Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महावस्तु-अवादन
- Thông tin
- GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
आरूढा ग्रामणीयेहि पाशहस्तेहि वर्मिभिः / क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि //
विशं ब्राह्मणसहस्राणि राज्ञो भुंजति नित्यकं / दिवा वा यदि वा रात्रिं सदा सत्कृतपूजिताः / क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि //
कुमाराणां शता पंच उपेता मातापितृतो / क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसे //
षष्टि निधानसहस्राणि पिता च प्रपितामहा / . . . . . . . . . . . . . . . . . यत्र राजा कुशो नाम नराणां चापि ईश्वरो / एतस्य वर्णवीर्येण लोके नास्ति समासमो //
सा दानि सुदर्शनाये माता महादेवी इदं वचनं श्रुत्वा प्रीता संवृत्ता // ईदृशो मे जामाता सर्वगुणेहि उपेतः // सा दानि सुदर्शनाय माता धीतुर् वचनं श्रुत्वा महेन्द्रकस्य मद्रकराज्ञो निवेदयते // महाराज यं खुलं जानेयासि जामाता ते राजा कुशो इहानुप्राप्तो // सो राजा दानि देवीये वचनं श्रुत्वा भीतो सन्त्रस्तो संविग्नो हृष्टरोमकूपजातः // राजा आह // देवि हि किं उन्मत्तिकासि विक्षिप्तचित्तकासि या एवं जल्पसि राजा कुशो इहानुप्राप्तो ति / कीदृशो राजा कुशो कहिं वा ते राजा कुशो दृष्टो // देवी आह // महाराज नाहं उन्मत्तिका न विक्षिप्तचित्ता अपि तु एषो ते जामाता राजा कुशो यो ते महानसे आहारं पचति यो ते अन्तःपुरिकानां क्रीडापनको // राजा दानि श्रुत्वा भूयस्या मात्रया भीतो संत्रस्तो
[_mvu_2.489_] दुःखदौर्मनस्यजातो संवृत्तो // न मे तं दुःखं यं मे सप्त राजानो ओरुद्धकं धारेन्ति अपि तु एतं मे दुःखं महाराजा कुशो सुदर्शनाये रोषेण इहागतः भविष्यति सो च मे अवसानेन धारितस्य रोषेण किंचिद् अभ्यन्तरनगरे हेठाम् उत्पादयिष्यति // सो दानि राजा महेन्द्रको मद्रकराजा भीतो संत्रस्तो स्वकम् अन्तःपुरं प्रविष्टः / राज्ञो कुशस्यांजलिं कृत्वा क्षमापयति / क्षमस्व महाराज यम् मया किंचिद् अपराद्धं // सो दानि राजा कुशो श्वसुरम् आश्वासयति / मा भीहि महाराज न मम किंचित् क्षामापयितव्यं // सो दानि राजा महेन्द्रको मद्रकराजा मुहूर्तं राजानं कुशं स्नानशालायां प्रवेशित्वा कल्पकेहि केशश्मश्रूणि कल्पापयित्वा शतपाकेहि गन्धतैलेहि अप्य् अभ्यक्तो राजारहेहि स्नानचूर्णेहि स्नापितो राजारहेहि अनुलेपनेहि अनुलिप्तो राजारहेहि वस्त्रालंकारेहि प्रवारित्वा आमुक्ताभरणो श्वसुरेण सार्धं एकासने उपविष्टो / पंचांगिकेन तूर्येणोपस्थिहिये च //
___तेषां दानि सप्तानां राज्ञां बलाग्रस्य उच्चशब्दमहाशब्दो नादो श्रुयति // राजा दानि कुशो श्वसुरं पृच्छति // महाराज कस्यैषो महाजनकायकोलाहलशब्दो श्रुयति // राजा आह // इमं नगरं सुदर्शनाये कृतेन सप्त हि राजानो समन्ता परिवारित्वा आसन्ति अहं च ओरुद्धको धारीयामीति / तस्यैषां राज्ञां बलाग्रस्य शब्दो // सो दानि राजा कुशो तं श्वसुरं संज्ञापयति // मा भीहि महाराज अहं तथा करिष्यं यथा एते सप्त राजानो प्रणमिष्यन्ति वचनकरा च भविष्यन्ति // सो दानि राजा कुशो तं श्वसुरम् आमन्त्रयति // महाराज एते सर्वे महेशाख्या हस्तिनागा सर्वे च अश्वाः सर्वे चतुष्पदा सर्वो जनकायो मधुसिक्थकेन कर्णा पिधापेहि मा मम सिंहनादं श्रुत्वा स्वकं सैन्यं भज्जिष्यति // सो दानि राजा कुशो महेशाख्यं
[_mvu_2.490_] हस्तिनागम् अभिरुहित्वा महता जनकायेन सार्धं नगरद्वारम् अवद्वारापयित्वा निर्धावितो / तेन राज्ञा कुशेन सिंहनादो मुक्तो / तेन सिंहनादं नदन्तेन सर्वे सप्त राजानो सबला सवाहना भग्ना / जीवग्राहं गृह्णीत्वा पश्चाद्बाहुगाढबन्धनं बन्धित्वा श्वसुरस्य महेन्द्रकस्य मद्रकराज्ञो उपनामिता // इमे ते महाराजानो ते सर्वे सप्त राजानो महेन्द्रकस्य मद्रकराज्ञो प्रणिपतिता // जयतु महाराजा शरणगता स्म महाराजस्य वयन्ते आज्ञामात्रवचनप्रतिकरा भविष्यामः // सो दानि महेन्द्रको मद्रकराजा जामातरं कुशं पृच्छति / पुत्र तव एतेषां सप्तानां राजानां रुच्चति किं करिष्यामो / यथा त्वं आणपेसि तथा करिष्यामः // राजा कुशो आह // महाराज अस्ति ते अन्तःपुरे प्रभूता धीतरो तावद् अवश्यं सर्वे स्वामिकानां दातव्या इमे च सप्त राजानः सर्वे क्षत्रिया महाबला महावाहना महाभागा विस्तीर्णराज्या / ततः महाराज एतेषां क्षत्रियाणां सप्त धीतरो सुवर्णसहस्रमण्डितां कृत्वा एकमेकस्य राज्ञो एकमेकां धीतां देहि / एते च ते सप्त राजानो जामातरो भविष्यन्ति पक्षो च ते बलवन्तो भविष्यन्ति / सर्वे च ते प्रातिसामन्तिका राजानो महाबलो महावाहनो महापरिवारो ति कृत्वा ओनमिष्यन्ति अनुवर्तिष्यन्ति न च ते कोचित् प्रतिराजा विरुद्धिष्यति / महेन्द्रको मद्रकराजा आह // पुत्र सुष्ठु एवं करिष्यति यथा त्वं आणपेसि // सो दानि महेन्द्रको मद्रकराजा तान् सप्त धीतरो एकमेकां सुवर्णप्रतिमण्डितां कृत्वा एकमेकां सुवर्णसहस्रप्रतिमण्डितां कृत्वा एकमेका एकमेकस्य राज्ञो धीता दिन्ना महता राजानुभावेन महता राज-ऋद्धिये सन्धी च कृता पुत्रपौत्रिका // ते दानि सप्त राजानो महेन्द्रकेन मद्रकराज्ञा महता सत्कारेण सन्मानेन स्वकं स्वकं राज्यं प्रेषिता // गच्छन्तु भवन्तो स्वकं स्वकं राज्यं कारापेथ //
[_mvu_2.491_] सो दानि राजा कुशो तेहि राजेहि विसर्जितेहि कत्यहकालं वसित्वा श्वशुरकं महेन्द्रकं मद्रकराजानम् आमन्त्रयति / महाराज आमन्त्रेमि अहं पि स्वविषयं गच्छामि // महेन्द्रो मद्रकराजा आह // पुत्र मा गच्छाहि मम ते जीवितं दत्तं सर्वं मे राज्यं संशयातो मोचितं / अहं जीर्णो वृद्धो महल्लको गतयौवनो / अहं पिता त्वं पुत्रो त्वं राज्यं करोहि मा गच्छाहि // राजा कुशो आह // महाराज चिरं मे आगतस्य राज्यं मे असंस्थितको माता मे उत्कण्ठिष्यति आमन्त्रेमि गच्छामि // महेन्द्रको मद्रकराज आह // अत्यवश्यं गच्छसि // राजा कुशो आह // महाराज अत्यवश्यं गच्छामि // सो दानि महेन्द्रको मद्रकराजा धीतां सुदर्शनां शब्दावित्वा संदिशति // पुत्रि पराक्रमयुक्तो तव भर्ता राजा कुशो एवं महाबलो महानुभावो येन त्वं च अहं च सर्वराज्यं संशयातो मोचितं यस्य सर्वे राजानो प्रणमन्ति / अरहसि पुत्रि सुदर्शने राजं कुशं भर्तारं प्रेम्नेन च गौरवेण च उपस्थिहेसि // सा दानि सुदर्शना तं पितुर् वचनं प्राञ्जलिं कृत्वा साधू ति प्रतिश्रुत्वा सो दानि राजा महेन्द्रको मद्रकराजा तां धीतां सुदर्शनां राज्ञो कुशस्य दत्त्वा महता सत्कारेण महता समुदयेन चतुरंगेन बलकायेन हस्तिकायेन अश्वकायेन रथकायेन पत्तिकायेन स्वकं राज्यं विसर्जितो / गच्छ पुत्र स्वकं राज्यं //
___सो दानि राजा कुशो स्वकं राज्यं गच्छन्तो सोद्यानस्य अधिष्ठानस्य उपवने आवासितो तत्र महापदुमसरो / राज्ञा कुशेन तत्र पदुमसमे स्नायन्तेन उदकस्मिं आत्मनो प्रतिबिम्बं दृष्टं यादृशो दुर्वर्णो दुर्दृशो अपश्यनीयो / दृष्ट्वा च पुनः स्वकं शरीरं अप्रियं संवृत्तं एतद् उवाच // स्थानं व यं महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना परिभवति मे विरूपेण दुर्वर्णेन दुर्दृशेन समुच्छ्रयेण यन् नूनं अहम् आत्मानं
[_mvu_2.492_] उपसंक्रमेयं // सो दानि आत्मानं च उपक्रमेण मारितुकामः // शक्रेण देवानाम् इन्द्रेण त्रायस्त्रिंशे भवते समन्वाहृतो यथा राजा कुशो आत्मानं उपसंक्रमेण मारितुकामो // तस्य शक्रस्य एवं भवति / एषो राजा कुशो बोधिसत्वो सर्वसत्वानां हितसुखाये प्रतिपन्नो / सो दुर्वर्णो दुर्दृशो ति कृत्वा आत्मानम् उपसंक्रमितुकामः मारेष्यति सर्वलोके अनर्थो भविष्यति // सो दानि शक्रो देवानाम् इन्द्रो दिव्यस्य लोहितमुक्तिकस्य एकावलिकाय मध्ये ज्योतिरसं नाम दिव्यं मणिरत्नं तं गृह्णीयान वैहायसमन्तरीक्षे स्थितो राजं कुशम् आमन्त्रयति // महाराज मा आत्मानम् उपक्रमाहि अपि तु इमाम् एकावलिकां ज्योतीरसरत्नं शीर्षे आबद्धाहि / ततः एतेन आबद्धेन सर्वे जम्बुद्वीपे न कोचि पुरुषो वर्णरूपेण समसमो भविष्यति / अपि तु यथा इच्छसि पौराणकं वर्णरूपं ततो ताम् एकावलिकां ज्योतीरसरत्नं वस्त्रेण पिधेहि ततः ते पौराणं वर्णरूपं भविष्यति // सो दानि राजा कुशो तत्र पदुमसरे स्नायित्वा विलेपनेहि विलेपित्वा राजार्हाणि वस्त्राणि प्रावरित्वा सा एकावलिका शीर्षे आबद्धा // ततो तत्र पदुमसरे स्वकं मुखं निध्यायति याव जानाति अस्ति किंचिद् वेशेषो / सो दानि प्रत्यवेक्षन्तो आत्मानं पश्यति प्रासादिकं दर्शनीयं यथा न कोचिज् जम्बूद्वीपे पुरुषो तेन वर्णरूपेण दृष्टपूर्वो / दृष्ट्वा च पुनः राजा कुशो आत्मानं तादृशं उदारवर्णनिभं तुष्टो आत्तमनो संवृत्तो / न मे भूयो महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना परिभविष्यति अन्यो वा कोचिद् दुर्वर्णो ति कृत्वा //
___सो दानि राजा कुशो स्वके द्वारमूले स्थित्वा प्रविश्यामीति / ततो दौवारिकेहि
[_mvu_2.493_] वारीयति को सि त्वं पुरुष यो राजकुलं इच्छसि धर्षयितुं / न त्वं जानसि राजा कुशो दुरासदो दुष्प्रसहो मा इमं मुहूर्तं अनयव्यसनम् आपद्यसि // सो दानि राजा कुशो आह // अहन् ते स्वामी अहन् ते राजा कुशो // द्वारपाला आहंसुः // किं वयं राजं कुशं न प्रत्यभिजानाम यादृशो राजा कुशो / भद्रम् अस्तु यदि राजा कुशो एदृशो भवेया ततो परमेण अनुग्रहेण अनुगृहीता भवेमः सर्वराज्यं च इक्ष्वाकुकुलं एवंरूपेण राज्ञा प्रासादिकेन दर्शनीयेन उत्तमेन वर्णरूपेण समन्वागतेन // ततः राज्ञो कुशस्यैवं भवति / न मम एषो प्रत्यभिजानाति // सो दानि राजा कुशो एकावलिकाज्योतीरसरत्नं स्वकेन वस्त्रेण अपिधेति / सो दानि द्वारपालो राजं कुशं स्वकेन रूपेण दृष्ट्वा भीतो सन्त्रस्तो प्रणिपतितो // महाराज वयं न जानामः महाराजा तुवन् ति // सो दानि राजा कुशो राजकुलं प्रविशित्वा देवीये अल्लीनो / सा च से देवी वारेति // को सि त्वं पुरुष कुतो वा यो राजकुलं धर्षितुम् इच्छसि त्वं न जानासि राज्ञो कुशस्य दुरासदं अन्तःपुरन् ति मा राजकुलं धर्षेहि मा अनयव्यसनम् आपदिष्यसि // सो दानि राजा कुशो आह // देवि अहन् ते भर्ता अहन् ते कुशो राजा जानाहि // सा दानि देवी आह // न त्वं मम भर्ता न त्वं राजा कुशो किं वाहं न जानामि यादृशो राजा कुशो वर्णरूपेण / भद्रम् अस्तु यदि राजा कुशो ईदृशो वर्णरूपेण भवेया / ततो हं परमेण अनुग्रहेण अनुगृहीता भवेयं // सो दानि राजा कुशो ताम् एकावलिकां ज्योतीरसरत्नं पिधेति वस्त्रेण ततः यथापौराणं वर्णरूपं संवृत्तं // सा दानि सुदर्शना आह // महाराज किस्येमं मायाकारं विदर्शेसि // राजा कुशो आह // देवी न एषो किंचित्* मायाकारो अपि तु अहम् आत्मानं उपक्रमेण मारेतुकामो / ततः शक्रेण देवानाम् इन्द्रेण मम एषा एकावलिका
[_mvu_2.494_] दिन्ना एतं ज्योतीरसरत्नं / महाराज मा आत्मानं मारेहि अपि तु इमाम् एकावलिकां ज्योतीरत्नं शीर्षे आबद्धाहि ततो सर्वे जम्बुद्वीपे अन्यो पुरुषो वर्णरूपेण सदृशो न भविष्यति / यदि इच्छसि पौराणकं वर्णरूपं ततो तं एकावकिलाज्योतीरसरत्नं वस्त्रेण पिधापेहि ततः ते पौराणकं वर्णरूपं भवति / मम शक्रेण देवानाम् इन्द्रेणानुग्रहो कृतो // सा दानि सुदर्शना देवी आह // अनुगृहीतास्मि शक्रेण देवानाम् इन्द्रेण येन तव एदृशं वर्णरूपं कृतं // देवी आह // महाराज मा कदाचिद् एतं एकावलिकाज्योतीरसरत्नं पिधेहि सर्वकालं ते एदृशम् उदाररूपं भवतु / सर्वराज्यस्य सर्वजनकायस्य मनोरमतरो भविष्यसि // एवं दानि राजा कुशो एदृशेन वर्णरूपेण देवपुत्रसदृशो मार्गं गच्छति //
___तत्र दानि वाराणस्यां एकूनपंचकुमारशतेहि सर्वेहि च अमात्येहि सर्वेण च भटबलाग्रेण श्रुतं राजा कुशो आगच्छति / ते सर्वे राज्ञो कुशस्य प्रत्युद्गताः // राजापि कुशो हस्तिस्कन्धवरगतो चतुरंगेन बलकायेन परिवृतः आगच्छति // ते दानि कुमारा च भटबलाग्रा च राजं कुशं न प्रत्यभिजानन्ति / ते दानि अन्यमन्यं पृच्छन्ति // कतमो अयं राजा भविष्यति यो प्रासादिको दर्शनीयो महेशाख्यो उदारेण वर्णरूपेण हस्तिस्कन्धवरगतः आगच्छति कुशो पि राजा न दृश्यति // तस्य राज्ञो कुशस्य एवं भवति / न एते मम प्रत्यभिजानन्ति // तेन दानि राज्ञा कुशेन एकावलिकाज्योतिरसरत्नं हस्तिस्कन्धवरगतेन पाणिना पिहितं / ततः यथापौराणं वर्णरूपं संवृत्तं // ततो ते एकूना पंचकुमारशतानि अमात्या च भटबलाग्रा च राज्ञो कुशस्य स्वकं वर्णरूपं दृष्ट्वा भीता सन्त्रस्ता मूर्धने प्रणिपतिता राजानम् आह // जय महाराज न वयं
[_mvu_2.495_] जानामः महाराज एषो ति // सो दानि राजा कुशो भ्रातॄणाम् अमात्यानां च भटबलाग्रस्य च एतम् अर्थं निवेदयति / भवन्तो मम शक्रेण देवानाम् इन्द्रेण एषा एकावलिका ज्योतीरसरत्नं दत्तं एतां शीर्षे आबद्धाहि ततो ते वर्णरूपेण अन्यो पुरुषो सदृशो न भविष्यति // ते दानि कुमारा अमात्या भटबलाग्रं च राज्ञो एतद् उवाच // अनुगृहीता स्म शक्रेण देवानाम् इन्द्रेण यं महाराजस्य एदृशं वर्णरूपं संवृत्तं // एवं दानि राजा कुशो महता राजानुभावेन महता राज-ऋद्धीये वाराणसीम् आगत्वा राजकुलं प्रविष्टो उदारेण वर्णरूपेण ताम् अलिन्दां महादेवीम् अभिवादयित्वा पादौ वन्दित्वा पुरतो स्थितः // सा दानि अलिन्दा महादेवी राजानं कुशं न प्रत्यभिजानाति / पृच्छति कहिं पुत्रो कहिं वा राजा कुशो त्ति // राजा कुशो आह // अम्बे अहन् ते पुत्रो अहं राजा कुशो ति // महादेवी आह // न त्वं मम पुत्रो न त्वं राजा कुशो त्ति / किम् अहं राजं कुशं न प्रत्यभिजानामि / किं राजा कुशो केनचि हतो वा मारितो वा यं न दृश्यति // अहो अनाथमरणं मम यो मम एकपुत्रस्य विनाभावो संवृत्तः // सो दानि राजा तां मातरं परिदेवमानां दृष्ट्वा ताम् एकावलिकां ज्योतीरसरत्नं वस्त्रेण पिधाय यथापौराणं वर्णरूपं संवृत्तं // सा दानि अलिन्दा महादेवी तं पुत्रं स्वकेन वर्णरूपेण दृष्ट्वा प्रीतिमना संवृत्ता तं पुत्रं पृच्छति // पुत्र केन ते एदृशो वर्णरूपो संवृत्तो // राजा कुशो आह // अम्बे शक्रेण देवानाम् इन्द्रेण एकावलिका ज्योतीरसरत्नं दत्तं / ततो मे पिनद्धो एतेन मे एदृशो वर्णरूपो संवृत्तो // सा दानि अलिन्दा महादेवी प्रमुदिता प्रीतिसौमनज्यजाता संवृत्ता / दृष्टो मे पुत्रो एदृशेन उदारेण वर्णरूपेण यथा मे अभिप्रायो / सर्वा च अन्तःपुरिका एदृशं राजस्य कुशस्य उदारं वर्णरूपं दृष्ट्वा प्रमुदिता प्रीतिसौमनस्यजाता संवृत्ता // सो दानि राजा कुशो यं कालं ताम् एकावलिकां ज्योतीरसरत्नं
[_mvu_2.496_] शक्रेण देवानाम् इन्द्रेण दत्तं बन्धति तं कालं दिव्यो वर्तति यं कालं तं मणिरत्नं पाणिना पिधेति तं कालं पौराणकवर्णरूपो भवति // एवं दानि राजा कुशो वाराणस्यां निहतप्रत्यर्थिको निहतप्रत्यमित्रो उदारेण उपभोगपरिभोगेन राज्यं कारयति //
___अथ खलु भगवान्स् तस्मिं समये चतसृणां पर्षदां पुरतः अन्यस्य च महाजनकायस्य इमां गाथाम् अध्यभाषे //
एवं पुण्यवन्तस्य अर्था सर्वे भोन्ति प्रदक्षिणाः / यथा राजा कुशो भार्याय ज्ञातीहि च समागतः //
स्याद् वो भिक्ष्वः एवम् अस्याद् अन्यो सो तेन कालेन तेन समयेन कुशो नाम राजा अभूषि / अन्यथा द्रष्टव्यं / अहं स तेन कालेन तेन समयेन राजा कुशो अभूषि / अन्यः स महेन्द्रको मद्रकराजा अभूषि / नैतद् एवं द्रष्टव्यं / एषः सो महानामः शाक्यो / अन्या सा अलिन्दा नाम महादेवी / न एतद् एवं द्रष्टव्यं / एषा मायादेवी / अन्या सा सुदर्शना / नैतद् एवं द्रष्टव्यं / एषा सा यशोधरा // स्याद् वो भिक्षवः एवम् अस्यात्* / अन्यः स तेन कालेन तेन समयेन तेषां सप्तानां राज्ञां यो ज्येष्ठो दुर्मतिर् नाम / नैतद् एवं द्रष्टव्यं / एषो सो मारो पापीमां / ते पि अन्ये राजानो मारपर्षा / तदापि मया उक्काशनशब्देन एषो मारो पापीमां सबलो सवाहनो भग्नो एतरहिं पि मया भिक्षवः बोधिमूले उक्काशनशब्देन एषः मारो पापीमां सबलो सवाहनो भग्नो //
_______________________________पर्त् 3_______________________________
[_mvu_3.1_]अभूषि राजा इक्ष्वाकु वाराणस्यां महाबलो / महायशो विजितावी तस्य पुत्रो न प्रजायिथ //
तस्य अभूषि चित्तं स्य तस्मिं काले महर्द्धिकं / यं नूनाहं स्त्रीयागारं ओसिरेयं त्रिः पक्षतः //
चतुर्दशिं पंचदशिं यावत् पक्षस्य अष्टमिं / सो स्त्र्यागारम् ओशिरति प्रजार्थं सो नराधिपः //
ता हृष्टमनसंकल्पा सर्वालंकारभूषिता / मृगिका इव संत्रस्ताः द्वारे द्वारे उपागमि //
काचित्* जल्पन्तियो लोभेन्ति अपरा च हसन्तियो / अपरा च धावमाना उच्चावचम् अनुधावति //
सर्वा प्रचलिता आसी सर्वा आसि प्रमूर्छिता / इक्ष्वाकुराजनगरं राजपत्नीहि मूर्छितं //
. . . . . . . . . . . . . . . . . काले विकाले आगच्छे ब्राह्मणो मम सन्तिके //
प्रतिवेदयथ मे क्षिप्रम् अपि याचनको सिया / अपि याचनको अस्य यत्र दिन्नं महाफलं //
ततो शक्रो विचिन्तेति त्रयस्त्रिंशानम् ईश्वरः //
[_mvu_3.2_] पुरोहितस्य्ऽ; इमं कर्मं यं राजा कर्तुम् इच्छति //
सो च जीर्णो भवित्वान भग्नो दण्डपरायणो / वेपमानेहि गात्रेहि राजद्वारम् उपागतः //
ततो संचारकं दूतं ब्राह्मणो एतद् अब्रवीत्* //
प्रतिवेदेहि मे क्षिप्रं द्रष्टुं इच्छे नराधिपं //
ततः संचारको दूतः राजानम् एतद् अब्रवीत्* / ब्राह्मणो देवम् अनुप्राप्तो राजानं द्रष्टुम् इच्छति //
स्वागतं ते महाब्रह्म अथ ते अनुरागतं / किम् इच्छसि किम् एषाणो केनार्थो किं ददामि ते //
श्रुतं मे एवं इक्ष्वाकु जनस्य इह भाषतो / राजा स्त्र्यागारम् ओसिरति त्रिः पक्षस्य नराधिप //
चतुर्दशिं पंचदशिं याव पक्षस्य अष्टमिं / पुत्रार्थिको नरश्रेष्ठो एवं मे श्रुत भाषितं //
सो हं च तं घोषं श्रुत्वा हृष्टप्रमुदितेन्द्रियः / स्त्र्यार्थिको इह गच्छेयं तेन मे प्रतिमानय //
राजा आह //
एहि क्षिप्रं कंचुकीय नारीयो दर्शये लहुं / याय से स्याद् अभिप्रायो तायद्य तम् अनुग्रहे //
सो दानि कंचुकीयेन ब्राह्मणो तम् अन्तःपुरं //
प्रवेशितो तस्य देवी अलिंदा तद वुच्चति //
[_mvu_3.3_] ब्राह्मणो आह //
एषा एव मे भवतु येयं तिष्ठति मानिनी / तिष्ठमाना अनवद्यांगी मुखम् अश्रूहि सिंचति //
कुब्जका आह //
इच्छसि तुवं स्थविर युवतीहि परिचारितं / न च त्वां काचिद् युवति पाणिनापि परामृशे //
इच्छसि तुवं स्थविर युवतीहि परिचारितं / न च त्वां काचिद् युवति पादेनापि परामृशे //
पूतिवली पलितमुखो वदरीकुसुमो व वासो दुर्गन्धः / छगलो व गन्धप्राप्तो अपगच्छ न मे त्वया कार्यं //
राजा आह //
वृत्तिं वो देमि धनं वा धान्यं वा ग्रामवराणि वा / तम् एव दानिं भुंजाहि किं अलिन्दाय काहिसि //
ब्राह्मणो आह //
कासनो मूर्छितो चाहं मूर्छियामि मुहुर् मुहुः / ओमूत्रेमि स्वकां शय्यां एषा मे उत्थपेष्यति //
तूष्णीं भोहि तुवं कुब्जे वर्णकम् एव पीषहि / प्रियो अहं अलिंदाये न तुवं मनसीकर //
[_mvu_3.4_] तूष्णीं भोहि तुवं कुब्जे मालाम् एव च गूहसि / प्रियो अहं अलिंदाये न तुवं मनसीकर //
राजा आह //
सचेद् राजकुले पिण्डं ब्राह्मण भोक्तुम् इच्छसि / तम् एव दानि भुंजाहि किम् अलिन्दाय काहिसि //
ब्राह्मणो आह //
मा भवान् राजा इक्ष्वाकु दत्तं समनुतप्यये / प्रियं यदि प्रवारेत्वा पश्चात् समनुतप्यसि / आमन्त्रेमि च गच्छामि यं न देसि निमन्त्रितं //
राजा आह //
न ब्रह्म अनुतप्यामि भोहि त्वं तुषितो पुनः / सर्वा पि ते उपस्थान्तु अलिंदाये सह इमा //
इमां च वृषलिं कुब्जां मैथुनार्थं ददामि ते / दासी वा ते अयं भोतु नेहि नां येन इच्छसि //
कुब्जा आह //
विषं खादिय मरिष्यं सचेन् मे देव दास्यसि / इमं वा थेरं भग्नांगं मारयिष्यं रहोगतं //
ब्राह्मणो आह //
सर्वकुब्जाहि मे वैरं या काचित् पृथिव्याश्रिता / यत्रायं वृषली कुब्जा मम इच्छति हिंसितुं //
[_mvu_3.5_] राजा आह //
ते वयं धर्मधरा स्म सर्वजीवेहि ब्राह्मण / गच्छासि मा मे गर्हन्तो मह्यं करोहि भण्डनं //
मृतो व जीर्णो विध्वंसी गुरुवासी च ब्राह्मण / एते लोके प्रतिकूला कृष्णसर्पो व रोषितो //
[सचे राजकुले पिण्डं ब्राह्मण भोक्तुम् इच्छसि / तम् एवं ब्राह्मण भुञ्जाहि किम् अलिंदाय काहिसि //]
ब्राह्मणो आह //
आसांप्रतं न इक्ष्वाकु यं वरं नो लभामथ / यं मे स्त्रियं प्रवारेत्वा पश्चात् समनुतप्यसि //
आमन्त्रेमि च गच्छामि दत्त्वा राजानुतप्यसि / यो मे स्त्रीभिः प्रवारेत्वा मिथ्याकरोषि याचनां //
राजा आह //
न ब्रह्म अनुतप्यामि भोहि नो तरुणो पुनः / सर्वा पि ते उपस्थान्तु अलिंदाय सह इमा //
इमां भद्र रमापेहि ब्राह्मण यावद् इच्छसि / आस्तृतस्मिं शयने भोहि सा तव स्या वशानुगा //
सो तां हस्ते ग्रहेत्वान सुश्रोणितनुमध्यमां / रुदन्मुखीम् अश्रुकण्ठीं राजद्वारातो निष्क्रमे //
राजकुलातो निष्क्रम्य अनुप्राकारे कुटि निर्मिता /
[_mvu_3.6_] शक्रो आह //
सुनिवस्त्रा भवित्वान एहि भद्रे रमामथ //
अभिमुखी रमापेहि मा भवाहि पराङ्मुखी / प्रहृष्टा मे रमापेहि वरन् ते रामितो अहं //
हसन्ती मे रमापेहि वरन् ते रामितो अहं / एहि भद्रे रमापेहि वरं ते रामितो अहं //
विना तन्द्राय उत्थेहि अलिन्दे पूजितो अहं / गत्वा राजानं वेदेसि प्रीतो भोहि जितं मया //
शक्रेण तं ब्राह्मणवेषम् अन्तरहायित्वा स्वकेन रूपेण स्थितो // सर्वां दिशां वर्णेन ओभासयित्वा स्थितो / अलिंदाये दृष्ट्वाथ विपर्ययावस्थानम् उत्पन्नं // सा दानि शक्रेण वरेण प्रवारिता / ताये पि पुत्रो वरितो पुत्रं मे वरं देहि // शक्रो आह //
शक्रो हम् अस्मि देवेन्द्रो त्रयस्त्रिंशानम् ईश्वरः / वरं वरेहि कल्याणि यत् किंचित्* मनसीच्छसि //
देवी आह //
शक्रश् चे मे वरं दद्यात् त्रयस्त्रिंशानम् ईश्वरः / पुत्रं अहं वरं याचामि एतं शक्र वरं दद //
शक्र आह //
सचेत् सुमनसा . . . अलिन्दा रमयासि मे / उत्पद्ये याचितो पुत्रो सुजातो राष्ट्रवर्धनो //
सिंहबाहु सुबलवां वर्णरूपेण शोभनः /
[_mvu_3.7_] उत्पद्यिष्यति ते पुत्रो सुजातो राष्ट्रवर्धनो //
सिंहासुपीडो बलवां सो भविष्यति पापको / कुशसमज्ञो सप्रज्ञानो परराष्ट्रप्रमर्दनो //
शक्रेण देवीय भैषज्यगुडिका दिन्ना / इमां ओघृषित्वा जिह्वाग्रेण स्वादेसि ततः ते पुत्रो भविष्यति // सा दानि देवी तां भैषज्यगुडिकां अंशुककोणके बद्धित्वा राजकुलं गता / गत्वा राज्ञो आख्यासि // शक्रो सो देवानाम् इन्द्रो तेन ब्राह्मणवेषेण आगतो स च मे सुष्ठु उपचीर्णो इयं च मे भैषज्यगुडिका दिन्ना निघृषित्वा जिह्वायां स्वादेसि ततो ते पुत्रो भविष्यति // राजा आह //
प्रसन्नमुखवर्णा त्वं स्मितपूर्वं च प्रेक्षसि / भोति खलु उत्तमार्थाय एदृशी वर्णसम्पदा //
देवी आह //
इन्द्रेण मे महाराज पुत्रो दत्तो महाबलो / सिंहासुपीडो बलवां परराष्ट्रप्रमर्दनो //
राजा रुषितो आह //
इमां गले गृहीत्वान नाशेथ विजिता मम / या मे आणां प्रतिक्रोशे न ताम् इच्छामि प्रेक्षितुं //
सो दानि गुलिकाम् आच्छिन्दित्वा तासां एकूनानां पंचदेवीशतानां दिन्ना / सा एव न लभति अस्या विरूपो पुत्रो भविष्यति // सा पृच्छति कहिं सा गुडिका ओघृष्टा / अत्र निषिदायां // ताये दानि उदकेन क्लेदयित्वान गुलिकाय लेशं कुशाग्रेण
[_mvu_3.8_] स्वादितं // एवं सर्वेहि पंचहि देवीशतेहि कुक्षि प्रतिलब्धो नवानां वा दशानां वा मासानाम् अत्ययेन सर्वा पंच देवीशतानि प्रसूताः पंच कुमारशुता सुजाताः //
___यावद् इक्ष्वाकुस्मिं कालगते कुशेन राज्यं प्रतिलब्धं // सो दानि कुशो मातरम् आह अमात्यानि च // भार्यां मे अग्रमहिषीम् आनेथ // माता तम् आह // को ते पापकस्य भार्यां प्रतिरूपां दास्यति पापिकां ते आनयिष्यामि //
पापिकां यदि मे अम्बे भार्यारम् आनयिष्यसि / न ते हं पापिकां भार्यां पाणिनापि परामृशे //
मम त्वं पापिकां भार्यां अम्ब आनयितुम् इच्छसि //
न ते हं पापिकां भार्यां पादेनापि परामृशे //
अलिंदा आह //
सुखो पुत्रक संवासो अन्योन्यसमलक्षणा / समानवर्णा उभये नान्योन्यम् अभिनिंदति //
अभिमन्यति कल्याणी पतिं दृष्ट्वान पापकं / वरं ते पापिका भार्या पापको हि सि पुत्रका //
राजा आह //
न मे श्रुतं वा दृष्टं वा राजानो भोन्ति दुर्भगाः / पापिकाहि वा नारीहि प्रविचारेति नरर्षभो //
राजा अहम् अस्मि क्षत्रियो विजितावी महाबलो / प्रभूतकोशो बलवां द्रव्यकामा हि नारियो //
परराष्ट्रेहि नारीयो सर्वालंकारभूषिताः / आनीयन्ति धनक्रीता येषां दूरं पितुर् गृहं //
[_mvu_3.9_] तस्य भार्यारम् आनेसि मद्रकराजस्य धीतरं / सर्वाचारेहि संपन्नां सर्वाङ्गोपेतां प्रजापतीं //
सा दानि कन्या श्वश्रुय उक्ता // अस्माकं इक्ष्वाकुकुले धर्मं द्वादश वर्षाणि भर्ता न द्रष्टव्यो इति // तेषां दानि शयनगृहे प्रदीपा न दीप्यन्ति // सुदर्शना आह कुशस्य राज्ञो //
इदं राजकुलं स्फीतम् अनन्तरतनाकरं / अथ दिवा वा रात्रौ वा प्रदीपं न लभामहे //
नैव रात्रिं वा दिवं वा पश्याम इतरेतरं / अन्यमन्यम् अपश्यन्ता आसामहे रहोगता //
इह मो तमसंग्रहे वसामो अन्धकारके / अन्धानां विय संवासो तथा मे प्रतिभायति //
राजा आह //
अहं एतं न जानामि को अर्थो किस्य वा पुनः / अम्बां मे गत्वा पृच्छाहि सा ते तं व्याकरिष्यति //
सा दानि प्रभाताये रात्रिये श्वश्रुये पादानि वन्दित्वा आह //
इदं राजकुलं स्फीतं अनन्तरतनाकरं / अथ दिवा वा रात्रिं वा प्रदीपं न लभामथ //
नैव रात्रिं वा दिवा वा पश्यामो इतरेतरं / अन्यमन्यं न पश्यन्ता आसामथ रहोगता //
[_mvu_3.10_] इह मो तमसंग्रहे संवसामो न्धकारके / अन्धानां विय संवासो तथेमं प्रतिभायति //
श्वश्रु आह //
यदा द्वादशवर्षन् ते पुत्रं द्रक्ष्ये प्रजापति / तदा द्रक्ष्यथ अन्योन्यं देवा मे उपयाचिता //
सुदर्शना आह //
पापकं पुनर् आर्या यं देवानाम् उपयाचितं / दीर्घरात्रं न द्रक्ष्याम अन्यमन्यसमागमं //
देवीये कौतूहलम् उत्पन्नं राजं पश्यितुं // सा दानि श्वश्रुं विज्ञपेति // श्वश्रु नां आह // पुत्रि शुवे ते दर्शनं दत्तं पश्याहि // अलिन्दाये कुशद्रुमो राजाकृत्या राजासने उपविशापितो / कुशो पि च्छत्त्रं धारेति कुमारा पि अमात्या पि नैगमजानपदा पि स्वकस्वकेषु आसनेषु उपविष्टा // सुदर्शना राजं पश्यित्वा सर्वाञ् च परिषदं तुष्टा छत्त्रधारं दृष्ट्वा मनसं प्रतिहतं // सा दानि सुदर्शना श्वश्रुयम् आह // शोभनो राजा शोभना राजकुमारा शोभना च परिषा छत्त्रधारो पुनर् अदेक्षियो / एतेन ताये सराजिकाये परिषाये श्री उपहन्यति / यदि एष छत्त्रधारो अत्र न दृश्ये एवम् एषा परिषा सराजिका शोभेय // श्वश्रु इमाम् आह // मा पुत्रि एवं जल्पाहि न त्वम् एतस्य च्छत्त्रधारस्य माहात्म्यं जानासि / महात्मा एष
[_mvu_3.11_] महाबलो एषो शीलवां महाधनो एतस्यानुभावेन वयं सर्वे सुखिता // सा दानि शयनगता राजानम् आह //
न नूनं त्वं लभे अन्यं लोकस्मिं छत्त्रधारकं / यादृशो ते अयं देव अहिरीको अनोत्रपो //
राजा आह //
किन् नु रूपेण कल्याणि अपि चायं महाबलो / महाबलो ति कृत्वान एषो स्माकं हि रोचति //
किं नु रूपेण कल्याणि अपि चायं महाधनो / महाधनो ति कृत्वान एषो स्माकं हि रोचति //
किं नु रूपेण कल्याणि अपि चायं शूरो सिया / स शूरो इति कृत्वान एषो स्माकं हि रोचति //
किं नु रूपेण कल्याणि अपि चायं सुशीलवान्* / सुशीलवानि ति कृत्वान एषो ऽस्माकं हि रोचति //
किं नु रूपेण कल्याणि अपि चायं महास्वरो / एतस्य अनुभावेन वयं सर्वे जीवामथ //
सुखमित्रो च मे सहायो प्रियो प्राणसमो च मे / एतस्य मे विनाभावे उभये पि न भवेमथ //
देवी दानि सर्वा च अन्तःपुरो पद्मसरः प्रेक्षितुं गता // तत्र राजा प्रकृत्यैव पद्मसरम् ओतरित्वा आसति / देवी ओतीर्णमात्रा तेन गृहीता / देवी जानति दकराक्षसेन
[_mvu_3.12_] गृहीता ति // अन्तःपुरिकाहि पुष्पवृष्टी पि मोचिता // राजा आह //
अगमासि देवी उद्यानं वापिपद्मिनिप्रेक्षिका / न मे पद्मानि आनेसि न खु ते हं प्रिये प्रियो //
देवी आह //
अगमं देव उद्यानं वापियोदके स्नायितुं / पिशाचं अद्दर्शिं तत्र मूर्छिता प्रपते भृशं //
यो च ते छत्त्रं धारेति यो च पद्मवने अभू / मन्ये एकिना स्त्रिया जाता तादृशम् अस्य लक्षणं //
देवी च अपरकालेन अन्तःपुरेण सार्धं आम्रवनं प्रेक्षिका निर्गता // राजा प्रकृत्यैव आम्रवनं गत्वा आम्र-उद्याने स्थितः // तत्र तेन देवी अण्वन्ती गृहीता // देवी जानति वनराक्षसेन गृहीता ति / अन्तःपुरिकाहि पुष्पवृष्टि पि मोचिता // राजा शयनगृहे देवीं आह //
अगमासि देवि आम्रवनं वर्धमानं निरीक्षिका / न मे आम्राणि आनेसि न खु ते हं प्रिये प्रियो //
देवी आह //
अगमं देव आम्रवनं वर्धमानं निरीक्षका / पिशाचं अद्दर्शिं तत्र मूर्छिता प्रपते भृशं //
[_mvu_3.13_] मन्ये एकिना स्त्रिया जाता यो तव च्छत्त्रं धारये / यो च पद्मवने आसि यो च आम्रवने अभू //
हस्तिशाला दानि आदीप्ता / राजा स्वयं कच्छं बन्धित्वा हस्तिनो मुंचति / असिना बन्धनानि च्छिन्दति पटलानि वाह्यतोमुखं क्षिपति //
नारायणसंघटनो राजा बलेन हस्तिनः / पाणिना गृह्य क्षिपति हस्तान् मोक्षिता दीप्तका //
अन्तःपुरिका राज्ञो वर्णं भाषन्ति / अहो राज्ञो पराक्रमो ति / अन्यतरापि कुब्जा राज्ञो वर्णं भाषति / सिंहासुपीडो बलवां शोभे सुचिपुलो महां / खे चन्द्रो इव आभाति समन्तपरिमण्डलं //
चकोरताम्रनयनः कामदेवो व शोभति / हस्तिनो मोक्षये राजा स्थामोपेतो नरर्षभः //
राजा आह //
भद्रिका खु अयं कुब्जा या राजानं प्रशंसति / काशिकानि ते वस्त्राणि ददामि चतुरो अहं //
महेन्द्रकराजधीता राजानं दृश्य दुःखिता / अयं नाम मम भर्ता एवंरूपो ति (शोकिता) //
[_mvu_3.14_] मद्रकराजधीता आह //
न भाषन्तीये कुब्जाये जिह्वाये अस्ति च्छेदको / सुतीक्ष्णेन शस्त्रेण या राजानं प्रशंसति //
कुब्जा आह //
प्रतितर्जेन्ति राजानो बन्धेन च वधेन च / तस्मास्य वर्णं भाषामि रक्षं जीवितम् आत्मनो //
देवी आह //
न पश्यामि न द्रक्ष्यामि को अर्थो जीवितेन मे / अद्यैवाहं गमिष्यामि पुरा प्राणा जनन्ति मे //
सा दानि कुपिता देवी मद्रकराजस्य आत्मजा / कुब्जाद्वितीया यानेन स्वकं ज्ञातिकुलं गता //
मातापि पुत्रशोकेन तालयष्टीव भग्ना भूम्यां निपतिता / सा च सालस्य व यष्टि च्छिन्ना परशुना यथा //
एवं मेदिनियं पति पुत्रशोकसमन्विता //
राजा भार्याशोकदुःखितो गन्तुकामः भार्याम् अन्वेषितुं माता दुःखिता राजानं कुशं गाथाये प्रत्यभाषति //
अहो मम मन्दभाग्याये अर्थो पर्याहृतो कुले / पंचशतयोजनातो महेन्द्रधीता इहागता //
शक्तुभक्षा जनपदा नित्यं कम्बलप्रावृता //
लूहभुक्ता लूहकर्मा कथं मार्गं गमिष्यसि //
[_mvu_3.15_] राजा आह //
नृत्यगीतवाद्यक्रीडाये चित्तमायाशतेन वा / विविधेहि उपायेहि वृत्तिं कल्पेयम् आत्मनो //
राजा भ्रातरं कुशद्रुमम् राज्ये स्थापयित्वा अमात्यानि संदिशित्वा //
मातरम् अभिवादयित्वा कृत्वान च प्रदक्षिणं / ततो वीणां गृहीत्वान प्राक्रमे उत्तरामुखः //
सो दानि मद्रकविषयस्य अन्यस्मिं ग्रामे वासोपगतो अन्यतराये वृद्धाये प्रतिशयं दिन्नं / तदहो च तत्र ग्रामे वीणावाद्येन आराधितो / तस्य प्रभूतं खाद्यभोज्यं दिन्नं महन्तं गोपिटकं खज्जकस्य महती च अलिन्दा भक्तस्य दधिघटकं च नानाप्रकाराणि च व्यंजनानि // वृद्धाये एतद् अभूषि // एष असौ एकम् आहारं कृत्वा शुवे गमिष्यति एतं च मम द्वेमासिकं भक्तं भविष्यति / कुशेनापि वृद्धाये आलापं आनयन्तेन तं खज्जकस्य गोपिटकं एकदुकाये सर्वं खादितं / सा च ओदनस्य महती अलिंदा यो अष्टानां वा नवानां वा तण्डुल-ओदनानां पाको सर्वं भुक्तं / तानि च व्यंजनानि तं दधिकलशं / वृद्धा निराशा //
अविधाविधं प्रविशिथ अन्तको इह आगतो / पिशाचो मानुषरूपेण यो माम् इच्छति खादितुं //
कुशो आह //
सर्वे वसन्ति ग्रामस्मिं ये च कायेन पापका / एकरात्रिं वसित्वान शुवे गंसामि अम्बिके //
[_mvu_3.16_]___सो दानि एकरात्रोषितो कन्यकुब्जं गतः मालाकारम् अल्लीनो तथा पूर्वे शिल्पिकजाती पश्चात्* महानसं / राजापि आराधितो यावद्राज्ञो प्रियो ति कृत्वा अन्तर्पुरिकाहि अन्तःपुरं प्रवेशीयति क्रीडापनको भविष्यति // अन्तःपुरिका पि महेन्द्रकस्यापि धीतरो पृष्ठेन वहति / सुदर्शनापि तेन वाहियमानेन असाता वारेति / किं दानि अहं करोमि कस्य वा गरहाम्य् अहं / उत्त्रासयति मान् दृष्ट्वा समुद्रे राज्ञसो यथा //
किं दानि अहं करोमि कस्य वा गरहाम्य् अहं / उत्त्रासयति मान् दृष्ट्वा मृगी भ्रान्ता व लुब्धकं //
अनूर्जको येनागतो रात्रिंदिवम् अनुव्रजन्* / गच्छ कुश स्वकं राज्यं नेछामि दुर्वर्णं अहं //
राजा आह //
अहं सुप्रियो ते स्यामे सुश्रोणि तनुमध्यमे / तव कामेहि महन्तं राज्यं पि नाभिप्रार्थये //
नाहं गमिष्यामि सुसंवृतोरु दिशां न जानामि यतो स्मि आगतो / संमूढरूपो विचरामि लोके मत्तो स्मि कामैः मृगमन्दलोचने //
देवी आह //
विक्षेपो तव चित्तस्य यं अनिच्छन्तिम् इच्छसि / अकामां राज कामेसि नैतत् पण्डितलक्षणं //
[_mvu_3.17_] कुशो आह //
अकामां वा सकामां वा यो नरो लभते प्रियां / लाभं तत्र प्रशंसन्ति अलाभो तत्र पापको //
देवी आह //
प्रभोसि स्त्रीसहस्रं पि एकरात्रेण रामितुं / एकस्त्रियाये कामेन महद्दुःखं निगच्छसि //
राजा आह //
नेतं दुःखं प्रजानामि यशस्विनी वर्णलाभिनी / यं सुचीर्णे ब्रह्मचर्यस्मिं त्वं मे भार्या भविष्यति //
देवी आह //
धिग् अस्तु ते ब्रह्मचर्यं अघन् ते भोतु पापकं / सुनखीं वा शृगालीं वा परत्र कामयिष्यसि //
कुशो आह //
मा एवं अवच भद्रे सुश्रोणि तनुमध्यमे / श्रमणा पि हिमे साधु ब्रह्मचर्येण शोभते //
ते पि भद्रे सुचीर्णेन इह चीर्णेन शोभते / स्वर्गेषु उपपद्यन्ति त्रिदशे कामकामिनो //
तन् ते भद्रे अहं ब्रूमि सुश्रोणि तनुमध्यमे / न ते अन्यो पति अस्ति इति सिंहस्वरो कुशः //
देवी आह //
सचेद् व सत्यं वचनं नैमित्तानां भविष्यति / न ते भार्या भविष्यामि कामं छिन्दाहि खण्डशः //
[_mvu_3.18_] राजा आह //
नाहं छेत्तुं तवेछामि सुश्रोणि तनुमध्यमे / अच्छिन्ना येव त्वं भद्रे मम भार्या भविष्यसि //
महान्तं च मम राज्यं बहूश्वं बहुपौरुषं / अनन्तबहुप्रदानं बह्वाच्छादनभोजनं //
सो हं राज्यं च राष्ट्रं च च्छोरयित्वा इहागतः / तव कामेहि समन्तराज्यं नाभिप्रार्थये //
देवी आह //
पाषाणे खनसे कूपं कर्णिकारेण कर्णिकां / वातं जालेन बन्धेसि अनिच्छन्तीं यम् इच्छसि //
अकान्तो किं कामयसि . . . . . . . . //
गच्छ कुश स्वकं राज्यं आत्मानं किं किलामसि //
राजा आह //
न एतं किलमथं मह्यं ब्रह्मचर्यं इदं मम / परत्र मे तुवं भार्या मह्यं भद्रे भविष्यसि //
देवी आह //
एतन् तव ब्रह्मचर्यं उपात्तं भोतु पापकं / सुनखीं वा शृगालीं वा गर्दभीं वाभिप्रार्थये //
राजपुत्रो शूरो वीरो युद्धस्मिं अप्रतिपुद्गलो / कुशो ऽयम् आरूढप्रज्ञो इदं वचनम् अब्रवीत्* //
[_mvu_3.19_] गच्छन्तो ते अहं भद्रे सुश्रोणि तनुमध्यमे / निगडेहि ते बन्धेयं किन् ते कुर्यु सजातयो //
देवी आह //
तम् एव धर्मम् अपराध्य यन् ते उत्पादितं पुरा / तम् एव धर्मं स्मरमाणो त्वं मे बन्धितुम् इच्छसि //
राजा आह //
प्रभोमि ते अहं भद्रे बन्धयित्वा प्रजापती / येन् इच्छकं प्रचारेतुं पिता ते किं करिष्यति //
प्रभोसि स्त्रीसहस्रं पि एकरात्रेण रामितुं / त्वम् एव मे वरं भद्रे शुद्धदन्ति प्रजापति //
देवी आह //
जानामि ते महाराज बलवां त्वं नरषभ / दुर्वर्णो दुर्दृशो चासि दुःस्पर्शो च महीपति //
स्थूलोष्ठो स्थूलशिरो च स्थूलाङ्गो सि महोदरो / पश्यितुं त्वां न इच्छामि मा आत्मानं किलामये //
देवी आह //
एते उद्विद्धप्राकारां अट्टाट्टालकखोलका / यो वा वहति नागेहि एतं हि वारयन्ति ते //
. . . . . . . . . . . . . . . . . . . . . . . . . . . एते शक्तीहि युध्यन्ति तोमरेहि शरेहि च / असीहि च सुतीक्ष्णेहि त्वां लभेयं प्रजापति //
[_mvu_3.20_]___राजा दानि महेन्द्रको धीतरं परिभाषति / किं त्वं तादृशं राजानं यस्य प्रतिराजानः त्रसन्ति तं छोडित्वा इहागता // अयं चाहं सप्तहि राजानेहि उपरुद्धो तव कृतेन / एषो दानि ते एतेषां सप्तानां राज्ञां सप्त खण्डानि कृत्वा दास्यामीति //
सा दानि भीता राजधीता अश्रुकण्ठा रुदन्मुखी / वारिपूर्णेहि नेत्रेहि इदं वचनम् अब्रवीत्* //
सचेत्* माम् अम्ब घातेन्सुः क्षत्रिया दूरगामिनो / अस्थीनि मे समानेत्वा एकमन्ते दहापये //
एकमन्ते दहापेत्वा एलूकं मम कारये / एलूकं मे करित्वान कर्णिकारम् आरोपये //
ततो च पुष्पिते सन्ते वसन्तस्मिं हिमान्तके / ततो मे अम्बे स्मरेयासि एवंवर्णा ममात्मजा //
ततो च सो राजपुत्रो युद्धस्मि कोविदो कुशो / संरूढप्रज्ञानो अस्ति समादाप्य इति स्थिता //
इमां बन्धित्वान भागभागं करित्वान क्षत्रिया / संग्रामं च ददित्वान ततः क्षेमं भविष्यति //
[_mvu_3.21_] ततः च (सा राजपुत्रं) क्षत्रियाणी यशस्विनी / वेपमानेहि गात्रेहि इदं वचनम् अब्रवीत्* //
सत्यन् ते प्रतिजानामि राजपुत्र महाबल / यदि ते कोचिद् अपराध्ये आचरे व नराधिपः //
कुशो आह //
अहं पि ते प्रजानामि शुद्धदन्ति प्रजापति //
यदि ते कदाचिद् भूयो पि आचरेयं इतो परं //
ततो प्रजापतीमाता अश्रुकण्ठी रुदन्मुखी / वारिपूर्णेहि नेत्रेहि इदं वचनम् अब्रवीत्* //
को नु वेणो वा पाणो वा अथ वा पुनर् पुक्कसो / किस्य राजकुले जातो किं स्य कुर्वन्ततो मुखं //
सुदर्शना मातरम् आह //
न एष वेणो न चण्डालो अथ न पुनः पुक्कसो / पुत्रो इक्ष्वाकुराजस्य तं त्वं दासो ति मन्यसि //
मयूरक्रोंचाभिरुतं वादित्रध्वनिनिषेवितं / क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि //
शंखपाण्डरसंकाशं नारीसंघनिषेवितं / क्ष्त्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि //
सुवर्णभाजनप्रत्युप्तं नारीसंघसमाकुलं / क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि //
[_mvu_3.22_] षष्टि नगरसहस्राणि स्फीतं राज्यम् अकण्ठकं / क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि //
षष्टि नागसहस्राणि सुवर्णालंकारभूषिता / सुवर्णच्छदमातंगा इषादन्ता समुद्गताः //
आरूढा ग्रामणीयेहि खड्गतोमरपाणिभिः / क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि //
षष्टि रथसहस्राणी सनन्दिघोषालंकृता / अयोसुबद्धनेमिका द्वीपिचर्मपरिच्छदा //
आरूढा ग्रामणीयेहि चापहस्तेहि वर्मिहि / क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि //
षष्टि अश्वसहस्राणि आजानेया हयोत्तमाः / सुवर्णमेखलाधरा खलीनरतनामया //
आरूढा ग्रामणीयेहि कशाहस्तेहि वर्मिभिः / क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि //
विंश ब्राह्मणसहस्राणी राज्ञो भुंजन्ति नित्यकं / दिवा वा यदि वा रात्रौ सदा सत्कृतपूजिता / क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि //
कुमाराणां शता पंच उपेता मातृपितृतो / क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि //
राजा दानि शृणोति देवीये जामाता आगतो त्ति इहैव अन्तःपुरे ति // सो दानि भीतो च यं वाहिरे राजेहि भयं भवेया इमं अभ्यन्तरे भयं जातं / कुशो किं करिष्यति //
[_mvu_3.23_] किं त्वम् उन्मत्तरूपा व विक्षिप्तचित्ता च भाषसि / कीदृशो सो कुशो कस्माद् अनुपश्येमथ वयं //
देवी आह //
एष देव अभ्यन्तरतो वेश्म-अन्तरे तिष्ठति / आगच्छति राजपुत्रः अभिनिष्क्रम्य तिष्ठति //
तस्यासौ वचनं श्रुत्वा भीतो संविग्नमानसो / प्रिय-अनुमतैकांसो कृत्वा अंजलिं तिष्ठति //
त्वं क्षमाहि महाराज त्वं क्षमाहि नरर्षभ / न वयम् एवं जानाम सिंहस्वर इहागतः //
त्वं क्षमाहि महाराज त्वं क्षमाहि नरर्षभ / न वयम् एवं जानाम महास्वर इहागतो //
त्वं क्षमाहि महाराज त्वं क्षमाहि महारथ / न वयम् एवं जानाम मंजुस्वर इहागतो //
राजा दानि पुनर् धीतरं परिभाषति // एत्तको कालो मम जामातु आगतस्य न च त्वं मम निवेदेसि // सो दानि तत् क्षणं शतपाकेहि सहस्रपाकेहि च तैलेहि अभ्यञ्चित्वा स्नापितो महारहेहि विलेपनेहि विलिप्तो महारहेहि आच्छादनेहि आच्छादितो आमुक्तमकुटो पंचाङ्गिकेन तूर्येणोपस्थिहीयति // कुशो श्वशुरं आह //
यत्तका ते हस्ती अश्वा च सर्वेषां कर्णा पिधीयन्तु / मा मम सिंहनादेन स्वकं सैन्यं भजिष्यति //
क्षिप्रं च अश्वा योजेथ सुवर्ण-उच्छ्रितध्वजां /
[_mvu_3.24_] अन्तेपुरातो निर्यासि राज्ञो महेन्द्रस्य पश्चतो //
सो सिंहनादं ननदे शूरो युद्धस्मिं ईश्वरो / सिंहनादं नदित्वान परिगृह्णति क्षत्रिया //
ते दानि सप्त क्षत्रिया जीवग्राहं गृह्य श्वशुरस्य अल्लीपिता // ते राजा आहन्सुः // किं करोमीति // कुशो आह // पादेहि मम श्वशुरं अल्लीयथ वृद्धिं च करोथ // ते दानि पादेहि च महेन्द्रकस्य राज्ञो अभिगता जयवुद्धि च से कृता // मद्रकराजा आह // किं करोमि त्ति // कुशो आह // करिष्यसि मम वचनं // श्वशुरो आह // करिष्यन् ति // अस्ति ते धीतरो सुवर्णसहस्रमण्डितां कृत्वा एकमेकस्य राज्ञो एकमेकां धीतरं देहि जामातरो भोन्तु / सुखं अनुद्विग्नं वसिष्यसीति // राज्ञा महेन्द्रकेन तेषां क्षत्रियाणां सर्वेषाम् एकमेका सुवर्णसहस्रप्रतिमण्डिता धीता दिन्ना सुवर्णसन्धीव पुत्रपौत्रा // ते दानि स्वकानि राज्यानि विसर्जिता //
___गतेषु सप्तराजानेषु श्वशुरं कुशो आमन्त्रयति // अहम् अपि गमिष्यामीति // मद्रकराजा आह // पुत्रि सुदर्शने त्वं एवं पराक्रमयुक्तं राजानं शुरं दीर्घदर्शिनं इक्ष्वाकुपुत्रं महाबलं महाकुलीनं अरहसे प्रेम्नेन च गौरवेन च उपस्थिहितुं / यं नूनाहं सपरिवारो सर्वो च अधिस्थानो संशयानो मोक्षितो // साधू ति धीता पितुः वचनम् अश्रोषीत्* // राजा दानि महेन्द्रको महता सत्कारेण प्रभूतं रत्नदानं दत्त्वा जामातुकस्य सुदर्शनाये च चतुरंगबलकायं संनाहयित्वा विसर्जिता //
___सो दानि यर्थेछिते जनपदे आवासितो / तत्र पद्मसरे स्नानाय ओकस्तो //
[_mvu_3.25_] तत्र स्नापयन्तेन आत्मनो प्रतिबिम्बं दृष्टः / स तं दुर्वर्णं दुर्दृशं आत्मनो प्रतिबिम्बं दृष्ट्वा दुर्मनो आसि / तेन हि मे महेन्द्रकराजधीता परिभवति / आत्मानं उपक्रमिष्यामि // सो दानि शक्रेण देवेन्द्रेण समन्वाहृतो // अयं कुशो बोधिसत्वो दुर्वर्णताये आत्मानम् उपक्रमितुकामः तेन तस्य ज्योतीरस-एकावलिका मणिरत्नं दिन्नं / इमम् आबन्धाहि ततः ते रूपेण सर्वजम्बुद्वीपे समसमो न भविष्यति / यत्र काले पौराणिकं रूपं अभिकांक्षसि तद् एतं मणिं पाणिना पिधिययासि // सो दानि तेन मणिरत्नेन आबद्धेन राजकुलं प्रविशति दिव्येन रूपेण प्रतिहाररक्षेण च वारि मा प्रविशाहीति // सो दानि आह // अहं कुशो ति // प्रतिहाररक्षो आह // भद्रं कुशो राजा एदृशो रूपेण भवेया ति // राज्ञा कुशेन तं मणिरत्नकं हस्तेनापिहितं / तस्य यथापौराणं वर्णरूपं संवृत्तं // प्रतिहाररक्षो दृष्ट्वा मूर्धेन प्रणिपतितो // सो दानि प्रविष्टो देवीय मूले // देवी आह // मा राजकुलं अवमर्दाहीति / किस्य त्वं राजकुलं प्रविष्टो // सो आह // अहं कुशो // देवी आह // कुशो राजा एदृशेन रूपेण भवेया // राज्ञा तं मणिं हस्तेन अपिहितं / सो दानि यथापौराणो संवृत्तो // देवी आह // अतो मणितो हस्तम् अपनेहि // राज्ञा मणितो हस्तो अपनीतो दिव्यं चास्य पुनः रूपं संवृत्तं // आत्मानम् एव उपसंक्रमितुकामो / ततो मे इमं ज्योतीरसं नाम मणिरत्नं शक्रेण दिन्नं // कुशो राजा आगच्छतीति श्रुत्वा एकूना पंच कुमारशतानि अमात्या च भटबलाग्रं च सर्वे प्रत्युद्गता / पश्यन्ति कुशं राजं हस्तिस्कंधवरगतं दिव्येन रूपेण आदित्यम् इव प्रतपन्तं चतुरंगेन बलकायेन संपरिवृतं आगच्छन्तं / ते दानि न प्रत्यभिजानन्ति /
[_mvu_3.26_] तेन दानि राज्ञा मणि हस्तेन पिहितो यथापौराणं च रूपं संवृत्तं ततः च सर्वे प्रणिपतिता // एवं महता समुदयेन कुशो राजा देवीये सुदर्शनाय सार्धम् अन्तःपुरं प्रविष्टो //
एवं पुण्यवतो अर्था सर्वे भोन्ति प्रदक्षिणाः / यथा नाम कुशो भार्याय ज्ञातीहि च समागतो //
पूर्वेनिवासं भगवान् पूर्वेजातिम् अनुस्मरन्* / जातकम् इदम् आख्यासि शास्ता भिक्षूणम् अन्तिके //
ते च स्कन्धा ते धातवः तानि आयतनानि च / आत्मनो र्थं च भगवान् एतम् अर्थं वियाकरे //
अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा / कुशो अहं तदा आसि सुदर्शना यशोधरा //
माया माता तदा आसि महानामो महेन्द्रको / मारो अन्यतरो राजा एवं धारेथ जातकं //
एवम् इदम् अपरिमितं बहुदुःखं उच्चनीचचरितं पुराणं / विगतज्वरो विगतभयो अशोको स्वजातकं भाषति भिक्षुसंघमध्ये //
भिक्षू भगवन्तम् आहन्सुः // तस्य भगवन् कर्मस्य विपाकेन कुशो राजा दुर्वऋणो दुर्दृशो प्रतिकूलदर्शनो अभूषि // भगवान् आह //
___भूतपूर्वं भिक्षवः अतीतमध्वानं नगरे कम्पिल्ले पंचालजनपदे दुवे जायपतिका तरुणाभिरूपा परस्परानुरक्ता भवेन्सुः / ताये इस्त्रिये सादृशं तत्र गृहं निःशल्यकं
[_mvu_3.27_] सिद्धं // बुद्धानाम् अनुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ति तूष्णीकशोभना खड्गविषाणकल्पा / एकम् आत्मानं दमेन्ति शमेन्ति परिनिर्वायन्ति // ताये स्त्रियाये तत्राहारं सिद्धं // प्रत्येकबुद्धो च तं गृहं पर्विष्टो पिण्डाय तरुणाभिरूपो प्रासादिकेन ईर्यापथेन // प्रासादिकाभिप्रसन्ना देवमनुष्याः // तस्या स्त्रियाये प्रत्येकबुद्धं दृष्ट्वा प्रसादम् उत्पन्नं // ताये तस्य प्रत्येकबुद्धस्य पिण्डपात्रो च दिन्नो // सो चास्या कुटुम्बिको प्रविष्टो पश्यति तं च प्रत्येकबुद्धं गृहे भार्यां च // तस्य दानि शंका उत्पन्ना / तरुणो यं प्रव्रजितो मा हैव मे कलत्रा ओलोकिता भविष्यति // सो ताये भार्याये परुषवाचाये आह // भुक्तपूर्वो ते एषो यथा त्वम् एतस्य भोजनं देसि // सा आह // शान्तं पापं प्रव्रजितो एषो महाभागः अपूर्वो एषो अद्य गृहं प्रविष्टः प्रसादेन मे एतस्य भिक्षा दिन्ना // ततो सो प्रत्येकबुद्धो तस्य पुरुषस्य अकुशलं चित्तोत्पादं ज्ञात्वा अनुग्रहार्थं ततो येव गृहातो हंसराजा विय वैहायसं क्रान्तो // तस्य दानि पुरुषस्य तं प्रत्येकबुद्धं वैहायसगतं दृष्ट्वा प्रसादम् उत्पन्नं महाभागो अयं ऋषि इति // तेन सा भार्या अनुक्षमापिता प्रणिधानं च उत्पादितं / अन्ये पि मे जाति त्वं भार्या भवेसीति अन्यराष्ट्रं पि गता नान्यस्य वशे वर्तेसि नान्यस्य मम येव त्ति //
___भगवान् आह // स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन कंपिल्ले नगरे पुरुषो अभूषि येन भार्याये ईर्ष्याप्रकृतेन दुष्टचित्तेन प्रत्येकबुद्धो अभ्याचिक्षितो / कुशो राजा तेन कालेन तेन समयेन कंपिल्लनगरे सो पुरुषो अभूषि // अन्या सा भार्या अभूषि / सा सुदर्शना महेन्द्रनाथधीता // तस्य भिक्षवः कर्मणो विपाकेन कुशो राजा विरूपो अभूषि //
_____कुशजातकं समाप्तं //
[_mvu_3.28_] भिक्षू भगवन्तम् आहन्सुः // कथं भगवं मारो पापीमां भगवतो दुष्करं चरन्तस्य पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारं गवेषी अलभमानो निर्विद्य प्रत्यवक्रान्तो // भगवान् आह // अन्यदापि मम एषो पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारं गवेषी अलभन्तो अवतारं निर्विद्य प्रत्यवक्रान्तो // भिक्षू भगवन्तम् आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवो // भूतपूर्वं भिक्षवः अतीतम् अध्वानं ऋषभो गवांपतिः गोगणसमनुबद्धो // तस्य दानि वृषभस्य वृषणा लंबा शिथिला च सो वृषभो लंबितेहि वृषणेहि गोगणस्य पृष्ठिमेन पृष्ठिमं अण्वति // तहिं च अरण्यायतने गिरिको नाम शृगालः प्रतिवसति // तेन सो वृषभो दृष्टो गोगणेन सार्धं अण्वन्तो लम्बेहि वृषणेहि // सो तस्य पृष्ठिमेन पृष्ठिमं बहूनि वर्षाणि समनुबद्धो // तस्य अपरो शृगालो वयस्यो / तेन सो गिरिको दृष्टो तस्य वृषभस्य पृष्ठिमेन पृष्ठिमं समनुबद्धो दृष्ट्वा च पुनस् तं गिरिकं गाथाये अध्यभाषति //
कति वर्षाणि गिरिक अनुबद्धो सि गवांपतिं / मुहुर् मुहुश् च त्रससि भीतभीतं च पश्यसि //
इमे स्थूला च लम्बा च सुनिबद्धा शिथिला चिमे / इमा न पि पतिष्यन्ति ततो ऽभक्षो भविष्यसि //
मयापि समनुबद्धो दश वर्षाणि पंच च / शिथिला व सुबद्धा च नास्ति सानं पततां भयं //
[_mvu_3.29_] भगवान् आह // स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन वृषभो अभूत्* // सो हं वृषभो ऽभूषी // यः गिरिको नाम शृगालो ऽयम् एव मारो अभूषि // तदापि अवतारार्थी अवतारम् अलभन्तो निर्विद्यापक्रान्तः //
_____समाप्तं वृषभजातकं //
भिक्षू भगवन्तम् आहन्सुः // कथं भगवन् मारो पापीमां न शक्नोति भगवतो वतारम् अधिगन्तुं // भगवान् आह // न भिक्षवो एतर्हि एव मारो पापीमां न शक्नोति ममावतारं अधिगन्तुं / अन्यदापि एषो मम न शक्नोति अवतारम् अधिगन्तुं // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवो // भूतपूर्वं भिक्षवो अतीतम् अध्वानं अनुहिमवन्ते प्रत्युद्देशे वानरो महान्तं वानरयूथं परिहरति / तहिं च अनुहिमवन्तप्रत्युद्देशे महन्तो उदकह्रदो यत्र वानरयूथं अभीक्ष्णं पानीयं पायको ओतरति / तत्र च उदकह्रदे उदकराक्षसो प्रतिवसति // यो तत्रोदकह्रदे ओतरति पानीयपायो मृगो वा पक्षी वा वानरो वा मनुष्यो वा तं तत्रोदकराक्षसो ओकड्ढति // सो पि वानरयूथो तम् उदह्रदं पानीयपायो ओतरति // सो दकराक्षसो दकगतो तानि वानराणि निध्यायित्वा अदृष्टो तेहि वानरेहि ततो वानरम् एकम् आकड्ढति // एवं सो दकराक्षसो पुनपुनः यं वेलं ते वानरा उदकपाया ओकस्ता भवन्ति ततो निध्यायित्वा अदृष्टो ओकड्ढति // सो दानि वानराधिपतिः यानि वानराणि तत्रोदकह्रदे ओकड्ढितानि तानि न पश्यति / तस्यैवं भवति / कहिं ते वानराणि मा अन्यहिं गता भवेन्सु ति / समन्ततोलोकेति न च पश्यति // सो पण्डितो यूथपतिः तेषां वानराणां [उदकह्रदम् ओतरन्तानां]
[_mvu_3.30_] येन देशेन तं उदकह्रदं पानीयपाया ओतरन्ति तत्र ओतरन्तानां उत्तरन्तानां पादानि प्रत्यवेक्षति ओतरन्तानां वर्धन्ति उत्तरन्तानां परिहीयन्ति / तस्य बुद्धिर् उत्पन्ना / अत्र एते ओकड्ढियन्ति दकराक्षसेन ततो न पश्यामि एतेषां / अलं मुखेन स्वयम् उदकं पिबितुं // यं च तेन दृष्टा ओकड्ढियन्ति तत्रोदके दकराक्षसेन वानरा आणत्ता // गच्छथ अतो नलवनातो नलप्रान्तानि गृह्णथ येनोदकं पास्यथ / ततः दकराक्षसो न शक्यति अवकड्ढितुं // तेहि गच्छिय नलवनातो स्वकस्वका नलप्रान्ता गृहीता दीर्घदीर्घा यथा दूरतो स्थितका उदकं पिबमाना च न दकराक्षसः ओकड्ढेया ति // यं वेलं उदकपाया गच्छन्ति ततो स्वकस्वकानि नलान्य् आदाय ओतरन्ति ततः दूरतो भोन्ता तेन नलेन उदकं पिबन्ति / न शक्नोति दकराक्षसो भूयो वानरम् ओकड्ढितुं //
ओतरन्तस्य दृश्यन्ति पादानि उत्तरंतस्य न / नलेन पानं पातव्यं नास्ति जागरतो भयं //
भगवान् आह // स्यात् खलु भिक्षवो युष्माकम् एवम् अन्यः स तेन कालेन तेन समयेन यो वानराधिपतिः / अहम् एव तदा अभूत्* // यो दकराक्षसो अभूद् अयम् एव मारो ऽभूत्* // तदापि न शक्नोति स्मावतारम् अधिगन्तुं //
_____समाप्तं वानरजातकं //
[_mvu_3.31_] भिक्षू भगवन्तम् आहन्सुः // कथं भगवान् अनुत्तराये सम्यक्संबोधिये प्रज्ञाविशेषेण मारस्य विषयातो अतिक्रान्तो // भगवान् आह // न भिक्षवो एतरहिम् एवाहं प्रज्ञाविशेषेण स्वस्तिना मारस्य विषयातो अतिक्रान्तो अन्यदापि अहं वानरभूतो सन्तो प्रज्ञाविशेषेण एतस्य मारस्य विषयातो मूर्धे पादां कृत्वा स्वस्तिना अतिक्रान्तो // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवः //
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं अनुहिमवन्ते वानरो महान्तं वानरयूथं परिहरति // सो दानि ग्रीष्माणां पश्चिमे मासे तेन वानरयूथेन सार्धं ततो हिमवन्तातो नानाप्रकाराणि फलानि परिभुंजित्वा तृषितो उदकह्रदं पानीयपायो आगतो // सो च उदकह्रदो श्वभ्रितकूलो नास्ति ओकाशो ओतरितुं नत्थितुं // सो यूथपतिः तस्य उदकह्रदस्य समन्तेन विकाशं मार्गन्तो अनुक्रमन्तो पानीयतृषाये ततः उपलानां पटां छित्त्वा तहिं उदकह्रदे पतितो // तस्य च उदकस्य अभ्यन्तरे अजगरस्य बिलं / तत्र बिले महान्तो अजगरो प्रतिवसति // तत्र तस्य प्रतिवसन्तस्य अल्पकिसरेण आहारो उत्पद्यति / यो तत्र उदकपायो आगच्छति मृगो वा पक्षी वा वानरो वा तं सो भक्षयति // तेन सो वानराधिपो तहिं उदके पतन्तो दृष्टो / तेन ततो बिलातो ग्रीवा निक्कालिता एतं वानरं ग्रहीष्यामीति / तं वानरं गाथाये अध्यभाषे //
उत्पन्नो पुनर् अयं भक्ष्यो वानरो वनगोचरो / यो यं बिलान्ते कूलस्मिं पानीयं पातुम् इच्छति //
सो दानि वानराधिपो तहिं उदके न किंचित् प्रतिष्ठां लभति यत्र पादं प्रतिष्ठापेत्वा
[_mvu_3.32_] उदकातो स्थलं क्रमेय / तस्यैवं भवति / यद्य् एष अजगरो ग्रीवां पराङ्मुखां परिवर्तेय एतस्य एवाजगरस्य मूर्ध्ने पादं कृत्वा थलं क्रमेयं // सो दानि अजगरं गाथाये अध्यभाषे //
अहम् एव न ते भक्ष्यो इमा न पश्यसे पृथू / यो माम् अभिमुखं तर्जे यं भाषसि गिराम् इमां //
तेन दानि अजगरेण येन ते वानरा यूथपतिना उपदर्शिता ततःमुखं से ग्रीवा परिवर्तिता तानि वानराणि द्रष्टुं / समन्तरं तेनाजगरेण पराङ्मुखी ग्रीवा परिवर्तिता सो च वानराधिपो तस्य अजगरस्य पराङ्मुखस्य मूर्ध्ने पादं कृत्वा ततः उदकातो स्वस्तिना स्थलं प्रक्रान्तो // सो दानि अजगरो तस्य वानरस्य बुद्धिविशेषेण विस्मितो // एतस्य वानरस्य इह उदकह्रदे पादस्य प्रतिष्ठानं नास्ति यत्र पादं प्रतिष्ठापेत्वा इतो उदकातो थलं प्रक्रमेय / ततो तेन मम एते वानरा उपदर्शिता / तथा एष अतो मुखं परिवर्तेति मम च ग्रीवा येन एते वानरा तेन परिवृत्ता / एषो च बुद्धिविशेषेण मम एव मूर्ध्ने पादां कृत्वा स्थले प्रक्रान्तो // सो तं वानराधिपतिं गाथाये प्रत्यभाषे //
लहुं च त्वये क्षिप्रं च निरुद्धं पुनर्* चिन्ततं / यो मां पराङ्मुखं ज्ञात्वा शूरो वीरो अजायिथा //
यस्येमे चतुरो धर्मा वानरेन्द्र यथा तव / वीर्यं बुद्धिं स्मृतिः प्रज्ञा सो दुःखम् अपवर्तति //
स्यात् खलु पुनः भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन अनुहिमवन्ते
[_mvu_3.33_] वानराधिपो अभूषि / सो हं तेन कालेन तेन समयेन वानराधिपो अभूषि // अन्यः स तत्र उदकह्रदे अजगरो अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवः पापीमां मारो तेन कालेन तेन समयेन तहिं उदकह्रदे अजगरो नैवासिको अभूषि // तदापि अहं एतस्य उदकह्रदातो बुद्धिविशेषेण मूर्ध्ने पादं कृत्वा स्थलम् अतिक्रान्तः / एतरहि पि अहं एतस्य मारस्य विषयातो बुद्धिविशेषेणातिक्रान्तः //
_____वानरजातकं समाप्तं //
भिक्षू भगवन्तम् आहन्सुः // पश्य भगवान् कथं पुण्यानां वर्णवादी // भगवान् आह // न हि भिक्षवः एतरहिम् एवाहं पुण्यानां वर्णवादी / अन्यदाप्य् अहं भिक्षवो पुण्यानां वर्णवादी // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवः // भूतपूर्वं भिक्ष्वओ अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे अंजनको नाम राजा राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महावाहनो / तस्य राज्यं ऋद्धं च स्फीतं च सुभिक्षं चाकीर्णजनमनुष्यं च सुखितजनमनुष्यं च // तस्य दानि राज्ञो अंजनस्य पुत्रो पुण्यवन्तो नाम कुमारो सर्वकालं पुण्यानां वर्णवादी / तस्य दानि कुमारस्य चत्वार अमात्यपुत्रा वयस्या // एको अमात्यपुत्रो वीर्यवन्तो नाम सर्वकालं वीर्यस्य व वर्णवादी वीर्यं लोके अनुत्तरं ति // द्वितीयो अमात्यपुत्रो शिल्पवन्तो नाम सर्वकालं शिल्पस्य व वर्णवादी शिल्पं लोके अनुत्तरं // तृतीयो अमात्यपुत्रो रूपवन्तो नाम रूपस्य वर्णवादी रूपं व लोके अनुत्तरं // चतुर्थो अमात्यपुत्रो प्रज्ञावन्तो नाम सर्वकालं प्रज्ञाये वर्णवादी प्रज्ञा व लोके अनुत्तरं // ते दानि तेन कुमारेण पुण्यवन्तेन उच्यन्ति // नास्ति पुण्येहि समं पुण्यं लोके अनुत्तरं
[_mvu_3.34_] ति / यदि वो जानितुं न शक्यथ परराष्ट्रं गच्छाम तत्र ज्ञास्यामः को विशेष्यति पुण्यवां वीर्यवां शिल्पवां रूपवां प्रज्ञावान् इति // ते दानि वाराणसीतो कम्पिल्लं नगरं गता यावत्* ज्ञास्याम को लोके विशिष्यति पुण्यवां वीर्यवां शिल्पवां रूपवां प्रज्ञावां //
___ते दानि कं//पिल्लतो निर्गम्य गंगायां स्नापनाय गता पश्यन्ति च नदीये गंगाये स्रोतेन महान्तं दारुस्कन्धं ओरुह्यन्तं // ते दानि अमात्यपुत्राः सो च पुण्यवन्तो राजपुत्रो तं वीर्यवन्तम् अमात्यपुत्रम् आहन्सुः // वीर्यवन्त अत्र त्वया दारुस्कंधे वीर्यं दर्शयितव्यं यं शक्नोसि इदं दारुस्कन्धं नदीये गंगाये ओरुह्यन्तं ओकड्ढितुं // ततः सो वीर्यवन्तो तेन दानि महाबलस्थाम संजनित्वा तं दारुस्कन्धं नदीये गंगाये ओरुह्यन्तं स्थले ओकड्ढितं // ते दानि तं प्रत्यवेक्षन्ति पश्यन्ति च महारहं चन्दनद्रुमं // सो दानि तेन वीर्यवन्तेन अमात्यपुत्रेण गन्धिकानां हस्ते पुराणानां शतसहस्रेण विक्रीतो // तेन तं पुराणानां शतसहस्रम् आनेत्वा तेषां वयस्यकानां दत्तं / तां वयस्यकां गाथाय अध्यभाषे //
वीर्यं लोके प्रशंसन्ति वीर्यं लोके अनुत्तरं / पश्य वीर्यप्रभावेन धनस्कन्धो मे आहृतो //
ते दानि आहन्सुः // दृष्टं वीर्यस्य फलं / शिल्पवन्तस्य शिल्पफलं पश्यामः // सो दानि शिल्पवन्तो वीणाम् आदाय वयस्यकानां मूलातो निर्धावित्वा अमात्यपुत्रेहि च श्रेष्ठिपुत्रेहि च सार्धं वीणाये कुशलेहि वीणां प्रवादितो // तत्र महाजनकायो सन्निपतितः यत्तका पि कंपिल्ले नगरे वीणावाद्येषु शिक्षिता ते पि सर्वे
[_mvu_3.35_] श्रुत्वा सन्निपतिता // तेनामात्यपुत्रेण सार्धं परस्परस्य विस्पर्धं वीणां वादयन्ति / न च कोचिश् शक्नोति तस्य अमात्यपुत्रस्य वीणाये अभिभवितुं // अथ खलु अमात्यपुत्रो सो शिल्पवन्तो सर्वेषां वीणावाद्येन विशिष्यति // तेन दानि शिल्पवन्तेन तां वीणां वादयन्तेन तस्य वीणाये एका तन्त्री छिन्ना तादृशो एवं च ताये वीणाये स्वरो निश्चरति / तस्य द्वितीया तन्त्री छिन्ना तादृशो एवं च वीणाये स्वरो निश्चरति / तस्य तृतीया तन्त्री छिन्ना तादृशो एवं च ताये वीणाये स्वरो निश्चरति / एवम् एकमेका षट्टन्त्रीयो छिन्ना एका तन्त्री अवशिष्टा / ततस् ताये एकाये तन्त्रीये तादृशो एव स्वरो निश्चरति // सर्वा परिषा तस्य शिल्पवन्तस्य अमात्यपुत्रस्य वीणावाद्येन विस्मयम् आपन्ना // तेन दानि प्रभूतं हिरण्यसुवर्णं आच्छादो च लब्धो / तेन तं हिरण्यसुवर्णं आहरित्वा तेषां वयस्यकानां दिन्नं / अयं पि मम शिल्पस्य फलं // सो दानि तां वयस्यकां गाथाये अध्यभाषे //
शिल्पं लोके प्रशंसन्ति शिल्पं लोके अनुत्तरं / सुशिक्षितेन वीणायां धनस्कन्धो मे आहृतो //
ते दानि आहन्सुः // दृष्टं इमस्य शिल्पवन्तस्यापि अमात्यपुत्रस्य शिल्पस्य फलं / रूपवन्तस्य पि रूपस्य फलं पश्यामः //
___सो दानि रूपवन्तो अमात्यपुत्रो ततो वयस्यानां मूलातो निर्धावित्वा अन्तरापणवीथीम् ओकस्तो // सो दानि अन्तरापणे वीथीयं अण्वन्तो अग्रगणिकाये दृष्टो प्रासादिको दर्शनीयो अक्षुद्रावकाशो परमाये शुभाये वर्णपुष्कलताये
[_mvu_3.36_] समन्वागतो / तस्या तत्र दुष्टमात्रे अत्यर्थं प्रेम्नं संजातं / ताये चेटी प्रेषिता // गच्छाहि एतं पुरुषं मम वचनेन शब्दापेहि // सो दानि ताये चेटीये शब्दावितो आर्यधीता तव आर्यपुत्र पश्यितुकामा // सो दानि ताये चेटीये सार्धं तस्या अग्रगणिकाये गृहं प्रविष्टो / अग्रगणिकाये अमात्यपुत्रो अभिनन्दितो / स्वागतम् आर्यपुत्रस्य इमन् ते गृहम् अनुत्तरव्यसनं तं कल्याणं मया सार्धं पंचहि कामगुणेहि समर्पितो क्रीडाहि रमाहि परिचारेहि // सो ताये अग्रगणिकाये एकपर्यंकेन उपविशापितो बहुप्रकारं च अर्थेन लोभितो / तस्य स्नानगृहं प्रवेशित्वा गंधतैलेन अभ्यंगो दिन्नो उदारेहि स्नानचूर्णेहि स्नापितो उदारेहि च आलेपनेहि अनुलेपितो महारहाणि च काशिकवस्त्राणि परिधापितो // ताये अग्रगणिकाये सार्धम् उपविष्टस्य महारहं भोजनम् उपनामितं // सो दानि ताये सार्धं आसन्तो आह // अमुकत्र मे गृहे मम चत्वारो वयस्य आसन्ति तेषां शब्दावित्वा अर्थमात्रा दातव्या यथा ते न विहन्येन्सु // अग्रगणिकाये वचनमात्रेण शतसहस्रं पुरतो थपितो इमन् तेषां वयस्यानां देहि // तेन दानि ते वयस्या शब्दाविता / ते दानि ताये अग्रगणिकाये गृहम् आगताः पश्यन्ति रूपवन्तं अमात्यपुत्रं महतीये श्रियाये अग्रगणिकाये अंकगतम् आसन्तं // सो दानि रूपवन्तो तां वयस्यां दृष्ट्वा गाथाये अध्यभाषे //
रूपं लोके प्रशंसन्ति रूपं लोके अनुत्तरं / गणिकाय च अंकगतो धनस्कंधो मे आहृतो //
इमं शतसहस्रं गृह्णथ व्ययं करोथ // ते दानि शतसहस्रं गृह्य स्वकम् ओहारं गता //
___[_mvu_3.37_]___ते दानि आहन्सुः // दृष्टं रूपवन्तस्यापि अमात्यपुत्रस्य रूपफलं / प्रज्ञावन्तस्यापि प्रज्ञाये फलं द्रष्टव्यं //
___प्रज्ञावन्तो पि ततो ओहारातो निर्गम्य अन्तरापणवीथिम् ओकस्तो / तत्र पश्यति श्रेष्ठिपुत्रं अग्रगणिकाये सार्धं विवदन्तं महतो जनकायस्य मध्ये / श्रेष्ठिपुत्रेण सा अग्रगणिका उक्ता / आगच्छ मम अद्य रात्रिम् उपस्थापनकारि / अहन् ते शतसहस्रं दास्यामि // अग्रगणिका आह // आर्यपुत्र नास्ति मम अद्य रात्रीं क्षणो अन्यस्याहम् अद्य रात्रीये गृहीतवेतना / अद्य तं उपस्थिहिष्यामः शुवे आर्यपुत्र आर्यपुत्रस्य सकाशम् आगमिष्यं // सा दानि तस्य पुरुषस्य तां रात्रिम् उपस्थापनकारि गता // श्रेष्ठिपुत्रो पि ताम् एव अग्रगणिकां संकीयन्तो शयितो // तेन दानि ताये अग्रगणिकाये सार्धं स्वप्नान्तरे सर्वरात्रीं यथाभिप्रायं क्रीडितं रमितं प्रविचारितं // सा दानि अग्रगणिका तां रात्रीं तेन पुरुषेण क्रीडित्वा रमित्वा प्रविचारित्वा प्रभाताये रात्रीये तस्य श्रेष्ठिपुत्रस्य सकाशं गता / एषाहम् आगता आर्यपुत्रस्य उपस्थापनकारिका // श्रेष्ठिपुत्रो आह // अद्याहं स्वप्नान्तरे त्वया सार्धं सर्वां रात्रिं यथाभिप्रायं क्रीडितो रमितो परिचारितो गच्छ न मे त्वया कार्यं // यदि आर्यपुत्रो मया सार्धं स्वप्नान्तरे सर्वरात्रिं यथाभिप्रायं क्रीदितो रमितो प्रविचारितो देहि मे शतसहस्रं // श्रेष्ठी आह // या दानि त्वम् अन्येन पुरुषेण सार्धं सर्वरात्रिम् आश्रिता किस्य तवाहं शतसहस्रं दास्यामि // सा आह // आर्यपुत्र स्वयं जल्पसि यथा सर्वरात्रिं एव त्वया सार्धं स्वप्नान्तरे यथाभिप्रायं क्रीडितं रमितं प्रविचारितं दातव्यं आर्यपुत्रेण शतसहस्रं भाटकं // तत्र तेषां तं विवादं // महाजनकायो
[_mvu_3.38_] समागतो न च तं कोचित् तेषां विवादं विच्छिन्दितुं समर्थो // सो तत्र स्थितको प्रज्ञावन्तो अमात्यपुत्रो / एतेहि कंपिल्लेहि नैगमेहि वुच्चति // जल्प कुमार त्वं पि यन् ते अत्र प्रतिभायति किं दातव्यं एतेन श्रेष्ठिपुत्रेण एतस्या अग्रगणिकाये शतसहस्रं अथ न दातव्यम् इति // प्रज्ञावन्तो आह // यथापि श्रेष्ठिपुत्रस्य एताये गणिकाये समागमः आसि तथापि श्रेष्ठिपुत्रेण एताये गणिकाये भाटकं दातव्यं // ते आहन्सु // निर्दिशतु कुमारो यथा दातव्यं // तेन प्रज्ञावन्तेन महन्तो आदर्शमण्डलो आनापितो शतसहस्रं च / श्रेष्ठिपुत्रो वुच्चति / गृह्ण एतं शतसहस्रकं करण्डकं एतस्य आदर्शमण्डलस्य अभिमुखं धारेहि // श्रेष्ठिपुत्रेण तं शतसहस्रिकं करण्डकं उत्क्षिपित्वा एतस्य आदर्शमण्डलस्य अभिमुखं स्थापितं / आगच्छ भद्रे यो इमस्य शतसाहस्रिकस्य करण्डकस्य अत्र आदर्शमण्डले प्रतिबिम्बं एतं गृह्णाहि / एषो ते भाटको // एवं तस्य प्रज्ञावन्तस्य अमात्यपुत्रस्य निर्दिशिते महाजनकायेन हक्कारो दिन्नो प्रभूतं च हिरण्यसुवर्णम् आच्छादयन्ति // तेन तं हिरण्यसुवर्णं तेषां वयस्यानां दिन्नो // सो तां वयस्यां गाथाये अध्यभाषे //
प्रज्ञां लोके प्रशंसन्ति प्रज्ञा लोके अनुत्तरा / सुचिन्तिताये प्रज्ञाये धनस्कन्धो मे आहृतो //
ते दानि अमात्यपुत्रा आहन्सुः // दृष्टं वीर्यवन्तस्य अमात्यपुत्रस्य वीर्यप्रभावो शिल्पवन्तस्य शिल्पप्रभावो रूपवन्तस्य रूपप्रभावो प्रज्ञावन्तस्य प्रज्ञाप्रभावो / अधुना कुमारस्य पुण्यवन्तस्य पुण्यप्रभावं पश्येमः //
___सो दानि पुण्यवन्तो राजपुत्रो तेषां वयस्यानां मूलातो निर्धावित्वा येन राजकुलं
[_mvu_3.39_] तेन प्रणतो / सो तत्र राजकुलसमीपे आसति च // अपरेण अमात्यपुत्रेण दृष्टो / सह दर्शनेन तस्य अमात्यपुत्रस्य पुण्यवन्तस्य राजपुत्रस्य मूले प्रेम्नं निपतितं / सो तेन भक्तेन निमन्त्रितो स्वकं गृहं नीतो व्यायामशाले प्रवेशितो // व्यायामं कृत्वा स्नानोपलिप्तो भक्तखज्जम् उपविष्टो // तत्र सो राजपुत्रो तेनामात्यपुत्रेण सार्धं तं दिवसम् उपस्थितो प्रणीतेन राजार्हेण अन्नपानेन // सो च अमात्यपुत्रो राजक्यां यानशालाम् अभिरुहापयित्वा शयायितो / ताये च राज्ञो ब्रह्मदत्तस्य धीताये दृष्टो // तस्या एवं भवति / एषो अमात्यपुत्रो आगतः // सा दानि विकाले राजकुलातो निर्धावित्वा निर्गम्य यानशालां प्रविशित्वा तत्र एव यानम् अभिरुहित्वा यत्र सो पुण्यवन्तो राजपुत्रो शयितो / जानाति इदानीं मुहूर्तं पि विबुद्धिष्यति / ततो मया सार्धं रमिष्यति // कुमारो पि खादितपीतो सुखं शयितो / सापि राजधीता कामवितर्केहि विद्यमाना इदानिं विबुद्धिष्यति मुहूर्तं पि विबुद्धिष्यति इति बहुकेन रात्रीविभवाक्रान्ता ओसुप्ता // सा दानि सूर्ये उद्गते ततो यानातो ओतरित्वा राजकुलं प्रविष्टा अमात्येहि च दृष्टा // तेषाम् एतद् अभूषि // इयं राजधीता यानशालातो ओतरित्वा विनिद्रा राजकुलं प्रविष्टा मा अत्र याने केनचित् पुरुषेण सार्धं आसितं भवेया // ते च तथा विचिनन्ति पुण्यवन्तो च कुमारो ततः यानातो ओकस्तो // तेषाम् अमात्यानां एवं भवति / कुतो अयं पुरुषो ति राज्ञो ब्रह्मदत्तस्य धीतरेण सार्धं अत्र यानशालायाम् आसितो // सो तेहि अमात्येहि गृहीतो गृह्णिय राज्ञो ब्रह्मदत्तस्य उपनामितो / अयं महाराज पुरुषो राजधीताये सार्धं यानशालायां शयितो // सो पृच्छियति // कथम् इदं ति // सो आह // महाराज अमुकेन अमात्यपुत्रेण गृहे निमन्त्रितो हं खादितपीतो
[_mvu_3.40_] विकाले निक्कासित्वा ओहारं प्रस्थितो / सो तेन विकालदोषेण अत्र यानशालायाम् अभिरुहित्वा शयायितो खादितपीतो नाप्य् एव तत्र अन्यो को चि द्वितीयो विदितो // राज्ञापि धीता पृच्छिता / कथम् एतन् ति // ताये पि तु ब्रह्मदत्तस्य यथाभूतं आचिक्षितं / यथैव जल्पति पुरुषो तथा एव नान्यथा जल्पति // राजा ब्रह्मदत्तो पुण्यवन्तस्य राजकुमारस्य प्रीतो संवृत्तो पश्यति च तं कुमारं प्रासादिकं दर्शनीयं बुद्धिमन्तं च सुस्थितं च / तस्य एतद् अभूषि / न एतेन प्राकृतपुरुषेण भवितव्यं महाकुलीनेन एतेन कुमारेण भवितव्यं // सो दानि तं कुमारं पृच्छति // कुमार कुतः त्वन् ति // कुमारो आह // वाराणसीतो अंजनस्य काशिराज्ञो पुत्रो // तस्यापि कंपिल्लस्य राज्ञो ब्रह्मदत्तस्य सह दर्शनेन पुण्यवन्तस्य कुमारस्य पुत्रप्रेमं निपतितं तस्य च राज्ञो पुत्रो नास्ति / तेन सा धीता सुवर्णसहस्रमण्डितां कृत्वा महता राजानुभावेन महता राजर्द्धीये सर्वस्य अधिष्ठानस्य पुरतो पुण्यवन्तस्य कुमारस्य दिन्ना राज्ये च प्रतिष्ठापितो अमात्यानां च नैगमजानपदानां च राजाह // एषो मे पुत्रो जातो ताव एषो भवे राअजा अहं वृद्धो // तेन दानि पुण्यवन्तेन राज्यप्राप्तेन ते वयस्या शब्दाविता गाथाये अध्यभाषे //
पुण्यं लोके प्रशंसन्ति पुण्यं लोके अनुत्तरं / राज्यं च राजकन्या च पुण्येहि मम आगता //
भगवान् आह // स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन वीर्यवन्तो नाम अमात्यपुत्रो अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवो श्रोणकोटिविंशो तेन कालेन तेन समयेन वीर्यवन्तो अमात्यपुत्रो अभूषि // अन्यः स तेन कालेन तेन समयेन शिल्पवन्तो अमात्यपुत्रो अभूषि /
[_mvu_3.41_] नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष भिक्षवः राष्ट्रपालो कुलपुत्रः तेन कालेन तेन समयेन शिल्पवन्तो अमात्यपुत्रो अभूषि // अन्यः स तेन कालेन तेन समयेन रूपवन्तो अमात्यपुत्रो अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एषः स भिक्षवः सुन्दरनन्दः स्थविरो तेन कालेन तेन समयेन रूपवन्तो अमात्यपुत्रो अभूषि // अन्यः स तेन कालेन तेन समयेन प्रज्ञावन्तो अमात्यपुत्रो अभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / एष स भिक्षवो शारिपुत्रो स्थविरः तेन कालेन तेन समयेन प्रज्नावन्तो अमात्यपुत्रो अभूषि // अन्यः स तेन कालेन तेन समयेन अंजनस्य काशिराज्ञो पुण्यवन्तो नाम काशिराजपुत्रो आभूषि / नैतद् एवं द्रष्टव्यं / तत् कस्य हेतोः // अहं स भिक्षवः तेन कालेन तेन समयेन अंजनस्य काशिराज्ञो पुण्यवन्तो नाम राजपुत्रो अभूषि // तदापि अहं पुण्यानां वर्णवादी // एतरहिं पि अहं पुण्यानां वर्णवादी //
_____समाप्तं पुण्यवन्तजातकं //
अपि च भिक्षवः न एतरहिं एवाहं पुण्यानां वर्णवादी / अन्यदापि अहं पुण्यानां वर्णवादी // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवः // भूतपूर्वं भिक्षवो अतीतम् अध्वानं मिथिलायां राजा विजितावी नाम राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो // तस्य न किंचिद् अपरित्यक्तं श्रमणेहि ब्राह्मणेहि कृपणेहि वनीपकेहि / यस्य हस्तिना अर्थो तस्य हस्तिं देति / यस्याश्वेनार्थो तस्याश्वं देति / यस्य रथेनार्थो तस्य रथं देति / यस्य यादृशेहि यानेहि अर्थो तस्य तादृशानि यानानि देति / यस्य नारीहि अर्थो तस्य सर्वालंकारविभूषितां नारिं देति / यस्य दासीहि अर्थो तस्य
[_mvu_3.42_] दासीयो देति / यस्य दासेहि अर्थो तस्य दासानि देति / यस्य वस्त्रेहि अर्थो तस्य वस्त्राणि देति / यस्य यादृशेहि भाजनेहि अर्थो तस्य तादृशानि भाजनानि देति / यस्य धेनुहि अर्थो तस्य धेनुयो देति / यस्य बलिवर्देहि अर्थो तस्य बलिवर्दं देति / यस्य हिरण्येनार्थो तस्य हिरण्यं देति / यस्य सुवर्णार्थो तस्य सुवर्णं देति / यस्य रूप्येण कार्यं तस्य रूप्यं देति / यस्य यस्य येन येनार्थो तस्य तस्य तं तं देति / न च स किंचिद् अपरित्यज्यं न चास्य अन्यथाभावो भवति // अथ खलु ददन्तो परित्यजन्तो आत्तमनो भवति न च दत्त्वा पश्चाद् अनुतप्यति / अथ खलु प्रीतिप्रामोद्यबहुलो भवति //
___सो दानि अतिदानं ददाति कोशानि क्षीयन्तीति / गणकेहि च महापात्रेहि च कुमारामात्येहि च नैगमजानपदेहि च महाजनकायेन च संनिपतित्वान ततो राज्यतो विप्रवासितो समानो अनुहिमवन्ते महावनषण्डे // तत्र गतो तत्र वनषण्डे आश्रमं मापेत्वा तृणकुटिपर्णकुटीनि कृत्वा वासं कल्पेसि // तत्रापि आश्रमे प्रतिवसन्तो मूलानि च पत्त्राणि च पुष्पाणि च नानाप्रकाराणि च फलानि संहरित्वा प्रथमं ऋषीणि भोजेति पश्चाद् आत्मनाहारं करोति सर्वकालं धर्मकामः // अथ शक्रो देवानाम् इन्द्रो राज्ञो जिज्ञासनार्थं वनषण्डम् उपसंक्रान्तो दिव्येन वर्णेन अन्तरीक्षे स्थिहित्वा वैदेहराजं दानातो विवेचेति // महाराज न एतं दानं पण्डितेहि वर्णितं सर्वकालं दानं पण्डितेहि विगर्हितं // यो दानं ददाति सो दृष्ट एव धर्मे दुःखितो भवति / मनुष्येषु चवित्वा नरकेषूपपद्यति / यथा महाराजो एतेन दानेन राज्यतो विप्रवासितो दृष्टधर्मेषु राज्यहीनो दुःखेन संयुक्तो परत्र पि एतेन दानप्रभावेन नरकेषूपपद्यिष्यति // यदि मे महाराज मम श्रद्दधासि यथा
[_mvu_3.43_] इह दानं दत्त्वा परलोके नरकेषूपपद्यिष्यसि तम् अहं महाराजस्य प्रत्यक्षं उपदर्शयिष्यं यत्र दायकदानपतियो उपपद्यन्ति // शक्रेण आदीप्तो संप्रज्वलितो सजोतीभूतो महानरको निर्मितो / तत्र बहूनि प्राणसहस्राणि संपच्चमाना संदर्शिता भीष्मस्वरं क्रन्दमानाः // सो दानि राज्ञो आह // महाराज गच्छ एतान् नरके सत्वान् उपपन्नां क्रन्दन्तां पृच्छाहि केन कर्मेण अत्र नरके उपपन्ना ति // राजा तानि नैरयिकानि पृच्छति // किं युष्माभिर् मनुष्यभूतेहि पापकर्म कृतं येन भीष्मस्वरं क्रन्दमाना एदृशानि नरके दुःखानि अनुभवथ // ते दानि निर्मिता आहन्सुः // महाराज वयं मनुष्यलोके दायकदानपतियो आसी अस्माभिः श्रमणब्राह्मणेषु कृपणवनीपकेषु च उदाराणि दानानि दिन्नानि विपुलानि विस्तीर्णानि / ते वयं तस्य प्रभावेन मनुष्येषु चवित्वा इह नरकेषूपपन्ना // राजा आह // न मार्ष एवं एतं यथा यूयं जल्पथ / न हेतु न प्रत्ययो यं दायकदानपतिर् दानं दत्त्वा नरकेषूपपद्येय // अथ खलु दायकदानपति दानं दत्त्वा दानप्रभावेन कायस्य भेदात् स्वर्गेषूपपद्यन्ति / ते तत्र नानाप्रकाराणि दिव्यानि सुखानि अनुभवन्ति / ते देवेषु सुखानि दिव्यानि अनुभवित्वा आयुक्षया देवेषु चवित्वा मनुष्येषु आढ्येषु कुलेषूपपद्यन्ति / अपि च कौशिक यदा ते च याचनका मम सकाशातो लब्धलाभा परिपूर्णसंकल्पा प्रतिगच्छन्ति तेन मम उदारो प्रीतिप्रामोद्यो भवति ते च प्रीता भवन्ति / अहं यदि नरकेषूपपद्यामि ततः उत्सहामि दानं दातुं // एवं शक्रो देवानाम् इन्द्रो तं वैदेहराजं विज्ञासित्वा संराधितो // शोभना महाराज उदारा ते चेतना जिज्ञासनार्थं
[_mvu_3.44_] महाराजस्य इहागतो // एवम् उक्त्वा शक्रो देवानाम् इन्द्रो ततः वनषण्डातो न्तर्हितो त्रयस्त्रिंशभवने प्रत्यस्थासि //
___तस्य दानिं तहिं राज्ये मिथिलायां यद् उपादाय राजा विप्रवासितो तद् उपादाय देवो न वर्षति दुर्भिक्षं संवृत्तं चौरेहि च प्रतिराजानेहि च उपद्रुतं // तेहि दानि कुमारामात्येहि गणकमहामात्रेहि च नैगमजानपदेहि च तं वनषण्डं गत्वा तं वैदेहराजं अनुक्षमापेत्वा महता राजर्द्धीये महता राजानुभावेन पुनः मिथिलायां प्रतिष्ठापितो तदा सुभिक्षम् आसि //
___भगवान् आह // स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम स्याद् अन्यः स तेन कालेन तेन समयेन मिथिलायां विजितावी नाम वैदेहराजा अभूषि / न खल्व् एतद् एवं द्रष्टव्यं / तत् कस्य हेतोः / अहं स भिक्षवः तेन कालेन तेन समयेन मिथिलायां विजितावी नाम वैदेहराजा अभूषि // तदापि अहं पुण्यानां वर्णवादी एतरहिं पि अहं पुण्यानां वर्णवादी //
अभूषि राजा विजितावी वैदेहो मिथिलाधिपः / दिशासु विश्रुतो दाने मुक्तत्यागो अमत्सरी //
हस्त्यश्वरथयानं नारीयो च अलंकृता / जातरूपं हिरण्यं च न किंचिद् न परित्यजेत्* //
प्रीतिप्रामोद्यबहुलो जनेय सौमनस्यतां / दत्त्वा आत्तमनो भोति दत्त्वा च नानुतप्यति //
श्रमणं ब्राह्मणं दृष्ट्वा कृपणम् अथ वनीपकं / तर्पितो अन्नपानेन वस्त्रशय्यासनेन च //
गणका महामात्रा च कुमारामात्या च नैगमा / जनकायो समागत्वा राज्यातो विप्रवासयेत्* //
[_mvu_3.45_] सो च विप्रवासितो सन्तो वनषण्डम् उपागमे / आश्रमं मापयित्वान तत्र वासं प्रकल्पये //
तस्मिं च वनषण्डस्मिं संहरित्वा फलाफलं / सन्तर्पयित्वा ऋषयो पश्चाद् भुंजति आत्मना //
शक्रो दिव्येन वर्णेन राजानम् उपसंक्रमे / अन्तरीक्षे स्थिहित्वान इदं वचनम् अब्रवीत्* //
न पण्डिता प्रशंसन्ति दानं विगर्हितं सदा / एतेन अतिदानेन राज्यातो सि प्रवासितो //
दृष्टधर्मे सि दुःखितो राज्यहीनो सि क्षत्रिय / परलोकं गतो सन्तो नरकं गन्सि पार्थिव //
सचे मम न श्रद्दधासि यत्र गच्छति दायको / संदर्शयिष्यं तान्तुह्यं दायकानान्तु या गतिः //
सज्योतीभूतं ज्वलितं निरयं शक्रो च निर्मिणि / बहुप्राणसहस्राणि पच्चमानानि दर्शये //
स्वयं पृच्छ महाराज दह्यमानां इमां प्रजां / केन ते व्यसनं प्राप्ता दुःखां वेदथ वेदनां //
भीष्मस्वरा क्रन्दमाना दुःखां वेदथ वेदनां / एतम् अर्थं हि पृच्छाहि किं पापं अकरे पुरा //
ते कथयन्ति //
वयं दानपती आसि मनुष्येषु जनाधिप / बहु दानं ददित्वान अनुभोम इदं दुःखं //
[_mvu_3.46_] राजा कथयति //
न एषो अस्ति प्रत्ययो न एतं स्थानं विद्यति / यत्र दानपति सन्तो च्युतो गच्छेय दुर्गतिं //
मनुष्येषु च्यवित्वान स्वर्गं गच्छन्ति दायका / तत्र अमानुषां ऋद्धिं अनुभोन्ति स्वयंकृतां //
कामं पि दुःखं नरकेषु . . अनल्परूपम् ईदृशं . . . / . . . . . . नरेन्द्र दृष्ट्वा न तं याचनकं प्रभोमि //
कथं गिरां वियाहरन्तो दास्यं संपूर्णसंकल्पमनोरथो स / मां प्राप्य प्रीतो कथं प्रतिक्रमे ति सा मे रतिर् भवतु सहस्रनेत्र //
न तं भवे यं न ददेह दानं अहरहं व पूरये तर्पये हं / परायणं अहं स कल्पवृक्षो . . . . पर्णफलोपपेतो //
न मे मनो कुप्यति याचितस्य दत्त्वा न सोचामि नानुतप्यामि / न तं उपश्रुतं यन् न प्रयच्छे यं च श्रुतं क्षिप्रम् उपानयामि //
. . . . . . . . . . .
[_mvu_3.47_] एकक्षणे सर्वमनोरथा मे पूर्णा मह्यं संजितो च स तत्त्वं / सप्ताहं पर्यंके सुखोपविष्टो स्थितः मुनि शैल इवाप्रकंप्यो //
सप्तमे दिवसे नाथो निर्गतो व्याहरे गिरां / लोकधातुसहस्राणि विज्ञपेन्तो महामुनिः //
सुखो विपाको पुण्यानां अभिप्रायश् च ऋध्यति क्षिप्रं च परमां शान्तिं निर्वृत्तिं चाधिगच्छति //
_____समाप्तं विजिताविस्य वैदेहराज्ञो जातकं //
एवं मया श्रुतम् एकस्मिं समये भगवतो शिष्यो आयुष्मान् आनन्दो मगधेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं पंचहि भिक्षुशतेहि येन मगधानां राजगृहं नगरं तद् अवसारि तद् अनुप्राप्तः तत्रैव विहरति वेणुवने कलन्दकनिवापे // तेन खलु पुनः समयेन आयुष्मतो आनन्दस्य त्रिंश सार्धंविहारिका शिक्षां प्रत्याख्याय दौर्बल्यम् आविष्कृत्वा हीनायावर्तन्ति कामेहि // अश्रोषी आयुष्मां महाकाश्यपो आयुष्मतो आनन्दस्य त्रिंश सार्धविहारिका शिक्षां प्रत्याख्याय दौर्बल्यम् आविष्कृत्वा हीनायावर्तप्रवृत्ता कामेहि // अथ खल्व् आयुष्मान् महाकाश्यपो येनायुष्मान् आनन्दस् तेनोपसंक्रमित्वा आयुष्मता आनन्देन सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां वीतिसारयित्वा एकान्ते निषीदि / एकान्तनिषण्णो आयुष्मां महाकाश्यपो आनन्दम् एतद् अवोचत्* // पृच्छेम वयम् आयुष्मन्तम् आनन्दं किंचिद् एव प्रदेशं
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
