविन्दो धनम् आदियतु मा भवां महागोविन्द अगारस्यानगारियं प्रव्रजतु // एवम् उक्ते पंचशिख
[_mvu_3.218_] महागोविन्दो ब्राह्मणो षड् राजां एतद् अवोचत्* // संविद्यन्ति खलु भवन्तो अस्माकम् अपि प्रभूता मानुष्यका भोगा धार्मिका धर्मलब्धा धार्मिकेन बलेनाभिसाहृता अभिसमूढा तान् अपि चाहं अपहायागारस्यानगारियं प्रव्रजिष्यं // तत् कस्य हेतोः // श्रुतं हि महाब्रह्मणः संमुखाद् आमगन्धं भाषमाणस्य / तं न शक्यं अगारम् अध्यावसता एकान्तसंलिखितं एकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं अल्पकं जीवितव्यं गमनीयं सांपरायं नास्ति जातस्यामरणं तस्माज् ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं चरितव्यं ब्रह्मचर्यं न किंचिल् लोके पापं करणीयं // अथ खलु पंचशिख तेषां षण्णां राज्ञाम् एतद् अभूषि // ब्राह्मणा हि नाम एते स्त्रीलुब्धा भवन्ति / यं नूनं वयं महागोविन्दं ब्राह्मणं स्त्रीभिर् उपनिमन्त्रयेम // अथ खलु पंचशिख षड् राजानो महागोविन्दं ब्राह्मणं स्त्रीभिर् उपनिमन्त्रेन्सुः // संविद्यन्ति भो महागोविन्द इमेषु षट्सु राज्येषु प्रभूता स्त्रियः प्रासादिका दर्शनीया अक्षुद्रावकाशा परमया शुभवर्णपुष्कलतया समन्वागता ततः भवां महागोविन्दो स्त्रियः आदियतु मा भवां गोविन्द अगारस्यानगारियं प्रव्रजतु // एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणो तां षड् राजां एतद् अवोचत्* // संविद्यन्ति खलु भवन्तो अस्माकम् अपि चत्वारिंशत् सदृशीयो भार्या प्रासादिका दर्शनीया अक्षुद्रावकाशा परमया शुभवर्णपुष्कलतया समन्वागता ता पि चाहम् अपहाय अगारस्यानगारियं प्रव्रजिष्यं // तत् कस्य हेतोः // श्रुतं हि ब्रह्मणो संमुखाद् आमगन्धं भाषमाणस्य / तं न शक्यम् अगारम् अध्यावसता एकान्तसंलिखितं एकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं अल्पकं
[_mvu_3.219_] जीवितव्यं गमनीयः संपरायो नास्ति जातस्यामरणं तस्माज् ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं चरितव्यं ब्रह्मचर्यं न च किंचिल् लोके पापं करणीयं // एवम् उक्ते पंचशिख ते षड् राजानो महागोविन्दं ब्राह्मणम् एतद् उवाचत्* // तेन हि महागोविन्द प्रतिपालेहि सप्त वर्षाणि यावद् वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्याम या च भवतो महागोविन्दस्य गतिर् भविष्यति सा चास्माकम् अपि गतिर् भविष्यति // एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणस् तां षड् राजां एतद् अवोचत्* // अतिचिरं खल्व् एतं भवतां यम् इदं सप्त वर्षाणि प्रव्रजिष्याम्य् अहं अगारस्थानगारियं // तत् कस्य हेतोः // श्रुतं हि मया महाब्रह्मणः संमुखाद् आमगन्धं भाषमाणस्य तं न शक्यं . . . . . पापं कर्म करणीयं // एवम् उक्ते पंचशिख ते षड् राजानो महागोविन्दं ब्राह्मणम् एतद् अवोचत्* // तेन हि त्वं महागोविन्द प्रतिपालेहि षड् वर्षाणि / एवं पेयालं पंच वर्षाणि चत्वारि वर्षाणि त्रीणि वर्षाणि द्विवर्षाणि एकवर्षं / सप्तमासानि प्रतिपालेहि यावद् वयं महागोविन्द स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः या च भवतो गोविन्दस्य गतिर् भविष्यति सा चास्माकं पि गतिर् भविष्यति // एवम् उक्ते पंचशिख महागोविन्दः ब्राह्मणस् तां षड् राजां एतद् अवोचत्* // अतिचिरं खल्व् एतं भवन्तो यम् इदं सप्त मासा प्रव्रजिष्याम्य् अहं अगारस्यानगारियं // तत् कस्य हेतोः // श्रुतं मया महाब्रह्मणः संमुखाद् आमगन्धां भाषमाणस्य तं न शक्यं . . . . पापं करणीयं // एवम् उक्ते पंचशिख ते षड् राजानो महागोविन्दं ब्राह्मणं एतद् अवोचत्* // तेन
[_mvu_3.220_] हि महागोविन्द प्रतिपालेहि षण् मासां यावद् वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः / एवं सर्वत्र कर्तव्यं पेयालं पंच मासां चत्वारि मासां त्रीणि मासां द्वे मासां एकमासं याव वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः या च भवतो महागोविन्दस्य गतिर् भविष्यति सा चास्माकं पि गतिर् भविष्यति // एवम् उक्ते पंचशिख महाब्राह्मणो महागोविन्दस् तां षड् राज्ञ एतद् अवोचत्* // अतिचिरं खल्व् इदं भवन्तो यम् इदं अर्धमासं प्रव्रजिष्यामि अहं अगारस्यानगारियं // तत् कस्य हेतोः // श्रुतं हि . . . . . पापं कर्म करणीयं // एवम् उक्ते पंचशिख ते षड् राजानो महागोविन्दं ब्राह्मणम् एतद् अवोचत्* // तेन हि भो महागोविंद प्रतिपालेहि सप्त दिवसानि यावद् वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः या च भवतो गोविन्दस्य गतिर् भविष्यति सा अस्माकम् अपि गतिर् भविष्यति // एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणस् तां षट्* क्षत्रियान् एतद् अवोचत्* // अल्पकं खल्व् इदं भवन्तो यम् इदं सप्त दिवसानि तेन हि भवन्तो सुखीभवथ यस्येदानिं कालं मन्यथ //
___अथ खलु पंचशिख महागोविन्दो ब्राह्मणो येन तानि सप्त ब्राह्मणमहाशालसहस्राणि सप्त च स्नातकशतानि तेनोपसंक्रमित्वा एतद् अवोचत्* // एन्तु भवन्तो एन्तु भवन्तः अन्यं दानि उपाध्यायं पर्येषथ यो वो मन्त्राणि वाचयिष्यति / प्रव्रजिष्याम्य् अहं अगारस्यानगारियं // तत् कस्य हेतोः // श्रुतं हि मया महाब्रह्मणो संमुखाद् आमगन्धं भाषमाणस्य . . . . . पापं कर्म करणीयं // एवम् उक्ते पंचशिख
___[_mvu_3.221_] तानि च सप्त ब्राह्मणमहासालसहस्राणि सप्त च स्नातकशतानि महागोविन्दं ब्राह्मणम् एतद् अवोचत्* // मा भवां गोविन्दो अगारस्यानगारियं प्रव्रजतु प्रव्रज्या हि नामैषां ते महागोविन्द अल्पार्थिका च अल्पभोगा च अल्पेशाख्या च अल्पानुशंसा च ब्राह्मण्यं पि नामैतं भो महागोविन्द महार्थियं च महाशालं च महेशाख्यं च महानुशंसं च // एवम् उक्ते पंचशिख महागोविन्दो तानि च सप्त ब्राह्मणसहस्राणि सप्त च स्नातकशतानि एतद् अवोचत्* // मा भवन्तो एवं वदित्थ प्रव्रज्या हि नामैषा भवन्तो महर्द्धिया च महालाभा च महेशाख्या च महानुशंसा च ब्राह्मण्यं पि नामैतं भवन्तो अल्पार्थियं च अल्पलाभं च अल्पेशाख्यं चाल्पानुशंसं च यं पि ताव भवन्तः किंचित् संजानन्ति सर्वन्तं अस्माकम् एव निदानं // एवम् उक्ते पंचशिख सप्त ब्राह्मणसहस्राणि सप्त च स्नातकशतानि महागोविन्दं ब्राह्मणम् एतद् अवोचत्* // एवम् एतं भो उपाध्याय एवम् एतं प्रव्रज्या नामैषा महर्द्धिया च महालाभा च महेशाख्या च महानुशंसा च ब्राह्मण्यं पि नामैतं भो उपाध्याय अल्पार्थियं चाल्पलाभं चाल्पानुशंसं च यं पि तावद् वयं किंचिद् आजानाम सर्वन्तं तवोपध्याय निदानं या च भवतो उपाध्यायस्य गतिर् भविष्यति सा अस्माकम् अपि गतिर् भविष्यति // एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणो तानि च सप्त ब्राह्मणमहाशालसहस्राणि सप्त च स्नातकशतानि एतद् अवोचत्* // तेन हि भवन्तो सुखीभवथ यस्येदानिं कालं मन्यथ //
[_mvu_3.222_]___अथ खलु पंचशिख महागोविन्दो ब्राह्मणो येन ता चत्वारिंशत् सदृशी भार्या तेनोपसंक्रमित्वा चत्वारिंशत् सदृशीयो भार्यायो एतद् अवोचत्* // एन्तु भोतीयो या इच्छन्ति स्वकस्वकानि ज्ञातिकुलानि गच्छन्तु या इच्छन्ति अन्यं भर्तारं पर्येषन्तु या इच्छन्ति ता इमस्मिन्* एव ब्राह्मणकुले वसन्तु // संविद्यन्ति इमस्मिं ब्राह्मणकुले प्रभूता मानुष्यका भोगा धार्मिका धर्मलब्धा धार्मिकेन बलेनाभिसाहृता अभिसमूढा / प्रव्रजिष्याम्य् अहं अगारस्यानगारियं // तत् कस्य हेतोः // श्रुतं हि मया महाब्रह्मणः संमुखाद् आमगन्धं भाषमाणस्य तं न शक्यं अगारम् अध्यावसता एकान्तसंलिखितं एकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं // तत् कस्य हेतोः // अल्पकं जीवितं गमनीयं सांपरायं नास्ति जातस्यामरणं तस्मात्* ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं चरितव्यं ब्रह्मचर्यं न किंचिल् लोके पापं कर्म करणीयं // एवम् उक्ते पंचशिख ताश् चत्वारिंशत् सदृशीयो भार्यायो महागोविन्दं ब्राह्मणम् एतद् अवोचत्* // आर्यो खल्व् अस्माकं गोविन्दो भर्ता भर्ताकाले सखा सखीकाले या च आर्यस्य महागोविन्दस्य गतिर् भविष्यति सा अस्माकम् अपि गतिर् भविष्यति // एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणो तां चत्वारिंशत् सदृशीयो भार्यायो एतद् अवोचत्* // तेन हि भोतीयो सुखीभवथ यस्य दानि कालं मन्यथ //
___अथ खलु पंचशिख महागोविन्दो ब्राह्मणो तदहो सप्तमे दिवसे केशश्मश्रूण्य् अवतारयित्वा काषायाणि वस्त्राणि आच्छादयित्वा अगारस्यानगारियं प्रव्रजितः // तथा प्रव्रजितं पुनः समानं सप्त च राजानो अनुप्रव्रजेन्सुः सप्त च
[_mvu_3.223_] ब्राह्मणमहाशालसहस्राणि सप्त च स्नातकशतानि अनुप्रव्रजेन्सुः ता चत्वारिंशत् सदृशीयो भार्यायो अनुप्रव्रजेन्सुः कः पुनर् वादो अन्याये वेलासिकाये जनताये // सा अभूषि परिषा अनेकशता अनेकसहस्रा //
___महागोविन्दो खलु पुनः पंचशिख ब्राह्मणो बाहिरको कामेषु वीतरागो सो बह्मलोकसहव्रताये श्रावकाणां धर्मं देशयति // ये खलु पुनः पंचशिख महागोविन्दस्य ब्राह्मणस्य श्रावकाः सर्वेण सर्वं धर्मं देशितम् आजानन्ति ते ब्रह्मलोकसहव्रताये उपसंपद्यन्ति // ये खलु पुनः पंचशिख महागोविन्दस्य ब्राह्मणस्य श्रावका न सर्वेण सर्वं धर्मं देशितम् आजानन्ति ते कामावचरेषु देवेषूपपद्यन्ति // अप्य् एकत्या चतुर्महाराजकायिकानां सहव्रताये उपपद्यन्ति अप्य् एकत्या त्रयत्रिंशानां देवानां अप्य् एकत्या यामानां अप्य् एकत्या तुषितानां अप्य् एकत्या निर्माणरतीनां अप्य् एकत्या परनिर्मितवशवर्तीनां देवानां सहव्रताये उपसंपद्यन्ति // ये खलु पुनः पंचशिख स्त्रियो वा पुरुषा वा महागोविन्दे ब्राह्मणे परुषचित्तानि श्रावकेषु चास्य ते कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ति // ये खलु पुनः पंचशिख स्त्रियो वा पुरुषा वा महागोविन्दे ब्राह्मणे . . . . चित्तानि श्रावकेहि चास्य ते कायस्य भेदात् परं मरणात् सुगतिं स्वर्गं कायं देवेषूपपद्यन्ति // यं खलु पुनः पंचशिख महागोविन्दो ब्राह्मणो ग्रामं वा निगमं वा उपनिश्राय विहरति तत्रापि भवति राजा वा राष्ट्रस्य देवो वा गृहपतिकाये ब्रह्मा वा ब्राह्मणानां // यत्रापि निरूहमार्गं प्रतिपद्यति तत्रापि भवति राजा वा राष्ट्रस्य देवो वा गृहपतिकाये ब्रह्मा वा ब्राह्मणानां // अपि हि जितं ब्राह्मणगृहपतिका निगमजानपदा उत्खलिता इमं उदानम् उदानयन्ति // नमस् तस्य आर्यस्य महागोविन्दस्य नमो आर्यस्य सप्तपुरोहितस्य //
[_mvu_3.224_]___इदम् अवोचद् भगवान् राजगृहे विहरन्तो गृद्धकूटे पर्वते इमस्मिंश् च पुनर् व्याकरणे भाष्यमाणे पंचशिखस्य गन्धर्वपुत्रस्य विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं आत्तमनः पंचशिखो गन्धर्वपुत्रो भगवतो भाषितम् अभ्यनन्दे //
___भगवान् आह // स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तदा महागोविन्द नाम ब्राह्मणो अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं स भिक्षवः तेन कालेन तेन समयेन महागोविन्दो नाम ब्रामणो अभूषि / तदापि मया प्रव्रजितेन महाजनकायो अनुप्रव्रजितो / एतरहिं पि मया प्रव्रजितेन महाजनकायो अनुप्रव्रजितो //
_____समाप्तं गोविन्दीयं भगवतो पूर्वेनिवाससंप्रयुक्तं सूत्रं //
भगवां सम्यक्संबुद्धो यद् अर्थं समुदागतस् तम् अर्थम् अभिसंभावयित्वा श्रावस्त्यां विहरति जेतवने अनाथपिण्डस्यारामे शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो विस्तरेण निदानं कृत्वा यावच् चेतोवशिप्राप्ता च पुनर् बुद्धा भगवन्तो येहि विहारेहि आकांक्षन्ति विहरितुं तेहि विहारेहि
[_mvu_3.225_] विहरन्ति उज्जुचित्ता मृदुचित्ता कर्मणीयसमाहितचित्ता मैत्रचित्ता दान्तचित्ता शान्तचित्ता मुक्तचित्ता शुद्धचित्ता विमलचित्ता पाण्डुचित्ता प्रभास्वरचित्ता विनीवरणचित्ता ऋजुचित्ता स्थितचित्ता सुप्रतिष्ठितचित्ता असंगचित्ता असक्तचित्ता अदुष्टचित्ता अमूढचित्ता पृथिवीसमचित्ता आपोसमचित्ता तेजोसमचित्ता वायुसमचित्ता काचिलिंदिकमृदुस्पर्शोपमचित्ता इन्द्रकीलोपमचित्ता सुविमुक्तचित्ता सुविमुक्तप्रज्ञा उत्क्षिप्तपरिखा आवेठितप्राकारा निरर्गडा आर्यधर्मध्वजाग्रमणोत्तमा ब्राह्मणोत्तमा क्षत्रिया स्नातका वेदपारगा सत्यवादिनो अर्थवादिनो न्यायवादिनो अविपरीतवादिनो अवितथवादिनो अनन्यथावादिनो (तस्मात् तथागतो अनन्यथावादीति वुच्चति) //
___तत्र खलु भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयति // एकपिण्डपात्रेणाहं आनन्द त्रैमासं निषीदिष्यं पुरिमकानां तथागतानां अर्हतां सम्यक्संबुद्धानां विहारेहि विहरिष्यं मा मे कथंचिद् उपसंक्रमितव्यं अन्येन // साधु भगवन्न् इति आयुष्मान् आनन्दो भगवतः प्रत्यश्रोषीत्* // अथ खलु भगवान् त्रैमासं निषीदेत्* एकपिण्डपात्रेण पुरिमकानान् तथागतानाम् अर्हतां सम्यक्संबुद्धानां विहारेहि विहरन्तो //
___अथ खलु भगवां त्रैमासस्यात्ययेन सायाह्नसमये प्रतिसंलयना व्युत्थाय विहारातो निर्गम्य पर्यंके निषीदेत्* // अद्राक्षीत् खलु आयुष्मान् आनन्दो कुटीप्रच्छदनायां पर्यंके निषण्णं भगवन्तं दृष्ट्वा च पुनः येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदि / एकान्ते निषण्णो भगवन्तम् एतद् अवोचत्* // उपशान्तप्रणीतानि भगवत इन्द्रियाणि परिशुद्धो छविवर्णो शुभजातो मुखवर्णो / अथ खलु भगवां प्रणीतेहि विहारेहि विहरन्तो // एवम् उक्ते भगवान् आनन्दम् एतद् अवोचत्* // एवमेतं आनन्द आकांक्षमाणो आनन्द तथागतः एकपिण्डपात्रेण कल्पं
[_mvu_3.226_] वा निषीदे कल्पावशेषं वा // तत् कस्य हेतोः // एवम् एतं आनन्द भवति पुरिमकानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां विहारेहि विहरन्तानां यथा दानपारमिताप्राप्तानां शीलपारमिताप्राप्तानां क्षान्तिपारमिताप्राप्तानां वीर्यपारमिताप्राप्तानां ध्यानपारमिताप्राप्तानां प्रज्ञापारमिताप्राप्तानां // तदा आनन्द असंख्येयकल्पे अप्रमेये असंख्येये कल्पे इन्द्रध्वजो नाम तथागतो र्हं सम्यक्संबुद्धो अभूषि // इन्द्रध्वजस्य खलु पुनर् आनन्द तथागतस्यार्हतः सम्यक्संबुद्धस्य इन्द्रतपना नाम राजधानी अभूषीत्* // द्वादश योजनानि आयामेन पुरस्तिमेन पश्चिमेन च सप्त योजनानि विस्तारेण सप्तहि प्राकारेहि परिक्षिप्ता अभूषि सौवर्णेहि सौवर्णच्छन्नेहि / इन्द्रतपना खलु पुनः आनन्द राजधानी सप्तहि तालपंक्तीहि परिक्षिप्ता अभूषि विचित्राहि दर्शनीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाये / सौवर्णस्य तालस्कंधस्य रूप्यमया पुत्रा च फला च अभूषि रूप्यमयस्य तालस्कन्धस्य मुक्तामया पुत्रा च फला च अभूषि मुक्तामयस्य तालस्कंधस्य वैडूरिकामया पत्रा च फला च अभूषि वैडूर्यमयस्य तालस्कंधस्य मुसारगल्वमया पत्रा च फला च मुसागल्वमयस्य लोहितिकामया पत्रा च फला च अभूषि लोहितिकामयस्य तालस्कंधस्य सुवर्णमया पत्रा च फला च अभूषि // तेषां खलु पुनर् आनन्द तालस्कंधानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः असेचनकः अप्रतिकूलः श्रवणाय / सय्यथापि नाम पंचांगिकस्य तूर्यस्य कुशलेहि वादकेहि सम्यक्संप्रवादितस्य घोषो निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाये एवम् एवानन्द तेषां तालस्कन्धानां
[_mvu_3.227_]___वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलो श्रवणाये // तेन खलु पुनर् आनन्द समयेन इन्द्रतपनायां राजधान्यां सोण्डामनुष्यापेया ते तेन तालपत्रनिर्घोषेण पंचहि कामगुणेहि समर्पिता समंगीभूता क्रीडेन्सु रमेन्सुः परिचारयेन्सुः //
___इन्द्रतपना खलु पुनर् आनन्द राजधानी सप्तहि वेदिकाजालेहि परिक्षिप्ता अभूषि चित्राहि दर्शनीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताये वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाये / सौवर्णस्य पादस्य रूप्यमयी सूचिका आलम्बनं अधिष्ठानकं च / रूप्यमयस्य पादकस्य मुक्तामयी सूचिका आलम्बनम् अधिष्ठानकं चाभूषि / मुक्तामयस्य वैडूर्यमयी सूचिका आलम्बनकम् अधिष्ठानकं च / वैडूर्यमयस्य स्फटिकामयी सूचिका आलंबनकम् अधिष्ठानकं चाभूषि / स्फटिकमयस्य पादकस्य मुसागल्वमयी सूचिका आलंबनकम् अधिष्ठानकम् अभूषि / मुसागल्वमयस्य पादकस्य लोहितिकामयी सूचिका आलंबनकम् अधिष्ठानकं चाभूषि / लोहितिकामयस्य पादकस्य सौवर्णिका सूचिका आलंबनकम् अधिष्ठानकं चाभूषि // ते खलु पुनर् आनन्द वेदिकाजाला द्विहि द्विहि हेमजालेहि प्रतिच्छन्ना अभून्सु / सौवर्णकस्य हेमजालस्य रूप्यमयी किङ्किणीका अभून्सु / रूप्यमयस्य हेमजालस्य सौवर्णिका किंकिणीका अभून्सुः //
___इन्द्रतपना खलु पुनः आनन्द राजधानी समन्तेन त्रीणि द्वाराणि अभूषि चित्राणि
[_mvu_3.228_] दर्शनीयानि सप्तानां सुवर्णस्य रूप्यमयस्य मुक्ताये वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाये // तेषां खलु पुनर् आनन्द द्वाराणां द्विन्नां वर्णानां इष्टका अभूषि सुवर्णस्य रूप्यस्य च // तेषां खलु पुनर् आनन्द द्वाराणां द्विन्नां वर्णानां सोपाना अभूषि सुवर्णस्य च रूप्यस्य च // तेषां खलु पुनर् आनन्द द्वाराणां द्विन्नां वर्णानां धरणीयो अभूषि सुवर्णस्य च रूप्यस्य च // तेषां खलु पुनर् आनन्द द्वाराणां द्विन्नां वर्णानां तुला अभूषि सुवर्णस्य च रूप्यस्य च // तेषां द्वाराणां द्विन्नां वर्णानां प्रतिमोदका अभूषि सुवर्णस्य च रूप्यस्य च // तेषां द्वाराणां द्विन्नां वर्णानां प्रतिकूलं अभूषि सुवर्णस्य च रूप्यस्य च // तेषां खलु पुनर् आनन्द द्वाराणां चतुर्णां वर्णानां फलिकफलकानि अभून्सुः सुवर्णस्य च रूप्यस्य च मुक्ताये च वैडूर्यस्य च // तेषां द्वाराणां द्विन्नां वर्णानां फलकस्तारा अभून्सुः सुवर्णस्य च रूप्यस्य च // तेषां खलु पुनर् आनन्द द्वाराणां द्विन्नां वर्णानां एलूका अभूषि सुवर्णस्य च रूप्यस्य च // तेषां द्वाराणां पुरतो इषीकानि मापितानि अभून्सुः त्रिपौरुषनैखन्यानि त्रिपौरुषोच्चानि द्वादशपुरुष-उद्वेधेन चित्राणि दर्शनीयनि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताये वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाये च // तानि खलु पुनर् आनन्द द्वाराणि द्विहि द्विहि हेमजालेहि प्रतिच्छन्ना अभून्सुः सौवर्णमयेन च रूप्यमयेन च हेमजालेन / सौवर्णस्य हेमजालस्य रूप्यमयी-ओ
[_mvu_3.229_] किंकिणीका अभून्सुः रुप्यमयस्य हेमजालस्य सौवर्णिका किंकिणीका अभून्सुः // तेषां खलु पुनर् आनन्द हेमजालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरित वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाय // तद्यथापि नाम पंचांगिकस्य तूर्यस्य कुशलेहि वादकेहि सम्यक्प्रवादितस्य घोषो निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाय एवम् एवानन्द संघट्टितानां निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाय // इन्द्रतपना खलु पुनः आनन्द राजधानी अविशून्या अभूषि इमेहि एवंरूपेहि शब्देहि सय्यथीदं हस्तिशब्देहि अश्वशब्देहि रथशब्देहि पत्तिशब्देहि भेरीशब्देहि पणवशब्देहि शंखशब्देहि वेणुशब्देहि वीणाशब्देहि गीतशब्देहि वादितशब्देहि [गीतवादितशब्देहि] अश्नथ खादथ पिबथ देथ दानानि धर्मं चरथ श्रमणब्राह्मणेषु भद्रम् अस्तु वो ति शब्देहि //
___इन्द्रतपनायां पुनर् आनन्द राजधान्यां वलया नाम यष्टी अभूषि चित्रा दर्शनीया सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया द्वादश योजनानि उद्वेधेन चत्वारि योजनानि अभिनिवेशेन //
इदं अवोचद् भगवान् इदं वदित्वा ह्य् अथापरं एतद् उवाच शास्ता / इन्द्रध्वजो नाम अभूषि शास्ता सुवर्णवर्णो शतपुण्यलक्षणो //
महानुभावो ऋषि संघनायको विनेति सो कोटिशतानि सप्त /
[_mvu_3.230_] पुरस्कृतो श्रमणगणस्य नायको सो प्राविशे इन्द्रतपनां सुनिर्मितां //
इन्द्रध्वजो आनन्द तथागतो ऽर्हं सम्यक्संबुद्धो महाध्वजं तथागतम् अर्हन्तं सम्यक्संबुद्धं व्याकार्षीत्* // महाध्वजो आनन्द तथागतो र्हं सम्यक्संबुद्धः ध्वजोत्तमं तथागतम् अर्हन्तं सम्यक्संबुद्धं व्याकार्षीत्* // ध्वजोत्तमो आनन्द तथागतो र्हं सम्यक्संबुद्धो ध्वजरुचिरं तथागतं व्याकार्षीत्* // ध्वजरुचिरो आनन्द तथागतो र्हं सम्यक्संबुद्धो ध्वजकेतुं तथागतं व्याकार्षीत्* // ध्वजकेतुर् आनन्द तथागतो केतुध्वजं तथागतं व्याकार्षीत्* // केतुध्वजो आनन्द तथागतो र्हं सम्यक्संबुद्धः ध्वजध्वजं तथागतः व्याकार्षीत्* // ध्वजध्वज आनन्द तथागतः ध्वजमपराजितं तथागतं व्याकार्षीत्* // ध्वजमपराजित आनन्द तथागतो अपराजितं तथागतं व्याकार्षीत्* // अपराजितो आनन्द तथागतो सुप्रतापं तथागतं व्याकार्षीत्* // सुप्रताप आनन्द तथागतः प्रदीपं तथागतं व्याकार्षीत्* // प्रदीपो आनन्द तथागतो सुप्रतिष्ठितं तथागतं व्याकार्षीत्* // सुप्रतिष्ठितो आनन्द तथागतो नागमुनिं तथागतं व्याकार्षीत्* // नागमुनिर् आनंद तथागतो महामुनिं तथागतं व्याकार्षीत्* // महामुनिर् आनंद तथागतो मुनिप्रवरं तथागतं व्याकार्षीत्* // मुनिप्रवर आनन्द तथागतः संवृतस्कन्धं तथागतं व्याकार्षीत्* // संवृतस्कन्ध आनन्द तथागतो बंधुमं तथागतं
[_mvu_3.231_] व्याकार्षीत्* // बन्धुमस् तथागत आनन्दारिष्टं तथागतं व्याकार्षीत्* // अरिष्टस् तथागत आनन्द विजिताविं तथागतं व्याकार्षीत्* // विजितावी तथागत आनन्द क्रकुच्छन्दं तथागतं व्याकार्षीत्* // क्रकुच्छन्दस् तथागतो आनन्दासमसमं तथागतं व्याकार्षीत्* // असमसमस् तथागत आनन्द प्रभंकरं तथागतं व्याकार्षीत्* // प्रभंकरस् तथागत आनन्द ओघजं तथागतं व्याकार्षीत्* // ओघजस् तथागतो आनन्द महाबलं तथागतं व्याकार्षीत्* // महाबलस् तथागत आनन्द सुजातं तथागतं व्याकार्षीत्* // सुजातस् तथागत आनन्द पारंगतं तथागतं व्याकार्षीत्* // पारंगतस् तथागत आनन्द महाप्रसादं तथागतं व्याकार्षीत्* // महाप्रसादस् तथागत आनन्द सुखेन्द्रियं तथागतं व्याकार्षीत्* // सुखेन्द्रियस् तथागत आनन्द नक्षत्रराजं तथागतं व्याकार्षीत्* // नक्षत्रराजस् तथागत आनन्द शतपुष्पं तथागतं व्याकार्षीत्* // शतपुष्पस् तथागत आनन्द विरजं तथागतं व्याकार्षीत्* // विरजस् तथागत आनन्द ब्रह्मस्वरं तथागतं व्याकार्षीत्* // ब्रह्मस्वरस् तथागत आनन्द शिरसाह्वयं तथागतं व्याकार्षीत्* //
___शिरसाह्वये खु आनन्द तथागते पुष्पावती नाम राजधानी अभूषी द्वादश योजनानि आयामेन पुरस्तिमेन पश्चिमेन च सप्त योजनानि विस्तारेण दक्षिणेनोत्तरेण च सप्तहि प्राकारेहि परिक्षिप्ता सौवर्णेहि सौवर्णच्छदनेहि सप्तहि तालपङ्क्तीहि परिक्षिप्ता चित्रा दर्शनीया सप्तहि वर्णेहि पूर्ववद् यावत् सुवर्णस्य तालस्कन्धस्य रूप्यमया पत्रा फला च // तेषां खलु पुनर् आनन्द तालस्कन्धानां वातेरितानां वातसंघट्टितानां वल्गु मनोज्ञः घोषो निश्चरति // ये पुनर् आनन्द
[_mvu_3.232_] तत्र पुष्पावत्यां राजधान्यां शुण्डामनुष्यापेया ते तेन तालपत्रफलनिर्घोषेण पंचहि कामगुणेहि समर्पिता समन्वंगीभूता क्रीडेन्सुः प्रविचारयेन्सुः // पुष्पावती खलु पुनर् आनन्द राजधानी सप्तहि वेदिकाजालेहि परिक्षिप्ता चित्रा दर्शनीया सप्तानां वर्णानां इन्द्रतपनाराजधानीवत्* // तत्र पुष्पावत्यां राजधान्यां अशून्या अभूषि इमेहि एवरूपेहि शब्देहि सय्यथीदं हस्तिशब्देहि अश्वशब्देहि रथशब्देहि पत्तिशब्देहि भेरीशब्देहि पणवशब्देहि शंखशब्देहि वेणुशब्देहि वीणाशब्देहि गीतशब्देहि वादितशब्देहि अश्नथ खादथ पिबथ देथ दानानि धर्मं चरथ श्रमणब्राह्मणेषु भद्रम् अस्तु वो ति शब्देहि पूर्णा // तस्यां राजधान्यां वलया नाम यष्टी अभूषि चित्रा दर्शनीया सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाये / द्वादश योजनानि उद्वेधेन चत्वारि योजनानि अभिनिवेशं //
इदं अवोचद् भगवान् इदं वदित्वा ह्य् अथापरं एतद् उवाच शास्ता / एतेषां बुद्धान परंपराये शिरसाह्वयो पच्छिमको अभूषि //
महानुभावो ऋषि संघनायको विनेति सो कोटिशतानि सप्त / पुरस्कृतो श्रमणगणस्य नायको सो प्राविशत् पुष्पवतीं सुनिर्मितां //
शिरसाह्वयो आनन्द तथागतो नागकुलोत्तमं तथागतं व्याकार्षीत्* // नागकुलोत्तमस्
[_mvu_3.233_] तथागत आनन्द क्षमोत्तरं तथागतं व्याकार्षीत्* // क्षमोत्तरस् तथागत आनन्द नागोत्तमं तथागतं व्याकार्षीत्* // नागोत्तमस् तथागतः आनन्दांगोत्तमं तथागतं व्याकार्षीत्* // अंगोत्तमस् तथागतो वासवं तथागतं व्याकार्षीत्* // वासवस् तथागतश् चन्द्रिमं तथागतं व्याकार्षीत्* // चन्द्रिमस् तथागत आनन्द हेतुमन्तं तथागतं व्याकार्षीत्* // हेतुमन्तस् तथागतो जिनेन्द्रं तथागतं व्याकार्षीत्* // जिनेन्द्रस् तथागतो आनन्द जांबुनदं तथागतं व्याकार्षीत्* // जाम्बुनदो आनन्द तथागतस् तगरशिखिं तथागतं व्याकार्षीत्* // तगरशिखिर् आनन्द तथागतः पदुमं तथागतं व्याकार्षीत्* // पदुमस् तथागतः कौण्डिण्यगोत्रं तथागतं व्याकार्षीत्* // कौण्डिन्यगोत्रो आनन्द तथागतो कौण्डिन्यगोत्रम् एव तथागतं व्याकार्षीत् //
इदं अवोचद् भगवान् इदं वदित्वा ह्य् अथापरं एतद् उवाच शास्ता / एतेषां बुद्धानां परंपराये कौण्डिन्यगोत्रो पश्चिमको अभूषी //
त्रयो इमे बुद्धशता उदारा कौण्डिन्यगोत्रा नाम अभूषि सर्वे //
महानुभावा ऋषिसंघनायका एकत्र कल्पे उपलाह्वयस्मिं / त्रयो त्रयो कोटिशतानि तेषां महासंनिपातो अभूषि श्रावकाणां //
[_mvu_3.234_] त्रयो त्रयो वर्षशता च तेषां आयुःप्रमाणं अभु श्रावकाणां / त्रेविंशद् वर्षसहस्राणि तेषां सद्धर्मो अस्थासि परिनिर्वृतानां //
पश्चिमको आनन्द कौण्डिन्यसगोत्रो तथागतः चन्दनं तथागतं व्याकार्षीत्* // चन्दनो आनन्द तथागतो विरजं तथागतं व्याकार्षीत् // विरज आनन्द तथागतो हितेषिं तथागतं व्याकार्षीत्* // हितेषी आनन्द तथागतः सुपात्रं तथागतं व्याकार्षीत्* // सुपात्रे खलु पुनर् आनन्द तथागते अभयपुरा नाम राजधानी अभूषी द्वादश योजनानि आयामेन सप्त योजनानि विस्तरेण दक्षिणेनोत्तरेण सप्तहि सौवर्णप्राकारेहि परिक्षिप्ता सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि / पुष्पावतीराजधानीवत् सर्वप्रकारेहि वर्णनीया // तत्रापि वलया नाम यष्टी चित्रा दर्शनीया सप्तवर्णेहि // सुपात्र आनन्द तथागतः सम्यक्संबुद्धो धर्मनेत्रीम् अवलोकयन्तो परिपूर्णकल्पशतं अस्थासि // स वरुणं तथागतं व्याकार्षीत्* //
इदं अवोचद् भगवान् इदं वदित्वा ह्य् अथापरं एतद् उवाच शास्ता / सुपात्रशास्ता परमहितानुकम्पको सद्धर्मनेत्रीम् अवलोकयन्तो / अस्थासि सो कल्पशतं अनूनकं द्वात्रिंशत् कोटीनयुता विनेसि //
अभयपुरस्मिं क्षेमवैस्तारिकं प्रावचनं करित्वा वरुणोत्तमं व्याकार्षीत्* // वरुणोत्तमो
[_mvu_3.235_]___ आनन्द तथागतो धृतराष्ट्रं तथागतं व्याकार्षीत्* // धृतराष्ट्रो आनन्द तथागतो श्वेतुराष्ट्रं तथागतं व्याकार्षीत्* // श्वेतुराष्ट्र आनन्द तथागतः शिखिं तथागतं व्याकार्षीत्* // शिखी आनन्द तथागतः शिखिं एव तथागतं व्याकार्षीत्* //
एतेषां बुद्धानां परंपराये द्वाषष्टि बुद्धा शिखिनामसाह्वया / सर्वे अभूषि पदुमस्मिं कल्पे महानुभावा अरिसंघसूदना विनेसि ते श्रावकां सत्पथा पृथू //
पश्चिमक आनन्द तथागतो विरूढकं तथागतं व्याकार्षीत्* // विरूढकस् तथागतः सुनेत्रं तथागतं व्याकार्षीत्* // सुनेत्रस् तथागतः सुजातं तथागतं व्याकार्षीत्* // सुजात आनन्द तथागत एकिना दिवसवारेण चतुरशीति सहस्रनयुतानि श्रावकाणां विनेत्वा तम् एव दिवसं परिनिर्वृतो // तस्य खलु पुनर् आनन्द तथागतस्य त्रिंशद् वर्षसहराणि सद्धर्मो अस्थासि //
इदं अवोचद् भगवान् इदं वदित्वा ह्य् अथापरं एतद् उवाच शास्ता / सुजातो आनन्द तथागतो उत्पलं तथागतं व्याकार्षीत्* // उत्पलस् तथागतो ब्रह्मोत्तमं तथागतं व्याकार्षीत्* // ब्रह्मोत्तमो आनन्द तथागतो सुदर्शनं तथागतं व्याकार्षीत्* // सुदर्शने आनन्द खलु पुनः तथागते देवपुरा नाम राजधानी अभूषि द्वादश योजनान्य् आयामेन सप्त योजनानि विस्तारेण सप्तहि सौवर्णप्राकारेहि
[_mvu_3.236_] सप्तहि तालपंक्तीहि परिक्षिप्ता अभूषि चित्राहि दर्शनीयाहि सप्तवर्णेहि अभयपुरा इव वर्णनीया //
एतेषां बुद्धानां परंपराये सुदर्शनो पश्चिमको अभूषि / महानुभावो नरसंघनायको विनेसि सो कोटिसतानि त्रीणि / पुरस्कृतो श्रमणगणस्य नायको सो प्राविशे देवपुरां सुनिर्मितां //
सुदर्शनो आनन्द तथागतो अर्थदर्शं तथागतं व्याकार्षीत्* // अर्थदर्शी आनन्द तथागतो मूलं तथागतं व्याकार्षीत्* // मूलो आनन्द तथागतो औषढिं तथागतं व्याकार्षीत्* // औषढो तथागतो आनन्द हितैषिन् तथागतं व्याकार्षीत्* // हितैषी आनन्द तथागतो जाम्बूनदं तथागतं व्याकार्षीत्* // जाम्बूनदं आनन्द तथागतः सालं तथागतं व्याकार्षीत्* // साल आनन्द तथागत अभिजितं तथागतं व्याकार्षीत्* // अभिजि आनन्द तथागतो जिनवरुत्तमं तथागतं व्याकार्षीत्* // जिनवरुत्तम आनन्द तथागतः समंतभद्रं तथागतं व्याकार्षीत्* // समंतभद्र आनंद तथागतः शशिविमलं तथागतं व्याकार्षीत्* // शशिविमलस् तथागतः पौण्ड्रीकं तथागतं व्याकार्षीत्* // पौण्डरीकस् तथागतश् चन्द्रिमं तथागतं व्याकार्षीत्* // चन्द्रिमो आनन्द तथागतो भावितात्मं तथागतं व्याकार्षीत्* // भावितात्मा तथागतो
[_mvu_3.237_] ओघजं तथागतं व्याकार्षीत्* // ओघजस् तथागतो आनन्दाभयं तथागतं व्याकार्षीत्* // अभयस् तथागत आनन्द स्वयंप्रभं तथागतं व्याकार्षीत्* // स्वयंप्रभ आनन्द तथागतो महाबलं तथागतं व्याकार्षीत्* // महाबलस् तथागत आदित्यं तथागतं व्याकार्षीत्* // आदित्यस् तथागतः प्रतापवन्तं तथागतं व्याकार्षीत्* // प्रतापवन्तस् तथागतो हितेषीं तथागतं व्याकार्षीत्* // हितेषी आनन्द तथागतो ध्वजोत्तमं तथागतं व्याकार्षीत्* // धव्जोत्तमस् तथागतो ध्वजध्वजं तथागतं व्याकार्षीत्* // ध्वजध्वजस् तथागतः केतुं तथागतं व्याकार्षीत्* // केतुस् तथागतः केतूत्तमं तथागतं व्याकार्षीत्* // केतूत्तमस् तथागतो असह्यं तथागतं व्याकार्षीत्* // असह्यस् तथागतो जाम्बूनदं तथागतं व्याकार्षीत्* // जाम्बूनदस् तथागतः सालराजं तथागतं व्याकार्षीत्* // सालराजस् तथागतो आनन्दाकुतोभयं तथागतं व्याकार्षीत्* // अकुतोभयः तथागतः निर्मितं तथागतं व्याकार्षीत्* // निर्मितस् तथागतो उपशान्तं तथागतं व्याकार्षीत्* // उपशान्तस् तथागतो जिनेन्द्रं तथागतं व्याकार्षीत्* // जिनेन्द्र आनन्द तथागतो जिनेन्द्रम् एव तथागतं व्याकार्षीत्* //
एतेषां बुद्धानां परंपराये जिनेन्द्रनाम पश्चिमको अभूषि / त्रयो इमे बुद्धशता उदारा जिनेन्द्रा नामेन अभूषि सर्वे //
महानुभावा ऋषिसंघनायकाः एकस्मिं कल्पस्मिं महायशस्मिं / त्रयस्त्रयो कोटिशतानि तेषां महासन्निपातो अभु नायकानां //
[_mvu_3.238_] त्रयस्त्रयो वर्षसहस्राणि तेषां आयुःप्रमाणं अभु नायकानां / त्रयस्त्रिंशद् वर्षसहस्राणि तेषां सद्धर्मो अस्थासि परिनिर्वृतानां //
पश्चिमको जिनेन्द्रस् तथागतः सर्वार्थदर्शिनन् तथागतं व्याकार्षीत्* // सर्वार्थदर्शी तथागत आनन्द धर्मनेत्रीम् अवलोकयन्तो कल्पसहस्रं लोके अस्था अशोकं च तथागतं व्याकार्षीत्* // अशोको तथागतो ध्वजोत्तमं तथागतं व्याकार्षीत्* // ध्वजोत्तमस् तथागतो न्यग्रोधराजं तथागतं व्याकार्षीत्* // न्यग्रोधराजस् तथागतो विपुलयशं तथागतं व्याकार्षीत्* // विपुलयशो आनन्द तथागतो जयन्तं तथागतं व्याकार्षीत्* // जयन्त आनन्द तथागतः शाक्यमुनिं तथागतं व्याकार्षीत्* // शाक्यमुनिस्मिं खलु पुनर् आनन्द तथागते सम्यक्संबुद्धे सिंहपुरी नाम राजधानी अभूषि द्वादश योजनान्य् आयामेन सप्त योजनानि विस्तारेण सप्तहि सुवर्णप्राकारेहि परिक्षिप्ता सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि // पूर्ववद् इन्द्रतपना इव वर्णनीया / तत्र सिंहपुर्यां वलया नाम यष्टिर् अभूषि / पूर्ववद् वर्णनीया //
एतेषां बुद्धानां परंपराये शाक्यमुनिः पश्चिमको अभूषि / महानुभावो ऋषिसंघनायको विनेसि सो कोटिशतानि त्रीणि / पुरस्कृतो श्रमणगणस्य नायको सो प्राविशे सिंहपुरीं सुनिर्मितां //
[_mvu_3.239_] शाक्यमुनिर् आनन्द तथागतः सर्वदयन् तथागतं व्याकार्षीत्* // सर्वदयस् तथागत आनन्दात्युत्तमं तथागतं व्याकार्षीत्* // अत्युत्तमस् तथागत उत्तरं तथागतं व्याकार्षीत्* // उत्तरस् तथागतः समिताविनं तथागतं व्याकार्षीत्* // समितावी तथागतो धर्मनेत्रीम् अवलोकयन्तो परिपूर्णं कल्पसहस्रं लोके अस्थासि बलदत्तं च तथागतं व्याकार्षीत्* // बलदत्तस् तथागतो भागीरथं तथागतं व्याकार्षीत्* // भागीरथस् तथागतो अंगीरसं तथागतं व्याकार्षीत्* // अंगीरसस् तथागतो नागोत्तमं तथागतं व्याकार्षीत्* // नागोत्तमस् तथागतो नागबलं तथागतं व्याकार्षीत्* // नागबलस् तथागतः पुष्पं तथागतं व्याकार्षीत्* // पुष्पस् तथागतः पुष्पुत्तरं तथागतं व्याकार्षीत्* // पुष्पुत्तरस् तथागतो मेरुं तथागतं व्याकार्षीत्* // मेरुस् तथागतो रत्नाग्निं तथागतं व्याकार्षीत्* // रतनाग्निस् तथागतः पुष्पकृतं तथागतं व्याकार्षीत्* // पुष्पकृतस् तथागतः दीपंकरं तथागतं व्याकार्षीत्* // दीपंकर आनन्द तथागते दीपवती राजधानी अभूषी द्वादश योजनान्य् आयामेन सप्त योजनानि विस्तारेण सप्तहि सौवर्णप्राकारेहि सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि परिक्षिप्ता / सर्वं पूर्ववद् वर्णनीयं //
एतेषां बुद्धानां परंपराये दीपंकरो पश्चिमको अभूषि / महानुभावो ऋषिसंघनायको विनेसि सो श्रावकसहस्राणि अशीतिं / पुरस्कृतो श्रमणगणस्य नायको सो प्राविशेद् दीपवतीं सुनिर्मितां //
[_mvu_3.240_] दीपंकर आनन्द तथागतो सर्वाभिभुं तथागतं व्याकार्षीत्* // सर्वाभिभूस् तथागतः पदुमुत्तरं तथागतं व्याकार्षीत्* // पदुमुत्तरस् तथागतो अत्युच्चगामिं तथागतं व्याकार्षीत्* // अत्युच्चगामी तथागतो यशोत्तरं तथागतं व्याकार्षीत्* // यशोत्तरस् तथागतः शाक्यमुनिं तथागतं व्याकार्षीत्* // शाक्यमुनिस् तथागतः अर्थदर्शिं तथागतं व्याकार्षीत्* // अर्थदर्शिस् तथागतस् तिष्यं तथागतं व्याकार्षीत्* // तिष्यस् तथागतो पुष्यं तथागतं व्याकार्षीत्* // पुष्यस् तथागतो विपश्यिं तथागतं व्याकार्षीत्* // विपश्यी तथागतः शिखिनं तथागतं व्याकार्षीत्* // शिखी तथागतो विश्वभुवं तथागतं व्याकार्षीत्* // विश्वभूस् तथागतः क्रकुच्छन्दं तथागतं व्याकार्षीत्* // क्रकुच्छन्दस् तथागतः कोनाकमुनिं तथागतं व्याकार्षीत्* // कोनाकमुनिस् तथागतः काश्यपं तथागतं व्याकार्षीत्* // काश्यपस् तथागतः शाक्यमुनिं तथागतं व्याकार्षीत्* // शाक्यमुनिर् अहं तथागतः मैत्रेयं तथागतं व्याकार्षीत्* // मैत्रेये खलु पुनर् आनन्द तथागते केतुमती नाम राजधानी अभूषि द्वादश योजनानि आयामेन सप्त योजनानि विस्तारेण सप्तहि सौवर्णप्राकारेहि सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि परिक्षिप्ता / सर्वं पूर्ववद् वर्णनीयं //
एतेषां बुद्धानां पअरंपराये मैत्रेयो पश्चिमको भविष्यति / महानुभावो ऋषिसंघनायको विनेष्यति कोटिशतानि सप्तति / पुरस्कृतो श्रमणगणस्य नायको प्रवेक्ष्यति केतुमतीं सुनिर्मितां //
[_mvu_3.241_] आवन्दितबुद्धानां आख्याता पुरुषदम्यसारथिनां / इन्द्रध्वजातो याव अनागतो वापि मैत्रेयो //
शास्ता आदित्यवत् तपति प्रतपन्तं तेजसा पुरुषसिंहं / पृच्छति अशोकारामे आनन्दो जिनं जितक्लेशं //
अद्भुत कीर्ति भगवतः . . . यशो चाद्भुतो दशदिशासु / किं कर्मं करि भगवां येन तपसि लोके सदेवके //
श्रुत्वा च सो महर्षिः संशयशल्यानन्तकनिर्घाती / प्रतिभणति सत्वसारो आनन्दम् असंगवचनाये //
आनन्द श्रूयतु मे यादृशम् आरोपितं कुशलमूलं / बुद्धेहि श्रावकेहि च तहिं तहिं संसरन्तेन //
बोधिं अभिप्रार्थयता प्रार्थयमानेन अच्युतं स्थानं //
सुमहन्ता अधिकारा मया कृता हृष्टचित्तेन //
दीपंकरे च बुद्धे सर्वाभिभुस्मिं बुद्धे आनन्द / पदुमोत्तरे च बुद्धे अत्युच्चसाह्वये . . . . . //
यशोत्तरस्मिं च शाक्यसिंहे च अर्थदर्शिस्मिं तिष्ये / पुष्ये चापि नरुत्तमे विपश्यिस्मिं चापि संबुद्धे //
शिखिस्मिं पि क्रकुच्छन्दे महाप्रज्ञे कोनाकमुनि काश्यपे / सुमहन्ता अधिकारा कृता मया हृष्टचित्तेन //
[_mvu_3.242_] एते महानुभावा अनन्ता . . . . . लोकविश्रुता / उदारा सत्कृता मया तेन प्रभवामि आनन्द //
तेन यशो अतुलिया च कीर्ती अभ्युद्गता दशदिशासु / तेन अहं विरोचामि सदेवके सब्रह्मके लोके //
श्रुत्वान च सो वचनं अवितथवचनस्य लोकनाथस्य / आनन्दितो हृष्टचित्तो आनन्दो उत्तरं पृच्छेत्* //
केवचिरम् अतीता ते संबुद्धा एन्ति लोकस्मि उच्यतां / केवचिरं अस्थांसु हिताय सर्वस्य लोकस्य //
एवं कनकप्रकाशो हृष्टो संबुद्धो मुदितमानसो / चिरकालम् अत्यतीतान् कीर्तयति महर्षिणो बुद्धान्* //
एष परमार्थदर्शी समतुल्यो समसमो च बुद्धेहि / दर्शयति प्रातिहार्यं बुद्धो तथ सर्वबुद्धेहि //
बुद्धानाम् एष विषयो अचिन्तियो अतुलियो असंख्येयो / संहृष्टो स्मि भगवं श्रुत्वा वचनं अमृतकल्पं //
अनन्तो अधिगतो अर्थो सदेवकब्रह्मकस्य लोकस्य / बुद्धानां एष विषयो अचिन्तियो एष अन्येहि //
एको शाक्यकुमारो शाक्यसुतो शाकियोत्तमकुलीनो / शाक्यकुलनंदिजननो बुद्धो तथ बोधयति लोकं //
दीपंकरस्य अत्यये परिपूर्ण कल्पकोटी आनन्द /
[_mvu_3.243_] सर्वाभिभू दशबलो दीपालोके समुत्पद्ये //
अस्तंगते च तस्मिं सर्वाभिभुनायके . . . . . / पदुमोत्तरो दशबलो कल्पशतसहस्रे उत्पद्ये //
तस्य परिनिर्वृतस्य पदुमुत्तरस्य सुगतस्य . . . . . / अत्युच्चगामि भगवां कल्पशतसहस्रे उत्पद्ये //
अत्युच्चगामिनाथे परिनिर्वृते लोकविश्रुते पुरा वै / पंचहि कल्पशतेहि यशोत्तरो बुद्ध उत्पद्ये //
निर्वृते यशोत्तरस्मिं नमोन्धकारे प्रनष्टे लोकस्मिं / शाक्यमुनि बुद्धवीरो कल्पशतेन समुत्पद्ये //
निर्वृते शाक्यमुनिस्मिं संबुद्धे अर्थदर्शि उपपद्ये / नवनवते कल्पस्मिं आनन्द इमस्मिं उपपद्ये //
पंचनवते च कल्पे तिष्यो उपपद्ये लोकप्रद्योतो / द्वानवते च पुष्यो नरर्षभः लोक उत्पद्ये //
एकूननवते च कल्पे विपश्यी . . . लोके उपपद्ये / त्रिंशे च कल्पे शिखी विश्वभूश् चैव उत्पद्ये //
क्रकुच्छन्दो महालोको कोनाकमुनी च काश्यपशिरी च / अहम् एव चानन्द उत्पन्नो भद्रकल्पस्मिं //
व्याकृतो मया महात्मा भविष्यति बुद्धो अनागते ध्वाने / मैत्रेयो महानुभावो आनन्द इमस्मिं कल्पस्मिं //
कल्पम् अशेषं भगवां दीपंकरो बुद्धो लोके अस्थासि / सर्वाभिभु च कल्पं अस्थासि हिताय लोकस्य //
प्रतिपूर्णां वर्षकोटिं पदुमोत्तरो पि लोके अस्थासि /
[_mvu_3.244_] अत्युच्चगामि भगवां वर्षशतसहस्रम् अस्थासि //
यशोत्तरो नवति वर्षसहस्राणि अर्थदर्शी अस्थासि / पंचनवतिं च तिष्यो द्वानवतिं पुष्य अस्थासि //
अशीति वर्षसहराणि बुद्धस्य विपस्यिनो पुरा आयुः / सप्तति वर्षसहस्राणि शिखीस्य आयुस् तदा आसि //
षष्टिं च विश्वभुवस्य पंचाशत् क्रकुच्छन्दस्य पुरायुः / त्रिंशत् कोनाकमुनेर् विंशत् पुनः काश्यपशिरिस्य //
अस्माकम् अपि आनन्द एतरहिं परीत्तक अस्मिं लोके / वर्षशतमात्रम् एव आयुः शाक्याधिराजस्य //
[एके अस्थासु ऋद्धीये एके अस्थान्सु कर्मणा / ऋद्धिकर्म स्थपेत्वान अन्तरा परिनिर्वृता //]
आदित्यो व तपन्तो शरदस्मिं उद्गतो यथाकाशे / योजनशतं प्रभाये दीपंकरो स्फरित्वास्थासि //
प्रभासयन्तो दशदिशं धर्मं देशयंतो दुल्लभोत्पादं / लोकान् दीपेति तेन दीपंकरो ति से सा संज्ञा //
सर्वाभिभू दशबलो अभिभूय प्राणिकोटिसहस्राणि / अमृतपदस्मिं विनेसि तेन से संज्ञा अनभिभूता //
पदुमोत्तरो पुरवरे उद्यानगतो सरे अभिरमन्तो /
[_mvu_3.245_] अदर्शि रथचक्रमात्रं सरस्मिं अभ्युद्गतं पदुमं //
सो तत्र अभिरुहित्व निषीदि पर्यंकं आभुंजित्वा / स्पर्शेसि पंचाभिज्ञा मिलायमाने महापदुमे //
पंचाभिज्ञो भूत्व ऋद्धिये वैहायसम् अभ्युद्गम्य / उपश्रित्य बोधिमूलं दशबलो सर्वज्ञतां प्राअप्तः //
उद्गम्य तालमात्रं अस्थासि अत्युच्चगामी भगवां / तेन . . . . . . . अत्युच्चसाह्वयो ति संज्ञा //
वैस्तारिकं अभूषि प्रावचन . . . अदान्तदमकस्य / अपरिमितयशो भगवतो तेन यशोत्तरो ति अभु संज्ञा //
ऋद्धस्फीतपुरवरा निष्क्रम्य शाकियो गौतमगोत्रो / अपहाय रत्ना सप्त सो शाक्यमुनीति अभु संज्ञा //
अर्थस्मिं अर्थदर्शी अरहत्वे विनेसि श्रावकशतानि / तेन समज्ञा लोके अभूषि जिन अर्थदर्शीति //
तिष्यमहे वर्तन्ते तिष्यो उत्पद्ये लोकप्रद्योतः / तेन समज्ञा लोके तिमिरापनुदस्य तिष्यो ति //
पुष्यमहे वर्तंते पुष्यो उत्पद्ये लोकप्रद्योतो / तेन समज्ञा लोके नक्षत्रसाह्वयो स पुष्यो ति //
अनिमिषसमन्तचक्षुर्विपश्यी रूपाणि पश्यति अनीर्यो / विपश्यीति विशुद्धनयनो तेन विपश्यी अभूत् संज्ञा //
[_mvu_3.246_] अर्थं पि अर्थकराणि विधीनि अनुशासते पृथिवीपालो / तेन . . . . भगवतो विपश्यीति अभु समज्ञा //
अभिसंबुध्यित्व जिनो ओलोकेति विपश्यी यं लोकं / केशरिधर्मं दृष्ट्वा तेन विपश्यीति अभु संज्ञा //
यस्युत्पादा लोके हुतासनो व प्रज्वलितो समारुतो / अतिरिव शिखी प्रदीप्यते तेन शिखीति अभु से संज्ञा //
उत्पन्ने च जिनेन्द्रे देवो तदा प्रवर्षति अच्छिन्न / धाराहि तेनुद्गमासि घोषो विश्वभुस्य आसि संज्ञा //
क्रकुच्छन्दस्य भगवतो कोनाकमुनिस्य काश्यपशिरिस्य / कुलवंशात् प्रभृतानि मातापितृनामधेयानि //
आदित्यगोत्रो तेजस्वी इक्ष्वाकुकुलसंभवो / जातीतः क्षत्रियो अग्रो भगवां अग्रपुद्गलो //
अजिते ब्राह्मणकुले अनेकरत्नसंचये / अपहाय विपुलां कामां प्रव्रजिष्यति ब्राह्मणो //
ऋद्धिस्फीते कुले चैव सुमतिप्रतिमण्डिते / पृथिवीमण्डे मैत्रेयो भविष्यति अनागते //
प्रथमस्मिं सन्निपाते षण्णवति कोटियो भविष्यन्ति सर्वेषाम् एव अर्हन्तानां वशिभूतानां धुतरजानां / द्वितीये पि सन्निपाते चतुर्नवति कोटियो भविष्यन्ति
[_mvu_3.247_] सर्वेषाम् अर्हन्तानां वशिभूतानां धुतरजानां / तृतीयस्मिं संनिपाते द्वानवति कोटियो भविष्यन्ति सर्वेषाम् अर्हतां वशिभूतानां धुतरजानां //
दीपंकरो महाप्राज्ञो जातीये आसि क्षत्रियो / सर्वाभिभू दशबलो सो जातीये आसि ब्राह्मणो //
पदुमुत्तरो दशबलो जातीये आसि क्षत्रियो / अत्युच्चगामी भगवां जातीये आसि ब्राह्मणो //
यशोत्तरो शाक्यमुनिर् जातीये आसि क्षत्रियो / अर्थदर्शी च तिष्यो च पुष्यो चापि नरुत्तमो / जातीये ब्राह्मणा एते भावितात्मा महर्षिणो //
विपश्यी च शिखी चैव विश्वभू चैव क्षत्रिया / क्रकुत्सन्दो कोनाकमुनि काश्यपश् चापि ब्राह्मणा //
शुद्धोदनस्य राज्ञो इक्ष्वाकुजस्य पुत्रो मायाय / शाक्यकुलनन्दिजननो शाक्यो भूत् शाक्यसुकुमारो //
कोटीशतपरिवारो स्फरित्व ससुरेश्वरलोकं विरजो / विमुक्तो विमुक्तचित्तो मैत्रेयो भविष्यति समज्ञा //
द्विहिम् एव ते कुलेहि उत्पद्यन्ति नरोत्तमाः / क्ष्त्रियकुले च प्रथमं अथवापि ब्राह्मणकुले //
यदा हि अग्रा आख्याता लोकस्मिं भोन्ति क्षत्रिया / तदा क्षत्रियकुले बुद्धा उत्पद्यन्ति नरोत्तमाः //
[_mvu_3.248_] यदा तु गुणसंख्याता लोकस्मिं भोन्ति ब्राह्मणाः / तदा ब्राह्मणकुले बुद्धा उत्पद्यन्ति महर्षिणः //
चतुर्महापथे दृष्ट्वा लोकज्येष्ठं दीपंकरं / जटिलं प्रस्तवे हृष्टो बोधिं प्रर्थेन्तो अनुत्तरां //
सुवर्णपुष्पं . . . . ग्रहेत्वान कृतांजलि / सर्वाभिभुं ओकिरेसि बोधिं प्रार्थेन्तो अनुत्तरां //
हेमपिण्डसंकाशां पुष्पां ग्रहेत्वा पुष्पाण अंजलिं / पदुमुत्तरं चोकिरे हं बोधिं प्रार्थेन्तो अनुत्तरां //
अत्युच्चगामी भगवां लोकस्य अनुकम्पको / हिरण्येन ओकिरे हं बोधिं प्रार्थेन्तो अनुत्तरां //
यशोत्तरं महाभागं भिक्षुसंघपुरस्कृतं / उपासनेन प्रतिमाने बोधिं प्रार्थेन्तो अनुत्तरां //
गंधां ग्रहेत्वा . . . सुरभिगंधा महारहां / शाक्यमुनिं ओकिरे हं बोधिं प्रार्थेन्तो ऽनुत्तरां //
सुवर्णरूप्यवैडूर्यं ग्रहेत्वान कृतंजलि / अर्थदर्शिं ओकिरे हं बोधिं प्रार्थेन्तो अनुत्तरां //
तिष्यं चाहं लोकनाथं संमुखा हं अभिस्तवे / प्रत्युत्पन्नप्रयोगेन बोधिं प्रार्थेन्तो नुत्तरां //
पुष्यं चाहं समापन्नो संहृष्टो प्रांजलीकृतो / नमस्यमानो अस्थासि बोधिं प्रार्थेन्तो नुत्तरां //
[_mvu_3.249_] विपश्यिं दृष्ट्वा आगतं पूर्णमासी व चन्द्रमं / अजिनं प्रस्तरे मार्गे बोधिं प्रार्थेन्तो नुत्तरां //
शिखिनं लोकार्थेचरं भिक्षुसंघपुरस्कृतं / तर्पेसि खाद्यभोज्येन बोधिं प्रार्थेन्तो नुत्तरां //
विश्वभुवं च महार्हेहि चीवरेहि सश्रावकं / आच्छादये संप्रहृष्टो बोधिं प्रार्थेन्तो अनुत्तरां //
त्रिहि च लोकनाथेहि ब्रह्मचर्यं चरे अहं / काश्यपो मां वियाकार्षी बोधिं प्राप्स्यसि अनुत्तरां //
आपंचहि कृती येव त्रीहि प्रार्थयामि निर्वृतिं / त्रीहि च वासितो लोके त्रिंशको च विवर्तितः //
एकनवतिस्मिं कल्पे यदा लोके विवर्तितो / अथ अन्ये बोधिसत्वो नव कल्पानि संसरे //
वीर्यकायेन सम्पन्नो प्रज्ञापृथुसमाहितो / नव कल्पानि स्थायेसि वीर्येण पुरुषोत्तमः //
वीर्यन्तु यन्त्रेति बोधिं अनन्यभाषितं बलं / न च वीर्यं न प्रशस्तं बोध्यंगबलम् इन्द्रियं //
प्रहानदानद[मसंय]मेन समुदागच्छन्ति नरोत्तमा / विवर्तमाने लोकस्मिं भवन्ति पुन पुंगवा //
ते बोधिं कल्पशतेन समुदानेन्ति नरोत्तमा / अथ एकनवते कल्पे संबुद्धो शाक्यपुंगवो //
[_mvu_3.250_] दानशीलं परिगृह्य बोधिसत्वा महायशा / दानं शीलं च प्रज्ञां च वर्णयन्ति महर्षिणां //
बुद्धान दानं सुगतेन देशितं अनोमन्यायेन अनोमबुद्धिना / तादृशं सुगतम् अनुस्मरन्तो निरामिषां को न लभेत प्रीतिं //
इदम् अवोचद् भगवां सदेवमनुष्यासुरलोको भगवतो भाषितम् अभ्यनन्दत्* //
_____समाप्तं बहुबुद्धसूत्रं //
महान्तं धर्मसंभारं महाजनहितावहं / महावस्तुं महाज्ञानं भदन्तसुगतेन हि / सर्वसत्वानां हिताय संबुद्धेन प्रकाशितं //
ये च देशेन्ति सद्धर्मं शृणोन्ति ये च देशितं / सर्वे ते अधिगच्छन्ति निर्वाणपदम् अच्युतं //
सर्वंददस्य पुर जातिर् अभूषि सिद्धा आचारदानदमथैर् जगतीहितेषी / सविघ्नरूपचरितो तद् अभूषि शक्रो मा च्यावयिष्यति ममेष इतो ग्रस्थानात //
सो निर्मिणित्व नरकं सर्वदस्य तस्य ये दानशूरगुणवां प्रपतन्ति अत्र /
[_mvu_3.251_] संहृत्य वीर वत तं दुःखम् एवरूपं दानं निदानं सर्वसत्व सुखी भवन्तु //
शक्रो ब्रवीत् प्रशमदानदमेन वीर किं प्रार्थयेत्* भगवतीसुखतां परत्र / सो ह्य् अब्रवीत् भगवतीपुरे नास्ति काय प्राग् एव खो भगवतीपुर-अर्थिकेषु //
यत्र न जानति जरां न च मृत्युं व्याधिं न च . . . प्रियजनः प्रियविप्रयोगः / शान्तं निरालयं निरन्तरदुःखमोक्षं प्रार्थयामि पदम् अच्युतं निर्वृतिं च //
सो ह्य् अब्रवीत् परमदुष्करम् एतत् स्थानं बोधीविबोधनकं कामरतिप्रहाणं / निवर्तय मतं स्वकं जनयाहि छन्दं कामसुखे विषमभोगसुखे च रम्ये //
शक्रासनं यदि भवे मम नित्यकालं सर्वैश् च कामरतिभिः न च विप्रयोगं / न त्व् एव कामगुणसौख्यनिबद्ध बुद्धि सर्वज्ञताय प्रणिधिं न निवर्तयेयं //
दिव्यानि मानुषसुखानि च यानि लोके यं चेह जन्मनि सुखास्ति सुखं यम् ऊर्ध्वं / ते कल्पकोटिनयुता सुखितो भवेयं
[_mvu_3.252_] सर्वज्ञताये प्रणिधिं न निवर्तयेयं //
दुःखानि यानि च इहास्ति च श्रूयते च ये कल्पकोटिनयुतेषु बहुप्रकारं / ते दुःख कल्पनयुता दुःखितो भवेयं सर्वज्ञताय प्रणिधिं न निवर्तयेयं //
यावन्तरेण परमार्थविदू भवेयं तावन्तरं यदि अवीचिगतो वसेयं / वीर्यं च मे न प्रतिसंहरणाय शक्यं सर्वज्ञताय प्रणिधिं न निवर्तयेयं //
. . . . . . . . . . . . . . . . . . . . . . यच् च बाल / भुंजेय अयोगुडं पिबेय विलीनलोहं सर्वज्ञताय प्रणिधिं न निवर्तयेयं //
पातालमध्ये निवसे वधकेहि सार्धं खज्जे शरीरं च पुनः पुन संजनेय / तद् दुःखं तादृशकम् उद्वहितुं समर्थो सर्वज्ञताय प्रणिधिं न निवर्तयेयं //
शरशक्तिवर्षं यदि वर्षयि तीक्ष्णधारं सर्वं शरीरं यदि छिज्जति तं अशेषं / तद् दुःखं तादृशकम् उद्वहितुं समर्थः सर्वज्ञताय प्रणिधिं न निवर्तयेयं //
[_mvu_3.253_] यदि गंगवालुकसमेषु करित्व पूजां बुद्धेषु पश्चहं लभेयम् इमम् अग्रबोधिं / तं तावद् दीर्घं भवं संसारितुं समर्थः सर्वज्ञताय प्रणिधिं न निवर्तयेयं //
गर्भासये यदि भवे महकल्पकोटी जातश् च जातिशतं खिज्जेय अगं मे सो / तद् दुःखं तादृशं शरीरगतं सहेयं सर्वज्ञताय प्रणिधिं न निवर्तयेयं //
यानि च दुःखा नरके तथ तिर्यग्योन्यां प्रेतमनुष्यकभवेषु बहुप्रकारं / तं दुःखं सर्वं निपते यदि मे शरीरं सर्वज्ञताय प्रनिधिं न निवर्तयेयं //
यावन्ति प्राणनयुता विनयेयं लोके तावन्ति कल्पनयुतां नरके वसेयं / तं दुःखं तावचिरम् उद्वहितुं समर्थः सर्वज्ञताय प्रणिधिं न निवर्तयेयं //
नाहं पुनः इतो निवर्तयितुं समर्थः एषो सो निश्चय कृतो जगतो हितार्थं / यावन् न प्राप्तम् अमृतं परिपूर्णमासा सर्वज्ञताय प्रणिधिं न निवर्तयेयं //
संनाह एष दृढ वज्रमयो संनद्धो दाने दमे व्रततपे न मे अस्ति खेदो /
[_mvu_3.254_] सत्वान मोचयितुं हं अपुनःभवाय सर्वज्ञताये प्रणिधिं न निवर्तयेयं //
एवं निश्चितमती सुविनिश्चितार्था बोधीनिबद्धहृदया विचरन्ति लोके / लंघितबहुभिर् इव पारगता समुद्रं प्राप्तोन्ति बोधिं सबलं नमुचिं निहत्वा //
अथ खलु राजा शुद्धोदनो यदा भगवां न्यग्रोधारामे पौरुषमात्रं वैहायसम् अन्तरीक्षे विविधविचित्राणि यमकप्रातिहार्याणि करोति यदा राहुर् असुरेन्द्रो वेमचित्री असुरेन्द्रो मुचिलिन्दो असुरेन्द्रो अन्ये च षष्टिर् असुरनयुतानि अनुत्तरां सम्यक्संबोधिं व्याकरित्वा बहूनि च प्राणकोटिसहस्राणि आर्ये धर्मे प्रतिष्ठापयित्वा आत्मना च श्रोतापत्तिफलं साक्षात्कृत्वा दृष्टसत्यो अविपरीतपर्ययो शास्तुः शासने उत्थायासनातो येन भगवांस् तेनांजलिं प्रणामयित्वा भगवतो पुरतो इमं उदानं उदानयति // लब्धा मे पुत्र सुलब्धा लाभा यस्य मे एदृशो पुत्रो द्विपदानाम् उत्तमः सर्वगुणैर् उपेतः / अमोहन्तो पुत्र सफलं चक्रवर्तिराज्यम् अपहाय महान्तं च ज्ञातिवर्गं विजहित्वा अभिनिष्क्रमणं / अमोहं ते सफलं षड्वर्षाणि दुष्करं चीर्णं अहो अमोहं ते सफलकृतेन बोधिः प्राप्ता / अमोहन्ते सफलं च धर्मो प्रकाशितं यस्य ते सदृशो नास्ति सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणवणीपके प्रजायां सदेवमानुषासुरायां // ममापि पुत्र अमोहं सफलं च जीवितं
[_mvu_3.255_] यस्य मम विषये एदृशो पुत्रो उत्पन्नो असदृशो सर्वलोके देवमनुष्याणाम् अग्रो // साधु पुत्र सर्वलोके अर्थसमहितैषी अनुकंपको अनुकंपाम् उपादाय ममापि पुत्र अनुकम्पाम् उपादाय यावतकं कपिलवस्तुं वासं वसितुकामः तं देवसिकं राजकुले भुंजेति // अधिवासये खलु भगवां तुष्णीभावेन //
___अथ खलु राजा शुद्धोदनो भगवतो तुष्णीभावेनाधिवासनां विदित्वा हृष्टो प्रीतो सौमनस्यजातो संवृत्तो भगवतः पादौ शिरसा वन्दित्वा त्रिष्कृत्वं प्रदक्षिणीकृत्वा येन भिक्षुसंघं तेनांजलिं प्रणामयित्वा प्रक्रामि // अथ खलु राजा शुद्धोदनो तस्यैव रात्र्यात्ययेन प्रभूतं खादनीयं भोजनीयं प्रतिजागरित्वा कपिलवस्तुनगरं सिक्तसंमृष्टं कृत्वा अपगतरजं अपगतपाषाणशर्करकठल्लं मुक्तपुष्पावकीर्णं गन्धघाटिकाविधूपितं चित्रदुष्यपरिक्षिप्तं विततवितानं ओसक्तपट्टदामकलापं याव च कपिलवस्तुं याव च न्यग्रोधाराम अत्रान्तरे नटनर्तक-ऋल्लमल्लपाणिस्वरिका कुम्भतूणिका वेणुवंशस्वरद्विस्त्वलशोभिकखेलुकभाणकगायनकपंचवटुका देशे देशे स्थापिता तथा भगवतो महता राजानुभावेन महता राजा-ऋद्धीयेन नगरप्रवेशो भवेया //
___भगवां दानि अपरेज्जुकातो न चातिकाले न चातिविकाले मागधके प्रातराशे विनासयित्वा च प्रावरित्वा च भिक्षुसंघपुरस्कृतः भिक्षुसंघपरिवृतो दक्षिणेन शारिपुत्रो वामेन मौद्गल्यायनो नुपृष्ठतो आनन्दभिक्षु / द्वयोपराजिकं गच्छन्ति / हंसप्रडीनं बुद्धा भगवन्तो गच्छन्ति // धर्मता खलु पुनर् बुद्धानां भगवतां नगरप्रवेशे
[_mvu_3.256_] यदा भगवान् नगरं प्रविशति अश्वा हेषन्ति हस्तिनं क्रौंचनादं मुंचन्ति मोरा नृत्यन्ति कोकिला तुणतुणायंति अघट्टितानि वाद्यानि वाद्यन्ति पेडागतान्य् आभरणानि रसन्ति / अन्धा चक्षुं तन्मुहूर्तं प्रतिलभन्ति / वधिरास् तंमुहूर्तं श्रोतं प्रतिलभन्ते / उन्मत्तकास् तंमुहूर्तं स्मृतिं प्रतिलभन्ते / विषपीतका निर्विषा भवन्ति / ये जना अश्राद्धा मन्दप्रसादास् ते दानि प्रतिसंविदिता भवन्ति //
___अथ भगवां नगरं प्रविशति // समनन्तरं भगवता कपिलवस्तुनगरद्वारे पादतला उपक्षिप्ता तद् इयं महापृथिवी षड्विकारं कम्पे संप्रकम्पे संप्रचले संप्रवेधे पुरस्तिमं उन्नमति पश्चिमकं ओनमति पश्चिमम् उन्नमति पुरस्तिमं ओनमति दक्षिणं उन्नमति उत्तरा ओनमति उत्तरा उन्नमति दक्षिणा ओनमति // भगवां दानि कपिलवस्तुं नगरं प्रविष्ट अनुपूर्वेण पितुर् निवेशनम् अनुप्राप्तः // तेहि दानि कपिलवास्तव्येहि शाक्येहि शाक्यां संनिपातेत्वा घोषणा कारापिता भवन्तो न केनचिद् राहुलस्याचिक्षितव्यं त्वं भगवतः पुत्रो ति यो आचिक्षिष्यति तस्य वधो दण्डो //
___भगवां दानि नित्यकं राजकुले भुंजति // अथ खलु महाप्रजापती गौतमी राजानं शुद्धोदनं विज्ञापयति // महाराज यदि एव अनुकूलं भवेया ततः भगवां मम कुले भुंजेया // राजा आह // गौतमी एवं करोहि // अथ खलु महाप्रजापती गौतमी येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा
[_mvu_3.257_] येन भगवांस् तेनांजलिं प्रणामयित्वा भगवन्तम् एतद् अवोचत्* // अधिवासयतु भगवां शुवेतनाये भक्तेन स्वके निवेशने // अधिवासयति भगवां तूष्णीभावेन // अथ खलु महाप्रजापती गौतमी भगवतः तुष्णींभावेनाधिवासनां विदित्वा प्रभूतं खादनीयभोजनीयं प्रतिजागरित्वा तस्यैव रात्र्या अत्ययेन स्वकं निवेशनं सुक्तसंमृष्टं कारापितं ओसक्तपट्टदामकलापं मुक्तपुष्पावकीर्णं धूपितधूपनं / भगवतो महार्हं आसनं प्रज्ञपितं यथोपकं च भिक्षुसंघस्य // अथ खलु भगवां काल्यम् एव निवासयित्वा पात्रचीवरम् आदाय भिक्षुसंघपुरस्कृतो येन प्रजापतीये गौतमीये निवेशनं प्रविष्टो / निषीदि भगवान् प्रज्ञप्त एवासने यथासनं च भिक्षुसंघः // अथ खलु महाप्रजापती गौतमी स्वहस्तमेव प्रभूतेन खादनीयभोजनीयेन बुद्धप्रमुखं भिक्षुसंघं संतर्पयि संप्रवारयि // भगवां दानि यं कालं भुक्तधौतपाणिर् अपनीतपात्रो भिक्षुसंघो च ततो भगवां महाप्रजापतीगौतमीये अन्तःपुरिकानां च अनुपूर्वीयधर्मदेशणां प्रणामेति / यत् तद् बुद्धानां भगवतां अनुपूर्वीयधर्मदेशना / तद्यथा दानकथां शीलकथां स्वर्गकथां पुण्यकथां पुण्यविपाककथां // प्रसीदि महाप्रजापती गौतमी प्रसन्नचित्ताय पुनः भगवां चत्वार्य् आर्यसत्यानि प्रकाशयति / दुःखं दुःखसमुदयं दुःखनिरोधं मार्गं // महाप्रजापतीये दानि गौतमीये तत्रासने निषण्णाय विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
