Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
महावस्तु-अवादन
- Thông tin
- GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
जिह्वास्य भोति तनुदर्शनीया पद्मप्रकाशा यथ पुण्डरीकं / रक्त प्रवाडा यथ देवतानां यं यं स्वरं ओसिरे दर्शनीयं //
न जडो भोति अजिह्वो [कुब्जो] न खंजो न पि विच्छिन्नांगो विशिष्टो भोति / प्रवरात्मा भोति प्रवरात्मभावो वादेत्व वाद्यं जिनचेतियेषु //
न तस्य कश्चिज् जनो दुर्मनो स्यात्* देवा च नागा मनुजा महोरगा / आश्वासप्राप्तो चरे सर्वलोके वादेत्व वद्यं जिनचेतियेषु //
न जातु गिलानो भवे पाण्डुरागो न चापि कुष्ठी नापि च किलासी / प्रशंसनीयं लभे आत्मभावं वादेत्व वाद्यं जिनचेतियेषु //
प्रभूतचित्तो च अकुब्जगात्रो उत्तप्तवर्णो यथ सुवर्णबिंबं / दृढसमाधि च असंप्रवेधी
[_mvu_2.384_] वादेत्व वाद्यं जिनचेतियेषु //
देवेषु खो . . . . . ईश्वरत्वं मनुष्यलोकं पि गतु पूजनीयो / उत्तप्तवीर्यो भवति अमर्दनीयो वादेत्व वाद्यं जिनचेतियेषु //
न सो कहिंचिज् जने अप्रसादं न चापि कंचित्परुषं भणाति / पैशुन्य सर्वं विजहति सत्यवादी वादेत्व वाद्यं जिनचेतियेषु //
अलंकारा कृत्व जिनचेतियेषु स्नापित्व स्तूपानि तथागतानां / विशुद्धवाक्यो स्नपयित्व स्तूपं रजो धोवमानो विरजस्य स्मृत्या //
धर्मं करित्वा करिकारधर्मं आरोग्यप्राप्तो चरे सर्वलोके / प्रशंसनीयो भवते जनस्य कारीषि दत्त्वा जिनचेतियेषु //
अखण्डशीलो च अरिक्तध्यानो प्राप्त्वान सेवां धनम् अप्रसह्यं / आज्ञां करोति बहुकां जनस्य कारीषि दत्त्वा जिनचेतियेषु //
श्मसानसंज्ञां जनयते इष्टिकासु
[_mvu_2.385_] न कामलोको च न रक्तचित्तो / लाभाय छन्दं जहति अशेषं कारीषि दत्त्वा जिनचेतियेषु //
न चित्तपीडां जनये परेषु न खाद्यभोज्येन जने सौमनस्यं / न च दरिद्रो स न चापि रोगी कारीषि दत्त्वा जिनचेतियेषु //
अमित्रपक्षो न च तस्य भोति पूजेति बुद्धां सततं अभेद्यो / बुद्धं च धर्मं जिनश्रावकां च कारीषि दत्त्वा जिनचेतियेषु //
क्षेत्रा सहस्रा बहवो अनन्ता जाम्बूनदेन सिया सर्वपूरा / शक्यं क्षपेतुं शिरिम् एवरूपां न तैलविन्दुं जिनस्तुपे दत्त्वा //
सदा च भोति वशि आत्मचित्ते न चेष्टमानो व्रजति कदाचित्* / अभिन्नहस्तो च अभिन्नपादो कारीषि दत्त्वा जिनचेतियेषु //
उन्मार्ग सर्वं पि जहाति तेन येन व्रजन्ते बहुदुर्गतीयो / विशोधितो स्य भवे स्वर्गमार्गो कारीषि दत्त्वा जिनचेतियेषु //
नामेत्व चित्तं सहलोकनाथे
[_mvu_2.386_] तैलस्य विन्दुं जिनचेतियेषु / ददेय एकं शतधा करित्वा तं पुण्यस्कन्धं क्षपयितुं न शक्यं //
इष्टिका गृह्य भगवतो चेतियेषु पुण्यस्यार्थाय नरो चेद् धरेय / न तस्य जातु अमनोज्ञगन्धं कायो स्य गन्धं लभे चन्दनस्य //
कल्पान कोटीनयुता सहस्रां विशिष्टकायो भवते शुभांगो / विघुष्टशब्दो वरलक्षितांगो शोधेत्व स्तूपं पुरुषोत्तमस्य //
विमानश्रेष्ठं लभते सुगन्धं दिव्यं मनोज्ञं वरचन्दनस्य / न तत्र तृष्णां जनये कदाचित्* शोधेत्व स्तूपं पुरुषोत्तमस्य //
कोटीसहस्रं लभते अप्सराणां मनोज्ञगन्धा च सुदर्शनीया / तासां न तृष्णां जनये कदाचित्* शोधेत्व स्तूपं पुरुषोत्तमस्य //
अष्टांगुपेतां जलशोभमानां उद्यानश्रेष्ठां लभते पुष्किरिण्यो / दिव्योत्पलेहि च शोभमाना शोधेत्व स्तूपं पुरुषोत्तमस्य //
[_mvu_2.387_] परिवारस् तस्य भवते अनुरूपं दिव्यं च घोषं शृणोति विशुद्धं / संगीतिशब्दानि सुरासुराणां शोधेत्व स्तूपं पुरुषोत्तमस्य //
कथां च धार्मां शृणे देवतानां संस्कारा सर्वे च दुःखा अनित्या / ग्राह्यं च भोति वरदान दानं शोधेत्व स्तूपं पुरुषोत्तमस्य //
जराभिभूतो उपगतो स्वर्गलोकं न तस्य भूयो इतो दुर्गतीयो / स बुद्धं च पश्यति मर्त्यलोके शोधेत्व स्तूपं द्विपदोत्तमस्य //
कथां च कृत्वा शुभ देवतानां स्थपेत्व देवा बहुबुद्धस्तूपं / कालं करित्व उपगमि मर्त्यलोके शोधेत्व स्तूपं पुरुषोत्तमस्य //
सो जातमात्रो स्मरे कल्पान् अनन्तां ये पूर्वं बुद्धा पूजित सत्कृता च / नामं च तेषां स्मरति गणं च धर्मं शोधेत्व स्तूपं द्विपदोत्तमस्य //
अनुलेपेन भगवतो यो करोति पूजां विशिष्टां सुमनोज्ञघोषां / सो लब्धलाभो विचरति सर्वलोके आदिन्नसारो वरगन्ध दत्त्वा //
[_mvu_2.388_] प्रलुज्जकाले जिनशासनस्य न सो इहागच्छति जम्बुद्वीपे / स्वर्गेषु संधावति तस्मि काले गन्धानुलेपं करियान स्तूपे //
दुर्गन्धकामां सुजुगुप्सनीयां वर्जेति नित्यं स्थितो शीलस्कन्धे / सदा चरन्तो इह ब्रह्मचर्यं गन्धानुलेपं ददियान स्तूपे //
इतो च्यवित्वा मरुस्वर्गलोके अथ सहस्रा तुलयति अप्रमेयां / करोति अर्थं बहुदेवतानां गन्धानुलेपं ददियान स्तूपे //
यस्मिं च काले नरा भोन्ति आढ्या अदुष्टचित्ता मृदुमार्दवा च / तस्मिन् तु काले स्थितो जम्बुद्वीपे गन्धानुलेपं ददियान स्तूपे //
अपायभूमिं विजहिय सर्वां आसन्नप्राप्तो स जिनस्य भोति / प्रतीतो भवति सुखप्रेमणीयो गन्धानुलेपं ददियान स्तूपे //
विशिष्टवाक्यो भवति सुघोषो प्रियो मनापो जनसत्कृतो च /
[_mvu_2.389_] सुखं च तस्य सद सुप्रसन्नं गन्धानुलेपं ददियान स्तूपे //
राजापि भोति वरचक्रवर्ती श्रेष्ठी अमात्यो गृहपति पुण्यवन्तो / बुद्धो पि [भोति] प्रभंकरो धर्मस्वामी गन्धानुलेपं ददियान स्तूपे //
मणिहारं दत्त्वा जिनचेतियेषु उदग्रचित्तो प्रमुदितो वेगजातो / सो भोति राजा सह लक्षणेहि महानुभावो गुरुकृतो चक्रवर्ती //
मणिविमानं रुचिर प्रेमणीयं विचित्रवर्णं लभे दर्शनीयं / प्रासादम् अग्रं रतनामयं च महारहाहि स्फुट वेदिकाहि //
सो राजधानीं लभते विशिष्टां नारीगणेहि नरसंप्रपूरां / समां सुजातां सुविभक्तरूपां प्रभूतभोगां बहुशो समन्ता //
सुभिक्षक्षेमां अपगतशर्करां पुष्पावकीर्णां स्फुटावसक्तदामां / सुमनोज्ञघोषां प्रियदर्शनीयां
[_mvu_2.390_] अन्तिष्ठगुप्तां बहुशालिमध्ये //
उद्यानरम्यां शुभरुतसन्निनादां जालविचित्रां सुखसंप्रवेशां / ध्वजपताकाहि स्फुटां सुरम्यां छत्रेहि च्छन्नां शुभदर्शनीयां //
न तत्र चोरा न शठा न धूर्ता राज्ये भवन्ति परवित्तहानी / ईर्यापथेन उपपेत सत्वा विजिते सन्ति सदा मैत्रचित्ता //
अतश् च देवां व्रजते सुपुण्यो स्वर्गेषु भोति परिपृच्छनीयो / किं कार्यं शुक्लं कथम् आचरेम यदा व्रजेम इतो मर्त्यलोके //
बुद्धांश् च क्षिप्रं लभे दक्षिणीयां पश्यित्व सो पूजति लोकनाथां / बोधाय च्छन्दं जनयति पूजं कृत्वा तेनैव बुद्धा हतरज व्याकरोन्ति //
बहुज्ञानी भवति महानुभावो विशेषभूमिस्थितो अग्रसत्वो / चित्तप्रसादं भगवतो एकं कृत्वा कल्पसहस्रं जहे दुर्गतीयो //
आरोचयामि इमु भाषमाणो मा कोचि कांक्षां जने भाषतो मे /
[_mvu_2.391_] मा बुद्धज्ञानं क्षिपिया अवीचिं भवेय पश्चा सुदुःखितो कृच्छ्रप्राप्तः //
यो जालकानि उपनये चेतियेषु लोकप्रदीपे महापुण्यक्षेत्रे / सो मारजालं विधापिय अप्रमत्तो भोति नरेन्द्रो दशबलो निष्किलेशो //
अपायभूमिं विजहति अप्रमत्तो सदा च बुद्धं हतरज सत्करोति / सदा च भोति बलचक्रवर्ती समन्तलोकं उपगत पुण्यवन्तो //
देवेषु भोति मरुपति पूजनीयो दिव्यं च आयुं लभे तत्र क्षिप्रं / यशं च दिव्यं तथापि च दिव्यवर्णं दिव्यं च सौख्यं असदृशम् ईश्वरीयं //
रूपां च शब्दान् तथ पुनर् गन्धश्रेष्ठां स्पृष्टव्यां तथा लभे देवभूतो / उल्लोकनीयो भवति महानुभावो न कामतृष्णां जनयति अप्सरासु //
ततो च्यवित्व व्रजति मनुष्यलोकं सुगन्धिताङ्गो भवति विशिष्टवर्णो / न पारिहाणिं लभते कदाचित्* छोरेत्व जालं जिनचेतियेषु //
[_mvu_2.392_] शूरो च भवति दृढव्रत अप्रमत्तो न कामभोगे सुरतिं जनेति / नैष्क्रम्यतो भवति अदीनचित्तो छोरेत्व जालं जिनचेतियेषु //
सो अक्षणानि परिवर्जयित्वा क्षणा च तस्य भवन्ति विशिष्टा / बुद्धान पूजां अतुलियां सो करोति छोरेत्व जालं जिनचेतियेषु //
न बोधिचित्तं विजहति सो कदाचित्* न खण्डशीलो भवति असंवृतो वा / धर्मं विरागं लभे विशुद्धं छोरेत्व जालं जिनचेतियेषु //
दौर्वर्णियं च जहे सर्वकालं दौष्प्रज्ञियं च विजहति सो अशेषं / विशेषप्राप्तो विचरति सर्वलोके छोरेत्व जालं जिनचेतियेषु //
लाभी च भोति शुचिभोजनानां वस्त्रां विशिष्टां लभे सुवर्णचित्रां / रङ्गोपपेतां सुरुचिरदर्शनीयां छोरेत्व जालं जिनचेतियेषु //
अभ्युद्धरित्वान जिनचेतियेषु निर्माल्यं तुष्टो प्रमुदितो वेगजातो / दुःखां खरां वाचं जुगुप्समानो
[_mvu_2.393_] आरागये सो दशबलसार्थवाहं //
प्रासादिको भवति विशुद्धकायो उल्लोकनीयो बहुजनपूजितो च / न तस्य राजा भवे दुष्टचित्तो यो चेतिये अपनयि जीर्णपुष्पं //
कुमार्ग तस्यापिहिता भवन्ति यो शीलस्कन्धे स्थितो बोधिसत्वो / अभ्युद्धरेया जिनचेतियेषु ओसिरे पुष्प पुरिमं मिलानं //
शोकं च दोषं च जहे सर्वकालं रागां च काये जहे सर्व अशेषां / आश्वासप्राप्तो सो अनन्तकल्पां यो चेतिये अपनये जीर्णपुष्पं //
बुद्धो च भोति सहसार्थवाहो अनन्ततेजेन मरुपूजनीयो / अलंकृतो भवति विशुद्धकायो यो चेतिये अपनये जीर्णपुष्पं //
पंच ददेया शुभदिव्यपुष्पां मान्दारवां अथ पाटलां वा [निर्माल्यां] / यो जीर्णं पुष्पं अपनये चेतियेषु विपाकु तस्य भवति स शोभमानो //
न तस्य काये क्रमति विषं न शस्त्रं हुतासनं ज्वलितो अग्निस्कन्धो /
[_mvu_2.394_] चौरा पि तं न प्रसहन्ति पापा यो जीर्णं पुष्पं अपनये चेतियेषु //
न तस्य पुण्यं सुकरं प्रकीर्तितुं यन् तेन पुण्यं सुमहत्* गृहीतं / ओसन्नपुष्पं जिनचेतियेषु छोरेत्व तुष्टो प्रमुदितवेगजातो //
उद्विद्धकायो भवति उदारो सदा चरन्तो शुभकर्मश्रेष्ठं / न तस्य दूरे वर-अग्रबोधि छोरेत्व निर्माल्यं जिनस्य स्तूपे //
यो चन्दनं किरेय नायकस्य छन्दं जिनेत्वा परमार्थबोधि / सो भोति लोके सद पूजनीयो प्रासादिको सुमनो तेजवन्तो //
तस्यैव राज्ञो प्रणमति सर्वलोको देवा नागा च मनुजा महोरगा [च] / सर्वां सहस्रां कुसुमितलोकधातुं प्राशासि वीरो ततो ईश्वरत्वे //
ये तस्य राज्ये निवसन्ति लोके प्रतिष्ठन्ति ते वरबुद्धिज्ञाने / ते सर्वपापेषु अतिक्रमित्वा देवमनुष्येषु चरन्ति धर्मं //
परिवारस् तस्य भवति अभेद्यो
[_mvu_2.395_] पुण्यवन्तो स्मृतिवन्त प्रज्ञवन्तो / आश्वासप्राप्तो विचरति सर्वलोके यथाभिप्रायं जनयति तेषु प्रीतिं //
प्रपूरवाक्यं स्वराङ्गं भवति शुद्धं ज्ञापेति सत्वान् सुसखिलश्लक्ष्णवाक्यो / न तस्य कोपि जने ईश्वरीयं उल्लोकनीयो भवति बहुजनस्य //
प्रियवद्य दानं तथ अर्थचर्या समानार्थता च बहुजनस्य / अक्रुष्टवन्तो न जनेति रोषं यो अंगुलीहि नमे बुद्धस्तूपं //
न सो अपायं प्रपतेय भूयः वर्जेति हीनां कुल मर्त्यलोके / आढ्यश् च सो भोति प्रभूतकोशो यो अंजलीये वन्दति बुद्धस्तूपं //
देवेन्द्र भोति गत देवलोकं मनुष्यभूतो पि च भोति राजा / न पारिहानि च कदाचि तस्य यो अंजलीये वन्दति बुद्धस्तूपं //
अयुक्तवाचं न कदाचि भाषे सुभाषितं भाषति नित्यकालं / अतृप्त सत्वा वचनेन तस्य यं सो प्रमुंचेद् वरम् एकवाचं //
[_mvu_2.396_] कालं करोन्तो जिनम् अदृशासि {अद्दशासि?} मनोज्ञघोषां वसे राजधानीं / सो इन्द्रकीले स्थित लोकनाथं पुष्पां ग्रहेत्वा अभिकिरे वेगजातो //
स्वकस्मिं गृहे जिनम् अद्दशासि भुंजित्व भक्तं वदन्त धर्मं / प्रसादजातो जिन सत्करोति गृहीत्व पात्रं व्रजे नायकस्य //
प्रतिगृह्णते तस्य जिनो ऽन्तिकातो ज्ञात्वान चित्तं चरितं उदारं / तस्य यशो भेष्यति देवलोके विशिष्ट लोके असदृशो दक्षिणीयो //
गृहीत ज्ञात्वा सुगतेन पात्रं सो वेगजातो परितुष्टचित्तो / उल्लोकयित्वा तद देवलोकं जनेय च्छन्दं इमम् एवरूपं //
मोचेय सत्वां बहुदुःखप्राप्तां अन्धान चक्षु सिय सर्वलोके / आलोकप्राप्तो तमस्तिमिरस्य घाती अतीर्णसत्वान् अहम् अपि तारयेयं //
अमुक्त मोचेयम् असंस्कृतातो स्पृशित्व शान्तां वरम् अग्रबोधिं / चरे अहं दशदिशा असंप्रकंपो बुद्धित्व ज्ञानं दुःखितां प्रमोचे //
[_mvu_2.397_] ज्ञात्वान तस्य प्रणिधिम् एवरूपां यथा तं चित्तं ततो बुद्धज्ञाने / स्मितं करित्वा जिनो व्याकरोति बुद्धो तुवं भेष्यसि लोकनाथो //
इदम् अवोचद् भगवान् आत्तमना विशुद्धमति भिक्षुः सदेवमानुषासुरलोको भगवतो भाषितम् अभ्यनन्दे //
_____अवलोकितं नाम सूत्रं महावस्तुस्य परिवारं समाप्तं //
बोधिसत्वो यथा वीरो नैरंजनाम् उपागमे / अथ कालो महानागो एकको व अनुचिन्तयत्* //
यथायं रणते पृथिवी कंसपात्रीव ताडिता / निःसंशयं महावीरो लोके प्रादुर्भविष्यति //
रणतीं पृथिवीं श्रुत्वा नन्दिघोषसमाकुलां / भवनातो उत्तरित्वान समन्तं स विलोकये //
विलोकयन्तो महानागो असदृशं पुरुषोत्तमं / अग्निस्कन्धं ज्वलमानं विद्युं वापि घनान्तरे //
नैरंजनायां तीरे अद्रुतगामि अनिघो पुरुषसिंहो / घृतहुतनिभाननस् तं नागो काल भवन्तं वन्दे //
ततो उदग्रो समानो प्रीतिसुखसमर्पितो / बोधिसत्वं नमस्यन्तो इमां गाथाम् अभाषत //
यादृशा मे पुरा दृष्टा लोकनाथा महायशाः / तेषां तुवं पि सदृशो अत्र मे नास्ति संशयः //
[_mvu_2.398_] यथा उद्धरसे पादं दक्षिणं पुरुषोत्तम / दिशाम् अभिविलोकेन्तो अद्य बुद्धो भविष्यसि //
यथेयं रणते पृथ्वी कंसपात्रीव ताडिता / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा च भवनं मह्यं अन्धकारतमिस्रकं / ओभासेन स्फुटं सर्वं अद्य बुद्धो भविष्यसि //
यथा विमानो तेजेन स्फुटो तिष्ठति सर्वशो / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा च विमला नेत्रा विशुद्धा मम नायक / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा चीवरनिक्षेपा यथा च अवगाहसि / नैरंजनां शीतकालां अद्य बुद्धो भविष्यसि //
यथा नैरंजना रम्या कुसुमेहि समाकुला / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा च पुष्पा वर्षन्ति देवा क्षिपन्ति अम्बरा / वृक्षा च प्रणता सर्वे अद्य बुद्धो भविष्यसि //
शुचिजलं च वहते प्रतिपूर्णं पार्थिवोत्तमसुतो अवगाह्य / अभ्युदयन्तो अभिषेचयित्वा उपागमे पुरिमबुद्धनिषद्यां //
सर्वमहीं सचतुर्द्वीपसशैलां खेडपिण्डं व अनपेक्षो जहित्वा /
[_mvu_2.399_] याचे स्वस्तिकं तृणां नरसिंहो यत्र निषण्णो स स्पृशो वरबोधिं //
तस्य तृणां मृदुकतूलनिकाशां स्वस्तिको कनकबिम्बनिभस्य / वेगजातु अददे तृणमुष्टिं तं गृह्य च मृदुतूलांगुलपाणिः //
अथ खलु बोधिसत्वो सिंहविक्रान्तं विक्रमे अनुत्तरस्य अमृतस्य आहरणताये / नागविक्रान्तं विक्रमे / ऋषभविक्रान्तं विक्रमे / हंसविक्रान्तं विक्रमे / क्रोञ्चविक्रान्तं विक्रमे / दुष्प्रधर्षविक्रान्तं विक्रमे / अग्रोत्पादविक्रान्तं विक्रमे / श्रेष्ठोत्पादविक्रान्तं विक्रमे / पूर्वोत्पादविक्रान्तं विक्रमे / युगोत्पादविक्रान्तं विक्रमे / प्रणिधिपूर्वोत्पादविक्रान्तं विक्रमे / शत्रुमथनविक्रान्तं विक्रमे / अपराजितविक्रान्तं विक्रमे / महापुरुषविक्रान्तं विक्रमे / अलीनविक्रान्तं विक्रमे / अदीनविक्रान्तं विक्रमे / अहीनविक्रान्तं विक्रमे / अभीतविक्रान्तं विक्रमे / हितैषी-अनन्धकारीकरणताये महाविक्रान्तं विक्रमे / महासंग्रामविजयाये अनुत्तरस्य अमृतस्य आहरणताये विक्रान्तं विक्रमे //
___अथ खलु बोधिसत्वं सिंहविक्रान्तं विक्रमन्तं / नागविक्रान्तं विक्रमन्तं / ऋषभविक्रान्तं विक्रमन्तं / हंसविक्रान्तं विक्रमन्तं / क्रोञ्चविक्रान्तं विक्रमन्तं / दुष्प्रधर्षविक्रान्तं विक्रमन्तं / अग्रोत्पादविक्रान्तं विक्रमन्तं / श्रेष्ठोत्पादविक्रान्तं विक्रमन्तं / पूर्वोत्पादविक्रान्तं विक्रमन्तं / युगोत्पादविक्रान्तं विक्रमन्तं / प्रणिधिपूर्वोत्पादविक्रान्तं विक्रमन्तं / शत्रुमथनविक्रान्तं विक्रमन्तं / अपराजितविक्रान्तं विक्रमन्तं / महापुरुषविक्रान्तं
[_mvu_2.400_] विक्रमन्तं / अलीनविक्रान्तं विक्रमन्तं / अदीनविक्रान्तं विक्रमन्तं / अभीतविक्रान्तं विक्रमन्तं / हितैषी-अनन्धकारीकरणताये महाविक्रान्तं विक्रमन्तं / महासंग्रामविजयाये अनुत्तरस्य अमृतस्य आहरणताये महाविक्रान्तं विक्रमन्तं पंच वाणशतानि बोधिसत्वं अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः / पंच हंसशतानि बोधिसत्वं अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः / पंच क्रोञ्चशतानि बोधिसत्वम् अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः / पंच मयूरशतानि बोधिसत्वम् अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः / पंच जीवंजीवकशतानि बोधिसत्वम् अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः / पंच कन्याशतानि बोधिसत्वम् अनुप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः //
___कालो नाम नागराजा अद्दर्शि दृष्ट्वा च पुनर् बोधिसत्वम् एतद् उवाच // एहि महाश्रमण एहि महाश्रमण येन त्वं महाश्रमण मार्गेण आगच्छसि स भगवां पि महाश्रमण क्रकुच्छन्दो एतेन मार्गेण आगतो सो च अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो त्वं पि अद्य महाश्रमण एतेन मार्गेण आगच्छसि अद्य तुवं पि अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धिष्यसि / येन महाश्रमण मार्गेणागच्छसि भगवान् अपि कोनाकमुनि एतेन मार्गेण आगतो सो च अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो त्वं पि महाश्रमण एतेन मार्गेण आगच्छसि अद्य त्वं पि अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धिष्यसि / येन त्वं महाश्रमण मार्गेणागच्छसि भगवां महाश्रमण काश्यपो एतेन मार्गेणागतो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो त्वं पि महाश्रमण एतेन मार्गेणागच्छसि अद्य त्वं पि सम्यक्संबोधिम् अभिसंबुध्यिष्यसि //
___अथ खलु कालो नागराजा बोधिमण्डं गच्छन्तं गाथाभिर् अभिस्तवे //
[_mvu_2.401_] अथ कल्पसहस्राणि वशिभूतसहस्रकोटीन् अनुचीर्णं / दृष्ट्वा तदा व्रजन्तं कालो शाक्योत्तमम् अवोचत्* //
मार्गेण येन गच्चसि द्विपदोत्तम अद्रुतं असंभीतं / अद्य जिनपारमिताये सर्वसत्वान चरितं बुध्यसि //
येन ते पुरिमा बुद्धा मृदुमार्गेण प्रस्थिता / तेन त्वं प्रणतो वीर अद्य बुद्धो भविष्यसि //
क्रकुच्छन्दो भगवां बुद्धो मुनि कोनाकसाह्वयो / काश्यपो भगवां बुद्धो भवां प्य् एतेन प्रस्थितः //
येन गतो क्रकुच्छन्दो कोनाकमुनि च काश्यपो / एतेन त्वं गच्छ वीर अद्य बुद्धो भविष्यसि //
यथा तृणानि गृह्णासि यथा याचसि स्वस्तिकं / यथोपेसि महीमण्डं अद्य बुद्धो भविष्यसि //
यथा इमे शुद्धावासा वशीभूता करपुटाः / नमस्यन्ति तर्हि एषां सत्कारो शाक्यसुता समः //
पुरिमेहि यथा विमानं तेजेन स्फुटं सर्वशः / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा च भवनं मह्यं अन्धकारतमिस्रकं / ओभासेन स्फुटं सर्वं अद्य बुद्धो भविष्यसि //
यथा च विमला नेत्राः विशुद्धा मम नायक / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा च रणते पृथ्वी कंसपात्रीव ताडिता /
[_mvu_2.402_] निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा च वाता वायन्ति यथा वृक्षा निरिंगिता / यथा द्विजा निकूजन्ति अद्य बुद्धो भविष्यसि //
यथा मेदिनी पुष्पेहि समंगिभूतमण्डिता / बुद्धानाम् एव उत्पादे एवं भोति अलंकृता //
यथा वाणशता पंच करोन्ति त्वां प्रदक्षिणं / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा पत्त्रिशता पंच करोन्ति त्वां प्रदक्षिणं / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा हंसशता पंच करोन्ति त्वा प्रदक्षिणं / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा क्रोञ्चशता पंच करोन्ति त्वा प्रदक्षिणं / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा मोरशता पंच करोन्ति त्वा प्रदक्षिणं / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा जीवकशता पंच करोन्ति त्वा प्रदक्षिणं / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा पूर्णकुम्भशता पंच करोन्ति त्वां प्रदक्षिणं / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
यथा कन्याशता पंच करोन्ति त्वां प्रदक्षिणं / निःसंशयं महावीर अद्य बुद्धो भविष्यसि //
संमुखं पि च जिनपारमिताये
[_mvu_2.403_] उपागमे पुरिमबुद्धनिषद्यां / स्वस्तिककाले स लोकप्रदीपः उपाविशे महिरुहाग्रसमीपे //
अथ खलु कालो नागराजो बोधिसत्वं सिंहासनगतम् अभिस्तवे //
यथा मृदूहि जालेहि संस्तरित्वान संस्तरं / यथा पर्यंकम् आभुंजसि अद्य बुद्धो भविष्यसि //
यथा वाणशता पंच करोन्ति त्वां प्रदक्षिणं / समीपे द्रुमराजस्य अद्य बुद्धो भविष्यसि //
त्वं पि नरवीर चरियां अद्य निषेवसि पूर्वं अनुचीर्णां / धक्ष्यसि त्वं शठसैन्यं सनागरथ सपदातं //
यथा द्वात्रिंशती काये महापुरुषलक्षणा / निःसंशयं मारसैन्यं प्रभंजित्वा विरोचसि //
अद्य त्वं साश्रवं चित्तं किलेसमदसूदन / ज्ञानेनोत्पाटयित्वान बोधिं प्राप्य विभोत्स्यसि //
अद्य ते सह धर्मेण प्रतिवक्ता न भेष्यति / इति कालो महानागः उरगाणां वरोत्तमः / हृष्टो प्रांजलिको आह अद्य बुद्धो भविष्यसि //
बोधिसत्वो कालं नागराजानं संरागेति // एवम् एतं महाकाल एवम् एतं महानाग अद्याहं अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यिष्यं //
तं च कालम् अवचि द्विपदेन्द्रो प्रीतिहर्षपरिवृंहितकायो /
[_mvu_2.404_] अद्य काल वचनं तव सत्यं अद्य स्पृशिष्य अनुत्तरबोधिं //
अपि महिधरा गिरिवरा न भवेया चन्द्रमात्र गगणा प्रपतेया / नैवाहन् तत्र गतो न भवेयं भोहि प्रीतिमनसो भुजगेन्द्र //
मेरुशृंग अनिलो विधमेया मेदिनी च गगणं च समेया / मादृशा न हि सिंहासनश्रेष्ठं उपगम्य अमृतं न स्पृशेन्सुः //
सो गिरां प्रमुंच तत्र निषण्णो तिर्यं व द्रुमवरस्य समीपे / अद्य सर्वभवमूलम् अशेषं ऊहनामि रजनीक्षयकाले //
स्तवित्व कालो संबुद्धं द्वात्रिंशवरलक्षणं / प्रदक्षिणं करित्वान तत्रैवान्तरहायिथ //
निषण्णो बोधिसत्वो पंच संज्ञा प्रतिलभे // तद्यथा अतीतसंज्ञा क्षेमसंज्ञा सुखसंज्ञा अशक्यसंज्ञा // इमां च पुनः परसंज्ञां प्रतिलभते // अद्यमहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेष्यं [चत्वारि नीतयो तद्यथा साम दण्डो भेदो प्रदानो] //
___अथ खलु मारो पापीमां येन बोधियष्टिस् तेनोपसंक्रमित्वा वैहायसे अन्तरीक्षे स्थितः प्रांजलीकृतः बोधिसत्वं नमस्यन्तो // अथ खलु बोधिसत्वो मारं पापीमं इमाये गाथाये अभ्यभाषे //
[_mvu_2.405_] वैहायसे तिष्ठसि अन्तरीक्षे वेगप्रमत्तो मृगमण्डलीव / नमस्यन्तो प्रांजलि वन्दमानो तं वन्दनीयं इह त्वं नमस्यसि //
अहं वो ईश्वरो राजा विचेता सर्वप्राणिनां / सुखदुःखस्य विद्वांसो लोके पर्यायकोविदु //
यवा ते यौवनं वीर आरोग्यं च महायश / भुंज मानुष्यका कामां पितुर् निवेशने वस //
महीं रम्यां आवसेहि स्फीतां उदधिमण्डलां / महायज्ञानि यजमानो राज्यं कारेहि गौतम //
अश्वमेधं पुरुषमेधं पुण्डरीकं निरर्गडं / एतां यज्ञां यजित्वान होहिसि अमरो मरु //
एतां यज्ञा यजित्वान त्रायस्त्रिंशा स-इन्द्रिका / मोदन्ति कामकानां . . . . . . . . . . . . . //
एवं त्वं हि मार्ष क्रुहि करोहि वचनं मम / मा आगामिके विहन्याहि हित्वा सांदृष्टिकं फलं //
इमां गाथां भणे मारो बोधिसत्वस्य सन्तिके / तथावादिनं च मारं बोधिसत्वो ध्यभाषति //
प्रमत्तबुद्धि पापीमं कस्य अर्थं इहागतः / नैव त्वं ईश्वरो राजा न ब्रह्मा न प्रजापतिः //
[_mvu_2.406_] सच त्वम् ईश्वरो अस्या न मे याचेसि प्रांजलि / सुसमृद्धापि या जातिः हीनोत्कृष्टा च मध्यमा / तां नाहं अभिनन्दामि अनपेक्षो स्मि ते पि हि //
सुसमृद्धा पि ये कामा हीनौत्कृष्टमध्यमा / ते प्य् अहं नाभिनन्दामि अनपेक्षो स्मि ते पि हि //
ये पिमे पंच कामगुणा लोकस्य सुखसम्मता / ते प्य् अहं नाभिनन्दामि अनपेक्षो स्मि ते पि हि //
नागो यथा पाशं भित्त्वा दारयित्वा च बन्धना / गच्छति येनकामो व . . . . . . . . . . . . . . . //
छित्त्वा गृहबन्धनानि गंसामि अहं पुरं वरं / अहो धर्मम् उदीरयेन्सुः हृष्टप्रमुदिता नभे //
पुनर् मारो येन बोधियष्टिस् तेनोपसंक्रमित्वा उपरिवैहायसं अन्तरीक्षे अस्थासि // बोधिसत्वो तं आह // कस् त्वं // मारो आह //
अहम् ईश्वरो मदकरो मरुमानुषाणां मह्यं सुरासुरवरो विषयानुवासी / संसारपंजरगता मदनाभिभूता कामातुरा मुच्यन्ति मृत्युपाशा //
तं वाचया मधुरया परमार्थदर्शी मारं ब्रवीत महिमण्डगतो महर्षि / आकल्पकोटि कुशलोघसमन्वितस्य
[_mvu_2.407_] वचनं नरर्षभरुतं नरपुंगवस्य //
चित्तशूरो सि यदि तवेश्वरत्वं कामेश्वरो सि यदि व्यक्तम् अनीश्वरो सि / कामातुरा हि स्त्रीणां मनुजेन्द्रगर्भ पंके पतन्ति मणिरत्नविलम्बिचूडा //
तेषान् तथा निपतितान महीश्वराणां पृष्ठे पतन्ति पुरुषाण स्त्रियो ललन्त्यः / ते कामरागमदवेगयुता हसन्ति तस्मिं क्षणस्मिं प्रमदा यमदासभूता //
सो दासताम् उपगतो प्रमदाजनस्य ऐश्वर्यतां वदसि पश्य यथासि मूढो / कामातुरस्य हि न विद्यति ईश्वरत्वं नाभू न चापि भविता इति निश्चितं मे //
सो हं तवाद्य सबलं यधि निर्जिनित्वा अरुणोदये प्रतिभाते भवितास्मि बुद्धो / सिंहासनम् अनुगतो हि न कश्चि कृष्ण उत्तिष्ठते चरमदेहगतो अबुद्धो //
मारो आह / किं गर्जसे द्रुमवरस्मि सुखं निषण्णो न हि ताव पश्यसिह योध्यसहस्रमालिं / सेनां पिशाचबहुराक्षसयक्षसंघां
[_mvu_2.408_] चतुरंगिनीं मुदितां बहुमन्त्रयन्त्रां //
बोधिसत्व आह //
यदि मारकोटिनयुतानि समागमेन्सुः कुशलौघसंचयसंचितनरर्षभस्य / रोमं न इंजेय कुतो तुवं कृष्णबन्धु प्रतिगच्छ किं विलपेसि निरर्थकेन //
मारो बोधिसत्वेन क्षिप्तो स्वकं भवनं गत्वा परिवारस्य आचिक्षति // एषो मारिष बोधिसत्वो बोधिमण्डे निषण्णो अनुत्तरां सम्यक्संबोधिम् अभिसंबोधितुकामो / सो स्थानातो च्यावयितव्यः मा मम विषयातो बहुजनकायम् अतिक्रामयिष्यति // तस्य दानि जनीसुतो नाम पुत्रो आह // तात मा नं अन्तरायं करोहि अनुत्तराये सम्यक्संबोधये अभिसंबुध्यतु / यादृशं मे अधिगतं गर्भोक्रमणं च जाति च अभिनिष्क्रमणं च यथा च बोधिमण्डे उपसंक्रम्य निषण्णो अद्यैष अनुत्तरां सम्यक्संबोधिं / अभिसंबुद्धिष्यति / नास्ति सो सत्वो वा सत्वकायो वा बोधिसत्वस्य समर्थो अनुत्तराये सम्यक्संबोधये अन्तरायं कर्तुं //
निषण्णो सिंहो यथ दुष्प्रधर्षो ओभासयित्व दिशां वृक्षमूले / न चैतद् अस्माकं कदाचि रोचति यं एवरूपं ऋषिम् आक्रमेसि //
शीलेन क्षान्तीये तपेन चैव उपेतो सर्वपरमां गतिं गतो /
[_mvu_2.409_] सो एवरूपो समुच्छ्रितध्वजो गजो यथा भेत्स्यति आत्मबन्धं //
पश्य तुवं सर्वद्विपाद-उत्तमं तं चन्द्रो यथा विभाति पूर्णमास्ये / कथं हि चित्तं क्रमते अबुद्धि यो एवरूपां लभते विहेठां //
अंगारकर्षूं प्रपतेय न कोचि आशीविषं पि स्पृशे नो करेण / जात्यन्धो त्रस्तो शुनखेहि पृष्ठे सो अन्धकूपे प्रपते अचक्षुः //
एवं इमे भोन्ति परीत्तचेतसो मन्त्रो च नो अस्ति तथाविधानां / ये एवरूपं परिशुद्धगोचरं तं अश्रद्दधाना प्रपतन्ति अचक्षुषो //
सचेवं एतं वचनं न गृह्णथ मार्गस्थ उन्मार्गगता स्मरिष्यथ / पलायमाना दिशता चतुर्दिशं यथापि . . . . भ्रष्ट क्रोष्टुको //
कालो अमात्यो गाथां भाषति //
सर्वो स्वकार्थस्मि समुच्छ्रितस्मिं सम्मोहम् आसन्नो विसंज्ञबुद्धिः /
[_mvu_2.410_] यथा अयं देव असंप्रतीतो मतिं अयुक्तां करुते जनीसुतः //
ततो मारो महासन्नाहं सन्नहित्वा आगतो बोधिसत्वसमीपं // बोधिसत्वेन च उक्कासितशब्देन भग्नो // पुनः मारो महासन्नाहं सन्नहित्वा बोधिमण्डे बोधिसत्वसमीपम् आगतः महतीये चतुरंगिनीये सेनाये कुम्भाण्डयक्षराक्षसवतीये // समन्ता त्रिंशद्योजनां स्फुरित्वा हयसहस्रयुक्तवाहनं अभिरुहि चित्रचापधरो सन्नद्धकवचितो उच्छ्रितध्वजपताकः अनेकभेरीमृदंगमरुपटहपणवशंखसंनिनादेन किलिकिलप्रक्ष्वेडितशब्दानि प्रमुंचमानाये भैरवाये विकृताये भूतगणसेनाये संपरिवृतो // तद्यथा // अन्ये अश्वमुखा अन्ये उष्ट्रमखा अन्ये गर्दभमुखा अन्ये अजमुखा अन्ये मेण्डमुखा अन्ये मृगमुखा अन्ये सिंहमुखा अन्ये व्याघ्रमुखा अन्ये द्वीपिमुखा अन्ये ऋक्षमुखा अन्ये श्वानमुखा अन्ये सूकरमुखा अन्ये विडालमुखा अन्ये काकमुखा अन्ये कुक्कुटमुखा अन्ये गृध्रमुखा अन्ये कुररमुखा अन्ये अशीर्षका कबन्धा अन्ये एकशिरा अन्ये बहुशिरा अन्ये द्विशिरा अन्ये अचक्षुषो अन्ये चैकचक्षुषो अन्ये अहस्तका अन्ये अपादका अन्ये अबाहुका अन्ये दशबाहुका अन्ये असिधरा अन्ये शक्तिधरा अन्ये तोमरधरा अन्ये भिण्डिपालधरा अन्ये शूलधरा अन्ये त्रिशूलधरा अन्ये हलधरा अन्ये चक्रधरा अन्ये मुशलधरा अन्ये मुद्गरधरा अन्ये परशुधरा अन्ये खड्गधरा अन्ये करंकधरा / अन्ये मुखतो ऽग्निं वमन्ति अन्ये सर्पां वमन्ति अन्ये क्षुरपर्यन्ता चक्रान् उपरि अन्तरीक्षे भ्रामयन्ति // अन्ये पादेन हस्तिनागं गृह्य बोधिसत्वं अभिद्रवन्ति /
[_mvu_2.411_] अन्ये उष्ट्रं गृह्य अन्ये अश्वं गृह्य अन्ये गर्दभं गृह्य अन्ये कबन्धं गृह्य अन्ये करंकां गृह्य अन्ये आशीविषं गृह्य अन्ये सिंहां गृह्य अन्ये व्याघ्रां गृह्य अन्ये द्वीपीं गृह्य अन्ये ऋक्षां गृह्य अन्ये गवयां गृह्य अन्ये महिषां गृह्य अन्ये शीर्षकरोटीं गृह्य अन्ये पर्वतकूटानि गृह्य अन्ये समूलानि वृक्षाणि गृह्य / अन्ये अन्तरीक्षा च अंगारवर्षं पातयन्ति अन्ये आशीविषवर्षाणि पातेन्ति अन्ये उपलवर्षाणि पातेन्ति / अन्ये हस्तिषु अभिरूढा अन्ये अश्वेषु अन्ये उष्ट्रेषु अन्ये महिषेषु अन्ये गर्दभेषु गवयेषु अन्ये मृगेषु अन्ये सूकरेषु अभिरूढा बोधिसत्वम् अभिद्रवन्ति // नापि बोधिसत्वस्य रोमस्यापि इंजितत्वं चित्तस्य वा अन्यथात्वं //
अथ स सगवयाश्वरथो खो बहुहयवारणयुक्तां सेनां / अभिनिर्मिणीयभियासि येन बोधिसत्वासनं श्रेष्ठं //
सो हयसहस्रयुक्तं वाहनम् अभिरुह्य चित्रचापधरो / वाचाम् उग्राम् उदीरये हनथ हनथ गृह्णथ नं शीघ्रं //
कुंजरखरश्ववदना उष्ट्रमुखा मुषलपाणिनो रौद्रा / राक्षसगणा प्रतिभयं भ्रमन्ति यतो सौ अरिनिघाती //
अपराणि कबन्धानि आशीविषकानि रुहन्ति मेदिन्यां / इमं हनथ इमं गृह्णथ रवन्ति आर्त्तस्वरं घोरं //
अपरे मुखतो सर्पान् अग्निं विषं च वमन्ति . . . / पादेन गृह्य गजेन्द्रम् अभिद्रवन्ति पिशाचगणाः //
[_mvu_2.412_] पर्वतशृंगानपर उग्गिरमाना अभिद्रवन्ति मुनिं / अंगारवर्षम् अपरे वर्षन्ति नभे पिशाचगणाः //
क्षुरपर्यन्ता अपरे भ्रमेन्ति चक्राणि अन्तरीक्षगता / गगणे च चटचटायति असनिर्घोरां करोति शब्दं //
अथ खलु बोधिसत्वेन त्रिष्कृत्यो शिरं परामृष्य त्रिष्कृत्यो पर्यंकं परामृष्य दक्षिणेन हस्तरतनेन सुविचित्रराजिकेन लाक्षारसप्रसेकवर्णेन मृदुना तूलसंस्पर्शोपमेन ताम्रनखेन अनेककल्पकोटीकुशलमूलसमन्वागतेन पृथिवी संपराहता प्रनदे गम्भीरं सुक्ष्मरूपं अनुनदे अनुरणे / सय्यथापि नाम मागधिका कंसपात्री पर्वतशृंगे संपराहता गम्भीररूपं अनुनदे अनुरणे एवम् एव बोधिसत्वेन दक्षिणेन हस्तरतनेन ताम्रनखेन सुविचित्रराजिकेन लाक्षारसप्रसेकवर्णेन मृदुना तूलसंस्पर्शोपमेन अनेककल्पकोटीकुशलमूलसमन्वागतेन पृथिवी पराहता तेन च पृथिवीशब्देन भिज्जे लुज्जे प्रलुज्जे परिणमे // हस्तिनो पि सानं सीदेन्सुः अश्वा पि सानं सीदेन्सुः रथा पि सानं सीदेन्सुः पादा पि सानं सीदेन्सुः हस्ता पि सानं सीदेन्सुः प्रहरणा पि प्रपतेन्सुः दिशा पि सानं उज्झ्येन्सुः अतीर्थेनापि नदीं नैरंजनां प्रपतेन्सुः / अन्ये वामेन पार्श्वेन प्रपतेन्सुः अन्ये दक्षिणेन पार्श्वेन प्रपतेन्सुः अन्ये उत्तानका प्रपतेन्सुः अन्ये पादेहि प्रपतेन्सुः अन्ये जानुकेहि प्रपतेन्सुः अन्ये ओमूर्धका प्रपतेन्सुः अन्ये अवकुब्जका प्रपतेन्सुः भीता त्रस्ता परस्परम् उत्क्रोशमाना //
सो करेण मृदुतूलुपमेन आहनेय धरणीं द्विपदेन्द्रो /
[_mvu_2.413_] कम्पे मेदिनी ससागरशैला तेन भग्ना च चमुः नमुचिस्य //
सो च जहे तदा बोधिसमीपं बोधिसत्वतेजेन ते चरन्तो / अनेकतुरगवारणयोधा वगाढा नैरंजनां नाम तीर्थं //
पतितमथिताश्वरथशस्त्रः मारो सराक्षसगणो दिशां च / अप्रजानन्तो नैरंजननाम प्रत्योतीर्णो विगतशस्त्रो तीर्थं //
योजनसहस्रमात्रं पलाना ऋद्धिबलेन रक्षसेना त्रस्ता / तथापि नो चाभया प्रकंपन्ति जीवाथ दिष्ट्या स्म संशयमुक्ता //
अन्ये रक्षगणाः कण्ठावलग्ना प्ररोदन्ति च मन्दारवां च / देवा प्रवर्षेन्सु कर्कारवां च हृष्टमना वाचम् उदीरयन्ति //
विजयो पार्थिवस्य गगणे च दुन्दुभिशब्दो हिक्कारनदो च /
[_mvu_2.414_] निर्नदे त्रैलोक्ये प्रविधुतं च नभं विमलं शास्तु विजयस्मिं //
देवपुत्रो देवलोकं गत्वा आह //
यो सौ भावो सत्पुरुषोत्तमस्य नैरंजनातीरम् उपहतस्य / न शक्यं तद् वर्षशतेहि वक्तुं प्रदेशमात्रं परिकीर्तयिष्यं //
दृष्टो मे जाम्बूनदकाञ्चनाभो व्योमप्रभो लक्षणचित्रगात्रो / संप्रस्थितो एकचरो अभूषि नैरञ्जना याव च बोधिमण्डो //
सो ते क्रमां पद्मदलप्रकाशां यथा यथा निक्षिपते महीयं / तथा तथा कम्पति साभिरामा अनेकघोषाभिरता वसुधरा //
दृष्टा मे मारस्य चमू समागता समन्ततो यक्षसहस्रकोट्यो / करोति त्रासं हृदयं प्रकम्पे न सत्वसारस्य करोन्ति इञ्जनां //
न चास्य भावं पृथिवीय ज्ञायते समन्ततो देवसहस्रकोटियो / घोषं उदीरयन्ति भविष्यते जिनो
[_mvu_2.415_] प्रहृष्टा वस्त्राणि च भ्रामयेन्सुः //
दृष्टा मे पंचशता जीवजीवका मयूरहंसा करविंककोकिला / संप्रस्थितेनैकरवा अभूषि नैरंजना याव च बोधिमण्डं //
दृष्टो मे मार्गा अमरेहि निर्मितो नैरंजना याव च बोधिमण्डं / धूपस्य च पुष्पस्य च माल्यस्य विचित्रपुष्पो सुमनोज्ञगन्धो //
भग्ने मारे सर्वशो हततेजे पूर्वे यामे परिशोधये चक्षुं / मध्यमे च यामे मारनिघाती पूर्वेनिवासचरिता स्मरेसि //
उद्गते च अरुणे वरबुद्धिं यत्तकां पुरिमबुद्धानुबुद्धां / बुद्धधर्मवशिता प्रापुणेसि लोकनाथो भवरागनिघाती //
रात्र्या पश्चिमे यामे अरुणोद्घाटसमये नन्दीमुखायां रजन्यां यत् किंचित् पुरुषेण सत्पुरुषेण महापुरुषेण पुरुषर्षभेन पुरुषद्रव्येन पुरुषवीरेण पुरुषनागेन पुरुषसिंहेन पुरुषनृपेण पुरुषपदुमेन पुरुषकुमुदेन पुरुषपुण्डरीकेन पुरुषपुंगवेन पुरुषाजानेयेन पुरुषधौरेयेण अनुत्तरेण पुरुषदम्यसारथिना विक्रान्तेन पराक्रान्तेन एकेन अप्रमत्तेन
[_mvu_2.416_] आतापिना व्यपकृष्टेन प्रहितात्मेन विहरन्तेन गतिमता स्मृतिमता धृतिमता बुद्धिमता प्रज्ञावन्तेन अर्थिकेन च्छन्दिकेन सर्वशो सर्वत्र यज्ज्ञातव्यं बोद्धव्यं अभिसंबोद्धव्यं सर्वं तम् एकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः // देवपुत्रा गन्धमाल्यं गृह्य स्थिता किन् तु खलु भगवतो चित्तं विमुक्तं // भगवांस् तासां देवतानां चित्तेन चित्तम् आज्ञाय ताये वेलाये तासां देवतानां इमं कांक्षाछेदनं उदानं भाषति // छित्त्वा तृष्णां विजहामि रजं शुष्काश्रवाणि न स्रवन्ति छिन्नं वर्त्मं न वर्तति / एषैव अन्तो दुःखस्य //
अथ नानावर्णा कुसुम-ओघा निपतेन्सुः सुचित्रसुगन्धा / देवपुत्रकरतलविमुक्ता देवराजम् अभिदक्षिणियेन्सुः //
यस्य वीर्यं गिरिसारम् अतुल्यं यो सदा कुलातितेज सिखीव / तस्य देवमनुजोपचितस्य अंजलिं कुरुथ अप्रतिमस्य //
यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य / अथास्य कांक्षा व्यपनेन्ति सर्वा यदा प्रजानाति सहेतुधर्मा //
अयं अनुलोमो प्रतीत्यसमुत्पादः //
[_mvu_2.417_] यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य / अथास्य कांक्षा व्यपनेन्ति सर्वा क्षयं प्रत्ययानां अवैति //
अयं प्रतिलोमः प्रतीत्यसमुत्पादः //
___मारेण पापीमता प्राणका निर्मिता भगवतो पर्यंकं भिन्दन्ति / सूर्येण उदेन्तेन सर्वे विलीना //
___अथ खलु भगवान् ताये वेलाये इमं उदानम् उदानये //
यदा इमे प्रादुर्भवन्ति धर्मा आतापनो ध्यायतो ब्राह्मणस्य / विधर्षिता तिष्ठति मारसैन्या सूर्येणैव ओभासितम् अन्तरीक्षं //
अथ खलु भगवान् प्रथमसंबोधिप्राप्तो ताये वेलाये इमम् उदानम् उदानये //
सुखो विपाको पुण्यानां अभिप्रायश् च ऋध्यति / क्षिप्रं च परमां शान्तिं निर्वृतिं चाधिगच्छति //
पुरतो ये उपसर्गा देवता मारकायिका / अन्तरायं न शक्नोन्ति कृतपुण्यस्य कर्तुं वै //
ये भोन्ति अल्पपुण्यस्य विग्रहा ते न भवन्ति बलवन्तो / बलवां भोति समाधी संभारवतां सपुण्यवतां //
यदि यो च देवलोके अथ वा वसवर्तिनो मनुष्यो वा /
[_mvu_2.418_] अकृत्यं प्रार्थयते किंचि तथा तथ न ऋध्यते तस्य //
अथ वा पुन प्रार्थयति निर्वाणं अच्युतं पदम् अशोकं / मार्गं दुःखप्रशमनं प्रतिलभते अल्पकिसरेण //
___अथ खलु भगवान् आह // लोकविजितं नाम समाधि समापद्यते // अयं लोकः सन्तापजातो स्पर्शोपरतो रागं वेदेति आत्मनो / येन येन हि मद्यन्ति ततो न भवति अन्यथा / भवे अयं लोको सक्तो भवे रक्तो भवाभिनन्दितो // भवो यत्र भवति दुःखं भवति // प्रहाणार्थं खलु पुनर् भिक्षवस् तथागतेन ब्रह्मचर्यं उष्यति // ये हि केचि भवेन भवस्य निःशरणम् आहुः सर्वे ते भवा अनिःशरणा ति वदेमि / ये वा पुनः केचिद् भिक्षवो भवेन भवस्य विप्रमोक्षम् आहुः सर्वे ते भवा अविमुक्ता ति वदेमि // उपधिं प्रतीत्य दुःखस्य संभवो सर्वोपधिक्षयतो भिक्षवो नास्ति दुःखस्य संभवो // लोकम् इमं पश्य पृथुं अविद्यापरीत्तं भूतं भूतसंभवा अपरिमुक्तं // ये केचिद् भवा सर्वे हि सर्वत्रयाये संवर्तन्ति / सर्वे ते भवा अनित्या दुःखधर्माः परिणामधर्माः // एवम् एतं यथाभूतं सम्यक्प्रज्ञया पश्यते // क्षीयति भवतृष्णा भवं नाभिनन्दति सर्वशो तृष्णाक्षयो निर्वाणं // तस्य निर्वृतस्य भिक्षवः पुनर्भवो न भवति // अभिभूतो मारो विजितसंग्रामो निर्जिताः शत्रवः अपत्यक्तः सर्वभवो इति //
___भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थम् अभिसंभावयित्वा बोधिमूले उक्काशनशब्देन मारो पापीमां सबलो सवाहनो भग्नो // अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यित्वा
[_mvu_2.419_] प्रवृत्ते वरधर्मचक्रे महापरिषां समुदानयित्वा राजगृहे विहरात शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितो ऽपचितो लाभाग्रयशोग्रप्राप्तो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां / तत्र च अनोपलिप्तः पद्मम् इव जलेन पुण्यभागीयां सत्वां पुण्येहि निवेशयमानो फलभागीयां सत्वां फलेहि प्रतिष्ठापयमानो वासनाभागीयां सत्वां वासनायाम् अवस्थापयमानो अमृतम् अनल्पकेन देवमनुष्यां संविभजन्तो प्राणकोटिशतसहस्राणाम् अमृतम् अनुप्रापयन्तो अनवराग्रजातिजरामरणसंसारकान्तारनरकादिदुर्गमहाप्रपाताद् अभ्युद्धरित्वा क्षमे शिवे समे स्थले अभये निर्वाणे प्रतिष्ठापयमानो आवर्जयित्वा अंगमगधवज्जिमल्लकाशिकोशलकुरुपांचालचेतिवत्समत्स्यशूरसेन-अश्वक-अवन्तिदशदिशां / ज्ञाने दृष्टपराक्रमो स्वयंभू दिव्येहि विहारेहि विहरन्तो ब्राह्मणेहि विहारेहि विहरन्तो आनिंजेहि विहारेहि विहरन्तो आर्येहि विहारेहि विहरन्तो सांतत्येदि विहारेहि विहरन्तो बुद्धो बुद्धविहारेहि विहरन्तो जिनो जिनविहारेहि विहरन्तो जानको जानकविहारेहि विहरन्तो सर्वज्ञो सर्वज्ञविहारेहि विहरन्तो // चेतोवशिप्राप्तो पुनः बुद्धो भगवन्तो येहि येहि विहारेहि आकांक्षति तेहि तेहि विहारेहि विहरति //
___एतं प्रकरणं भिक्षुभि श्रुतं यथा भगवतो बोधिमूले उक्कासनशब्देन मारः पापीमां सबलो सवाहनो भग्नो // ते भिक्षु भगवन्तम् आहन्सुः // पश्य भगवन्न् आश्चर्यं नरसिंहस्य मानक्रोधप्रमथिनः कथं च भगवतो उक्काशनमात्रेण मारो सबलाग्रो निर्जितो / एकेनापि असहायेन मैत्रचित्तेन धीमता अनेकयक्षनयुता उक्कासनमात्रेण बलाग्रो निर्जितो सिंहव्याघ्रतरक्षुद्वीपिवारणकुंजरा चन्द्रवक्त्रेण सबलाग्रो
[_mvu_2.420_] निर्जितो पापीमां पापनयो च पापाचारपरिश्रमः / उक्काशनमात्रेण सबलाग्रो कथं जितः // भगवान् आह // किं भिक्षवः आश्चर्यं तथागतेन परसंबोधिप्राप्तेन बोधिमूले उक्काशनशब्देन मारः पापीमां सबलवाहनो भग्नः / अन्यदापि मये कुमारभूतेन उक्काशनशब्देन एष पापीमां सबलाग्रो निर्जितः // भिक्षू आहन्सुः // अन्यदापि भगवन्* // भगवान् आह // अन्यदापि भिक्षवः //
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे तत्र राजा सुबन्धु नाम कृतपुण्यो महेशाख्यो महाबलो महाकोशो षष्टीनां नगरसहस्राणां राज्यं कारयति ऋद्धं स्फीतं प्रशान्तदण्डव्यवहारतस्करं क्षेमं सुभिक्षं निरीतिकं निरुपद्रवं आकीर्णजनमनुष्यं / तस्य दानि राज्ञो सुबन्धुस्य षष्टि नागसहस्राणि इभदन्तकल्पितानि हेमजालप्रतिच्छन्नानि सुवर्णालंकारभूषितानि सखुरप्रवालानि सहस्त्यारोहाणि [इषुतोमरपाणिनो] षष्टि अश्वसहस्राणि सैन्धवानां शीघ्रप्रवाहिनां सर्वालंकारभूषितानां षष्टि रथसहस्राणि सिंहचर्मपरिवाराणि व्याघ्रचर्मपरिच्छन्ना द्वीपिचर्मपरिच्छन्नानि सनन्दिघोषाणि सवैजयन्तकानि सखुरप्रवालानि उच्छ्रितध्वजपताकानि षष्टि धेनुसहस्राणि सर्वाणि कामदोहीनि षष्टि स्त्रीसहस्राणि आमुक्तमणिकुण्डलानि सर्वालंकारभूषितानि षष्टि पर्यंकसहस्राणि सुवर्णमयानि रूप्यमयानि दन्तमयानि षष्टि सुवर्णपात्रसहस्राणि षष्टि रत्नमयानि सहस्राणि षष्टि निधानसहस्राणि / विंशद्ब्राह्मणसहस्राणि नित्यभोजनानि / प्रभूतं धनधान्यकोशकोष्ठागारं प्रभूतदासीदासकर्मकरपौरुषेयं प्रभूतं अमात्यभठबलाग्रं प्रभूतं यन्त्रधनुगुणकोशं //
[_mvu_2.421_] तस्य दानि राज्ञो सुबन्धुस्य शयनगृहे महन्तो इक्षुस्तम्बो प्रादुर्भूतः / तस्य दानि इक्षुस्तम्बस्य मध्ये एकं इक्षुः सर्वशोभनं प्रादुर्भूतः इतराणीक्षुस्तंबान्य् अभिभवति बलेनापि वर्णेनापि तेजेनापि पलाशेनापि // सो दानि राजा सुबन्धुः इक्षुस्तम्बं दृष्ट्वा विस्मितो चिन्तासागरम् अनुप्रविष्टो // कस्येदं भविष्यति निमित्तं कल्याणं वा पापकं वा // सो दानि राजा सुबन्धुः ब्राह्मणपुरोहितराजाचार्यां शब्दावित्वा आमन्त्रेति // भवन्तो शयनगृहे मे महान्तो इक्षुस्तम्बो प्रादुर्भूतो तस्य इक्षुस्तम्बस्य मध्ये एको इक्षु सर्वशोभनं प्रादुर्भूतं सर्वा इतराण्य् अभिभवति वर्णेनापि तेजेनापि पलाशेनापि / तं भवन्तो प्रत्यवेक्षथ जानथ कस्येतं निमित्तं लंचकं पापकं वा यं दानि वो कर्तव्यं तं करोथ // ते दानि ब्राह्मणपुरोहितराजाचार्यास् तं इक्षुस्तम्बं प्रत्यवेक्षन्ति पश्यन्ति अद्भुतं प्रासादिकं दर्शनीयं चक्षुरमणीयं दृष्ट्वा च पुनः राज्ञो सुबन्धुस्य जयेन वद्धापयित्वा एतद् अवोचत्* // दिष्ट्या वृद्धि महाराज कल्याणं निमित्तं अन्तःपुरे प्रादुर्भूतं / अतो ते महाराज इक्षुस्तम्बातः कुमारो प्रादुर्भविष्यति कृतपुण्यो महेशाख्यो महातेजो दुरासदो दुष्प्रधर्षा दुष्प्रसहो प्रासादिको दर्शनीयो देवानां च मनुष्याणां च / तं देवस्य प्रियं भवतु // ते दानि ब्राह्मणा राज्ञा सुबन्धुना प्रणीतेन खादनीयभोजनीयेन संतर्पयित्वा संप्रवारयित्वा हिरण्यसुवर्णस्य उत्संगां कृत्वा विसर्जिता //
___सो दानि इक्षुस्तम्बो अहोरात्रेहि संवृद्धो कालान्तरेण महन्तो इक्षुस्तम्बो संवृत्तो सो पि मध्यमको इक्षुस्तम्बो महन्तो वेलुप्रमाणो इक्षु संजातो कोमलो च दर्शनीयो च परिणाहवन्तो च सर्वान् इक्षुस्तम्बान् अभिभवति // तस्य दानि राज्ञो सुबन्धुस्य
[_mvu_2.422_] अग्रमहिषी सुरुचिरा नाम प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाय शुभवर्णपुष्कलताय समन्वागता // सो दानि राजा सुबन्धुः अग्रमहिषीय सुरुचिराय सार्धं राजार्हे शयने शयितः ओसक्तपट्टदामकलापे धूपितधूपने मुक्तपुष्पावकीर्णे सुवर्णमये रूप्यमये दीपवृक्षेहि . . . . . कुब्जवामनकिरातवर्षवरकांचुकीयेहि जाग्रन्तेहि //
___अथ खलु ततो इक्षुस्तम्बातो रात्र्या पश्चिमे यामे अरुणोद्घाटकालसमये मूलदण्डातो कुमारः प्रादुर्भूतः प्रासादिको दर्शनीयः अक्षुद्रावकाशः परमाये सुवर्णपुष्कलताये समन्वागतः // ततो सो कुमारो सुरुचिराये देवीये प्रतिगृहीतो // सो दानि राजा सुबन्धुः तं कुमारं इक्षुस्तम्बातो प्रादुर्भूतं दृष्ट्वा विस्मितो / आश्चर्यं केदृशो एषो सत्वो भविष्यति यो इक्षुतो प्रादुर्भूतो // सो दानि राजा सुबन्धुः कुमारस्य सप्तरात्रं रमनीयाणि जातकर्माणि करोति / श्रमणब्राह्मणकृपणवनीपकेषु अन्ये च महाजनकाये सप्ताहं विश्राणेति अन्नं पानं खाद्यं भोज्यं गन्धमाल्यविलेपनं वस्त्रां च तैलप्रनालिका प्रवाहिता घृतप्रनालिका प्रवाहिता नानाप्रकाराः पानप्रनालिका प्रवाहिता / महन्तो ज्ञातिवर्गो समागतः बहूनि राजशतानि समागतानि बहूनि ब्राह्मणसहस्राणि समागतानि / महन्तो आमोदो सुबन्धुस्य गृहे वर्तति / तूर्यशतानि संप्रवाद्यन्ति संगीतिशतानि निवर्तन्ति // सर्वं नगरं सप्ताहं सत्कृतं // तद् अनुपात्रं राजा सप्ताहं जातकर्माणि कृत्वा सप्ताहस्यात्ययेन ततो राजा सुबन्धुः ब्राह्मणपुरोहितराजाचार्याणाम् आमन्त्रयति // भवन्तो कुमारस्य सदृशं नामं करोथ // तेषां दानि भवति / एषो कुमारो इक्षुतो जातो भवतु इमस्य इक्ष्वाकु त्ति नामं // ते दानि ब्राह्मणा राज्ञो निवेदेन्ति यं
[_mvu_2.423_] महाराज एषो कुमारो इक्षुतो जातो भवतु इमस्य कुमारस्य इक्ष्वाकू ति नामं // सो दानि राजा सुबन्धुः कुमारस्य नामं ब्राह्मणानां सकाशातः श्रुत्वा प्रीतो संवृत्तो / सदृशं कुमारस्य नामं स्थपितं // अन्ये पि कुमारस्य नामं श्रुत्वा प्रीता संवृत्ताः // तेषां दानि ब्राह्मणानां राज्ञा सुबन्धुना प्रभूतं खादनीयं भोजनीयं दत्त्वा संप्रवारिता प्रभूतं हिरण्यसुवर्णं दत्त्वा विसर्जिताः //
___तेन दानि राज्ञा सुबन्धुना तस्य कुमारस्य चत्वारो धात्रीयो सपरिवारा अनुरूपा उपस्थापिता या कुमारं अन्या उद्वर्तेति सुपेति अन्या स्तनं पायेति अन्या उच्चारप्रस्रावम् आकर्षति अन्या उत्संगेन धारयति // एवं दानि सो इक्ष्वाकू राजकुमारो चतुर्हि धात्रीहि सम्यगुपस्थिहियमानो सम्यक्परिचरीयमानो यथा उत्पलं वा पदुमं वा कुमुदं वा पुण्डरीकं वा कूलान्तेहि एवं स बह्वीयति // यथोक्तं भगवता //
कृतपुण्यो हि वर्धति न्यग्रोधो इव सुभूमिया / जातो नुपन्थके व द्रुमो सो ल्पपुण्यः विरुह्यति //
एवं दानि सो कुमारः संवर्धियमानो यं कालं सप्तवर्षः अष्टवर्षो वा संवृत्तो ततः सेखीयति लेखायं पि लिपीयं पि संख्यायां पि गणनायां पि मुद्रायां पि धारणायां पि हस्तिस्मिं पि अश्वस्मिं पि धनुषि पि वेलुषि पि धाविते लंघिते जविते प्लविते इष्वस्त्रज्ञाने युद्धे छेद्ये भेद्ये संग्रामशीर्षे राजमायासु सर्वत्र निष्चितगुणगृहीतो मातृज्ञो श्रामण्यो ब्राह्मण्यो अभिवादनवन्दनप्रत्युत्थानशीलो आवर्जनसंपन्नो मार्दवसम्पन्नो अपरुषो अकर्कशो निवातो सुखसंवासो पूर्वालापी प्रियभाषी राज्ञो इष्टो
[_mvu_2.424_] देवीये अन्तःपुरस्य इष्टो अमात्यानां इष्टो सर्वस्य भटबलाग्रस्य इष्टो पुरोहितस्य श्रेष्ठिस्य नैगमजानपदस्य प्रतिराजानाम् इष्टश् च प्रियो च मनापो च अल्पातंको समाये सम्यग्विपाचनीये ग्रहणीये समन्वागतो न चातिशीताये न चाति-उष्णाये ऋतुविपरिणामाये दीर्घायुष्कश् चतुरशीति वर्षसहस्राणि आयुःप्रमाणं // यथोक्तं भगवता //
सर्वसत्वा मरिष्यन्ति मरणान्तं हि जीवितं //
यथाकर्म गमिष्यन्ति पुण्यपापफलोपगाः //
निरयं पापकर्माणो कृतपुण्या च सद्गतिं //
अपरे च मार्गं भावेत्वा परिनिर्वायन्त्य् अनाश्रवा इति //
सो दानि राजा सुबन्धु चिरं दीर्घम् अध्वानं धर्मेण राज्यं कारयित्वा चतुरशीतिनां च वर्षाणाम् अत्ययेन कालधर्मेण संयुक्तो कालगतो इक्ष्वाकुना कुमारेण राज्यं प्रतिलब्धं // ततः राजा वाराणस्यां पैतृक्येहि षष्टीहि नगरसहस्रेहि राज्यं कारयति निहतदण्डो निहतप्रत्यर्थिको निहतप्रत्यमित्रो अकण्टको अनुरक्तजनपदो महाबलो महाकोशो महावाहनो विस्तीर्णान्तःपुरो बहूनि स्त्रीसहस्राणि सर्वाणि च अप्रजातापत्यानि / न कस्याचित् पुत्रो वा धीता वा अस्ति // सो दानि राजा इक्ष्वाकुः कालान्तरेण राज्यं कारयित्वा चिन्तासागरम् अनुप्रविष्टो / मम विस्तीर्णं राज्यं विस्तीर्णम् अन्तःपुरं न मे पुत्रो स्ति मा हैव तावद् अहं अपुत्रो कालं करेय / ततः मे इमं विषयं प्रत्यर्थिकेहि आक्रमिष्यति // सो दानि राजा इक्ष्वाकुः पुरोहितेन सार्धं निमन्त्रयति // कथं मे पुत्रो भवेया ति // पुरोहितो तम् आह // महाराज एतं स्त्रीकागारं अष्टमिं चतुर्दशिं पंचदशिं त्रिक्षुत्तो पक्षस्य ओशिरितव्यं / ततस् ते
[_mvu_2.425_] कुमारो भविष्यतीति विस्तीर्णो च इक्ष्वाकुकुलो भविष्यति // सो दानि राजा इक्ष्वाकुः पुरोहितस्य सकाशातो वचनं श्रुत्वा अलिन्दादेवीं अग्रमहिषीं राजकुले स्थपेत्वा तानि अन्यानि बहुस्त्रीसहस्राणि त्रिक्षुत्तं पक्षस्य ओशिष्टा / गच्छथ येन यस्या अभिप्रेतं सा तेन सार्धं रमतु // एवं दानि राजकुलातो बहूनि सहस्राणि निर्धावितानि हृष्टमनसः सर्वालंकारविभूषिताः मृगिका इव संत्रस्ता द्वारे द्वारे उपागमे काचिज् जल्पन्तीयो लोभये अपरा हसन्तीयो अपरा धावमाना अनुधावन्ती / सर्वे स्खलिता आसि सर्वे आसि प्रमूर्च्छिता / इक्ष्वाकुराजनगरे मनुष्यास् ताहि राजपत्नीहि सार्धं प्रलुठिता प्रमूर्च्छिता आसि //
___अपरो दानि पुरुषो सुबन्धुकुलातो जातिसंबद्धो मनुष्यभूतो कायसुचरितेन समन्वागतः वाक्सुचरितेन समन्वागतो मनःसुचरितेन समन्वागतः दश कुशलकर्मपथ समादाय वर्तित्वा मनुष्येषु च्यवित्वा त्रायस्त्रिंशे देवनिकाये शक्रो नाम देवराजा उत्पन्नो // सो दानि समन्वाहरति / कहिं सो राजा सुबन्धुः काये वर्तमानो ति जीवति वा मृतो वा ति // सो दानि पश्यति यथा राजा सुबन्धुः कालगतो तस्य इक्ष्वाकु नाम पुत्रो तेन राज्यं प्रतिलब्धं / तस्य राज्ञो इक्ष्वाकुस्य पुरोहितेन विषमा गतिः दिन्ना अयोग्या असदृशा सुबन्धुकुलस्य त्रिष्क्षुत्तं पक्षस्य इस्त्रियागारं ओशिरितव्यं प्रजाये अर्थाये // सो दानि शक्रो देवानाम् इन्द्रो ब्राह्मणवेषम् आत्मनो निर्मिणित्वा जीर्णो वृद्धो महल्लको अध्वगतो वयम् अनुप्राप्तो वलीहि परिगतशरीरो पलितशिरो तिलकालगात्रो सो इक्ष्वाकुस्य राज्ञो द्वारं गत्वा आह // अहं इक्ष्वाकुं पश्यितुकामो // प्रतिहाररक्षो राजकुलं प्रविष्टः राज्ञो इक्ष्वाकुस्य निवेदेति //
[_mvu_2.426_] महाराज ब्राह्मणो द्वारे स्थितो राजानं द्रष्टुम् इच्छति // राजा इक्ष्वाकु आह // स्वागतं ब्राह्मणस्य प्रविशतु // तेन दानि प्रतिहाररक्षेण सो ब्राह्मणो राजकुलं प्रवेशितः // राजा वृद्धं ब्राह्मणं दृष्ट्वा प्रत्युत्थितो // स्वागतं ते ब्राह्मण निषीदाहि इमन् ते आसनं // सो दानि ब्राह्मणो जयेन वर्धापयित्वा उपविष्टः // राजा नं पृच्छति // ब्राह्मण कुतो दिशातो आगतो किं मार्गसि किन् ते रुच्चति किन् ते देमि // ब्राह्मणो आह // महाराज दूरतो स्मि प्रदेशातो आगतो तव उदारं कीर्तिशब्दश्लोकं श्रुत्वा इक्ष्वाकुः त्रिष्क्षुत्तं पक्षस्य स्त्र्यागारं ओशिरति प्रजाये अर्थाये ति / ततः राज स्त्रियाय अर्थिको दूरतो स्मि देशातो आगतो ततो मे स्त्रियाये प्रतिभागेहि // सो दानि राजा ब्राह्मणस्य वचनं श्रुत्वा प्रीतः तुष्टः संवृत्तो कांचुकीयम् आमन्त्रयति // भो भणे कांचुकीय शीघ्रं इमस्य ब्राह्मस्य मम स्त्र्यागारं उपदर्शेहि / या से स्त्री रोचते तान् से देहि // तेन दानि कांचुकीयेन ब्राह्मणो अन्तःपुरं प्रवेशितो बहूनां स्त्रीसहस्राणां मध्ये // ब्राह्मण एषो राज्ञो इक्ष्वाकुस्य स्त्र्यागारो या ते स्त्री अभिप्रेता तां गृह्य गच्छाहि // तेन दानि ब्राह्मणेन तेषां बहूनां स्त्रीसहस्राणां या राज्ञो इक्ष्वाकुस्य अग्रमहिषी अलिन्दा नाम देवी न कदाचित्* राजकुलातो निष्क्रमति सा देवी तेन ब्राह्मणेन गृहीता / एषा मे भवतु // सा दानि देवी प्ररुण्डा / अयं ब्राह्मणो मम अय्यको वा पय्यको वा अथ वा उत्तरो / राजा इक्ष्वाकु दृढव्रतसमादानो मा हेवं मां इमस्य ब्राह्मणस्य उपस्थानपरिचर्याये ओसिरिष्यति //
___तस्या दानि अलिन्दाय कुब्जा मालाकारी मालां गूहयति / सा दानि कुब्जा
[_mvu_2.427_] तं ब्राह्मणं जल्पति // ब्राह्मण त्वं जीर्णो वृद्धो मलल्लको तरुणीं स्त्रीम् इच्छसि / न त्वां कदाचित् तरुणी स्त्री हस्तेन वा पादेन वा स्पृशेया गच्छ किं ते अलिन्दाये देवीये या अपरित्यक्ता राज्ञो इक्ष्वाकुस्य // सो दानि ब्राह्मणो तां कुब्जां आह // अल्पोत्सुका तुवं कुब्जे मालां गुहाहि प्रियो अहं अलिन्दाये देवीये यथा तुवं नान्ये // तस्या दानि अलिन्दाये देवीये अन्या चेटी वर्णकपीषिका / सा दानि तं ब्राह्मणं जल्पति // ब्राह्मण त्वं जीर्णो वृद्धो महल्लको शयवस्त्रगन्धिको दुर्गन्धो न तव देवी द्रष्टुं पि इच्छे किं पुनः प्रष्टुं / गच्छ किन् ते अलिन्दाये या राज्ञो इक्ष्वाकुस्य अपरित्यक्ता // सो दानि ब्राह्मणो तां चेटीम् आह // अल्पोत्सुका तुवं चेटी वर्णकं पीषेहि प्रियो अहं अलिन्दाये देवीये यथा तुवं नान्ये // सा दानि अलिन्दा देवी आह // न मे केनचिद् उपायेन एषो ब्राह्मणो ओशिरिष्यति // सा दानि देवी उच्चेन प्ररुदिता / ताये देवीये रुदमानाये परिवारो पि से प्ररुण्डो / तत्र अन्तःपुरे महन्तो आरावशब्दो // अश्रोषी खलु राजा इक्ष्वाकु उपरिप्रासादवरगतः अन्तःपुरस्य उच्चशब्दं महाशब्दं / सो दानि राजा वर्षवरां कांचुकीयांश् च पृच्छति // भो भणे किं प्य् एष स्त्रीणां आरावशब्दः श्रुयति // ते दानि वर्षवरा कांचुकीया आह // देव तेन ब्राह्मणेन अलिन्दा देवी गृहीता / राजेन मे इक्ष्वाकुना प्रवारितं या ते स्त्री रुच्चिता तां गृह्णाहीति / ततः मे एषा भवतु / ततो सा देवी अलिन्दा प्ररुण्डा देवीय रुदमानाय परिवारेण पि से आरावो मुक्तो // सो दानि ते प्रतिश्रुत्वा स्वकम् अन्तःपुरं प्रविष्टो तं ब्राह्मणं जल्पति // ब्राह्मण त्वं जीर्णो वृद्धो महल्लको यदि राजकुले इच्छसि नित्यभक्तिकं भोक्तुं तत् ते दास्यामि किन् ते अलिन्दाये देवीये अन्यां गृह्णाहि // सो दानि आह // महाराज
[_mvu_2.428_] अहं जीर्णो वृद्धो कासनको च मुहूर्ते मुहूर्ते मूर्च्छियामि / न शक्नोमि स्वयं उत्थिहियुं स्वकां शेय्यां ओमूत्रेमि तद् एनाम् एव देहि तुवं एषा मे उत्थापयिष्यति एषा मे परिचरिष्यति / मा भवान् इक्ष्वाकुः मम स्त्रीयाय प्रवारयित्वा पश्चाद् अनुतप्याहि / अथ दानि भवान् इक्ष्वाकुः मिथ्यायाचनां करोतीति आमन्त्रेमि गच्छामि // राजा आह // नाहं ब्राह्मण मिथ्यायाचनां करोमि नापि दत्त्वा अनुतप्यामि अपि त्वं जिर्णो वृद्धो महल्लको इयं च देवी तरुणी सुकुमारा तन् ते न इच्छति / विस्तीर्णो यं चान्तःपुरो बहूनि स्त्रीसहस्राणि या ते स्त्री रुच्चति तां गृह्णाहि ताये सार्धं अभिरमाहि सा ते उपस्थिहिष्यति // ब्राह्मण आह // अलं महाराज एषा एव मे भवतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यांगी मन्दं प्रेक्षति / एषा एव मे भवतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यांगी मृगीभावं च प्रेक्षति / एषा मे भोतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यांगी सुखं अश्रूहि सिंचति / अलं मे महाराज अन्तःपुरिकाये एषा एव मे देवी भवतु एषा मे उत्थापयिष्यति एषा मे उपस्थास्यति एषा मे परिचरिष्यति मा भवान् इक्ष्वाकु मम स्त्रीं प्रवारयित्वा अनुतप्याहि / अथ दानि (याव) गच्छामि // राजा इक्ष्वाकु आह // (यावद्*) अपि त्वं जीर्णो वृद्धो महल्लको इयं च देवी तरुणा सुकुमारा तं ते न इच्छति / अयन् ते वृषला कुब्जा मैथुनार्थिका दासी ते अयं भवतु येन त्वं इच्छसि तेन तां नेहि एषा ते उपस्थास्यति // कुब्जा आह // महाराज एषो ब्राह्मणो पूतिवली पलितमुखो वदरीकुसुमो व सुदुर्गन्धो छगलो व गन्धप्राप्तो / विषं भुक्त्वा मरिष्यं सचे मे देव एतस्य देसि / इमं स्थविरं भग्नांगं मारेष्यं रहोगता // सो दानि ब्राह्मणो आह //
[_mvu_2.429_] सर्वकुब्जेहि मे वैरं ये केचित् पृथिविनिश्रिता //
यत्रायं वृषला कुब्जा मम इच्छति घातितुं //
अलं महाराज कुब्जाये एषा एव मे देवी भवतु एषा मे उपस्थास्यति एषा परिचरिष्यति / मा भवां मम स्त्रियं प्रवारयित्वा अनुतप्याहि / अथ तव मिथ्यायाचनां करोसीति आमन्त्रेमि गच्छामि // राजा आह // नाहं ब्राह्मण मिथ्यायाचनां करोमि नापि दत्त्वा अनुतप्यामि / अपि त्वं जीर्णो वृद्धो महल्लको इयं च देवी तरुणी सुकुमारा तं ते न इच्छति / यदि त्वं तरुणो भवेया तं एषा देवी उत्कण्ठेया अपि तु नाहं मिथ्यायाचनां करोमि गच्छ गृह्य अलिन्दां देवीं नेहि यत्रेच्छसि // सो दानि ब्राह्मणो राज्ञो इक्ष्वाकुस्य प्रतिश्रुत्वा हृष्टः तुष्टः प्रीतो संवृत्तो // अलिन्दां देवीम् आलिंग्य ततः प्रवेशं प्रवेशयन्तो तस्या एव उपरि प्रपतितो स्त्रीसहस्रेहि अट्टहासो मुक्तो / देवीये कल्याणो अनुरूपः पुरुषो लब्धः // अलिन्दापि देवी अश्रुकण्ठा रुदन्मुखी प्रलपन्ती ब्राह्मणेन हस्ते गृह्य आकड्ढति कट्टीक्रियति इतो च इतो च लग्गति / उच्छ्वसन्तेन प्रश्वसन्तेन अश्रूहि वहन्तेहि आलापेन गलन्ती प्रदेशे देशे ओमूत्रेन्तेन सुसंगृहीतां कृत्वा अनालम्बन्ती राजगृहातो कट्टीयमानी निक्कासिता विकलीभूता च संवृत्ता //
___तेन ब्राह्मणेन नगरस्य अनुप्राकारं दरिद्रग्रामे वंकजर्जरशालां निर्मिणित्वा जर्जरमंचे तृणपलाशं प्रज्ञपितं खण्डघटकं दकस्य स्थापितं // तत्र अलिन्दा देवी प्रवेशिता वस्त्रेहि नष्टप्रणष्टेहि आभरणेहि लुग्नप्रलुग्नेहि शेषावशेषेहि न कदाचित्
[_mvu_2.430_] पादेहि भूमिं स्पृष्ट्वा पादुकाहि भ्रष्टाहि अनामुक्तेहि पादेहि क्षतविक्षतेहि // ततो सो ब्राह्मणो तत्र जर्जरशालामध्ये निषीदित्वा आह // भद्रे सुनिवस्ता भवित्वा पादानि मे धोवाहि स्वकानि च पादानि धोवाहि ततो रमाहि वरन् ते रमितो अहं सुष्ठु भद्रे रामेहि सम्यक्* मां भद्रे रमापेहि मे भद्रे रमापेहि ललितेन मे भद्रे रमापेहि // एवं दानि सा देविये सर्वरात्री एवं मे रामेहि एवं मे रामेहि उत्थापेहि संविशापेहि संविशापेहि त्ति गता रात्रिये प्रभाताये अरुणोद्गमनकालसमये ततो शक्रो स्वरूपेण स्थितो अंगदकुण्डलदिव्यशरीरधारो उदारेण वर्णेनोभासयित्वा वरविमलकुण्डलधरो देवराजा भवित्वा स्वयंप्रभा ओसृष्टा वर्णेन सर्वशाला सामन्तेन ओभासिता // सा दानि अलिन्दा देवी शक्रं देवानाम् इन्द्रं स्वरूपेण दृष्ट्वा रागेन मूर्छिता / किं मया कृतं यम् एतेन सार्धं न रमितं ति // शक्रो देवानाम् इन्द्रो अलिन्दां देवीं वरेण प्रवारयति //
शक्रो स्मि देवानाम् इन्द्रो त्रायस्त्रिंशान ईश्वरो //
वरं वरेहि मे भद्रे यं किंचित्* मनसेच्छसि //
सा दानि अलिन्दा देवी शक्रस्य देवानाम् इन्द्रस्य प्रांजलिं कृत्वा एतद् उवाच // शक्रो मे वरेण वारेति एवं वदेमि पुत्रो मे वरो ति // तस्या दानि इन्द्रेण भैषज्यगुडिका दिन्ना / इमां गुडिकां उदकेन विलोलयित्वा पिबाहि ततः ते पुत्रो भविष्यति सिंहसदृशो बलवां परसैन्यप्रमर्दनो / उत्साहेनास्य लोके समसमो न भविष्यति / अपि तु वर्णेन रूपेण पापको भविष्यति यन् ते अहं न हृष्टाय उपस्थितो // इन्द्रो
[_mvu_2.431_] दानि अलिन्दाये देवीये वरं दत्त्वा जर्जरशालाम् अन्तर्हापयित्वा त्रायस्त्रिंशदेवनिकाये प्रत्यस्थासि //
___सा दानि अलिन्दा देवी तां भैषज्यगुडिकां अंशुकस्य कोणे बन्धित्वा राजकुलं प्रविष्टा पद्मवर्णेन मुखेन परिशुद्धेहि इन्द्रियेहि / एवं विस्तीर्ण अन्तःपुरे मम पुत्रो भविष्यति // सा दानि अलिन्दा देवी रज्ञा इक्ष्वाकुना दूरतो एव द्वारशालायां प्रविशन्ती दृष्टा पद्मवर्णेन मुखेन परिशुद्धेहि इन्द्रियेहि / राजा दानि देवीं पृच्छति // पद्मवर्णो ते मुखो परिशुद्धानीन्द्रियाणि सुखं रात्रिं शयिताये क्रीडारती वा अनुभूता किंचित् ते उदारो कल्याणो लब्धो ति // सा दानि देवी आह // महाराज कुतो मे शायिताये सुखं क्रीडारतिर् वा अनुभूता / शक्रो सो देवानाम् इन्द्रो सो ब्राह्मणवेषं निर्मिणित्वा इहागतो / ततः मे सर्वरात्रि उत्थापेहि संवेशेहि गता प्रभातायां रात्र्यां अरुणोद्धाटकालसमये तं ब्राह्मणवेशम् अन्तर्धापयित्वा इन्द्रः स्वरूपेण स्थितः सर्वां च दिशां वर्णेनावभासयित्वा अहं वरं प्रवारिता वरं वरेहि भद्रे / शक्रो स्मि देवानाम् इन्द्रो त्रायस्त्रिंशान ईश्वरो //
वरं वरेहि मे भद्रे यन् तुवं मनसेच्छसि //
तत्र महाराज पुत्रवरो याचितः पुत्रं मे वरं देहि // तेन शक्रेण मम भैषज्यगुडिका दिन्ना इमां गुडिकां उदकेन विलोलयित्वा पिबाहि ततो पुत्रो भविष्यति सिंहासनपीठो बलवां परसैन्यमर्दको उत्साहेन से लोके समसमो न भविष्यति अपि तु वर्णरूपेण पापको भविष्यति यं ते अहं न हृष्टतुष्टाये उपस्थितो // सो दानि राजा
[_mvu_2.432_] श्रुत्वा देवीये रुष्टो // या दानि त्वं मया अनुज्ञाता किम् अस्य त्वया न हृष्टतुष्टाये उपस्थितो // तेन दानि राज्ञा देवीये बैषज्यगुडिका रोषेण आछिन्ना // सो दानि राजा बैषज्यगुडिकां शिलायां निघृषयित्वा उदकेन विलोलयित्वा पंचानां मानविकानां देवीशतानां कुशाग्रेण पिबनाये दिन्ना / सापि अलिन्दा देवी ततो भैषज्यगुडिकातो पिबनाये न लभति मा देवी पापकं पुत्रं जनयिष्यति // सा दानि अलिन्दा देवी चेटीनां पृच्छति // कहिं सा भैषज्यगुडिका कृता // चेटीयो आह // देवी तव सा बैषज्यगुडिका राज्ञा गृह्णीत्वा निषदायां निघर्षयित्वा पंचानां मानविकानां देवीशतानां पिबनाये दिन्ना // देवी पृच्छति // कतमाये निषदाये सा बैषज्यगुडिका ओघृष्टा ति // चेटी आह // इमाए देवि निषदाय सा भैषज्यगुडिका ओघृष्टा // सा दानि देवी निषदाय उदकविन्दुं कृत्वा कुशाग्रेण जिह्वाग्रं कृत्वा अभ्यवहृतं / ताये अपि देवीये कुक्षिः प्रतिलब्धो / एवं दानि पंच देवीशतानि कुक्षिमन्तानि संवृत्तानि //
___तानि दानि पंच देवीशतानि नवानां वा दशानां वा मासानाम् अत्ययेन प्रसूतानि / एकूनपंचकुमारशता जाता प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाये शुभाये वर्णपुष्कलताये समन्वागता / अलिन्दाये पि देवीये पुत्रो जातो दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादः महोदरो कालो मषिराशिवर्णो // ते दानि वर्षवरा कंचुकीया च राज्ञो निवेदयन्ति // महाराज एकूना पंचशता देवी प्रसूता एकूना पंच कुमारशता जाता प्रासादिका दर्शनीया अलिन्दाये देवीये पुत्रो जातो दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादो कालो मषिराशिवर्णो //
[_mvu_2.433_] श्रुत्वा पुनः राजा इक्ष्वाकुः रुष्टो दौर्मनस्यजातो संवृत्तो / यं मया देवीये गुडिका पिबनाये न दिन्ना मा सा पुत्रं जनयिष्यतीति तत् कुतो देवीये एदृशो पुत्रो जातो // वर्षवरा कंचुकीया आह // महाराज यत्र देवेन निषदाय सा भैषज्यगुडिका निघृष्टा तत्र ताये निषदाये देवी उदकविन्दुं कृत्वा कुशाग्रेण जिह्वाग्रेण अभ्यवहृतं ततो देवीये पुत्रो जातो // राजा आह // मा मे कदाचिद् देवीये पुत्रो अग्रतो तिष्ठतु न इच्छामि एदृशं द्रष्टुं // सो दानि इक्ष्वाकुः तेषां पंचानां कुमारशतानां एकूनकानां वर्णरूपं श्रुत्वा प्रहृष्टतुष्टो / तेषां रूपवन्तानां कुमाराणां अलिन्दाये पुत्रं स्थापयित्वा सप्ताहं रमणीयानि जातकर्माणि क्रियन्ति श्रमणब्राह्मणकृपणवनीपकेषु अन्यस्य जनस्य विश्राणेति अन्नं पानं खाद्यं भोज्यं वस्त्रं गन्धं माल्यं विलेपनं तैलप्रणालिका प्रवाहिता घृतप्रणालिका च नानाप्रकारा पानप्रणालोका प्रवाहिता // एकमेकस्य कुमारस्य चत्वारो धात्रियो उपस्थापितायो / कुमारस्य अन्या उद्वर्तेति सुपेति अन्या उच्चारप्रस्रावम् अपकर्षति अन्या स्तनं देति अन्या उत्संगेन धारयति // अलिन्दाये देवीये पुत्रे धात्रियो न दिन्ना / ततो अलिन्दाये देवीये स्वका उपस्थायिका दिन्ना // एवं दानि ते कुमारा उन्नीयन्ति वर्धियन्ति // ततो राजा इक्ष्वाकुः सर्वेषां तेषां पंचानां कुमारशतानां कुशमिश्राणि नामा कृतानि / कोचि इन्द्रकुशो कोचिद् ब्रह्मकुशो कोचिद् देवकुशो कोचिद् ऋषिकुशो कोचित् कुसुमकुशो कोचि द्रुमकुशो कोचि रत्नकुशो कोचित्* महाकुशो कोचि हंसकुशो कोचि क्रोञ्चकुशो कोचि मयूरकुशो इत्येवमादि सर्वेषां कुशमिश्राणि नामा कृतानि अलिन्दाये देवीये शुद्धं कुशो ति नामं कृतं //
[_mvu_2.434_]___राजा दानि इक्ष्वाकुः सर्वेषां एकूनपंचकुमारशतानां दारकक्रीडापनकानि नानाप्रकाराणि देति देवीये पुत्रस्य कुशस्य क्रीडापनकं न देति / ततः कुशो कुमारो यं वा क्रीडापनकं अभिप्रेतं भवति तेषां भ्रातृणां आच्छिन्दित्वा क्रीडित्वा रमित्वा पुनर् देति // एवं दानि राजा इक्ष्वाकुः तेषां कुमाराणां नानाप्रकाराणि क्रीडायानकानि देति हस्तियानं अश्वयानं नानाप्रकाराणि उदाराणि राजार्हाणि कुशस्य कुमारस्य यानं न देति / कुशो पि कुमारो यं से यानं अभिप्रेतं भवति हस्तियानं वा अश्वयानं वा रथयानं युग्ययानं वा शिविका वा स्यन्दमानिका वा गल्ली वा अर्धगल्ली वा पत्त्रयानं वा आकाशयानं वा तेषां भ्रातृणां आच्छिन्दित्वा वहित्वा व पुनर् देति किम् एतानि रक्षित्वा ति // एवं दानि ते कुमारा विवर्धमाना यं कालं विज्ञप्राप्ता सप्तवर्षा वा अष्टवर्षा व ततो शेखीयन्ति लेखायं पि लिपियं पि संख्यायं पि गणनायं पि मुद्रायं पि धारणीयं पि हस्तिस्मिं पि अश्वस्मिं पि रथस्मिं पि धनुस्मिं पि धाविते जविते प्लविते इष्वस्त्रज्ञाने युद्धे वा नियुद्धे वा छेद्ये वा भेद्ये वा हेठ्ये वा संग्रामशीर्षायां वा राजमायाचारे सर्वत्र निश्चिता गतिगताः // कुशकुमारं न कोचि शिल्पं शिक्षयति स्वकाय बुद्धीय स्वकाय प्रज्ञाय स्वकेन वीर्येण सर्वेषान् तेषां भ्रातृणां अन्यस्य महाजनकायस्य सुशिक्षितः / इष्वस्त्रज्ञाने सुशिक्षितो सर्वशिल्पायतनेहि अपरापरेहि च सर्वेषां कुशो कुमारो विशिष्यति //
___तस्य दानि राज्ञो इक्ष्वाकुस्यैवं भवति // यं नुनाहं इमां पंच कुमारशतां मीमांसेयं को इमेषां ममात्ययेन राजा भविष्यति // तेन दानि राज्ञा इक्ष्वाकुना
[_mvu_2.435_] पंच मोदकशता कारापिता एको मोदको महान्तो तेषां मोदकानां मध्ये स्थापितो अपरेहि मोदकेहि ओछादितो यो एतं महान्तं मोदकं गृह्णीष्यति तम् अहं ज्ञास्यामि एषो ममात्ययेन राजा भविष्यति // सो दानि राजा इक्ष्वाकुः तं मोदकराशिं कृत्वा पंच कुमारशतां शब्दापयित्वा आमन्त्रयति / शीघ्रं त्रिहि तालेहि मोदकराशितो एकमेकं मोदकं गृह्णथ // ते दानि कुमारा सर्वे प्रथमं पि धाविता पश्चात् कुमारो प्रधावितो / सो कुमारो सर्वेषां भ्रातृणां वामदक्षिणेन हस्तेन अवगूहित्वा तं महान्तं मोदकं गृहीतं // तस्य राज्ञो इक्ष्वाकुस्य एवं भवति // एषो कुशो कुमारो ममात्ययेन राजा भविष्यति / एषो च दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादो महोदरो कालो मषिराशिवर्णो अप्रियो पर्तिकूलो दर्शनाये / को एतं राजं धारयिष्यति / यं नूनाहं द्वितीयं पि इमां कुमारां जिज्ञासेयं / आहारदेशकाले इमे कुमारा संमुखं परिवेशापयिष्यं / यो एतेषं प्रथमं भोजनं प्रतीछिष्यति अहं ज्ञास्यामि एषो ममात्ययेन राजा भविष्यति // सो दानि राजा इक्ष्वाकुः आहारदेशकाले तां पंच कुमारशतां शब्दापयित्वा पुरतो निषीदापयित्वा भोजनं अल्लीपयति / ते पि कुमारा भोजनं प्रतिपालेन्ति / सो कुशो कुमारो तं भोजनं भूमिये प्रतीछति यत्तकेन स भोजनेन अभिप्रायो तं भूमीयं ओदनस्य राशिं करोति / तत्रैव उपरि व्यंजनानि पर्तीछति पृथिवीनिश्रितं भुंजति // तस्य दानि राज्ञो इक्ष्वाकुस्य एवं भवति // एषो कुशो कुमारो ममात्ययेन राजा भविष्यति पृथिवीश्वरो पृथिवीनिश्रितं परिभुंजति // सो दानि राजा इक्ष्वाकुः अपरेण कालेन पुरोहितं पृच्छति / उपध्याय को इमेषां कुमाराणां ममात्ययेन राजा भविष्यति // पुरोहितो आह // महाराज एषो हि कुशो कुमारो देवस्यात्ययेन राजा भविष्यति / एतस्य राजलक्षणाः // सो दानि राजा इक्ष्वाकुः
[_mvu_2.436_] पुरोहितस्य श्रुत्वा दुःखितो संवृत्तो // को उपायो भवेया यं एषो कुशो कुमारो ममात्ययेन राजा न भवे / यं नूनाहं राजकुले देशे देशे गुह्यप्रदेशेषु महानिधानानि निखनेयं अदृष्टानि केनचि / यो इमा निधानान् ममात्ययेन जानेया बुद्धेया उत्खनयेया सो राजा भवेया अप्य् एवं नाम अन्यो कुमारो राजा भवेया // तेन दानि राज्ञा इक्ष्वाकुना राजकुले देशे देशे गुह्यप्रदेशेषु महानिधानं निखतं अदृष्टं केनचि // सो दानि राजा इक्ष्वाकुः दीर्घस्याध्वनो त्ययेन मरणकालसमये अमात्यान् अनुशासति // भो भणे अमात्या यो इमेषां पंचानां कुमारशतानां ममात्ययेन इमानि निधानानि व जानेया बुद्धेया उत्खनयेया तं राज्येन अभिषिंचथ / अन्ते निधिः वहिर् निधिः न चान्ते न वहिर् निधिः चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः समुद्रे निधिः सागरे निधिः योजने निधिः मोचने निधिः वृक्षाग्रे निधिः पर्वते निधिः यतो च वैरोचनो अभ्युदेति ततः निधिः प्रभंकरादित्यं यत्रास्तमेति तत्र निधिः यत्र देवा महीयन्ति तत्रापि निहतो निधिः यो अमात्याहो इमां कुमारो निधानां जानाति उत्खनापेति अनाचिक्षितो तं राज्येनाभिषिंचथ / सो व राजा भविष्यति // सो दानि राजा इक्ष्वाकुः एवम् अमात्यान् अनुशासित्वा कालधर्मेण संयुक्तो कालगतो //
___ते दानि पंच कुमारशता पितुः कालगतस्य राज्यहेतोः अन्यमन्यं विवदित्वा अहं राजा अहं राजेति न चान्यमन्यं विहंसन्ति धार्मिकत्वात् // तदा अमात्या कुमाराणां जल्पन्ति // कुमाराहो मा विवदथ / तेषां वो राज्ञो इक्ष्वाकुस्य आणत्तिका
[_mvu_2.437_] अस्ति / पितरि मरणकालसमये संदेशो दिन्नः यो पितरि संदेशं जानिष्यति सो राजा भविष्यति // कुमारा आहुः // अमात्याहो एवं तु यथास्माकं पितरि संदेशो दिन्नो आख्यायथ // ते दानि अमात्या पंचानां कुमारशतानां पुरतः तं राज्ञो इक्ष्वाकुस्य संदेशं परिकीर्तेन्ति / अन्ते निधिः वहिर् निधिः नैवान्ते न वहिर् निधिश् चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः समुद्रे निधिः सागरे निधिः योजने निधिः मोचने निधिः वृक्षाग्रे निधिः पर्वताग्रे निधिः यत्र च वैरोचनो अभ्युदेति ततो निधिः प्रभंकरादित्यं यत्रास्तमेति तत्र निधिः यत्र देवा महीयन्ति तत्रापि निहितो निधिः / कुमाराहो इमं वो पितरेण इक्ष्वाकुना संदेशो दिन्नः यो युष्माकं इमान् निधाना निक्षिप्तां जानिष्यति उत्खनयिष्यति सो व राजा भविष्यति // एकूनपंचकुमारशता निधानान् कीर्तियमानान् न जानन्ति न बुध्यन्ति कुशो महाबुद्धिर् महामीमान्सको सर्वं अर्थं उपगतो परिशुद्धो // सो दानि आह // अहम् एतं पितरि वचनं तत्र भो निवेदयिष्यामि // ये युष्माभिर् निधाना परिकीर्तितास् तान् सर्वान् उत्खनापयिष्यं // यं तातेन वुत्तं अन्ते निधिः अभ्यन्तरं राजकुलद्वारे देहलाय अभ्यन्तरतो निहितो निधिः // तं प्रदेशं अमात्यहि उत्खनापितं महानिधानं // यन् तातेन वुत्तं वहिर् निधिस् तस्यैव देहलाय वाह्यतो निहितो निधिः / तं पि महानिधानं कुमारेण उत्खनापितं // यन् तातेन वुत्तं नैवान्ते न वहिर् निधीति तं मध्यमद्वारे देहलाये हेष्ठतो निहितो निधिः / तं पि कुमारेण महानिधानं
[_mvu_2.438_] उत्खनापितं // यन् तातेन वुत्तं चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः यत्र राज्ञो इक्ष्वाकुस्य पर्यंको शालमयो सुवर्णपादेहि ओनद्धः शय्यां कल्पयति तेषां पर्यंकपादानां हेष्ठतो चतुरो निधिः ते पि कुमारेण महानिधाना उत्खनापिता // यन् तातेन वुत्तं समुद्रे निधिन् ति या राजक्य-अशोकवणिकायां क्रीडापुष्किरिणी तत्रापि निहितो निधिः / तत्रापि कुमारेण क्रीडापुष्किरिणिकातो उक्कड्ढापितो // यन् तातेन वुत्तं सागरनिधिं ति यत्र राज्ञो इक्ष्वाकुस्य स्नापनशालाये उदुपानं तत्रापि निहितो निधिः / तं कुमारेण उदुपानातो महानिधानं उत्खनापितं // यन् तातेन वुत्तं योजने निधिन् ति यस्मिं प्रदेशे राज्ञो इक्ष्वाकुस्य यानं युज्यति हस्तियानं वा अश्वयानं वा युग्ययानं वा तं पि कुमारेण महानिधानं उत्खनापितं // यन् तातेन वुत्तं मोचने निधिन् ति यत्र अभिरक्षणप्रदेशे राज्ञो इक्ष्वाकुस्य यानं मुच्चति हस्तियानं वा अश्वयानं वा युग्ययानं वा तत्रापि निहितो निधिः / तं कुमारेण महानिधानं उत्खनापितं // यन् तातेन वुत्तं वृक्षाग्रे निधिन् ति यत्र राज्ञो इक्ष्वाकुस्य दर्शनशालायां महावृक्षं तस्य सूर्येण उदयन्तेन यत्र अग्रच्छाया निपतति अस्तमितेनापि सूर्येण यत्र चरिमा छाया निपतिता तत्रापि निहितो निधिः / ते पि कुमारेण द्वे महानिधाना उत्खनापिता // यं तातेन वुत्तं पर्वते निधिन् ति यत्र शिलापट्टे राज्ञो इक्ष्वाकुस्य शीर्षस्नानं वर्णनं च विलेपनं च पिष्यति तत्र हेठतो निहितो निधिः / तं पि कुमारेण महानिधानं उत्खनापितं // यन् तातेन वुत्तं यत्र वैरोचनो भ्युदेति निधिन् ति यत्र तातो इक्ष्वाकु इक्षुणा जातो तत्रापि निहितो
[_mvu_2.439_] निधि / तं पि कुमारेण महानिधानं उत्खनापितं // यं पि तातेन वुत्तं यत्र प्रभंकरादित्य अस्तमेति तत्र निहितो निधि त्ति यत्र इक्ष्वाकु कालगतो तत्रापि निहितो निधिः / तं पि कुमारेण महानिधानं उत्खनापितं // यं तातेन वुत्तं यत्र देवा महीयन्ति तत्रापि निहितो निधिः यत्र राज्ञा इक्ष्वाकुना पंच कुमारशता परिविषापिता तत्रापि निहितो निधिः / तं पि कुमारेण महानिधानम् उत्खनापितं // एवं तेन कुशेन कुमारेण तानि निधानानि उत्खनापियमानानि अमात्या च कुमारा च पुरोहिता च ब्राह्मणराजाचार्या च भटबलाग्रा च नैगमजनपदा च सर्वे कुशस्य कुमारस्य तत्र निधानेषु उत्खनापियमानेषु विस्मयम् आपन्ना / अहो कुशस्य कुमारस्य महाबुद्धि महामीमान्सा यत्र दानि राज्ञो इक्ष्वाकुस्य राजकुले देशे देशे महानिधानं निहितं तं सर्वं कुशेन ज्ञातं सर्वं उत्खनापितं / एषो राजा भविष्यति //
___तेषां दानि अमात्यानां एवं भवति / मा हैव तावत् कुशेन कुमारेण अन्येषां सकाशातो श्रुतं भविष्यति भूयो भूयो अन्येनार्थेन जिज्ञासेम // ते दानि कुमाराणां अमात्या जल्पन्ति // कुमारा यो युष्माकं सर्वां देवान् वन्दित्वा प्रथमं सिंहासने उपविशिष्यति सो राजा भविष्यति // ते दानि एकूनपंचकुमारशता नानाप्रकाराणि यानानि अभिरुहित्वा शीघ्रं शीघ्रं त्वरमानरूपा येन देवकुला तेन देववन्दका प्रधावन्ति // सो पि कुशो कुमारो येन सर्वसौवर्णं अभिषेचनीयसिंहासनं तेनोपसंक्रमित्वा चतुर्दिशं देवानां अंजलिं कृत्वा पूर्वराजचित्तीकरेण च तं सिंहासनं प्रदक्षिणीकृत्वा उपविष्टः // सो हि कुशो कुमारेहि अमात्येहि भटबलाग्रेहि
[_mvu_2.440_] च नैगमजनपदेहि च अयं पण्डितो ति कृत्वा राज्ये भिषिक्तो सर्वेहि षष्टीहि नगरसहस्रेहि निगमजनपदेहि राजामत्येहि कुमारेहि च अभ्यर्चितो एषः राजा ति // एवं दानि कुशो कुमारो राज्यं प्राप्तो //
___सो दानि राजा कुशो यं कालं राज्यं प्राप्तः ततो मातरं अलिन्दां देवीम् अभिवादयित्वा सत्कृत्वा गुरुकृत्वा मानेत्वा पूजेत्वा एवं दानि राजा कुशो चिरं कालं धर्मेण राज्यं कारापयित्वा अपरेण कालेन तां देवीम् अलिन्दां मातरं विज्ञपेति अम्बे भार्या मे अग्रमहिषीम् आनेहि प्रासादिकां दर्शनीयां यस्या अन्या स्त्री सदृशा न भवेत्* // अलिन्दा देवी आह // पुत्र को ते पापकस्य रूपेण प्रासादिकां दर्शनीयां भार्यां दास्यति / पापिकां एव रूपेण भार्यां आनयिष्यामि या ते उल्लासं न करिष्यति // राजा कुशो आह // अम्बे यदि पापिकां मे भार्यां आनयिष्यसि न ताम् अहं पापिकां भार्यां पादेन वा पाणिना वा स्पृशेयं / प्रासादिकां दर्शनीयां मे भार्यां आनेहि / न मे अम्बे श्रुतं वा दृष्टं वा राजा पापिको ति नापि राजा पापिकाये स्त्रियाये सार्धं अभिरमति शोभनां व मे भार्यां अम्बे आनेहि // अलिन्दा देवी आह // पुत्र सुखं जायापतिका अन्योन्यसमलक्षणा संवसन्ति न चान्यमन्यं अभिमन्यन्ति / कल्याणरूपा भार्या रूपेण पतिं अभिमन्यति / कल्याणरूपो पतिः पापरूपाये भार्याये अभिमन्यति // यादृशा ते पुत्र भार्या योग्या तादृशान् ते भार्यां आनयिष्यामि पापिकां रूपेण या ते पुत्र नाभिमन्यिष्यति // राजा कुशो आह // अम्बे न मे पापिकाये भार्याये कार्यं / असदृशां मे रूपेण भार्याम् आनेहि // अलिन्दा देवी आह // पुत्र को ते पापकस्य रूपेण कल्याणरूपां भार्यान् दास्यति // कुशो राजा आह // अम्बे दूरातो मे अर्थहिरण्यसुवर्णेन व्ययकर्मेण कल्याणरूपां भार्यां आनेहि //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
