Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महावस्तु-अवादन
- Thông tin
- GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
रोचमानानि पुष्पाणि देवाः संप्रकिरे तदा / चारिकां प्रतिपन्नस्य चरन्ते लोकनायके //
महारोचमानानि पुष्पाणि देवाः संप्रकिरे तदा / चारिकां प्रतिपन्नस्य चरन्ते लोकनायके //
मंजूषकाणि पुष्पाणि देवास् संप्रकिरे तदा / चारिकां प्रतिपन्नस्य चरन्ते लोकनायके //
महामंजूषपुष्पाणि देवा संप्रकिरे तदा / चारिकां प्रतिपन्नस्य चरन्ते लोकनायके //
भीष्माणि च पुष्पाणि देवास् संप्रकिरे तदा / चारिकां चरमाणस्य चरन्ते लोकनायके //
महाभीष्माणि च पुष्पाणि देवास् संप्रकिरे तदा / चारिकाञ् चरमाणस्य चरन्ते लोकनायके //
समन्तगंधानि पुष्पाणि देवस् संप्रकिरे तदा / चारिकां चरमाणस्य चरन्ते लोकनायके //
महासमन्तगंधानि पुष्पाणि देवाः संप्रकिरे तदा / चारिकां चरमाणस्य चरन्ते लोकनायके //
परिजातानि पुष्पाणि देवाः संप्रकिरे तदा / चारिकां चरमाणस्य चरन्ते लोकनायके //
सुवर्णमयानि पुष्पाणि देवाः संप्रकिरे तदा / चारिकां चरमाणस्य चरन्ते लोकनायके //
रूप्ययानि पुष्पाणि देवाः संप्रकिरे तदा /
[_mvu_3.100_] चारिकां चरमाणस्य चरन्ते लोकनायके //
रत्नमयानि पुष्पाणि देवाः संप्रकिरे तदा / चारिकां चरमाणस्य चरन्ते लोकनायके //
चन्दनस्य च चूर्णानि देवाः संप्रकिरे तदा / चारिकां चरमाणस्य चरन्ते लोकनायके //
अगुरुस्य च चूर्णानि देवाः संप्रकिरे तदा / चारिकां चरमाणस्य चरन्ते लोकनायके //
केशरस्य च चूर्णानि देवाः संप्रकिरे तदा / चारिकां चरमाणस्य चरन्ते लोकनायके //
तमालपत्रचूर्णानि देवास् संप्रकिरे तदा / चारिकां चरमाणस्य चरन्ते लोकनायके //
दिव्या च रत्नचूर्णानि देवास् संप्रकिरे तदा / चारिकां चरमाणस्य चरन्ते लोकनायके //
तूर्यकोटिसहस्राणि संप्रवाद्येन्सु अम्बरे / चारिकां चरमाणस्य चरन्ते लोकनायके //
अन्तरीक्षस्मिं भेरीयो संप्रवाद्येन्सु अघट्टिता / चारिकां चरमाणस्य चरन्ते लोकनायके //
चैलक्षेपाणि करेन्सु अन्तरीक्षे स्थिता मरू / चारिकां चरमाणस्य चरन्ते लोकनायके //
नागराजा सुपर्णा च अभिक्रान्ता च मानुषाः / चारिकां चरमाणस्य चरन्ते लोकनायके //
इमे पि बहुवो यक्षा वर्णवन्तो यशस्विनः / चारिकाम् अनुबन्धेन्सु चरन्ते लोकनायके //
इमे पि बहवो देवाः वर्णवन्तो यशस्विनः /
[_mvu_3.101_] चारिकाम् अनुबन्धेन्सु चरन्ते लोकनायके //
त्रिसाहस्रा विभू देवा वर्णवन्तो यशस्विनः / चारिकाम् अनुबन्धेन्सु चरन्ते लोकनायके //
षडाशीति सहस्राणि ब्राह्मणानां समागता / चारिकाम् अनुबन्धेन्सु चरन्ते लोकनायके //
षडाशीति सहस्राणि गृहपतिनां समागता / चारिकाम् अनुबन्धेन्सु चरन्ते लोकनायके //
न तत्र क्षुधा पिपासा नापि च हानि वर्णिता / चारिकां चरमाणस्य चरन्ते लोकनायके //
न तत्र शीतम् उष्णं वा दंशा वा मसकानि वा / चारिकां चरमाणस्य चरन्ते लोकनायके //
सो चारिकां चरित्वान विनेत्वा च बहूं जनां / उपागमे लोकनाथो शाक्यानां कपिलाह्वयं //
___अथ भगवां न्यग्रोधारामे विहरति महता भिक्षुसंघेन सार्धं अष्टादशभिर् भिक्षुशतेहि // अश्रोषी राजा शुद्धोदनो भगवान् कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धम् अष्टादशभिर् भिक्षुशतेहि येन कोशलानां नगरं तद् अनुसारे तद् अनुप्राप्तो तत्रैव विहरति न्यग्रोधारामे // ते दानि सर्वे कपिलवास्तव्याः शाक्या शाक्ययिन्यश् च भगवतो दर्शनकामाः स्वकस्वकानि युग्ययानानि योजयन्ति / भगवतो दर्शनाय गमिष्यामः // अश्रोषीत् खलु राजा शुद्धोदनो कपिलवास्तव्याः शाक्या शाक्ययिन्यश् च स्वकस्वकानि युग्ययानानि योजापयन्ति / न्यग्रोधारामं
[_mvu_3.102_] गमिष्यामः भगवन्तं दर्शनाय // तेन दानि कपिलवस्तुस्मिं घोषणा कारापिता // न केनचित् प्रथमं भगवतो उपसंक्रमितव्यं / सर्वेहि मया सार्धं न्यग्रोधारामं गन्तव्यं भगवन्तं दर्शनाय //
___अथ खलु राजा शुद्धोदनो सार्धं सर्वकेनान्तःपुरेण यशोधराप्रमुखेन सार्धं कुमारामात्येहि च सार्धं शाक्येहि सपरिवारेहि सार्धं धनुग्रहरथाश्वारोहेहि सार्धं वणिजसार्थवाहेहि सार्धं श्रेष्ठिप्रमुखेहि निगमेहि महता राजानुभावेन महता राजर्द्धीये कपिलवस्तुतो नगरातो निर्यासि भगवन्तं दर्शनाय // राजा शुद्धोदनो कपिलवस्तुतो चतुर्घोटेन अश्वरथेन निर्धावति शाकियमण्डलपरिवृतो न्यग्रोधारामं भगवन्तं दर्शनाय / भिक्षुसंघो च कपिलवस्तुनगरं पिण्डाय प्रविशति / राज्ञा शुद्धोदनेन भिक्षुसंघो दृष्टो // सो दानि अमात्यानां पृच्छति // भो भणे अमात्या किं इमान् एदृशा परिव्राजका // अमात्या आहन्सुः // देव कुमारस्य एषो परिवारो // सो दानि तां कृशशरीरां भिक्षू ऋषिप्रव्रजितां उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपशारिपुत्रमौद्गल्यायना च सपरिवारा तपतपितशरीरां मुण्डा पात्रपाणीं दृष्ट्वा परिदीनमुखवर्णो संवृत्तो // मम पुत्रो यदि न प्रव्रजिष्यति राजा भविष्यति चक्रवर्ती चातुर्द्वीपो विजितावी धार्मिको धर्मराजा सप्तरत्नसमन्वागतो राजसहस्रपरिवृतो मेदिनीम् अध्यावसिष्यत्* // इमम् एदृशं परिवारं निवर्तेथ अहं न तं इच्छामि द्रष्टुं // ते दानि भिक्षू अमात्येहि वुच्चन्ति // राजा वो न द्रष्टुकामो निवर्तेथ // ते दानि निवर्तित्वा न्यग्रोधारामं गताः // न मो भगवन् राजा शुद्धोदनो इच्छति द्रष्टुं / अस्माकं च दृष्ट्वा प्रतिनिवर्तितो // भगवान् आह // इमहिं एव सर्वस्य भिक्षुसंघस्य आहारं भविष्यति // उरुविल्वाकाश्यपो भगवन्तम्
[_mvu_3.103_] आमन्त्रयति // गच्छामि भगवन् राजानं शुद्धोदनं निवर्तेमि // भगवान् नाधिवासेति // नदीकाश्यपो पि गयाकाश्यपो पि उपसेनो पि सर्वे ते महर्द्धिका भिक्षू भगवन्तं याचेन्ति // गच्छाम भगवन् राजानं शुद्धोदनं प्रसादेमः यथा भगवन्तम् उपसंक्रमेय // भगवान् तेषां पि नाधिवासेति //
___अथ खल्व् आयुष्मतो महामौद्गल्यायनस्य एतद् अभूषि // कं भगवान् आकांक्षति भिक्षुं यो राजानं शुद्धोदनम् अभिप्रसादेया // अन्द्राक्षीत्* महामौद्गल्यायनो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन भगवतो चित्तं कालोदायिस्मिं भिक्षुस्मिं प्रतिष्ठितं / कालोदायी भिक्षु राजानं शुद्धोदनम् अभिप्रसादयिष्यति // दृष्ट्वा च पुनः येनायुष्मां कालोदायी तेनोपसंक्रमित्वा आयुष्मतो कालोदायिस्य एतद् उवाच // लाभा ते आयुष्मं उदायि सुलब्धा लाभा यस्य ते शास्ता आकांक्षति उदायी भिक्षु राजानं शुद्धोदनं अभिप्रसादयिष्यति / अस्ति अन्ये स्थविरस्थविरा भिक्षू याचन्ते न लभन्ति / त्वं गच्छ आयुष्मन्* उदायि राजानं शुद्धोदनं अभिप्रसादेहि // एवम् उक्ते आयुष्मां कालोदायी आयुष्मन्तं महामौद्गल्यायनम् एतद् उवाच // दुरासदा आयुष्मं महामौद्गल्यायन राजानः क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ता // सय्यथापि नामायुष्मं महामौद्गल्यायन समिद्धो महाग्निस्कन्धो पुरुषस्य दुरासदो भवति उपसंक्रमणाय एवम् एवायुष्मं महामौद्गल्यायन राजानो क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ताः दुरासदा उपसंक्रमणाय // सय्यथापि नामायुष्मं महामौद्गल्यायन कुञ्जरो षष्टिहायनो दुरासदो भवति उपसंक्रमितुं एवम् एवायुष्मं महामौद्गल्यायन क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ताः दुरासदा उपसंक्रमणाय // सय्यथापि नामायुष्मं महामौद्गल्यायन सिंहो मृगराजो दाठी बली केशरी मृगाधिपतिर्
[_mvu_3.104_] दुरासदो भवति पुरुषस्योपसंक्रमणाय एवम् एवायुष्मं महामौद्गल्यायन राजानः क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्याप्राप्ताः पुरुषसिंहा दुरासदा भवन्ति उपसंक्रमणाय // सय्यथापि नामायुष्मं महामौद्गल्यायन शार्दूलो ओलीनकायो गुरुदर्शनो दुरासदो भवति पुरुषस्य उपसंक्रमणाय एवम् एवायुष्मन् महामौद्गल्यायन क्षत्रिया राजानो मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ताः पुरुषशार्दूला दुरासदा भवन्ति उपसंक्रमणाय // अथ खलु भगवान् आयुष्मन्तं कालोदायिं गाथाय अध्यभाषे //
शृणु मम उदायिभद्रा परमकुशलप्रसादानां त्वम् अग्रो / शाक्यकुलनन्दिजननं राजवरं लघु प्रसादेहि //
न हि अन्यो कोचि भिक्षु समर्थो राज्ञो प्रसादयितुं चित्तं / नान्यत्र त्वया उदायि सभागचरितेन भगवतो //
भूतपूर्वं उदायि अतीतम् अध्वानम् अभू भूमिपती / नामेन सत्यवर्धनो विघुष्टशब्दो धरणिपालो //
धार्मिको धर्मराजा संपूजितः प्राणकोटिनयुतेहि / धर्मेण इमां वसुमतिं समुद्रपर्यंतां अनुशासे //
तस्य च अभूषि राज्ञो पुत्रो दर्शावी पूर्वबुद्धानां / नामेन मतिसारो गुणगणपरिचारितमती च //
कामेषु दोषदर्शी अनर्थिको सर्वकामभोगेषु / ओरुप्तकुशलमूलो गृहे न रमति विवेकरतो //
[_mvu_3.105_] तं अवच सत्यवर्धनो पुत्र भुंजाहि प्रणीतकामगुणं / वैश्रवणभवनसदृशे अमरभवनसन्निभे वेश्मे //
तं अवच मतिसारो दशांगुलिं प्रणामयित्वा / नैतानि धरणिपाल धनानि पण्डितस्य भाव्यानि //
अबुधजनसमर्थितानि सरागवशानि हि तानि विद्यन्ति / . . . . . . . . . . . . . . . . . . . . . किं कारणं अनन्धो अन्धस्य वशेन उत्पथं गृह्णे / वुह्यंतस्य वेलगतो कथं स्पृहेया अत्राणस्य //
बद्धस्य कथं मुक्तो वचनेन काराध्वम् अभिक्रमेय / विषमस्थस्य समागमं कथं स्पृहेया नरो विज्ञो //
प्रतिभासि मे नरपति अन्धो वुह्यन्तो चिरनष्टो च / वुह्यसि कामोघेन अहं च कामां जुगुप्सामि //
तस्य च बलवन्तस्य पितुनो आज्ञाये स मतिसारो / प्रव्रजे जहित्व राज्यं कुमारो कामां च अनपेक्षो //
उरगो वा जीर्णत्वचं पक्वखेटपिण्डम् इव त्यजे राज्यं / सागरान्तमहिं सर्वां सो कामेषु दोषदर्शावी //
अतिक्रम्य कामधातुं मतिसारो ब्रह्मविहारम् आचरे / . . . . . . . कुमारो ब्रह्मत्वगमनाये //
प्रव्रजितस्मिं कुमारे अनुव्रतो स्य पुरोहितकुमारो / नामेन सोमदत्तो अनुप्रव्रजेसि मतिसारं //
[_mvu_3.106_] प्रव्रजितस्मिं कुमारे पिता अकासि तस्मिं अप्रसादं / गत्वान सोमदत्तो प्रसादयेसि धरणीपालं //
तत् किं मन्यसि उदायि मतिसारो अन्यः तेन कालेन / तेन समयेन हम् एव अनर्थिको कामभोगेहि //
तत् किं मन्यसे उदायि अन्यो सो सत्यवर्धनो आसि / अन्यम् एव सो नरपतिः शुद्धोदनो सो तदा आसि //
तत् किं मन्यसे उदायि अन्यो सो अनुव्रतो सोमदत्तो / तुवम् एव सो अभूषि प्रसादये सत्यमहं नाम //
तस्माद् दानीं उदायि राजं शुद्धोदनं प्रसादेहि / भेष्यति महासमुदयो प्रसन्ने तस्मिं महीपाले //
भेष्यति अनन्तफलस्य उपचयः मरुमानुषाणां कुलपुत्र / राजवरप्रसादेन नरवरं त्वरितं प्रसादेहि //
संप्रति शाक्याधिपती अतिमानहतो वितर्कमथितो व / तिष्ठति सविषण्णमती गिरितटपतितो यथ नागो //
ओजहरेण बलवन्तो पुरुषो यथ राक्षसेन परिक्षिप्तो / नैवात्मानं न प्रजा जानति परम् एव भूमिपतिः //
ऐश्वर्यहानिम् अनुस्मरन्तो ऐश्वर्यं च विचिन्तेन्तो / मम कासि अप्रसादं गत्वा त्वं लहु प्रसादेहि //
अथ खलु राजा शुद्धोदनो कपिलवस्तुस्य नगरद्वारातो प्रतिनिवर्तित्वा सर्वेण
[_mvu_3.107_] शाकियमण्डलेन सार्धं स्वकायां दर्शनशालायां प्रत्यस्थासि // तत्र राजा शुद्धोदनो शाक्या शाक्यायिन्यश् च आमन्त्रेसि // महन्तातो पि ऐश्वर्याधिपत्या प्रभ्रंशित्वा कुमारो प्रव्रजितो / यदि न कुमारो प्रव्रजितो अभविष्य सो राजा भवे चक्रवर्ती चातुर्द्वीपो विजितावी धार्मिको धर्मराजा सप्तरत्नसमन्वागतो तस्य इमानि सप्त रत्नानि भवेन्सुः / तद्यथा / चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नं एवं सप्तरत्नं / पूरं चास्य पुत्रसहस्रं भवेत्* शूराणां वीराणां वरांगरूपिणां परसैन्यप्रमर्दकानां / सो इमानि चत्वारि महाद्वीपा सागरगिरिपर्यन्ता अखिलान् अकण्टकां अदण्डेनाशस्त्रेण अनुत्पीडेन धर्मेण वाभिनिर्जित्वा अध्यावसिष्य राजान सहस्रेषु च परिवृतो भवेय तेषाम् अस्माकं हस्तोक्तं चक्रवर्तिराज्यं अभविष्यत् ते वयं कुमारेण प्रव्रजितेन महन्तातो ऐश्वर्याधिपत्यातो भ्रंशिताः //
___अथ खल्व् आयुष्मान् उदायी न्यग्रोधारामातो वैहायसम् अभ्युद्गम्य राज्ञो शुद्धोदनस्य शाक्यियमण्डलपरिवृतस्य पुरतो तालमात्रं वैहायसम् अन्तरीक्षे अस्थासि // अद्राक्षीद् राजा शुद्धोदनः आयुष्मन्तं उदायिं तालमात्रं वैहायसम् अन्तरीक्षे तिष्ठन्तं दृष्ट्वा च पुनः हृष्टो तुष्टो सौमनस्यजातो उत्थायासनातो एकान्सम् उत्तरासंगं कृत्वा येनायुष्मां उडायि तेनांजलिं प्रणामेत्वा आयुष्मन्तम् उदायिं गाथाये अध्यभाषे //
कुतस् त्वम् आगच्छसि रक्तचीवर केन त्वम् अर्थेन इहानुप्राप्तो / किं वात्र आकांक्षसि त्वं उडायि सुदुल्लभं सिद्धव्रतान दर्शनं // {सुदुर्लभं}
[_mvu_3.108_] लाभस् ते राष्ट्राधिपते शिरीमतो यस्य तव पुत्र नराणम् उत्तमः / तेजेन ओभासति सर्वलोकं सहस्ररस्मीव उदेत्व मेदिनीं //
एवं दानि स्थविरेण उदायिना तालमात्रं वैहायसम् अन्तरीक्षे स्थितेन बहूनि बुद्धमाहात्म्यानि परिकीर्तितानि तानि च राजा शुद्धोदनो श्रुत्वा प्रीतो संवृत्तो // सो दानि शाक्या शाक्यायिन्यश् च आमन्त्रयति // सय्यथापि नाम वासिष्ठाहो सूर्यस्य अभ्युदेन्तस्य एतं पूर्वंगमम् एतन् निमित्तं यद् इदं अरुणो उदायी नो सर्वसंशयच्छेत्ता सुगतस्य श्रावको //
बुद्धस्य पुत्रो परमार्थदर्शी उपागतो शाक्याकुलं तदन्तः / प्रसादये सत्यमहं इत्य् एवं . . . . . . . . . . . . आशाय कृष्यते क्षेत्रं बीजम् आशाय वप्यते / आशाय वाणिजा यान्ति समुद्रं धनहारका / यो यस्य आशाय तिष्ठामि सा मे आशा समृध्यतु //
पुनर्पुनः क्षिप्र वपन्ति बीजं पुनर्पुनः वर्षति देवराजः / पुनर्पुनः वर्धति बीजग्रामं पुनर्पुनर् लाभं लभन्ति कर्षिका //
[_mvu_3.109_] पुनःपुनर् याचनका उपेन्ति पुनर्पुनः सत्पुरुषा ददन्ति / पुनर्पुनः सत्पुरुषा पि दत्त्वा पुनःपुनर् स्वर्गम् उपेन्ति स्थानं //
दुल्लभो पुरुषाजन्यो न सो सर्वत्र जायते / यत्र सो जायते वीरः तं कुलं सुखम् एधति //
वीरो हि वै सप्त युगां पुनाति यस्मिं कुले जायति भूरिप्रज्ञो / पितेव शाक्या नयति देवदेवो त्वयापि जातो मुनि सत्यनामः //
शुद्धोदनो नाम पिता जिनस्य बुद्धस्य माया किल नाम माता / या बोधिसत्वं परिहार्य कुक्षिणा कायस्य भेदात् स्वर्गेषु मोदति //
सा मोदति कामगुणेहि पञ्चहि इष्टेहि कान्तेहि बुद्धस्य माता / अतिरिव . . . . . . पुण्यकामा परिवारिता अप्सरसां गणेहि //
पुत्रस्य बुद्धस्य असह्यतायिनो अंगीरसस्याप्रतिमस्य तायिनो / प्रीतः पिता हर्षित एष शाक्य धर्मेण त्वं गौतम आर्यको सि //
राजा आह //
यस्यान्तिके प्रव्रजितो सि भिक्षु श्रद्धाय सो चरति ब्रह्मचर्यं /
[_mvu_3.110_] न सो भीतो नापि भयं उपेति एको पि सो रमति वृक्षमूले //
उदायी आह //
यस्यान्तिके प्रव्रजितो स्मि राज श्रद्धाय सो चरति ब्रह्मचर्यं / न सो भीतो नापि भयं उपेति एको पि सो रमति वृक्षमूले //
एकं वरन् तं मुनिम् अप्रमत्तं निन्दाप्रशंसासु अवेपमानं / सिंहो व शब्देषु असन्त्रसन्तं वातं व जालस्मिं असज्जमानं / नेतारं अन्येषु अनन्यनेयं भीरं जिनं शाक्य कथं वदेसि //
यं वेदयसि अनोपमप्रज्ञं मह्यं पुत्रं तस्य पिता ति ब्रूमि / पुत्रस्य तस्य मह्य पुत्रो भोसि भुक्त्वान भिक्षु हर पिण्डपात्रं //
एष्याम वयं अपि दर्शनाय बुद्धं अनतिवरं वितीर्णकांक्षं / लोके उदपासि स सत्वसारो पुत्रं मह्यं यथा वदेसि भिक्षु //
भुक्त्वान भोजनं यावदर्थं शुचिं प्रणीतं रसस्वादुपेतं /
[_mvu_3.111_] सो प्रक्रमे पिण्डपात्रं ग्रहेत्वा उपसंक्रमे येन जिनो अनेयो //
सो तं प्रदेशं उपसंक्रमित्वा उपनामये पिण्डपात्रं जिनस्य / वन्दित्व पादां अवचि तथागतं यास्यन्ति ते ज्ञातयो दर्शनाय //
एदृशां गुणां श्रुणित्व भूमिपालो त्रिखुत्तम् उदानयति सुलब्धा लभा / मह्यं अनन्ता यं त्रिसाहस्राय लोकधातूये जिने जीवमाने भविष्यति संगमो नायकेन / संपुष्पिता द्रुमलता कुसुमावकीर्णा आसेविता च द्विजसंघनिनादितेन / एवं पि मह्यं हृदयं प्रीतिसंकुसुमितं श्रुत्वान पुत्रं मम सर्वगुणोपपेतं //
अथ खलु राजा शुद्धोदनः अन्यतरं राजामात्यम् आमन्त्रयति // भो भणे अमात्य सर्वार्थसिद्धो कुमारो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धित्वा प्रवृत्तप्रवरधर्मचक्रो कपिलवस्तूपवनेषु अनुप्राप्तो / ततः पुत्रस्य सर्वार्थसिद्धस्य कुमारस्याभ्युद्गमनं करिष्यामि // ततो कपिलवस्तुनगरे घोषणां कारापेहि / सर्वेहि शाक्येहि ब्राह्मणगृहपतिकेहि सर्वेहि च गान्धर्विकेहि सर्वेहि च श्रेणीहि सर्वेहि च शिल्पायतनेहि मया सार्धं सर्वार्थसिद्धस्य प्रत्युद्गमनं कर्तव्यं // साधु महाराजेति // सो राजामात्यो शुद्धोदनस्य प्रतिश्रुत्वा क्षिप्रम् एव कपिलवस्तुनगरे चत्वरशृंगाटक-अन्तरापणमुखेषु
[_mvu_3.112_] घोषणां कारयति // भगवन्तो सर्वार्थसिद्धकुमारो अनुत्तरां सम्यक्संबोधिम भिसंबुद्धित्वा कपिलवस्तूपवनेषु अनुप्राप्तो / ततो सर्वभवन्तेहि राज्ञा शुद्धोदनेन सार्धं भगवतो प्रत्युद्गमनाय गन्तव्यं //
शाक्यानां वंशगतो भेष्यति यो स्य त्राणं सिद्धाभिप्रायो तृषभावविरक्तचित्तो / क्षीणाश्रवो विगतरागो समंतचक्षुः द्रक्ष्यामथ द्वादशवर्षे अनन्तप्रज्ञं //
आनंदभेरिरवं श्रुत्वा शाक्यराष्त्रे संगीतिं देवगणवादितं लुम्बिनीये / येन प्रतिज्ञा कृता बुद्धो भविष्यं लोके सो एष्यति भूतवचनो विगतान्धकारो //
प्रक्रान्तो सप्तपदं यो इह लुंबिनीये बोध्यंगसप्तरतनानि अबुध्ये येन / यो सिंहनादं नदते अहं लोके ज्येष्ठो सो एष्यति परवादं प्रभंजमानो //
येनेदं अपकृतं गर्भशय्यं अशेषं उच्छोषितो च से पुनः भवहेतुः सर्वं / उच्छोषिता तृषलता च दुःखस्य मूलं सो एष्यति बंधप्रमोक्षं करोन्तो लोके //
ते दानि कपिलवस्तुतो शाक्या शाक्यायिन्यश् च तं घोषं श्रुत्वा क्षिप्रम् एव राजकुलद्वारे
[_mvu_3.113_] सन्निपतिता सकुमारामात्या भटबलाग्रा पुरोहितप्रमुखा ब्राह्मणाः श्रेष्ठिप्रमुखो वनिग्ग्रामो सर्वे ये कपिलवास्तव्या गन्धर्विका / तद्यथा चक्रिकवैतालिकनटनर्तक-ऋल्लमल्लपाणिस्वरिका शोभिका लंघका कुम्भतूणिका वेलम्बका द्विस्त्वलभाणका पंचवटुका गायनका भाण्डविका हास्यकारका भेरीशंखमृदंगपटहिका तूणवपणववेणवल्लकी-एकदशीवीणावादा च बहुवाद्यका च सर्वे राजकुलद्वारे सन्निपतेन्सुः / सर्वे च कपिलवास्तव्या श्रेणियो / तद्यथा सौवर्णिका हैरण्यिका प्रावारिका शंखिका दन्तकारका मणिकारका प्रस्तारिका गन्धिका कोशाविका तैलिका घृतकुण्डिका गौलिका वारिका कर्पासिका दध्यिका पूपिका खण्डकारका मोदककारका कण्डुका समितकारका सक्तुकारका फलवाणिजा मूलवाणीजा चूर्णकुट्टगन्धतैलिका आग्रीवनीया आविद्धका गुडपाचिकाः खण्डपाचकाः शुण्ठिकाः सीधुकारकाः शर्करवाणिजा / एते चान्ये च बहुव्यवहारिका सर्वे राजकुले सन्निपतेन्सुः / सर्वे च कपिलवास्तव्या शिल्पायतना / तस्यथा लोहकारका ताम्रकुट्टा सुवर्णकारका तद्धुकारका प्रध्वोपका रोषिणो त्रपुकारका शीशपिच्चटकारा जन्तुकारका मालाकारा पुरिमकारका कुम्भकारा चर्मकारा ऊर्णवायका वरूथतन्त्रवायका देवतातन्त्रवाया चैलधोवका रजका शुचिका तन्त्रवाया चित्रकारका वर्धकिरूपकारकाः कालपात्रिकाः पेललकाः पुस्तकारकाः पुस्तकर्मकारका नापिता कल्पिका छेदका लेपका स्थपतिसूत्रधारका उप्तकोष्ठकारका कूपखनका मृत्तिकावाहका काष्ठवाणिजा तृणवाणिजा स्तंबवाणिजा वंशवाणिजा नाविका ओलुम्पिका सुवर्णधोवका मौष्टिका / एते चान्ये च उच्चावचा जनता हीनोत्कृष्टमध्यमा
[_mvu_3.114_] सर्वे राजकुलद्वारे सन्निपतेन्सुः // एवं दानि राजा शुद्धोदनो इमेन च जनकायेन अन्तःपुरेण सार्धं कुमारामात्येहि परिवृतो धनुकरथिकहस्त्यारोहेहि सार्धं चर्तुर्घोटरथम् अभिरुहित्वा श्रेष्ठिप्रमुखो निगमो सार्थवाहप्रमुखो वाणिजग्रामो पुरोहितप्रमुखा ब्राह्मणा अष्टादश श्रेणीयो पुरस्कृतो परिवृतो महता राज-ऋद्धीये महता राजानुभावेन महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगपटहशंखसंनिनादेन कपिलवस्तुतो नगरातो निर्यात्वा येन न्यग्रोधारामस् तेन प्रस्थितो भगवतो दर्शनाय // भगवतो दानि एवं भवति // अभिमानिनो शाक्याः यदि सानं स्वके आसने निषण्णको प्रतिसंमोदयिष्यामि अथ सानं भविष्यति चित्तस्यान्यथात्वं कथं हि नाम यो कुमारो चक्रवर्तिराज्यम् अपहाय पव्रजितो अनुत्तरां सम्यक्संबोधिम् अभिसंबुधित्वा धर्मम् अधिगतो धर्मस्वामी आत्मानं प्रतिजानाति सो पितरं च वृद्धतरकां च गुरुस्थानीयां च न प्रत्युत्थिहति / नास्ति च सो सत्वो वा सत्वकायो वा यस्य तथागते प्रत्युपस्थिहन्ते न सप्तधा मूर्ध्नं स्फलेया / यन् नूनाहं पौरुषमात्रं वैहायसम् अन्तरीक्षे दीर्घं चंक्रमं चंक्रमेयं //
___अथ खलु भगवां पितु राज्ञो शुद्धोदनस्य शाकियमण्डलस्य च मानातिमानं ज्ञात्वा आगमनं विदित्वा पौरुषमात्रं वैहायसम् अन्तरीक्षे दीर्घं चंक्रमं चंक्रमति अस्पृशन्तो पादतलेहि भूमियं // अथ खलु राजा शुद्धोदनो दूरतो एवं न्यग्रोधारामे भगवन्तं पश्यति पौरुषमात्रं वैहायसम् अन्तरीक्षे दीर्घं चंक्रम्म् चंक्रमन्तं अस्पृशन्तं पादतलेहि भूमियं दृष्ट्वा च पुनः आश्चर्याद्भुतसंहृष्टरोमकूपजातो आश्चर्यं यादृशं कुमारेण धर्मो अभिगमितो यथा सर्वलोके द्विपदानम् उत्तमो // अथ खलु राजा शुद्धोदनो शाक्यो शाकियानाम् आमन्त्रयति // पश्यथ भगवन्तो येन कुमारेण संकल्पो
[_mvu_3.115_] चिन्तितो प्रार्थयता द्रष्टुं सर्वज्ञं सर्वधर्मेष्व् अभिज्ञातसंकल्पं सर्वसिद्धं नरेन्द्रं सो पश्यतु सिद्धार्थं सर्वसिद्धिसंप्राप्तं //
दृष्ट्वान पुत्रं परिपूर्णकायं सुलक्षितं लक्षविचित्रितांगं / पञ्चममासे यथ एव चन्द्रो परिवृतो लक्षणतारकेहि //
दृष्ट्वा सुरूपं असमानकायं तम् आयताक्षं शिरिय ज्वलमानं / . . . . . . . . . . . अथ खलु राजा शुद्धोदनो यावत्तकं यानस्य भूमि तावत्तकं यानेन यात्वा यानातो प्रत्योरुह्य स्व-अन्तःपुरेण सार्धं शाकियमण्डलेन च पदसा येव न्यग्रोधारामं प्रविष्टो येन भगवान्स् तेनोपसंक्रमित्वा मूर्ध्ना भगवतः पादौ वन्दित्वा गाथाम् अध्यभाषि //
इमं तृतीयं तव भूरिप्रज्ञ पादान्ते वन्दामि समन्तचक्षुः / यं च ते नैमित्तिका व्याकरेन्सुः यं जम्बुच्छाया न जहे इमं च //
अथ खलु भगवां न्यग्रोधारामे तालमात्रं वैहायसम् अन्तरीक्षे स्थित्वा विविधविचित्राणि यमकप्रातिहार्याणि करोति / हेष्ठिमं कायं प्रज्वलति उपरिमातो कायातो शीतस्य वारिस्य पंच धाराशताति श्रवन्ति / उपरिमे काये प्रज्वलिते हेष्ठिमातो कायातो शीतस्य वारिस्य पंच धाराशतानि श्रवन्ति // अथ खलु भगवान् ऋषभवर्णम् ऋद्धिये
[_mvu_3.116_] अभिनिर्मिणित्वा चलत्ककुभं वर्णरूपसमुपेतो पुरस्तिमायां दिशायां अन्तरहितो पश्चिमायां दिशायां प्रादुर्भवति / पश्चिमायां दिशायां अन्तरहितः पुरस्तिमायां दिशायां प्रादुर्भवति / उत्तरस्यां दिशायां अन्तरहितो दक्षिणायां दिशायां प्रादुर्भवति / दक्षिणायां दिशायाम् अन्तर्हितो उत्तरायां दिशायां प्रादुर्भवति // एवं दानि महाप्रातिहार्यं विस्तरेण कर्तव्यं // तत्र दानि बहूनि प्राणिकोटीशतसहस्राणि भगवतो एदृशं ऋद्धिप्रातिहार्यन् दृष्ट्वा प्रमुदिता प्रीतिसौमनस्यजाता संवृत्ता आश्चर्याद्भुतप्राप्ता हक्कारसहस्राणि प्रवर्तेन्ति // महाप्रजापतीय दानि गौतमीय यदा भगवान् अभिनिष्क्रान्तो तस्या रुण्णेन शोकेन च अक्षीणि पटलेहि व संछन्ना अन्धा संजाता / तहिं च न्यग्रोधारामे भगवतो विविधानि विचित्राणि यमकप्रातिहार्याणि करेन्तस्य हक्कारसहस्राणि वर्तन्ति महाप्रजापती गौतमी यशोधराये पृच्छति / किं एते हक्कारसहस्राणि कुर्वन्ति // यशोधरा आह // एषो भगवां वैहायसम् अन्तरीक्षे विविधानि विचित्राणि यमकप्रातहार्याणि करोति नापि त्वं पश्यसि // यशोधरा आह // आगमेहि अहन् तथा करिष्यामि यथा त्वं पश्यसि // ताये दानि यशोधराये यत्र भगवतो प्रातिहार्याणि करोन्तस्य कायातो पंच धाराशतानि श्रवन्ति ततः उदकांजलिं पूरेत्वा महाप्रजापतीये गौतमीय अक्षीणि आक्षालितानि तानि च पटलानि बुद्धानुभावेन भिन्नानि / तस्या दानि यथापौराणा शुद्धा विमला दृष्टि संजाता //
___अथ खलु भगवां वैहायसम् अन्तरीक्षे विविधानि विचित्राणि यमकप्रातिहार्याणि कृत्वा बहूनि प्राणिसहस्राणि ऋद्धिप्रातिहार्याणि दर्शयित्वा आर्यधर्मेषु प्रतिष्ठापयित्वा प्रज्ञप्त एव आसने निषीदे // अथ खलु राजा शुद्धोदनो शाक्या च भगवतः
[_mvu_3.117_] पादौ शिरसा वन्दित्वा भगवन्तं साधु च सुष्ठु च प्रतिसंमोदेत्वा एकमन्ते निषीदेन्सुः / महाप्रजापती गौतमी च यशोधरा च सार्धं च अंतःपुरेण भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रतिसम्मोदेत्वा एकमन्ते निषीदेन्सुः / अथ खलु राजा शुद्धोदनो वेगजातो भगवतो हिताहितं अपृच्छे //
तं देववर्णं सुकुमाररूपं उद्यानभूमिं अनुचंक्रमन्तं / पिता पुत्रं प्रांजलिको उपागमे इन्द्रं व देवा त्रिदशा व शक्रं //
इदं तृतीयं तव भूरिप्रज्ञ पादान् ते वन्दामि समन्तचक्षुः / यं च ते नैमित्तिका व्याकरेन्सुः जंबुच्छाया न विजहे इमं च //
ते देववर्णा उभये समागता बुद्धो च बुद्धस्य पिता च राजा / उपशोभति सालवने निषण्णो चन्द्रो यथा अभ्रगणा प्रमुक्तो //
अथाप्रमेयस्य पितुर् अभूषि चिरस्य दृष्ट्वान प्रियं मनापं / पुत्रं स्वकं प्राणसमं निषण्णं हिताहितं पृच्छति वेगजातो //
पुरा तव कम्बलपादुका व सुचित्रा सूक्ष्मास्तरसंस्थितासु /
[_mvu_3.118_] अभिरुह्य तां चंक्रमसे च वीर श्वेतस्मिं छत्त्रस्मिं धरीयमाने / सो दानि ताम्रमृदुजालिनीहि समन्तनेमीहि सहस्रेहि / कुशकण्टकशर्करम् आक्रमन्तो कच्चित् ते पादौ न रुजन्ति वीर //
भगवान् आह //
सर्वाभिभू सर्वविदू हम् अस्मि सर्वेषु धर्मेषु अनोपलिप्तः / सर्वं जहे तृष्णक्षया विमुक्तो न मादृशो संप्रजनेति वेदना //
राजा आह //
पुरा तव लोहितचन्दनेन शशिस्य रक्तोपनिभेन काले / मनोज्ञगन्धेन सुशीतलेन स्नपका विलिंपेन्सु ते स्नापयित्वा //
सो दानि ग्रीष्मासु खरासु रात्रिषु वनाद् वनं ईर्यसि चंक्रमन्तो / ओदातशीतेन सुखेन वारिणा को दानि ते स्नापयते किलन्तं //
भगवान् आह //
शुद्धा नदी गौतम शीलतीर्था अनाविला सद्भिः सदा प्रशस्ता /
[_mvu_3.119_] यस्मिं ह्रदे देवगणेहि स्नातो ओगाढगात्रो प्रतरामि पारं //
धर्मो ह्रदो गौतम शीलतीर्थो अनाविलो सद्भिः सदा प्रशस्तो / यस्मिं ह्रदे देवगणेहि स्नातो पृथिवीं प्रवाहेति स्वपुण्यगन्धां //
राजा आह //
यदा तुवं काशिकवस्त्रधारी पदुमुत्पलचम्पकवासितानि / शुद्धानि वस्त्राणि निवासयित्वा सो शोभसि शाकियमण्डलस्मिं शक्रो व साहस्रगतान मध्ये //
सो दानि शाणानि च पट्टकानि च रक्तानि वस्त्राणि द्रुमत्वचानि / धारेसि तं च अजुगुप्समानो इदं पि ते आश्चरियं भदन्त //
भगवान् आह //
न चीवरे शयने भोजने वा अनुध्यापिता भोन्ति जिना नरेन्द्र / लब्ध्वा मनापं अथवापि अप्रियं उपेक्षका भोन्ति जिना प्रजानका //
राजा आह //
पुरा तव अजन्यरथा विचित्रा सुवर्णकंसरुचिरा महार्हा /
[_mvu_3.120_] श्वेतं च च्छत्त्रं मणिखड्गचामरं ध्रुवं ग्रहेन्सु ते दिशं प्रयायतः //
पुरा तव वातजवो उदग्रो हयोत्तमो कण्ठको शीघ्रवेगो / आजानेयो कञ्चनजालच्छन्नो अभीक्ष्ण सो वहति येन कामं //
यो युग्ययानेहि तुवं उपेतो रथेहि अश्वेहि च कुंजरेहि च / राष्ट्रेण राष्ट्रं अनुचंक्रमन्तो कच्चिन् न श्रान्तो सि तद् अद्य ब्रूहि //
भगवान् आह //
रथो मे ऋद्धिपादो स्वचित्तवाहनो धृती च प्रज्ञा च स्मृती च सारथी / सम्यक्प्रधाना चतुरो मे अश्वा समं प्रयातो हं पदं सुसंस्कृतं //
राजा आह //
पुरा तुवं रूपियभाजनेषु सुवर्णपात्रेषु च भुंजियान / शुचिं प्रणीतरसकं च भोजनं राजानुभावेन उपस्थिहेन्सु //
सो दानि लोणं च अलोणकं च लूखं अलूखं अरसं सरसं च /
[_mvu_3.121_] परिभुंजसि तं च जुगुप्समानो इदं पि ते आश्चरियं भदन्त //
भगवान् आह //
ये चापि बुद्धा पुरिमा अतीता अनागता यो पि चहं अनेयो / लूखं अलूखं अरसं सरसं च दमार्थिको लोकहिताय भुंजति //
राजा आह //
पुरा तुवं गोष्ठिकतूलिकासु अजिनास्तृते क्षोमसुखोपधाने / सुवर्णपादे शयने महान्ते त्वं मोदसे मुक्तपुष्पावकीर्णे //
सो दानि दुर्गाय खराय भूमिये तृणानि पत्राणि च संस्तरित्वा / त्वं मोदसे . . . . . सत्वसारो कच्चित् ते गात्राणि रुजन्ति धीर //
भगवान् आह //
नास्मद्विधा शाक्य दुःखं स्वपन्ति सर्वे च मे शोकज्वरा प्रहीणा / सो हं सदा निर्ज्वरथो विशोको जग्राम्य् अहं सर्वभूतानुकम्पी //
[_mvu_3.122_] राजा आह //
पुरा तुवं गौतम स्वके अगारे अन्तःपुरे देवविमानकल्पे / प्रदीपखद्योतगणाभिकाशे कूटागारे पिथितवातपाने //
विचित्रमाल्याभरणाथ नारिथो अलंकृता अप्सरसन्निकाशा / उपस्थिता किंकरणीया उत्सुका मुखं उदीक्षन्ति किम् आर्य आह //
भगवान् आह //
अद्यापि मे शाक्य स्वके विहारे देवा च ब्रह्मा च प्रभास्वरा च / चित्तं प्य् एषां मह्य वशेन वर्तति यहिं च इच्छामि तहिं थपेमि //
राजा आह //
भेरीमृदंगतुरियाभिगीतो पणिस्वराख्यानविदूहि तत्वं / स शोभसि शाकियमण्डलस्मिं शक्रो व साहस्रगतान मध्ये //
भगवान् आह //
सूत्रान्ते वैय्याकरणाभिगीतो विद्याविमुक्तिप्रतिबोधनो हं /
[_mvu_3.123_] सोभाम्य् अहं भिक्षुसंघमध्ये ब्रह्मा व साहस्रगतान मध्ये //
राजा आह //
पुरा तुवं भीम स्वके अगारे अन्तःपुरे देवविमानकल्पे / रक्षन्ति ते वर्मधरा मनुष्या सुसञ्चिताः खड्गडृढा प्रहारिणो //
सो दानि एको विहरे अरण्ये उलूकभेरण्डकसंनिनादे / अनेकव्यालाचरितासु रात्रिषु क्वचित्* न भीतो सि तद् अद्य ब्रूहि //
(भगवान् आह // ) सर्वे पि चे यक्षगणा समागता चण्डा पि हस्ती गिरिदुर्गचारी / न मादृशे रोमहर्षं जनेयु भयं प्रहायाभयम् अस्मि प्राप्तः //
एको चरामि मुनि अप्रमत्तो निन्दाप्रशंसासु अवेपमानो / सिंहो व शब्देषु असन्त्रसन्तो वातं व जालेषु असज्यमानं / नेतारम् अन्येषु अनन्यनेयं भीरुं जिनं शाक्य कथं वदेसि //
[_mvu_3.124_] राजा आह //
पृथिवी च ते विजिता सर्वकल्पा पुत्राण ते पूरसहस्रम् अस्य / रत्नानि च सप्त परित्यजित्वा श्रामण्यम् एवाभिगतो सि वीरा //
भगवान् आह //
पृथिवी च मे विजिता सर्वकल्पा पुत्राण मे पूरसहस्रम् अस्ति / रत्नानि च अष्ट इमानि सन्ति एतादृशं रत्नम् अन्यं न अस्ति //
तं वीतरागं सुसमाहितेन्द्रियं सम्यक्प्रमुक्तं अखिलं अनश्रवं / पुत्रं पिता प्रांजलिको उपागमे देशेहि मे मार्गं मनुष्यहिताये //
तम् एनं ज्ञानेन फरित्व शास्ता शुद्धोदनं पितरं एतद् अब्रवीत्* //
अभीक्ष्णं सो लोचय भिक्षुदर्शनं मा प्रमाद्यि भेष्यति तुह्यं धर्मो //
अथाप्रमेयस्य पितु अभूषि संवर्णितं तायिनो भिक्षुदर्शनं / समनन्तरं सत्पुरुषो भजन्तो अथोत्तरीधर्मचक्षुं विशोधये //
एतादृशो आसि तदा समागमो
[_mvu_3.125_] पितुश् च पुत्रस्य च हर्षणीयो / तन् तादृशं सुगतम् अनुस्मरन्तो निरामिषां को न लभेय प्रीतिं //
_____पितापुत्रसमागमो समाप्तो //
भिक्षू भगव्न्तम् आहंसुः // पश्य भगवं कथं आयुष्मता उदायिना अयं राजा शुद्धोदनो अभिप्रसादितो // भगवान् आह // न हि भिक्षवो एतरहिम् एव एतेन उदायिना एषो राजा शुद्धोदनो अभिप्रसादितो अन्यदापि एष एतेन उदायिना राजा शुद्धोदनो अभिप्रसादितो // भिक्षू आहन्सुः // अन्यदापि भगवं // भगवान् आह // अन्यदापि भिक्षवः //
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसीये कशिजनपदे राजा ब्रह्मदत्तो नाम राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महाबलवाहनो / तस्य तं नगरं वाराणसी काशिजनपदं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च बहुजनमनुष्यं च सुखितमनुष्यं च प्रशान्तडिम्बडमरं सुनिगृहीततस्करं व्यवहारसंपन्नं // तत्र सुपात्रो नाम काकराजा प्रतिवसति अशीतिसहस्रपरिवारो /// तस्य दानि काकराज्ञो सुपार्श्वा नाम काकभार्या / तस्या काकीये राजभोजनेन दोहलको / सा तस्य सुपात्रस्य काकराज्ञो तं दोहलं आचिक्षति // सो आह // अहं आनापयिष्यं राजभोजनं भुंजाहीति // सो दानि काकराजा अमात्यम् आह // सुपार्श्वाये राजभोजनेन अभिप्रायो आणापेहि काकानां यं राज्ञो ब्रह्मदत्तस्य महानसातो राजभोजनम् आहरिष्यन्ति // सो अमात्यो आह // स्वामि आनयिष्यामि राजभोजनं पि // सो दानि आमात्यो तेषां काकानाम् आणापेति / गच्छथ राज्ञो ब्रह्मदत्तस्य [_mvu_3.126_] महानसातो राजभोजनम् आनेथ सुपात्रस्य काकराज्ञो भार्या परिभुंजिष्यति // ते काका आहन्सुः // राजकुलं इष्वस्त्रशिक्षितैः रक्षीयति / परिसमन्तेन राजकुलस्य पक्षी न शक्नोति अतिक्रमितुं ततो न शक्याम वयं राज्ञो ब्रह्मदत्तस्य महानसातो राजभोजनम् आनयितुं // अपरे पि आणाप्यन्ति न च उत्सहन्ति / अशीतिहि काकसहस्रेहि न च कोचिद् उत्सहति राज्ञो ब्रह्मदत्तस्य महानसातो राजभोजनम् आनेतुं मा तत्र गता कांडेन वा गुडिकाये वा हन्येम // तस्य दानि काकराज्ञो अमात्यस्य एतद् अभूषि //
अहं सुपात्रस्य काकराज्ञो अशीतिनां काकसहस्राणां अमात्यो यदि च अहं न शक्नोमि एतं सुपात्रस्य काकराज्ञो आणत्तिकं कर्तुं न पुरुषकारकं भवति अस्माकं गच्छामि स्वकं राज्ञो सुपात्रस्य निवेदितुं // महाराज अत्र स्वकं महानसातो राजभोजनं आनेमि यदि हन्यामि यष्टं भवतु एकशरीरेण न पुनः सुपात्रस्य काकराज्ञो भार्याये भोजनं नानेमि // सो दानि तेषां राजपुरुषाणां इष्वस्त्रशिक्षितानां प्य् आलुप्तचित्तानां नाज्ञातो / ततः राज्ञो ब्रह्मदत्तस्य महानसातो नानाप्रकारं राजभोजनं प्रत्यग्रं वर्णरसोपेतं तुण्डेनादायापगच्छति // दिवसे दिवसे पुनर्पुनः हरति //
___तेहि तेहि सूपेहि राज्ञो ब्रह्मदत्तस्य निवेदितुं // अत्र महानसे काको अपराध्यति राजभोजनम् उच्छिष्ठीकरोति विट्टालेति विध्वंसेति वयं कर्मे प्रशृता तेहि कर्मेहि उत्क्षिप्ता स्म निवारयितुं // राज्ञा अमात्या आणत्ता // एवं महानसं जालेन पिधापेथ यथ सो काको न महानसे शक्येय अपराध्यितुं //
मनसा देवानां वचसा पार्थिवानां नचिरेणाढ्यानां कर्मणा दरिद्राणाम् इति //
[_mvu_3.127_] राज्ञो ब्रह्मदत्तस्य वचनमात्रेण सर्वन्तं महानसं जालेन अपिहितं // सो काको तत्र महानसे न शक्नोति ओपतितुं नापि शक्नोति अपराध्यितुं // सो पि तर्केति कथं अहं अतो राजभोजनं हरिष्यन्ति // तस्य काकस्य एतद् अभूषि // यन् नूनाहं एतं पन्थं रक्षेयं येन पथेन महानसातो राज्ञो भक्तं अल्लीपीयति // यतः पन्थातो तं पश्यति राज्ञो अल्लीपीयन्तं ओदनं वा व्यञ्जनं वा मान्सप्रकाराणि वा खज्जकं वा तिलकृतं वा अन्यं वा कंचिद् भक्ष्यं ततः तण्डेनादाय गच्छति // राज्ञा आणत्तं सर्वेषाम् एतेषां परिवेषकानां वर्षवराणां च भोजनभाजनानां पिधानानि देथ // ते दानि परिवेषका तं भोजनं पिधानेहि अपिहित्वा महानसातो राज्ञो अल्लीयन्ति // ततो सो काको न भूयो शक्नोति हर्तुं // तस्य दानि काकस्य एतद् अभूषि // कथम् अहं शक्येयं काकराज्ञो भार्याये भूयो राजभोजनं हर्तुं // सो दानि यं राजा ब्रह्मदत्तो चेटीनां हस्ते अर्पयन्तो देवीनां कबलानि प्रेषति ततश् चेटीनां हस्तातो हरति // राज्ञा ब्रह्मदत्तेन श्रुतं / अतः देवीनां कबलेहि प्रवेशीयन्तेहि सो काको चेटीनां हस्तातो भोजनं हरति // राज्ञा आणत्तं // सर्वासां चेटीनां कबलानि प्रवेशयन्तानां अपिधानानि देथ // तत्र च राज्ञो ब्रह्मदत्तस्य गुरुकं अमर्षं संजातं // अहो यादृशो एषो काकः धृष्टो मुखरो प्रगल्भो च साहसिको च धनुहस्तेहि न शक्यति रक्षितुं अन्तन् दृरष्ट्वा ओपतति // राज्ञा आणत्तं // यो मे एतं काकं जीवन्तं गृहीत्वा अल्लीपेय तस्य विपुलं अभिच्छादनं ददेयं // सर्वस्य परिवारस्य आणत्तं एवं राजा ब्रह्मदत्तो जल्पति //
[_mvu_3.128_]___अपरा दानि चेटी राज्ञो ब्रह्मदत्तस्य अर्पयतो स्वकाये देवीये कबलं आदाय वस्त्रेहि अपिहित्वा गच्छति / सा दानि तेन काकेन दृष्टा / तस्य एतद् अभूषि / कथं अतो चेटीय हस्तातो भोजनं हरेयं / यन् नूनाहं अस्या चेटीये नासाग्रे लग्नेयं ततः सा चेटी त्रस्ता इमं भोजनं उज्झिष्यति ततो अहं यं तं भोजनं गृह्य गमिष्यामि // सो दानि येनाभूद् दासी ओपतित्वा ताये चेटीये नासे लग्नो / तत्र नासे व्रणो क्षतो / चेटीये भीताये भोजनम् उज्झित्वा सो काको उभयेहि हस्तेहि गृहीतो // सा दानि चेटी काकम् आदाय नासाय रुधिरेण घरन्तेन राज्ञो ब्रह्मदत्तस्य उपसंक्रान्ता / अयं सो दृष्टकाकः गृहीतो // सो दानि राजा ब्रह्मदत्तो तस्या चेटीये प्रीतो संवृत्तो / शोभनं ते कृतं यं त्वया एषो काको गृहीतो // तेन दानि राज्ञा ब्रह्मदत्तेन ताये चेटीये विपुलो आच्छादो दिन्नो // सो च काको परिभाषियति / न शोभनं यं त्वं राजकुलं पि धर्षयसि // सो दानि काको राजानं ब्रह्मदत्तं गाथाये अध्यभाषे //
वाराणस्यां महाराज काकराजा निवासितो / अशीतिकाकसहस्रेहि सुपात्रो परिवारितो //
तस्य दोहलिनी भार्या सुपार्श्वा मान्सम् इच्छति / राज्ञो महानसे पक्वं प्रत्यग्रं राजभोजनं //
तस्याहं वचनं श्रुत्वा करन्तो अनुशासनीं / भर्तुर् अपचितिं कृत्वा नासाये अकरि व्रनं //
अथ खलु भिक्षवः राजा ब्रह्मदत्तो तस्य काकराजामात्यस्य प्रीतो संवृत्तो / इमस्य काकराजामात्यस्य तस्य काकराजस्य सकाशातो नैव ग्रामो न भोगो नापि
[_mvu_3.129_] च अन्या काचिद् वृत्तिः / स्वकेन तुण्डेन वृत्तिं पर्येषन्तो आत्मत्यागं तस्य काकराजस्य कार्यं करोति // अथ भिक्षवो राजा ब्रह्मदत्तो अमात्यपार्षद्यां गाथाये अध्यभाषे //
एतादृशो अरहति राजभोगं हि भुंजितुं / यथायं काकराजस्य प्रह्व आमरणाद् द्विजो //
तस्य दानि काकस्य राज्ञा ब्रह्मदत्तेन दैवसिकं राजभोजनं अनुज्ञातं / राजभोजनस्य प्रत्यग्रस्य नानाप्रकारस्य पूरं भोजनं कृत्वा तस्य काकस्य अर्थाये एकान्ते क्षिप्यति अतः तं दैवसिकं स्वयं च भुंजेसि काकराजस्य च हरेसि // परिवारस्य आणत्तं / न केनचिद् एतस्य काकस्य राजकुलं गच्छन्तस्य वा आगतस्य वा किंचिद् व्याघातं उत्पादयितव्यं //
___भगवान् आह // स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन सुपात्रो नाम काकराजा अभूषि / न खल्व् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं स काकराजो अभूषि // या काकराजस्य भार्या सुपार्श्वा नाम सा एषो यशोधरा अभूषि // यश् च काकराजस्य अशीतीनां काकसहस्राणाम् अमात्यो अभूषि एषो स कालोदायी स्थविरः // यो भूद् राजा ब्रह्मदत्तः स एष राजा शुद्धोदनो अभूषि // तदापि एषो एतेन प्रसादितो एतरहिं पि एष एतेन प्रसादितः //
_____काकजातकं समाप्तः //
भिक्षू भगवन्तम् आहन्सुः // पश्य भगवन् कथम् इयं महाप्रजापती भगवतो शोकेन अन्धा संजाता भगवन्तं चागम्य अनन्धा संजाता // भगवान् आह // न भिक्षवो एतरहिम् एव एषा महाप्रजापती मम शोकेन कारुण्येन च अन्धा संजाता मम एव
[_mvu_3.130_] चागम्य अनन्धा संजाता / अन्यदाप्य् एषा महाप्रजापती मम आगम्य अनन्धा संजाता // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवः //
___भूतपूर्वं भिक्षवः अतीतमध्वाने हिमवन्तपार्श्वे चण्डगिरिर् नाम पर्वतो तस्य दानि पार्श्वे महन्तो वनखण्डो वृक्षसहस्रेहि पुष्पफलोपेतेहि संछन्नो पद्मिनीहि च आश्रमेहि च उपेतो ऋषिगणानुचीर्णो प्रान्तो प्रविविक्तो // तत्र महान्तं हस्तियूथं प्रतिवसति षड्दन्तकुलं // तहिं आजनियो हस्तिपोतो जातो षड्दन्तो इन्द्रगोपकशीर्षो सप्तांगसुप्रतिष्ठितो कुमुदवर्णो / सो यदा संवर्धितो तदा मातां गुरुगौरवेण प्रेम्नेन च परिचरति / तस्या पूर्वं भोजनं पानीयं च दत्त्वा पश्चाद् आत्मना परिभुंजति कालेन च तां कालेन उद्धतशरीराया वनलताया परिमार्जति स्नापयति // एवं सो हस्तिपोतो सावहितं प्रसादेन प्रेम्नेन च गौरवेण च सर्वकालं जनेत्रिं परिचरति // सो दानि कदाचित् तां मातुं स्नापयित्वा परिविषित्वा आसितां ज्ञात्वा गजगणेन सार्धं चरन्तो वाह्येन निर्गतो // सो दानि मृगलुब्धकेहि मृगव्यं अण्वन्तेहि दृष्टो तेहि गत्वा काशिराज्ञो निवेदितं / देव अमुत्र वनखण्डे एदृशो गजपोतको प्रतिवसति प्रासादिको दर्शनीयो देवस्य योग्यो भवेय //
___अथ खलु भिक्षवः काशिराजा तेषां लुब्धकानां श्रुत्वा सबलवाहनो तं वनखण्डम् आगमे // तेन स हस्तिपोतो वनखण्डातो निगृह्य अपराहि करेणुहि परिवारितो वाराणसीं प्रवेशितो हस्तिशालायां च थावितो // तस्य दानि राज्ञो
[_mvu_3.131_] भवति / भद्रको मे अयं यानो भविष्यतीति // सो दानि सर्वसत्कारेहि सत्क्रियति स्वयं राजा तस्य भोजनं च पानीयं च ददाति / तस्य तं सर्वसत्कारं न प्रीणयति शोकेन तां मातरं अनुस्मरन्तस्य गम्भीरं च निश्वसति अश्रूणि च पातयति शुष्यति च मिलायति च // सो दानि राजा प्रेम्नानुगतो अंजलिं प्रगृह्णेत्वा तं गजपोतं पृच्छति // सर्वसत्कारेहि ते गजोत्तम सत्करोमि अथ च पुनस् त्वं शुष्यसि च मिलायसि च परिहायसि च वर्णरूपतो न च ते पश्यामि उदग्रम् आत्तमनं प्रहृष्टमुखवर्णं / देहि मे वाचं आख्याहि केन ते उपकरणेन वैकल्यं उपस्थापयिष्यामि प्रियो च मे त्वं गजोत्तम मनापो च आख्याहि मे केन त्वं परिहायसि भोजनं च पानीयं च न प्रतीच्छसि // सो दानि गजपोतो राज्ञा पृच्छीयमानो मानुषिकाये वाचाये आह // देव न मे केनचिद् वैकल्यं उपकरणेन नैवम् आहारेण मम कृत्यं मम माता तहिं वनखण्डे प्रतिवसति जीर्णा वृद्धा गतवया चक्षुर्विहीना दुर्बलकाया यदा विज्ञाप्राप्तो स्मि नाभिजानामि मातुर् पूर्वं अदत्त्वा भोजनं वा पानं वा स्वयं परिभुंजितुं / एष मे समादानो मम मरणं इहैव भविष्यति / न पुनर् अहं अदत्त्वा माताये स्वयं परिभुंजेयं भोजनं वा पानीयं वा // सो दानि काशीराजा धार्मिको च सकृपो च परानुग्रहप्रवृत्तो च / तस्य एतद् अभूषि / आश्चर्यम् इदं इमस्य हस्तिपोतस्य याव मातृज्ञो च धार्मिको च आजानेयो च यस्य अद्य एत्तकानि दिवसानि भोजनं अप्रतीच्छन्तस्य पानीयम् अपिबन्तस्य मातृशोकेन / एकत्येषु मनुष्येषु नैते गुणा सुलभरूपा ये इमस्य गजपोतस्य / नैतम् अस्माकं साधु न प्रतिरूपं यं वयं इमान् एवरूपा कल्याणसत्वा विहेठाम // सो दानि महामात्राणाम् आह // मुंचथ एतं हस्तिपोतं गच्छतु वनखण्डं यतो स्माभि आनीतो मातृवर्तको मातरे
[_mvu_3.132_] समागच्छतु मा इह अनाहारो मरिष्यति ततो वयं निरर्थका अधर्मेण संयुज्येम // सो दानि राजाणत्तीये तस्यैव वनखण्डस्य समीपे नेत्वा मुक्तो //
___सो दानि तं वनखण्डं गत्वा नैवाहारं करोति न पानीयं पिबति तां मातरं मार्गति // तस्य दानि सा माता शोकेन रुदमाना च तं पुत्रकं अपश्यन्ती अन्धीभूता // सो दानि गजपोतको तां मातरं अलभन्तो पर्वतशिखरम् अभिरुहित्वा कुंजररावां मुंचति / तस्य महान्तं कुंजररावं मुंचतो ताये मातरे तं स्वरं प्रत्यभिज्ञातं पुत्रस्य मे एषो स्वरो ति ताये पि महानिनादं मुक्तं // ततः तेन मातुस्वरो प्रत्यभिज्ञातो // सो दानि तस्या मातु मूले उपसंक्रमे // तस्य सा माता उदकह्रदस्य मूले आसति अन्धा परिभ्रमन्ती पुत्रशब्दं श्रुत्वा रेणुगुण्ठितशरीरा // सो दानि गजपोतको ततः ततो वनलतां सुकुमारां भुंजित्वा तां मातरं परिमार्जति रेणुं चास्या शरीरातो अपनेति / ततश् च उदकह्रदातो शुण्डं उदकस्य पूरेत्वा हृष्टो आत्तमनो प्रीतिसौमनस्यजातो तां मातां स्नापेति // सा दानि स्नाता च तानि च अक्षीणि धौतानि सर्वमलं म्रक्षितं अशुच्यपगतं चास्या परिशुद्धा दृष्टी संवृत्ता // सा दानि हस्तिनिका तं पुत्रकं पश्यित्वा प्रीतिसौमनस्यजाता पृच्छति / पुत्र कहिं सि गतो मम मेल्लित्वा अनाथाये दुर्बलचक्षुयेति // सो तस्या माताये तां प्रकृतिं विस्तरेण आचिक्षति यथा गृहीतो यथा च ओसृष्टो // सा तं पुत्रकं आह // एवं पुत्र आनन्दतु काशिराजा सपरिवारो यथा अद्य तव दृष्ट्वा अहं नन्दामि //
___स्यात् खलु भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन काशिराजा अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषो नन्दो मम
[_mvu_3.133_] पित्रियपुत्रो भ्राता सो काशिराजा अभूषि // यो गजपोतको अहम् एव तदा अभूषि // या गजपोतस्य माता अभूषि एषा सा महाप्रजापती गौतमी तदापि मम शोकेनान्धा संजाता मम एवागम्य अनन्धा संजाता / एतरहिं पि एषा महाप्रजापती गौतमी मम शोकेनान्धा संजाता मम येव चागम्य अनन्धा संजाता //
_____समाप्तं हस्तिनिकाजातकस्य परिकल्पं //
नीवरणं विजहित्वा शृणोथ एकाग्रमानसा सर्वे / यथ बोधिसत्वचर्या सुदुष्करा हर्षणीया च //
तिर्यग्योनिगतस्यापि गजस्य स्वमातरे सौहृदम् आसि / किं पुनः मनुष्यभूतो गुरुं पुरिचरेय तं विप्रं //
कामं पि बोधिसत्वा सर्वजगति वत्सला प्रकृतिस्निग्धा / अतिवत्सला तु गुरुषु यथा श्रुतं कीर्तयिष्यामि //
हिमवन्तपादपार्श्वे चण्डोग्रे चण्डपर्वते रम्ये / तापसकुल-आश्रमेहि क्वचित् क्वचि कृताभ्यलंकारे //
किन्नरकुंजरवानरवराहशार्दूलव्याघ्रगणचीर्णे / रुरुमहिषसरभचरिते वृषभचमरिशम्बराकीर्णे //
मोरशुकजीवजीवकचकोरकरविंकशकुनमिथुनेहि / समन्तं हि तं वनवरं शोभति मधुरं रवन्तेहि //
[_mvu_3.134_] शोभन्ति च क्वचिक्वचित् पद्मसरा राजहंसपरिपूर्णा / कलहंसलीलगलिता गजयूथविलोलिताश् च पुरे //
क्वचिद् भ्रमरमधुकरिभिश् चूर्णितकुसुमेहि पादपसमीपं / कृतसंस्तरा विचित्रा हरिणशकुनलीलिता स्थान्ति //
क्वचिद् वृद्धतापसेहि ध्यानरतिरतेहि निर्झरगतेहि / संशोभते वनवरं स्वाध्यायरतेहि च परेहि //
क्वचि दृष्टकुमारेहि दीर्घजटा-अजिनवल्कलधरेहि / संशोभते वनवरं विचित्रफलमूलहस्तेहि //
तस्मिं प्रवणे भिरामे परिहरति जनेत्रीं नेत्रप्रहीणां / जीर्णां दुर्बलगात्रां गजोत्तमो सर्वभावेन //
सो गजगणेन सार्धं रमन्तो अपनिर्गतो महद्दूरं / राजा च सह बलेन गजग्रहणकारणं प्राप्तो //
दृष्ट्वान तं गजवरं राज्ञः सूतो पि हर्षितो अवचि / गजवरो लक्षणुपपेतो गजोत्तमो पार्थिव यूथे //
गजगणगतं गजेन्द्रं तं दृष्ट्वा वाहनं उदारं तं / संगृह्णि काशिराजा वनात् पुरवरं निबन्धित्वा //
सो नैव पिबति पानं न च भुंजति श्वसति च सो भीक्ष्णं / तं अवच मधुरगिरया स हस्तिरत्नं पृथिवीपालो //
नागवर मा कृशो भव प्रतीच्छ भक्तं पिबाहि पानीयं / अभिरामयिष्यामि इध पुरोत्तमे खु शोचिष्ठाः //
[_mvu_3.135_] गजोत्तमो आह //
न खु शोचामि नरपते बन्धनम् उपरोधनं क्षुधपिपासां / इतो च मे दुःखतरं नरेश्वर तेन शोचामि //
राजा आह //
किन् तव इतो गजवर दुःखतरं दुःखतरं पुनर् अन्यं / येन ते न प्रतिभाति पानीयम् अशनं च आख्याहि //
गजपोतको आह //
माता मम गतवया जीर्णा अतिवत्सला नयनहीना / सा मया विना मरिष्यति नरेश्वर तेन शोचामि //
तस्याहं बिसमृणालं पूर्वं उपानयामि अनयनाये / भुंजामि पश्चात्मना साद्य अनसना ति शोचामि //
ग्रीष्मे परिदग्धगात्रा शीतलवनच्छादितोदकं चैवं / उपनामेमि स्नपेमि च साद्य अनाथ ति शोचामि //
संप्रति वने अनयना परिभ्रमति रेणुगुण्ठितशरीरा / हा पुत्रेति च वदति तद् अद्य दुःखतरम् आसाद्य //
श्रुत्वा गजेन्द्रवचनं मनुजेन्द्रो सुमधुरं सुकरुणं च / अश्रुपरिपूर्णवदनो नरवरो वारणम् अध्यभाषित //
एकत्येषु मनुष्येषु सुदुल्लभा एदृशा गुणा सम्यक्* / येन तव इमा गजवर हृदयस्मिं जायते पीडा //
मुंचथ लघु गजवरं चरतु वने गुरुजनं परिचरन्तो
[_mvu_3.136_] भवतु जननी आश्वस्ता नंदतु सह पुत्ररतनेन //
सा गजवरस्य माता दुःखार्दितशोकशल्यसंशीर्णा / गगणम् इव कालमेह्गो नादयति वनं परिचरन्ती //
भवतु जननी सवत्सा नन्दन्तु वनमृगा च वनदेवता / आख्याते नन्दतु मे अनयना माता रतनकेन //
इष्टं लुब्धेहि दन्तहेतोः व्याघ्रेहि रुधिरमान्सार्थं / नीतं व राजधानिं गजोत्तमं काशिम् आविक्षे //
वनदेवता भणन्ति गजोत्तमो प्रवरलक्षणसमंगी / तं गृह्णे काशिराजा वनात् पुरवरं निबन्धित्वा //
तं खु मरणं भविष्यति मह्यं अनाथाये नष्टनयनाये / सो पि च गजो मरिष्यति सुवत्सलो मह्यं शोकेन //
यो विचरे गिरिवरेषु वनेषु प्रवरेषु फुल्लशिखरेषु / स खु मरिष्यति नागो मम चोपवनं च शोचन्तो //
अथ तव न जातु गजवर जनेत्री त्वयि रोषिता न परिभ्रष्टा / प्रेम्नेन अनुचरित्थ तथ तुह्य विभोक्षणं भवतु //
अथ त्वय न जातु वीर अदत्त्व तव जननिये प्रथमभक्तं / फलमूलभोजनं वा तथ तुह्य विभोक्षणं भवतु //
अथ गजवरो त्वरितो मातरम् उपगम्य आलपति स्निग्धं / सुकुमारलताये च परिमार्जति रेणुपरिशुद्धां //
[_mvu_3.137_] बद्धो स्मि काशिराज्ञा पुरोत्तमे दारुणेहि पाशेहि / तव तु कृतेन अनयना मुक्तो पुन धर्मराजेन //
सा गजवरस्य घोषं श्रुत्वा स्पर्शं च तस्य उपलभ्य / प्रीतमनसा उदग्रा पुनः सनयना गजं लब्ध्वा //
हस्तिनिका आह //
एवं नन्दतु नन्दन्तो काशिराजा सबान्धवो / यथाहं अद्य नन्दामि पुत्रेण नयनेहि च //
एतं पुत्रं पूर्वं शैलवने मृगान्विते / सपुत्रा अद्य नेत्रेहि पश्यति वरकुंजरं //
पूर्वजातिम् अभिज्ञाय संबुद्धो वदतां वरो / जातकम् इदम् आख्यासि शास्ता भिक्षुणम् अन्तिके //
अहं गजवरो आसि माता सा आसि हस्तिनी / तेनाद्याप्य् अस्या पुत्रो हं गाडस्नेहा च गौतमी //
एयं दीर्घस्मिं संसारे स्नेहद्वेषेण दुःखिता / स्नेहद्वेषप्रहाणार्थं धर्मं चरथ निर्ममा //
_____हस्तिनीजातकं समाप्तं //
त्रिभिः प्रातिहार्यैर् बुद्धा भगवन्तो सत्वां विनयन्ति / तद्यथा ऋद्धिप्रातिहार्येण अनुशासनीप्रातिहार्येण धर्मदेशनाप्रातिहार्येण // भगवता इमेहि त्रिहि प्रातिहार्येहि
[_mvu_3.138_] न्यग्रोधारामे बहूनि प्राणिसहस्राणि आर्ये धर्मे विनीता // अथ खलु राहुश् चासुरेन्द्रो वेमचित्री च असुरेन्द्रो मुचिलिन्दो च असुरेन्द्रो षष्ठीहि असुरनयुतेहि सार्धं प्रभूतं गन्धमाल्यम् आदाय बहूनि असुरसहस्राणि च बहूनि च असुरकन्यासहस्राणि सर्वालंकारभूषितानि आमुक्तमणिकुण्डलानि महता असुरानुभावेन महता असुर-ऋद्धीये येन कपिलवस्तुन्यग्रोधारामस् तेनोपसंक्रमित्वा न्यग्रोधारामस्य उपरि वैहायसम् अन्तरीक्षे स्थित्वा भगवतो पूजासत्कारम् अकरेन्सुः / सर्वगन्धेहि सर्वमाल्येहि सर्वनृत्येहि सर्वगीतेहि सर्ववादितेहि सर्वतूर्यताडावचरेहि भगवन्तं सत्कृत्वा गुरुकृत्वा मानयित्वा पूजयित्वा अपचयित्वा अनुत्तराये सम्यक्संबोधये चित्तम् उत्पादेन्सुः / अहो पुनर् वयं पि भवेम अनागते अध्वाने तथागता अर्हन्तः सम्यक्संबुद्धा विद्याचरणसंपन्नाः सुगता लोकविदनुत्तरा पुरुषदम्यसारथः शास्तारो देवमनुष्याणां यथायं भगवान् एतर्हि एवं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागता भवेम अशीतिहि अनुव्यंजनेहि उपशोभितशरीरा अष्टादशहि आवेणिकेहि बुद्धधर्मेहि समन्वागता दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदा यथा भगवां एतरहिं एवञ् च अनुत्तरं धर्मचक्रं प्रवर्तेम यथापि भगवता एतरहि / एवं च मो देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथा व भगवतो एतरहि एवं च समग्रं श्रावकसंघं परिहरेम यथा भगवां एतरहिं / एवं तीर्णा तारयेम मुक्ता मोचेम आश्वस्ता आश्वासेम परिनिर्वृता परिनिर्वापेम / एवम् एतं भवेय बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्य अर्थाय हिताय सुखाय देवानां च मनुष्याणां च // अथ खलु भगवान् तेषाम् असुराणाम् इदम् एवंरूपं चेतोप्रणिधानं
[_mvu_3.139_] विदित्वा तस्याये वेलाये स्मितं प्रादुष्करे समनन्तरं प्रादुष्कृते च भगवतो मुखद्वारातो नानावर्णा अनेकवर्णा अर्चिषो निश्चरित्वा नीलपीतमांजिष्ठा रक्तश्वेतावदाता कनकवर्णा सर्वं बुद्धक्षेत्रं ओभासयित्वा यावद् अकनिष्ठा देवनिकाया भगवन्तं त्रिखुत्तं प्रदक्षिणीकृत्वा भगवतो पुरतो अंतरहिताः //
___अथ खल्व् आयुष्मान् अश्वकी येन भगवांस् तेनोपसंक्रमित्वा तेनांजलिं प्रणामयित्वा भगवन्तम् एतद् उवाच // नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्करोन्ति / को भगवं हेतोः कः प्रत्ययो स्मितस्य प्रादुष्करणाय // अथ भगवान् आयुष्मता अश्वकिना पृष्टो तं [असुरा यावद् अकनिष्ठा देवनिकाया भगवन्तं त्रिक्षुत्तं प्रदक्षिणीकृत्वा भगवतो पुरतः अंतरहिता] असुराणां चेतोप्रणिधानं गाथाभि व्याकर्षि //
तत्रम् अकासि स्मितं द्विपदेन्द्रो दानवचित्त विदित्वम् उदारं / पृच्छति अश्वकि प्रांजलिं कृत्वा दृष्ट्व स्मितं सुगतस्य मुखातो //
नेह अहेतुक लोकप्रदीपो प्रादुकरोति स्मितं परमर्षि / ब्रूहि नरोत्तम हेतु स्मितस्य यत् ते कृतं इह लोकहितेषी //
अद्य निःसंशयं बोधिर् उदारा केनचि संजनिता परिषायां / यस्य तथागत आशय ज्ञात्वा प्रादुकरोति स्मितं रमणीयं //
[_mvu_3.140_] संशयितो पि अयं इह अद्य दृष्ट्व स्मितं सुगतस्य मुखातो / ब्रूहि नरोत्तम मा चिरम् अस्तु छिन्दहि संशयितान विलेखं //
यं अकरि स्मितं लोकप्रदीपो दानवपूजं विदित्वम् उदारां / व्याकरणं भण आसुरकायं यं व श्रुणित्व भवेय उदग्रो //
भगवान् आह //
साधु ते अश्वकि पृच्छिता प्रश्ना यस्य कृते स्मितं लोकहितस्य / तस्य ते वक्ष्यं फलं निखिलेन एकमनो भणतो मे श्रुणेहि //
पूजा इह मे कृता असुरेहि बोधिम् अनुत्तरं प्रार्थयमाना / ते विजहित्व तमासुरकायं स्वर्गगता रमिष्यन्ति चिरं पि //
देवपुरायं चिरं निवसित्वा पंचहि कामगुणेहि समंगी / मानुषलोकम् इमं पुनरेत्वा पूजयिष्यन्ति जिनां द्विपदेन्द्रां //
कल्पसहस्रशतानि बहूनि कृत्व पुनः पुन पूज जिनेषु /
[_mvu_3.141_] कांचनसंनिभलक्षणधारी सर्वे जिना भविष्यन्ति जितारी //
श्रुत्व च व्याकरणं असुराणां तुष्ट उदग्रो सदेवकलोको / प्राणसहस्रशतानि बहूनि प्रस्थित तत्र अनुत्तरयाने //
अथ खलु संबरो असुरेन्द्रो ताये वेलाये इमां गाथाम् अध्यभाषि //
एदृशेहि मे मित्रेहि सदा भोतु समागमो / यं निशाम्य यम् आगम्य पूजेम द्विपदोत्तमं //
अथ खलु भगवान् तानि षष्ठी असुरनयुतानि अनुत्तराये सम्यक्संबोधीये व्याकरित्वा बहूनि च प्राणिसहस्राणि आर्यधर्मेषु प्रतिष्ठापयित्वा राजानं शुद्धोदनं च सपरिवारं च उद्योजये // अथ खलु राजा शुद्धोदनो सपरिवारो उत्थायासनातो भगवतः पादौ शिरसा वन्दित्वा प्रक्रमे / तथा सर्वो जनकायो //
___अथ खलु राजा शुद्धोदनो तस्यैव रात्रिये अत्ययेन प्रभूतं खादनीयं भोजनीयं प्रतिजागरित्वा कपिलवस्तुनगरं सिक्तसंमृष्टं कृत्वा अपगतरजं अपगतपाषाणशर्करकठल्लं मुक्तपुष्पावकीर्णं गन्धघटिकाधूपितधूपनं चित्रपरिक्षिप्तं विततवितानं ओसक्तपट्टदामकलापं / यावच् च कपिलवस्तुं यावच् च न्यग्रोधारामं नटनर्तक-ऋल्लमल्लपाणिस्वरिकां कुम्भतूणिकशोभिकां द्विस्त्वलवेलम्बकां देशेदेशेषु स्थापयित्वा महता राजानुभावेन महता राज-ऋद्धीयेन भगवतो नगरं प्रवेशितं करोति // अथ खलु राजा शुद्धोदनो भगवन्तं सश्रावकसंघं पुरस्कृत्वा राजकुलं प्रवेशेति //
[_mvu_3.142_] अथ खलु भगवां शुद्धोदनस्य निवेशनं प्रविशित्वा प्रज्ञप्त एवासने निषीदे यथासनो च भिक्षुसंघो // अथ खलु राजा शुद्धोदनो भ्गवन्तं स्वहस्तं प्रणीतेन प्रभूतेन खादनीयभोजनीयेन सन्तर्पयति संप्रवारेति मित्रामात्या च भिक्षुसंघं // अथ खलु भगवां भुक्तावी धौतहस्तो अपनीतपात्रो राजानं शुद्धोदनं धर्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा उत्थायासनातो प्रक्रमे // अपरं दिवसं महाप्रजापती गौतमी भगवतो सश्रावकसंघस्य भक्तं करोति / अपरं दिवसं यशोधरा भक्तं करोति / अपरं दिवसं अन्तःपुरिका / अपरं दिवसं शाकियमण्डलं भगवतो सश्रावकसंघस्य भक्तं करोति //
___यशोधराये दानि भगवतो सश्रावकसंघस्य मोदकं सज्जीकृतं सर्वं ज्ञातिवर्गं निमन्त्रितं // भगवां कालज्ञो वेलज्ञो समयज्ञो पुद्गलपरापरज्ञो काल्यस्यैव निवासयित्वा पात्रचीवरम् आदाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतो यशोधराये निवेशनं प्रविशित्वा निषीदे प्रज्ञप्ते एवासने यथासनो च भिक्षुसंघो // अथ खलु यशोधरा राहुलमाता महाप्रजापतीगौतमीये सार्धं ज्ञातिवर्गेण च भगवन्तं सश्रावकसंघं प्रणीतेन खादनीयभोजनीयेन सन्तर्पयति संप्रवारयति // ताये दानि यशोधराये राहुलस्य हस्ते प्रत्यग्रो प्रणीतो मोदको वर्णगन्धरसोपेतो दिन्नः गच्छ इमं मोदकं पितुर् देहीति // तेन गच्छित्वा भगवतो पात्रे प्रक्षिपित्वा भगवतो छायायां निषीदित्वा मातरम् एतद् उवाच // सुखा खल्व् अम्ब श्रमणस्य इयं छाया // अथ खलु यशोधरा राहुलं कुमारम् एतद् उवाच // याच पुत्र पैतृकं धनं // अथ खलु राहुलो कुमारो भगवन्तम् एतद् उवाच // देहि मे श्रमण पैतृकं धनं // भगवान् आह // राहुल प्रव्रजाहि ततो पैतृकं धनं दास्यामि // अथ खलु राजा सान्तःपुरो
[_mvu_3.143_] शाक्या च सपरिवारा हृष्टा अभून्सुः तुष्टा उदग्रा भगवतो राहुलो पुत्रो विनये यशोधराये किं दोषो त्ति // यशोधरा दानि सर्वालंकारेहि आत्मानम् अलंकृत्वा भगवन्तं परिविषति कथं पुनर् आर्यपुत्रो अगारम् अध्यावसति न च भगवतो चित्तस्यान्यथाभावो // अथ खलु भगवां भुक्तावी धौतपाणि अपनीतपात्रो राजानं शुद्धोदनं सान्तःपुरं महाप्रजापतीं गौतमीं च यशोधरां च राहुलमातरं सपरिवारां धर्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रमे //
___भिक्षू भगवन्तम् आहन्सुः // पश्य भगवं यशोधरा मोदकेहि लोभेति // भगवान् आह // न भिक्षवो एतरहि एव एषा यशोधरा मम मोदकेहि लोभेति // भिक्षू आहन्सुः // अन्यदापि भ्गवं // भगवान् आह // अन्यदापि भिक्षवो //
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे तस्य उत्तरेण अनुहिमवन्ते साहंजनी नाम आश्रमपदं शान्तं विविक्तं विगतजनपदं मनुष्यरहेयं प्रतिसंलयनसारोप्यं मूलोपेतं पत्रोपेतं पुष्पोपेतं पानीयोपेतं // तहिं काश्यपो नाम ऋषिः प्रतिवसति पंचाभिज्ञो चतुर्ध्यानलाभी महर्द्धिको महानुभोगो // तेन ग्रीष्माणां पश्चिमे मासे क्षुद्रपाकानि फलानि भुक्तानि तृषितेन च बहुतरं पानीयं पीतं / तस्य अभिष्यण्णा वातातपा संवृत्ता / तेन उपलकुण्डके सशुक्रं प्रस्रावं कृतं // अपराये मृगीये तृषिताये तं प्रस्रावं पानीयसंज्ञाय पीतं // ऋतुमतीये ताये मृगीये अशुचिम्रक्षितेन मुखतुण्डेन सशुक्रं योनिमुखं जिह्वाय प्रलीढं / ताये संमूर्छयित्वा कुक्षिं प्रतिलब्धं // सो च ऋषि मैत्रीविहारी तस्य मृगपक्षी पि न
[_mvu_3.144_] सन्त्रसन्ति मृगपक्षिशतानि आश्रमस्य परिसमन्ते चरन्ति प्रतिवसन्ति च सापि मृगी तस्यैव आश्रमस्य परिसमन्तेन चरति तत्रैव परिक्रमति // सा दानि कालेन समयेन दारकं प्रजायति // तेन ऋषिणा दृष्टा तस्यैतद् अभूषि / कुतो इमस्या तिरिच्छानगताये मृगीये मानुषो अपत्यो ति // समन्वाहरित्वा ऋषीणां ज्ञानं प्रवर्तति / सो दानि ऋषि समन्वाहरति / अमुकं कालं मये अधिमात्रं क्षुद्रपाकानि फलानि परिमुक्तानि बहुतरकं च मे पानीयं पीतं ततो मे अभिष्यण्णेहि धातूहि अपलकुण्डके सशुक्रं प्रस्रावं कृतं / एताये मृगीये तृषिताये पानीयसंज्ञाये पीतं ऋतुमतीये ततो च ताये कुक्षिं प्रतिलब्धं / ममैवैषो अंगनिस्रावो ति / तेन दानि गर्भरूपं अजिनकेन गृह्णीय तं आश्रमपदं प्रवेशितो //
___सा दानि मृगी पृष्ठतो अन्वेति / तेन तस्य गर्भरूपस्य फलकेन नाभि च्छिन्ना तैलेन च अभ्यंगितो सुखोदकेन तं गर्भमलं परिधौतं // सो ऋषि तं गर्भरूपं तस्या मृगीये स्तने अल्लीपेति सापि मृगी पायेति / ऋषिणापि तस्या मृगीये स्तनं तस्य दारकस्य मुखे प्रक्षिप्यति // यं कालं सो दारको आसितो भवति ततः सा मृगी तस्य आश्रमस्य परिसमन्तेन चरित्वा पानीयं च पिबित्वा पुनः गर्भरूपं स्तनं पायेति जिह्वाग्रेण नं परिलेहति // यं कालं सो गर्भरूपो पादेहि पि अण्वितः ततो स्वयन् तस्या मृगीये स्तनं गृह्णित्वा पिबति // एकचरं शृंगकं जातन्ति तेन ऋषिणा एकशृंगो ति नामं कृतं // सो दानि यथा से माता मृगेहि सार्धम् अण्वति तथा सो पि एकशृंगको ऋषिकुमारो अण्वति मृगेहि च मृगपोतकेहि च सार्धं क्रीडमानो / यतो यतः सा माता मृगगणेहि सार्धं अण्वति ततः ततो पि एकशृंगो ऋषिकुमारो
[_mvu_3.145_] अण्वति / मृगपोतकेहि सार्धं क्रीडन्तो अण्विय अण्विय मृगेहि मृगपोतकेहि च सार्धं पुनस् तं ऋषिस्य आश्रमपदं आगच्छति / ततो नं ऋषि क्षुद्रक्षुद्राणि फलानि वर्णगन्धरसोपेतानि देति // यदा सो ऋषिकुमारो आश्रमपदे शयितो भवति ततो बहू मृगा च मृगपोतका च तम् ऋषिकुमारम् अनुपरिवारेत्वा शयन्ति // यं वेलं ते मृगा च मृगपोतका च चरितुकामा भवन्ति ततः तम् ऋषिकुमारं शयमानं मुखतुण्डकेन प्रतिबोधयन्ति // एवन् ते मृगा च मृगपोतका च नानाप्रकारा च पक्षी तेन ऋषिकुमारेण सार्धं तत्र आश्रमपदे अभिरमन्ति // यं कालं सो एकशृंगको ऋषिकुमारो विज्ञप्राप्तः संजातो तस्य ऋषिस्य तं आश्रमं सिंचति संमार्जति मूलानि नानाप्रकाराणि आनेति पत्राणि आनेति उदकं आनेति काष्ठानि आनेति तम् ऋषिं परिमर्दति स्नापेति अग्निहोत्रं प्रतिजागरेति / तम् ऋषिं परिविसति नानाप्रकाराहि मूलविकृतीहि पत्रविकृतीहि पुष्पविकृतीहि फलविकृतीहि पानीयं उपनामेति / प्रथमं तं ऋषिं परिविसित्वा तां च मृगीं मातरं पश्चात् स्वयम् आहारं करोति // तेन ऋषिणा तस्य ऋषिकुमारस्य ध्यानानां च अभिज्ञानां च मार्गम् उपदिष्टं // तेन दानि ऋषिकुमारेण पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानान्य् उत्पादितानि पंच चाभिज्ञा साक्षीकृता // सो दानि ऋषिकुमारो चतुर्ध्यानलाभी पंचाभिज्ञो कौमारब्रह्मचारी महर्द्धिको महानुभावो संजातो अभिज्ञातो देवमनुष्याणां //
___एकशृंगको ऋषिकुमारो अनुहिमवन्ते गंगाये नदीये कूले साहंजनी-आश्रमपदे प्रतिवसति / वाराणसीयं च नगरे काशिराज्ञो पुत्रो न भवति // तेन दानि बहू इष्टिप्रक्रियास्थानानि कृतानि पुत्रार्थाय यथा मे पुत्रो भवेय न चास्य पुत्रो संभवति
[_mvu_3.146_] विस्तीर्णे अन्तःपुरे धीतरो व अस्ति // तेन दानि काशिराज्ञा श्रुतं / गंगाय कूले साहंजनी नाम आश्रमपदं तत्र काश्यपो नाम ऋषि प्रतिवसति तस्य राज-ऋषिस्य तत्र आश्रमपदे प्रतिवसन्तस्य मृगीये सकाशातो एकशृंगको नाम ऋषिकुमारो उत्पन्नो ति / यन् नूनाहं नलिनीधीतरां राजकुलकुमारीं एकशृंगस्य ऋषिकुमारस्य ददेयं सो मे पुत्रो भविष्यति जामातिको च // अथ खलु भिक्षवो स काशिराजा ब्रह्मणपुरोहितम् आह // तत्र काश्यपि नाम ऋषिः प्रतिवसति /तस्य राजर्षिस्य तत्र आश्रमपदे प्रतिवसन्तस्य मृगीये सकाशातो एकशृंगको नाम ऋषिकुमारो उत्पन्नो ति / यं नूनाहं नलिनीधीतां राजकुमारीं एकशृंगस्य ऋषिकुमारस्य ददेयं सो मे पुत्रो भविष्यति जामातिको च //
___अथ खलु भिक्षवः स काशिराजा ब्राह्मणं पुरोहितं राजाचार्यं आमन्त्रयति / गच्छथ पुरोहित इमां नलिनीं राजकन्यां एकशृंगस्य ऋषिकुमारस्य देथ / सो मे पुत्रो भविष्यति जामातिको च //
___अथ खलु भिक्षवो ब्राह्मणपुरोहितो राजाचार्यः नलिनीं राजकुमारीं सपरिवारां अश्वरथे आरूढयित्वा प्रभूतं चान्नपानं मोदकानि च नानाप्रकाराणि खादनीयभोजनीयानि आदाय साहंजनीं आश्रमपदं आगमे // ते च दानि साहंजनीम् आश्रमपदं गत्वा आश्रमस्य नातिदूरेणापि समीपे गता // तत्र नलिनी राजकुमारी सखीहि सार्धं क्रीडति हसति तानि च क्रीडमानानि दृष्ट्वा तानि मृगपक्षिगणानि सन्त्रसन्ति दिशोदिशं परिधावन्ति // अथ खलु भिक्षवः एकशृंगस्य ऋषिकुमारस्य एतद् अभूषि // किं नु खल्व् इमे द्य मृगपक्षिणाः सन्त्रसन्ति दिशोदिशं च परिधावन्ति // अथ खलु भिक्षवः एकशृंगो ऋषिकुमारः येन नलिनी राजकन्या तेनागमि // अद्राक्षीद् भिक्षव एकशृंगको ऋषिकुमारो नलिनीं राककुमारीं सखीहि सार्धं क्रीडन्तीं
[_mvu_3.147_] स्वलंकृतां सुभूषितां महारहेहि वस्त्रेहि / दृष्ट्वा च पुनः तस्यैतद् अभूषि // शोभना खल्व् इमे ऋषिकुमारा उदाराणि तासां अजिनानि जटानि च अजिनमेखलानि च // निध्यायति राजकन्यानां / सो दानि राजकन्यानां अजिनमेखलानि अतिरिव काये विभासन्तानि पश्यति // सो दानि एकशृंगको नलिनीं पृच्छति // शोभनानि युष्माकं अजिनानि जटानि मेखलानि च कण्ठासूत्राणि च // सा दानि निलनी राजकुमारी एकशृंगं ऋषिकुमारं हस्ते गृह्य आह // एतानि एदृशानि अस्माकं अजिनानि च मेखलानि च कण्ठसूत्राणि च हस्तसूत्राणि च // सा दानि तस्य ऋषिकुमारस्य मोदकानि पानं च अनुप्रदासि इदम् अस्माकं हस्ते मोदकं परिभुंजाहीति // तेन दानि तानि मोदकानि परिभुक्तानि पानकं पि च पीतं // तस्य तहिं आश्रमपदे कटुकषायेहि फलफलेहि जिह्वेन्द्रियप्रत्याहतस्य तेहि मोदकेहि परिभुंजमानस्य अतिरिव रसेषु आस्वादो नुगृहीतो // तानि च पानकपिबनानि पीत्वा सो दानि आह // शोभनानि युष्माकम् इमानि फलाफलानि पानीयं च अजिनमेखलानि च कण्ठसूत्राणि च हस्तसूत्राणि च उदाराणि न भोजनानि अस्माकं आश्रमे एदृशानि //
___अथ खलु भिक्षवो नलिनी राजकुमारी एकशृंगं ऋषिकुमारं एतद् उवाच // आगच्छ ऋषिकुमार इदम् अस्माकं उटजानि संचारिमानि येन इच्छाम तेन एतानि उटजानि आदाय गच्छाम आगच्छ अस्माकं उटजं प्रविश आश्रमं ते च उपदर्शयिष्यामि // सा दानि नलिनी तत्र यानं अभिरुहित्वा एकशृंगस्य हस्तं प्रणामि आगच्छ प्रविशाहि इदम् अस्माकं उटजं आश्रमं प्रवेक्ष्याम त्ति // सो दानि तत्र याने अश्वानि आयुक्तानि दृष्ट्वा आह // मम मृगी माता इमं च उटजं मृगा
[_mvu_3.148_] वहन्ति नाहं अत्र प्रविशामि // सा दानि नलिनी एकशृंगस्य ऋषिकुमारस्य हस्ते लग्नति कण्ठे लग्नति आलिंगति चुम्बति प्रलोभेति च ऋषिकुमारो च ताये नलिनीये मूर्धातो उपादाय यावत् पादेषु निमित्तं पश्यति / अन्यादृशा स्वकानि जटानि अन्यादृशानि नलिनीये अन्यादृशं रूपं पश्यति अन्यादृशं नलिनीये अन्यादृशं स्वकं मुंजमेखलं अन्यादृशं नलिनीये अन्यादृशानि स्वकानि हस्तपुत्राणि पश्यति अन्यदृशानि नलिनीये // सा दानि ऋषिकुमारेण सार्धं आलापसमालापं कृत्वा विश्वासं च संभावयित्वा प्रेम्नं च संजनयित्वा यथोक्तं भगवता //
पूर्वेवासनिवासेन प्रत्युत्पन्नहितेन वा / एवन् तं संजायते प्रेम्नं उत्पलं वा यथोदके //
यत्र मनं निवसति चित्तं वापि प्रसीदति / निष्ठां पण्डितो गच्छेया संतुष्टा मे पुरे सह //
तेषां संसारे सन्सरन्तानां दीर्घरात्रं जन्मसहस्रकोटीभिः परस्परेषां समागमो आसि भार्यापतिषां तस्मात् तेषां सह दर्शनेन परस्परं प्रेम्नं निपतति // सा दानि नलिनी एकशृंगस्य ऋषिकुमारस्य प्रलोभनाभिप्राया राजार्हाणि मोदकानि खादनीयभोजनीयानि च परिभुंजापेत्वा प्रणीतानि च पानकानि पायेत्वा आलम्बित्वा च चुंबयित्वा च कण्ठसमालग्नतो च कृत्वा अश्वयानं अभिरुहित्वा वाराणसीं प्रत्यागता // एतां प्रकृतिं विस्तरेणारोचयति // एकशृंगको ऋषिकुमारो पि आश्रमं गत्वा तां नलिनीं राजधीतां मूर्ध्नातो समुपादाय यावत् पादेषु रंजनीयानि निमित्तानि मनसिकरोन्तो आसति नैव मूलफलानि आनेति न उदकं न काष्ठानि न आश्रमपदं संमार्जति अग्निहोत्रं पटिजागरेति //
[_mvu_3.149_]___सो दानि ऋषिः तं कुमारं चिन्तापरं दृष्ट्वा पृच्छति // न ते काष्ठानि भिन्नानि न ते उदकं आहृतं अग्निहोत्रं न जुहितं किन् तुवं ध्यानं ध्यायसि // ऋषिकुमारो आह // इह अन्यातो आश्रमातो ऋषिकुमारो संबहुलेहि ऋषिकुमारेहि सार्धं आगतो प्रासादिको दर्शनीयो शोभनेहि जटेहि अजिनेहि शोभनेहि कण्ठसूत्रेहि हस्तसूत्रेहि शोभनेहि मुंजमेखलेहि मृष्टानि च सानं फलफलानि पानीयं च न एदृशं यथास्माकं मृगयुक्ते पि उटजे अण्वन्ति ते मया आश्रमस्य अमुकस्मिं प्रदेशे दृष्टा तेन च मे ऋषिकुमारेण सार्धं प्रीति संजाता कण्ठे च सो गृह्य मम प्रकाशं वक्त्रेण वक्त्रं प्रणिधाय शब्दं करोति तं मे जनये प्रहर्षं तम् अहं स्मरन्तो परिदीनवक्त्रो तेन विना न रमामि आश्रमे // ऋषिणो दानि ऋषिकुमारस्य श्रुत्वा तद् अभूषि // यादृशं अयं ऋषिकुमारो तेषां वर्णसंस्थानं आचिक्षति न ते ऋषिकुमारा स्त्रीहि ताहि भवितव्यं // सो दानि ऋषि तं एकशृंगकं ऋषिकुमारं आह // पुत्र न ते ऋषिकुमारा स्त्रियास् तायो ऋषीन् आलोभेन्ति तपातो वारयन्ति / ऋषिभिस् तायो दूरातो परिवर्जयितव्या अन्तरायकरायो ब्रह्मचारिणां / मा तेहि सार्धं समं करोहि आशिविषसमा तायो विषपत्रसमा तायो अंगारकर्षूपमा तायो //
___सो दानि काशिराजा तं पुरोहितं आह // नावासु अशोकवनिकानि रोपेत्वा पुष्पफलोपेतेहि वृक्षेहि गंगाये प्रतिश्रोतेन तं आश्रमपदं गच्छाहि नलिनीये सपरिवाराये सार्धं ततो तम् ऋषिकुमारं नावायम् आरूपित्वा आनेहि // सो दानि पुरोहितो काशिराज्ञः प्रतिश्रुत्वा नलिनीं राजकन्यां पुरिमांतांगिकचेतिष्ठाहि नावाहि विततवितानाहि चित्रदुष्यपरिक्षिप्ताहि ओसक्तपट्टदामकलापाहि धूपनधूपिताहि
[_mvu_3.150_] मुक्तपुष्पावकीर्णाहि सपरिवारां आरूपित्वा गंगाये प्रतिश्रोतेन तं साहंजनिं आश्रमपदं गतो // तेन दानि तस्य आश्रमपदस्य समीपे नावानि स्थापेत्वा सा नलिनी राजकन्या एकशृंगस्य ऋषिकुमारस्य सकाशं विसर्जिता गच्छ त्वं ऋषिकुमारम् आनेहि // सा दानि नलिनी राजकुमारी नावातो ओरुहित्वा सपरिवारा तत्राश्रमपदे नानाप्रकाराणि वनकुसुमानि च वनकिसलयानि च प्रलावेन्ती आसति / तां पि च दृष्ट्वा ततो आश्रमातो मृगपक्षिगणा स्वकस्वकानि रुतानि मुंचन्तानि दिशोदिशं प्रधावन्ति // ऋषिकुमारो पि तानि मृगपक्षिगणानि सन्त्रसन्तानि दृष्ट्वा तं प्रदेशं गतः / ततो तां पश्यति नलिनीं राजकुमारीं सपरिवारां वनकुसुमानि च वअनकिसलानि च प्रलावेन्तीं // दृष्ट्वा च पुनर् येन नलिनी राजकुमारी तेनोपसंक्रान्तो // नलिनीये ऋषिकुमारो भूयो अभिनन्दितो कण्ठे च लग्ना भूयो च आलिंगितो चुंबितो च मोदकानि च खज्जकप्रकाराणि च परिभुंजित्वा राजार्हाणि च पानकानि पिबित्वा नलिनीये सार्धं तान् नावां आरूढो // नलिनी आह // इमे अस्माकं आश्रमे उदके संचरन्ति // सो ताये प्रलोभेत्वा नावायानेन वाराणसीम् आनीतो / पुरोहितेन ऋषिकुमारस्य नलिनी पाणिग्रहं कृत्वा दिन्ना // सो ताये नलिनीये सार्धं आसति क्रीडति न पन संयोगं गच्छति / जानाति वयस्यो मे ऋषिकुमारो ति //
___सो दानि ताये नलिनीये सार्धं तस्यां नावायां साहंजनिम् आश्रमपदं गतः ताये च मातरे मृगीये एकशृंगको ऋषिकुमारो नलिनीये राजकुमारीये सार्धं आगच्छन्तो दृष्टः // सा दानि पुत्रं पृच्छति / पुत्र कहिं सि गतो ति // सो दानि आह // इमस्य मे वयस्यस्य आश्रमं गतो ति // एषो मे वयस्य अग्निं प्रदक्षिणीकृत्वा उदकेन पाणिना गृहीतो ति // तस्या दानि मृगीये एतद् अभूषि // न खलु
[_mvu_3.151_] पुनर् अयम् ऋषिकुमारो वयस्यं जानाति भार्यां वा इयं च कन्या अयं च ऋषिकुमारो पुरुषोत्तमो एतेन तु एषा भार्या अग्निं प्रदक्षिणीकृत्वा उदकेन पाणिगृहीता भार्या लब्धा ति // तत्र को से ऋषिकुमारस्य एतम् अर्थं संबोधये यथा न एष ऋषिकुमारो काशिराज्ञो एषा धीता नलिनी नाम तव भार्या दिन्ना ति // तत्र च साहंजनिस्य आश्रमपदस्य हेष्टा गंगाकूले प्रतिव्रतानां तापसीनां आश्रमपदं प्रविशन्तो ऋषिकुमारो तापसीहि वारियति // मा तुवं अत्र आश्रमपदे प्रविशाहि त्वं पुरुषो एषो च स्त्रीणां प्रतिव्रतानां ब्रह्मचारिणीणां आश्रमो ति न लभ्यं अत्र पुरुषेण प्रविशितुं // सो दानि ऋषिकुमारो तां तापसीं पृच्छति // को वा स्त्री पुरुषो वा ति // तस्य ताये तापसीये स्त्रीधर्मा च आचिक्षिता न एष तव वयस्यो न एष ऋषिकुमारो एषा स्त्री नलिनी नाम राजकुमारी काशिराज्ञो धीता त्वं पुरुषो मृगीतो उत्पन्नो ततो त्वं न जानासि एषा तव उदकेन भार्या दिन्ना त्वं च एतस्या पति नो लभ्या युष्माभिः अन्यमन्यं त्यजितुं //
___सो दानि ऋषिकुमारो तासान् तापसीनां श्रुत्वा नलिनीये सार्धं साहंजनिं आश्रमपदं पितुः काश्यपस्य ऋषिस्य सकाशं गतो पितुः पादां वन्दित्वा सार्धं नलिनीये एतां प्रकृतिं सर्वां आरोचयति // ऋषिस्य एतद् अभूषि // न शक्यति ऋषिकुमारो नलिनीये विना इह आश्रमपदे प्रतिवसितुं परस्परस्य एते बद्धसंजाता स्नेहसंजाता // सो दानि तं पुत्रं एकशृंगं ऋषिकुमारं आह // पुत्र एषा तव नलिनी राजकुमारी अग्निदेवं साक्षीकृत्वा उदकेन पाणिगृहीता दिन्ना / एषा ते भार्या त्वं च एतस्या पतिः / न लभ्या युष्माभिः परस्परस्य त्यजितुं / गच्छ एताय सार्धं वाराणसीं नगरं // ते दानि ऋषिस्य पादां वन्दित्वा प्रदक्षिनीं च कृत्वा
[_mvu_3.152_] मातरं च अभिवादेत्वा वाराणसीं गता गत्वा काशिराज्ञो उपसंक्रान्ता // राज्ञा ऋषिकुमारस्य अनुरूपं गृहं दिन्नं परिवारं च उपस्तरणप्रत्यास्तरणं च सर्वाणि च उपभोगपरिभोगानि च युवराज्येनाभिषिक्तो //
सर्वे क्षयान्ता निचयाः पतनान्ता समुच्छ्रयाः / संयोगा विप्रयोगान्ता मरणान्तं पि जीवितं //
सो दानि काशिराजा कालधर्मेण संयुक्तो कालगतो एकशृंगेण वाराणस्यां राज्यं प्रतिलब्धं //
___तेन दानि नलिनीये मूलातो यमजाता द्वात्रिंशत्पुत्रा जाता / अपराणां पि देवीनां मूलातो सातिरेकं पुत्रशतं जातं // धर्मेण राज्यम् अनुशासयित्वा चिरं दीर्घरात्रं ज्येष्ठपुत्रं राज्ये भिषिंचित्वा पुनः ऋषिप्रव्रज्यां प्रव्रजितो // तेन दानि पूर्वरात्रापररात्रं जागरिकायोगसमनुयुक्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन बाहितकेन मार्गेण चत्वारि ध्यानान्य् उत्पादितानि पंचाभिज्ञा साक्षात्कृता // सो दानि कामधातुं समतिक्रमित्वा कायस्य भेदात्* ब्रह्मदेवनिकाये उत्पन्नो //
___भगवान् आह // यस् तेन कालेन काश्यपो ऋषिर् एषु स शुद्धोदनो अभूषि / या सा मृगी एषा सा भिक्षवो महाप्रजापती अभूषि / यश् च काशिराजो भूद् एषैव महानामो शाक्यो भूत्* / यश् चैकशृंगको ऋषिकुमारस् तदाहं एव बभूव / या च नलिनी नाम राजकन्या एषैव यशोधरा अभूषि // तदापि एषा आत्मानं अलंकृत्वा मम प्रलोभेति / एतरहिं पि एषात्मानं अलंकृत्वा मम प्रलोभेति //
_____नलिनीये राजकुमारीये जातकं समाप्तं //
[_mvu_3.153_] भिक्षू भगवन्तम् आहन्सुः // पश्य भगवन् कथम् इयं यशोधरा राज्ञा शुद्धोदनेन अननुयुज्यित्वा अपर्यवगाहित्वा अनपराधी वध्या ति ओसृष्टा / भगवान् आह // न भिक्षवः एतरहिम् एव एषा यशोधरा राज्ञा शुद्धोदनेन अननुयुज्यित्वा अनपराधी वध्या ओसृष्टा / अन्यदापि एषा यशोधरा इमिना राज्ञा शुद्धोदनेन अननुयुज्यित्वा अपर्यवगाहित्वा अनपराधी वध्या ओसृष्टा // भिक्षू आहन्सुः // अन्यदापि भगवं // भगवान् आह // अन्यदापि भिक्षवो //
___अतीतमध्वाने अनुहिमवन्ते महावनखण्डं तत्र माण्डव्यस्य ऋषिस्य आश्रमपदं चतुर्ध्यानलाभिनः पंचाभिज्ञस्य महाभागस्य मूलोपेतं फलोपेतं पुष्पोपेतं पत्रोपेतं पानीयोपेतं मृगपक्षिशतसहस्रेहि निषेवितं // अथ खलु भिक्षवो माण्डव्येन ऋषिणा ग्रीष्माणां पश्चिमे मासे क्षुद्रपाकेहि फलेहि परिभुक्तेहि बहुतरेण च पानीयेन पीतेन अभिष्यण्णेहि धातूहि उपलकुण्डके सशुक्रं प्रस्रावं कृतं // अथ खलु भिक्षवो अन्यतरा मृगी ऋतुमती तृषायां भ्रान्ता पानीयसंज्ञाय ततो उपलकुण्डकातो तम् ऋषिस्य सशुक्रं प्रस्रावं पीतं / अशुचिम्रक्षितेन च मुखतुण्डकेन स्वकं योनिमुखं परिलेहसि / अचिन्त्यो सत्वानां कर्मविपाकः / ताये मृगीये तं शुक्रं रुधिरं च संमूर्छित्वा कुक्षिं प्रतिलब्धं // सा दानि तस्यैव आश्रमपदस्य परिसामन्तेन चरति परिभ्रमति च // सा दानि कालेन च समयेन च दारिकां दर्शनीयां अक्षुद्रावकाशां परमया शुभवर्णपुष्कलतया समन्वागतां गौरीं नवनीतपिण्डसंनिभां प्रसूता // सा दानि मृगी तां दारिकां प्रसूता च तेन च ऋषिणा तं द्रव्यं दृष्टं // तस्यैतद् अभूषि // कुतो इमस्यान्तिरच्छानगताये मृगीये मानुषं अपत्यन्ति // समन्वाहरित्वा ऋषिणां पंचाभिज्ञानां ज्ञानं प्रवर्तति // सो दानि ऋषि माण्डव्यो
[_mvu_3.154_] पंचाभिज्ञो महाभागो समन्वाहरति // इह मम अत्र आश्रमपदे अन्यस्य पुरुषस्य प्रचारो नास्ति / एषा च मृगी इमहिं एव मम आश्रमपदे जाता संवृत्ता तथान्यान्यपि मृगपक्षिशतानि इह वनखण्डे संवृत्तानि नैव मम क्वचित्* मृगो वा पक्षी वा अन्यवनखण्डं गच्छति न चान्यातो वनखण्डातो कोचित्* मृगपक्षी इहागच्छति / इह एते वनखण्डे मृगपक्षिगणा जाता च संवृत्ता च संवृद्धा च अभिरता च अमनुष्यचरितं च वनखण्डं / अमुककाले मया ग्रीष्माणां पश्चिमे मासे पक्वसुपक्वानि च फलफलानि परिभुक्तानि सुशीतलं च बहुतरं पानीयं पीतं / ततः मे भिष्यण्णेहि धातूहि उपलकुण्डके सशुक्रं प्रस्रावं कृतं एताये मृगीये तृषिताये तं सशुक्रं प्रस्रावं पानीयसंज्ञाये पीतं / ततो एताये मृगीये कुक्षिं प्रतिलब्धं / मम एष अंगनिस्रावो // तस्य ऋषिस्य माण्डव्यस्य तत्र दारिकाये अतिप्रेम्नं संजातं // तेन सा दारिका अजिनकेन गृह्य आश्रमम् आनीता / साप्य् अस्य मृगी पृष्ठतो न्वेति // तेन दानि ऋषिणा ताये दारिकाये तं नाभि फलशस्त्रकेन च्छिन्नं मानुषिकाये च नं केलायनाय केलायन्ती ताये वनमृगीये स्तनाचूषणं आसति / सो पि नं ऋषि क्षुद्रपाकानि फलानि मुखे पीडेति कालेन कालं तैलेनाभ्यंगेति सुखोदकेन स्नपेति // संवर्धयमाना च सा दारिका ताये मृगीये तेन च ऋषिणा अतीव तं वनं शोभेति सा च नां माता जिह्वाये परिलिहति // यत्र काले सा दारिका विवर्धमाना पादेहि पि अण्वति ततो यत्र पादा निक्षिपति तत्र तत्र ताये दारिकाये पूर्वोपचितेन शुभस्य कर्मस्य विपाकेन पद्मानि प्रादुर्भवन्ति //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
