Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महावस्तु-अवादन
- Thông tin
- GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[_mvu_2.441_]___सा दानि अलिन्दा देवी अमात्यां पुरोहितां शब्दापयित्वा आमन्त्रयति // भवन्तो राज्ञो कुशस्य भार्यां अग्रमहिषीं जानथ यादृशा राजकुले बहूनां स्त्रीसहस्राणां अग्रमहिषी ज्येष्ठा भवेया // ते दानि अमात्या पुरोहिता च देवीय प्रतिश्रुत्वा समन्ततो नगरजानपदेषु ब्राह्मणा च दूता च विसर्जिता / गच्छथ भवन्तो यादृशा इह कन्या राज्ञो कुशस्य इक्ष्वाकुपुत्रस्य योग्या भवेया तादृशीं कन्यां जानथ // ते दानि ब्राह्मणा च दूता च षोडश जनपदान् अण्वमाना शूरसेनेषु जनपदेषु कण्णकुब्जं नाम नगरं तत्र अनुप्राप्ता // तत्र महेन्द्रको नाम मद्रकराजा राज्यं कारयति / तस्य सुदर्शना नाम धीता प्रासादिका दर्शनीया यस्या सर्वे जंबुद्वीपे रूपेण सदृशा अन्या कन्या नास्ति // सा दानि राजधीता महता राज-ऋद्धीये महता राजानुभावेन महता समुदयेन चतुघोटं अश्वरथं अभिरुहित्वा वयस्यकाहि च चेटिकाहि च परिवारिता उद्यानभूमिं निर्धावति / तेहि ब्राह्मणेहि दूतेहि च दृष्टा / तेषां दानि भवति / इयं राजकन्या सुष्ठु प्रासादिका दर्शनीया इयं राज्ञो कुशस्य अग्रमहिषी योग्या // ते दानि ब्राह्मणा दूता च अपरं दिवसं कल्यतो एव प्रावरिय निवासयित्वा च राजकुलद्वारे स्थिता / यं कालं राजा महेन्द्रको दर्शनशालायां उपविष्टो ते दानि ब्राह्मणा दूता च राज्ञो भिवादयित्वा पुरतः स्थिता // सो दानि ब्राह्मणो राज्ञो महेन्द्रकस्य जयेन वर्धापयित्वा एतद् उवाच // महाराज वाराणस्यां कुशो नाम राज्ञो इक्ष्वाकुस्य पुत्रो सो ते सुदर्शनां स्वधीतरं भार्यार्थाय वरेति // सो दानि कुशो राजा अभिलक्षितो यथा षष्टीनां नगरसहस्राणां राज्यं कारयति // तस्य महेन्द्रकस्य भवति // अनुरूप एदृशस्य पुरुषस्य सम्बन्धो // सो दानि राजा महेन्द्रको तं ब्राह्मणं दूतां च जल्पते //
[_mvu_2.442_] भवन्तो वयस्यः राजा कुशो मम भवति देमि से धीतरं भार्यार्थं // सो दानि ब्राह्मणो मोदकानि क्रीणिय ब्राह्मणां शब्दावित्वा मोदकानि वारेति / भवन्तो अन्यं महेन्द्रको मद्रकराजा राज्ञो कुशस्य इक्ष्वाकुपुत्रस्य धीतां सुदर्शनां प्रपत्नीं प्रयच्छति / तं भवन्तो उदकं प्रयच्छन्तु // ते दानि ब्राह्मणा च दूता च ब्राह्मणस्य वचनं कृत्वा राजानं महेन्द्रकम् आमन्त्रयित्वा प्रस्थिता / अनुपूर्वेण वाराणसीम् अनुप्राप्ता //
___ते दानि ब्राह्मणा च दूता च अमात्यानां पुरोहितानां निवेदयन्ति // तादृशा कन्या लब्धा यस्या सर्वे जम्बुद्वीपे अन्या कन्या रूपेण सदृशा नास्ति / शूरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा / तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया // श्रुत्वा ते दानि अमात्या पुरोहिता च अलिन्दाये देवीये निवेदेन्ति // तादृशा कन्या लब्धा तस्या सर्वे जम्बुद्वीपे अन्या कन्या रूपेण सदृशा नास्ति / शुरसेने नाम जनपदे कन्यकुब्जं नाम नगरं / तत्र महेन्द्रको नाम मद्रकराजा / तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया // श्रुत्वा अलिन्दा देवी हृष्टा प्रीता संवृत्ता / असदृशा मे पुत्रस्य भार्या लब्धा // सा दानि अलिन्दा देवी पुत्रस्य कुशस्य रोचयति // पुत्र तादृशा कन्या लब्धा यस्या सर्वे जंबुद्वीपे अन्या कन्या रूपेण सदृशा नास्ति / शुरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया // सो दानि राजा कुशो मातुर् वचनं श्रुत्वा हृष्टो प्रीतो संवृत्तः // अमात्यपारिषद्य ब्राह्मणपुरोहितराजाचार्यान् आमन्त्रेति // भवन्तो
[_mvu_2.443_] शूरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा तस्य धीता सुदर्शना नाम / गच्छथ तां मम कृतेन आनेथ // ते दानि अमात्या पारिषद्या ब्राह्मणपुरोहिता राजाचार्या राज्नो कुशस्य प्रतिश्रुत्वा चतुरंगं बलकायं सन्नाहयित्वा महता समृद्धिये महता विभूषाये प्रस्थिता // तस्या दानि अलिन्दाये देवीये तेषां प्रस्थितानाम् एतद् अभूषि // को नु खलु उपायो भवेया यथा सा सुदर्शना राजधीता न जानेया केदृशो राजा कुशो वर्णरूपेण // तस्या दानि अलिन्दाये देवीये भवति एवं // यं नूनाहं गर्भगृहं कारेयं यत्र राजा कुशो भार्याया सार्धं क्रीडेया रमेया परिचारेया न च सा जानेया केदृशो राजा कुशो त्ति // ताये दानि अलिन्दाये देवीये तादृशं गर्भगृहं कृतं लिप्तोपलिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं यत्र राजा कुशो क्रीडिष्यति रमिष्यति परिचारिष्यति //
___ते पि दानि अमात्या पारिषद्या ब्राह्मणपुरोहिता राजाचार्या अनुपूर्वेण शूरसेनेषु जानपदेषु कन्यकुब्जं नाम नगरम् अनुप्राप्ता // ते दानि येन महेन्द्रको मद्रकराजा तेनोपसंक्रमित्वा राजानं जयेन वर्धापयित्वा पुरतो स्थित्वा एतद् उवाच // महाराज जामाता ते कुशो राजा कौशल्यं परिपृच्छति सपरिवारस्य यं च महाराजेन प्रतिज्ञातं तां मे धीतां सुदर्शनां भार्यार्थं देहि // सो दानि राजा महेन्द्रको तान् अमात्यपारिषद्यां ब्राह्मणपुरोहितराजाचार्यान् अभिनन्दित्वा प्रतिसंमोदित्वा राजारहाणि वस्त्रालंकाराणि परिभोगानि च दिन्ना // ते दानि अमात्यपारिषद्या तत्र कत्य् अहं कालं विहरित्वा राज्ञो महेन्द्रकस्य आमन्त्रयन्ति // महाराज चिरगता स्म विवाहः क्रियतु गच्छामः // सो दानि राजा महेन्द्रको महता राजर्द्धीये
[_mvu_2.444_] महता राजानुभावेन महतो जनकायस्य हक्कारहिक्कारभेरीभृदंगपटहशंखसंनिनादेन विवाहधर्मं कृत्वा धीता सुदर्शना राज्ञो कुशस्य भार्या दिन्ना // ते दानि अमात्या पुरोहिता विवाहधर्मं कृत्वा राज्ञो महेन्द्रकस्य आमन्त्रयित्वा प्रस्थिता / अनुपूर्वेण वाराणसीये उपवनं अनुप्राप्ता // एवं दानि सुदर्शना राजधीता महता सत्कारेण महता समुदयेन वाराणसीं नगरीं प्रवेशिता // सा दानि सुदर्शना राजधीता राजकुले प्रवेशिता // येन श्वश्रू अलिन्दा देवी तेनोपसंक्रमित्वा श्वश्रुये पादां शिरसा वन्दित्वा पुरतः प्रत्युस्थासि // सा दानि अलिन्दा महादेवी तां वधूं दृष्ट्वा प्रभुदिता प्रीतिसौमनस्यजाता संवृत्ता //
___सो दानि राजा कुशो सुदर्शनाये राजधीताये सार्धं तहिं गर्भगृहे अज्योतिके महारहेहि उपभोगपरिभोगेहि क्रीडन्तो रमन्तो परिचारयन्तो आसति // तस्या दानि राजधीतुः सुदर्शनाये तहिं गर्भगृहे अज्योतिके राज्ञा कुशेन सार्धं क्रीडन्तीये रमन्तीये परिचारयन्तीये एतद् अभूषि // इमं राज्ञो कुशस्य इक्ष्वाकुकुलं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च अनन्तरत्नाकरं अयं च अस्माकं शयनगृहो अज्योतिको दीपा पि न दीप्यन्ति / परस्परं हि चक्षुहि न पश्यामो नैवाहं जानामि केदृशो राजा कुशो वर्णरूपेण नापि स राजा कुशो जानाति कीदृशा मे सुदर्शना देवी वर्णरूपेण / एतन् तत्र अन्तरं न परिबुध्यामि कस्यार्थाय अस्माकं शयनगृहे नैव रात्रं न दिवा दीपा दीप्यन्ति / सा दानि सुदर्शना देवी राजानं कुशं रहोगतं पृच्छति // महाराज अयं राजकुलो ऋद्धो च स्फीतो च अनन्तरतनाकरो इमस्मिं चास्माकं शयनगृहे नैव रात्रौ न दिवा दीपा दीप्यन्ति यथा अन्धकारे तथा संवसामो परस्परं चक्षुहि न पश्यामो नैवाहं जानामि कीदृशो मे भर्ता नापि महाराजा जानाति कीदृशा मे सुदर्शना देवी / तद् एतत् कारणं न परिबुध्यामि कस्यार्थाय
[_mvu_2.445_] अस्माकं शयनगृहे दीपा न दीप्यन्ति // राजा कुशो आह // देवि अहं पि एतं न जानामि कस्यार्थाय अस्माकं शयनगृहे दीपा न दीप्यन्ति / माता मे जानिष्यति तां पृच्छाहि // सा दानि सुदर्शना देवी राजधीता प्रभाताये यं कालं राजा कुशो निर्धावितो भवति वस्त्राणि च प्रावरित्वा अलंकारं च बन्धयित्वा अलिन्दाय महादेवीये पादां वन्दनाय उपसंक्रान्ता // सा दानि सुदर्शना श्वश्रूये पादा वन्दित्वा आह // भट्टे अयं राजकुलो ऋद्धो स्फीतो च अनन्तरतनाकरो अस्मिं च अस्माकं शयनगृहे नैव दिवा न रात्रिं दीपा दीप्यन्ति यथा अन्धकारे तथा संवसामो परस्परं चक्षूहि न पश्यामः किम् अत्र कारणं यं अस्माकं गृहे दीपा न दीप्यन्ति // अलिन्दा महादेवी आह // पुत्रि सुदर्शने युष्माकं उभये जायापतिका उदाररूपा रूपेण अन्यं कंचि समसमं न पश्यामि / तं मा युष्माकं परस्परं उदारं रूपं दृष्ट्वा उन्मादं गच्छेया ति / अपि तु एवं च मे देवानाम् उपयाचितं चिरकालं अस्माभिः यदा मे वधुकाये सुदर्शनाये पुत्रो वा धीता वा भवेया ततो द्वादशमे वर्षे परस्परं पश्यिष्यथ // एषो स्माकं कुलधर्मः // सा दानि सुदर्शना राजधीता आह // पापं खलु ताव भट्टाये देवानाम् उपयाचितं चिरकालम् अस्माभिः परस्परं न द्रष्टव्यं // अलिन्दा महादेवी आह // पुत्रि किं करोमि एवं मे उपयाचितं देवानाम् अपि रक्षामि मा युष्माकं परस्परं उदारवर्णरूपं दृष्ट्वा उन्मादं गच्छेया त्ति // एवं दानि सुदर्शना राजधीता श्वश्रुय अलिन्दाय महादेवीय संज्ञप्ता //
___सा दानि सुदर्शना राजधीता चिरेण कालेन तां श्वश्रुं प्रनिपतिय तां विज्ञपेसि //
[_mvu_2.446_] भट्टे इच्छामि स्वामिकं द्रष्टुं // अलिन्दा महादेवी आह // भवतु पुत्रि कालेन तं पश्यिष्यसि // सा दानि सुदर्सना पुनर्पुनः तां श्वश्रुं विज्ञपेति / भट्टे इच्छामि एकं वारं द्रष्टुं // तस्या दानि अलिन्दाये महादेवीये एवं भवति / इयं सुदर्शना राजधीता कुशं पश्यितुकामा यदि से न विनोदयामि कौतुकं महान्तं भवेया / सा अलिन्दा देवी आह // पुत्रि सुदर्शने सुष्ठु सुवे ते राजानं कुशं दर्शयिष्यामि दर्शनशालायां जनस्य दर्शनं च दत्तं // सा दानि अलिन्दा देवी राजं कुशं आमन्त्रेति // पुत्र एषा सुदर्शना राजधीता त्वां पश्यितुकामा त्वं च पापको रूपेण मा सुदर्शना तवेदृशं रूपं दृष्ट्वा चित्तस्य भवे अन्यथात्वं यो तेषां पंचानां कुमारशतानां सर्वेषां कुमाराणां दर्शनीयतरो प्रासादिकतरो भवेया स राजेति कृत्वा राजासने निषीदापयित्वा ततो सुदर्शनाये उपदर्शयितव्यो एषः राजा कुशो ति / ततो सुदर्शना जानेय एदृशो राजा कुशो ति ततः चित्तं न प्रतिहरिष्यति // राजा कुशो आह // अम्बे एवं क्रियतु // तेषां दानि कुमाराणां कुशद्रुमो कुमारो प्रासादिको दर्शनीयो // सो दानि कुशद्रुमो राजार्हेहि वस्त्रेहि च आभरणेहि च अलंकृत्वा यथा राजा तथा अलंकृतो दर्शनशालाये राजकृत्ये सिंहासने राजेति कृत्व उपविशापितो / ते पि कुमारा सर्वे अलंकृताः सुभूषिता कृता स्वकस्वकेषु आसनेषु उपविशापिता // अमात्या पि पुरोहिता भटबलाग्रा श्रेष्ठिनैगमग्रामग्रामिकजनपदा सराजक्या परिषा यथा देवपुरिषा विरोचति // सो दानि राजा कुशो भ्रातुः कुशद्रुमस्य कुमारस्य राजासने निषण्णस्य च्छत्रं गृह्य वामे पार्श्वे छत्रं धारेति / सा दानि अलिन्दा देवी वधुकाये सुदर्शनाये सार्धं अपरेहि च बहुहि देवीशतेहि परिवारिता राजकुलातो निर्धाविता सिंहपंजरे स्थिता // अथ खलु अलिन्दा महादेवी वधुकाये सुदर्शनाये
[_mvu_2.447_] कुशद्रुमं कुमारं राजासने उपनिषण्णकं उपदर्शयति // पुत्रि सुदर्शने एषो ते भर्ता पश्याहि नं // सा दानि सुदर्शना कुशद्रुमं कुमारं राजासने निषण्णं दृष्ट्वा प्रीतमनसा सुलब्धा मे लाभा यस्या मे भर्ता एदृशो अभिरूपो प्रासादिको दर्शनीयो सर्वां स राजपरिषाम् अभिभवति रूपेण // सा दानि सुदर्शना राजधीता परिषां च अभिविलोकयति यावत् तस्या सहस्रस्त्रीबुद्धिये सो राजक्यो छत्रधारो दृष्टो // तस्या दानि सुदर्शनाये तं राजक्यं छत्रन्धरं दृष्ट्वा मनसं प्रत्याहतं दुःखदौर्मनस्यजाता संवृत्ता // श्वश्रुं अलिन्दां महादेवीं जल्पति // भट्टे शोभति राजा कुशो कुमारा च कृतपुण्या दर्शनीया सर्वा च राजक्या परिषा शोभति यथा देवपरिषा / अपि च एषो छत्रधारो अपश्यनीयो न अनुरूपो सदृशस्य राज्ञो देवपुत्रसमस्य एदृशो छत्रधारो विकृतरूपो स्थूलोष्ठो स्थूलशिरो स्थूलपादो महोदरो कालो मषिराशिवर्णो / एतेन च्छत्रधारेण सर्वा सा राजक्यपरिषाशिरी उपहता / एवं विस्तीर्णे राज्ये नास्ति अन्यो पुरुषो यो राज्ञो छत्रं धरेया // यदि मे भर्ता इच्छति प्रियं कर्तुं तद् एषो छत्रधारो राज्ञो सामन्तके न तिष्ठेया अन्यं पुरुषं छत्रं धारापये // अलिन्दा देवी आह // पुत्रि सुदर्शने मा हैवं जल्पाहि न रूपेण कृत्यं भवति यद् एषो छत्रधारो रूपेण पापको अपि तु गुणेहि महात्मको शीलवन्तो सत्यवादी धार्मिको पुण्यवन्तो बलवां परराष्ट्रप्रमर्दको एतस्यानुभावेन अस्माकं षष्टीहि नगरसहस्रेहि सनिगमजानपदेहि न कोचि प्रत्यर्थिको हेठां उत्पादेति / एतस्यानुभावेन सर्वे वयं सुखं जीवाम // एवं दानि अलिन्दाये देवीये सा सुदर्शना
[_mvu_2.448_] संज्ञप्ता // सा दानि सुदर्शना राज्ञा कुशेन सार्धं रहोगता जल्पति // महाराज एवं विस्तीर्णे तव राज्ये नास्त्य् अन्यो पुरुषो यो तव च्छत्रधारो भवेय / यो तव एदृशो छत्रधारो अदर्शनीयो / यदि मे इच्छसि प्रियं कर्तुं तद् एतं छत्रधारं मेल्लेहि अन्यं पुरुषं छत्रधारं थपेहि // राजा आह // मा एतं छत्रधारं निन्दाहि किं रूपेण कृत्यं भवति / यो गुणेन सम्पन्नो किं रूपं तस्य करिष्यति / सो छत्रधारो महात्मा गुणेन कल्याणो च महाबलो च तस्य अनुभावेन इमानि षष्टि नगरसहस्राणि न कोचि प्रत्यर्थिको हेठां उत्पादयति // एवं दानि सुदर्शना देवी राज्ञा कुशेन संज्ञप्ता //
___सो दानि राजा कुशो सुदर्शनां देवीं पश्यतुकामो मातरं अलिन्दां देवीं विज्ञापेति / अम्बे अभिप्रायो मे यथा सुदर्शनां देवीं पश्येयं // अलिन्दा देवी आह // पुत्र त्वं पापको रूपेण यदि सुदर्शना जानेया एदृशो राजा कुशो वर्णरूपेण स्थानम् एतं विद्यति यं सुदर्शना उपक्रमेण आत्मानां मारेया // राजा कुशो आह // अम्बे किं शक्या कर्तुं / उपायो चिन्तयितव्यो यद् अहं सुदर्शनां पश्येय सा च मे न जानेया को एषो ति // आलिन्दा देवी आह // पुत्र एष अस्ति उपायो यदा सुदर्शना राजधीता अपराहि देवीहि सार्धं सर्वाहि च अन्तःपुरिकाहि उद्यानभूमिं निर्धाविष्यति उत्पलानि पद्मानि च पुष्पतकानि द्रष्टुं ततो त्वं प्रकृत्यैव उद्यानं गत्वा पद्मिनीये कण्ठमात्रो ओतरित्वा पद्मपलाशेन शीर्षं प्रतिच्छादयित्वा आससि / तथा वयं करिष्यामः यथा यत्र देशे तुवं पद्मिनीये स्थितको भविष्यसि तेन सोपानेन सुदर्शना पद्मिनीय पद्मानाम् अर्थाय स्वयं ओतरिष्यति / यत् कारणं सुदर्शनातीव पुष्पलोला पत्रलोला च ततो नां त्वं यथाभिप्रायं पश्यिष्यसि //
[_mvu_2.449_] तत्र दानि राजकुले मालाकारेहि उत्पलानि च पदुमानि च पुण्डरीकानि च सौगन्धिकानि च फुल्लितानि नानाप्रकाराणि च माल्यानि प्रवेशियन्ति // सा दानि सुदर्शना तानि उत्पलानि पदुमानि फुल्लितानि दृष्ट्वा तां श्वश्रुं अलिन्दां देवीं विज्ञपेति // भट्टे इच्छामि वापीयो द्रष्टुं फुल्लितकेहि उत्पलपदुमकुमुदपुण्डरीकेहि // अलिन्दा महादेवी आह // पुत्र सुष्ठु पश्याहि सर्वे वापीयो निर्धाविष्यामः // सा दानि अलिन्दा देवी राज्ञो कुशस्य निवेदयति // पुत्र यं खलु जानेसि सा वै सुदर्शना राजधीता अन्तःपुरेण सार्धं वापीयो दर्शनाये निर्धाविष्यति / यदि तां पश्यितुकामः ततो प्रकृत्यैव उद्यानभूमिं गत्वा तत्र देशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषो राजा कुशो ति //
___सो दानि राजा कुशो मातुः प्रतिश्रुत्वा प्रभाताये रात्रीये प्राकृतकेन वेषेण प्रकृत्यैव उद्यानभूमिं गत्वा अन्तःपुरिकां प्रतिपालेन्तो आसति // सो दानि राजा कुशो येन सोपानेन सर्वबहूनि पदुमानि च पुण्डरीकानि च तत्रोतरोत्वा पद्मपलाशेनात्मानं छादयित्वा आसति // अन्तःपुरिका च सर्वा निर्धाविता / यादृशं नन्दनवनं अप्सरगणेहि भरितं उपशोभति तादृशो तम् उद्यानं तेन राजान्तःपुरेण // सा दानि सुदर्शना देवी तासु वापीसु उत्पलपद्मकुमुदपुण्डरीकां फुल्लितकानि रमणीया दृष्ट्वा अपरासु देवीषु जल्पति // देवीहो आगच्छथ वापीसु पदुमानि गृह्णीष्यामः // तान् देवीयो आह // सुष्ठु देवि
[_mvu_2.450_] गृह्णीष्यामो पद्मानि // सा दानि सुदर्शना देवी तहिं अन्याहि देवीहि येन सोपानेन राजा कुशो स्थितो तेन सोपानेन सुदर्शनां अग्रतो कृत्वा ओकस्ता // ताय दानि सुदर्शनाये पद्मानां कृतेन हस्तो प्रणामितो पद्मं गृह्णीष्यामीति / ततः कुशेन राज्ञा सहसा आलिंगिता // तस्या दानि सुदर्शनाये देवीये एवं भवति उदकराक्षसेन गृहीता // सा दानि अविधा अविधा प्रवेशिताहम् उदकराक्षसेन खज्जामि उदकराक्षसेन खज्जामि त्ति // ता दानि अन्तःपुरिका सर्वा एकान्तीभूता स्थिता राजा कुशो देवीय सार्धं क्रीडिष्यति सा दानि सुदर्शना देवी अविधाविध त्ति वक्ष्यति उदकराक्षसेन खज्जामि // ता दानि अन्तःपुरिका यं कालं जानन्ति राज्ञा कुशेन यथाभिप्रायं कृतं तदा सुदर्सनाये देवीये परिवारेण संलग्नं बलिकर्म कृतं / कटच्छु ज्वलिता शान्तं समितं ते पापं दिष्ट्यासि उदकराक्षसेन मुक्ता ति // सा दानि सुदर्शना ताहि अपराहि देवीहि सार्धं तहिं दिवसं पद्मिनीये क्रीडित्वा रमित्वा परिचारयित्वा विकाले राजकुलं प्रविष्टा // सा दानि सुदर्शना देवी राज्ञो कुशस्य शयनगृहं प्रविष्टा // राजा जल्पति // देवी पद्मिनीं पश्यनाय गता न मम पद्मानि आनीता / न ते अहं प्रिये प्रियो ति // देवी आह // महाराज कुतो मे पद्मानि ओकस्ता अहं वापीं पद्मानि गृह्णिष्यामीति ततो हं उदकराक्षसेन आलिंगिता मनास्मि उदकराक्षसेन खादिता / ततो स्मि अन्तःपुरिकाहि मोचिता // यादृशो महाराज सो तव च्छत्रधारो तदृशो तत्र पद्मिनीये उदकराक्षसो मन्यामि एकमाताय जाता ति // सो दानि राजा कुशो आह //
[_mvu_2.451_] देवि मा भूयो पद्मिनीं पश्यनाय निर्धावसि / अहं पि तत्र वापीये मनास्मि उदकराक्षसेन खादितो हि //
___तत्र राजकुले आम्रकाले राजक्येहि आम्रपालेहि नानाप्रकाराणि आम्राणि प्रवेशितानि // सा दानि सुदर्शना देवी तानि नानाप्रकाराणि आम्राणि दृष्ट्वा श्वश्रुम् अलिन्दां महादेवीं विज्ञपेति // भट्टे इच्छामि आम्रवनानि द्रष्तुं // अलिन्दा महादेवी आह // पुत्रि सुष्ठु पश्याहि शुवे आम्रवनानि निर्धावयिष्यामि // ताये दानि अलिन्दाये महादेवीये आम्रपालां शब्दापयित्वा आणत्तिका दिन्ना // श्वः सुदर्शना राजधीता अन्तःपुरेण सार्धं आम्रवनानि पश्यनाय निर्धाविष्यति ततो आम्रवनं सिक्तसंसृष्टं करोथ / वसन्तचित्रेहि दुष्येहि आम्रदण्डानि वेठेथ ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं आम्रवनं अलंकरोथ // ते दानि उद्यानपाला महादेवीये अलिन्दाय वचनमात्रेण तम् उद्यानं आम्रवनं अलंकृतं // सा दानि अलिन्दा देवी राज्ञो कुशस्य निवेदयति // पुत्र यं खलु आणेसि शुवे सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यम् आम्रवनं पश्यनाय निर्धाविष्यति / यदि मे पश्यितुकामो सि सुदर्शनां राजधीतान् ततो प्रकृत्यैव गत्वा तत्र प्रदेशे तिष्ठाहि यथा ते सुदर्शना न जानाति एषो सो राजा कुशो ति // सो मातुर् वचनं प्रतिश्रुत्वा प्राकृतकेन वेषेण प्रकृत्यैव आम्रवनं गत्वा सर्वस्यारामस्य यो सर्वशोभनो आम्रो तस्य हेष्टा स्थितः // सा दानि सुदर्शना अन्तःपुरिकाहि परिवृता महता राज-ऋद्धिये महता राजानुभावेन नानाप्रकारेहि सुविचित्रेहि राजरथेहि आरुहित्वा आम्रवनं प्रस्थिता // सा दानि सुदर्शना देवी यानातो ओरुहित्वा बहूहि देवीशतेहि परिवृता तं आम्रवनं प्रविष्टा // यादृशं चित्ररथे मिश्रकावने देवानां
[_mvu_2.452_] त्रायस्त्रिंशानां यात्रका कोविदारा देवपरिवृता शोभन्ति तादृशं राजन्यं आम्रवनं ताहि राजान्तःपुरिकाहि परिवृतो शोभति // सा दानि सुदर्शना देवी अपराहि सार्धं तम् आम्रवनं अनुचंक्रमन्ती अनुविचरन्ती वरवराणि आम्राणि उच्चिनन्ती आम्रफलानि च भुजन्ती नानाप्रकाराणि च पुष्पजातानि उच्चिनन्ती यावद् आम्रवनस्य मध्ये अनुप्राप्ता यत्र राजा कुशो आसति // सो दानि राजा कुशो आम्रमूलातो उत्थिहित्वा सुदर्शनाये देवीये उन्मूर्धिकाये आलिंगितो // सा दानि सुदर्शना भीता सन्त्रस्ता जानाति वनपिशाचेनास्मि गृहीता ति // सा दानि अविधाविध त्ति प्रवेशिता वनपिशाचेन खज्जामि वनपिशाचेन खज्जामि त्ति // ता दानि अन्तःपुरिका इतो च इतो च पलायन्ति / राजा कुशो सुदर्शनाय सार्धं आम्रवने क्रीडति रमति परिचारयति सापि सुदर्शना अविधाविधं वक्ष्यति धावथ अन्तःपुरिकाहो वनपिशाचेन खज्जामि // ता दानि अन्तःपुरिका यं कालं जानन्ति यथाभिप्रायो राज्ञा कुशेन सुदर्शनाय सार्धं क्रीडितं रमितं परिचारितं ततः नानाप्रकाराणां पुष्पाणां उत्संगे गृह्णियान तं देशं गता // ता दानि बहूनि देवीशतानि पुष्पमुष्टीहि राजं कुशं ओकिरन्ति शब्दं च करोन्ति / धिक्पिशाच धिक्पिशाच त्ति // सो दानि कुशो सुदर्शनां देवीम् ओशिरित्वा राजकुलं प्रविष्टो // तस्या दानि सुदर्शनाय देवीये परिवारेण संलग्नं बलिकर्म कृतं / कटच्छु ज्वालापिता शान्तं शमितं पापं दिष्ट्यासि वनपिशाचेन जीवन्ती मुक्ता ति // सा दानि सुदर्शना देवी अपराहि देवीहि सार्धं तहिं आम्रवने यथाभिप्रायं दिवसं क्रीडित्वा रमित्वा प्रविचारयित्वा विकाले राजकुलं प्रविष्टा // सा दानि सुदर्शना राज्ञो कुशस्य शयनगृहे प्रविष्टा // राजा
[_mvu_2.453_] जल्पति // देवी आम्राणि संपश्यनाय निर्धाविता न ते आम्राणि आनीतानि न ते अहं प्रियो // देवी आह // महाराज कुतो मे आम्राणि / निर्धाविता सा आम्राणि पश्यनाय ततः मे वनपिशाचेन आलिंगिता मनास्मि वनपिशाचेन खादिता / ततो हं अन्तःपुरिकाहि वनपिशाचस्य हस्तातो मोचिता // महाराज यादृशो तव च्छत्रधारो यादृशो पद्मिनी-उदकराक्षसः तादृशो आम्रवने वनपिशाचः सर्वे त्रयो जना मन्ये एकमाताय जाता ति सर्वे समसदृशा // राजा कुशो आह // देवि मा भूयो आम्रवनं पश्यनाय गच्छ / अहं पि तत्राम्रवने मनास्मि वनपिशाचेन खादितो //
___तत्र दानि अपरेण कालेन सुदर्शना देवी श्वश्रुम् अलिन्दां महादेवीं विज्ञपेति // अभिप्रायो मे राज्ञो कुशस्य हस्तिवाहिनीं द्रष्टुं / शृणोमि राज्ञो कुशस्य विस्तीर्णा हस्तिवाहिनी षष्टि हस्तिसहस्राणि // अलिन्दा महादेवी आह // भो पुत्रि सुवे राजहस्तिवाहिनीं पश्यनाय निर्धावसि // सा दानि अलिन्दा महादेवी हस्तिमहामात्रं शब्दावियान आणत्तिका दिन्ना // सुवे सुदर्शना राजधीता अन्तःपुरिकाहि सार्धं राजक्यां हस्तिशालां पश्यनाय निर्धाविष्यतीति / ततः हस्तीं च हस्तिशालां च अलंकरोहि // सो दानि हस्तिमहामात्रो अलिन्दाय महादेवीये आणत्तिकाये श्रुत्वा सर्वां हस्तिवाहिनीं षष्टिं हस्तिसहस्राणि सर्वालंकारेहि अलंकृतानि हेमलालप्रतिच्छन्नानि दन्तपतिमोकानि शुण्डापतिमोकानि सखुरप्रवालानि / सा च हस्तिशाला सिक्तसन्सृष्टा मुक्तपुष्पावकीर्णा कृता ओसक्तपट्टदामकलापा धूपितधूपना // सा दानि अलिन्दा महादेवी राजं कुशम् आमन्त्रयति //
[_mvu_2.454_] पुत्र यं खलु जानेसि सुवे सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यां हस्तिशालां निर्धाविष्यति पश्यनाय / ततः प्रकृत्यैव हस्तिशालां गत्वा तत्र देशे आसथ यथा ते सुदर्शना न जानेया एषः राजा कुशो ति // सो दानि राजा कुशो मातुः प्रतिश्रुत्वा प्रभाताये रात्रीये हस्तिमेण्ठवेशेन प्रकृत्यैव हस्तिशालां गत्वा हस्तिनो मूले सुदर्शनां प्रतिपालयमानो आसति // सापि दानि सुदर्शना श्वश्रुय अलिन्दाये सार्धं सर्वाहि च अन्तःपुरिकाहि परिवृता राजारहेहि अश्वरथेहि अभिरुहित्वा हस्तिशालां प्रविष्टा // सा दानि अश्वरथातो ओरुहित्वा बहूहि चेटीशतेहि परिवृता हस्तिशालां प्रविष्टा / सो पि राजा कुशो हस्तिनां मूले हस्तिमेण्ठो ति कृत्वा सुदर्शनां निध्यायमानो आसति // सा दानि सुदर्शना देवी ताहि अन्तःपुरिकाहि सार्धं तत्र हस्तिशालाय अनुचंक्रमन्ती अनुविचरन्ती यं कालं प्रतिनिवर्तिता राजकुलं गच्छामीति राज्ञा कुशेन प्रत्यग्रेण हस्तिलण्डेन वाष्पायन्तेन सुदर्शना देवी पृष्ठितो आहता / तानि राजार्हाणि वस्त्राणि हस्तिलण्डेन विनाशितानि // सा दानि सुदर्शना राजधीता श्वश्रुं अलिन्दा महादेवीं विज्ञपेति // भट्टे इमस्य राजक्यस्य हस्तिमहामात्रस्य दण्डो दातव्यः / शक्या एतेन या राज्ञो कुशस्य अम्ग्रमहिषी तां हस्तिलण्डेन आहनितुन् ति // सा दानि अलिन्दा महादेवी आह // भवतु पुत्रि मेल्लेहि एषो राजक्यो हस्तिमहामात्रो अवध्यो किं शक्यं कर्तुं // एवं दानि सुदर्शना श्वश्रुये संज्ञापिता //
___सा दानि सुदर्शना अपरेण कालेन श्वश्रुम् अलिन्दां महादेवीं विज्ञपेति // भट्टे प्रियं मे राज्ञो कुशस्य अश्ववाहिनीं द्रष्टुं // अलिन्दा महादेवी आह // सुष्ठु पुत्रि स्वो राज्ञो कुशस्य अश्ववाहनं पश्यनाये निर्धावाहि // सा दानि
[_mvu_2.455_] अलिन्दा महादेवी अश्वमहामात्राणां शब्दापयित्वा आणत्तिकां देति // श्वो सुदर्शना राजादेहीता अन्तःपुरेण सार्धं राजक्यं अश्ववाहनं पश्यनाये निर्धाविष्यति / तां दानि षष्टि अश्वसहस्राणि सर्वाणि अलंकरोहि अश्वशालां च सिक्तसंसृष्टां मुक्तपुष्पावकीर्णां करोहि // तेहि अश्वरक्षेहि अलिन्दाये महादेवीये आणत्तिकां श्रुत्वा सर्वाणि षष्टि अश्वसहस्राणि सर्वालंकारोहि अलंकृतानि / सा च अश्वसाला सिक्तसन्सृष्टा मुक्तपुष्पावकीर्णा कृता // सा दानि अलिन्दा महादेवी राजस्य कुशस्य निवेदयति // पुत्र कुश यं खलु जानेसि सा सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यं अश्ववाहनं पश्यनाये निर्धाविष्यति / यदि सि पश्यतुकामः ततो प्रकृत्यैवाश्वशालायां गत्वा तत्र देशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषः राजा कुशो त्ति // सो दानि राजा कुशः मातुर् वचनं प्रतिश्रुत्वा प्रभाताये रात्रीये अश्वरक्षवेशं कृत्वा अश्वानां घासं विकिरन्तो आसति सुदर्शनां प्रतिपालयमानो // सा दानि सुदर्शना राजधीता श्वश्रुये अलिन्दाये महादेवीये सार्धं सर्वाहि चान्तःपुरिकाहि रत्नामयीं शिविकाम् आरुहित्वा अश्वशालां प्रस्थिता // सापि दानि सुदर्शना शिविकातो प्रत्योरुहिय बहूहि देवीशतेहि परिवृता अश्वशालां प्रविष्टा // सो पि राजा कुशो अश्वानां पृष्ठतो स्थितः सुदर्शनां निध्यायन्तो // सापि दानि सुदर्शना अपराहि अन्तःपुरिकाहि सार्धं तत्र अश्वशालायां अनुचंक्रमित्वा अनुविचरित्वा यं कालं निवर्तिता राजकुलं गच्छामि त्ति ततः कुशेन राज्ञा प्रत्यग्रेण अश्वलण्डेन वाष्पायन्तेन पृष्ठिमेन आहता / तानि राजार्हाणि वस्त्राणि अश्वलण्डेन विनाशितानि // सा दानि सुदर्शना राजधीता श्वश्रुं अलिन्दां महादेवीं आह // भट्टे इमस्य अश्वरक्षस्य दण्डो दातव्यः // लभ्या एतेन राज्ञः कुशस्य
[_mvu_2.456_] अग्रमहिषीं अश्वलण्डेन आहनितुं ति // अलिन्दा महादेवी आह // पुत्रि मर्षेहि एते राजक्या अश्वरक्षा अवध्या किं शक्या कर्तुं //
___सा दानि सुदर्शना अपरेण कालेन श्वश्रुम् अलिन्दां महादेवीं विज्ञपेति // भट्टे अभिप्रायो मे राज्ञो कुशस्य रथवाहिनीं द्रष्टुं / श्रुतं मे विस्तीर्णा राज्ञः कुशस्य रथवाहिनी षष्टि रथसहस्राणि // अलिन्दा महादेवी आह // सुष्ठु पुत्रि श्वो राज्ञो कुशस्य रथवाहिनीं पश्यनाय निर्धावाहि // सा दानि अलिन्दा महादेवी राज्ञो कुशस्य रथपालां शब्दापयित्वा आणत्तिकां देति // स्वो सुदर्शना राजधीता अन्तःपुरेण सार्धं राज्ञो कुशस्य रथवाहिनीं पश्यनाये निर्धाविष्यति // तेहि दानि रथपालेहि महादेवीवचनं श्रुत्वा अपरज्जुकातो षष्टु रथसहस्राणि युक्तानि सिंहचर्मपरिवाराणि द्वीपचर्मपरिवाराणि व्याघ्रचर्मपरिवाराणि पाण्डुकम्बलप्रतिच्छन्नानि सनन्दिघोषाणि सवैजयन्तिकानि सखुरप्रवालानि उच्छ्रितध्वजपताकानि // सा दानि अलिन्दा महादेवी राज्ञो कुशस्य निवेदयति // पुत्र यं खलु जानेसि स्वो सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यां रथवाहिनीं पश्यनाये निर्धाविष्यति / यदि सि पश्यितुकामः ततो प्रकृत्यैव रथशालां गत्वा तत्र प्रदेशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषः सो राजा कुशो त्ति // सा दानि सुदर्शना राजधीता अलिन्दाये महादेवीये सार्धं सर्नेण च अन्तःपुरेण राजारहेहि रथेहि अभिरुहित्वा रथशालांप्रस्थिता // सो पि राजा कुशो मातरि प्रतिश्रुत्वा प्रभाताये रात्रीये प्रकृत्यैव रथवाहनशालां गतः रथपालवेषेण रथानां मूल आसति सुदर्शनां प्रतिपालयमानो // सापि दानि सुदर्शना राजधीता अश्वरथातो ओरुहित्वा बहूहि देवीशतेहि परिवृता रथशालां प्रविष्टा // सा दानि सुदर्शना राजधीता अपराहि देवीहि सार्धं रथशालाम् अनुचंक्रमित्वा यं कालं निवर्तिता राजकुलं गच्छामि त्ति ततः राज्ञा कुशेन प्रत्यग्रेण गोमयपिण्डेन वाष्पायन्तेन
[_mvu_2.457_] पृष्ठे आहता // तानि राजार्हाणि वस्त्राणि गोमयपिण्डेन विनाशितानि // सा दानि सुदर्शना राजधीता श्वश्रुम् अलिन्दां महादेवीम् आह // भट्टे इमस्य रथपालस्य दण्डो प्रणामयितव्यो / लभ्या एतेन राज्ञो कुशस्य अग्रमहिषीं गोमयपिण्डेन आहनितुं // अलिन्दा महादेवी आह // पुत्रि मर्षेहि एष राजक्यो रथपालः अवध्यो राज्ञो रथकोशधारो किं शक्या कर्तुं // सा दानि सुदर्शना ताय अलिन्दाय महादेवीय संज्ञप्ता //
___तत्र दानि अपरेण कालेन या राजक्या हस्तिशाला तत्राग्निः मुक्तो महान्तो अग्निदाहो प्रज्वलितो // हस्तिमेण्ठसहस्राणि महामात्राणि च अन्यश् च महाजनकायो सन्निपतितो हस्तिशालां निर्वापयिष्यामः न च शक्नोन्ति तं अग्निदाघं परिनिर्वापयितुं अन्तःपुरं पि तेन अग्निभयेन सर्वं भीतं सन्त्रस्तं संवृत्तं मा इमं पि राजकुलं दहिष्यतीति // ता दानि सर्वाः अन्तःपुरिका यतो हस्तिशाला ततो निर्धावमाना आसन्ति को शक्नोति एतं हस्तिदाघं परिनिर्वायपयितुं ति // महाजनकायं खिज्जन्ते न च शक्नोन्ति तं अग्निदाघं निर्वापयितुं न च शक्नोन्ति तानि हस्तिशालाय पटलानि घनानि महन्तानि बहुजन-उत्तकानि पातयितुं // तस्मिंश् च कालान्तरे राजा कुशो वहिर्नगरे अनुचंक्रमन्तो अनुविचरन्तो अण्वति / तस्य दानि राज्ञो अमात्येन पुरुषेण निवेदितं // महाराज यं खु जानेसि या राजक्या हस्तिशाला तत्र अग्निः प्रज्वलितो // श्रुत्वा च पुनः राजा कुशो हस्तिस्कन्धवरगतः जवेन तां हस्तिशालां सपरिवारो आगतो // सर्वाहि अन्तःपुरिकाहि राजा आपतन्तो दृष्टो तेन राज्ञा आपतन्तेन तानि प्रदीप्तानि पटलानि एकेनोस्साहेन सपक्षकानि
[_mvu_2.458_] सतलकण्टकानि ततः हस्तिशालातो वाह्यमुखं क्षिप्तानि // ये पि हि हस्तियो वरत्रेहि बद्धानि तानि बन्धनानि हस्तेन च्छटच्छटाय च्छिन्दति / ये पि हस्तिनागा अग्निना अभिग्रस्ता तानि उत्क्षिपित्वा अग्निभयातो एकमन्ते क्षिपति // एवं दानि कुशेन राज्ञा मुहूर्तेन हस्तिशाला निर्वापिता सर्वा हस्तिवाहिनी अग्निदाघातो मोचिता एको पि न हस्तिर् दग्धो नाबाधितो // तत्र दानि अनेककोटीशतसहस्राणि राज्ञो कुशस्य तादृशां वीर्यपराक्रमां दृष्ट्वा हक्कारसहस्राणि प्रवर्तेन्ति / अन्तःपुरं पि राज्ञो कुशस्य तादृशं पुरुषपराक्रमं दृष्ट्वा सर्वे प्रीता तुष्टा अहो राज्ञो कुशस्य बलो अहो पराक्रमं // तत्र दानि अपरा कुब्जा हर्षिता वेगजाता राजा राजा ति कुशं संरावेति //
सिंहसुपीठो बलवां शोभे सुविपुलो महां / खे चन्द्रो इव आभाति समन्तपरिमण्डलं //
चक्रोरताम्रायताक्षो कामदेवो व शोभति / हस्तिनो मोचये राजा स्थामोपेतो नरर्षभो //
सो दानि राजा कुशो तस्या कुब्जाय प्रीतो दायं देति संवारेति वरं //
भद्रिका खु अयं कुब्जा या राजानं प्रशंसति / काशिकानि ते वस्त्राणि ददामि चतुरो अहं //
सा दानि सुदर्शना राजधीता तां कुब्जां कुशस्य वर्णं भाषमाणां श्रुत्वा तस्या दानि सुदर्शनाय राजधीतु एवं भवति // एषः राजा कुशो भविष्यति
[_mvu_2.459_] तस्य एषा कुब्जा वर्णं भाषति // सा दानि सुदर्शना राजधीता राजस्य कुशस्य तादृशं वर्णरूपं दृष्ट्वा मानसं से प्रत्याहतं दुःखदौर्मनस्यजाता संवृत्ता // मा ताव एदृशो मम भर्ता एवं दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपाद्रो महोदरो कालो मषिराशिवर्णो पिशाचस्य च एतस्य च नास्ति किंचित्* नानाकरणं // सा दानि सुदर्शना देवी तस्या कुब्जाये रुषिता आह //
न नाम एताये कुब्जाये जिह्वाये अस्ति च्छेदको / सुतीक्ष्णेन शस्त्रेण या राजानं प्रशंसति //
सा दानि कुब्जा सुदर्शनां देवीं गाथाये संज्ञपेति //
प्रतितर्जेन्ति राजानो बन्धनेन वधेन वा / तस्मास्य वर्णं भाषामि रक्षं जीवितम् आत्मनो //
सा दानि सुदर्शना देवी राजं कुशं तादृशं दृष्ट्वा दुर्वर्णं दुर्दृशं दृष्ट्वा तत्र राजकुले एवं रमणीये देवभवनसन्निभे अनन्तरतनाकरे रतिं न विन्दति अन्नपानेन से छन्दः ओत्पद्यते / नाहं अत्स्यामि न भोक्ष्यामि किं जीवितेन मे यद् अहं पिशचेन सार्धं संवसामि // सा दानि सुदर्शना राजधीता श्वश्रुम् अलिन्दां महादेवीं विज्ञपेति // भट्टे मुञ्चाहि मे कन्यकुब्जं गमिष्यामि मातापितुः सकाशं // यदि मे न ओसिरिष्यसि मुहूर्तेन उपक्रमेमि आत्मानं मारयिष्यं // तस्या दानि अलिन्दाये महादेवीये एवं भवति // वरं अयं राजधीता जीवति नैव मृता ति // सा दानि अलिन्दा महादेवी आह // पुत्रि गच्छ यत्र ते अभिप्रायो //
[_mvu_2.460_] सा दानि सुदर्शना राजधीता कुब्जाद्वितीया अश्वरथं अभिरुहित्वा वाराणसीतो निर्यात्वा प्रस्थिता अनुपूर्वेण कन्यकुब्जं गता मातापितुः सकाशं // सो दानि राजा कुशो विकाले शयनगृहं प्रविष्टो सुदर्शनां देवीं न पश्यति / राजकुले समन्तेन मार्गयमाना न कुत्रचिद् दृश्यति // सो दानि राजा कुशो सुदर्शनां देवीं न लभन्तो उत्कण्ठति शोचति परितप्यति / एवं विस्तीर्णे अन्तःपुरे न्यां न लभति // यदा से विदितं यथा सुदर्शना देवी कुब्जाद्वितीया ज्ञातिकुलं गता सो दानि राजा कुशो मातरं अलिन्दां विज्ञपेति // अम्बे अहं पि गच्छामि कण्णकुब्जं श्वशुरस्य महेन्द्रस्य मद्रकराज्ञो सकाशं सुदर्शनां देवीम् आनयिष्यामि // सा दानि अलिन्दा महादेवी पुत्रस्य कुशस्य वचनं श्रुत्वा कन्यकुब्जं गमिष्यामीति ततः पुत्रप्रेम्नेन राज्यतृष्णाये च मूर्छिता प्रस्खलिता च भग्ना धरणीतले प्रपतिता पुत्रशोकसमन्विता // अहो मम मन्दभाग्याये अनर्थं / पर्येषिता यतो इयं मया महेन्द्रकस्य कन्यकुब्जकस्य मद्रकराज्ञो धीता सुदर्शना इहानीता ततो न जानामि कथं मे पुत्रस्य राज्ञो कुशस्य भविष्यति // सा दानि अलिन्दा महादेवी पुत्रस्य कुशस्य जल्पति // पुत्र त्वं इक्ष्वाकुराजपुत्रो सुकुमारो सुखसंवृद्धो जानपदा च शक्तुभक्षा कम्बलपरिधाना च दिवसकर्मलूखाहारा च कथन्ते मार्गगमनं भविष्यति // राजा कुशो आह // अहं अम्बे नृत्यगीतवाद्येन अन्याहि च मायाहि विविधेहि च उपायेहि आत्मनो वृत्तिं कल्पयन्तो गमिष्यं मा उत्कण्ठतु अम्बा // सो राजा कुशो तां मातरं संज्ञापयित्वा भ्रातरं कुशद्रुमं राज्ये प्रतिष्ठापयति // भ्राता
[_mvu_2.461_] इमानि ते षष्टि नगरसहस्राणि सनिगमजानपदानि ऐश्वर्यं कारापेहि इमानि ते षष्टि हस्तिसहस्राणि सर्वालंकारविभूषितानि हेमजालप्रतिच्छन्नानि सखुरप्रवालानि षष्टि अश्वसहस्राणि सर्वे सैन्धवानि शीघ्रवाहीनि सर्वालंकारविभूषितानि षष्टि रथसहस्राणि सिंहचर्मपरिवाराणि व्याघ्रचर्मपरिवाराणि द्वीपिचर्मपरिवाराणि पाण्डुकम्बलप्रतिच्छन्नानि सनन्दिघोषाणि सवैजयन्तिकानि सखुरप्रवालानि उच्छ्रितच्छत्रध्वजपताकानि इमानि ते वाहनानि / इमं राज्यं परिपालेहि याव मम आगमनं भविष्यति // सो दानि राजा कुशो अमात्यानां संदिशति // एषो वो कुमारो कुशद्रुमो राजा मम यावद् आगमनं / एवं जानथ / तथा एव राज्यं समनुशासथ धर्मेण च पौरजानपदां परिपालेथ // सो दानि राजा कुशो अमात्यानां एवम् अनुशासयित्वा भ्रातरं कुशद्रुमं राज्ये प्रतिष्ठापयित्वा मातरम् अलिन्दां महादेवीं अभिवादयित्वा प्रदक्षिणीकृत्वा सप्ततन्त्रिकां वीणाम् आदाय उत्तराभिमुखो प्रस्थितो //
___राजा कुशो विविधेहि उपायेहि आत्मनो वृत्तिं कल्पयन्तो कन्यकुब्जं श्वसुरं येन गच्छति अनुपूर्वेण कन्यकुब्जस्य विषयम् अनुप्राप्तः // तत्र अन्यतरस्मिं ग्रामे वासम् उपगतो अपराये वृद्धाये शालाये प्रतिश्रयो दिन्नो // तत्र ग्रामे उत्सवो व वर्तति / सो दानि राजा कुशो ताये वृद्धाये वुच्चति // पुत्र इह ग्रामे उत्सवो वर्तति व्रज ग्राममध्ये तत्र किंचिद् अन्नपानं लभिष्यसि ततः आहारं कृत्वा प्रतिक्रमिष्यसि // सो दानि राजा कुशो तस्या वृद्धाय श्रुत्वा ग्राममध्यं गतः // तेन दानि राज्ञा कुशेन तादृशी वीणा वादिता गीतकं गायितं यं सर्वो ग्रामजनो आराध्यति / एतस्य दानि कुशस्य ग्रामजनेन प्रीतेन समानेन नानाप्रकारस्य खज्जकस्य पूरं गोपिटकं दिन्नं महान्तं अलिन्दं ओदनस्य दधिकलशश् च नानाप्रकाराणि
[_mvu_2.462_] च व्यंजनानि // तेन दानि राज्ञा कुशेन खद्यभोज्यं सर्वं वृद्धाये शालां प्रवेशितं // सा दानि वृद्धा प्रभूतखाद्यभोज्यं दृष्ट्वा (पूरं महान्तं गोपिटकं नानाप्रकारस्य च खज्जकस्य पूरं पिटकं दिन्नं महान्तं अलिन्दं ओदनस्य नानाप्रकाराणि व व्यंजनानि तेन दानि राज्ञा कुशेन प्रवेशितं दृष्ट्वा च पुनर् वृद्धा) प्रीता संवृत्ता // अद्य एषः गान्धर्विको एकाहारं कृत्वा पश्चिमे यामे गमिष्यति तं शेषं खाद्यभोज्यं मम द्वेमासिकं त्रेमासिकं वा भक्तं भविष्यति // तेनापि दानि राज्ञा कुशेन तस्या वृद्धाये आलापं करन्तेन एकार्धं व यन् तं गोपिटकं खज्जकस्य प्रखादितं / सापि वृद्धा जानाति / इदानिं पि मुहूर्तके पि एषो मम खज्जकशेषं दास्यतीति // तेनापि दानि राज्ञा कुशेन बुभुक्षितेन सर्वं तं गोपिटकं खज्जकस्य खादितं न एकं पि खज्जालोपं शेषकृतं // तस्या वृद्धाये एवं भवति // यदा इमेन गान्धर्विकेन तं महान्तं गोपिटकं खज्जकस्य सर्वं खादितं आशितो एषः भविष्यति / न धारयिष्यति एषो भूयो इमं अलिन्दं मोदकस्य खादितुं / एवम् मम चिरस्य कालस्य भक्तं भविष्यति // तेन दानि राज्ञा कुशेन मार्गगतेन बुभुक्षितेन महान्तं अलिन्दं मोदकस्य तं च दधिकलशं तानि च व्यंजनानि नानाप्रकाराणि सर्वं परिभुक्तं / तस्या वृद्धाये न किंचि शेषकृतं // सा दानि वृद्धा निराशा संवृत्ता अविधाविधं प्रविशथ धावथ प्रवेशितकायो मनुष्यरूपेण मे पिशाचो गृहं प्रविष्टः मम खादितुकामो // राजा कुशो आह // अम्बे किम् आरवसि किञ्चि द्रवसि / ग्रामस्मि न च का पि पापका वसन्ति मा त्रसाहि मा रवाहि / इमां एकरात्रिं वसित्वा शुवे गमिष्यामि //
___सो दानि राजा कुशो प्रत्यूषलेशकाले उत्थाय प्रस्थितः अनुपूर्वेण कन्यकुब्जं
[_mvu_2.463_] अनुप्राप्तः मालाकारशालां प्रविष्टो / मालाकारमहत्तरकस्य अल्लीनो अहं पि इमहिं वसिष्यं अहं पि अत्र कर्मे कुशलो // तत्र दानि मालाकारशालायां राजन्यानि कण्ठगुणानि गन्धमकुटा च माला क्रियन्ति // सो दानि राजा कुशो तादृशानि कण्ठगुणानि च गन्धमकुटानि च मालाश् च सुकृतानि सुनिष्ठितानि च सुविचित्राणि च आकारवन्तानि च करोति यथा सर्वे मालाकारा दृष्ट्वा विस्मयम् आपद्यन्ति / अहो कल्याणो आचार्यपुत्रो शोभनो शिल्पिको य इमानि एदृशानि कण्ठगुणानि गन्धमकुटानि च मालाश् च तादृशानि सुकृतानि सुनिष्ठितानि करोति यथा अस्माभिः न कदाचि दृष्टपूर्वा / सर्वाणि च राजा कुशो आत्मनो नामकेन आलिखति यथा सुदर्शना जानेया राज्ञो कुशस्य एतं कर्मन् ति // तानि कण्ठगुणानि गन्धमकुटानि मालाश् च राजकुलं प्रवेशिता सुदर्शनाये उपनामियन्ति / पश्य सुदर्शने इमानि पुष्पजातानि केदृशानि सुकृतानि सुविचित्राणि सुनिष्ठितानि नानावर्णानि // सा दानि सुदर्शना यं तत्र सर्वशोभनं कण्ठगुणं च मकुटं च मालावरं च गृहीतं आबन्धामि त्ति यावत् पश्यति कुशस्य नामकं // तस्या एतद् भवति // कुशस्य एतं कर्मन् ति राजा कुशो प्राकृतकेन वेशेन इहागतो भविष्यतीति // सा दानि सुदर्शना तानि कुशेन कृतानि मेल्लेत्वा अन्यानि प्राकृतकानि गृह्णति // सा दानि सुदर्शना मातरे वुच्चति भगिनीहि च वुच्चति अन्तःपुरिकाहि / सुदर्शना किं त्वम् इमानि सर्वशोभनानि कण्ठगुणानि मकुटानि मालाश् च मेल्लित्वा अन्यानि प्राकृतानि गृह्णसि // सा ताम् आह // अलं मे एतेहि एतम् एव मे भवतु // यन् तत्र रहस्यं तन् न कस्यचिद् आचिक्षति //
___सो दानि राजा कुशो मालाकारस्य मूले वसित्वा अर्थं नोपलभति / ततः
[_mvu_2.464_] निर्धावित्वा कुम्भकारमहत्तरकस्य मूले अल्लीनो // तत्रापि राजान्तःपुरस्य कृते नानाप्रकाराणि कुम्भकारभाजनानि क्रियन्ति / सो दानि राजा कुशो तादृशानि कुम्भकारभाजनानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे कुम्भकारा दृष्ट्वा विस्मयम् आपद्यन्ति / अहो कल्याणाचार्यपुत्रो शोभनः शिल्पिको य इमानि एदृशा कुम्भकारभाजनानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यानि अस्माभिः न कदाचि दृष्टपूर्वाणि / सर्वेषु च कुशो राजा स्वकं नामकं संज्ञामात्रकेन आलिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति // ताहि दानि अन्तःपुरे दासीहि तानि कुम्भकारभाजनानि राजकुलं प्रवेशितानि सुदर्शनाये च उपनामियन्ति / पश्य सुदर्शने इमानि कुम्भकारभाजनानि यादृशानि शोभनानि कल्याणानि सुकृतानि सुनिष्ठितानि यन् ते रुच्यति तं गृह्णाहि // सा दानि सुदर्शना तानि कुम्भकारभाजनानि यं सर्वशोभनं सर्वदर्शनीयं तं गृह्णीष्यामीति यावत् पश्यति कुशस्य नामकं / तस्या एवं भवति / कुशस्येतं कर्मन् ति // सा दानि तानि मेल्लित्वा अन्यानि प्राकृतका निप्रतिगृह्णाति // सा दानि सुदर्शना मातरे वुच्चति भगिनीहि पि देवीहि / सुदर्शने एदृशानि भाजनानि न कदाचिद् इह राजकुले प्रवेशितपूर्वाणि एवं शोभनानि / किस्य त्वं एतानि शोभनानि भाजनानि न गृह्णसि // सा दानि आह // अलं मे एतेन एतम् एव मे भवतु // यं तत्र रहस्यं तन् न कस्यचिद् आचिक्षति //
___सो दानि राजा कुशो कुम्भकारस्य मूले वसित्वा अर्थं नोपलभति / ततः निष्क्रमित्वा वर्धकिमहत्तरकस्य मूले अल्लीनो // तत्रापि राजान्तःपुरस्य कृतेन नानाप्रकाराणि वर्धकिभाण्डानि क्रियन्ति / आसन्दिका पि क्रियन्ति मञ्चका पि
[_mvu_2.465_] क्रियन्ति पीठका पि क्रियन्ति शय्यासनका पि क्रियन्ति पादफलकानि पि क्रियन्ति भद्रपीठकानि पि क्रियन्ति अयक्वा पि क्रियन्ति फेलिकानि पि क्रियन्ति अन्तकोटान्य् अपि क्रियन्ति अन्यानि च नानाप्रकाराणि वर्धकिभाण्डानि क्रियन्ति // सो दानि राजा कुशो तादृशानि वर्धकिभाण्डानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे वर्धकिनो दृष्ट्वा विस्मयम् आपन्ना / अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि वर्धकिभाण्डानि सुकृतानि सुनिष्ठितानि करोति यानि अस्माभिः न कदाचि दृष्टपूर्वाणि / सर्वेषु च राजा कुशो आत्मनो नामकं संज्ञामात्रकेण लिखति यथा सुदर्शना जानेया राज्ञो कुशस्येदं कर्मन् ति // ताहि दानि अन्तःपुरिकादासीहि तं वर्धकिभाण्डं राजकुले प्रवेशितं / यानि सर्वशोभनानि तानि विचिनित्वा सुदर्शनाये उपनामीयन्ति // सुदर्शने पश्य पश्य इमानि वर्धकिभाण्डानि यादृशानि शोभनानि दर्शनीयानि / यन् ते अभिप्रेतं तं गृह्णाहि // सा दानि सुदर्शना या तत्र सर्वशोभना आसन्दिका या मंचका या पीठका पादाश्रया वा पादफलका वा भद्रपीठा वा अयक्का वा अन्तकोटा वा फेला वा फेलिका वा तं गृह्णामीति यावत् पश्यति कुशस्य नामकं // तस्या दानि एवं भवति // कुशस्येदं कर्मन् ति // सा दानि तं मेल्लित्वा अन्यं प्राकृतकं गृह्णाति // सा दानि सुदर्शना माताये वुच्चति भगिनीहि च ताहि च अन्तर्पुरिकाहि / सुदर्शने किस्य त्वं इमानि एदृशानि वर्धकिभाण्डानि शोभनीयानि
[_mvu_2.466_] मेल्लित्वा अन्यानि प्राकृतकानि गृह्णासि // सा दानि आह // अलं मे तेहि इमानि एव मे भवन्तु // यं तत्र रहस्यं तं न कस्यचिद् आचिक्षति //
___सो दानि राजा कुशो वर्धकिस्य मूले वसित्वा अर्थं नोपलभति / ततो निर्धावित्वा चोडकधोवकस्य मूले अल्लीनो // तत्रापि राजान्तःपुरस्य कृतेन चोडकानि धोवीयन्ति सुदर्शनाया पि चोडकानि तत्रैव धोवीयन्ति // सो दानि राजा कुशो सुदर्शनाये वस्त्राणि प्रत्यभिजानति / सो दानि राजा कुशो तानि सुदर्शनाय चोडकानि तादृशानि धोवति सुप्रक्षालितानि चौक्षाणि निर्मलाणि धौतानि यथा सर्वे धोवका चोडका दृष्ट्वा विस्मयम् आपन्नाः / अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमानि चोलकानि एदृशानि सुधोवितानि सुप्रक्षालितानि चौक्षाणि निर्मलानि धोवति यानि अस्माभिः न कदाचि दृष्टपूर्वाणि // राजा कुशो स्वकं नामकं भल्लातकेन संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति // ताहि दानि अन्तःपुरदासीहि तानि चोलकानि राजकुलं प्रवेशितानि यानि देवीनां चोलकानि तानि देवीनाम् उपनामितानि यानि अन्तःपुरिकानां चोलकानि तानि अन्तःपुरिकानां दिन्नानि / तानि दानि अन्तःपुरिका सुदर्शनाचोलकानि पश्यन्ति अवदातानि चौक्षाणि निर्मलानि / ता दानि विस्मयं लभन्ति सर्वशोभनानि सुदर्शनाय चोलकानि सुधोतानि च चौक्षाणि निर्मला द्विगुणं त्रिगुणं सुदर्शनाय धोवापनिकम् अर्हन्ति // सुदर्शनापि तानि वस्त्राणि दृष्ट्वा शुद्धानि निर्मलानि प्रीता
[_mvu_2.467_] संवृत्ता याव यत्र देशान्ते चोडधोवनको भल्लातकेन संज्ञामात्रेण लिखन्तो चोलके नामकं करोति तत्र तं कुशस्य नामकं दृष्ट्वा कुशस्येदं कर्मन् ति // सा दानि न स्वयं प्रतीछति उपस्थायकाये गृह्णावेति // तानि सर्वान्तःपुरिका स्वकस्वकानां वस्त्राणां धोवापनिकं चेटीनां हस्ते देन्ति / सा दानि सुदर्शना न इच्छति वस्त्राणां धोवापनिकं दातुं // सा दानि सुदर्शना मातरे वुच्चति भगिनीहि च अन्तःपुरिकाहि च // सुदर्शने यदा तव चोलकानि सुधोवितानि सुचौक्षाणि सर्वाणि लंचकानि तस्य धोवापनिकं न देसि // सुदर्शना आह // किं युष्माकं चिन्ता दीष्यति सो अन्येन कालेन // यं तत्र रहस्यं तं न कस्यचि आचिक्षति //
___सो दानि राजा कुशो धोवकस्य मूले वसित्वा अर्थं नोपलभति / ततः निर्धावित्वा रजमहत्तरकस्य मूले अल्लीनो तत्रापि च रजकशाले राजान्तःपुरस्य चोलकानि रज्यन्ति सुदर्शनाय पि चोलकानि रज्यन्ति // तत्रैव सो राजा कुशो सुदर्शनाये चोलकानि प्रत्यभिजानति / तेन कुशेन ताये सुदर्शनाये चोलकानि सुरक्तानि रंगरक्तानि सुविवित्राणि तादृशानि रक्तानि यथा ते सर्वे रजा विस्मयम् आपन्ना / अहो कल्याणाचार्यपुत्रो शोभनः शिल्पिको यो इमानि एदृशानि सुरक्तानि सुविचित्राणि चोलकानि रजति यान्य् अस्माभिः न कदाचित्* दृष्टपूर्वाणि / सर्वेषु च राजा कुशो स्वकं नामकं भल्लातकेन संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति // ताहि दानि अन्तःपुरिकादासीहि यानि यानि देवीनां चोलकानि तानि तानि देवीनां यतानि यानि अन्तःपुरिकानां चोलकानि तानि अन्तःपुरिकानां दिन्नानि / सुदर्शनाचोलकं
[_mvu_2.468_] अन्तःपुरिका दृष्ट्वा विस्मिता इमानि सुदर्शनाये चोलकानि तानि सुरक्तानि सुदर्शनीयानि सुविचित्राणि इमाये सुदर्शनाये द्विगुणं त्रिगुणं रंजापनीयं दातव्यं // ता दानि चोलकानि सुदर्शनाये उपनामितानि // सा दानि सुदर्शना तानि चोलकानि सुरक्तानि सुदर्शनीयानि सुविचित्राणि दृष्ट्वा तुष्टा प्रीतिसौमनस्यसंवृत्ता याव यत्र देशे रजको भल्लातकेन अङ्कं करोति तत्र देशे पश्यति कुशस्य नामकं / तस्या एवं भवति / कुशस्य तं कर्मन् ति / सा न प्रतीछति उपस्थायकाये प्रयच्छति // ता दानि अन्तःपुरिका स्वकस्वकानां चोलकानां रंजापनिकं चेटिकानां हस्ते देन्ति सा सुदर्शना रंजापनिकं न इच्छति दातुं // सा मातरे च भगिनीहि च अन्तःपुरिकाहि च वुच्चति / सुदर्शने यथा तव चोलकानि सुरक्तानि सुविचित्राणि दर्शनीयानि ततः त्वं याव द्विगुणं त्रिगुणं रंजापनिकं दातव्यं तन् न इच्छसि दातुं // सुदर्सनाह // किं युष्माकं चिन्ता दीष्यति सो अन्येन कालेन // यं तत्र रहस्यं तन् न कस्यचि आचिक्षति //
___सो दानि राजा कुशः रजकस्य मूले वसित्वा अर्थं नोपलभ्य ततो निर्धावित्वा ततः तट्टकारमहत्तरकस्य मूले अल्लीनः // तत्र दानि राज्ञो महेन्द्रकस्य आणत्तिया अन्तःपुरस्य अर्थाय नानाप्रकाराणि सुवर्णरूप्यमयानि रत्नप्रत्युप्तानि भोजनभाजनानि पिबनभाजनानि च क्रियन्ति // सो दानि राजा कुशो सुवर्णमयानि रत्नमयानि च रतनप्रत्युप्तानि भोजनभाजनानि पिबनभाजनानि च तादृशानि करोति सुदर्शनीयानि सुसंस्थितानि यथा एको पि तट्टकारो नास्ति यो तादृशानि भाजनानि शक्नोति कर्तुं // ते दानि तट्टकारा तादृशानि दृष्ट्वा
[_mvu_2.469_] विस्मयम् आपन्ना // अहो कल्याणाचर्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि रत्नभाजनानि करोति यानि अस्मेहि न कदाचिद् दृष्टपूर्वाणि / सर्वेषु च राजा कुशः स्वकं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येतं कर्मन् ति // ता दानि राजक्यानि सुवर्णरूप्यमयानि भाजनानि यं कालं सर्वाणि निष्ठितानि तेन तट्टकारमहत्तरकेन राज्ञो महेन्द्रकस्य उपनामितानि // सो दानि राजा महेन्द्रको यानि कुशेन भाजनानि कृतानि तानि दृष्ट्वा विस्मयति / यादृशानीमानि रत्नप्रत्युप्तानि भाजनानि कुशलेन इमानि आचार्येण कृतकानि // सो दानि राजा महेन्द्रकः तानि रत्नभाजनानि च वर्षवराणां कांचुकीयानां च हस्ते देति / गच्छथ अन्तःपुरं प्रवेशेथ महादेवीये धीतुश् च मे सुदर्शनाये यथाभिप्रेतं पूर्वं देथ पश्चाद् अपराणां देवीनाम् अन्तःपुरिकानां च // तेहि दानि वर्षवरेहि कांचुकीयेहि च तानि रत्नभाजनानि अन्तःपुरं प्रवेशितानि महादेवीये उपनामितानि / देवि इमानि ते रत्नभाजनानि राज्ञा प्रेषितानि देवी च धीता च ते सुदर्शना यथाभिप्रेतं पूर्वं गृह्णन्तु पश्चाद् अन्यासां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानां // सा दानि सुदर्शना माताये वुच्चति भगिनीहि च अन्तपुरिकाहि च वर्षवरेहि कांचुकीयेहि च // सुदर्शने इमानि व ते रत्नभाजनानि पिबनभाजनानि पितरे प्रेषितानि त्वं तावद् यथाभिप्रायं पूर्वं गृह्णथ पश्चाद् अन्यासां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानां यथाभिप्रेतं गृह्णाहि // सा दानि सुदर्शना यं तत्र सर्वशोभनं सुकृतं च सुनिष्ठितं आकारवन्तं तं गृह्णामि त्ति यावत् पश्यति कुशस्य नामकं / तस्या एवं भवति / कुशस्यैतं कर्मन् ति / सा दानि तं मेल्लित्वा अन्यानि प्राकृतशिल्पिकेन कृतकानि गृह्णाति // सा दानि सुदर्शना ताये माताये भगिनीहि
[_mvu_2.470_] च अन्तःपुरिकाहि च वुच्चति वर्षवरेहि च कांचुकीयेहि च // सुदर्शने किं त्वं एदृशकानि दर्शनीयानि रतनभाजनानि सर्वशोभनानि मेल्लित्वा अन्यानि प्राकृतकानि गृह्णासि // सा दान्य् आह // अलं मे एतेन एतम् एव मे भवतु // यन् तत्र रहस्यं तन् न कस्यचि आचिक्षति //
___सो दानि राजा कुशो तट्टकारस्य मूले वसित्वा अर्थं नोपलभति / ततो निर्धावित्वा सुवर्णकारमहत्तरस्य मूले अल्लीनो / तत्रापि राज-आणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि सुवर्णाभरणानि क्रियन्ति मूर्धापिधाना पि क्रियन्ति पादास्तरणानि पि क्रियन्ति सुवर्णमाला पि क्रियन्ति किलंजका पि क्रियन्ति वेठका पि क्रियन्ति मणिकुण्डला पि क्रियन्ति करण्डा पि क्रियन्ति मुखफुल्लका पि क्रियन्ति बिम्बा पि क्रियन्ति पारिहार्यका पि क्रियन्ति कटका पि क्रियन्ति श्रोणिभाण्डिका पि क्रियन्ति पादास्तरका पि क्रियन्ति नूपुरा पि क्रियन्ति पादाण्गुलिवेठका पि क्रियन्ति // सो दानि राजा कुशो तादृशानि सुवर्णाभरणानि करोति उदाराणि कल्याणानि सुकृतानि सुनिष्ठितानि सुनिर्वायन्तानि सुनिर्वान्तमलकषायाणि मृदूनि कर्मनियानि प्रभास्वराणि तादृशानि करोति यथा ते सुवर्णकारा सर्वे दृष्ट्वा विस्मयम् आपन्नाः / अहो कल्याणाचर्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि सुवर्णाभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथास्माभिः न कदाचि दृष्टपूर्वाणि / सर्वेषु च राजा कुशः स्वं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येतं कर्मन् ति // तेहि दानि सुवर्णकारेहि यं कालं
[_mvu_2.471_] आभरणानि निष्ठितानि तं सर्वं राज्ञो महेन्द्रस्य अल्लीपितं // सो दानि राजा यानि कुशेन राज्ञा आभरणानि कृतकानि दृष्ट्वा विस्मयम् आपन्नः अहो यादृशानि इमानि आभरणानि सुकृतानि सुनिष्ठितानि शोभनानि कुशलेनाचार्यपुत्रेण कृतकानि // सो दानि राजा महेन्द्रको तान्य् आभरणानि वर्षवराणां कांचुकीयानां च हस्ते प्रेषति // गच्छथ इमान्य् आभरणानि महादेवीये सुदर्शनाये च यथाभिप्रेतं पूर्वं देथ पश्चाद् अपराणां देवीनां देथ सर्वासां च अन्तःपुरिकानां देथ // ते दानि वर्षवरा कांचुकीया च तान्य् आभरनाणि राजकुलं प्रवेशित्वा महादेवीय सुदर्शनाय च उपनामेन्ति // देवि इमन् ते सुवर्णाभरणं राज्ञा प्रेषितं / त्वं च धीता च ते सुदर्शना यथाभिप्रेतं पूर्वं गृह्णथ / पश्चाद् अपराणां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानां // सा दानि सुदर्शना तेषां सुवर्णाभरणानां यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितं आकारवन्तं गृह्णामि त्ति यावत् पश्यति कुशस्य नामकं / तस्या एवं भवति / कुशस्येतं कर्मन् ति / सा दानि तं मेल्लित्वा प्राकृतकानि कुशिल्पिकृतानि गृह्णाति // सा दानि सुदर्शना माताये वुच्चति भगिनीहि च अन्तःपुरिकाहि च वर्षवरेहि च कांचुकीयेहि च // सुदर्शने किं त्वं एवं विपरीतिका यानीमानि सर्वशोभनानि सुवर्णाभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कुशलेनाचार्यपुत्रेण कृतानि तानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिककृतानि गृह्णसि // सुदर्शना आह // अलं मे एतेन इमम् एव मे भवतु // यन् तत्र रहस्यं तन् न कस्यचिद् आचिक्षति //
___सो दानि राजा कुशो सुवर्णकारस्य मूले वसित्वा अर्थं नोपलभति / ततः निर्धावियान मणिकारमहत्तरकस्य मूले अल्लीनो / तत्रापि राजाणत्तिकाये अन्तःपुरस्य
[_mvu_2.472_] अर्थाये नानाप्रकाराणि आभरणानि क्रियन्ति मुक्तामणिवैडूर्यशंखशिलाप्रवालस्फटिकमुसारगल्वलोहितिकाहारा पि क्रियन्ति अर्धहारा पि क्रियन्ति मणिकुण्डला पि क्रियन्ति मणिवक्कला पि क्रियन्ति रत्नमयानि मूर्धपिधानानि अङ्गदानि पि क्रियन्ति केयूराणि पि क्रियन्ति मेखला रत्नामयानि क्रियन्ति // सो दानि राजा कुशो तादृशानि मणि-आभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे ते मणिकारा दृष्ट्वा विस्मयम् आपन्नाः / अहो कल्याणाचार्यपुत्रः शोभनो शिल्पिको यो इमानि ईदृशानि आभरणानि सुकृतानि सुनिष्ठितानि आकारवन्ता करोति ये अस्माभिर् अदृष्टपूर्वा / सर्वेषु च राजा कुशो स्वकं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्यैतं कर्मन् ति / तेहि दानि मणिकारेहि यं कालं आभरणानि निष्ठितानि तं वेलं राज्ञो महेन्द्रकस्य अल्लीपितानि // सो दानि राजा यानि कुशेनाभरणानि कृतानि दृष्ट्वा विस्मयम् आपन्नः / अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको // सो दानि राजा महेन्द्रको तान्य् आभरणानि वर्षवराणां कांचुकीयानां च हस्ते प्रेषित्वा / गच्छथ एतान्य् आभरणानि महादेवीय सुदर्शनाय च यथाभिप्रायं पूर्वं देथ पश्चाद् अपराणां देवीनां सर्वासां च अन्तःपुरिकानां देथ // ते दानि वर्षवरा कांचुकीया तान्य् आभरणानि राजकुलं प्रवेशित्वा महादेवीय सुदर्शनाय च उपनामयन्ति / देवि इमानि मण्याभरणानि राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना यथाभिप्रेतं गृह्णथ / पश्चाद् अपराणां देवीनां सर्वासां च अन्तःपुरिकानां दीष्यति // सा दानि सुदर्शना तेषां मण्याभरणानां यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितं आकारवन्तं तं गृह्णामि त्ति याव पश्यति कुशस्य नामकं / तस्या एवं भवति / कुशस्यैतं कर्मन् ति //
[_mvu_2.473_] सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतानि गृह्णाति // सा दानि सुदर्शना मातरे च वुच्चति भगिनीहि च अन्तःपुरिकाहि च वर्षवरेहि च कांचुकीयेहि च // सुदर्शने किं स्वम् एवं विपरीता या त्वम् एदृशकानि मण्याभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कुशलशिल्पिककृतानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतानि गृह्णासि // सा दानि सुदर्शना आह // अलं मे एतेहि इमम् एव मे भवतु // यन् तत्र रहस्यं तन् न कस्यचिद् आचिक्षति //
___सा दानि राजा कुशो मणिकारस्य मूले वसित्वा अर्थं नोपलभति / ततः निर्धावित्वा शंखवलयकारमहत्तरकस्य मूल अल्लीनो / तत्रापि राजाणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि शंखगजदन्तमयानि आभरणानि भाजनानि पि क्रियन्ति / नागदन्तवलयका पि क्रियन्ति अंजनीया पि क्रियन्ति दन्तसमुद्गका पि क्रियन्ति रोचनपिशाचिका पि क्रियन्ति दन्तभुंगारका पि क्रियन्ति दन्तविहेठिका पि क्रियन्ति दन्तपादमया पि क्रियन्ति सींहका पि क्रियन्ति शंखका पि क्रियन्ति शंखशय्या पि क्रियन्ति शंखमयानि पि तैलभाजनानि गन्धभाजनानि वर्णकभाजनानि क्रियन्ति शंखमृणालका पि क्रियन्ति शंखमुद्रका पि क्रियन्ति शंखवलयका पि क्रियन्ति शंखमेखला पि क्रियन्ति शंखवोचका पि क्रियन्ति शंखशिविका पि क्रियन्ति शंखचर्मका पि क्रियन्ति // एवं नानाप्रकाराणि शंखगजदन्तमयानि भाजनानि आभरणानि च सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे शंखगजदन्तकारका दृष्ट्वा विस्मयम् आपन्नाः / अहो कल्याणाचार्यपुत्रः शोभनो शिल्पिको यो इमानि एदृशानि शंखगजदन्तमयानि आभरणानि भाजनानि च करोति यं अस्माभिर् न दृष्टपूर्वाणि / सर्वेषु च राजा कुशो स्वकं नामकं संज्ञामात्रकेण
[_mvu_2.474_] लिखति यथा सुदर्शना जानेया कुशस्यैतं कर्मन् ति // तेहि दानि शंखगजदकारेहि यं कालं सर्वाणि कृतानि यथाणत्तानि राज्ञो महेन्द्रकस्य उपनामितानि // राजा तं कुशस्य कर्मं दृष्ट्वा उदारशोभनं सुकृतं राजार्हं विस्मयम् आपन्नः / अहो यादृशानीमानि कुशलेनाचार्यपुत्रेण कृतानि // कुमारामात्येहि पि अभिलक्षितानि राजपुरुषेहि पि अभिलक्षितानि कुशेन कृतानि शंखगजदन्तभाण्डानि दृष्ट्वा विस्मयम् आपन्नाः // इमानि कुशलेनाचार्यपुत्रेण कृतानि // राज्ञा महेन्द्रेण वर्षवराणां कांचुकीयानां च हस्ते तान्य् आभरणानि भाजनानि च प्रेषितानि / गच्छथ अन्तःपुरं प्रवेशेथ महादेवीये धीतुश् च मे सुदर्शनाये यथाभिप्रायं प्रथमं देथ ततः पश्चाद् अन्यासां देवीनाम् अन्तःपुरिकानां च // ते दानि वर्षवरा कांचुकीया तान्य् आभरणानि भाजनानि च गृह्य अन्तःपुरं प्रवेशितानि महादेवीये उपनामितानि / देवि इमानि ते शंखगजदन्तमयानि आभरणानि भाजनानि च राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना पूर्वं यथामिप्रायं गृह्णथ पश्चाद् अपराणां देवीनां दीष्यति सर्वासाञ् च अन्तःपुरिकानां // सा दानि सुदर्शना तानि शंखगजदन्तमयानि आभरणानि भाजनानि दृष्ट्वा यन् तेषां सुकृतं सुनिष्ठितं कल्याणं शोभनं कल्याणाचार्यपुत्रेण कृतकं दृष्ट्वा हस्ते प्रणामितं गृह्णीष्यन्ति यावत् पश्यति कुशस्य नामकं ष् तस्यैवं भवति / कुशस्यैतं कर्मं ति / सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतानि गृह्णाति // सा दानि सुदर्शना मातरे वुच्चति भगिनीहि च अन्तर्पुरिकाहि च वर्षवरेहि च कांचुकीयेहि च वुच्चति // सुदर्शने किं त्वं एदृशीका
[_mvu_2.475_] विपरीतिका यानि इमानि सर्वशोभनानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिककृतानि गृह्णासि / किम् इमानि सर्वशोभनानि न गृह्णासि // सा दानि सुदर्शना आह // अलं मे एतेहि एतम् एव मे भवतु // यं तत्र रहस्यं तन् न कस्यचि आचिक्षति //
___सो दानि राजा कुशो शंखदन्तकारस्य मूले वसित्वा विशेषं नोपलभति / ततः निर्धावियान जन्तकारस्य मूले अल्लीनो / तत्र राजाणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि जन्तमाष्टदण्डकानि क्रियन्ति / क्रीडापनकानि च विविधानि च जन्तमाष्टकानि क्रियन्ति / वीजनकानि पि जन्तमाष्टानि क्रियन्ति / तालवण्टकानि पि मोरहस्तका पि पादफलका पि आसन्दिका पि जन्तमाष्टपादका महाशालिका पि यन्तमाष्टकानि कंकणका पि यन्त्रमाष्टका / नानाप्रकाराणि च पक्षिणो यन्त्रमाष्टकानि क्रियन्ति शुका पि जन्तमाष्टका शारिका पि कोकिला पि हंसा पि मयूरा पि शतपत्त्रा पि कारंदवा पि मोरम्बा पि जीवंजीवका पि तैलकुण्डिका च यन्त्रमाष्टका क्रियन्ति / नानाप्रकारं च फलाफलं यन्त्रमाष्टका क्रियन्ति / भव्यानि च दाडिमानि च मातुलुंगानि च वीरसेनकानि च द्राक्षालतिका च आम्राण्णि च जाम्बूनि च पिप्पलानि च कपित्थानि नालीकेराणि च पनसानि च क्षीरिकानि च नीपानि च कदम्बानि च खर्जरलतिका च / एवं नानाप्रकाराणि यन्त्रमाष्टभाण्डानि क्रियन्ति // सो दानि राजा कुशो तादृशानि
[_mvu_2.476_] यन्त्रमाष्टभाण्डानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यं ते सर्वे जन्त्रकारका दृष्ट्वा विस्मिता / अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमान्य् एदृशानि माष्टकानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यान्य् अस्माभिः न कदाचिद् दृष्टपूर्वाणि / सर्वेषु च राजा कुशो स्वकं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति // तेहि दानि जन्तकारेहि यदा सर्वभाण्डं निष्ठितं ततः राज्ञो उपनामितं // राजा दानि महेन्द्रको मद्रकराजा तानि कुशकृतानि दृष्ट्वा विस्मितः / अहो यादृशकानि इमानि जन्त्रमाष्टकानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि // तेन दानि राज्ञा तानि भाण्डकानि वर्षवराणां कांचुकीयानां च हस्ते दिन्नाः / गच्छथ अन्तःपुरं प्रवेशेथ महादेवीय धीतुश् च मे सुदर्शनाये प्रथमं देथ पश्चाद् अपराणां देवीनां सर्वासां च अन्तःपुरिकानां देथ // तेहि दानि वर्षवरेहि कांचुकीयेहि च तं भाण्डं गृह्य अन्तःपुरं प्रवेशितं महादेवीये उपनामितं धीतुश् च सुदर्शनाये / देवि इमानि ते यन्त्रमाष्टकभाण्डानि राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना यथाभिप्रायं प्रथमं तं गृह्णथ पश्चाद् अन्यासां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानां // सा दानि सुदर्शना यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितं आकारवन्तं दृष्ट्वा तत्र हस्तं प्रणामेति गृह्णामीति यावत् पश्यति कुशस्य नामकं / तस्या एवं भवति / कुशस्येदं कर्मन् ति / सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि गृह्णाति // सा दानि सुदर्शना मातरे वुच्चति भगिनीहि पि अन्तःपुरिकाहि पि वर्षवरेहि कांचुकीयेहि वुच्चति // सुदर्शने किस्य त्वं विपरीतिका या त्वम् इमानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि तानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतकानि गृह्णासि किं सर्वशोभनानि न गृह्णासि // सुदर्शना
[_mvu_2.477_] आह // अलं मे एतेन एतम् एव मे भवतु // यं तत्र रहस्यं तन् न कोचिज् जातानि //
___सो दानि राजा कुशो यन्त्रकारस्य मूले वसित्वा अर्थं नोपलभति / ततः निर्धावियान वरुटानां महत्तरकस्य मूले अल्लीनो // तत्र राजक्यानि वरुटभाण्डानि नानाप्रकाराणि क्रियन्ति वीजनकानि च तालवण्टकानि च च्छत्राणि च च्छत्रपालकानि च करण्डकानि च वेत्रमञ्चकानि वेत्रमेथिका च वेत्रपेठकानि च एवं नानाप्रकाराणि व वरुटभाण्डानि राजाणत्तिये अन्तःपुरस्यार्थाय क्रियन्ति // तत्र कुशो राजा तेहि वरुटेहि सार्धम् अन्तःपुरस्य नानाप्रकाराणि वरुटभाण्डानि करोति यथा सर्वेषां तेषां वरुटानां एको पि न शक्नोति तादृशानि कर्तुं // ते दानि यत्र काले यथाणत्तानि सर्वाणि व वरुटभाण्डानि कृतानि ततः तानि भाण्डान्य् आदाय राज्ञो अल्लीपितानि // राज्ञा वर्षवराणां कांचुकीयानां हस्ते अभ्यन्तरम् अन्तःपुरस्य सर्जितानि प्रथमं महादेवीये सुदर्शनाये च उपनामितानि // ते इमानि राज्ञा प्रेषितानि यूयं प्रथमं गृह्णथ यथाभिप्रेतानि पश्चात् सर्वस्यान्तःपुरस्य दीष्यति // महादेवीये यान्य् अभिप्रेतानि गृहीतानि सुदर्शनापि वुच्चति // गृह्ण त्वं अहो वरुटभाण्डानि यानि ते अभिप्रेतानि // सा दानि यानि तानि वरुटभाण्डानि शोभनानि चोदाराणि च सुकृतानि च उदाराणि राजार्हाणि बहुजनविस्मयकराणि च स्वयं राज्ञा कुशेन कृतानि राज्ञा कुशेन स्वकेन नामेन संज्ञां लिखितां दृष्ट्वा इमानि कुशेन कृतानीति मेल्लित्वा अन्यानि प्राकृतकानि वरुटभाण्डानि गृह्णाति // सा दानि [_mvu_2.478_] मातरे वुच्चति भगिनीहि पि अन्तःपुरिकाहि पि वर्षवरेहि कांचुकीयेहि पि / सुदर्शने किं शोभनान्य् उदाराणि वरुटभाण्डानि मेल्लित्वा अन्यानि प्राकृतकानि गृह्णासि // सा दानि आह // इमानि मे भवतु अलम् एतेहि // यं तत्र रहस्यं येन सुदर्शना तानि राजभाण्डानि न गृह्णाति तं च ते न जानन्ति //
___सो दानि राजा कुशो तत्रापि वरुटमूले वसित्वा अर्थं नोपलभति / ततः निर्धावित्वा यो महेन्द्रकस्य मद्रकराज्ञो महानसो तत्र प्रविष्टो सूपकारमहत्तरकस्य अल्लीनो // अहं पि इमहिं एव आसिष्यं यं कर्मं आणपेसि तं करिष्यं / अहं पि तत्र कर्मे कुशलः // तेन दानि सूपकारमहत्तरकेन राजा कुशो तत्र महानसे स्थपितो आणत्तिकापि दिन्ना / अत्र कर्मं करोहि // सो दानि राजा कुशो तत्र राजकृत्ये महानसे तादृशानि मान्सप्रकाराणि च व्यंजनप्रकाराणि च शाकप्रकाराणि च भोजनप्रकाराणि च अम्ललवणमधुरतिक्तकटुककषायाणि सिद्धेसि यथा सर्वेहि तेहि राजकृत्येहि सूपेहि न कदाचिद् दृष्टपूर्वं प्राग् एव सिद्धं / यतो पि च महेन्द्रको मद्रकराजा जातः न से कदाचिद् एदृशो रसो परिभुक्तपूर्वो / सो दानि राजा महेन्द्रको यं कालं भक्ताग्रम् उपविष्टो तानि मान्सप्रकाराणि व्यंजनप्रकाराणि च शाकप्रकाराणि च भोजनप्रकाराणि च उदाराणि अम्ललवणमधुरतिक्तकटुककषायाणि यानि राज्ञा कुशेन सिद्धकानि राजा महेन्द्रको परिभुंजन्तो न तुष्यति // विस्मितः सो राजा सूपमत्तरकं पृच्छति / भो भणे केन सूपकेन ममाद्य आहारो सिद्धो / यतः जातो न मे कदाचिद् एदृशो रसाग्रो जिह्वाग्रेण स्वादितपूर्वो // सो दानि सूपमहत्तरको राजानं प्रांजलीं कृत्वा विज्ञपेति // देवि अत्र अपरो आगन्तुको सूपो महानसं प्रस्थितो / तेन महाराजस्य आहारो सिद्धो //
[_mvu_2.479_] तस्य दानि राज्ञो भवति / कुशलो सो सूपो नानाप्रकारेहि संगृह्णितव्यः सो प्रियायितव्यः यथा न कहिंचित्* गच्छेया // सो दानि राजा सूपमहत्तरकम् आमन्त्रयति // भो भणे सूप आनेहि तं सूपं येन ममाद्याहारो सिद्धो यावन् नं पश्यिष्यामि // तेन दानि सूपमहत्तरकेन यं कालं राजा भक्ताग्रम् उपविष्टो ततो नं राजा कुशो उपनामितः एषो सः सूपो येन महाराजस्य आहारो सिद्धः // सो दानि महेन्द्रको मद्रकराजा राजं कुशं पश्यति दुर्वर्णं दुर्दृशं स्थूलोष्ठं स्थूलशिरोपादं महोदरं कालं मषिराशिवर्णं दृष्ट्वा च पुनः राजा विस्मितः / अहो मा ताव मा ताव शोभनो नाम एदृशो प्राकृतरूपो एदृशो रसविज्ञानो रसाग्रो // सो दानि राजा तं सूपं समाश्वासेति / वृत्ति शोभना यथारूपं प्रज्ञप्ता // राजार्हाणि च खाद्यभोज्यानि अग्रतः उपविशापयित्वा खादापितो पिबनाये च दिन्नं माला च से आलब्धा // राजेन दानि महेन्द्रेण आणत्तिका दिन्ना / एषः सूपः अनावृतद्वारो राजकुलं प्रविशतु //
___एवं दानि तत्र राजकुले सत्कृतो सन्मानितो वसति राज्ञो इष्टः सर्वेषां कुमाराणां अमात्यानां भटबलाग्राणां इष्टो च प्रियो च मनापो च // सो दानि महेन्द्रको मद्रकराजा वर्षवरां कांचुकीयां च आमन्त्रयति // भवन्ताहो एषः सूपो विश्वस्तम् अन्तःपुरं प्रविशतु अन्तःपुरिकानां क्रीडापनको भवतु // सो दानि राजा कुशो विश्वस्तं राजकुलं प्रविशति ताहि पि अन्तःपुरिकाहि एषो ऽस्माकं राज्ञा क्रीडापनको दत्तो पि / ता दानि अन्तःपुरिका तेन सार्धं विश्वस्तं क्रीडन्ति केलिं कुर्वन्ति पृष्ठिमं आरुहित्वा नानावाहिकाये वाहेन्ति / सो दानि राजा कुशो अन्तःपुरिकाहि
[_mvu_2.480_] वाहियमानः सहसा सुदर्शनाये दृष्टो // सा दानि सुदर्शना राजं कुशं पश्यित्वा एव भीता सन्त्रस्ता तासाम् अन्तःपुरिकानां रुष्यति क्षीयति परिभाषति / लभ्या स्त्रीभिः पुरुषं वाहयितुं ति // ता दानि अन्तःपुरिका आहन्सुः // सुदर्शने किं तुवं अस्माकं रुष्यसि क्षीयसि परिभाषसि / यदि वयम् इमं क्रीडापनकं एषः तव पतिर् भोति ततो से ईर्ष्यायसे // सुदर्शना आह // एषा मम ईर्ष्या सा भवतु अपि तु न शक्यः युष्माभि एषः वाहयितुं या एतं वाहयिष्यति तस्या अहं न साता भविष्यं // सा दानि सुदर्शना राजं कुशं अन्तःपुरे दृष्ट्वा दीनमुखवर्णा शोकार्तिता नापि से अल्लीयति न प्रलापन्देति // सो दानि राजा कुशो आह // सुदर्शने इमहिं पि तुवं मम पश्यियान उत्त्रससि // सुदर्शना आह // किं दानि सो इहागतो सि आश्चर्यं यदि सो आगच्छन्तो रात्रिं वा दिवसं दृष्टो आगतो सि न च वनपिशाचो एषो ति त्वं न केनचिद् हतो सि / विस्तीर्णं राज्यं विस्तीर्णम् अन्तःपुरं गच्छ स्वकं राज्यं क्रीडाहि रमाहि प्रविचारेहि इमहिं किं करिष्यसि // राजा कुशो आह // सुदर्शने नाहं त्वया विना गमिष्यामि / दिशा मे न प्रतिभायन्ति यतो हम् इहागतो // सुदर्शना आह //
किं दानि अहं करोमि कस्य वा गरहाम्य् अहं / उत्त्रसति हृदयं दृष्ट्वा समुद्रराक्षसं यथा //
किं दानि अहं करोमि कस्य वा गरहाम्य् अहं / उत्त्रसति हृदयं दृष्ट्वा मृगी भ्रान्ता व लुब्धकं //
[_mvu_2.481_] अतर्जन्तो यथागतं रात्रिंदिवं अनुव्रजन्* / गच्छ कुशं स्वकं राज्यं नेछामि दुर्वर्णं अहं //
राजा आह //
अहं खु बृहति श्यामे सुश्रोणि तनुमध्यमे / तव कामेहि मुह्यन्तो राज्यं पि नाभिप्रार्थये //
नाहं गमिष्यामि सुसंवृत्तोरु दिशां न जानामि यतो स्मि आगतो / संमूढरूपो विचरामि लोके मत्तो स्मि कामैः मृगमन्दलोचने //
देवी आह //
विक्षेपो तव वित्तस्य यम् अनिच्छन्तिम् इच्छसि / अकामां राज कामेसि नैतं पण्डितलक्षणं //
कुशो आह //
अकामां वा सकामां वा यो नरो लभते प्रियां / लाभं तत्र प्रशंसन्ति अलाभो तत्र पापको //
देवी आह //
प्रभोसि स्त्रीसहस्रं पि एकरात्रेण रामितुं / एकस्त्रियाये कामेन महं दुःखं निगच्छसि //
[_mvu_2.482_] राजा आह //
नेतं दुःखं प्रजानामि यशस्विनि वर्णलाभिनि / सुचीर्णे ब्रह्मचर्यस्मिं त्वं मे भार्या भविष्यसि //
देवी आह //
धिग् अस्तु ते ब्रह्मचर्यं अयं ते भवतु पापकः / सुनखीं वा सृगालां वा परत्र कामयिष्यसि //
कुशः आह //
मा एवं अवचि भद्रे सुश्रोणि तनुमध्यमे / श्रमणा पि वयं साधु ब्रह्मचर्येण शोभते //
ते पि भद्रे सुचीर्णेन इह चीर्णेन शोभति / स्वर्गेषु उपपद्यन्ति त्रिदशे कामकामिनो //
तत् ते भद्रे अहं ब्रूमि सुश्रोणि तनुमध्यमे / न ते अन्यो पती अस्ति इति सिंहस्वरो कुशः //
देवी आह //
सचे व सत्यं वचनं नैमित्तिकं भविष्यति / न ते भार्या भविष्यामि कामं छिन्दाहि खण्डशः //
राजा आह //
नाहं छेत्तुं तवेछामि सुश्रोणि तनुमध्यमे / अच्छिन्ना येव त्वं भद्रे मम भार्या भविष्यसि //
[_mvu_2.483_] महन्तं च मम राज्यं बह्वश्वं बहुपूरुषं / अनन्तबहुप्रपंचं बह्वाछादनभोजनं //
सो हं राज्यं च राष्ट्रं च च्छोरयित्वा इहागतः / तव कामहि मुह्यन्तो राज्यं पि नाभिप्रार्थये //
देवी आह //
पाषाणे खनसे कूपं कर्णकारे च कर्णिकां / त्वं वातं जालेन बन्धेसि यं अनिच्छन्तिम् इच्छसि //
अनिच्छन्तीं माम् इच्छेसि अकामेन्तीं च कामसि / गच्छ तुवं स्वकं राज्यं आत्मानं किं किलामसि //
राजा आह //
न एतं किलम् अथं मह्यं ब्रह्मचर्यं इदं मम / परत्र एवं तुवं भार्या मह्यं भद्रे भविष्यसि //
देवी आह //
एतं तव ब्रह्मचर्यं उपात्तं भोतु पापकं / सुनखिं वा शृगालिं वा गर्दभां वापि प्रार्थये //
ततो सो राजपुत्रो शूरो युद्धे अप्रतिपुद्गलः / कुशो यम् आरूढप्रज्ञो इदं वचनम् अब्रवीत्* //
[_mvu_2.484_] गच्छन्तो चे अहं भद्रे सुश्रोणि तनुमध्यमे / निगडेहि ते बन्धेयं किन् ते काहिन्ति ज्ञातयः //
देवी आह //
तम् एव धर्मं अपरायं यन् ते उत्पादितं पुरा //
तम् एव धर्मं स्मरमाणो यं मे बन्धितुम् इच्छसि //
राजा आह //
प्रभोमि ते अहं भद्रे मण्डयित्वा प्रजापति / येन् इच्छकं प्रचारेतु पिता ते किं करिष्यति //
प्रभोमि स्त्रीसहस्रं पि एकरात्रेण रामितुं / त्वम् एव मे वरं भद्रे शुद्धदन्ति प्रजापति //
देवी आह //
जानामि ते महाराज बलवां च नरर्षभः / दुर्वर्णो दुर्दृशो चासि निस्पर्शो सि महीपति //
स्थूलोष्ठो स्थूलशिरो च स्थूलांगो पि महोदरो / पश्यितुं त्वां न इच्छामि आत्मानं मा किलामय //
एते उद्विद्धप्राकारा अट्टाट्टालकखोडका / ये व वहन्ति नागेहि एते वारयन्ति ते //
एते शक्तीहि युध्यन्ति तोमरेहि शरेहि च / असीहि च सुतीक्ष्णेहि त्वां लभेयु प्रजापति //
[_mvu_2.485_] एवं दानि राजा कुशो सुदर्शनाये सार्धं अन्यमन्यं नानाप्रकारं परिभाषति / न च कोचि जानाति एषो राजा कुशो ति //
___तत्र दानि प्रातिसीमकेहि प्रतिराजानेहि श्रुतं महेशाख्येहि महाबलेहि महावाहनेहि / महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना नाम प्रासादिका सुदर्शनीया राज्ञो कुशस्य मूलातो पलायित्वा पितुः सकाशम् आगता / न च से राजा कुशो पति रुच्चति सुर्वर्णो ति कृत्वा // तेहि दानि सप्तहि राजानेहि चतुरंगबलकायं संनाहयित्वा हस्तिकायं अश्वकायं रथकायं पत्तिकायं सुदर्शनाये अर्थाये समागता // तेषां दानि सप्तानां राज्ञां यो सर्वार्यवरो सो दुर्मति नाम राजा तेषां सप्तानां राज्ञां बलवत्तरो च महेशाख्यतरो च // ते दानि सर्वे सप्त राजानः महता समृद्धीये महता विभूषाये प्रस्थिता अनुपूर्वेण कन्यकुब्जस्योपवनम् अनुप्राप्ता // तेन दानि महेन्द्रकेन मद्रकराज्ञा तेषां सप्तानां राज्ञाम् एकमेकस्य दूतो प्रेषितो / एषा मम धीता सुदर्शना कुशस्य राज्ञो भार्या ततः न शक्या मया अन्यस्य दातुं // ते दानि सप्त राजानः महेन्द्रकस्य मद्रकराज्ञो प्रतिवचनं श्रुत्वा रुषिता कुपिताश् च स्वकस्वकेहि खन्धवारेहि कन्यकुब्जं नगरं समन्तेन वेठियान स्थिताः // सो पि राजा महेन्द्रको नगरं प्रविशित्वा द्वाराणि घट्टेत्वा ओरुद्धो आसति // तस्य दानि महेन्द्रकस्य मद्रकराज्ञो एवं भवति // अहं खलु इमेहि सप्तहि राजानेहि अवरुद्धो धारियामि सर्वे च से राजानो महेशाख्या महाबला न प्रतिबलो हं एतेषां युद्धं दातुं यदापि एकस्य धीतरं दास्यामि षण् मे राजानो विरुधिष्यन्ति किं दानि करोमि // सो दानि राजा महेन्द्रको धीतुः सुदर्शनाये रुष्टो परिभाषति // किस्य त्वं स्वामिकस्य मूलातो पलायित्वा इहागता यद् अहं तव कृतेन सप्तराजानेहि ओरुद्धो
[_mvu_2.486_] धारियामि / यदि मे एतेषां सप्तानां कोचि हेठां उत्पादयिष्यति ततो ते सप्त खण्डानि कृत्वा तेषां सप्तानां राज्ञाम् एकमेकं राज्ञामेकमेकं खण्डं दास्यामि // सा दानि सुदर्शना पितुर् वचनं श्रुत्वा भीता संत्रस्ता दुःखदौर्मनस्यजाता संवृत्ता माताम् आमन्त्रयति // अम्बे यद् इमे सप्त क्षत्रिया परस्परं विरुधित्वा घातयिष्यन्ति ततः भस्मायित्वा (?) अस्थीनि संहरयित्वा ततो मे एलूकां कारापयेसि / तत्र च एलूकाद्वारे कर्णिकारवृक्षं रोपापयसि / ततो ग्रीष्माणाम् अत्ययेन प्रथमे प्रावृषमासे वर्तमाने सो कर्णिकारवृक्षो सर्वपरिफुल्लो भवेया हेमप्रकाशवर्णः / ततो मे स्मरसि / एदृशा मे वर्णेन धीता सुदर्शना आसीति // सा दानि महादेवी धीतुः सुदर्शनाये वचनं श्रुत्वा भीता संत्रस्ता दुःखदौर्मनस्यजाता संवृत्ता अश्रुकण्ठी रुदन्मुखी आह // कथं मे धीताये विनाभावो भविष्यति // तस्या दानि सुदर्शनाये एवं भवति / यादृशो राजा कुशो वीर्यबलपराक्रमेण समन्वागतो ततः एते न समर्था सप्त राजानः कुशेन सार्धं संग्रामं दातुं / यन् न्व् अहं राज्ञा कुशेन जीवितार्थिका सियां //
___अथ खलु सुदर्शना येन राजा कुशो तेन् उपसंक्रमित्वा नानाप्रकाराणि चाटुकानि करोति आचिक्षति च // महाराज एवं मे पिता तर्जति यदि एते सप्त राजानः किञ्चिद्* हेठाम् उत्पादयेन्सुः ततो सप्त खण्डानि कृत्वा एतेषां सप्तानां राज्ञाम् एकमेकं खण्डं प्रदास्यं // सो दानि कुशो राजा सुदर्शनाय बहुप्रकारं भाषति // इच्छन् त्वां अहन् ते महान्तं असत्कारं करेयं किन् त्वं पि मम कुर्यात्* // एवं दानि राजा कुशो सुदर्शनाये सार्धं जल्पमानः आसति / ताय च सुदर्शनाय मातरे श्रुतं श्रुत्वा च
[_mvu_2.487_] पुनः राज्ञो कुशस्य दृष्ट्वा को स्य अयं कुतो वा अयं वेणो वा पाणो वा चर्मकारो वा नापितो वा चण्डालो वा पुक्कसो वा यो मे धीतां परिभाषति तर्जेति च // सा दानि सुदर्शना मातुरं अंजलिं कृट्वा आह // अम्बे मा हैव जल्पाहि न एषो वेणो वा पाणो वा दासो वा चर्मकारो वा / एषो राज्ञः इक्ष्वाकुस्य पंचानां कुमारशतानां ज्येष्ठपुत्रो कुशो नाम मा अम्बे एतं दासो ति मन्याहि //
शंखपाण्डलसंकाशं नारीसंघनिषेवितं / क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि //
सुवर्णभाजनप्रत्युप्तं नारीसंघसमाकुलं / क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि //
षष्टि नगरसहस्राणि ऋद्धं स्फीतम् अकण्टकं / क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि //
षष्टि नागसहस्राणि सुवर्णालंकारभूषिता / सुवर्णच्छन्ना मातङ्गा इषादन्ता समुद्गता //
आरूढा ग्रामणीयेहि खड्गतोमरपाणिभिः / क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि //
षष्टि रथसहस्राणि नन्दिघोष-अलंकृता / अयोमया सुबद्धानि द्वीपिचर्मपरिच्छदा //
आरूढा ग्रामणीयेहि चापहस्तेहि वर्मिभिः / क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि //
षष्टि अश्वसहस्राणी आजानेया हयोत्तमाः /
[_mvu_2.488_] सुवर्णमेखलधरा खलीनरतनामया //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
