Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 22/24

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

महावस्तु-अवादन

Thông tin
GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भगवां उरुविल्वायां विहरे नैरंजनायास् तीरे अजपालन्यग्रोधमूले अचिराभिसंबुद्धो // अथ खलु भगवतो एकस्य रहोगतस्य प्रतिसंलीनस्य अयम् एवरूपश् चेतसः परिवितर्को उदपादि // अधिगतो यद् अयं मया धर्मो गम्भीरो निपुणो सूक्ष्मो दुरनुबोधो अतर्कितो अतर्कावचरो पण्डितवेदनीयो सर्वलोकविप्रत्यनीको अहं चे परेषां देशयेयं परे खु च आजानेन्सु सो मे स्या परमं विघातं / यं नूनाहं

[_mvu_3.315_] एको अरण्यायतने तूष्णीं विहरेयं // अथ खलु महाब्रह्मा भगवत इदम् एवरूपं चेतसो परिवितर्कम् आज्ञाय येन शक्रो देवानाम् इन्द्रो तेनोपसंक्रमित्वा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्* // एतन् मारिष कौशिक भगवता अल्पोत्सुकताये चित्तं नमेति न धर्मचक्रप्रवर्तने / किं पुनर् वयं मारिष कौशिक येन भगवान्स् तेनोपसंक्रमित्वा भगवन्तं याचेम धर्मचक्रप्रवर्तनाय // साधु मारिषेति शक्रो देवानाम् इन्द्रो महाब्रह्मणो प्रत्यश्रोषीत्* // अथ खलु महाब्रह्मा शक्रो देवानाम् इन्द्रो सुयामो देवपुत्रो सुनिर्मितो च देवपुत्रो वसवर्ती च देवपुत्रो चत्वारश् च महाराजानो इत्य् एते दश यक्षाधिपतयो दश यक्षमहत्तरका अनेकयक्षशतपरिवारा अतिक्रान्ताये रात्रीये केवलकल्पं न्यग्रोधमूलं वर्णेनोभासयित्वा येन भगवान्स् तेनोपसंक्रान्ता भगवतः पादौ शिरसा वन्दित्वा एकमन्ते अस्थान्सुः // एकान्ते स्थितो महाब्रह्मा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्* // याच मारिष कौशिक भगवन्तं धर्मचक्रप्रवर्तनाय //

___अथ खलु शक्रो देवानाम् इन्द्रो एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनोपसंक्रमित्वा भगवन्तं गाथाये अध्यभाषे //

उत्थेहि विजितसंग्राम पूर्णभरो त्वं अनृण विचर लोके / चित्तं हि ते विशुद्धं यथ चन्द्रो पंचदशरात्रे //

अथ खलु भगवां तूष्णी अभूषि नाधिवासेति शक्रस्य देवानाम् इन्द्रस्य धर्मचक्रप्रवर्तने // अथ खलु महाब्रह्मा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्* // न खलु मारिष कौशिक भगवतो अर्हन्तः सम्यक्संबुद्धा एवं याचीयन्ति धर्मक्रप्रवर्तनाये न च पुनस् तथागता अर्हन्तः सम्यक्संबुद्धा एवं याचिता धर्मचक्रं प्रवर्तयन्ते // एवम् उक्ते शक्रो देवानाम् इन्द्रो महाब्रह्मम् एतद् अवोचत्* // त्वं मारिष महाब्रह्म तेषां पुरिमकानां

[_mvu_3.316_] सम्यक्संबुद्धानां दर्शावी तेन हि मारिष महाब्रह्म याच भगवन्तं स्वयम् एव धर्मचक्रप्रवर्तनाये // अथ खलु महाब्रह्मा एकांसम् उत्तरासंगं कृत्वा येन भगवां तेनांजलिं प्रणामयित्वा भगवन्तं गाथाये ध्यभाषे //

उत्थेहि विजितसंग्राम पूर्णभरो त्वं अनृण विचर लोके / देशेहि सुगत धर्मं आज्ञातारो भविष्यन्ति //

अथ भगवां तूष्णी अभूषि // अथ खलु महाब्रह्मा शक्रो देवानाम् इन्द्रो सुयामो च देवपुत्रो संतुषितो च देवपुत्रो निर्मितो च देवपुत्रो वशवर्ती च देवपुत्रो चत्वारो महाराजा अनेकयक्षशता अनेकयक्षशतपरिवारा भगवतो अनधिवासनां विदित्वा धर्मचक्रप्रवर्तनाय दुःखदौर्मनस्यजाता भगवतः पादौ शिरसा वन्दित्वा भगवंतं प्रदक्षिणीकृत्वा तत्रैवान्तरहायेन्सुः //

___एत्थम् एतं श्रूयति //

___भगवां उरुविल्वायां विहरति तद्या नैरंजनाय तीरे अजपालन्यग्रोधमूले अचिराभिसंबुद्धो // अथ खलु महाब्रह्मा अतिक्रान्तवर्णो अतिक्रान्तायां रात्र्यां केवलकल्पं अजपालन्यग्रोधमूलं वर्णेनोभासयित्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रदक्षिणीकृत्वा एकान्तस्थितो महाब्रह्मा भगवन्तं गाथाये अध्यभाषे //

उत्थेहि विजितसंग्राम पूर्णभरो त्वं अनृण विचर लोके / देशेहि सुगत धर्मं आज्ञातारो भविष्यन्ति //

अथ खलु भगवान् महाब्रह्मं गाथाये प्रत्यभाषे //

प्रतिश्रोतगामिको मार्गो गम्भीरो दुर्दृशो [मम] / रागरक्ता न द्रक्ष्यन्ति अलं ब्रह्मे प्रकाशितुं //

[_mvu_3.317_] अथ खलु महाब्रह्मा भगवतर् अजपालस्य न्यग्रोधमूले प्रतिक्षेपं विदित्वा धर्मचक्रप्रवर्तनाये दुःखदौर्मनस्यजातो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रदक्षिणीकृत्वा तत्रैवान्तरहाये //

___एत्थम् एतं श्रूयति //

___भगवां उरुविल्वायां विहरति नद्या नैरंजनायस् तीरे अजपालस्य न्यग्रोधमूले अचिराभिसंबुद्धो // तेन खलु पुनः समयेन मागधकानां ब्राह्मणगृहपतिकानां इमानि एवरूपाणि पापकानि अकुशलानि दृष्टिगतान्य् उत्पन्नानि // वातो न वायेया सरितो न स्यन्दिन्सुः गर्भिणीयो न प्रजायेन्सुः पक्षिणो न वीतिपतन्ति अग्रिर् न ज्वलेया चन्द्रमसूर्याणां उद्गमना न प्रज्ञायेन्सुः अंधकारघट्टितं लोकसंनिवेशं भवेय // अथ खलु महाब्रह्मा मागधकानां ब्राह्मणगृहपतिकानां इमान्य् एवरूपाणि पापकान्य् अकुशलानि दृष्टिगतानि उत्पन्नानि विदित्वा अतिक्रान्तवर्णो अतिक्रान्तायां रात्र्यां केवलकल्पं अजपालस्य न्यग्रोधमूलं वर्णेनोभासयित्वा येन भगवां तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्तस्थितो इमां गाथां प्रत्यभाषत्* //

प्रादुरहोसि समलेहि चिन्तितो धर्मो अशुद्धो मगधेषु पूर्वं / अपावृतं ते अमृतस्य द्वारं शृणोन्तु धर्मं विमलानुबुद्धं //

अथ खलु भगवां महाब्रह्मणो याचनां विदित्वा सामं च प्रत्यात्मं बोधीये ज्ञानेन

[_mvu_3.318_] सर्वावन्तं लोकम् अनुत्तरेण बुद्धचक्षुषाभिविलोकयन्तो अद्राक्षीत् सत्वा उच्चावचां हीनप्रणीतां अद्राक्षीत् सत्वा दुराकारा दुर्विनेया दुर्विशोधेया अद्राक्षीत् सत्वा स्वाकारां सुविनेयां सुविशोधेया अद्राक्षीत् सत्वां उद्घटिताज्ञा विपंचिताज्ञानेया पदपरमां अद्राक्षीत् सत्वां तीक्ष्णेन्द्रियां ऋद्धीन्द्रियां / सत्वानां त्रयो राशीयः सम्यक्त्वनियतं राशिं मिथ्यात्वनियतं राशिं अनियतं राशिं // सय्यथापि नाम चक्षुष्मां पुरुषो पद्मिनीतीरे स्थित्वा अल्पकिशरेण पश्येय उत्पलानि पदुमानि वा पुण्डरीका वा अन्यानि अन्तोदकानि अन्यानि समोदकानि अन्यानि उदकातो अभ्युद्गतानि एवम् एव भगवां अनुत्तरेण बुद्धचक्षुषा सर्वावन्तं लोकम् अभिविलोकयन्तो अद्राक्षीत्* // अथ खलु भगवतो एतद् अभूषि // देशेयं वाहं धर्मं न वा देशेयं मिथ्यात्वनियतो राशि अभव्यो एतं धर्मं आजानितुं / देशेयं वाहं न वा देशेयं सम्यक्त्वनियतो राशि आज्ञास्यत्य् एव एतं यं देशेयं / अनियतो राशि सचास्य धर्मं देशेयं आज्ञास्यति नो चे देशेयं न जानिष्यति // अथ खलु भगवां अनियतं राशिम् आरभ्य मागधानां च ब्राह्मणगृहपतिकानां इत्य् एवंरूपाणि पापान्य् अकुशलानि दृष्टीगतानि उत्पन्नानि विदित्वा महाब्रह्मणो चाभियाचनां विदित्वा सप्तासंख्येयकल्पसमुदानीतसमुत्पन्नं चात्मनः प्रणिधानं विदित्वा सत्वेषु च महाकरुणां ओक्रामेत्वा इमे च मे महेशाख्या देवाधिपतयो लोकेश्वरा उपसंक्रान्ता आर्यधर्मचक्रप्रवर्तनं

[_mvu_3.319_] याचन्ति अथ खलु भगवां महाब्रह्मणो अवकाशम् अकार्षीत्* आर्यधर्मचक्रप्रवर्तनाय // ताये वेलाये भगवान् महाब्रह्मणं गाथाये ध्यभाषे //

अपावृतं मे अमृतस्य द्वारं ब्रह्मेति भगवन्तं ये श्रोतुकामा श्रद्धां प्रमुंचन्तु विहेठसंज्ञां / विहेठसंज्ञो प्रगुणो अभूषि धर्मो अशुद्धो मगधेषु पूर्वं //

अथ खलु भगवता महाब्रह्मणे अवकाशे कृते अनुत्तरधर्मचक्रप्रवर्तनाय भूम्या देवा घोषम् उदीरयेन्सुः // एवं मारिष ब्रह्मणे भगवतावकाशो कृतो अनुत्तरधर्मचक्रप्रवर्तनाय / तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च हायिष्यन्ति आसुराः कायाः दिव्या काया अभिवर्धिष्यन्ति // भूम्यानां देवानां घोषं श्रुत्वा चतुर्महाराजकायिका देवा त्रयस्त्रिंशा देवा यामा तुषिता निर्माणरती परनिर्मितवशवर्ती देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः // एवं मारिष भगवता महाब्रह्मणो अवकाशो कृतो धर्मचक्रप्रवर्तनाय / तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च हायिष्यन्ति आसुराः काया दिव्याः काया अभिवर्धिष्यन्ति // इति हि तेन कालेन तेन समयेन यावद् ब्रह्मलोकं घोष अभ्युद्गतो //

___एत्थम् एतं श्रूयति //

[_mvu_3.320_]___अथ खलु भगवां प्रवर्तनस्य समये केवरूपा सत्वा आर्यधर्मचक्रं प्रवर्तयन्तीति // ये ते सत्वा पूर्वयोगसंपन्ना भवन्ति ते आर्यधर्मचक्रं प्रवर्तेन्ति / अहं खलु पूर्वयोगसंपन्नो तेनारहाम्य् अहं आर्यधर्मचक्रं प्रवर्तयितुं / ये ते सत्वा अनुत्तराचारसंपन्ना भवन्ति एवंरूपा सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति / अहं खलु पुनः अनुत्तराचारसंपन्नो अरहाम्य् अहं आर्यधर्मचक्रं प्रवर्तयितुं / ये ते सत्वा निवासानुत्तर्यसंपन्ना भवन्ति एवंरूपा सत्वारार्यधर्मचक्रं प्रवर्तेन्ति / ये ते सत्वा आवेणिका भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति / ये ते सत्वा च्युतिसंपन्ना भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति / ये ते सत्वा गर्भावक्रान्तिसम्पन्ना भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति / ये ते सत्वा गर्भस्थितिसम्पन्ना भवन्ति ये ते सत्वा जातिसम्पन्ना भवन्ति ये ते सत्वा लक्षणसंपन्ना भवन्ति ये अनुव्यंजनसम्पन्ना भवन्ति ये कुशलसंपन्ना भवन्ति ये धृतिसंपन्नाः स्मृतिसंपन्नाः ये प्रत्युपस्थितधर्मसंपन्नाः ये दुष्यधर्मसम्पन्नाः ये लोके अग्रा भवन्ति ये लोके लोकप्रविचयसम्पन्नाः सत्वसारसंपन्ना भवन्ति ये स्थानं च स्थानतो अस्थानं चास्थानतो सम्यक्प्रज्ञया प्रजानन्ति ये सर्वत्रगामिनीप्रतिपदान् तत्रतत्रगामिनीप्रतिपदां यथाभूतं सम्यक्प्रज्ञया प्रजानन्ति ये नानाधातुका च लोके अनेकधातुका च लोके यथाभूतं सम्यक्प्रज्ञया प्रजानन्ति ये परसत्वानां परपुद्गलानां इन्द्रियवीर्यवैमात्रतां यथाभूतं

[_mvu_3.321_] सम्यक्प्रजानन्ति ते एव धर्मचक्रं प्रवर्तेन्ति / ये नानाधिमुक्तिका च लोके अनेकाधिमुक्तिका च लोके यथाभूतं सम्यक्प्रज्ञया प्रजानन्ति ते एव धर्मचक्रं प्रवर्तेन्ति / ये ते सत्वाः सर्वेषां कर्मणां कर्मसमादानानां अतीतानागतानां प्रत्युत्पन्नानां कृतानाम् उपचितानाम् अविपक्वानां विपाकप्रत्युपस्थितानां आयतिविपाकवैमात्रतां यथाभूतं सम्यक्प्रजानन्ति ते एव धर्मचक्रं प्रवर्तेन्ति / ये ते सर्वेषां ध्यानसमाधिविमोक्षसमापत्तीनां च सक्लेशव्यवदानं यथाभूतं संप्रजानन्ति ये दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यन्ति च्यवन्तां उपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां सत्वां संप्रजानन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति / ये अनेकविधं पूर्वनिवासं समनुस्मरन्ति ये चाश्रवाणां क्षयाद् अनाश्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं च यथाभूतं संप्रजानन्ति ये चापि दीर्घायुष्का भवन्ति आजीवसंपन्ना भवन्ति शीलसंपन्नाः समाधिसंपन्ना विमुक्तिसंपन्ना विमुक्तिज्ञानसंपन्ना नैष्क्रम्यसंपन्ना महाकरुणाप्रतिलाभसम्पन्ना बोधिसंपन्नाश् चेतःपर्यायसंपन्नाः ऋद्धिप्रातिहार्यसंपन्ना आदेशनाप्रातिहार्यसंपन्ना अनुशासनीप्रातिहार्यसंपन्नाः सर्वकुशलधर्मसमन्वागता ये चार्थप्रतिसंविदप्राप्ता धर्मप्रतिसंविदप्राप्ता निरुक्तिप्रतिसंविदप्राप्ताः प्रतिभानप्रतिसंविदप्राप्ता ये चार्यपंचांगिकसमाधिसंपन्नाः पंचज्ञानिकसमाधिसंपन्ना आर्यमहापंचाङ्गिकसम्यक्समाधिसंपन्ना

[_mvu_3.322_] ये चाप्य् आर्यमहापंचज्ञानिकसम्यक्समाधिप्राप्ताः बलसंपन्नाश् च इन्द्रियसंपन्नाश् च ऋद्धिसंपन्नाश् च ये चापि पौरिये वाचाये समन्वागता विस्पष्टाये अनेलकाये अर्थस्य विज्ञापनीये समन्वागताः प्रश्नव्याकरणेन सम्पन्ना ये प्रतिबलाः परेषां वैशारद्ये पि च्छेदं विकर्तुं प्रतिबलाः परेषां अहितेषिणां सह धर्मेण निग्रहेतुं ये प्रतिबला परेषां सुखानुप्रदानं प्रदातुं एवंरूपाः आर्यधर्मचक्रं प्रवर्तेन्ति / ये ते सत्वाः सर्वबुद्धधर्मेहि समन्वागता भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति // अहं खलु पुनः सर्वबुद्धधर्मेहि समन्वागतो अरहाम्य् अहं धर्मचक्रं प्रवर्तयितुं //

___अथ खलु भगवां इमम् एवरूपम् आत्मनो गुणसमादानं विदित्वा एतद् अभूषि // यं नूनाहम् आर्यम् अनुत्तरं धर्मचक्रं प्रवर्तयेयं / को नु खलु मे प्रतिबलो प्रथमं धर्मं देशितं आजानितुं न च मे विहिंसये यम् इदं धर्मदेशनाये // अथ खलु भगवतो एतद् अभूषि // उद्रको रामपुत्रो शुद्धो अल्परजो अपरोक्षजातीयो सो च दूरगतो अतिक्रान्तगतो नैवसंज्ञानासंज्ञायतनसहव्रताये धर्मं देशयति / अद्य सप्ताहं कालगतो उद्रको रामपुत्रो महाहानिरुद्रको रामपुत्रो // कतमो पि खल्व् अन्यो पि सत्वो शुद्धो अल्परजो अपरोक्षजातीयो यो मे प्रतिबलो प्रथमं धर्मं देशितम् आजानितुं न च मे विहेठेया यम् इदं धर्मश्रवणाय // आराडो कालामो शुद्धो अल्परजो अल्परजस्कजातीयो यो मे प्रतिबलो प्रथमं देशितम् आजानितुं न च मे विहेठये यम् इदं धर्मश्रवणाय / महाहानिराराडस्य अद्य त्र्य्-अहं कालगतो आराडो कालामो // कतमो पुनर् अन्यो पि सत्वो शुद्धो अल्परजस्कजातीयो यो मे प्रतिबलो प्रथमं धर्मं देशितम् आजानितुं न च मे विहेठये यम् इदं धर्मश्रवणाय // अथ खलु भगवतो एतद् अभूषि // पंचका भद्रवर्गिया शुद्धा अल्परजा अल्परजस्कजातीयास्

[_mvu_3.323_] ते मे प्रतिबला प्रथमं धर्मं देशितं आजानितुं न च मे विहेठयेन्सुः यम् इदं धर्मश्रवणाय / पूर्वम् एव दुष्करं चरन्तस्य अनुबंधेन्सुः / ते च वाराणस्यां विहरन्ति ऋषिपतने मृगदावे // यं नूनाहं वाराणसीं गत्वा वाराणस्याम् ऋषिपतने मृगदावे पंचानां भद्रवर्गियानां प्रथमं धर्मं देशयेयं //

___अथ खलु संबहुला महेशाख्या शुद्धावासकायिका देवा येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सुः / एकान्तस्थितास् ते भगवन्तम् एतद् उवाच // यं भगवतो अन्तेवासिनां अभिज्ञातं परिज्ञातं प्रतिबलाश् च पुनर् वयं भगवतो विविधानि विचित्राणि ऋद्धिप्रातिहार्याणि कर्तुं / येन भगवान् मार्गेण बोधितो वाराणस्यां गमिष्यति ऋषिपतनं मृगदावं अनुत्तरं धर्मचक्रं प्रवर्तयितुं ततो वयं भगवतो यावच् च बोधि यावच् च वाराणसी मार्गं प्रतिजागरिष्यामः समं असमविषमं पाणितलजातं विततवितानं चित्रदूष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं सिक्तसम्मृष्टं धूपितधूपनं मुक्तपुष्पावकीर्णं सुवर्णवालिकासंस्तृतं दिव्यमुक्ताचूर्णसंस्तृतं दिव्यस्फटिकचूर्णसंस्तृतं दिव्यमुसारगल्वचूर्णसंस्तृतं दिव्यलोहितिकाचूर्णसंस्तृतं / तत्र च वयं भगवं मार्गे यावच् च बोधिर् यावच् च वाराणसी दिव्या तालपंक्तियो अभिनिर्मिनिष्यामः अच्छा समा सैकता सुखोपनीता चित्राणि दर्शनीयानि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितकाया / तत्र च वयं भगवं मार्गे वामदक्षिणतो दिव्यायो नदीयो

[_mvu_3.324_] अभिनिर्मिनिष्यामः अच्छा समा सैकता सुखोपनीता सुवर्णवालुकासंस्तृता उत्पलपद्मकुमुदपुण्डरीकनलिनीसौगन्धिक-आम्रजम्बुकलकुचपनसनारिकेलपालेवतकभव्यदाडिमवृद्धिकप्रच्छन्ना / तत्र च वयं भगवन् मार्गे याव च बोधिर् याव च वाराणसी दिव्यानि च्छत्त्राणि अभिनिर्मिनित्वा दिव्यानि ध्वजानि अभिनिर्मिनिष्यामः / दिव्यानि कूटागाराणि अभिनिर्मिनिष्यामश् चित्राणि दर्शनीयानि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया // भगवतो गच्छन्तस्य गमिष्यन्ति तिष्ठन्तस्य तिष्ठन्ति पुरतो च वर्षवलाहका देवपुत्रा दिव्यानि पुष्पाणि प्राकिरिष्यन्ति मन्दं मन्दं च देवा प्रसारयिष्यन्ति //

___भगवति बोधितो वाराणसीम् ऋषिपतनं मृगदावं प्रस्थिते अनुत्तरं धर्मचक्रं प्रवर्तयितुं शुद्धावासेहि देवेहि मार्गो प्रतिजागृतो / महतीं चतुरंगिनीसेनाम् अभिनिर्मिणित्वा महान्तं हस्तिकायं महान्तम् अश्वकायं रथकायं पत्तिकायं भगवन्तं वाराणसीं गच्छन्तं पुरस्करेन्सुः // यावत् सुवर्णानाम् अधिपतयो सुवर्णराजानो अण्डजा वा जरायुजा वा औपपादुका वा संस्वेदजा वा ते महान्तं चतुरंगिनीसेनां ऋद्धीये अभिनिर्मिणित्वा भगवन्तं गच्छन्तं पुरस्करेन्सुः / याव नागानां नागाधिपतयो नागराजानो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते महतीं चतुरंगिनीसेनाम् ऋद्धीये अभिनिर्मिणित्वा भगवन्तं वाराणसीं गच्छन्तं पुरस्करेन्सुः / चतुर्महाराजिका देवा त्रयस्त्रिंशा यामास् तुषिता निर्माणरति परनिर्मितवशवर्ति ब्रह्मकायिका देवा महान्तं चतुरंगिनीसेना मृद्धीये अभिनिर्मिणित्वा भगवन्तं काशिं गच्छन्तं पुरस्करेन्सुः // अथ खलु भगवां महतीये परिषाये अनेकशताये अनेकसहस्राये अनेकशतसहस्राये पुरस्कृतो परिवारितो उरुविल्वातो गयां गच्छति गयातो अपरगयां गच्छति // अपरगयायां सुदर्शनो नाम नागाराजा / तेन भगवां

[_mvu_3.325_] अपरगयायां वासेन भक्तेन च निमन्त्रितो // तहिं भगवां सुदर्शनस्य नागराज्ञो भवने वसित्वा कृताहारो वशालां गच्छति // वशालायां नदी नाम ब्राह्मणः हुहुंकजातिको वुच्चति / सो भगवन्तं गच्छन्तं अपसव्यीकरोति च हुहुन् ति च करोति // भगवां एतस्मिं वस्तुस्मिं एतस्मिं निदाने एतस्मिं प्रकरणे ताये वेलाये इमं उदानम् उदानये //

यो ब्राह्मणो बाहितपापधर्मो निहुहुंको निष्कषायो यतात्मा / क्षीणाश्रवो अन्तिमदेहधारी धर्मेण सो ब्रह्मणो ब्रह्मवादं वदेय //

वशालायाम् अन्यतमो गृहपतिः भगवन्तं वासेन च भक्तेन च निमन्त्रेति / तहिं भगवां वुस्तो कृतभक्तकृत्यो वशालातो चुन्दद्वीलं नाम अधिष्ठानं गच्छति //

___अद्राक्षीत्* उपको आजीवको भगवन्तं दूरतो येवागच्छन्तं दृष्ट्वा च पुनर् येन भगवांस् तेनोपसंक्रमित्वा भगवतः सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते स्थाद् एकान्तस्थितः उपको आजीवको भगवन्तम् एतद् उवाचत्* // परिशुद्धो भगवतो गौतमस्य च्छविवर्णो परिशुद्धो पर्यवदातो विप्रसन्नं च मुखवर्णं / सय्यथापि नाम तालस्य पक्वस्य संप्रति वृन्तच्युतस्य बन्धनाश्रयो परिशुद्धो भवति पर्यवदातो सपीतनिर्भासो च एवम् एव भगवतो गौतमस्य च्छविवर्णो परिशुद्धो पर्यवदातो विप्रसन्नो च मुखवर्णो अद्य भगवता गौतमेनामृतं

[_mvu_3.326_] अधिगतं अमृतगामी च मार्गो // एवम् उक्ते भगवान् उपकं आजीवकं एतद् उवाच // अमृतं मे उपक अधिगतं अमृतगामी च मार्गो // एवम् उक्ते उपको भगवन्तम् एतद् उवाच // कहिं वो भो गौतम ब्रह्मचर्यम् उष्यते // एवम् उक्ते भगवान् उपकं आजीवकं गाथाये अध्यभाषे //

सर्वाभिभू सर्वविदो हम् अस्मि सर्वेहि धर्मेहि अनोपलिप्तो / सर्वज्ञो हं तृष्णाक्षये विमुक्तो अहं अभिज्ञाय किम् उद्दिशेयं //

एवम् उक्त उपको आजीवको भगवन्तम् एतद् उवाच // अनाचार्यो भगवां गौतमो प्रजानासि // अथ खलु भगवान् उपकं आजीवकं गाथाये अध्यभाषे //

न मे आचार्यो अस्ति कश्चित् सदृशो मे न विद्यते / एको स्मि लोके संबुद्धो प्राप्तो संबोधिम् उत्तमां //

एवम् उक्ते उपको आजीवको भगवन्तम् एतद् उवाच // अर्हन्न् इति भगवां गौतमो प्रजानासि // अथ खलु भगवान् उपकं आजीवकं गाथाये अध्यभाषे //

अहं हि अरहा लोके अहं लोके अनुत्तरः / सदेवकस्मिं लोकस्मिं सदृशो मे न विद्यते //

एवम् उक्ते उपको आजीवको भगवन्तम् एतद् उवाच // जिनो ति भगवां गौतमो प्रजानासि // अथ खलु भगवान् उपकं आजीवकं गाथाये ध्यभाषे //

जिना हि मादृशा भोन्ति ये प्राप्ता आश्रवक्षयं / जिता मे पापका धर्मा तस्माद् अहं उपक जिनो //

पौण्डरीकं यथा वर्णं अनोपे न प्रलिप्यते /

[_mvu_3.327_] एवं लोके न लिप्यामि तस्माद् अहं उपक जिनः //

अभिज्ञेयं अभिज्ञातं सद्वक्तव्यं च भाष्यति / प्रहातव्यं प्रहीनं मे तस्माद् अहं उपक जिनो //

एवम् उक्ते उपको आजीवको भगवन्तम् एतद् उवाच // कहिं भगवां गौतमो गमिष्यसि // अथ खलु भगवां उपकं आजीवकं गाथाये ध्यभाषये //

वाराणसीं गमिष्यामि आहनिष्यं अमृतदुन्दुभिं / धर्मचक्रं प्रवर्तयिष्यं लोके अप्रतिवर्तियं //

यो मे धर्म अधिगतो विरागोपसमो शिवो / तम् अहं प्रवर्तयिष्यामि हिताय सर्वप्राणिनां //

ये चाभ्यतीता संबुद्धा ये च बुद्धा अनागता / ये चैतरहिं संबुद्धा बहूनां शोकनाशका / धर्मं देशेन्ति सत्वानां बुद्धानां एषा धर्मता //

देवता अन्तरीक्षे गाथां भाषन्ति //

यो एवरूपं नरदम्यसारथिं दृष्ट्वा महर्षिं परिवर्जयेय / हस्तेहि पादेहि च सो महाशिरिं प्रणामये एष अतीवमात्रं //

चुन्दद्वीलायां चुन्दो नाम यक्षो // तेन भगवां स्वके भवने वासेन च भक्तेन च निमन्त्रितो // भगवां चुन्दस्य यक्षस्य भवने एकरात्रोषितो कृतभक्तकृत्यो सारथिपुरे लोहितवस्तुकं गच्छति // लोहितवस्तुके कमण्डलुको नाम नागराजो // तेन

[_mvu_3.328_] भगवां स्वके भवने वासेन च भक्तेन च निमन्त्रितो // तत्रापि भगवां एकरात्रोषितो कृतभक्तकृत्यो लोहितकातो गन्धपुरं गच्छति // गन्धपुरे कन्धो नाम यक्षो प्रतिवसति / तेन भगवां स्वके च भवने वासेन च भक्तेन च निमन्त्रितो // तत्रापि भगवान् एकरात्रोषितो कृतभक्तकृत्यो सारथिपुरं गच्छति // सारथिपुरे भगवां अन्यतरेण गृहपतिना वासेन च भक्तेन च निमन्त्रितो // तत्रापि भगवां एकरात्रोषितो कृतभक्तकृत्यो सारथिपुरातो गंगातीरम् अनुप्राप्तो // नाविको दानि आह // देहि तरपण्यं // भगवान् आह // कुतो मम समलेष्टुकांचनस्य व्यपगतजातरूपरजतस्य तरपण्यं // नाविको आह // यदि मे देसि तरपण्यन्तरीहसि अथ न ददासि न तरीहसीति // भगवान् आह //

नो हंसो नर्मदातीरे नाविकं परिपृच्छति / स्वकेन बाहुवीर्येण हंसो तरति नर्मदां //

इति वदित्वान संबुद्धो हंसराजेव प्रक्रमे / गंगाया तीरे अस्थासि ओघतीर्णो महामुनि //

भग्वां दानि गंगाम् उत्तीर्णो वाराणसीम् अनुप्राप्तः / संखमेधीयं अस्थासि भगवां कालं आगमेति वाराणस्यां पिण्डाय चरितुं / न हि विकाले विहरन्ति बुद्धा काले तु पिण्डाय चरन्ति ग्रामे / विकालचारीहि वसन्ति संगा तस्माद् विकाले न चरन्ति बुद्धा //

ऋषिपतने पंचका भद्रवर्गिया विहरन्ति आज्ञातकौण्डिन्यो अश्वकी भद्रको

[_mvu_3.329_] वाष्पो महानामो // भगवां वाराणसीतो पिण्डाय चरित्वा कृतभक्तकृत्यो ऋषिपतनं गच्छति // पंचकेहि भद्रवर्गीयेहि भगवान् दृष्टो / दूरतो एवागच्छन्तं दृष्ट्वा भगवन्तं क्रियाकारं करोन्ति // अयं श्रमणो गौतमो आगच्छति शैथिलिको बाहुलिको प्रहाणविक्रान्तो न केनचित् प्रत्युत्थातव्यं // भगवां चागच्छति ते च स्वकेषु स्थानेषु न रमन्ति / सय्यथापि नाम शकुन्ता नीडगता वा वृक्षशाखागता वा हेष्टतो अग्निना संतापियमाना उत्पतेन्सुः एवम् एव पंचका भद्रवर्गीया दूरतो एवागच्छन्तस्य स्वकस्वकेष्व् आसनेषु रतिं अविन्दन्ता भगवन्तं प्रत्युत्स्थायेन्सुः प्रत्युद्गमेन्सुः / एहि आयुष्मं गौतम स्वागतं आयुष्मतो गौतमस्यानुरागतं आयुष्मतो गौतमस्य // भगवान् आह // भग्ना वो भिक्षवः भद्रवर्गीया प्रतिज्ञा मा भिक्षवो भद्रवर्गीया तथागतं आयुष्मंवादेन समाचरथ // तेषां दानि भगवता शिक्षावादेनाभाष्टानां यत् किंचित् तीर्थिकलिंगं तीर्थिकगुप्ति तीर्थिककल्पं सर्वं समन्तरहितं त्रिचीवरा च प्रादुर्भवेन्सुः सुम्भका च पात्रा प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो च सानं संस्थिहे सय्यथापि नाम वर्षशतोपसम्पन्नानां भिक्षूणां / एष आयुष्मन्तानां पंचानां भद्रवर्गीयानां प्रव्रज्योपसंपदा भिक्षुभावो // ते दानि पक्वतैलेन भगवन्तं निमन्त्रयेन्सुः //

___बुद्धविचीर्णा नाम पुष्किरिणी तहिं भगवां स्नातो जानन्ता च बुद्धा भगवन्तो // अथ खलु भगवतः एतद् अभूषि // कतमस्मिं पृथिवीप्रदेशे पुरिमकाः सम्यक्संबुद्धा धर्मचक्रं प्रवर्तयेन्सुः // सह चित्तोत्पादेन भगवतो तं पृथिवीप्रदेशं ओनसति

[_mvu_3.330_] च // अथ खलु भगवत एतद् अभूषि // किं नु खलु पुरिमकाः सम्यक्संबुद्धाः गच्छन्तका धर्मचक्रं प्रवर्तेन्ति तिष्ठन्तो वा निषण्णा वा शयन्तका वा // सह चित्तोत्पादेन भगवतो ऋषिवदने पंच आसना प्रादुर्भूतानि // पंच भद्रवर्गीया भगवन्तं पृच्छन्ति // किस्य इमानि भगवन्* आसनानि // . . . . . . . . . . . . भगवान् आह // पुष्पिको नामायं भिक्षवो भद्रकल्पो भद्रकल्पे च बुद्धसहस्रेण उत्पद्यितव्यं // त्रीणि प्रतीतानि अहं चतुर्थो // क्रकुत्सन्दो नवयोजनप्रभो कोनाकमुनिर् द्वियोजनप्रभो काश्यपो चतुर्योजनप्रभो / अहं सर्वसिद्धार्थो व्यामप्रभो अजितो द्वादशयोजनप्रभो सिद्धार्थो विंशद्योजनप्रभो मैत्रेयो द्वादशयोजनप्रभो मैत्रीयशो अष्टादशयोजनप्रभो सर्वप्रभो दशयोजनप्रभो पृथिवीपालो द्वादशयोजनप्रभो पृथिवीविजयो चतुर्योजनप्रभो पृथिवीपश्यी त्रियोजनप्रभो जयमित्रो चतुर्योजनप्रभो सुग्रीवो द्वादशयोजनप्रभो सुदर्शनो दशयोजनप्रभो सुपश्यी दशयोजनप्रभो सर्वंजयो अष्टयोजनप्रभो सर्वाभिभू क्रोशयोजनप्रभो सर्वाभिभू अष्टयोजनप्रभो सर्वमित्रो द्वियोजनप्रभो अभिन्नाभो द्वादशयोजनप्रभो अतिसूर्यो चतुर्योजनप्रभो अभिभूयशो योजनप्रभो सुदयो योजनप्रभो सुदर्शनो योजनप्रभो सर्वाभिभूः षष्टियोजनप्रभो वैरोचनो सप्तयोजनप्रभो सर्वपश्यी . . . . . वैरोचनप्रभो नाम दशयोजनप्रभो //

___एवं मया श्रुतं एकस्मिं समये भगवां वाराणस्यां विहरति ऋषिवदने मृगदावे /

[_mvu_3.331_] तत्र भगवां आयुष्मन्तां पंचकां भद्रवर्गीयां आमन्त्रेसि भिक्षव इति भगवन्* इति भिक्षू भगवन्तं प्रत्यश्रोषीत्* // भगवां सानम् एतद् उवाच // द्वाव् इमौ भिक्षवः प्रव्रजितस्य अन्तौ / कतमा द्वौ / यश् चायं कामेषु कामसुखल्लिकायोगो ग्राम्यो प्राथुज्जनिको नालमार्यो नार्थसंहितो नायत्यां ब्रह्मचर्याये न निर्विदाये न विरागाये न निरोधाये न श्रामण्याये न संबोधाये न निर्वाणाये संवर्तति यश् चायं आत्मकिलमथानुयोगो दुःखो अनार्यो अनर्थसंहितो // इमौ भिक्षवः द्वौ प्रव्रजितस्य अन्तौ एते च भिक्षवो उभौ अन्ताव् अनुपगम्य तथागतस्यार्यस्मिं धर्मविनये मध्यमा प्रतिमदा अनुसंबुद्धा चक्षुकरणीया उपसमाये संवर्तनिका निर्विदाये विरागाये निरोधाये श्रामण्याये संबोधाये निर्वाणाये संवर्तति // कतमा सा भिक्षवः तथागतेनार्यस्मिं धर्मविनये मध्यमा प्रतिपदा अभिसंबुद्धा चक्षुकरणीया ज्ञानकरणीया उपसमसंवर्तनिका निर्विदाये विरागाये निरोधाये श्रामण्याये संबोधाये निर्वाणाये संवर्तति // यम् इदम् आर्याष्टांगिका सय्यथीदं सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्व्यायामः सम्यक्कर्मन्तो सम्यगाजीवः सम्यग्वाक् सम्यक्स्मृतिः सम्यक्समाधिर् इयं सा भिक्षवः तथागतेनार्यास्मिं धर्मविनये मध्यमा प्रतिपदा अभिसंबुद्धा चक्षुकरणीया उपसमसंवर्तनिका निर्विदाये विरागाये निरोधाये श्रामण्याये संबोधाये निर्वाणाये संवर्तति //

___चत्वारि खलु पुनर् इमानि भिक्षवो आर्यसत्यानि / कतमानि चत्वारि / सय्यथीदं दुःखम् आर्यसत्यं दुःखसमुदयो आर्यसत्यं दुःखनिरोधो आर्यसत्यं दुखनिरोधगामिनी

[_mvu_3.332_] प्रतिपदार्यसत्यं // तत्र भिक्षवः कतमं दुःखं आर्यसत्यं // तद्यथा // जातिः दुःखं जरा दुःखं व्याधि दुःखं मरणं दुःखं अप्रियसंप्रयोगं दुःखं प्रियविप्रयोगं दुःखं यं पीच्छन्तो पर्येषन्तो न लभति तं पि दुःखं रूपं दुःखं वेदना दुःखं संज्ञा दुःखा संस्कारा दुःखा विज्ञानं दुःखं संक्षिप्तेन पंचोपादानस्कंधा दुःखा / इदं भिक्षवः दुःखम् आर्यसत्यं // तत्र कतमो दुःखसमुदयो आर्यसत्यं / यायं तृष्णा पौनर्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी अयं भिक्षवो दुःखसमुदयो आर्यसत्यं // तत्र कतमो दुःखनिरोधो आर्यसत्यो / यो एतस्यैव तृष्णाये नन्दीरागसहगताये तत्रतत्राभिनन्दिनीये अशेषक्षयो विरागो निरोधो त्यागो प्रहाणो प्रतिनिःसर्गो अयं भिक्षवो दुःखनिरोधो आर्यसत्यः // तत्र कतमा दुःखनिरोधगामिनी प्रतिपदार्यसत्या / एषैव आर्याष्टांगो मार्गो / तद्यथा सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाचा सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः इयं भिक्षवः दुःखनिरोधगामिनी प्रतिपदार्यसत्यं //

___इदं दुःखम् इति भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिसो मनसिकारा ज्ञानं उदपासि चक्षुर् उदपासि विद्या उदपासि बुद्धि उदपासि भूरिर् उदपासि प्रज्ञा उदपासि आलोकं प्रादुरभूषि // अयं दुःखसमुदयो ति इदं भिक्षवो पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानम् उदपासि चक्षुर् उदपासि विद्या उदपासि बुद्धिर् उदपासि भूरिर् उदपासि मेधा उदपासि प्रज्ञा उदपासि आलोकं पृआदुरभूषि // अयं दुःखनिरोधो ति मे भिक्षवः पूर्वं अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानम् उदपासि चक्षुर् उदपासि विद्या उदपासि बुद्धिर् उदपासि भूरिर् उदपासि मेधा उदपासि

[_mvu_3.333_] प्रज्ञा उदपासि आलोको प्रादुरभूषि // इयं च दुःखनिरोधगामिनी प्रतिपदा इति मे भिक्षवो पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानं उदपासि यावद् आलोको प्रादुरभूषि // तं खलु पुनर् इमं दुःखम् आर्यसत्यं परिज्ञेयं ति मे भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानम् उदपासि यावद् आलोको प्रादुरभूषि // तेन खलु पुनर् अयं दुःखसमुदयो आर्यसत्यो प्रहातव्यो ति मे भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानम् उदपासि यावद् आलोकं प्रादुरभूषि // अथ खलु पुनर् अयं दुःखनिरोधो आर्यसत्यो साक्षीकृतो भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारा ज्ञानम् उदपासि यावद् आलोको प्रादुरभूषि // सा खलु पुनर् इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्या भाविता मे भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारा ज्ञानम् उदपासि यावद् आलोकं प्रादुरभूषि // यावच् चाहं भिक्षवः इमानि चत्वार्य् आर्यसत्यानि एवं त्रिपरिवर्तं द्वादशाकारं यथाभूतं सम्यक्प्रज्ञया नाभ्यज्ञासिषं न तावद् अहं अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो प्रतिजानेहं नापि ताव मे ज्ञानं उदपासि अकोप्या न मे चेतोमुक्तिः साक्षीकृता / यतो अहं भिक्षवः इमानि चत्वार्य् आर्यसत्यानि एवं त्रिपरिवर्तं द्वादशाकारं तथाभूतं सम्यक्प्रज्ञया अभ्यज्ञासिषं अथाहं अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ति प्रजानामि ज्ञानं च मे उदपासि अकोप्या च मे चेतोविमुक्तिः प्रज्ञाविमुक्तिः साक्षीकृता //

___इदम् अवोचद् भगवां वाराणस्यां विहरन्तो ऋषिवदनो गृगदावे इमस्मिं च पुनः व्याकरणे आयुष्मतो आज्ञातकौण्डिन्यस्य विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं

[_mvu_3.334_] अष्टादशानां च देवकोटीनां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं / इयं च महापृथिवी अतिरिव षड्विकारं कंपे छिन्नम् इव पत्रं वेधे संप्रवेधे पुरस्तिमश् च अन्तो उन्नमति पश्चिमो च अन्तो ओनमे पश्चिमो च अन्तो उन्नमे पुरस्तिमो च अन्तो ओनमे दक्षिणो च अन्तो उन्नमे उत्तरो चान्तो ओनमे उत्तरो चान्तो उन्नमे दक्षिणो चान्तो ओनमे मध्यो च ओनमे अन्तो उन्नमे अन्तो ओनमे मध्यो उन्नमे / अप्रमेयं च लोके ओभासम् अभूषि अतिक्रम्यैव देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं या पि ता लोकान्तरिका अन्धकारार्पिता तमिस्रा तमिस्रार्पिता अघा असंविदिता असंविदितपूर्वा यत्रेमे चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वालोकं स्फुरन्ति नापि च ते ओभासेन स्फुटा अभूषि / अन्ये पि ये तत्र सत्वा उपपन्ना ते पि तेनोभासेन अन्यमन्यं संजानेन्सुः / अन्ये पि किल भो सत्वा उपपन्ना / अन्ये पि किल भो सत्वा उपपंना / एकान्तसुखसमर्पिता च पुनस् तत्क्षणं तन्मुहूर्तं सर्वसत्वा अभून्सुः ये पि अवीचिमहानिरये उपपन्ना / भूम्या च देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः / एतं मारिष भगवता वाराणस्यां ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं अनुत्तरं धर्मचक्रं प्रवर्तितं अप्रवर्त्यं केनचिच् छ्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद् वा पुनर् लोके सह धर्मेण / भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्धिष्यन्ति //

[_mvu_3.335_] भूम्यानां देवानां घोषं श्रुत्वा चतुर्महाराजिका देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः / त्रयस्त्रिंशा देवा यामास् तुषिता देवा निर्माणरतयो देवा ब्रह्मकायिका देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः // एवं मारिष भगवता वाराणस्यां ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारम् अनुत्तरं धर्मचक्रं प्रवर्तितं अप्रवर्त्यं केनचिच् छमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा अन्येन वा पुन लोके सह धर्मेण / तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च / हायिष्यन्ति आसुराः काया दिव्याः काया अभिवर्धिष्यन्ति // आत्तमना आयुष्मन्तो पंचका भद्रवर्गीया भगवतो भाषितम् अभिनन्दे //

___भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थं अभिसंभावयित्वा वाराणस्यां विहरति शास्ता देवानां च मनुष्याणां च // तत्र खलु भगवां आयुष्मन्तां पंचकां भद्रवर्गीयान् आमन्त्रयसि // रूपं भिक्षवो अनात्मा वेदना अनात्मा संज्ञा अनात्मा संस्कारा अनात्मा विज्ञानं अनात्म / इदं रूपं चे भिक्षवः आत्मा अभविष्यत्* न व रूपं आबाधाय दुःखाय संवर्तेत ऋध्याच् च रूपे कामकारिकता एवं मे रूपं भवतु एवं मा भवतु यस्माच् च भिक्षवो रूपं अनात्मा तस्माद् रूपं बाधाय दुःखाय संवर्तति न चात्र ऋध्यति कामकारिकता एवं मे रूपं भवतु एवं मा भवतु // इयं वेदना चे भिक्षवो आत्मा अभविष्यत्* न च वेदना आबाधाय दुःखाय संवर्तति ऋध्या एवं वेदनाया कामकारिकता एवम् मे वेदना भवतु एवं मा भवतु / यस्माद् भिक्षवः

[_mvu_3.336_] वेदना अनात्मा तस्माद् वेदना आबाधाय दुःखसमुदयाय संवर्तति न चात्र ऋध्यति कामकारिकता एवं मे वेदना भवतु एवं मा भवतु // इयं संज्ञा चेत्* भिक्षवो आत्मा अभविष्यन् न भवति संज्ञा आबाधाय दुःखाय ऋध्यति च कामकारिकता एवं मे संज्ञा भवतु एवं मा भवतु / यस्माद् भिक्षवः संज्ञा अनात्मा तस्मात् संज्ञा आबाधाय दुःखाय संवर्तति न चात्र ऋध्यति संज्ञाया कामकारिकता एवम् एव संज्ञा भवतु // संस्कारा भिक्षवः आबाधाय संस्कारा चेद् भिक्षवः आत्मा अभविष्यन् न चैते संस्कारा आबाधाय दुःखाय संवर्तन्ति ऋध्या च संस्काराणां कामकारिकता एवं मे संस्कारो भवतु एवं मे मा भवतु / यस्माद् भिक्षवः संस्कारा अनात्मा तस्मात् संस्कारा आबाधाय दुःखाय संवर्तन्ति न चात्र ऋध्यति कामकारिकता एवं मे संस्कारा भवन्तु एवं मा भवन्तु // विज्ञानं चेद् भिक्षवो आत्मा अभविष्यत्* नेदं विज्ञानम् आबाधाय दुःखाय संवर्तति ऋध्येच् च विज्ञानस्य कामकारिकता एवं मे विज्ञानं भवतु एवं मा भवतु / यस्माद् भिक्षवो विज्ञानम् अनात्मा तस्माद् विज्नानं आबाधाय दुःखाय संवर्तति न चात्र ऋध्यति कामकारिकता एवं मे विज्ञानं भवतु एवं मा भवतु // तस्माद् इह भिक्षवो एवं शिक्षितव्यं // यत् किंचिद् रूपं अध्यात्मा वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यं दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं वा सर्वं रूपं नैतं मम नैषो हम् अस्मि न एतद् आत्मेति एवम् एतं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं / या काचिद् वेदना या काचित् संज्ञा ये केचित् संस्कारा यं किंचिद् विज्ञानं अध्यात्मं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा

[_mvu_3.337_] हीनं वा प्रणीतं वा यं दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं वा सर्वं विज्ञानं नैतं मम नैषो हम् अस्मि न एतम् आत्मेति / एवम् एतं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं // इदम् अवोचद् भगवां वाराणस्यां विहरन्तो ऋषिवदने मृगदावे इमस्मिं च पुनर् व्याकरणे भाष्यमाणे आयुष्मत आज्ञातकौण्डिन्यस्यानुपादायाश्रवेभ्यश् चित्तं विमुक्तं चतुर्णां च भिक्षूणां विरजं विगतमलं धर्मेषु धर्मचक्षु विशुद्धं आयुष्मतो अश्वकिस्य भद्रिकस्य वाष्पस्य महानामस्य त्रिंशतीनां च देवकोटीनां विरजं विगतमलं धर्मेषु धर्मचक्षुं विशुद्धं // आत्तमना आयुष्मन्तो पंचका भद्रवर्गिका भगवतो भाषितम् अभ्यनन्दे //

___भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थम् अभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे // तत्र खलु भगवां आयुष्मन्तां पंचकां भद्रवर्गिकां आमन्त्रयसि // सचेद् मन्यथ भिक्षवः किंमूलिका उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्य-उपायासाः संभवन्ति किंजातिका किंप्रभृतिका // एवम् उक्ते आयुष्मन्ता पंचका भद्रवर्गीया भगवतम् एतद् उवाचत्* // भवमूलका खलु भगवन्धर्मा भवनेत्रिका भगवन्भवप्रभवा भगवन्भवप्रतिशरणा साधु भगवां भिक्षूणाम् एतम् अर्थं भाषे / भिक्षू भगवतो संमुखाच् छ्रुत्वा संमुखात् प्रतिगृहीत्वा तथत्वाय धारयिष्यन्ति // एवम् उक्ते भगवां पंचकां भद्रवर्गिकां एतद् अवोचत्* // रूपमूलका भिक्षवः उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासास् संभवन्ति रूपजातिका रूपप्रभृतिका / वेदनामूलका संज्ञामूलका संस्कारमूलका विज्ञानमूलका भिक्षवः उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति विज्ञानजातिका विज्ञाप्रभृतिका //

___सचेन् मन्यथ भिक्षवो रूपं नित्यं वा अनित्यं वा // अनित्यं हि तं भगवं // रूपस्य

[_mvu_3.338_] खलु पुनर् भिक्षवः अनित्यतां विदित्वा चलतां प्रभंगुणतां विपरिणामविरागनिरोधतां विदित्वा ये रूपप्रत्यया उत्पद्येन्सुः आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पुनर्भविका आयत्यां जातिजरामरणीयास् ते विरुध्यन्ते / तेषां निरोधान् न उत्पद्ये आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया // सचेत्* मन्यथ भिक्षवो वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा // अनित्यं हि तं भगवन्* // भगवान् आह // साधु भिक्षवो विज्ञानस्य खलु पुनर् भिक्षवः अनित्यतां विदित्वा चलतां प्रभंगुणतां विपरिणामविरागनिरोधतां विदित्वा ये विज्ञानप्रत्यया उत्पद्येन्सुः आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका जातिजरामरणीयास् ते निरुध्यन्ति व्युपशाम्यन्ति प्रहाणम् अस्तंगच्छन्ति / तेषां निरोधान् नोत्पद्यन्ति विज्ञानमूलका आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया विज्ञानजातिका विज्ञानप्रभृतिकाः / तस्माद् इह वो भिक्षवः एवं शिक्षितव्यं // यत् किंचिद् रूपं अध्यात्मं वा बहिर्धा वा औदारिकं वा शूक्ष्मं वा हीनं वा प्रणीतं वा यं दूरे न्तिके अतीतम् अनागतं प्रत्युत्पन्नं सर्वं रूपं न एतं मम न एषो हम् अस्मि न एषो आत्मा ति एवं वो भिक्षवः शिक्षितव्यं // या काचिद् वेदना या काचित् संज्ञा ये केचित् संस्कारा यत् किंचिद् विज्ञानं अध्यात्मं वा बहिर्धा वा औदारिकं वा शूक्ष्मं वा हीनं वा प्रणीतं वा यं दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं नैते मम नैषो हम् अस्मि नैष आत्मा ति / एवम् एतं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं // इदम् अवोचद् भगवान् वाराणस्यां विहरन्तो ऋषिवदने मृगदावे इमस्मिंश् च पुन व्याकरणे भाष्यमाणे आयुष्मान् आज्ञातकौण्डिन्यो बलवशीभावं प्रापुणेसि / चतुर्णां भिक्षूणां अनुपादायाश्रवेभ्यश् [_mvu_3.339_] चित्तानि विमुक्तानि आयुष्मतो अश्वकिस्य भद्रिकस्य वाष्पस्य महानामस्य पंचांगिकानां च देवकोटीनां विरजं विगतमलं धर्मेषु धर्मचक्षूंषि विशुद्धानि / आत्तमना आयुष्मन्ता पंचका भद्रवर्गिका भगवतो भाषितम् अभिनन्दे //

___भगवां सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थम् अभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे / तेन खलु पुनः समयेन त्रयो भिक्षू वाराणसीं पिण्डाय प्रक्रमे / तेषां भिक्षूणां भगवां चेतसा चित्तानि अधिष्ठाय ओवदे अनुशासनं अनुशासे // एवं भिक्षवः मनसा करोथ एवं मनसीकरोथ इमां वितर्कां वितर्कयथ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणा धर्मद्वीपा धर्मशरणा अनन्यशरणा / तेहि ततो भिक्षवो आत्मद्वीपेहि विहरन्तेहि अनन्यद्वीपेहि धर्मद्वीपेहि धर्मशरणेहि अनन्यशरणेहि योनिशो उपपरीक्षितव्यं किंमूलका उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति किंजातिका किंप्रभृतिका // एवम् उक्ते भिक्षू भगवन्तम् एतद् अवोचत्* // भवमूलका भगवन्धर्मा भवनेत्रिका भगवन्भवप्रभवाः भवप्रतिशरणा / साधु भगवां भिक्षूणाम् एतम् अर्थं भाषे भिक्षू भगवतः संमुखाच् छ्रुत्वा संमुखात् प्रतिगृहीत्वा तथत्वाय धारयिष्यन्ति // एवम् उक्ते तां भिक्षू भगवान् एतद् अवोचत्* // रूपमूलका भिक्षवो उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति रूपजातिका वा रूपप्रभृतिका वा / सचेत्* मन्यथ भिक्षवः रूपं नित्यं वा अनित्यं वा // रूपं अनित्यं हीदं भगवन्* // साधु भिक्षवः रूपस्य खलु पुनर् भिक्षवः अनित्यतां विदित्वा दुर्बलतां प्रभांगुणतां विपरिणामविरागनिरोधतां

[_mvu_3.340_] विदित्वा ये रूपप्रत्यया उत्पद्यन्ति आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया ते निरुध्यन्ते // सचेत्* मन्यथ भिक्षवः वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा // अनित्यं हीदं भगवन्* // भगवान् आह // साधु भिक्षवो विज्ञानस्य खलु पुनर् भिक्षवो अनित्यतां वा दुर्बलतां प्रभंगुणतां विदित्वा ते निरुध्यन्ति व्युशाम्यन्ति प्रहाणम् अस्तंगच्छन्ति / तेषां निरोधातो न उत्पद्यन्ति आश्रवा विघाता परिदाघा सज्वराः सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया निरुध्यन्ति / विज्ञानमूलका आश्रवा विघाता परिदाघा सज्वराः सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया विज्ञानजातिका विज्ञानप्रभृतिकाः / तस्माद् इह वो भिक्षवो एवं शिक्षितव्यं / यत् किंचिद् रूपं अध्यात्मं वा बहिर्धा वा औदारिकं वा शूक्ष्मं वा हीनं वा प्रणीतं वा यद्दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं सर्वं रूपं नैतं मम नैषो हम् अस्मि नैष आत्मेति एवम् एव तं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं // इदम् अवोचद् भगवां वाराणस्यां विहरन्तो ऋषिवदने मृगदावे इमस्मिंश् च पुनर् व्याकरणे भाष्यमाणे त्रयो भिक्षू बलवशीभावं प्रापुणेन्सुः अशीतीनां च देवकोटीनां विरजा विगतमला धर्मेषु धर्मचक्षूणि विशुद्धानि / आत्तमना ते भिक्षू भगवतो भाषितम् अभिनन्दे //

___अथ खलु भगवां आषाढमासस्य उत्तरपक्षे द्वादशीयं पश्चाभक्तः पुरस्तात् संमुखो निषण्णो ध्यर्धपौरुषायां छायायां अनुराधे नक्षत्रे विजये मुहूर्ते अनुत्तरं धर्मचक्रं प्रवर्तितं // न खलु पुनर् बुद्धा भगवन्तो सुवर्णमयं वा धर्मचक्रं प्रवर्तेन्ति रूप्यमयं वा मुक्तामयं वा वैडूर्यमयं वा स्फटिकमयं वा मुसारगल्वमयं वा लोहितिकामयं

[_mvu_3.341_] वा रीतिकामयं वा ताम्रमयं वा लोहमयं वा शैलमयं वा दारुमयं वा मृत्तिकामयं वा / अथ खल्व् इमान्य् एव चत्वार्य् आर्यसत्यानि त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं // प्रवर्तिते प्रथमं धर्मचक्रप्रवर्तनसूत्रे आयुष्मतो आज्ञातकौण्डिन्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धं अष्टादशानां देवकोटीनां च / इयं च महापृथिवी अतिरिव षड्विकारं कम्पे प्रकंपे संप्रकम्पे वेधे प्रवेधे संप्रवेधे दक्षिणतो अभिध्यायति वामतो पि अभिध्यायति वामदक्षिणतो पि अभिध्यायति संहर्षणीयं च कम्पयति दर्शनीयं च कम्पयति तोषणीयं च कम्पयति प्रेमणीयं च प्रल्हादनीयं च निर्वापनीयं च उल्लोकनीयं चासेचनकं चाप्रतिष्कूलं च प्रासादिकं च प्रसदनीयं च निरुद्वेगं च निरुत्त्रासं च कम्पति कम्पमाना च पुनर् महापृथिवी न कंचित् सत्वं व्याबाधति यद् इदं त्रसं वा स्थावरं वा भगवतो ऽनुभावेनाप्रमेयं च लोके ओभासम् अभूषि अतिक्रम्य देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं / या पि ता लोकान्तरिका अन्धकारार्पिता वा तमसा तमसार्पिता अघा असंभूता असंभूतपूर्वा यत्रेमे चन्द्रमसूर्या एवं महर्द्धिका महानुभावा आभाये आभां नाभिसंभुणन्ति आलोकेन वालोकं न स्फुरन्ति ता पि तेनावभासेन स्फुटा अभून्सुः / ये पि तत्र सत्वा उपपन्ना ते प्य् अन्यमन्यं संजानेन्सुः अन्ये पि किल भो इह सत्वा उपपन्ना अन्ये पि किल भो इह सत्वा उपपन्ना एकान्तसुखसमर्पिता च पुनस् तत्क्षणं तत्मुहूर्तं सर्वसत्वा अभून्सुः ये पि चावीचिस्मिं महानरके उपपन्नाः //

___भगवाम् धर्मचक्रं प्रवर्तेन्तो एकषष्टिं त्रिसाहस्रमहासाहस्रलोकधातूं भाषमाणस्वरेणाभिविज्ञापेति

[_mvu_3.342_] ततो च परेण बुद्धक्षेत्राणि / ये च तस्मिं समये बुद्धा भगवन्तो तेषां तेषां च परलोकधातुषु परिषदि धर्मं देशेन्ति ते भगवतो धर्मचक्रं प्रवर्तेन्तस्य तूष्णी अभून्सुः // दुःप्रसहो सम्यक्संबुद्धो परिषदि धर्मं देशयति / भगवां दुःप्रसहो तूष्णी अभूषि बुद्धघोषो च निश्चरति / विस्मिता परिषा भगवन्तं दुष्प्रसहं पृच्छति // भगवं बुद्धघोषो निश्चरति / तस्मिं निश्चरन्ते तूष्णी अभूल् लोकनाथो दुष्प्रसहो विस्मिता परिषत्कलविंकमंजुघोषो मेघस्तनितदुन्दुभिस्वराभिगमो निश्चरति बुद्धघोषो न जल्पति वादीनां प्रवरो भगवान्* // दुष्प्रसहो आह //

लोकधातु महानाम तत्र शाक्यमुनिर् जिनः / धर्मचक्रं प्रवर्तेति यस्य घोषो निश्चरति //

लोकधातुसहस्राणि असंख्येयानि घोषये / श्रूयति वरबुद्धिस्य यथा दूरे थ सन्तिके //

एवं महानुभावो यं परिपूर्णमनोरथो / संविभागं प्रवर्तेति संबुद्धो बोधियर्थिनां ति //

येन स्वरेण समन्वागतस् तथागतो र्हं सम्यक्संबुद्धो वाराणस्यां ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं अनुत्तरं धर्मचक्रं प्रवर्तयति सो स्वरो षष्टिभिर् आकारैः समन्वागतः / कतमैः षष्टिभिः / गम्भीरश् च तथागतस्वरो भीमरूपश् च आज्ञेयश् च हृदयंगमश् च

[_mvu_3.343_] प्रेमणीयश् च असेचनकश् च अप्रतिवाणीयश् च विसृष्टश् च अप्रतिकूलश् च अवर्णश् च अच्छिद्रश् च अप्राग्भारश् च अकल्माषश् च रथनेमिघोषश् च मेघस्तनितमेघगर्जितस्वरश् च वातवृष्टिस्तनितसमगर्जितस्वरश् च देवस्वरश् च ब्रह्मस्वरश् च अनुकूलस्वरश् च अदुष्टस्वरश् च अमूढस्वरश् च अनुत्सन्नश् च अनुत्सदश् च अक्षुभितश् च अर्थस्वरश् च सत्यस्वरश् च श्रीमत्स्वरश् च पुंगवस्वरश् च सिंहस्वरश् च नागस्वरश् च आजानेयस्वरश् च क्रौञ्चस्वरश् च कलविंकस्वरश् च कोकिलस्वरश् च वर्ण्णस्वरश् च मंजुस्वरश् च विज्ञानस्वरश् च अक्षरसंपन्नश् च विज्ञानसंपन्नश् च मृदुसंपन्नश् च विस्तारसंपन्नश् च कुशलजातसंपन्नश् च सत्यविस्तरसंपन्नश् च कुशलमूलजातसंपन्नश् च सुस्वरसम्पन्नश् च हर्षणीयसंपन्नश् च तन्त्रीस्वरश् च गीतस्वरश् च वादितस्वरश् च कुम्भस्वरश् च पुरुषस्वरश् च अतिस्वरश् च दुन्दुभिस्वरश् च अनुत्तरस्वरश् च तथागतस्वरः // सर्वदिशां पुनस् तथागतस्वरः स्फुरति न कहिंचित् प्रतिहन्यते / येन स्वरेण समन्वागतः तथागतो अर्हन् सम्यक्संबुद्धो वाराणस्यां ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रवर्तेति सो स्वरो एभिः षष्टिभिः आकारैः समन्वागतः //

___अथ खलु महाब्रह्मा ताये वेलाये भगवन्तं संमुखाभिः सारूप्यगाथाभिर् अभिस्तवे //

सत्वसारवराग्रेण इक्ष्वाकुकुलसंभवे / धर्मचक्रं प्रवर्तेन्तेन मेदिनी संप्रकम्पिता //

उत्पाता च नाम भीष्मा अशीतिं समपद्यथ / धर्मचक्रस्य तेजेन अशीतिं पुनर् भूमिजा //

ओघपुष्पविचित्रांगा उत्पतन्ति वलाहका / काशीहितकरं नाथं ओकिरेन्सुर् नरोत्तमं //

[_mvu_3.344_] जता इव प्रमुक्तांगी उत्पतन्ति वलाहका / हेमकंबुधरा भीमा मेघा कुसुमसंचया //

श्रुत्वान नरसिंहस्य धर्मकायम् उपस्थितं / सनत्कुमारो चिन्तेति संस्तवामि तथागतं //

सो च भूतेन वर्णेन प्रभाये सुविजानितं / संस्तवे गगने स्थाने ब्रह्मा सर्वार्थदर्शिनं //

बुद्धसागरपर्यन्तां निषण्णो रतनावतीं / कंपेति यो त्रिसाहस्रां वजिरं क्षिपसि गौतम //

आलोकमात्रसंविग्ना दिशा दश समन्ततो / त्वया आयुधश्रेष्ठस्मिं क्षिप्तस्मिं पुरुषोत्तमं //

उत्क्षिपयन्तो विपर्यासा दृष्टिगहननिश्रितां / नागराजो नरेन्द्राग्रो राजे सिंहगतिर् जिनः //

सिंहो यथा असन्त्रस्तो पर्वतान्तरनिश्रितो / त्रासयन्तो अरीं सर्वां राजे सिंहगतिर् जिनः //

मारपक्षं अभ्याहत्यं मारसेनाग्रसूदन / दक्षिणेन व व्यूहन्तो उच्छ्रयेसि जिनध्वजं //

महारतननिर्घोषा कंपते सा न सीदति / स्वरेण वदतोत्थाप्यानुस्मृता वसुन्धरा //

हेमकांचनवर्णाभं धातुम् उत्तममुत्तमाः / मुनिं समन्ता अभिकिरेन्सुः मेरुगगणम् आश्रिताः //

[_mvu_3.345_] प्रसन्नचित्तो सुमनो प्रांजलिप्रणतेन्द्रियः / धर्मचक्रं अहं श्रुत्वा तेन अस्मि इहागतो //

भगवता प्रथमे धर्मचक्रप्रवर्तनसूत्रे आज्ञातकौण्डिन्यः अष्टादशा च देवकोटीयो विनीता ते देवा देवभवनेषु आरोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति //

सर्वे अशरणा स्कन्धा अधितप्ता महद्भया / अनिःसृता असारा च इति भाषति गौतमो //

अलं भवां प्रसादाय . . . तत्वार्थदर्शिमां / बुद्धं वैरभयातीतं अभिक्रमथ वन्दनां //

त्रिंशद् देवताकोटीयो ऋषिवदनम् आगता / ते द्वितीये धर्मचक्रप्रवर्तनसूत्रे भाष्यमाणे विनीतास् ते पि भवनेषु रोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति / तेषां श्रुत्वा पंचाश देवताकोटीयो आगताः ते पि भगवता तृतीये धर्मचक्रप्रवर्तनसूत्रे विनीतास् ते पि देवभवनेषु आरोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति / तेषां श्रुत्वा अशीति देवताकोटीयो आगता ते पि भगवता चतुर्थे धर्मचक्रप्रवर्तनसूत्रे विनीतस् ते पि देवभवनेषु आरोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति //

___अथ खलु शिखरधरो नाम तुषितकायिको देवपुत्रो भगवन्तं ऋषिवदनं गतं संमुखाभिर् गाथाभिर् अभिस्तवे //

सगारवो सप्रतीसो ब्रह्मा कृत्वानम् अंजलिं //

साधु ते साधुरूपस्य व्यामप्रभा प्रतिपद्यते / साधु अर्थान्वितं साध्यं वचनं ते मनोरमं //

[_mvu_3.346_] साधु अरतिसंयोगः सर्वसन्धिगुणान्वितः / साधु चत्वारि सत्यानि सत्यं प्रवदसे मुने //

साधु ते देवगन्धर्वा पिबन्ति मधुरां गिरां / साधु अप्रतिमं चक्रं प्रवर्तेसि अप्रवर्तियं //

तुह्यं लोके समो नास्ति रूपे वर्णे कुले तथा / ईर्यापथे च वीर्ये च ध्याने ज्ञाने तथैव च //

अद्य अष्टादशा वीर कोटीयो प्रथमे फले / विनीता देवपुत्राणां आसने प्रथमे मुनि //

त्रिंशच् च कोटीयो पुनर् विनीता प्रथमे फले / द्वितीय आसने वीर देवपुत्राण मारिष //

पंचाश कोटीयो भूयो आसने तृतीये पुनः / विनीता देवपुत्राणां अपायेषु विमोचिता //

अशीति कोटीयो भूयो श्रोतापत्तिफले विभु / चतुर्थे आसने नीता दुर्गतीषु विमोचिता //

तस्मात् ते सदृशो नास्ति मैत्र्याय पुरुषोत्तम / करुणाय च कारुणिको अकुतोभय नरर्षभ //

दिष्ट्या पुरुषशार्दूल उत्पन्नो लोकसुन्दरो / हिताय सर्वसत्वानां चिरन् तिष्ठ महामुने //

अचिरस्य राजसुत उत्पन्नो सि नरर्षभ / प्रणेता विप्रणष्टानां अन्धानां नयनं ददा //

नास्मासु कदाचिद् भूत्वा गुरुर् अन्तरहायतु /

[_mvu_3.347_] अपर्यन्तं तव स्थानं भवतु लोकनायक //

अपाया तत्रान्तीभूता स्वयंभू तव तेजसा / निराकाशो कृतो स्वर्गो त्वां प्राप्य पुरुषोत्तम //

यो मिथ्यत्वनियतो राशि पुरुषपुंगवोत्तम / एष अनियतं राशिं त्वां प्राप्य पूरयिष्यति //

यश् चाप्य् अनियतो रशि त्वां प्राप्य सुरवन्दित / पूरयिष्यति सम्यक्त्वराशिं राजकुलोदित //

अद्भुतानां च धर्माणां विवृद्धिर् उपलभ्यते / त्वां प्राप्य पुरुषादित्यं तमोन्तकरम् अच्युतं //

तस्य ते भाषमाणस्य भूतां धर्मां जनप्रिय / अभिनन्दति ते वाक्यं सेन्द्रो लोको महामुने //

इति स्तुवन्ति देवगणा वरदं प्रीतिमानसं / अनन्तगुणसंपन्नं सार्थवाहनरोत्तमम् इति //

भिक्षू भगवन्तम् आहंसुः // कस्य भगवन् कर्मस्य विपाकेन आयुष्मता आज्ञातकौण्डिन्येन सर्वप्रथमं धर्मं आज्ञातं // भगवान् आह // एतस्यैवैष भिक्षवः पूर्वप्रणिधानं // भूतपूर्वं भिक्षवो अतीतम् अध्वानं राजगृहे नगरे कुम्भकारशालायां प्रत्येकबुद्धेन पित्तव्याधिकेन प्रतिश्रयो याचितो / सो तेन कुम्भकारेण उपस्थितो च पित्ताबाधातो मोचितो // तेन दानि प्रत्येकबुद्धेन ये परिचारिता प्रत्येक्बुद्धा ते तहिं भार्गवशालां तस्य प्रत्येकबुद्धस्य पित्तव्याधिकस्य क्षेमणीयपृच्छा आगता // भार्गवो प्रत्येकबुद्ध्ं ततो पित्ताबाधातो मोचेत्वा पृच्छति / केन वो प्रथमं धर्मं आज्ञातं //

[_mvu_3.348_] सो प्रत्येकबुद्धो आह // मया सर्वप्रथमं धर्मो आज्ञातो पश्चाद् एतेहि // सो दानि भार्गवो प्रणिधानम् उत्पादेति / यं मया कुशलमूलम् उपचित्ं तव उपसंस्थानपरिचर्यां कृत्वा तेन कुशलमूलेन अहम् अपि सर्वप्रथमं बुद्धस्य भगवतो धर्मं देशितम् आजानेयं / न च लाभसत्कारं स्पृहयेयं प्रान्तानि च शय्यासनानि स्पृहयेयं इतरेतरेण च पिण्डपात्रेण सन्तुष्टो भवेयं निर्झरेषु च वनखण्डेषु एकस्य मृतभूतस्य शरीरनिक्षेपनं भवेय // भगवान् आह // स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन राजगृहे नगरे भार्गवो अभूषि न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष स भिक्षवः आज्ञातकौण्डिन्यस्थविरस् तेन कालेन तेन समयेन राजगृहे भार्गवो अभूषि / यं से त्स्य प्रत्येकबुद्धस्य पित्ताबाधिकस्य प्रतिश्रयं दिन्नं च पारिचर्या कृता प्रणिधानं च उत्पादितं यथा तव सर्वप्रथमं धर्मो आज्ञातो पश्चाद् अन्येहि एवम् अहं पि सर्वप्रथमं बुद्धस्य भगवतो धर्मं देशितम् आजानेयं तस्य कर्मस्य विपाकेन तेनाज्ञातकौण्डिन्येन सर्वप्रथमं धर्मं आज्ञातं पश्चाद् अन्येहि //

यं कुशलमूलम् उपचितम् अशनवसनभक्ष्यपारिचरियाये / तेन कुशलमूलेन् पुरुषवरसमागमो भवतु //

यथा त्वया सर्वप्रथमं धर्मो आज्ञातो पश्चान्येहि / एवम् अहं सर्वप्रथमं देशितम् आजानेयं जिनस्य //

अल्पेच्छः संतुष्टः इतरेतरपिण्डकेन यापेन्तो / प्रशमसुखवृंहितमनो न लाभसत्कारं स्पृहयेयं //

प्रान्तारण्य मृहयूथपर्यटिता पर्वतानि . . . . . / तत्र मम निधनसमये शरीरनिक्षेपणो भवेया //

[_mvu_3.349_] सत्कृत असत्कृता वा आयुर् विज्ञानं उष्मगता व / कस्य जनेति प्रीतिर् धरणिरजसमे मृतशरीरे //

_____आज्ञातकौण्डिन्यस्य जातकं समाप्तं //

भिक्षू भगवन्तम् आहन्सुः // भगवता आत्मपरित्यागानि कृत्वा पुत्रपरित्यागानि कृत्वा दारापरित्यागानि कृत्वा अर्थपरित्यागानि कृत्वा राज्यपरित्यागानि च कृत्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धित्वा आयुष्मान् आज्ञातकौण्डिन्यः महता अर्थेन संयोजितः // भगवान् आह // न भिक्षव एतरहिम् एव मया एष आज्ञातकौण्डिन्यो महता अर्थेन संयोजितो / अन्यदापि एषो मया आत्मत्यागं कृत्वा महता अर्थेन संयोजितः // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवो //

___भूतपूर्वं अतीतमध्वाने कोशलराजा अभूषि कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो / तस्य च राज्यं ऋद्धं अभूषि स्फीतो च क्षेमो च सुभिक्षो च आकीर्णजनमनुष्यो च सुखितमनुष्यो च प्रशान्तदण्डडिम्बडमरः सुनिगृहीततस्करो व्यवहारसंपन्नो धर्मेण परिपालियन्तो / तस्य च राज्ञो देशे देशे कल्याणकीर्तिशब्दश्लोको दायकदानपतिसत्कृतः परानुग्रहप्रवृत्तो परलोकदर्शी // तस्य धार्मिको ति कृत्वा अपरलोकदर्शी काशिराजा तस्य तं कोशलराज्यं अतिक्रामितुकामो चतुरंगं बलकायं संनाहयित्वा हस्तिकायम् अश्वकायं रथकायं पत्तिकायं तं कोशलविषयं आगतो // तस्य कोशलराजस्य अमात्येहि भटबलाग्रेण च काशिराजो

[_mvu_3.350_] भग्नो एकांशेन पलानो सर्वो बलाग्रो भिन्नो // सो अपरकालेन भूयो चतुरंगेन बलकायेन आगतो पुनर् अपि भग्नो गतो // एवं सो काशिराजा पुनर्पुनश् चतुरंगेन बलकायेन तं कोशलविषयं आगच्छति // तत्र बहूनि प्राणिसहस्राणि उभयतो अन्यमन्यस्य असिशरशक्तितोमराणि काये उपनिपातेन्ता अनयव्यसनम् आपद्यन्ति // तस्य कोशलराज्ञो धार्मिकस्य सकृपस्य परलोकदर्शिस्य तानि प्राणसहस्राणि अनयव्यसनम् आपद्यन्तानि दृष्ट्वा चित्तस्य संवेगम् उत्पन्नं अधिगतं राज्यं राज्यलोभेन जननिधनं इमं एवरूपं अधर्मं क्रियति // सो संविग्नो तं राज्यं उज्झित्वा एक अद्वितीयो अज्ञातवेशेन दक्षिणापथं गच्छति तत्र येन केनचिद् व्यवहारेण आत्मनो वृत्तिं कल्पयिष्यामि //

___सो दानि गच्छन्तो अध्वानकिलांतो वातातपसंतप्तो न्यग्रोधस्य हेष्ठा शीतलायां छायायां विश्रमन्तो आसति अपरो च समुद्रयात्रिको सार्थवाहो विपन्नयानपात्रो सर्वेण अर्थेन समुद्रे विनष्टेन दक्षिणातो समुद्रातो कोशलं आगच्छति // शृणोति कोशलराजा धार्मिको सकृपो च परानुग्रहप्रवृत्तो च बहूनि प्राणसहस्राणि पतन्तानि धनक्षीणान् अभ्युद्धरति अर्थमात्राये परिग्रहं करोति इति सो मे अर्थमात्रं दास्यति येन पुनर् व्यवहारं करिष्यामि आत्मानं च पतितं उद्धरिष्यामि // सो दानि तं कोशलराजं आशां कृत्वा दक्षिणापथातो अनुपूर्वेण कोशलराज्ञो विषयम् अनुप्राप्तः // सो तहिं न्यग्रोधे कोशलराज्ञो सकाशम् आगतो // राजा तं सार्थवाहं पृच्छति / धर्मभ्राते मा श्रान्तो सि क्लान्तो वासि विश्रम इमा शीतला न्यग्रोधच्छाया त्वं चाध्वाक्लान्तो // सो दानि आह // धर्मभ्राता सुखन् ते भवतु गमिष्यामीति // राजा दानि आह // धर्मभ्राता ते कहिं त्वरितं गमनप्रयोजनं यं नेच्छसि विश्रमितुं पि // सो दानि आह // अहं भद्रमुख अमुकातो अधिष्ठानातो

[_mvu_3.351_] सार्थवाहो समुद्रयात्रिको / सो अहन् ततो स्वकातो अधिष्ठानातो प्रभूतेनार्थेन नानाप्रकारं पण्यम् आदाय समुद्रपत्तनेषु युक्तेन यानपात्रेण महान्तं समुद्रम् ओतीर्णो / तत्र मे महासमुद्रे तं यानपात्रं अर्थभरितं विपन्नं फलकेनाहं समुद्रातो जीवन्तो प्रत्युत्तीर्णो शरीरमात्रेण / सो हं गच्छामि कोशलराज्ञो सकाशं अर्थमात्रस्य अर्थाये येन पुनः व्यवहारं करेयं पतितं चात्मानं उद्धरेयं / एताये आशाये एवं दूरतो स्मि चरन्तो आगतो //

___सो दानि कोशलराजा तस्य सार्थवाहस्य वचनं श्रुत्वा प्रारोदीद् अश्रूणि च प्रवर्तेति // सार्थवाहो तं आह // भद्रमुख किं रोदसि // राजा आह // रोदयामि यं त्वं विपन्नयानपात्रो आशाभूतो दूरतो मम उद्दिश्य आगतो कोशलराजा मम अर्थमात्राये संग्रहं करिष्यति येन पुनर् व्यवहारं च करिष्यामि पतितं चात्मानम् उद्धरिष्यामि / मम च तं राज्यं काशिराज्ञा आक्रान्तं शरीरमात्रेण दक्षिणापथं प्रयातो येन केनचिद् व्यवहारेण आत्मनो वृत्तिं कल्पयिष्यामि / एवं रोदामि यत् त्वं मम शब्देन एवं दूरं आगतो इमा च मम एदृशा विपत्ती राज्यतो स्मि परिभ्रष्टो // सो दानि सार्थवाहो तं कोशलराजानं गाथाये अध्याभाषे //

तव प्रवादेन हि त्यागशूर दूरतो श्रुत्वा इह आगतो स्मि / मनोरथाशाबलवृंहिता मे आशा निराशा कृत दर्शनेन //

राजा आह //

मनोरथशतान अहं प्रदाता सदेवमनुजे सदृशो न मे स्ति /

[_mvu_3.352_] प्राणां त्यजिष्यं तव कारणाय मा मे प्रवादो वितथो भवेया //

सो दानि राजा तं सार्थवाहं निराशं मूर्छित्वा भूम्यां पतितं समाश्वासयति त्वं दूरतो ममाशाभूतो उद्दिश्य इहागतो अहं तत्र तथा करिष्यामि यथा तव निष्फलं आगमनं न भविष्यति / तव कारणेनात्मानं परित्यजिष्यामि // मम पश्चाद् बाहुं बंधित्वा काशिराज्ञो उपनामेहि / ततो ते काशिराजा तुष्टो प्रभूतं अर्थं दास्यति / कामं अहं आत्मानं परित्यजामि मा पुनस् तव निष्फला ममोद्दिश्य आशा भवतु // सो दानि सार्थवाहो आह //

न उत्सहामि पुरुषर्षभस्य प्रचर्तुं पापं धनकारणार्थं / यथाश्रवो तादृशं दर्शनन् ते सुदुष्करं क्रियति लोकपण्डित //

राजा आह //

किं जीवितफलं येषां लोके श्रवो न महाभगो / अर्थार्थो न उपगतो भग्नप्रणयो निवर्तेय //

कामं शत्रुभिर् वधिष्यं सुदुष्करं कामं शत्रुश् छेत्स्यति मह्य गात्रं / कामं हि प्राप्स्यं वेदनाम् अतितीव्रां दुःखं सहिष्यं मा च ते स्यान् निराशा //

सो च काशिराजा कोशलराज्ञो जीवितेन नन्दति प्रत्यहश् चैवं घोषयति यः कोशलराज्ञो शीर्षम् आनयति तस्य महान्तं दानं ददामीति // यावत् तेन कोशलराज्ञा

[_mvu_3.353_] पुनर्पुनर् उच्यमानेन स कोशलराजा सार्थवाहेन पश्चाद् बाहुबन्धनं कृत्वा काशिराज्ञो उपनामितं //

___काशिराजा आह // अहो अयं राजा शूरश् च कृतयोग्यश् च कथं त्वया बध्वा आनीतः // यावत् तेन सर्वम् आत्मनः आगमनकारणं कथितं काशिराजा च विस्मयजातः आह // न युक्तम् अस्माकं एवं धार्मिकस्य राज्ञो राज्यम् अपहर्तुम् इति // पुनर् अपि कोशलराजानं स्वके राज्ये अभिषिंच्य काशिराज्यं गतः / यावत् तेन कोशलराज्ञा सार्थवाहस्य महान्तं धनस्कंधं दत्तम् इति //

___स्यात् खलु पुनः भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स कोशलराजा / नान्यस् तदा अहं स भिक्षवस् तदा कोशलराजा अभूषि // नान्यो द्रष्टव्यः आज्ञातकौण्डिन्यः तदासार्थवाहो अभूषि // तदापि मया आत्मपरित्यागं कृत्वा एषो महता अर्थेन संयोजितः एतरहिं पि मया बहूनि दुःखपरित्यागशतानि परित्यजित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धित्वा महतार्थेन संयोजितः //

_____समाप्तं आज्ञातकौण्डिन्यस्य जातकं //

भिक्षू भगवन्तम् आहन्सुः // भगवता पंच भद्रवार्गीया अन्यतीर्थिकसंश्रिता दारुणेन दृष्टि-ओघेन वुह्यमाना ततो दृष्टिगतिषु विनिवर्तियित्वा भयभैरवातो संसारसागरातो उद्धरित्वा क्षेमस्थले शिवे शमे अभये निर्वाणे प्रतिष्ठापिताः // भगवान् आह // न भिक्षवः एतरहिम् एव पंचका भद्रवर्गिका मया संसारसागरातो तारिता अन्यदापि मया एते महासमुद्रातो भग्नयानपात्रा अलेना अत्राणा अशरणा अपरायणाः कृच्छ्रप्राप्ता व्यसनम् आगता आत्मपरित्यागं कृत्वा महासमुद्रातो स्वस्तिना प्रतिष्ठापिताः // भिक्षू आहन्सुः // अन्यदापि भगवं // भगवान् आह // अन्यदापि भिक्षवः //

[_mvu_3.354_]___भूतपूर्वं भिक्षवो अतीतमध्वाने जम्बुद्वीपे वाणिजका धनहेतुना यानपात्रेण महासमुद्रम् अवतीर्णास् तेषां तं यानपात्रं मकरेण मत्स्यजातेन भिन्नं तहिं तहिं ये केचिद् वाणिजा . . . . . . . . . . . . . . . . . . बाहाहि प्लवन्ति सार्थवाहेनापि किंचित् पूर्वं प्रतिपन्नं सो पि बाहाहि समुद्रे प्लवति // तस्य दानि सार्थवाहस्य समीपे पंच वाणिजका बाहाहि सार्थवाहेन सार्धं महासमुद्रे प्लवन्ति // सार्थवाहस्यैतद् अभूषि // नास्माभिः शक्यं बाहाहि इमं महासमुद्रं तरितुं इहास्माभिः सर्वेहि मरितव्यं श्रुतं च मे महासमुद्री मृतकुणपेन सार्धं रात्रिं न प्रतिवसति / यं नूनाहं देहपरित्यागं कृत्वा इमां पंच वाणिजां इतो महासमुद्रातो स्वस्तिना स्थलं प्रापयेयं // सार्थवाहस्य च शस्त्रं व हस्तगतं आसी / सो तेषां पंचानां वाणिजकानां आह // मम सर्वे लग्नथ अहं वो स्वस्तिना महासमुद्रातो स्थले प्रतिष्ठापयिष्यामि // ते दानि तत्र उदके अप्रतिष्ठे अनालम्बे सर्वे पंचका वाणिजकाः सार्थवाहस्य लग्ना ततो सार्थवाहेन शस्त्रेण स्वगलकं विकर्तितं न महासमुद्रो मृतकुणपेन सार्धं रात्रिं प्रतिवसति // अथ खलु भिक्षवो क्षिप्रम् एव महासमुद्रेण तं कुणपं स्थले वास्थापितं // ते दानि सर्वे पंच वाणिजकाः सागरवेगेन कुणपेन सार्धं स्थलं क्षिप्ता / इयं ज महापृथिवी अतिरिव संप्रचलिता महंतो च भूतानां निनादो अभूषि / देवा नागा यक्षा असुरा महासमुद्रे किम् इदं ति उदीरिन्सुः // महासमुद्रदेवता आह // एषो बोधिसत्वो वाणिजकेहि सार्धं यानपात्रेण महासमुद्रम् अवतीर्णः तेषां तं यानपात्रं मकरेण मत्स्यजातेन भिन्नं येहि च वाणिजकेहि पूर्वं प्रतिपन्नं ते बोधिसत्वेनात्मपरित्यागेन महासमुद्रातो स्थलं प्रापिता /

[_mvu_3.355_] मयं प्रमत्तविहारा येहि न समन्वाहृतं एवं दुष्करकारका बोधिसत्वा सर्वसत्वानां अनुग्रहप्रवृत्ता //

भूतपूर्वम् अतीतं बोधाय चरन्तो वादिप्रवरो / ओतीर्णो लवणजलं तिमिमकरनिसेवितं रम्यं //

अथ मत्स्येन मकरेण भग्नं पात्रं जले समुद्रस्मिं / सो वाणिजो विसार्थो परिप्लवति सागरे धीरो //

अत्राणां अनभिसरां दुःखार्दितां वाणीजा विदित्वान / संचिन्तयति उपायं कथं दुःखितां सुखये सत्वा //

तस्यासि परिवितर्को श्रुतं मया सागरो मृतकुणपेन / न संवसति लवणसलिलो तिमिमकरनिषेवितो रजनीं //

त्यजेयम् आत्मानं मा वाणिजका सागरे विनस्यन्ते / इति दृढमतिस्य बुद्धी चित्तचरितपारमिगतस्य //

या एष महाकरुणा . . . . हितेषी सर्वसत्वेषु / समुपचिता दीर्घरात्रं सास्य भजहे चित्तसंतानं //

सो अवच वाणिजगणं आत्मं त्यजिष्यामि श्लिष्यथ ममांगे / न हि लवणसलिलदेवता धरेति रजनीं मृतशरीरं //

तीक्ष्णं ग्रहेत्व शस्त्रं निवर्तये आत्मनो . . . शरीरं / क्षिप्रं समुद्रतीरं वाणिजका सर्वे उपनीता //

अतिप्रचलिता गिरिधरा सनगरनिगमा सशैलवनषण्डा /

[_mvu_3.356_] सागर सदानवपुरा सभुजगभवना च संक्षुभिता //

किम् इदं ति जनो पर्वतवनदेवता भुजंगा कथयेन्सुः / . . . . . प्रतिभणे लवणसलिलदेवता दुःखिता //

एषो गजसत्वसारो बोधाय चरन्तो वादिप्रवरो / उत्तीर्णो लवणसलिलं ममेदं न विदितं प्रमत्ताये //

सो भिन्नयानपात्रो परिपूरति सागरे नरप्रवरो / आत्मं प्रियं परित्यजि परजनपरिमोचनार्थाय //

तस्यैवं अनुभावा प्रचलिता वसुंधरा ससागरमेरु / गुह्यक सदानवपुरा सभुजगभवना च संक्षुभिता //

कथं नाम सर्वसत्वा शक्ता प्रतिकर्तुं सत्वसाराणां / बोधाय चरन्तानां प्राग् एव सर्वज्ञभूतानां //

यस् तु जिनशासनस्मिं प्रतिपन्नो भवति सर्वभावेन / एतावता प्रतिकृतं भवति हि गजसत्वसारस्य //

भगवान् आह // स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन सार्थवाहो अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोर् अहं स भिक्षवः सार्थवाहो अभूषि // नान्ये ते पंच वाणिजकाः / एते ते पंचका भद्रवर्गिकास्तदापि ते एते मया आत्मपरित्यागं कृत्वा महासमुद्रातो स्वस्तिना स्थले प्रतिष्ठापिता एतरहिं पि मया आत्मपरित्यागं कृत्वा संसारातो तारिता निर्वाणे प्रतिष्ठापिताः //

_____समाप्तं पंचकानां भद्रवर्गिकानां जातकं //

भिक्षू भगवन्तम् आहन्सुः // भगवता सदेवमानुषाये परिषाये धर्मं देशितं //

[_mvu_3.357_] भगवान् आह // न भिक्षवः एतरहिं एव अन्यदापि मया भिक्षवो सदेवमानुषाये परिषाये धर्मं देशितं // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवो //

___भूतपूर्वं भिक्षवः अतीतमध्वाने नगरे वाराणसीये काशिजनपदे कलभो नाम राजा राज्यं कारयति रौद्रो निष्कृपो साहसिको // सो दानि अन्तःपुरे उद्यानभूमिं निर्धाविते अन्तःपुरिकाहि सार्धं पुष्करिण्यां उदकक्रीडां क्रीडति // उत्पलपदुमपुण्डरीकसौगन्धिकानि भंजित्वा क्रीडित्वा रमित्वा प्रविचारेत्वा अन्तःपुरेण सार्धं रतिक्लान्तो // ओसुप्तेन राज्ञा अन्तःपुरो तां उद्यानभूमिं प्रविचीर्णो // क्षान्तिवादो ऋषि उत्तरकुरुद्वीपातो ऋद्धीये आगत्वा तहिं उद्यानभूमीयं आसति // सो दानि अन्तःपुरिकाहि तहिं उद्यानभूमियं अण्वन्तीहि दृष्टो // ता दानि ऋषिं महाभागं दृष्ट्वा प्रसन्नचित्ता पर्युपासन्ति भगवं देशेहि नो धर्मं // सो दानि ऋषी तासाम् अन्तःपुरिकानां धर्मं देशयति / दानकथां शीलकथां स्वर्गकथां पुण्यकथां पुण्यविपाककथां कामेषु भयं ओकारं संकिलेशं नैष्क्रम्यानुशंसाव्यवदानं संप्रकाशयति / दश कुशलां कर्मपथां सुखोदयां लोके देवमनुजानां शुक्लां सुखविपाकां तासां ऋषिप्रवरो प्रकाशयति // ता दानि अन्तःपुरिका एकाग्रचित्ता ऋषिं पर्युपासन्ति // राजा च प्रतिविबुद्धो अन्तःपुरं न पश्यति / सो दानि रुषितो असिं निष्कोशं कृत्वा अन्तःपुरं पदेन अन्वेषति / पश्यति च तावो अन्तःपुरिकावो ऋषिं अग्रतो कृत्वा निषण्णा //

___सो दानि तम् ऋषिं दृष्ट्वा भूयो अतिरिव रुषितो इमेन मम सर्वम् अन्तःपुरं दृष्तं / सो दानि रुषितो प्रदुष्टचित्तो तम् ऋषिं पृच्छति / को त्वं // ऋषि आह // क्षान्तिवादी

[_mvu_3.358_] स्मि नन्दतां // सो दानि भूयस्या मात्रया दुष्टो आह // यदि क्षान्तिवादी प्रणामेहि अंगुलिं // ऋषिणा अंगुली प्रणामिता // राज्ञा असिपट्टेन ऋषिस्य सा अंगुलि च्छिन्ना ततो माताये पुत्रप्रेम्नेन स्तनेषु क्षीरं प्रवहेय एवं तस्य ऋषिस्य ततो अंगुलितो क्षीरं प्रवहति // तत्र सत्वमैत्रचित्तस्य तेन तस्य एकमेकाये हस्ताये सर्वपंचांगुलीयो छिंनायो सर्वतो च क्षीरं स्रवति // राजा भूयो पृच्छति // किंवादी भवान्* // ऋषि क्षान्तीम् एव व्याकरोति / क्षान्तिवादी स्मि नन्दतां // तेन तस्य ऋषिस्य हस्तो छिन्नो ततो पि क्षीरं स्रवति // राजा ऋषिं पृच्छति // किंवादी भवान्* // ऋषि क्षान्तिम् एव व्याकरोति / क्षान्तिवादी स्मि नन्दतां // तस्य दानि एवम् एव द्वितीयो पि हस्तो छिन्नो अंगुलीतो उपादाय यावत् कफोणिको छिन्नो ततो पि सर्वतो क्षीरं स्रवति च्छिन्नेछिन्नेहि // राजा पृच्छति / किंवादी भवान्* // ऋषि क्षान्तिम् एव व्याकरोति / क्षान्तिवादी स्मि नन्दतां // एवं पादा पि अंगुलीषु उपादाय यावज् जानुकपर्यन्ता छिन्ना // राजा पृच्छति / किंवादी भवान्* // ऋषि क्षान्तिम् एव व्याकरोति / क्षान्तिवादी स्मि नन्दतां // तस्य दानि एको कर्णो छिन्नो ततश् छिन्नातो क्षीरं स्रवति // राजा ऋषिं पृच्छति / किंवादी भवां // ऋषिः क्षान्तिम् एव व्याकरोति /

[_mvu_3.359_] क्षान्तिवादी स्मि नन्दतां // तेन तस्य द्वितीयो कर्णो छिन्नो ततो पि क्षीरं प्रस्रवति अप्रदुष्टचित्तस्य // भूयो राजा ऋषिं पृच्छति / किंवादी भवां // ऋषिः क्षान्तिम् एव व्याकरोति / क्षान्तिवादी स्मि नन्दतां // तेन तस्य ऋषिस्य नासा छिन्ना ततो पि अप्रदुष्टस्य क्षीरं स्रवति // भूयो राजा ऋषिं पृच्छति / किंवादी भवां // ऋषि क्षान्तिम् एव व्याकरोति / क्षान्तिवादी स्मि नन्दतां / यदि मे इमं शरीरं पट्टशतं निक्षिपेसि पीलुशतं छित्त्वा प्रदुष्टचित्तो तदापि क्षान्तिं न विजहेयं //

___ऋषिणा खण्डखण्डकृतेन देवनागयक्षा क्षुभिता भूता निनादम् अकरेन्सुः सत्वा च महाभयं उत्त्रासं जनयेन्सुः / नैगमजानपदा भूतानां महाभयं दृष्ट्वा निनादं नदन्तां श्रुत्वा ऋषिं प्रणिपतित्वा क्षमापेन्ति //

यो ते हस्तां च पादां च कर्णनासां च च्छिन्दति / तस्य कुप्य महाब्रह्मे स्वस्त्य् अस्तु इतरा प्रजाः //

ऋषि आह //

यो मे हस्तां च पादां च कर्णनासां च च्छिन्दति / तस्याप्य् अहं न कुप्यामि प्राग् एव इतरा प्रजाः //

देवनागयक्षगन्धर्वा आहन्सुः // ऋषिं क्षान्तिवादिं उत्तेजेम इमं कलभस्य राज्ञो राज्यं सराष्ट्रं सजनपदं ऋद्धीकर्तुं न लभ्यति / उद्दह्यतु जनपदो स्फीतो राष्ट्रं विनस्यतु / ऋषिं यत्र विहेठेन्सुः क्षान्तिवादिम् अहिंसकं //

[_mvu_3.360_] उद्दह्यतु इमं नगरं कालवस्तुं करीयतु //

ऋषिं यत्र विहेठेन्सुः क्षान्तिवादिम् अदूषकं //

उद्दह्यतु अयं राजा सामात्यो सपरिषदो / ऋषिं यत्र वहेठेन्सुः क्षान्तिवादिम् अदूषकं //

निगमजनपदा तं भूतानां महासंक्षोभं दृष्ट्वा भीता ऋषिं प्रणिपत्य याचन्ति //

यो ते हस्तां च पादां च कर्णनासां च च्छिन्दति / तस्य कुप्य महाब्रह्मे स्वस्त्य् अस्तु इतारा प्रजाः //

ऋषि आह //

मा भायथ युष्माकं न किंचित् पीडा भविष्यति / यो मे हस्तां च पादां च कर्णनासां च च्छिन्दति //

तस्याप्य् अहं न कुप्यामि प्राग् एव इतरा प्रजाः / राजा स्वयंकृतकर्मस्य विपाकम् अनुभविष्यति //

ऋषि देवनागयक्षगन्धर्वाणां आह //

काले न वर्षति देवो बीजा वुत्ता न रोहंति / तापदग्धा वातहता . . . . . . . . . . . //

एवं अभू अतीतस्मिं ऋषि क्षान्तीय दीपको / तं क्षान्तीये स्थितं सन्तं काशिराजा अघातये //

तस्य कर्मस्य परुषस्य विपाको कटुको फलो / यं काशिराजा वेदेसि निरयस्मिं समर्पितो //

[_mvu_3.361_] एवं खु अधिवा . . . . क्षान्तिवादी ऋषी यथा / अंगेषु च्छिद्यमानेषु न सो कुप्यति कस्य चित्* //

सो दानि काशिराजा कलभो अग्निना दग्धो अवीचिस्मिं महानरके उपपन्नो //

___हस्तिनापुरे अर्जुनो नाम राजा सो साधुरूपां विदित्वा प्रश्नां पृच्छति यो शक्यो चित्तम् आराधयितुं सो स्वस्तिना जीवन्तो मुच्यति यो न शक्नोति राज्ञो अर्जुनस्य प्रश्नव्याकरणेन चित्तम् आराधयितुं सो राज्ञा अर्जुनेन स्वयं शक्तिना हन्यति // हिमवन्तपार्श्वातो गौतमो नाम ऋषि हस्तिनापुरम् आगतो पंचाभिज्ञो चतुर्ध्यानलाभी महर्द्धिको महानुभावो कामेषु वीतरागो // सो दानि ऋषी राज्ञा अर्जुनेन प्रश्नं पृच्छितो ऋषिणा तं प्रश्नं अत्र सविषमं व्याकृतं राजा च न विजानाति / तेन सो ऋषि गौतमो महाभागो स्वयं शक्तिना हतो सो पि राजा अर्जुनो अग्निना दग्धो शक्तिशूले महानरके उपपन्नो //

___कलिंगेषु दन्तपुरं नाम नगरं / तत्र नारीकेलो नाम राजा राज्यं कारयति दुष्टो विवर्णो रौद्रो दारुणो साहसिको // सो श्रमणब्राह्मणा निमन्त्रयित्वा शुनखेहि खादयति / तेहि च खाद्यंतेहि हसति // सो पि अग्निना दग्धो महानरके उपपन्नो श्यामशवलेहि अहोरात्राणि खाद्यति //

___कंपिल्ले नगरे ब्रह्मदत्तो नाम राजा राज्यं कारयति / तस्य राज्ञो ब्रह्मदत्तस्य पुत्रशतं कुमाराणां पुरोहितस्यापि यज्ञदत्तो नाम पुत्रो माणवको पुरोहितकुमारो // दक्षिणापथातो इष्वस्त्राचार्यो शृण्वति / कंपिल्ले नगरे राज्ञो ब्रह्मदत्तस्य

[_mvu_3.362_] कुमारशतो स्ति / तत्र गच्छामि कंपिल्लं नगरं तं कुमारशतं इष्वस्त्रज्ञानं शिक्षापयिष्यामि ततो मे वृत्तिर् भविष्यति // सो दानि कंपिल्लम् आगतो पुरोहितस्याल्लीनो पुरोहितेनापि राज्ञो ब्रह्मदत्तस्य अल्लापितो // ब्रह्मदत्तो तम् आह // इदं मम कुमारशतं इष्वस्त्रज्ञाने शिक्षापेहि / अहं ते विपुलं वित्तं दास्यामि // सो दानि इष्वस्त्राचार्यो इष्वस्त्रज्ञानं शिक्षापेति पुरोहितपुत्रो पि यज्ञदत्तो तत्रैव इष्वस्त्रज्ञानं शिक्षति तेहि कुमारेहि सार्धं // ते दानि सर्वावन्तं इष्वस्त्रज्ञानं शिक्षिता सर्वेषां च इष्वस्त्रज्ञानेन यज्ञदत्तो विशिष्यते // ते दानि शिक्षिता सराजिकाये परिषाये पुरतो महतो जनकायस्य दर्शनं देन्ति / कुमारशतं यज्ञदत्तस्य इषुं क्षिपंति यज्ञदत्तो पि मण्डलाग्रेण तानि इषूणि कुमारशतेन क्षिपियंतानि असंप्राप्तानि शरीरे सर्वाणि च्छिन्दति // सर्वा सा सराजिका परिषा यज्ञदत्तस्य विस्मिता / तस्य दानि शरभंग इति नाम निर्वृत्तं अभूषि //

___वाराणस्या उत्तरेण अनुहिमवन्ते साहंजनी आश्रमपदं मूलोपेतं पत्रोपेतं पुष्पोपेतं फलोपेतं कोद्रवश्यामाकभंगप्रासादिकशाकशालूकसंपन्नं अनेकेहि वृक्षसहस्रेहि पुष्पफलोपेतेहि शोभितं पानीयसंपन्नं // तहिं काश्यपो नाम ऋषिः प्रतिवसति पंचशतपरिवारो सर्वे पंचाभिज्ञा चतुर्ध्यानलाभिनो महर्द्धिका महानुभावा // शरभंगो पुरोहितपुत्रो तहिं साहंजनीम् आश्रमपदं गत्वा काश्यपस्य ऋषिस्य सकाशे ऋषिप्रव्रज्यां प्रव्रजितो // तेनापि पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानानि उत्पादितानि पंच चाभिज्ञा साक्षीकृता चतुर्ध्यानलाभी पंचाभिज्ञो महानुभावो शरभंगो ऋषि संवृत्तो सदेवके लोके अभिज्ञातपरिज्ञातकौमारब्रह्मचारी उग्रतपस्याश्रितो

[_mvu_3.363_] महानागो // सो दानि दक्षिणापथगतो // अस्मकेषु गोदावरी नदी / तस्या कूले कपित्थकं नाम आश्रमं साधेत्वा प्रतिवसति //

___काश्यपस्य ऋषिस्य शिष्यो वत्सो नाम पंचशतपरिवारो अनुहिमवन्ते गंगाकूले आश्रमे प्रतिवसति सर्वे पंचाभिज्ञा चतुर्ध्यानलाभिनो कामेषु वीतरागा उंछवृत्तिका महानुभावा / तत्र दानि वत्स-ऋषिस्य वातव्याधि उत्पन्नो // सो अनुहिमवन्ते शीतम् असहन्तो दक्षिणापथं गतो गोवर्धनं नाम नगरं // तत्र दानि दण्डकी नाम राजा राज्यं कारयति अधार्मिको अधर्मराजा दृष्टिविपन्नो विषयलोलः मूढो विपरीतदर्शी अमातृज्ञो अपितृज्ञो अश्रामण्यो अब्राह्मण्यो दारुणो निष्कृपो साहसिको // तेन सो वत्सो ऋषि दृष्ट्वा पांशुना आक्रमापितो अहेठेको अदूषको अनपराधी // तस्य दानि राज्ये विघुष्टो नामाग्रामात्यो / तेन सो ऋषी ततो पांशुराशितो शीघ्रम् एव जीवन्तो उत्खनापितो प्रणिपतित्वा च अनुक्षमापितो / भगवं न मे प्रियं यं राज्ञा साहसं कृतं / साधु भगवं क्षान्तुम् अर्हसि // ऋषि आह // अमात्य गच्छाहि इतो राज्यतो शीघ्रन्ति / अहं सप्तमं दिवसं कालं करिष्यामि मया कालगते इह राज्ये महादारुणभयं भविष्यति // सो दानि अमात्यो वत्सस्य ऋषिस्य श्रुत्वा सपुत्रदारो सपरिवारो सर्वेण ज्ञातिगणेन सार्धं दण्डकिस्य राज्यतो अन्यं राज्यं संक्रमति // सप्तरात्रस्यात्ययेन वत्सो ऋषि कालगतो समनन्तरकालगतस्य ऋषिस्य भूतानां महासंक्षोभं अभूषि तेहि सराज्यं रात्रीये भस्मीकृतं नगरं //

___गंगाय च यमुनाया च अन्तरा काश्यपो ऋषि यज्ञं यजति / तत्र अष्टानवति

[_mvu_3.364_] तापससहस्रियो संनिपतितावो पंचाभिज्ञा चतुर्ध्यानलाभिनो सर्वे महर्द्धिका महानुभावा //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.