Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 19/24

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

महावस्तु-अवादन

Thông tin
GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[_mvu_3.155_] समन्तेन च आश्रमपदे तस्य ऋषिस्य ताये दारिकाये पर्याहिण्डन्तिये पद्मपङ्क्ती उत्थापिता पद्मवनम् इव शोभति तेहि च पद्मेहि सा दारिका क्रीडति हस्तेनापि गृह्य अण्वति // तस्य दानि ऋषिस्य तस्या दारिकाये तंशुभकर्मविपाकतो क्रमेषु पद्मानि प्रादुर्भूतानि दृष्टा विस्मयं संजातं अहो दारिकाये ऋद्धीति यत्र यत्र क्रमा निक्षिपति तत्र तत्र प्रासादिकानि दर्शनीयानि पद्मानि प्रादुर्भवन्ति कृतपुण्याये इमाये दारिकाये भवितव्यं पूर्वं दक्षिणीयेषु ओरुप्तकुशलेषु कुशलमूलाये यस्या इमं एदृशं अनुभावं // तेन दानि ऋषिणा ताये दारिकाये पदुमावतीति नामं कृतं //

___सा दानि संवर्धमाना ताये मातरे सार्धं तस्याश्रमस्य परिसमन्तेन अण्वति / यतो यतो सा मृगी चरमाणा अण्वति ततो ततो सापि दारिका ताये मातरे सार्धं अण्वति मृगेहि च मृगपोतकेहि च सपरिवारा क्रीडन्ती अण्वति // यदा च बुभुक्षिता भवति ततो ताये मातरे सार्धं तम् आश्रमं आगच्छति अपरेहि मृगेहि मृगीहि च मृगपोतकेहि च सपरिवारिता / ततो सो ऋषि आश्रमगताये मृगीये मृष्टमृष्टानि फलानि देति मृष्टमृष्टानि च पानकानि देति // सा दानि फलफलानि स्वयं पि खादति अपरेषां मृगपोतकानां देति // यदा सा दारिका तत्राश्रमे शयिता भवति ततो ते मृगपोतका च मृगपोतिका च चारिकां अनुपरिचरित्वा शयन्ति यदा च चरितुकामा भवन्ति ततो तां दारिकां मुखतुण्डकेन प्रतिबोधयन्ति // यतो यतो मृगा चरन्तो अण्वन्ति ततो ततो सा दारिका तेहि मृगेहि मृगपोतकेहि मृगपोतिकाहि च सार्धं क्रीडन्ती अण्वति / यतो यतो सा अण्वति

[_mvu_3.156_] ततो ततो समन्तेषु क्रमकेषु पद्मानि प्रादुर्भवन्ति / सापि दारिका तत एवन् तानि पद्मानि गृह्य स्वयं च आबन्धति तेषां च मृगपोतकानां पद्मानि आबन्धति // एवं सा तेहि सार्धं क्रीडन्ती तहिं आश्रमपदे संवर्धते परस्परं विनापि न रमन्ति // यत्र काले सा दारिका विज्ञप्राप्ता ततो तम् ऋषिस्य आश्रमं सिंचति शोधेति नानाप्रकाराणि मूलविकृतीनि आनेति पत्रविकृतीनि नानाप्रकाराणि आनेति पुष्पविकृतीनि नानाप्रकाराणि आनेति फलविकृतीनि नानाप्रकाराणि आनेति उदकम् आनेहि काष्ठं वा समिधानि वा आनेति / तं च ऋषिं तैलेनाभ्यंगेति स्नापेति / अग्निहोत्रं से पटिजागरेति तं च ऋषिं नानाप्रकारेहि मूलेहि च पत्रेहि च पुष्पेहि च फलेहि च परिविसति / नानाप्रकाराणि च फलपानानि आनयति / यतो यतो च तत्राश्रमपदे अण्वति यतो यतो गच्छति मूलहारिका वा पत्रहारिका वा पुष्पहारिका वा फलहारिका वा ततो तेहि मृगपक्षीहि परिवारिता आगच्छति //

___कदाचित् सा पदुमावती तेहि मृगपक्षीहि परिवारिता उदकहारिकं गता काम्पिल्लको च राजा ब्रह्मदत्तो बलाग्रेण सार्धं मृगव्यं अण्वन्तः तं प्रदेशं उज्झितो वातजवसमेन तुरंगेन मृगम् अनुजवन्तो / तेन मृगेन सो राजा ब्रह्मदत्तो वनखण्डम् उपनीतः // यथोक्तं भगवता धर्मपदेषु //

गतिर् मृगाणां प्लवनं आकाशं पक्षिणां गतिः / धर्मो गतिर् द्विजातीनां निर्वाणं महती गतीति //

सो मृगो तत्र वनखण्डे नष्टो // तेन राज्ञा ब्रह्मदत्तेन वनखण्डे तं मृगं मार्गन्तेन

[_mvu_3.157_] तहिं उदककूले पदुमावती दृष्टा कृष्णाजिनेन निवस्ता उत्तरासंगिका च उदककुम्भेन गृहीतेन पद्मेन च शोभनेन हस्तगतेन प्रासादिका दर्शनीया परमया वर्णपुष्कलतया समन्वागता / यत्र यत्र च क्रमाणि निक्षिपति तत्र तत्र पद्मानि प्रादुर्भवन्ति मनोरमाणि सुदर्शनीयानि / दृष्ट्वा च पुनर् भिक्षवो राज्ञो ब्रह्मदत्तस्य पदुमावतीं ऋषिकुमारीं एतद् अभूषि // अहो कन्यायाः रूपवन्तं ऋद्ध्यनुभावं यत्र यत्र क्रमाणि निक्षिपति तत्र तत्र पदुमानि प्रादुर्भवन्ति अतीव चक्षुरमणीयानि प्रासादिकानि दर्शनीयानि का नु खल्व् इयं भविष्यति देवकन्या वा नागकन्या वा किन्नरकन्या वा मानुषी वा इयं भविष्यति अमानुषी वा / यं नूनाहं उपसंक्रम्य परिपृच्छेयं //

___अथ खलु भिक्षवो राजा ब्रह्मदत्तो येन पदुमावती ऋषिकुमारी तेनोपसंक्रमित्वा पदुमावतीं ऋषिकुमारीम् एतद् अवोचत्* // भद्रे का त्वं कस्य वासि // एवम् उक्ते भिक्षवः पद्मावती ऋषिकुमारी राजानं ब्रह्मदत्तम् एतद् अवोचत्* // अहं खलु ऋषि पद्मावती नाम ऋषिकुमारी माण्डव्य-ऋषिस्य धीता मूलफलभोगिकस्य वनवासिस्य ब्रह्मचारिस्य // एवम् उक्ते भिक्षवः राजा ब्रह्मदत्तो पद्मावतीं ऋषिकुमारीम् एतद् अवोचत्* // केवरूपा ते भद्रे न्जोजनविधानानि उपवने निवसन्तीये येनापि एवं उपचितशरीरा कीदृशानि ते वस्त्रविधानानि येन ते चैवं सुकुमारवर्णनिभा // एवम् उक्ते भिक्षवो पदुमावती ऋषिकुमारी राजानं ब्रह्मदत्तम् एतद् अवोचत्* राज्ञो वस्त्राणि परामृशन्ती // मूलफलानि अस्माकम् आहारं अजिनानि प्रावरणानि एवं सूक्ष्माणि यादृशानि इमानि न च अजिनानि // एवम् उक्ते भिक्षवः

[_mvu_3.158_] राज्ञो ब्रह्मदत्तस्य एतद् अभूषि // अविधिज्ञा इयं ऋषिकुमारी राज्ञो राजार्हाणां वा वस्त्राणां नैव ऋषिस्य विशेषं अभिजानाति न राजानस्य नैव अजिनानां विशेषं जानाति नापि राजार्हाणां वस्त्राणां विशेषं जानाति नापि मम तुरंगस्य / एषा च ऋषिकुमारी राजकन्या ममैषा भार्या अनुरूपा भवेया न शक्या मया माण्डव्येन ऋषिणा अनभ्यनुज्ञाता पाणिनापि प्रष्टुं कुतो पुनर् इतो आश्रमातो कम्पिल्लं नगरं नयितुं / माण्डव्यो ऋषि महाभागो शापेन मे सपरिवारं भस्मीकरेय / यं नूनाहं पदुमावतीम् ऋषिकुमारीम् उपायेन प्रलोभयेयं // पौराणानां च भिक्षवो राज्ञां मृगव्येन गच्छन्तानां मधुसर्पिसंयुक्तानि सक्तूनि राजार्हाणि च मोदकानि च उक्कारिकानि च यमलकं पूरेत्वा अश्वपृष्ठे पल्लाणस्य पृष्ठतो बन्ध्यन्ति मा राजा अश्वेन एको अद्वितीयो वनेषु हृतो समानो बुभुक्षाय मरेय // तेन खलु पुनर् भिक्षवो समयेन राज्ञो ब्रमदत्तस्य मधुसर्पिसंयुक्तानि सक्तूनि मोदकानि च उक्कारिकानि च यमलकं पूरेत्वा अश्वपृष्ठे पृष्ठतो पल्लाणवध्रेण बद्धम् अभूषि // अथ खलु भिक्षवः राजा ब्रह्मदत्तो यमलकातो मोदकं उक्कड्ढेत्वा पदुमावतीये अदासि // हन्त भद्रे इमानि अस्माकं फलानि // सा दानि आह // जाने कतमानि शोभनतराणि फलानि युष्माकं वा अस्माकं वा // सा दानि तं मोदकं परिभुंजित्वा आह // भगवं शोभनानि इमानि युष्माकं फलानि मृष्टानि रसवन्तानि अस्माकं पुनः फलानि कटुकषायाणि // राजा आह // एदृशानि अस्माकं आश्रमे वृक्षेषु फलानि यदीच्छसि ईदृशानि परिभुंजितुं ततो तं मम आश्रमपदं गच्छाहि // एवम् उक्ते भिक्षवः पदुमावती ऋषिकुमारी राजानं ब्रह्मदत्तम् एतद् उवाच //

[_mvu_3.159_] इच्छामि अहं एदृशानि फलानि परिभोक्तुं आगमे मुहूर्तं इदम् अस्माकं आश्रमं न दूरं यावद् इमं उदकं हरामि तातस्य आमन्त्रेमि ततः तव आश्रमं गमिष्यामि // अथ खलु भिक्षवो राजा ब्रह्मदत्तो पदुमावतीये अपराणि मोदकानि अदासि // इमानि पितुर् उपनामेहि एवं वदेहि / यस्य ऋषिस्य आश्रमे एदृशानि फलानि तस्याहं भार्या भविष्यामीति / लहु त्वं च आगच्छेहि एष अहं इह नदीतीरे आसामि //

___अथ खलु भिक्षवः पदुमावती ऋषिकुमारी येन माण्डव्यस्य आश्रमपदं तेनोपसंक्रमित्वा पानीयभाण्डं निक्षिपित्वा तानि मोदकानि पितुर् माण्डव्यस्य अनुप्रदासि / इमानि तात फलानि खादाहि यस्य ऋषिस्य आश्रमे एदृशानि फलानि तस्याहं भार्या भविष्यामि // अथ खलु भिक्षवो माण्डव्यस्य ऋषिस्य एतद् अभूषि // नूनं पंचालराजा ब्रह्मदत्तो मृगव्येन अण्वन्तः इमस्याश्रमस्य समीपं अनुप्राप्तो तेन इमानि मोदकानि दिन्नानि परिभुक्तानि पदुमावतीये राजार्हाणि मोदकानि न एषा शक्यति भूयो इहाश्रमे कटुकशायेहि फलाफलेहि यापयितुं पदुमावती च राजकन्या / यन् नूनाहं अस्य राज्ञो ब्रह्मदत्तस्य भार्या प्रयच्छेयं // अथ खलु भिक्षवो माण्डव्यो र्षिः पदुमावतीं ऋषिकुमारीम् एतद् उवाच // न खलु पदुमावति एवंरूपाणि फलानि भवन्ति को ते ज्वलनसमेहि कामेहि प्रलोभेति // अथ खलु भिक्षवो पदुमावतीये एतद् अभूषि // भवितव्यं कामा नाम ते वृक्षा येषां इमानि एदृशानि फलानि // अथ पदुमावती एवं पितरम् एतद् अवोचत्* // यदि तात कामफलानाम् एदृशो आस्वादो तान्य् अहं परिभुंजिष्यामि न मे इमानि महत्फलानि रोचन्ति // अथ माण्डव्यो ऋषिः पदुमावतीम् एतद् उवाच // को ते पदुमावति इमानि फलानि अदासि केवरूपो वा सो ऋषिकुमारो कतरस्मिं वा प्रदेशे तिष्ठति //

[_mvu_3.160_] एवम् उक्ते पदुमावती माण्डव्यं ऋषिम् एतद् उवाच // सूक्ष्माजिनो तात ऋषिकुमारो दकतीरे स्थाति मृगम् अभिरुह्य तेन मे इमानि फलानि दिन्नानि तस्य च तात आश्रमे एदृशानि फलानि // अथ माण्डव्यो ऋषिः पदुमावतीये सार्धं येन राजा ब्रमदत्तस् तेनोपसंक्रमित्वा राजानं ब्रह्मदत्तं प्रतिसंमोदेत्वा पदुमावतीं राज्ञो ब्रह्मदत्तस्य उदकेन अदासि // एषा ते महाराज भार्या भवतु महाराजस्य च एषा अनुरूपा मा च परस्य वचनेन अननुयुजित्वा विप्रियं कुर्यासि //

___अथ राजा ब्रह्मदत्तो पदुमावतीं अश्वपृष्ठम् आरूपेत्वा माण्डव्यस्य ऋषिस्याभिवादनं कृत्वा तत्रैव अश्वपृष्ठे अभिरुहित्वा येन कंपिल्लं नगरं तेन प्रक्रमे // अद्राक्षीद् राज्ञो ब्रह्मदत्तस्य बलाग्रं दूरत एवागच्छन्तं दृष्ट्वा च पुनर् येन राजा ब्रह्मदत्तो तेनोपसंक्रमे // अथ राजा ब्रह्मदत्तो ततो अश्वपृष्ठतो ओतरित्वा पदुमावतीये ऋषिकुमारीये सार्धं हस्तिपृष्ठम् अभिरुहित्वा येन कंपिल्ले नगरे स्वकम् उद्यानं तेन प्रयासि // अश्रोषीत् पद्मावती कंपिल्ले नगरे महतो जनकायस्य निर्घोषं नगरं च कंपिल्लम् अद्राक्षीत्* उद्विद्धप्राकारं अट्टालगोलकतोरणं रमणीयं च // दृष्ट्वा च पुनः राजानं ब्रह्मदत्तम् आमन्त्रयसि / कस्य एतं वत वनविवरे निर्घोषो श्रुयति ऋषिणां एतं वनमृगाणां च उटजानि एतानि उद्विद्धानि दृश्यन्तीति // अथ राजा ब्रह्मदत्तो पद्मावतीम् एतद् उवाच // एतम् ऋषिणां वनमृगाणां च निर्घोषो एतानि चास्माकं उटजानि उद्विद्धानि दृश्यन्तीति // अथ राजा ब्रह्मदत्तो येन स्वकम् उद्यानं तेनोपसंक्रमित्वा हस्तिपृष्ठातो प्रत्योरुहित्वा पदुमावतीये उद्यानं प्रवेशे // अथ खलु राजा ब्रह्मदत्तो अमात्यपारिषद्यान् आमन्त्रयसि // हो भणे ग्रामणिका क्षिप्रं पुरोहितम् आनेथ

[_mvu_3.161_] पदुमावतीये वस्त्राणि चाभरणानि च याव च राजकुलं याव च उद्यानं तम् अत्रान्तरं सर्वं अलंकारापेथ विततवितानं चित्रपुष्पपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपनधूपितं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं देशेदेशेहि नटनर्तक-ऋल्लमल्लकपाणिस्वर्यशोभिकद्विस्त्वलकवेलम्बकनट्टधराणि उपस्थपेथ //

मनसा देवानां वचसा पार्थिवानां नचिरेणाढ्यानां कर्मणा दरिद्राणाम् इति वचनमात्रेण राज्ञो अमात्येहि यथाणत्तं सर्वं पटिजागृतं // अथ पदुमावती राजानं ब्रह्मदत्तम् एतद् अवोचत्* // कहिं ते भगवं शरणं समिधा वा उण्होदकं कमण्डलु वा समयो वा मे अग्निहोत्रं जुहनाय // अथ राजा ब्रह्मदत्तो पदुमावतीम् आह // आगमेहि मुहूर्तं सार्धं ते सूक्ष्माणि अजिनानि आनीयन्ति ततः गंगायां स्नात्वा सहिता अग्निं जुहिष्यामः // अथ राज्ञो अमात्यपारिषद्या तत्क्षणं तत्मुहूर्तं अन्तःपुरं तम् उद्यानं आनयेन्सुः पदुमावतीये वस्त्राणि चाभरणानि चानयेन्सु ब्राह्मणं च पुरोहितं राजाचार्यं आनयेन्सु श्रेष्ठिप्रमुखो च निगमो पि निर्यासि सार्थवाहप्रमुखो वणिजग्रामो निर्यासि सर्वाणि चाष्टादश श्रेणी निर्यान्सुः //

___अद्राक्षीद् राज्ञो अमात्या पारिषद्या नैगममहत्तरका च ब्राह्मणा च पुरोहितो च राजाचार्यो ब्रह्मदत्तस्य देवीं पदुमावतीं सर्वालंकारविभूषितां प्रासादिकां दर्शनीयां परमवर्णपुष्कलतया समन्वागतां / राज्ञा ब्रह्मदत्तेन सार्धं अग्निप्रदक्षिणीं करोति / यत्र यत्र च क्रमाणि निक्षिपति तत्र तत्र पद्मानि प्रादुर्भवन्ति प्रासादिकानि दर्शनीयानि / दृष्ट्वा च हृष्टा तुष्टा हर्षसंजाता राजानं ब्रह्मदत्तम् आमन्त्रयेन्सुः // नास्माभिः महाराज कदाचित् कस्यचिद् एदृशी ऋद्धी दृष्टा वा श्रुता वा [_mvu_3.162_] यथा इमस्या पदुमावतीये देवीये / साधु महाराज पदुमावती देवी पादेहि राजकुलं प्रवेशियतु ततो महाजनकायो देवीये इमां एवरूपां ऋद्धिं दृष्ट्वा प्रीता भवेन्सुः // अथ राजा ब्रह्मदत्तो सान्तःपुरः पदुमावतीये देवीये सार्धं अमात्यपारिषद्यपुरस्कृतो महता जनकायेन सार्धं महता राज-ऋद्धीये महता राजानुभावेन उद्यानातो राजकुलं प्रवेशि // अद्राक्षीत् सो जनकायो यावच् च उद्यानं यावच् च राजकुलं पदुमावतीये पदवीतिहाराणां उभयतो पदुमानि प्रासादिकानि दर्शनीयानि // दृष्ट्वा पुनः महाजनकायो उदानं उदानेसि // कृतपुण्यो महाराजा ब्रह्मदत्तो यस्य इमम् एवंरूपं स्त्रीरत्नं प्रादुर्भूतं // अथ राजा पदुमावतीये सार्धं उपरिप्रासादवरगतो पंचहि कामगुणेहि समर्पितो समङ्गीभूतः क्रीडति रमति प्रविचारयति पदुमावतीं च देवीं मदेहि अक्षेहि च गीतवाद्येहि च शेखेति तावद् अन्या देवीयो न समन्वाहरति पदुमावतीये प्रमत्तो / पदुमावती च राज्ञा ब्रह्मदत्तेन सार्धं संवसन्ती आपन्नसत्वा संजाता //

___यत्र काले देवीप्रजननवेला ततः राज्ञा ब्रह्मदत्तेन या अन्तःपुरिकायो कुशलायो स्त्रीधर्माणं ता आणत्ता पदुमावतीम् उन्नेथ / राजा च हिरण्यसुवर्णं अग्रतो कृत्वा नानाप्रकाराणि च वस्त्राणि निषण्णो ये मे निवेदयिष्यन्ति क्षेमेण पदुमावती प्रजाता ति तेषां आछादं दास्यामि // तासां पि देवीनाम् एतद् अभूषि // यद् उपादाय पदुमावती आनीता तद् उपादाय अस्माकं राजा न समन्वाहरति / अत्र एषा प्रजायमानी अस्माभि अनयव्यसनम् आपादयितव्यं // ता दानि तां पदुमावतीं

[_mvu_3.163_] पृच्छन्ति // जानसि कथं स्त्रियो प्रजायन्तीति // सा दानि आह // न जानामीति // ता दानि अन्तःओउरिका आहंसुः // स्त्रीये प्रजायमानीये अक्षीणि पट्टकेन बध्यन्ति // सा दानि आह // मह्यं पि प्रजायमानीये अक्षीणि पट्टकेन बन्धेथ // तस्या दानि यं वेलं प्रजायिष्यतीति ततो अस्या अक्षीणि पट्टकेन बद्धानि // सा दानि स्वौ दारकौ प्रजाता प्रासादिका दर्शनीया // तासां दानि एतद् अभूषि // अपुत्रा तावेयं देवी राज्ञो ब्रह्मदत्तस्य इष्टा च बहुमता च आसि किं पुनः सपुत्रा अपुत्रस्मिं राजकुलस्मिं / इमाये द्वौ दारका जाता ततो अधिमात्रं राज्ञो ब्रह्मदत्तस्य प्रिया भविष्यतीति वयं च न समन्वाहरिष्यति // ताहि दानि अन्तःपुरिकाहि ते दारका तपनस्मिं चैलकं उपस्तरित्वा तत्र प्रक्षिप्ताः // तं तपनं स्वपिहितं सुबद्धं कृत्वा राजक्येन तापनीयेन तापयित्वा नदीये गंगाये प्रक्षिप्ता / पदुमावतीये च स्वकेन गर्भमलेन मुखं म्रक्षितं // सा दानि पदुमावती अन्तःपुरिकां पृच्छति किं मे जातन् ति // ताहि पि अन्तःपुरिकाहि दुवे उल्बकानि कर्भमलेन प्रम्रक्षयित्वा पदुमावतीये अल्लीपितानि // इमानि प्रजातासि // सा दानि आह // मुंचथ एतानि किं एतेषां करिष्यामीति // राजा दानि ब्रह्मदत्तो पृच्छति // किं देवी प्रजाता ति // ता आहंसुः // महाराज दुवे दारका प्रजाता प्रासादिका दर्शनीया ते च नं जातमात्रा ताये खादिता / कुतो महाराज ब्रह्मचारिस्य ऋषिस्य अपत्यन्ति पिशाची एषा त्वया आनीता त्वं दिष्ट्या जीवन्तो मुक्तो // ताये पिशाचिनीये मूलातो आगच्छ पश्याहि तां यदि अस्माकं न श्रद्दधासि // सो दानि तां देवीं पश्यनाय प्रविष्टो पश्यति च पदुमावतीं

[_mvu_3.164_] रुधिरम्रक्षितेन यादृशी राक्षसी // सो दानि तान् दृष्ट्वा भीतो संजातो // अमात्यानाम् आह // गच्छथ तां घातायेथ मानुषिका ति कृत्वा एषा मयानीता यदि एषा पिशाचिनी वा राक्षसी वा न मे ताये कार्यं // सा दानि ततो राजकुलातो निष्कासिता //

___सा दानि तेषाम् अमात्यानां पृच्छति // कहिं मे नयिष्यथ // ते आहन्सुः // राज्ञासि ब्रह्मदत्तेन वध्या ओसृष्टा // सा दानि तेषां अमात्यानां पृच्छति // किं मये राज्ञो ब्रह्मदत्तस्य अपराद्धं येनाहं वध्या ओसृष्टा // ते अमात्या आहन्सुः // त्वया दुवे दारका जनित्वा खादिता ततो राज्ञा पिशाचिनीति कृत्वा वध्या ओसृष्टा // सा आह // न मे दारका जाता पृच्छामि अन्तःपुरिकां ता आहन्सुः दुवे ते उल्बका जाता ते पि तत्रैव मेल्लिता नैव दारकानि पश्यामि नैव खादामि // ते दानि अमात्याः पण्डिता स्त्रीमायानां शाठ्यानां चाभिज्ञाः // तेषाम् एतद् अभूषि // इयं पदुमावती ब्रह्मदत्तस्य इष्टा च बहुमता च स्थानं विद्यति यं एताहि अन्तःपुरिकाहि एषा पदुमावती अजानमानी खलीकृता भवेय विप्रलब्धा वा // ते दानि अमात्या तां पदुमावतीं पृच्छन्ति // कथं सि प्रजाता ति // सा दानि तेषां अमात्यानां तां प्रकृतिं विस्तरेण आचिक्षति // ताहि मे अन्तःपुरिकाहि प्रजायमानीये अक्षीणि पट्टकेन बद्धानि नैव दारकान् पश्यामि नैव खादामि / यं कालं च प्रजाता ततो पृच्छामि तानि अन्तःपुरिकानि किं मे जातं ति ताहि दानि मम दुवे उल्बका अल्लीपिता ते जाता ति // तेषां दानि अमात्यानाम् एतद् अभूषि // इयं देवी अन्तःपुरिकाहि ईर्ष्याप्रकृतेन विप्रलब्धा इयं च देवी ब्रह्मदत्तस्य इष्टा च बहुमता च मा पश्चाद् राजा ब्रह्मदत्तो

[_mvu_3.165_] दवीये पद्मावतीये विप्रतिसारी भवेय शोकेन च गैलान्यं पतेय // तेहि दानि अमात्येहि सा देवी पदुमावती स्वके गृहे गोपिता राज्ञो ब्रह्मदत्तस्य निवेदितं घातिता देवीति // ता दानि देवीयो घातिता पदुमावतीति श्रुत्वा तस्य राज्ञो ब्रह्मदत्तस्य चटुलायन्ति घृतं च परिक्षिपन्ति सर्षपाणि च अग्नौ प्रक्षिपन्ति चतुर्दिशं च बलिं निष्कासयन्ति शान्तिं च करोन्ति दिष्ट्यासि महाराज जीवन्तो मुक्तो राक्षसीहस्तातो // तं मुहूर्तं राजा स्नातो विलिप्तो निष्पुरुषेण नाटकेन प्रक्रीडितो / तावद् अन्तःपुरिकायो काचिद् वीणां प्रवादिता काचित् सुघोषकं काचित् मृदंगं काचिद् वेणुं काचित् प्रणृत्यन्ति काचिद् गायन्ति //

___अथ खलु भिक्षवो अन्यतरा देवता माण्डव्यस्य ऋषिस्य अभिप्रसन्ना वैहायसम् अन्तरीक्षे स्थिहित्वा राजानं ब्रह्मदत्तम् एतद् उवाच // दुःश्रुतन् ते महाराज अपरिज्ञातं ते महाराज अविज्ञातन् ते महाराज यो त्वम् अननुयुंजित्वा अपर्यवगाहेत्वा अनपराधीं पदुमावतीं वध्याम् अवसिरसि तादृशस्य महाभागस्य ऋषिस्य वचनं न समनुस्मरसि // अथ राज्ञो ब्रह्मदत्तस्यान्तःपुरिका देवताये अन्तरीक्षगताये तं घोषं श्रुत्वा सुष्ठुतरं गायन्ति वादेन्ति च यथा राजा ब्रह्मदत्तो एताये देवताये जल्पन्तीये न श्रुणेयाति // अथ राजा ब्रह्मदत्तो अन्तःपुरिकां निस्थपेति आगमेथ तावद् यावज् जानाम किम् एषा देवता अन्तरीक्षगता जल्पतीति // ता दानि अन्तःपुरिका राज्ञो वचनेन तूष्णीभूता संजाता देवता राज्ञो ब्रह्मदत्तस्याह // दुःश्रुतन् ते महाराज यो त्वम् अननुयुंजित्वा अपर्यवगाहित्वा अनपराधीं पदुमावतीं वध्यां ओसिरेसि ताडृशस्य महाभागस्य ऋषिस्य संदेशं न समनुस्मरसि // राजा दानि

[_mvu_3.166_] ब्रह्मदत्तो ताये देवताये श्रुत्वा अन्तःपुरिकायो पृच्छति // सत्यं जल्पथ किन् ते दानि दारका ये पदुमावतीये जाताः // ता दानि अन्तःपुरिकायो राज्ञो ब्रह्मदत्तेन पृच्छियमानीयो वा पश्यन्ति // पदुमावती राजाणत्तीये घातिता प्रभवति राजा अस्माकं पि परित्यजितुं आचिक्षाम नं सत्यं यथाभूतं ति // ता दानि अन्तःपुरिका आहन्सुः // महाराज पदुमावतीये दुवे दारका जाता ते चास्माभिः तपनाये प्रक्षिपित्वा राजक्याये मुद्राये मुद्रेत्वा सतपना नदीये गंगाये प्रवाहिता नापि तयापि दृष्टा नापि खायिता पि // तस्य दानि राज्ञो ब्रह्मदत्तस्य दौर्मनस्यं उत्पन्नं // अनपराधी तादृशी स्त्रीरत्नं मया घातापितं तादृशस्य च महाभागस्य ऋषिस्य मया संदेशं न कृतं पुत्रा लभ्यन्ता च परिभ्रष्टा ति //

___सापि दानि मंजूषा नदीये गंगाये वुह्यन्ती कैवर्तकेहि मत्स्यान् बन्धन्तेहि उत्क्षिप्ता // ते दानि केवट्टा तां मंजूषां पश्यन्ति राजक्याये मुद्राये मुद्रितां // तेषां केवट्टानाम् एतद् अभूषि // मा हैव चोरेहि राजकुले अपराद्धं ततो इमा मंजूषा प्रष्टा भविष्यति सर्वञ् च गुह्यं प्रकाशीभवति गच्छाम इमां मंजूषां राज्ञो ब्रह्मदत्तस्य उपनामेम मा वयं चौरा ति कृत्वा ज्येष्ठेन दण्डेन शासीयेम // ते दानि तां मंजूषाम् आदाय राज्ञो ब्रह्मदत्तस्य उपसंक्रान्ता महाराज अस्माभिर् नद्यां गंगायां मत्स्यान् बन्धन्तेहि इयं मंजुषा उदकेन वुह्यन्ती उत्क्षिप्ता राजमुद्राये मुद्रिता तां देवो प्रत्यवेक्षतु // अथ खलु भिक्षवो राजा ब्रह्मदत्तो अमात्यपारिषद्यान् आमन्त्रयति // हो भणे

[_mvu_3.167_] जानथ किम् अत्र मंजूषायं ति // सा दानि मंजूषा अमात्येहि मुक्ता पश्यन्ति च तानि पदुमावतीये दुवे दारका प्रासादिका दर्शनीया // ते आहंसुः // महाराज इमहिं मंजूषायां दुवे दारका प्रासादिका दर्शनीया पदुमावतीये पुत्राणि महाराजस्य सदृशानि / अनपराधी महाराज पदुमावती देवी देवेन अननुयुंजित्वा अपर्यवगाहित्वा वध्या ओसृष्टा // अथ राजा ब्रह्मदत्तो तानि दारकानि दृष्ट्वा पदुमावतीये च बहूनि गुणगणानि समनुस्मरन्तो मूर्छित्वा भूम्यां पतितो हं स्त्रीरत्नातो भ्रष्टो // अथ तेषाम् अमात्यानाम् एतद् अभूषि // मा हैव राज्ञो देवीये उत्कण्ठन्तस्य किंचिद् एव शरीरस्याबाधं भवेय // ते दानि आहन्सुः // महाराज मा पदुमावतीये कारणेन उत्कण्ठेहि अस्माभिर् एवं देवार्थं उपलभित्वा साहसं न कृतं देवी स्थापिता न घातिता अनागतं अर्थपदं ज्ञात्वा // सो दानि राजा ब्रह्मदत्तो एतम् अमात्यानां वचनं श्रुत्वा प्रह्लादितो संजातः // अमात्यान् आह // कहिं पदुमावतीति // अमात्या आहंसुः // अमुत्र गेहे ति // राजा दानि तत्र देवीये पदुमावतीये सकाशं गतो // गत्वा राजा पदुमावतीं देवीं बहुप्रकारं संज्ञापेति दिष्ट्यासि देवि तादृशातो व्यसनातो द्य मुक्ता दिष्ट्यासि मया च पुत्रेहि च समंगीभूता / सपत्नीहि सि च नं घातापिता किन् ते अभिप्रायं किन् तेषां तव अमित्राणां दापयामि कीदृशं वा व्यसनं निगच्छन्तु श्रेयं भवे यदि राजाणत्त्या सर्वावन्ता निगडबद्धा शाणशाटकनिवस्ता अटनं परिचरन्तु // अथ खलु भिक्षवो पदुमावती देवी रुदमानी राजानं ब्रह्मदत्तम् एतद् उवाच // मा महाराज तासां देवीनां किंचिद् विप्रियं करोहि // एता ज्येष्ठायो अहं कनीयसा या च एतषां

[_mvu_3.168_] कल्पिता वृत्ती तां सानं अभिवर्धेहि मा परिहापेहि सर्वाणि च अनुवर्ताहि // यथाकृतानाम् कर्मणां सत्वा विपाकम् अनुभवन्ति कालं कालम् आसाद्य यथा द्रुमाणां पुष्पफला // मया एवं महाराज तानि कर्माणि कृतानि यद् अहं त्वया सत्कृता च मानिता च मया एवन् तानि कर्माणि कृतानि यद् अहं त्वया वध्या ओसृष्टा // अथ राजा ब्रह्मदत्तो पदुमावतीं देवीम् एतद् उवाच // मा देवि अश्रूणि प्रपातेहि सर्वन् ते राष्ट्रं निःसृजामि पुत्रेहि समंगीभूता अभिरमाहि क्षमाहि च मे एतं अपराधं // अथ पद्मावती देवी राजाणं ब्रह्मदत्तम् एतद् उवाच // किं मे महाराज विजानन्तीये राज्येन पुत्रेण वा धनेन वा गंसामि अहं प्रव्रजित्वा पुनः तातस्य सकाशं // उक्ताहं तातन को ते पदुमावति ज्वलनसमेहि कामेहि प्रलोभेति ते मे तातस्य वचना इदानीं परिदहन्ति यथाहं तातेन आश्रमपदे उक्ता यं तव महाराज मृगीव आश्रमातो पितुः सकाशातो अनपराधी वध्या //

___अथ पदुमावती देवी पुनस् तापसी प्रव्रजित्वा धातुरक्तानि वस्त्राणि प्रावरित्वा माण्डव्यस्य ऋषिस्य आश्रमं आगमे // माण्डव्यो च ऋषी कालगतो अभूषि / तृणकुटीपर्णकुटीनि विशीर्णानि अभूंसुः // अथ पदुमावतीये देवीये एतद् अभूषि // तादृशेन मे निर्बन्धेन विनाशावेतौ राजा ब्रह्मदत्तो प्रत्याख्यातः पितातो मे कालगतातो अयं परिभ्रष्टा // यं नूनाहं भिक्षाचारं चरामि जनपदानि च राजधानीयो च अण्वन्ती // अथ पदुमावती देवी ग्रामनिगमराजधानीषु अण्वन्ती वाराणसीं राज्ञो कृकिस्य नगरं गता // अद्राक्षीद् वाराणसीयको काशिराजा

[_mvu_3.169_] पदुमावतीं देवीं पुरान्तरे दृष्ट्वा च पुनः काशिराजा पदुमावतीं देवीं बहुप्रकारं प्रलोभेति किं तव भद्रे प्रव्रज्यायं तरुणाये जातरूपाये अभिरूपाये इमानि पादपानि पुष्पितानि फुल्लानि प्रासादिकानि प्रसादनीयानि मनोरमकराणि एहि अमुककानन् आन्तरे अभिरमिष्याम // एवम् उक्ते पदुमावती तापसी काशिराजानम् एतद् उवाच // अग्निं महाराज इच्छसि प्रवेष्टुं यं प्रव्रजिताये सार्धं इच्छसि रमितुं धर्मस्थिताय नाहं महाराज कामेषु अर्थिका ति // काशिराजा आह // यदि भद्रे न इच्छसि ततो बलसा ते ग्रहिष्यामि // पदुमावती आह // यदि बलसा मे गृह्णसि ततो ते तपसा अग्नीव शुष्कतृणं दहिष्यामि // सो दानि राजा तं श्रुत्वा भीतो प्रत्यागतो च सा च इह राष्ट्रे यथासुखं यथाफासु // अहं ते निमन्त्रेमि सर्वहितोपस्थानेन //

___अथ ब्रह्मदत्तो राजा ब्राह्मणवेषेण काशिराज्ञो गृहं प्रविशित्वा अहं पि महाराज अक्षेहि कुशलो ति / सो पि राज्ञो देवीहि सार्धं क्रीडन्तस्य क्रीडते पदुमावतीं च सम्भाषति / केन क्रोधेन इहागता // पदुमावती आह // तव एव महाराज अपराधेन इहागता // ततो काशिराजा संशयितो राजानं ब्रह्मदत्तं पृच्छति // न मे कदाचिद् अष्टापदस्य एतादृशी नीति श्रुतपूर्वा कस् त्वं का ते एषा ति // राजा ब्रह्मदत्तो आह // अहं ब्रह्मदत्तो पंचालराजा एषा मे पदुमावती भार्या इहागता // एवम् उक्ते काशिराजा ब्रह्मदत्तं राजानम् एतद् उवाच // स्वागतन् ते महाराज अनुरागतन् ते महाराज नेहि देवीं अहं बलाग्रेण संविभज्य नेमि // अथ राजा ब्रह्मदत्तो पंचालराजा पदुमावतीं देवीं वाराणसीतो चतुरंगेन बलकायेन सार्धं हस्तिपृष्ठे आरूपयित्वा महता राजानुभावेन महता राज-ऋद्धिये पुनः कंपिल्लं नगरं आनेसि // पदुमावतीये च देवीये राज्ञा ब्रह्मदत्तेन ओसृष्टवध्याये व

[_mvu_3.170_] क्रमेषु तानि पदुमानि अन्तर्हितानि अभून्सुः / पुनश् च राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लं आनीताये भूयो क्रमेषु पद्मानि प्रादुर्भूतानि //

___भगवान् आह // न खलु भिक्षवो न्यो स माण्डव्यो ऋषिर् अहम् एव तदा माण्डव्यो ऋषिर् अभूवं // न खलु भिक्षवो न्या पदुमावती देवी / एषैव यशोधरा तदा पदुमावती देवी अभूषि // न खलु भिक्षवो न्यः स राजा ब्रह्मदत्तो भू / एष राजा शुद्धोदनस् तदा राजा ब्रह्मदत्तो अभूत्* // तदापि एतेन राज्ञा शुद्धोदनेन एषा यशोधरा अननुयुंजित्वा अपर्यवगाहित्वा वध्या ओसृष्टा / एतरहिं पि एषा एतेन राज्ञा शुद्धोदनेन अननुयुंजित्वा अपर्यवगाहित्वा अनपराधी वध्या ओसृष्टा //

_____पदुमावतीये परिकल्पो समाप्तो //

भिक्षू भगवन्तम् आहन्सुः // कस्य भगवं कर्मस्य विपाकेन पदुमावतीये क्रमेषु पद्मानि प्रादुर्भवन्ति यदा च राज्ञा ब्रह्मदत्तेन वध्या निसृष्टा ततो स्या तानि पदुमानि अन्तरहितानि भूयो च राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लं आनीताये सन्तीये पुनर् अस्या क्रमेषु पद्मानि प्रादुर्भूतानि // भगवान् आह // एतस्या एवेदं भिक्षवो पदुमावतीये कर्मणो विपाकं अभूषि येनास्या क्रमेषु पद्मानि प्रादुर्भूतानि अभून्सुः राज्ञा च ब्रह्मदत्तेन वध्याये निसृष्टाये अन्तरहितानि भूयो च राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लं आनीताये सन्तीये प्रादुर्भूतानि //

___भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसीयं अपरस्य गृहपतिस्य प्रेषणकरी पद्मिनीतो उदकघटम् आदाय पद्मेन च हस्तगतेन वहिर्नगरातो अन्तोनगरं प्रविशति //

[_mvu_3.171_] अपरो च प्रत्येकबुद्धो वाराणसीये नगरे पिण्डाय चरित्वा वहिर्नगरं निर्धावति प्रासादिकेन ईर्यायथेन अभिक्रान्तेन प्रतिक्रान्तेन प्रासादिको अभिप्रसन्ना च देवमनुष्या // तस्या दारिकाये प्रत्येकबुद्धं दृष्ट्वा चित्तप्रसादम् उप्तन्नं / प्रसन्नचित्ताय तं पद्मं तस्य प्रत्येकबुद्धस्य दिन्नं / प्रत्येकबुद्धेनापि अनुग्रहार्थं प्रतिगृहीतं // सा दानि दारिका तं पद्मं तस्य प्रत्येकबुद्धस्य हस्ते अतीव शोभमानं पश्यति स्वकं च हस्तं क्षीणितं पश्यति // ताये दानि भूयो तस्य प्रत्येकबुद्धस्य सकाशातो तं पदुमं याचितं भगवं देहि मे तं भूयो पदुमं ति // प्रत्येकबुद्धेन तं पदुमं भूयो तस्या दारिकाये दिन्नं हन्त भद्रे ति // ताये पदुमं भूयो प्रत्येकबुद्धस्य हस्तातो गृहीतं // सा दानि स्वकं च हस्तं पद्मेन शोभमानं पश्यति प्रत्येकबुद्धस्य हस्तं क्षीणितं पश्यति / ताये विप्रतिसारं संजातं / न शोभनं मया कृतं यं मे प्रसन्नचित्ताये एतस्य ऋषिस्य इमं पदुमं दत्त्वा पुनः आच्छिन्नं // ताये दानि तं पदुमं भूयो तस्य प्रत्येकबुद्धस्य दिन्नं // प्रतिगृह्णाहि मे भगवन् भूयः इमं पदुमं अनुकंपाम् उपादाय // सो दानि पदुमो तस्या दारिकाये तेन प्रत्येकबुद्धेन पुनर् गृहीतं //

___भगवान् आह // स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्या सा तेन कालेन तेन समयेन वाराणसीयं दारिका अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषा सा भिक्षवो पदुमावती वाराण्सीयं दारिका अभूषि // यं से तं प्रसन्नचित्ताये प्रत्येकबुद्धस्य पद्मं दिन्नं तस्य कर्मस्य विपाकेन पदुमावतीये क्रमेषु पद्मानि प्रादुर्भवन्सुः / यं से तस्य प्रत्येकबुद्धस्य हस्तातो तत् पदुमं भूयो आच्छिन्नं तस्य कर्मस्य विपाकेन राज्ञा ब्रह्मदत्तेन वध्याये आणत्ताये तानि पदुमानि क्रमेषु अन्तर्हितानि /

[_mvu_3.172_] यं से तं पदुमं भूयो तस्य प्रत्येकबुद्धस्य दिन्नं तस्य कर्मस्य विपाकेन भूयो राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लम् आनीताये पुनः क्रमेषु पद्मानि प्रादुर्भूतानि //

_____समाप्तं पदुमावतीये पूर्वयोगं //

भिक्षू भगवन्तम् आहन्सुः // कस्य भगवन् कर्मस्य विपाकेन राहुलस्य कुमारस्य षड्वर्षाणि गर्भावासो अभूषि // भगवान् आह // एतस्य वैषो भिक्सवो राहुलस्य कुमारस्य पौराणं कर्मविपाकं //

___भूतपूर्वं भिक्षवो तीतम् अध्वानं वैदेहजनपदे मिथिलायां राजधान्यां ब्राह्मणो राजा अभूषि // तस्य द्वे पुत्रा अभून्सुः भद्रो च नाम कुमारो सूर्यो च नाम कुमारो ज्येष्ठो सूर्यो कनीयसो चन्द्रो // अथ खलु भिक्षवो सो वैदेहको ब्राह्मणराजा आयुक्षयाच् च कर्मक्षयाच् च कालम् अकार्षी // चन्द्रो सूर्यम् आह // त्वं ज्येष्ठो तुवं राज्यं प्रापुणेहि / अहं ऋषिप्रव्रज्यां प्रव्रजिष्यामि // अथ सूर्यो कुमारो चन्द्रं कुमारम् एतद् उवाच / किं राज्ञां कर्तव्यन्ति // चन्द्रो कुमारो आह // राज्ञा जनस्य आणत्ती दातव्या // अथ खलु सूर्यो चन्द्रम् एतद् अवोचत्* // अहं कुमार राजा तव आणपेमि त्वं राजा भवाहि अहं च ऋषिप्रव्रज्यां प्रव्रजिष्यामि // अथ खलु भिक्षवः सूर्यो कुमारो चन्द्रं कुमारं मिथिलायां राज्येनाभिषिंचित्वा ऋषिप्रव्रज्यां प्रव्रजेसि // तेन दानि पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन चत्वारि ध्यानानि निष्पादितानि पंच चाभिज्ञा साक्षीकृता महर्द्धिको महानुभावो ऋषि संजातो //

[_mvu_3.173_] ये पि सूर्यस्य कुमारस्याभ्यन्तरे परिवारा अभूषि ते पि सूर्येण सार्धं ऋषिप्रव्रज्यां प्रव्रजिता सर्वे च चतुर्ध्यानलाभी पंचाभिज्ञा महर्द्धिका महानुभावा संजाता // अथ सूर्यस्य ऋषिस्य एतद् अभूषि // अहं खलु चतुर्ध्यानलाभी पंचाभिज्ञो अयं च मे परिवारो सर्वो चतुर्ध्यानलाभी पंचाभिज्ञो यं नूनाहं उत्तरिविशेषं आरभेयं // तेन दानि समादानं कृतं न मया अदिन्नं उदकं दन्तकाष्ठं पि परिभोक्तव्यं //

___अथ खलु भिक्षवो सूर्यो ऋषिर् अपरकालेन स्मृतिसंमोहेन अपरस्य ऋषिस्य उदकभाजनातो अदिन्नं उदकं पिबे // तेन पीतेन अस्य स्मृतिर् उत्पद्ये मम व्रतसमादानं न मया अदिन्नं उदकं दन्तकाष्ठं पि परिभोक्तव्यं इति / इमं च मया इमस्य ऋषिस्य उदकभाजनातो स्मृतिसम्मोहेन उदकम् अदिन्नं पीतं / चौरो अहन्ति तस्य कौकृत्यम् उत्पन्नं चौर्यं मया कृतं ति यं मे परस्य उदकभाजनातो अदिन्नं उदकं पीतन्ति // सो दानि दुःखदौर्मनस्यजातो आसनातो उत्थाय पृथिव्यां निषण्णो // अथ खलु ते माणवका येन सूर्यो ऋषिस् तेनोपसंक्रमित्वा सूर्यं ऋषिम् अभिवादेन्सुः // अथ खलु भिक्सवो सूर्यो ऋषी तां माणवकान् एतद् अवोचत्* // मा यूयं माणवका मम अभिवादेथ // अथ खलु भिक्षवस् ते माणवका सूर्यम् ऋषिम् एतद् अवोचत्* // भो उपाध्याय किस्य वयं उपाध्यायं नाभिवादेष्यामः // सूर्यो ऋषि आह // अहं खलु माणवका चौरो ति // माणवका आहन्सुः // किं वा कथं वा उपाध्याय // सूर्यो ऋषि आह // अमुकस्य माणवकस्य उदकभाजनातो अदिन्नम् उदकं पीतं // ते दानि माणवका एतम् आहन्सुः // मा भवन् उपाध्याय एवं वदेहि // न भवां चौरो यम् अस्माकं उदकं उपाध्यायस्य स्वकं ते उदकं पीतं मा कौकृत्यं जनेहीति // सूर्यो ऋषि आह // जानन्ति माणवका मम व्रतसमादानं न मया कदाचिद् अदिन्नं उदकं दन्तकाष्ठं पि भुक्तं पूर्वं मया अदिन्नपूर्वं उदकं पि पीतं /

[_mvu_3.174_] सो हं चौरो संवृत्तो दण्डकर्मं करोथ यथा चौरस्य क्रियति तस्य मे // माणवका आहन्सुः // भो उपाध्याय न वयं उत्सहाम उपाध्यायस्य दण्डकर्मं कर्तुं / एषो च ते चन्द्रो राजा भ्राता तस्य सकाशं गच्छाहि // सो ते दण्डकर्मं दास्यति //

___अथ खलु सूर्यो ऋषिर् येन मिथिला राजधानी तेन प्रयासि राज्ञो चन्द्रस्य सकाशं // अश्रोषीद् राजा चन्द्रो भ्राता मे सूर्यो ऋषि मिथिलायां आगच्छतीति // अथ चन्द्रो राजा चतुरंगेन बलकायेन सार्धं सूर्यस्य ऋषिस्य प्रत्युद्गमनाय निर्याति // अथ खलु चन्द्रो राजा येन सूर्यो ऋषिस् तेनोपसंक्रमित्वा यानातो ओरुह्य सूर्यं ऋषिम् अभिवादयति // अथ खलु सूर्यो ऋषि चन्द्रं राजानम् एतद् उवाच // मा खलु पुनस् त्वं महाराज मम अभिवादेहि // एवम् उक्ते भिक्षवश् चन्द्रो राजा सूर्यं ऋषिम् एतद् उवाच // किस्याहं भगवं ज्येष्ठं भ्रातरं सूर्यं ऋषिं दृष्ट्वा नाभिवादयिष्यामि // एवम् उक्ते भिक्षवः सूर्यो ऋषिश् चन्द्रं राजानम् एतद् अवोचत्* //

अहं चौरो महाराज अदिन्नं उदकं पिबे / तस्य करोहि मे दण्डं यथा चौरस्य क्रियति //

अथ खलु भिक्षवः चन्द्रो राजा सूर्यम् ऋषिम् एतद् उवाच // अनुजानाम्य् अहं भगवं यं त्वया उदकं पीतं स्वविजितातो तम् उदकं पीतं यं मम राज्यं तव पि तं राज्यं गच्छ येन इच्छसि मा भगवं कौकृत्यं करोहि // अथ सूर्यो ऋषिश् चन्द्रं राजानं गाथाये अध्यभाषे //

नाहं शक्तो महाराज कौकृत्यं प्रतिविनोदितुं / साधु मे क्रियतु दण्डो यथा चौरस्य क्रियति //

[_mvu_3.175_]___अथ खलु चन्द्रस्य वैदेहस्य राज्ञो पुत्रो च भागिनेयो च चन्द्रं वैदेहराजम् एतद् उवाच // क्रियतु देव ऋषिस्य दण्डकर्मं कौकृत्यस्य प्रतिविनोदनार्थं मा ऋषि कौकृत्येन किलम्यतु // अथ चन्द्रस्य राज्ञो एतद् अभूषि // कीदृशम् अहं सूर्यस्य ऋषिस्य दण्डकर्म कुर्येयं येन ऋषि निःकौकृत्यो भवेय // अथ खलु चन्द्रो राजा अशोकवनिकां सिक्तसंमृष्टां कारापेत्वा प्रणीतं च आसनं प्रज्ञप्तं खाद्यभोज्यं च प्रवेशयित्वा राजार्हाणि मोदकानि वृक्षशाखेषु बन्धापेत्वा सूर्यं ऋषिम् एतद् उवाच // गच्छ भगवं अत्र अशोकवनिकायां आसाहि यं चात्र खाद्यभोज्यं शय्याविधानं च ततो यथासुखं परिभोगं अनुजानामि // अथ खलु चन्द्रो राजा सूर्यं ऋषिम् अशोकवनिकायां षड्रात्रं वारेसि // अथ चन्द्रस्य राज्ञो षड्रात्रात्ययेन एतद् अभूषि // कथम् अहं सूर्यम् ऋषिं निःकौकृत्यं कृत्वा विसर्जेयं ति // तस्यैतद् अभूषि // यं नूनाहं सर्वबन्धनप्रमोक्षं कारापेयं // कारापेसि खलु भिक्षवः चन्द्रो राजा सप्तमे दिवसे सर्वबन्धप्रमोक्षं / सूर्यो च ऋषि अमात्येहि उक्तो // गच्छथ भगवां उद्धृतदण्डो ति / राज्ञा चन्द्रेण सर्वबन्धनमोक्षं कारापितं // सो दानि निष्कौकृत्यो पुनः आश्रमपदं गतः //

___भगवान् आह // स्यात् खलु भिक्सवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन चन्द्रो राजा / एष तदा राहुलभद्रकुमारो अभूषि // यः सूर्यो ऋषिस् तदा अहम् एवाभूवं // यत् सूर्यो ऋषि अशोकवनिकायां षड्रात्रं उपरुद्धः तस्य कर्मस्य विपाकेन राहुलो कुमारो षड्वर्षाणि गर्भावासस्थितो अभूषि //

_____राहुलभद्रस्य पूर्वयोगं //

[_mvu_3.176_]___राजा दानि शुद्धोदनः शाक्यां संनिपातयित्वा आह // भवन्तो यदि न कुमारो सर्वार्थसिद्धो अगारातो अनगारियं प्रव्रजितो तं राजा चक्रवर्ती भवेय बहूनां राजानसहस्राणां ईश्वरो भवन्तो पि सर्वे अनुयाता भवेथ सचे चक्रवर्तिराज्यम् अपहाय क्षत्रियकुलातो अगारातो अनगारं प्रव्रजितो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो सो च क्षत्रियो ब्राह्मणपरिवारो व तं नो अनुरूपं भवेत्* // ते दानि शाक्या आहन्सुः // आणपेतु देवः किं क्रियतूति // राजा शुद्धोदनो आह // कुलातो कुलातो एकः क्षत्रियकुमारो प्रव्रजतु / यत्र एकः सो एकपुत्रको मा प्रव्रजतु / यत्र दुवे भ्रातरो ततो एको प्रव्रजतु / यत्रापि संबहुला भ्रातरो ततो पि एको प्रव्रजतु // शलाकानि चारेथ कथं योभूयेन शाक्यगणस्य उत्पद्यतु प्रव्रजितुं शाक्यकुमारा // कुलपुरुषकेण तत्र शलाकानि चारीयन्ति योभूयेन शाक्यगणस्य उत्पद्यति // यदा राज्ञा शुद्धोदनेन आणत्तं प्रव्रजन्तु शाक्यकुमारा कुलपुरुषकेण यो च एकपुत्रको सो मुच्यतु तत्र दानि तेन कुलपुरुषकेण पंच कुमारशता अभिनिष्क्रमन्ति प्रव्रज्याय // राज्ञो शुद्धोदनस्य भगवां च पुत्रो सुंदरनन्दो च / भगवता प्रव्रजितेन सुन्दरनंदो मुच्चति // शुक्लोदनस्य पुत्रा आनंदो च उपधानो च देवदत्तो च / तेषां देवदत्तो अभिनिष्क्रमति // आनन्दो पि इच्छति प्रव्रजितुं माताये मृगीये शाक्यकन्याये नानुजानीयति // सो वैदेहं जनपदं गत्वान मौनव्रतेन

[_mvu_3.177_] आसति // शुक्रोदनस्य पुत्रा नन्दनो च नन्दिको च एते अभिनिष्क्रमन्ति / अपरे च दुवे पुत्रा गृहे स्थिता // अमृतोदनस्य पुत्रा अनुरुद्धो च महानामो च भट्टिको च // अनुरुद्धो च महानामेन पृच्छीयति / किं त्वं प्रव्रजिष्यसि गृहकार्यं वा चिन्तयिष्यसीति // सो अनुरुद्धो पुण्यवन्तो न पृच्छति किं गृहम् अध्यावसन्तेन करणीयं किं वा प्रव्रजितेन करणीयं पुण्यवन्तो निष्पुरुषेण नाटकेन क्रीडन्तो आसति पंचहि कामगुणेहि समर्पितो समंगीभूतो / तस्य अस्तमिते आदित्ये सहस्रं दीपवृक्षाणि निशि प्रदीप्यन्ति / मोहनस्य जिज्ञासनार्थं एकूनं दीपवृक्षसहस्रं प्रदीपापितं / तस्य दानि ताव विशुद्धं मान्सचक्षुं यं तं एकूनं दीपवृक्षसहस्रं तस्य चित्ते नास्ति संपूर्णं दीपवृक्षसहस्रन् ति / तस्य दासपरिवारो सर्वो विस्मितो / अहो परिशुद्धं कुमारस्य चक्षुं ति / यत्र नाम दीपवृक्षसहस्रातो एकेन दीपेन ऊनं अविशुद्धानि दीपानि संजानाति //

___सो दानि तं ज्येष्ठभ्रातरं महानामं पृच्छति // किं गृहम् अध्यावसन्तेन करणीयं किं वा प्रव्रजित्वा करणीयन् ति // सो नं आह // गृहम् अध्यावसन्तेन कल्यतो एवोत्थितेन राज्ञो सुखरात्री दातव्या शाक्यमहत्तरकानाम् अपि सुखरात्री दातव्या ये पि कान्ता ते पि अवलोकेतव्या कालगतानां पि मृतकरणीयेहि स्थातव्यं गृहजना वेष्टेतव्या दासीदासकर्मकरपौरुषेया वेष्टेतव्या भोजनाच्छादनेन सर्वेहि च उत्सवेहि समन्वाहरितव्या व्ययकर्मेन उत्सविकेन पारिव्ययिकेन च हस्त्यश्व-अजगवेडकानि

[_mvu_3.178_] वेष्टापयितव्यानि रथयुग्ययानानि वेष्टापयितव्यानि ग्रामाणि च भोगानि च परिपालयितव्यानि कर्मान्तानि कालानुकालं प्रत्यवेक्षितव्यानि फलानि वाहयितव्यानि नानाप्रकाराणि धान्यजातीनि रोपयितव्यानि निवेष्टितव्यानि प्रत्यवेक्षितव्यानि च / कालानुकालं च यथापक्वानि च धान्यजातानि लवापयितव्यानि खलधानेषु संहारापयितव्यानि ओपुनापयितव्यानि / यत् किंचिद् गृहकार्यं अभ्यन्तरवाहिरं सर्वं कर्तव्यं // अनुरुद्धो आह // प्रव्रजितेन पुनः किं कर्तव्यं // महानामो आह // प्रव्रजितेन पूर्वाह्ने भिक्षा अण्वितव्या लूखं वा प्रणीतं वा आहारेण आहारं कार्यं कृत्वा एकं आत्मानं दमेतव्यं शमेतव्यं परिनिर्वापयितव्यं // अनुरुद्धो आह // अलं मे गृहकार्येण यूयं करेथ अहं प्रव्रजिष्यामि //

___ते दानि पंचमात्रा शाकियकुमारशता महता राजानुभावेन महता राज-ऋद्धीये स्वकस्वकेहि विभवेहि अभिनिष्क्रमेन्सुः / केचिद्* हस्तिपृष्ठेहि सुवर्णच्छत्त्रेहि सखुरप्रवारेहि केचित् सुवर्णशिविकाहि नानारत्नसंछन्नाहि केचित् सौवर्णेहि रथेहि चतुर्घोटेहि नानारत्नजालसंछन्नेहि सवैजयन्तिकेहि सनन्दिघोषेहि उच्छ्रितच्छत्त्रध्वजपताकेहि / केचिद् अश्वपृष्ठेहि सर्वालंकारविभूषितेहि हेमजालसंछन्नेहि / देवदत्तो च हस्तिनपृष्ठे स्वलंकृतेन हेमजालसंछन्नेन उच्चसिंहासने निषण्णो निर्धावितो / तस्य निर्धावन्तस्य तोरणाग्रे कर्कटकस्मिं मकुटं लग्नं / तेन कर्कटकेन तं मकुटं देवदत्तस्य शीर्षातो उत्क्षिप्तं महाजनकायेन अट्टप्रहासं क्षिप्तं नैमित्तिकेन च होरपाठकेन च व्याकृतो येन कार्येण देवदत्तो कुमारो अभिनिष्क्रमति तं कार्यं न प्रापयिष्यतीति / उत्तमार्थे परिहापयिष्यतीति यम् एतं उत्तमांगतो मकुटं तोरणाग्रातो कर्कटकेन उत्क्षिप्तं //

[_mvu_3.179_]___अथ खलु ते पंच शाक्यकुमारशतानि महता राजानुभावेन महता राज-ऋद्धीये सर्वनृत्तेहि सर्वगीतेहि सर्वतूर्यताडावचरेहि कपिलवस्तुतो नगरातो निर्यात्वा येन न्यग्रोधारामं तेन प्रयासि // अथ खलु ते पंच शाक्यकुमारशता यावद् एव यानानां भूमिस् तावद् एव यानेहि यात्वा यानेषु प्रत्योरुह्य येन भगवान्स् तेनोपसंक्रमित्वा अनेकजनसहस्रपरिवारिता भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सुः //

___तेषां दानि शाक्यकुमाराणां उपालिर् नाम नापितदारको उपस्थानकरो कृतकुशलमूलो पुरिमकेहि सम्यक्संबुद्धेहि वासितवासनो छिन्नबन्धनो नवुत्पत्तिको आर्यधर्माणां चरमभविको लाभी ध्यानानां चाभिज्ञानां च // सो दानि मातरे भगवतो उपनामितो अयं भगवतो केशानि ओतारेष्यति / भगवतापि ऽधिवासितं // सो दानि उपालि भगवतो केशानि ओतारेति // सा दानि उपालिस्य माता भगवन्तं पृच्छति // सुखं भगवं उपालि केशानि ओतारेति // भगवान् आह // सुखं केशानि ओतारेति अपि च तथागतं अभ्यासादेति // सा दानि आह // मा दारक भगवन्तं अभ्यासादेहि // सो दानि प्रथमं ध्यानं समापन्नो // सा ताव नं पुनर् भगवन्तं पृच्छति // सुखं भगवं उपालिदारको केशानि ओतारेति // भगवान् आह // सुखं दारको केशानि अवतारयति अपि तु खुरं पिलिपलिपायेति // सा दानि आह // मा दारक क्षुरं पिलिपलिपायेहि // सो दानि द्वितीयं ध्यानं समापन्नो // सा पुनः उपालिस्य माता भगवन्तं पृच्छति // सुखं भगवन्* उपालिदारको केशान्य् अवतारयतीति // भगवान् आह // सुखं उपालिदारको केशान्य् अवतारयति अपि तु आश्वासप्रश्वासेहि तथागतं उपहनति // सा दानि आह // मा दारक आश्वासप्रश्वासेहि भगवन्तं उपहन // सो तान्य् अतिक्रमित्वा

[_mvu_3.180_] तृतीयं ध्यानं चतुर्थं ध्यानं समापन्नो // भगवान् भिक्षूणाम् आह // गृह्णथ एतं भिक्षव उपालिहस्तातो क्षुरं मा भूमिं प्रपतिष्यति // सो दानि क्षुरो उपालिस्य हस्तातो भिक्षुभिर् गृहीतो //

___ते दानि शाक्यकुमाराः स्वकस्वकानि वस्त्राभरणानि उज्झित्वा उपालिस्य पुरतो निक्षिपेन्सुः / इमन् ते उपालि धनं भवतु / अस्माकं प्रव्रजितानां नैतेन कार्यं ति / भगवतो सन्तिके वयं प्रव्रजिष्यामः //

___उपालिस्यापि एतद् अभूषि // इमे शाक्या कुमारा राज्यम् अवजहिय इमानि च वस्त्राभरणानि मम दत्त्वा अगारातो अनगारियं प्रव्रजन्ति किं पुनर् अस्माभिः क्षुरवृत्तीहि न प्रव्रजितव्यं भवेय / अहम् अपि प्रव्रजिष्यामि / न एतेषां वान्तानाण् {सेनर्त्: वान्तन्तं} परिभुंजिष्यामि // अथ खलूपालिः कल्पको येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वंदित्वा भगवन्तम् एतद् अवोचत्* // प्रव्राजेतु मे भगवां उपसंपादेतु मे सुगतो // अथ खलु भगवां उपालिकल्पकं एहिभिक्षुकाए आभाषे / एहि भिक्षु उपालि चर तथागते ब्रह्मचर्यं // तस्य दानि भगवतो एहिभिक्षुकाये सहोक्तेन यत् किंचिद् गृहिलिंगं गृहिगुप्ति गृहिध्वजं गृहिकल्पं सर्वम् अन्तर्हितं त्रिचीवरं चास्य प्रादुर्भवे सुंभकं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो चास्य संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नस्य भिक्षुस्य आयुष्मतो उपालिस्य प्रव्रज्या उपसंपदा भिक्षुभावो // येनान्तरेण पंच शाक्यकुमारशता मातापितॄणां मित्रज्ञातिसालोहितानां च प्रतिसंमोदेन्ति तेनान्तरेण उपालि प्रथमतरं प्रव्रजितो //

[_mvu_3.181_]___अथ खलु पंच शाक्यकुमारशता येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् उवाच // प्रव्रजेतु मे भगवां उपसंपादेतु मे सुगतो // अथ खलु भगवां तानि पंच कुमारशतानि स्थापयित्वा देवदत्तं एहिभिक्षुकाये आभाषे // एथ भिक्षवः शाक्यकुमारा चरथ तथागते ब्रह्मचर्यं // तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यत् किंचि गृहिलिंगं गृहिगुप्ति गृहिध्वजं गृहिकल्पकं तत् सर्वम् अन्तरहाये त्रिचीवराणि च सानं प्रादुर्भवेन्सुः सुंभकानि च पात्राणि प्रकृतिस्वभावसंस्थिता केशा ईर्यापथो च सानं संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणां एष आयुष्मन्तानां शाक्यकुमारशतानां प्रव्रज्या उपसंपदा भिक्षुभावो //

___ते दानि भगवता वुच्चन्ति // उपालि भिक्षु युष्माकं वृद्धतरको एतस्य पादां वन्दित्वा सर्वे पटिपाटिकाये तिष्ठत / यो च प्रथमतरं तथागतस्य उपालिस्य च पादां वन्दित्वा पटिपाटिकाये स्थास्यति सो वृद्धतरको भविष्यति // ते दानि भगवतो उपालिस्य च पादां वन्दित्वा सर्वे भिक्षुशता पटिपाटिकाये स्थिता // अपि हि जितं महाजनकायो एवम् आह // जितमानक्रोधा शाक्या निहतमानदर्पा शाक्या ति // राज्ञापि शुद्धोदनेन सपरिवारेण शाक्येहि च उपालिस्य भिक्षुस्य पादा वन्दित्वा / आयुष्मांश् च उपालि एवम् आह // स्वागतं राज्ञो शुद्धोदनस्य अनुरागतं राज्ञो शुद्धोदनस्य // अथ खलु राज्ञो शुद्धोदनस्य अमात्यपारिषद्या आयुष्मन्तं उपालिं तं राजानं शुद्धोदनं आत्मना आभाषन्तं दृष्ट्वा तं विभावयेन्सुः // कथं नाम उपालिकल्पको हीनजात्यो राज्ञा शुद्धोदनेन भाषति //

[_mvu_3.182_] राजापि शुद्धोदनो तेषां पारिषद्यामात्यानाम् आह // मा भवन्तो आर्यस्य उपालिस्य हीनजात्येन समुदाचरथ / अन्यास्य पुरिमा जाति अन्या एतरहिं श्रमणस्य राज-ऋद्धि न एष भूयो हीनजात्यो ति वक्तव्यः //

___भिक्षू भगवन्तम् आहन्सुः // पश्यथ भगवं कथम् आयुष्मतो उपालिस्य हीनजात्यस्य भगवन्तम् आगम्य सराजिकाय परिषाय पादा वन्दिता // भगवान् आह // न भिक्षव एतरहिम् एव एतस्य उपालिस्य हीनजात्यस्य ममागम्य सराजिकाय परिषाय पादा वन्दिता अन्यदापि एतस्य उपालिस्य हीनजात्यस्य ममागम्य सराजिकाय परिषाय पादा वन्दिता // भिक्ष भगवन्तम् आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवो //

___भूतपूर्वं भिक्षवो अतीते ध्वनि नगरे वाराणस्यां काशिजनपदे द्वे दरिद्रा दारका कुल्माषपुटकानि भक्तं गृह्य काष्ठहारका गच्छन्ति प्रत्येकबुद्धो च वाराणसीं पिण्डाय प्रविशति प्रासादिकेन ईर्यापथेन अभिक्रान्तप्रतिक्रान्तेन आलोकितविलोकितेन संमिंजितप्रसारितसंघाटी पात्रचीवरधारणेन नागो पि विय कारितकारणो अन्तर्गतेहि इन्द्रियेहि अन्तर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन स्मृतः संप्रजानो समाहितो एकाग्रचित्तो संवृतेन्द्रियो अविक्षिप्तदृष्टी // ते खु तं दृष्ट्वा प्रसादम् उपसंक्रमन्ति // ते दानि प्रसन्नचित्ता अन्योन्यं एवम् आहन्सुः // ये केचिद् दारका रुच्छवृत्तिका अशनवसनविप्रहीना मनुष्यदुर्गता मनुष्यकृपणा मनुष्यवराका यथा वयं चान्ये च सर्वे एदृशेषु द्विपादकेषु पुण्यक्षेत्रेषु कुशलमूलानि न कृत्वा ये केचित् पुनर्

[_mvu_3.183_] आढ्या महाधना महाभोगा क्षत्रियमहाशाला वा ब्राह्मणमहाशाला वा अन्ये वा केचित् सुखिता सर्वे ते एवरूपेषु द्विपादेषु पुण्यक्षेत्रेषु कुशलानि कृत्वा / यं नूनं वयं इमां कुल्माषां इमस्य ऋषिस्य पात्रेषु प्रतिष्ठापयेम // तेहि दानि ते कुल्माषा तस्य प्रत्येकबुद्धस्य पात्रेषु प्रतिष्ठापिता // प्रत्येकबुद्धो पि तेषां दारकानां तां भिक्षां प्रतिगृह्य हंसराजा विय वैहायसेन प्रक्रमितो // ते दारका तं प्रत्येकबुद्धं वैहायसेन गच्छन्तं दृष्ट्वा प्रीतिसंजाता महाभागो अस्माभिः ऋषिः पिण्डपात्रेण प्रतिमानितो // ते दानि प्रीतिसौमनस्यजाताः प्रणिधानं उत्पादेन्ति // एको आह // अहं अनेन कुशलमूलेन राजा भवेयं क्षत्रियो मूर्ध्नाभिषिक्तो // द्वितीयो आह // अनेन कुशलमूलेन ब्राह्मणमहाशालकुले उपपद्येयं आढ्यो महाधनो महाभोगो //

न हि चित्तप्रसन्नेन स्वल्पिका भवति दक्षिणा / तथागते च संबुद्धे ये च बुद्धान श्रावका //

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः / संयोगा विप्रयोगान्ता मरणान्तं हि जीवितं //

ते दानि दारका आयुक्षयाच् च कर्मक्षयाच् च कालगता समागता तत्रैव वाराणसीयं नगरे / एको पि राजकुले राज्ञो अग्रमहिषीये उपपन्नो द्वितीयो पि पुरोहितकुले पुरोहितस्य भार्याये कुक्षिस्मिं उपपन्नो // कालेन समयेन राजभार्या पुरोहितभार्या च प्रजाता / उभये दारका जाता // उभयेषां सप्ताहं रमणीयानि जातकर्माणि कृतानि सप्ताहस्यात्ययेन राजपुत्रस्यापि ब्रह्मदत्तो ति

[_mvu_3.184_] नाम कृतं पुरोहितपुत्रस्यापि उपको ति नाम कृतं // अनुरूपा धात्री उपस्थापिता राजपुत्रो च पुरोहितपुत्रो च यथा उत्पलं वा पदुमं वा कुमुदं वा पुण्डरीकं वा तथा संवर्धन्ति // यथोक्तं भगवता //

कृतपुण्या हि वर्धन्ति न्यग्रोधा विय सुभूमियं जाता / अनुपन्थके विय द्रुमा अल्पपुण्या विहीना त्ति //

ते दानि यत्र काले विवृद्धा विज्ञप्राप्ता संजाता ततो लिपीयं पि सेखियन्ति लेखाशिल्पगणनां धारणमुद्रां // राजपुत्रो पि ब्रह्मदत्तो हस्तिस्मिं अश्वस्मिं धनुस्मिं त्सरुस्मिं धावितस्मिं लंघिते जविते इष्वस्त्रज्ञानेषु सर्वत्र गतिंगतो संजातो // पितरे च कालगतेन ब्रह्मदत्तो कुमारो अमात्येहि वाराणस्यां राज्येनाभिषिक्तो // उपको च माणवको अन्यतराये माणविकाये सार्धं प्रतिबद्धचित्तो अभूषि // सो दानि ताये माणविकाये कस्मिंचिद् एव स्थाने किंचित् कालं अवसादितो अभूषि न तं ओलोकेति / वाराणसीयं च कौमुदी चातुर्मासी उपस्थापिता सापि माणविका उपकस्य माणवकस्य भावानुरक्ता प्रत्यागता // माणव कौमुदी चातुर्मासी उपस्थिता गन्धमाल्यं मे उपस्थापेहि यथा कौमुदी चातुर्मासी रमणीयं करेयाम // सो दानि माणवको तस्या माणविकाये श्रुत्वा तुष्टो आत्तमनो अभूषि / दिष्ट्या मे माणविका प्रत्यागता ति // तस्य दानि उपकस्य माणवकस्य गंगाकूले माष अपरस्य पुरुषस्य सकाशातो याचनकं लब्धं / सो च नं माषो तत्रैव गंगाकूले गोपितको अभूषि // सो दानि तस्य माषस्य अर्थाये विघने

[_mvu_3.185_] मध्याह्ने वर्तमाने हर्षेण मधुराणि किन्नरीय गीतानि गायन्तो गंगाकूले [तस्य माषस्य अर्थाये] गच्छति //

___अद्राक्षीद् भिक्षवः राजा ब्रह्मदत्तो उपरिप्रासादवरगतः उपकं माणवकं मध्याह्ने विघने मधुरेण स्वरेण गायन्तं अन्तोनगरातो वहिर्नगरं गच्छन्तं दृष्ट्वा च पुनर्मस्य उपके माणवके प्रेम्नं निपतितं // यथोक्तं भगवता //

पूर्वे वासनिवासेन प्रत्युत्पन्ने हितेन वा / एवन् तं जायते प्रेम्नं उत्पलं वा यथोदके //

यत्र मनो निविशति चित्तं वापि प्रसीदति / निष्ठां पण्डिता गच्छेयुः संवुत्था मे पुरा भवे //

एवं तस्य राज्ञो ब्रह्मदत्तस्य तत्र उपके माणवके सह दर्शनेन प्रेम्नं निपतितं // तन राज्ञा ब्रह्मदत्तेन उपकस्य माणवकस्य दूतो प्रेषितो // गच्छथ यो एषो माणवको गायन्तो अन्तर्नगरातो वहिर्नगरं गच्छति एतं आनेथ // सो तेहि गत्वा उच्चति // आगच्छ माणवक राजा ते शब्दापेतीति // सो दानि तेहि राजपुरुषेहि राज्ञो सकाशम् उपनीतो // देव अयं सो माणवको आनीतो // अथ खलु राजा ब्रह्मदत्तो उपकं माणवकं गाथाये अध्यभाषे //

मध्यन्तिके वीतिनते कुक्कुलवत्ततो मही / अथ गायसि वक्त्राणि न तापयति आतपो //

उपरि तपति आदित्यो हेष्टा तपति वालिका / उदग्रचित्तो सुमनो अथ वक्त्राणि गायसि //

[_mvu_3.186_] अथ खलु भिक्षवः उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषे //

न आतपो तापयति अन्तका तापयन्ति मां / अन्तकाश् च विघाताश् च ते तापेन्ति न आतपो //

इत्वरं खु अयं तापो यो खु कायं प्रतापये / कार्या नाम विवादा च ते तापेन्ति न आतपो //

राजा दानि ब्रह्मदत्तो उपकं माणवकं गाथाये प्रत्यभाषति //

किन् ते जनेति संक्षोभं अयं केन प्रतप्यति / तापेन पीडितो कायो तं त्वं आख्याहि पृच्छितो //

अथ खलु भिक्षवो उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषति //

वृषली देव कान्ता मे कुंभदासी अरिंदम / तस्या उपस्थितो सर्वो तयास्मि उपतापितो //

अथ भिक्सवो राजा ब्रह्मदत्तो उपकं माणवकं आमन्त्रयति // कहिं माणवक गमिष्यसीति // अथ खलु भिक्षवः उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषति //

माषो मे याचनालब्धो गंगातीरस्मिं गोपितो / पुरस्तिमे नगरस्य तदर्थाय व्रजाम्य् अहं //

अथ खलु भिक्षवो राजा ब्रह्मदत्तो उपकं माणवकं आमन्त्रयति // आगमेहि

[_mvu_3.187_] तावत्* माणवक मुहूर्तं शीतलके गमिष्यसि // अथ खलु उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषे //

येहि अर्थो अयानस्य ऊर्ध्वं तिष्ठन्ति तिष्ठतो / याने तु वह्यमानस्य पुरतो धावन्ति धावतो / गंसाम्य् अहं महाराज तस्य माषस्य कारणा //

(अथ खलु राजा ब्रह्मदत्तो उपकं माणवकं गाथाये प्रत्यभाषे) सचे ते अर्थो माषेण अहं माषं ददामि ते / करोहि कृत्यं माषेण उष्णे माणव मा व्रज //

उपको माणवको आह // यदि वेदो माषं दास्यति एतं द्वितीयं माषं एतेहि माषेहि तुष्टा भवे पि वृषली कौमुदीयं च अविघ्नं भविष्यति // अथ खलु उपको माणवको राजानं ब्रह्मदत्तं गाथाये अध्यभाषे //

यं च माषं देवो दद्यात् तं द्वितीयं भविष्यति / एतेहि द्वीहि माषेहि तुष्टा सा वृषली भवे //

राजा आह // अहन् ते माणव दुवे माषाणि दास्यामि मा च उष्णेन पच्यन्तो गच्छाहि // राजा ब्रह्मदत्तो उपकं माणवकं गाथाये अध्यभाषे //

सचे ते अर्थो माषेहि दुवे माषा ददामि ते / करोहि कृत्यं माषेहि उष्णे माणव मा व्रज //

[_mvu_3.188_] उपको आह // एते च द्वे माषा तं च तृतीयं भविष्यति आमन्त्रणं च भविष्यति / एवं वृषलीये रमणीयं कौमुदिकं भविष्यति //

भवतश् च दुवे माषा तं तृतीयं भविष्यति / एतेहि त्रीहि माषेहि तुष्टा सा वृषली भवे //

राजा ब्रह्मदत्तो उपकं माणवकं एवम् आह // माणवक उष्णे मा गच्छाहि अहं ते त्रयो माषां दास्यामीति / सचे ते अर्थो माषेहि भूयो माषां ददामि ते / करोहि कृत्यं माषेहि उष्णे माणव मा व्रज //

माणवको आह // देव एतानि व त्रयो माषा तं चतुर्थं भविष्यति आमन्त्रणं तत्र भूयो भविष्यति / एवं वृषलिकाये सार्धं रमणी कौमुदीयं भविष्यति //

भवतश् च त्रयो माषा तं चतुर्थं भविष्यति / चतुर्हि देव माषेहि उदग्रा वृषली भवे //

एतेन क्रमेण राजा ब्रह्मदत्तो शतसहस्रं उपकस्य माण्वकस्य देति तं च माषं न मुंचति / यावद् अपरार्धेन ततो माषातो न निवर्तितो // तेन दानि राज्ञा ब्रह्मदत्तेन अर्धराज्यं तस्य उपकस्य माणवकस्य दिन्नं / अन्तःपुरातो अर्धं दिन्नं / कोशकोष्ठागाराणां पि दिन्नम् अर्धम् अमात्यभट्टबलाग्राणां पि अर्धं दिन्नं //

___ते दानि उभये राज्यं कारयन्ति / उभौ अर्थानि समनुशासन्ति // सो दानि माणवको पंचहि कामगुणेहि समर्पितो क्रीडति रमति परिचारयति // सो दानि

[_mvu_3.189_] राजा ब्रह्मदत्तो अत्यर्थं अतीव उपकस्य माणवकस्य सन्तिके विश्वस्तो यदि कहिंचि पि गच्छति ततः उपकस्य माणवकस्य उत्संगे शीर्षं दत्त्वा शयति // तस्य दानि उपकस्य राज्ञा शयितेन एतद् अभूषि // कथं एकराज्येन दुवे राजानो यं नूनाहं इमं राजानं ब्रह्मदत्तं घातेत्वा अहम् एव एको राजा भवेयन् ति // तस्य दानि भूयो एतद् अभूषि / न एतद् मम साधु भवेय न प्रतिरूपं यम् अहं राज्ञो ब्रह्मदत्तस्य कृतज्ञस्य अकृतज्ञो भवेयं // द्वितीयं तृतीयकं पि एतद् अभूषि / न एतं साधु भवेय न प्रतिरूपं यं एके राज्ये दुवे राजानो यं नूनाहं राजानं ब्रह्मदत्तं जीवितातो व्यवरोपयित्वा अहम् एव एको काशिराजा भवेयं ति // तस्य दानि द्वितीयकं तृतीयकं पि एतद् अभूषि / न एतं मम साधु भवेय न प्रतिरूपं यं अहं राज्ञो ब्रह्मदत्तस्य कृतज्ञस्य अकृतज्ञो भवेयन्म् ति // सो दानि अविधाविधन् ति प्रव्रजितो तेन राजा ब्रह्मदत्तो प्रतिबुद्धो // सो तं आह // उपक अविधाविधन् ति वक्षि // सो दानि आह // एवंरूपो मे देव चित्तो अभूषि / यं नूनाहं ब्रह्मदत्तं जीवितातो व्यवरोपयित्वा अहम् एव एको काशिराजा भवेयं ति // तस्य सो ब्रह्मदत्तो राजा न पत्तीयति // सो दानि उपको आह // एवम् एतं देव यथा तं जल्पामीति // अथ खलु राजा ब्रह्मदत्तो उपकं माणवकं गाथाये अध्यभाषे //

दिन्नो मे अर्धराज्यं ते स्तोकस्तोकेन माणव / एकं मुंचसि न माषं कथं अन्तो भविष्यति //

अथ खलु उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषे //

न हि अन्तो अनन्ताये तृष्णाये इह विद्यति / प्रव्रजिष्याम्य् अहं राजन् न राज्येन रतो स्मि च //

[_mvu_3.190_] बहूहि कामेहि अलं मे येहि बालो न तृप्यति / अलं मे सर्वकामेहि प्रव्रजिष्यामि नगारियं //

काम जानामि ते मूलं संकल्पात् काम जायसे / न कामं कल्पयिष्यामि ततो मे न भविष्यसि //

अल्पेषु बालो कामेषु बहूष्व् अपि न तृप्यति / अपहाय सर्वकामानि प्रतिबुद्धो व पश्यति //

इच्छामि दानं प्रभवन्ति च ते इच्छा प्रशान्ता च न भोन्ति एवं / एतं व इच्छाय फलं विदित्वा न प्रार्थये पुत्रपशुं धनं च //

अथ खलु उपको माणवको ब्रह्मदत्तं राजानम् एतद् उवाच // अनुजानाहि मे देव प्रव्रजिष्यामि // राजा आह // मा प्रव्रजाहीति सहिता राज्यं कारयिष्यामः // उपको आह // न महाराज राज्येन अर्थो अनुजानाहि मे प्रव्रजिष्यामि // सो दानि राज्ञा ब्रह्मदत्तेन अनुज्ञातो यदि एवं अभिप्रायो प्रव्रजाहीति //

___तहिं दानि काशिषु उत्तरेण कुम्भकारस्य प्रव्रजितस्य ऋषिस्य पंचाभिज्ञस्य आश्रमपदं // सो दानि उपको माणवको तम् आश्रमपदं गत्वा तस्य कुम्भकारस्य प्रव्रजितस्य ऋषिस्य सकाशातो प्रव्रजितो // तेन दानि पूर्वरात्रापररात्रेण जागरिकायोगम् अनुयुक्तेन विहरन्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानानि उत्पादितानि महर्द्धिको महानुभावो ऋषी संजातो चन्द्रमण्डलं सूर्यमण्डलं आश्रमे पर्यंकेन निषण्णो पाणिना परिमार्जति परामृषति यावद् ब्रह्मलोकं कायेन वशे

[_mvu_3.191_] वर्तेति // अथ खलु राजा ब्रह्मदत्तो उपकस्य माणवकस्य स्पृहयन्तो अभीक्ष्णं इमां गाथां भाषति //

अल्पस्य इमं महाविपाको उपको अध्यगमे महान्तम् अर्थं / सुलब्ध लाभा खलु माणवस्य यो प्रव्रजे कामरतिं प्रहाय //

राज्ञो ब्रह्मदत्तस्य अन्तःपुरिका पुनर्पुनः इमां गाथां राज्ञो ब्रह्मदत्तस्य सकाशातो शृण्वन्ति न चास्यार्थं विजानन्ति // तस्य दानि राज्ञो ब्रह्मदत्तस्य गंगपालो नाम कल्पको / राज्ञो ब्रह्मदत्तस्य स विश्वस्तो यथासुखं अन्तःपुरं प्रविशति उपस्थानकरो // सो दानि राज्ञा ब्रह्मदत्तेन उक्तः // गंगपालक केशश्मश्रुं मे करोहीति // एवं वदित्वा ओसुप्तो // तेन तस्य शयितस्य केशश्मश्रु कृतं राजापि विबुद्धित्वा आह // गंगपाल आगच्छ करोहि मे केशकर्मं // गंगपालो आह // कृतं ते देव केशश्मश्रुं शयितस्य // सो दानि गंगपालो आदर्शकं गृह्य राज्ञो ब्रह्मदत्तस्य अल्लीनो निध्यायतु देवो ति / राजा आदर्शकेन केशश्मश्रु निध्यायन्तो गंगपालस्य कल्पकस्य प्रीतो संवृत्तो // राजा आह // गंगपाल तुष्टो स्मि तव एतेन शिल्पेन अभिराद्धो ग्रामवरेण प्रवरेण प्रवारेमि गृह्ण ग्रामं सयदि इच्छसि // सो दानि आह // यावत् संमन्त्रेमि ततो देवस्य सकाशातो ग्रामवरं ग्रहेष्यामीति // सो दानि गंगपालो राज्ञो ब्रह्मदत्तस्य अन्तःपुरिकानां आचिक्षति // अद्य मया राजा ब्रह्मदत्तो शिल्पेन आराधितो ग्रामवरेण चाहं प्रवारितो गृह्णामि ग्रामवरन् ति //

[_mvu_3.192_] अन्तःपुरिका आहन्सुः // मर्षेहि ग्रामवरं एषो राजा अभीक्ष्णम् इमां गाथां भाषति //

अल्पस्य इमं महाविपाको उपको अध्यगमे महान्तम् अर्थं / सुलब्ध लाभा खलु माणवस्य यो प्रव्रजे कामरतिं प्रहाय //

वयं च एताये गाथाये अर्थं न विजानामथ / ततो गच्छ राजानं ब्रह्मदत्तं जल्पाहीति अलं मे देव ग्रामवरेण यं देवो अभीक्ष्णं इमां गाथां भाषति //

अल्पस्य इमं महाविपाको उपको अध्यगमे महान्तम् अर्थं / सुलब्ध लाभा खलु माणवस्य यो प्रव्रजेत् कामरतिं प्रहाय //

एतस्य मे महाराज अर्थं आचिक्षाहीति // सो दानि गंगपालो राज्ञो ब्रह्मदत्तस्य उपसंक्रमित्वा आह // देव अलं मे ग्रामवरेण यं देवो अभीक्ष्णं इमां गाथां भाषति //

अल्पस्य इमं महाविपाको उपको अध्यगमे महान्तम् अर्थं / सुलब्ध लाभा खलु माणवस्य यो प्रव्रजेत् कामरतिं प्रहाय //

इमस्या देव गाथाये अर्थम् आख्याहि // एतं मे वरं भवतु // राजा आह

// [_mvu_3.193_] उपको माणवको अर्धराज्यम् अपहाय कामेषु आदीनवं दृष्ट्वा ऋषिप्रव्रज्यां प्रव्रजितो सो च पंचाहिज्ञो महाभागो ऋषि संवृत्तो अहं च कामेषु प्रमत्तो / सो हं तस्य उपकस्य माणवकस्य स्पृहयन्तो अभीक्ष्णं एतां गाथां भाषामि // सो दानि गंगपालो राज्ञो श्रुत्वा अन्तःपुरं प्रविशित्वा अन्तःपुरिकान् आश्वासेति // तस्य मा उत्कण्ठथ न राजा प्रव्रजिष्यति / तस्य उपकस्य माणवकस्य स्पृहयन्तो राजा अभीक्ष्णं एतां गाथां भाषति // इदानीं अन्तःपुरिका हृष्टा तुष्टा आत्तमना हिरण्यस्य सुवर्णस्य च वस्त्राभरणानां च महान्तं राशिं कृत्वा गंगपालम् आहन्सुः // गंगपाल इदन् ते अभिच्छादं भवतूति // तस्य दानि गंगपालस्य एतद् अभूषि // सो च नाम उपको माणवको आढ्यो गृहम् अपहाय प्रव्रजितः किं पुनर् मया न प्रव्रजितव्यं भवेय / यं नूनाहं पि प्रव्रजेयं किं मे परेषां चित्तेन कार्यं // सो दानि अन्तःपुरिका आह // अलं मे तेन हरिण्यसुवर्णेन अहं पि प्रव्रजिष्यामि // सो दानि ब्रह्मदत्तस्य उपसंक्रमित्वा आह // देव अनुजानाहि मे प्रव्रजिष्यामि इति // राजा आह // कस्य सन्तिके प्रव्रजिष्यसि // सो आह // उपकस्य ऋषिस्य सन्तिके प्रव्रजिष्यामि // राजा आह // अनुजानामि प्रव्रजाहीति //

___सो दानि गंगपालो उपकस्याश्रमं गत्वा प्रव्रजितो // तेनापि पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानानि निष्पादितानि पंचाभिज्ञा साक्षीकृता चन्द्रमण्डलसूर्यमण्डलपरिमार्जको ऋषि संवृत्तो // अश्रोषीद् भिक्षवो राजा ब्रह्मदत्तो सर्वे ते त्रयो ऋषयो पंचाभिज्ञा संवृत्ता ते महर्द्धिका महानुभावा / तस्य दानि तेषां ऋषीणां दर्शनकामता

[_mvu_3.194_] उदपासि // सो दानि अमात्यपारिषद्यान् आमन्त्रयति // गच्छाम तेषां ऋषीणां दर्शनाय कुम्भकारस्य प्रव्रजितस्य च उपकस्य च गंगपालस्य चाश्रमं सर्वे ते त्रयो ऋषयो चतुर्ध्यानलाभी पंचाभिज्ञा महर्द्धिका महानुभावा ति / सो कालो तथारूपाणां दक्षिणेयानाम् दर्शनायोपसंक्रमणाय पर्युपासनाय // अमात्यपारिषद्या आहन्सुः // मा देवो तेषां सकाशं गच्छतु ते नाम इह आनयितव्या // [सो दानि गंगपालो राज्ञो ब्रह्मदत्तस्य आम्रवनं गतो नापितभाण्डं ओलंबयित्वा प्रव्रजितो // अथ खलु अन्यतरो राजामात्यो राजानं ब्रह्मदत्तं गाथाये अध्यभाषे //

अयम् एव सो आम्रवनो ब्रह्मदत्तस्य श्रीमतो / यत्र क्षुरं च भाण्डं च ओलंबित्वा प्रव्रजितो //]

न देवेन हीनजात्यानां सकाशं गन्तव्यं ति / तेहि नाम देवस्य सकाशम् आगन्तव्यं // राजा आह // न एष धर्मो यं दक्षिणेया वुच्चेन्सुः इह आगच्छथ राजानं दर्शनायेति / अस्माभिः तत्र गन्तव्यं ऋषयो दर्शनाय // अथ खलु राजा ब्रह्मदत्तो कुमारामात्यसंपरिवृतो येन ते ऋषयस् तेनोपसंक्रमे // अथ खलु गंगपालो ऋषिर् येन राजा ब्रह्मदत्तस् तेनोपसंक्रमित्वा राजानं ब्रह्मदत्तम् एतद् उवाच // स्वागतं राज्ञो ब्रह्मदत्तस्य निषीदतु राजा ब्रह्मदत्तो // अथ खलु राज्ञो ब्रह्मदत्तस्य अमात्यपारिषद्या गंगपालं ऋषिं वाचाये सन्तर्जयेन्सुः सच्छम्बितं करेन्सुः // किं

[_mvu_3.195_] वदेसि त्वं गंगपाल हीनजात्यो समानो राजानं ब्रह्मदत्तं नामेन समुदाचरसि // अथ खलु राजा ब्रह्मदत्तो तां अमात्यपारिषद्यां गाथाये अध्यभाषे //

मा किंचि वदथ गंगपालं मुनिनां मौनपदेहि शिक्षमाणं / एषो अतरे तम् अर्णवोघं यं तरित्वान भवन्ति वीतरागाः //

तपसा प्रजहन्ति पापकानि तपसा विधमन्ति अन्धकारं / भावन् तपसा अभिभूय गंगपालो नामेन अभिभाषे ब्रह्मदत्तं //

सांदृष्टिकं पश्यथ यावद् एवं क्षान्तिसौरभ्यस्यिदं विपाकं / लोकस्य सदेवकस्य प्रव्रज्यं देवान मनुजान वन्दनीयं //

अथ खलु राजा ब्रह्मदत्तो सार्धं अमात्यपारिषद्येहि तेषां ऋषीणां पादौ शिरसा वन्दित्वा एकान्ते निषीदे //

___तस्य दानि गंगपालस्य या गृहस्थभूतस्य भार्या अभूषि सापि पतिव्रता अन्यं पुरुषं मनसापि न प्रार्थयति // तस्या गंगपालो जिज्ञासनार्थं दिव्येन रूपेण निर्मितेन सुवर्णभाजनम् आदाय उपसंक्रम्य प्रलोभयति इमं सौवर्णं भाजनं गृह्णाहि मया सार्धं परिचारेहि // सा दानि आह // न हि पतिव्रता अहन् ति //

[_mvu_3.196_] सो दानि देवपुत्रो तं दिवसं प्रत्याचिक्षितो अपरं दिवसं रूप्यभाजनम् आदाय उपसंक्रान्तो इमं रूप्यभाजनं प्रतिगृह्णाहि मया च सार्धं परिचारेहि // सा दानि आह // न हि पतिव्रता अहन् ति // तं पि दिवसं प्रत्याचिक्षितो अपरं दिवसं कांसभाजनम् आदाय उपसंक्रमे इमं कांसभाजनं प्रतिगृह्णाहि मयापि सार्धं प्रविचारेहि // अथ खलु सा नारी तं देवपुत्रं गाथाये ध्यभाषे //

नारी नरो जिह्मये वारणेन उत्कर्षये यत्र करोति च्छन्दं / विप्रत्यनीकं खलु देवतानां प्रत्याख्यातो अल्पतरेण एष //

अथ खलु देवपुत्रो तां नारीं गाथाये प्रत्यभाषे //

आयुं च वर्णं च मनुष्यलोके प्रहीयते मनुजानां सुगात्री / तेनैव वर्णेन धनं पि अर्ज्यं परिहीयसे जीर्णतरासि अद्य //

भगवान् आह // स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन उपको नाम ऋषि अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं स उपको नाम तदा ऋषि अभू // नान्यः स ब्रह्मदत्तराजा / एष शुद्धोदनस् तदा ब्रह्मदत्तो काशिराजा अभूषि // नान्यो भिक्षवस् तदा गंगपालो नाम नापितो

[_mvu_3.197_] ऋषिप्रव्रजितो भूद् एष उपालिस् तदापि एतस्य हीनजात्यस्य मम आगम्य सराजिकाय परिषाय पादा वन्दिता एतरहिं पि एतस्य हीनजात्यस्य ममागम्य सराजिकाय परिषाय पादा वन्दिता //

_____समाप्तं उपालिगंगपालानां जातकं //

___भिक्षू भगवन्तम् आहंसुः // पश्य भगवन् कथं भगवता प्रव्रजितेन महान्तो जनकायो अनुप्रव्रजितो // भगवान् आह // न भिक्षवो एतरहिम् एव मया प्रव्रजन्तेन महाजनकायो अनुप्रव्रजितो // भिक्षू आहंसुः // अन्यदापि भगवं // भगवान् आह // अन्यदापि भिक्षवो //

___भूतपूर्वं भिक्षवो अतीमध्वाने राजा दिशांपती नाम अभूषि महागोविन्दीयं सूत्रं विस्तरेण व्याकरोति //

___भग्वान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थम् अभिसंभावयित्वा राजगृहे विहरति गृद्धकूटे पर्वते शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो विस्तरेण कर्तव्यं निदानं याव चेतोवशिप्राप्ता च बुद्धा भगवन्तो येहि येहि विहारेहि आकांक्षन्ति तेहि तेहि विहारेहि विहरन्ति // अथ खलु पंचशिखो गन्धर्वपुत्रो अभिक्रान्तवर्णो अभिक्रान्तकायो रात्रीयं केवलकल्पं गृद्धकूटं पर्वतं वर्णेन ओभासयित्वा येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि एकम् अन्तस्थितो भगवन्तम् एतद् उवाच // आरोचेम् अहं भदन्त

[_mvu_3.198_] भगवतो प्रतिवेदेम् अहं भदन्त भगवतो यं मया त्रयस्त्रिंशानां देवानां शक्रस्य च देवानाम् इन्द्रस्य महाब्रह्मणो च सुधर्मायां देवसभायां सन्निषण्णानां संमुखाच् छ्रुतं संमुखात् प्रतिगृहीतं भाषमाणानां // एवम् उक्ते पंचशिखं गंधर्वपुत्रं भगवान् एतद् उवाच // आरोचेहि मे त्वं पंचशिख प्रतिवेदेहि मे त्वं पंचशिख यं त्वया त्रयस्त्रिंशानां देवानां शक्रस्य च देवानाम् इन्द्रस्य महाब्रह्मणो च संमुखाच् छ्रुतं संमुखात् प्रतिगृहीतं भाषमाणानां // एवम् उक्ते पंचशिखो गंधर्वपुत्रो भगवंतम् एतद् अवोचत्* // एकम् इदं भगवन् समयं त्रयस्त्रिंशा देवा शक्रो च देवानाम् इन्द्रो महाब्रह्मा च सुधर्मायां देवसभायां सन्निषण्णा अभून्सुः संनिपतिता केनचिद् एव देवानां करिणीयेन // तत्र च भगवं एके देवपुत्रा पश्चाद् उपपन्ना समाना अन्यां पूर्वोपपन्नं देवपुत्रां दिव्येहि पंचहि स्थानेहि अभिभवन्ति आयुषापि बलेनापि यशेनापि श्रियापि परिवारेणापि // एके देवपुत्रा एवम् आहंसुः // इमं तावत्* मारिष पश्यथ पश्चाद् उपपन्ना अन्यां पूर्वोपपन्नां देवपुत्रां दिव्येहि पंचहि स्थानेहि अभिभवन्ति आयुषापि बलेनापि यशेनापि श्रियापि परिवारेणापि // तत्र भगवं एके देवपुत्रा एवम् आहन्सुः // एते खलु मारिष भगवतो श्रावका भवन्ति / ब्रह्मचर्यं चरित्वा कायस्य भेदात् परं मरणात् सुगतिं स्वर्गं त्रायस्त्रिंशे देवनिकाये उपपन्नास् ते / एते पश्चाद् उपपन्ना अन्यां पूर्वोपपन्नां देवपुत्रां दिव्येहि पंचहि स्थानेहि अतीव शोभन्ति आयुषापि [वर्णेनापि] बलेनापि यशेनापि श्रियापि परिवारेणापि // तत्र भगवन्* एकेत्रादेवपु एवम् आहन्सुः // अहो पुन मारिष चत्वारस् तथागता अर्हन्तः सम्यक्संबुद्धा लोके

[_mvu_3.199_] उत्पद्येन्सुः सर्धं च देशयेन्सुः हितम् अस्याद् देवानां हितं मनुष्याणां हायेन्सुः आसुरा काया दिव्या काया अभिवर्धयेन्सुः // तत्र च भगवं एके देवपुत्रा एवम् आहन्सुः // दुल्लभो मारिष चतुर्णा तथागतानाम् अर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावः / अहो पुनर् मार्ष त्रयस् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्येन्सुः धर्मं च देशयेन्सुः हितम् अस्याद् देवानां हितं मनुष्याणां च हायेन्सुः आसुरा काया दिव्या काया अभिवर्धयेन्सुः // तत्र भगवन्* एके देवपुत्रा एवम् आहन्सुः // दुल्लभो मारिष त्रयाणां तथागतानां अर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावः / अहो पुनर् मार्ष दुवे तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्येन्सुः धर्मं च देशयेन्सुः हितम् एव स्याद् देवानां हितं मनुष्याणां हायेन्सुः आसुरा काया दिव्या काया अभिवर्धेन्सुः // एवम् उक्ते भगवं शक्रो देवानाम् इन्द्रस् त्रयस्त्रिंशकां देवान् आमन्त्रयति // अस्थानं खल्व् एतं मारिष अनवकाशं यद् एककाले द्वौ तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्येन्सुः धर्मं देशयेन्सुः // एवम् उक्ते त्रयस्त्रिंशा देवाः तुष्टा हृष्टा अभून्सुः आत्तमनाः प्रमुदिता प्रीतिसौमनस्यजाताः //

___अथ खलु भगवं शक्रो देवानाम् इन्द्रस् त्रायस्त्रिंशकां देवां तुष्टां हृष्टां आत्तमनां प्रमुदितां प्रीतिसौमनस्यजातां विदित्वा आमन्त्रयति // सचेद् धि यूयं मारिष तस्य

[_mvu_3.200_] भगवतो र्हतः सम्यक्संबुद्धस्य अष्टाव् आश्चर्याद्भुतां धर्मां श्रुणेथ अथ यूयं पि भवेथ भूयस्या मात्रया तुष्टा हृष्टा आत्तमना प्रमुदिता प्रीतिसौमनस्यजाता // एवम् उक्ते भगवंस् त्रायस्त्रिंशाश् च देवास् तं शक्रं देवानाम् इन्द्रम् एतद् अवोचत्* // तेन हि मारिष कौशिक प्रतिभातु ते तस्य भगवतो अर्हतः सम्यक्संबुद्धस्याष्टाव् आश्चर्याद्भुतां धर्मान् उदाहर // अथ खलु शक्रो देवानाम् इन्द्रो भगवतो अष्टाव् आश्चर्याद्भुतां धर्मां भाषे // यदा खलु मारिष भगवान् अर्हं सम्यक्संबुद्धो लोके उत्पन्नो हायन्ति आसुराः काया दिव्या काया अभिवर्धन्ति // एवं च बहुजनहिताय प्रतिपन्नं पुनर् मारिष शास्तारं लोके उत्पन्नं नैवातीतं वा समनुपश्यामि नैतरहिं वा प्रत्युत्पन्नं अन्यत्रैव भगवता अर्हता सम्यक्संबुद्धेन // स्वाख्यातो खलु पुनर् मारिष तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मविनयः सांदृष्टिक आकालिको एहिपश्यिकः औपनयिकः प्रत्यात्मवेदयितव्यः विज्ञैः यम् इदं मदनिर्मदनं पिपासाप्रतिविनयो आलयसमुद्घातो धर्मोपच्छेदो तृष्णाक्षयो विरागो निरोधो निर्वाणं एवं स्वाख्यातं धर्मविनयं / न पुनः मारिष शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन // लाभी खलु पुनर् मारिष भगवां अर्हं सम्यक्संबुद्धो श्रावकानां शैक्षाणां प्रतिपदं अर्हतां च अकोप्यधर्माणां // तेषाम् अपि च स भगवां अर्हं सम्यक्संबुद्धो प्रनुद्य आरण्यकानि शय्यासनान्य् अध्यावसति प्रान्तानि विविक्तानि गतजनपदानि मनुष्यरहसेय्यकानि प्रतिसंलयनसारोप्यानि एको गणाद् व्यपकृष्टो

[_mvu_3.201_] पकृष्टो एको नाम एकनामनामताम् अनुयुक्तो / एवम् एकनामताम् अनुयुक्तं पुनर् मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन // लाभी खलु पुनर् मार्षा भगवां अर्हा सम्यक्संबुद्धो प्रणीतानां खादनीयभोजनीयानां ऋजुरसानां प्रत्यग्ररसानां / तेषाम् अपि च स भगवान् अर्हं सम्यक्संबुद्धो आहारम् आहरेति / अनध्यवसितो अनधिमूर्च्छितो आदीनवदर्शावी निःसरणप्रज्ञः कामेषु विगतमदो आहारम् आहरति / एवं विगतमदं आहारम् आहरन्तं च पुनः मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन // अभिज्ञाय खलु पुनर् मार्षा स भगवान् अर्हा सम्यक्संबुद्धो श्रावकाणां धर्मं देशयति नानभिज्ञाय / एवम् अभिज्ञाय / एवम् अभिज्ञाय धर्मदेशनाप्रतिपदासंपन्नं च पुनः मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन // तीर्णविचिकित्सः खलु पुनर् मार्षा स भगवान् अर्हा सम्यक्संबुद्धो विगतकथंकथो वैशारद्यप्राप्तः कुशलेषु धर्मेषु / एवं तीर्णविचिकित्सं च पुनः मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवता तथागतेनार्हता सम्यक्संबुद्धेन // संस्यन्दति खलु पुनः मार्षा तस्य भगवतः अर्हतः संयक्संबुद्धस्य निर्वाणं निर्वाणगामिनी च प्रतिपदा सय्यथापि नाम मार्षा गंगोदकं च जमुनोदकं च संस्यन्दमानं संस्यन्दति महासमुद्रे एवम् एव मार्षा तस्य भगवतः सम्यक्संबुद्धस्य संस्यन्दति निर्वाणं च निर्वाणगामिनी च प्रतिपदा / एवं सुदेशितसुप्रज्ञप्तनिर्वाणगामिनीप्रतिपदासंपन्नं

[_mvu_3.202_] च पुनर् मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवता तथागतेनार्हता सम्यक्संबुद्धेन //

___एवम् उक्ते भगवं भूयस् त्रायस्त्रिंशा देवा भूयस्या मात्रया तुष्टहृष्टा आत्तमना प्रमुदिताः प्रीतिसौमनस्यजाताः शक्रं देवानाम् इन्द्रम् आमन्त्रयन्ति // तेन हि मार्षा कौशिक पुनर् एवं प्रतिभातु ते तस्य भगवतो ऽर्हतः सम्यक्संबुद्धस्य पुनर् एवाष्टाव् आश्चर्याद्भुतां धर्मां // अभ्युदाहरे खलु शक्रो देवानाम् इन्द्रो भगवतः पुनर् एवाष्टाव् आश्चर्याद्भुतां धर्मां // यदा खलु पुनर् मार्षा स भगवान् अर्हा सम्यक्संबुद्धो लोके उत्पन्नः हायन्ति आसुरा काया दिव्या काया अभिवर्धन्ति / एवं बहुजनहिताय प्रतिपन्नं एवं बहुजनसुखाय प्रतिपन्नं च पुनर् मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवता अर्हता सम्यक्संबुद्धेन / एवं पेयालं यावत् संस्यन्दति खलु पुनर् मार्षा तस्य भगवतः सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा / सय्यथापि नाम मार्षा गंगोदकं च जमुनोदकं च संस्यन्दमानं संस्यन्दति महासमुद्रे एवम् एव मार्षा तस्य भगवतो र्हतो सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा / एवं सुदेशितसुप्रज्ञप्तनिर्वाणधर्मदेशनाप्रतिपन्नं च पुनर् मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन // एवम् उक्ते त्रयस्त्रिंशा देवा भूयस्या मात्रया हृष्टा आत्तमनाः प्रमुदिताः प्रीतिसौमनस्यजाताः //

___अथ खलु भगवन् महाब्रह्मा त्रयस्त्रिंशां देवां भूयस्या मात्रया हृष्टां आत्तमनां प्रीतिसौमनस्यजातां विदित्वा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्* // तेन हि मार्ष कौशिक

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.