Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 13/24

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

महावस्तु-अवादन

Thông tin
GRETIL — Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

सर्वे प्रदक्षिणावर्ता एदृशा भोन्ति पुद्गला / यथा व्रजसि सिंहो व अद्य बुद्धो भविष्यसि //

शैलोपमं अप्रकम्प्यं समाधिं च जिनोपमं /

[_mvu_2.308_] बोधिमण्डे स्थिहित्वान दृढवीर्यः समारभे //

स तस्य वचनं श्रुत्वा कालनागस्य भाषितं / तुष्टो उदग्रसुमनो बोधिमूलम् उपागमे //

श्रुत्वान अतुलं घोषं कालनागो महाबलो / बोधिसत्वस्य वेगेन भवनातो समुद्गतो //

अंजलीं प्रगृहीत्वान दशपूर्णांगुलीन् तथा / अभिस्तवे बुद्धवीरं बोधिमण्डं व्रजन्तकं //

यथा मृदु इमे वाता वायिष्यन्ति सुखं सदा / सुरभिमनोज्ञगन्धा नात्युष्णा नातिशीतलाः //

यथा च कुसुमवृष्टिं प्रवर्षेन्सु इमं देवता / सुगत तव रहत्वं भेष्यति द्विपदोत्तम //

प्रदक्षिणावर्तो मार्ष तुष्टो हृष्टो प्रमोदितो / प्रीतिमना उदग्रो च सुखंमुञ्चो पि निष्क्रम //

यथापि तूर्यसहस्रं संप्रघुष्टं उपरि नभस्मि स्फुटं देवताहि / हृष्टप्रमुदितचित्तवेगजातो भविष्यसि बुद्धो विशिष्टो सर्वलोके //

यथा च प्रभा न भायि अन्य काचिद् उपरिविमाना कृता च जिह्मवर्णाः / यथा प्रचलते भूमि षड्विकारं भविष्यसि अद्य अतुल्यो दक्षिणेयो //

यथ च भ्रामयन्त्य् अंबराणि भीष्मं मारगणं भंजित्व हृष्टचित्ता / छत्रध्वजपताका च धारयन्ति भविष्यसि बुद्धो न मह्य अस्ति कांक्षा //

[_mvu_2.309_] यथा च मधुरं दुन्दुभी नदन्ति गगनतलं स्फुटं सर्वम् अम्बरेहि / यथा च कुसुमा वर्षे देवसंघो भविष्यसि लोके सदेवको स्वयंभूः //

यथा च करिय अंजलिं नभस्मिं अभिस्तवे देवसहस्र हृष्टचित्ता / कनकप्रभो विशिष्टो दक्षिणेयो भविष्यसि बुद्धो नराण अग्नवादी //

अथ खलु बोधिसत्वो येन वृक्षमूलं तेनोपसंक्रमित्वा तेन खलु पुनः समयेन सर्वावन्तो बोधिमण्डो ओसक्तपट्टदामकलापो अभूषि / उच्छ्रितध्वजपताको छत्रकोटिसमलंकृतो रत्नसूत्रविचित्रितो धूपितधूपनो रतनवृक्षपरिवृतो चीवरसंस्तृतसंस्तृतो चन्दनचूर्ण-अध्योकीर्णो रत्नोघविचित्रो // तेन खलु पुनः समयेन अनेकानि देवशतसहस्राणि उपरि अन्तरीक्षे प्रतिस्थिहित्वा धूपनपरिगृहीता बोधिसत्वं नमस्यन्ति / छत्रध्वजपताकपरिगृहीता बोधिसत्वं नमस्यन्ति / दिव्य-उत्पलपदुमकुमुदपुण्डरीकपरिगृहीता नमस्यन्ति बोधिसत्वं / दिव्यचन्दनचूर्णपरिगृहीता बोधिसत्वं नमस्यन्ति / दिव्यरत्नचूर्णपरिगृहीता दिव्यरत्नपुष्पपरिगृहीता अनिमिषं प्रेक्षमाणा बोधिसत्वं नमस्यन्ति // तस्य अन्या देवता सुवर्णमयं बोधिवृक्षं संजानन्ति / यथा स्वकाये अधिमुक्तीये अन्ये देवा रूप्यमयं बोधिवृक्षं संजानन्ति / अन्ये देवा वैडूर्यमयं बोधिवृक्षं संजानन्ति / अन्ये देवा स्फटिकमयं बोधिवृक्षं संजानन्ति / अन्ये देवा अस्मगर्भमयं बोधिवृक्षं संजानन्ति / अन्ये देवा सप्तरत्नमयं बोधिवृक्षं संजानन्ति / अन्ये देवा शतसहस्ररत्नमयं बोधिवृक्षं संजानन्ति / यथापीदं स्वकस्वकाये अधिमुक्तीये अन्ये देवा लोहितचन्दनस्य बोधिवृक्षं संजानन्ति / अन्ये देवा अगुरुचन्दनस्य बोधिवृक्षं संजानन्ति / अन्ये देवा

[_mvu_2.310_] परस्परस्य वाञ्छितरत्नमयं बोधिवृक्षं संजानन्ति / अन्ये देवा पीतचन्दनस्य बोधिवृक्षं संजानन्ति / अन्ये देवा सिंहचन्दनस्य बोधिवृक्षं संजानन्ति / अन्ये देवा रसचन्दनस्य बोधिवृक्षं संजानन्ति // यथापीदं स्वकस्वकाये अधिमुक्तीये अन्ये देवा गिरिसारचन्दनस्य बोधिवृक्षं संजानन्ति / अन्ये देवा दिव्य-अगुरुचन्दनस्य बोधिवृक्षं संजानन्ति / अन्ये देवा मणिरत्नामयं बोधिवृक्षं संजानन्ति / अन्ये देवा सर्वरत्नालंकृतं बोधिवृक्षं संजानन्ति / अन्ये देवा मणिरत्नविचित्रितं बोधिवृक्षं संजानन्ति / अन्ये देवा दिव्यनीलवैडूर्यालंकृतं बोधिवृक्षं संजानन्ति / अन्ये देवा मुसारगल्वमणिविचित्रितं बोधिवृक्षं संजानन्ति / अन्ये देवा अस्मगर्भमणिरतनविचित्रितं बोधिवृक्षं संजानन्ति / अन्ये देवा हस्तिगर्भमणिरतनविचित्रितं बोधिवृक्षं संजानन्ति / अन्ये देवा . . . . . मणिरतनविचित्रं बोधिवृक्षं संजानन्ति / अन्ये देवाः सुप्रभासमणिरतनविचित्रितं बोधिवृक्षं संजानन्ति / अन्ये देवा अमृताश्मगर्भेहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति / अन्ये देवा समन्तचन्द्रेहि समलंकृतं बोधिवृक्षं संजानन्ति / अन्ये देवास् सुचन्द्रेहि समलंकृतं बोधिवृक्षं संजानन्ति / अन्ये देवास् सूर्योभासेहि समलंकृतं बोधिवृक्षं संजानन्ति / अन्ये देवाः स्फटिकविचित्रं अन्ये देवाः सूर्यविक्रान्तेहि समलंकृतं / अन्ये देवाश् चन्द्रोभासेहि समलंकृतं / अन्ये देवा ज्योतिप्रभासेहि समलंकृतं / अन्ये देवा विद्युप्रभासेहि समलंकृतं / अन्ये देवाः समन्तालोकेहि मणिरत्नेहि समलंकृतं / अन्ये देवा मुक्ताप्रभेहि मणिरत्नेहि समलंकृतं / अन्ये देवा अप्रतिहतप्रभेहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति / अन्ये देवा रतनसमुच्छ्रयसमलंकृतं / अन्ये देवाः सर्वलोकाग्रभूतेहि मणिरतनेहि समलंकृतं / अन्ये देवाः शक्राभिलग्नेहि मणिरतनेहि समलंकृतं / अन्ये देवा रत्नपत्रेहि समलंकृतं /

[_mvu_2.311_] अन्ये देवा उरगगर्भमणिरतनेहि समलंकृतं / अन्ये चन्दनप्रभेहि समलंकृतं / अन्ये लोहिताक्षेहि समलंकृतं / अन्ये गजपतीहि मणिरतनेहि समलंकृतं / अन्ये महेश्वरदत्तेहि मणिरतनेहि समलंकृतं / अन्ये रसकेहि समलंकृतं / अन्ये गोमेदकेहि मणिरतनेहि समलंकृतं / अन्ये देवा शशेहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति / अन्ये लालाटिकेहि मणिरतनेहि समलंकृतं / अन्ये शिरिगर्भेहि मणिरतनेहि अन्ये तालिकेहि मणीहि एतेहि च अन्येहि च दिव्येहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति //

___येषां देवानां ततोनिदानं कुशलमूलो परिपच्चिष्यति अनुत्तराये सम्यक्संबुद्धाये ते यथाकुशलमूलेहि बोधिवृक्षं संजानेन्सुः / नीलमुक्ताहारेहि लोहितमुक्ताहारेहि श्वेतमुक्ताहारेहि कण्ठनिष्केहि सुवर्णसूत्रेहि कुण्डलेहि मुद्रिकाहि परिहारकेहि वलयकेहि नूपुरेहि वेष्टनकेहि मुद्राहस्तकेहि आवापकेहि रतनदामकेहि पट्टदामकेहि पुष्पदामकेहि सुवर्णकेयूरेहि रत्नहारेहि रुचकहारेहि मन्दारवदामेहि हंसदामेहि सिंहलताहि वजिराकारेहि स्वस्तिकेहि एतेहि चान्येहि च दिव्येहि आभरणेहि समलंकृतं बोधिवृक्षं संजानेन्सुः // येषां बोधिवृक्षं पश्यित्वा कुशलमूलानि जायन्ति ते देवाः स्वलंकृतं बोधिवृक्षं संजानन्ति / अन्ये एतेहि चान्येहि च यथापरिकीर्तितेहि अलंकारेहि बोधिवृक्षं समलंकृतं संजानन्ति // तत्र केचिद् देवा योजनं उच्चत्वेन बोधिवृक्षं संजानन्ति / अन्ये देवाः पंचयोजनम् उच्चत्वेन // अन्ये दशयोजनम् उच्चत्वेन //

[_mvu_2.312_] अन्ये विंशयोजनम् उच्चत्वेन / अन्ये त्रिंशयोजनम् उच्चत्वेन / अन्ये चत्वारिंशयोजनम् उच्चत्वेन / अन्ये देवा पंचाशद्योजनम् उच्चत्वेन बोधिवृक्षं संजानन्ति / अन्ये योजनशतम् उच्चत्वेन बोधिवृक्षं संजानन्ति / यथास्वकस्वकेन ज्ञानेन बोधिवृक्षम् उच्चत्वेन संजानन्ति // सन्ति देवा योजनसहस्रम् उच्चत्वेन बोधिवृक्षं संजानन्ति / सन्ति देवा दीर्घायुष्का पुरिमजिनकृताधिकारा योजनशतसहस्रम् उच्चत्वेन बोधिवृक्षं संजानन्ति / सन्ति देवपुत्रा अभिसंजातकुशलमूलनिर्याता यावद् भवाग्रम् उच्चत्वेन बोधिवृक्षं संजानन्ति // तत्र केचिद् देवा सर्वरतननिर्यूहं सिंहासनं बोधिवृक्षमूले अद्दशेन्सुः / दिव्यं बहुयोजनम् उच्चत्वेन दिव्यदुष्यसंस्तृतं रतनजालसंछन्नं किङ्किनीजालसमलंकृतं / अन्ये देवा योजनशतसहस्रम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा योजनसहस्रम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा अड्ढतिययोजनशतानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा द्वे योजनशतानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा योजनशतम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा पंचाशद्योजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा चत्वारिंशयोजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा त्रिंशद्योजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा विंशद्योजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा दशयोजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा चतुर्योजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा त्रियोजनम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा द्वियोजनानि

[_mvu_2.313_] उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा योजनम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा त्रिक्रोशम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा द्विक्रोशम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा क्रोशम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा सप्ततालम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा षट्टालम् उच्चत्वेनान्ये देवा पंचतालं अन्ये देवा चतुतालं अन्ये देवा त्रितालं अन्ये देवा द्वितालं अन्ये देवा तालमात्रं बोधिवृक्षस्य मूले सिंहासनम् अद्दशेन्सुः / अन्ये देवा सप्तपौरुषेयम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये देवा षट्पौरुषेयम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः / अन्ये पंचपौरुषेयं अन्ये चतुपौरुषेयं अन्ये त्रिपौरुषेयं अन्ये द्विपौरुषेयं / अन्ये देवा पुरुषमात्रम् उच्चत्वेन बोधिवृक्षस्य मूले सिंहासनम् अद्दशेन्सुः // तत्र ये लूखाधिमुक्तिका सत्वा ते तृणसंस्तरे निषण्णं बोधिसत्वम् अद्दशेन्सुः / तृणसंस्तरे निषीदित्वा बोधिसत्वो अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धिष्यतीति //

___अथ खलु पुन बोधिसत्वः सदेवमानुषासुरस्य लोकस्य पुरतो येन बोधिवृक्षमूलं तेनोपसंक्रमित्वा बोधिवृक्षं त्रिष्कृत्यो प्रदक्षीक्र्त्वा पुरिमका तथागता समनुस्मरन्तो निषीदि पर्यंकम् आभुंजित्वा ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिं प्रतिस्थापयित्वा // तत्र चेवं बोधिवृक्षमूले निषण्णस्य बोधिसत्वस्य मुखमण्डलं भासति तपति विरोचते / सय्यथापि नाम महासाहस्रलोकधातुविस्तृतं सूर्यमण्डलं वा / यस्य तेजेन सर्वावन्ता त्रिसाहस्रमहासाहस्रा लोकधातु जिह्मवर्णा अस्यात्* // सय्यथापि

[_mvu_2.314_] नाम जाम्बूनदस्य बिम्बस्य पुरतो विदग्धस्थूणा काला मसिनिभा न तपति न विरोचति न च भवति प्रभास्वरा एवम् एव बोधिसत्वेन त्रिसाहस्रमहासाहस्रा लोकधातुः तेजेन अभिभूता अभूषि // तत्र ये देवपुत्रा याव अकनिष्ठातो उपरि बोधिसत्वं निषण्णं अद्दशेन्सुः तत्र भूम्या देवा समानं बोधिसत्वं अद्दशेन्सुः // तथा अन्तरीक्षे यावच् चातुर्माहाराजिका देवा त्रायस्त्रिंशा यामा तुषिता निर्माणरति परिनिर्मितवशवर्ति मारभवनातः सिंहासनगतं बोधिसत्वं संजानन्ति // एवं ब्रह्मा देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा महाब्रह्मा देवा आभा देवा आभास्वरा देवा शुभा देवा परीत्तशुभा देवा अप्रमाणशुभा देवा शुभकृत्स्ना देवा बृहत्फला देवा अवृहा देवा अतपा देवा सुदर्शना देवा अकनिष्ठा देवा सिंहासनगतं बोधिसत्वं संजानेन्सुः // ये च त्रिसाहस्रमहासाहस्राये लोकधातूये कुशलमूलसमन्वागता सत्वा पर्यन्तस्थायिनः ते सर्वे सिंहासनगतं बोधिसत्वं संजानेन्सुः // ये अवरुप्तकुशलमूला सत्वा पुरिमजिनकृताधिकारा कामधातुपर्यापन्नाः ते मारं न पश्यन्ति न संजानन्ति बोधिसत्वस्य पूजां करोन्ता बोधिसत्वं नमस्यमानाः बोधिसत्वानुभावेन //

___अथ खलु मारः पापीयां स्वकं बलं ध्यामबलं संजानति सर्वावतीं च त्रिसाहस्रमहासाहस्रां लोकधातुं अभिनतां येन बोधिसत्वो / महासत्वश् च इमं प्रतिसंशिक्षति / न तावद् अहं अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धिष्यामि यावन् न मारं पापीमं सार्धं बलकायेन सन्नद्धम् आगतं पराजिष्यामि मा सत्वानाम् एवं भवेया अनाश्चर्यम् एतं यं बोधिप्राप्तेन मारो निगृहीतः स्वकं च स्थामं ऋद्धिप्रातिहार्येण बोधिसत्वः सदेवकस्य

[_mvu_2.315_] लोकस्य पुरतो उपदर्शितुकामः एवं दृढस्थामवेग-ऋद्धिप्राप्तो बोधिसत्व इति च मम च अनुशिक्षित्वा अनुत्तराये सम्यक्संबोधिये चित्तम् उत्पादयिष्यन्ति // अथ खलु मारो पापीमां दुःखी दुर्मनो शोकशल्यविद्धः प्रतिराजसंज्ञां बोधिसत्वे उपस्थापेत्वा चतुरंगिनीं मारसेनां उद्योजयित्वा बहुयोजनशतां हरित्वा येन बोधिवृक्षमूलं तेनोपसंक्रमि बोधिसत्वं पश्यिष्यामो ति // सो न प्रभवति बोधिसत्वं द्रष्टुं चक्षुविभ्रमम् अनुप्राप्तः सचेद् बोधिसत्वो मुखवाटम् ओसिरेया येन स्थामेन बोधिसत्वो समन्वागतो अभूषि / सचेद् अयं त्रिसाहस्रमहासाहस्रो लोकधातुर् वज्रमयो महापर्वतः अभविष्यत् तां लोकधातुं बोधिसत्वः परमाणुरजसदृशीं विधूनित्वा असंख्येया लोकधातुयो अभ्युत्क्षिपेया न च एको पि परमाणुरजो द्वितीयेन परमाणुरजेन सार्धं समये // बोधिसत्वो च ततो मारपरिषाये बहूं सत्वां कुशलमूलान् अद्राक्षीत्* ये इमं बोधिसत्वस्य एवंरूपं ऋद्धिप्रातिहार्यं दृष्ट्वा अनुत्तराये सम्यक्संबोधाय चित्तम् उत्पादयिष्यन्तीति // एतम् अर्थपदं बोधिसत्वो संपश्यमानो आगमेति न ताव अजिनित्वा मारं सबलवाहनं अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धिष्यामीति // अथ खलु भगवां ताये वेलाये इमां गाथाम् अध्यभाषे //

यथा स्वयंभू स्थितो बोधिमूले शाक्यान राजा सुविशुद्धसत्वो / सुवर्णबिम्बं यथ दर्शनीयो जाम्बूनदं अपगतसर्वक्लेशो //

ओभासजाता दिशता अभूषि मारश् च त्रस्तो अभु कृच्छ्रप्राप्तो /

[_mvu_2.316_] किं तं हि नाम मह्यं भेष्यतीति रतिं न विन्दामि विमान अस्मिं //

विमान सर्वा अभु व्योमवर्णा प्रासादश्रेष्ठा वरचन्दनस्य / सुवर्णसूत्रा स्फटिकप्रवाडा मा खु च्यविष्यं इतो अद्य स्थानात्* //

स्फुटा गवाक्षा रुचिरार्धचन्द्रा मुसारगल्वकवचिता च गर्भा / वैरोचनस्य जगतो विशिष्टा आभा अभू भविष्यति किं तु अद्य //

शीर्षतो मह्यं मकुटो प्रलुप्तो शुभा च आभा विगता ममाद्य / संगीति मह्यं स्थिता अप्सराणां मा खु च्यविष्यं इतो अद्य स्थानात्* //

जाम्बूनदेन यथ कांचनेन व्योमे विमाना कृतजिह्मवर्णा / इमे ये दिव्या इमे ये विमाना जिह्मा अभू उपगते बोधिसत्वे //

सो चादृशासि भगवन्तं स्वयंभुं निषण्णं सिंहं यथ दुष्प्रधर्षं /

[_mvu_2.317_] विशुद्धसारं जगसत्त्वसारं जाम्बूनदस्य यथ यूपो भासे //

देवा दिव प्रतिष्ठिता मुक्तिहारा सुवर्णकम्बूरुचिरा मनोज्ञा / सुवर्णसूत्रां ग्रहिय प्रहृष्टा अलंकरोन्ति भगवतो बोधिवृक्षं //

सुवस्तिकाश् च शुभा अर्धचन्द्रा सिंहीलताहि स्फुटा बोधिवृक्षे / विद्युप्रभां च रतनां ग्रहेत्वा अलंकरोन्ति मुदितदेवपुत्रा //

चन्द्रप्रभां च रतनां ग्रहेत्वा सूर्यकान्ता च रतनां गृहेत्वा / वैरोचनां मणिरत्नां ग्रहेत्वा अलंकरोन्ति भगवतो बोधिवृक्षं //

मुक्ताप्रभा च रतनां ग्रहेत्वा ओभासयन्तां शुभदर्शनीयां / प्रामोद्यजाता मुदितहृष्टचित्ताः अलंकरोन्ति भगवतो बोधिवृक्षं //

समन्तचन्द्रा मणिरतनां ग्रहेत्वा रतनावलिं सुरुचिरदर्शनीयां /

[_mvu_2.318_] गोमेदकां मणिरतनां ग्रहेत्वा अलंकरोन्ति भगवतो बोधिवृक्षं //

अन्ये ग्रहेत्वा शुभलोहिताक्षां शिरिगर्भशुद्धां रतनां ग्रहेत्वा / . . . . . . . . . . . . . . . . . . . अलंकरोन्ति भगवतो बोधिवृक्षं //

रक्ताङ्गियो च रुचकां ग्रहेत्वा महेश्वरां सुरुचिरवर्णवन्ता / कर्केतनां च रतनां ग्रहेत्वा अलंकरोन्ति भगवतो बोधिवृक्षं //

नीलां च मुक्तां तथ श्वेतमुक्ता रक्तां च मुक्तां शुभवर्णनीयां / हर्षं जनेत्वान च वेगजाता अलंकरोन्ति भगवतो बोधिवृक्षं //

ज्योतिकां च मणिरतनां ग्रहेत्वा ये चन्द्रसूर्यां अभिभवन्ति तेजसा / विशेषप्राप्ता मणिरतनां ग्रहेत्वा अलंकरोन्ति भगवतो बोधिवृक्षं //

नागामणीं च शुभवर्णनीयां गुह्या विशुद्धाक्षियो मोदमाना / नभे स्थिहित्वा तद ऋद्धिमन्तो अलंकरोन्ति भगवतो बोधिवृक्षं //

ब्रह्मा सहस्रा उपगता बोधिमण्डं

[_mvu_2.319_] शक्रश् च देवा अधिपति गुह्यकानां / येहि दृष्टा पुरिमकलोकनाथा ते देवता च प्रणता स्वयंभुं //

आभास्वरा उपगता देवपुत्रा शुभा च देवपुत्र शुभकृत्स्ना / . . . . रूपा च बृहत्फला च अतपा सुदर्शना च अकनिष्ठा अलंकरोन्ति भगवतो बोधिवृक्षं //

संछन्नो सर्वो अभु बोधिवृक्षो रस्मीं सहस्रां किरे अप्रमेयां / दिव्यैर् मणीभिः प्रतपति बुद्धक्षेत्रं सर्वां सहां अभिभवे लोकधातुं //

तस्यैवं चित्तम् अहु प्रमत्तबन्धुनो मा हेव मे च्यावये आसनातो / एषैव राजा भवे देवतानां न चास्य अस्ति समो सर्वलोके //

अथापि बुद्धो भवे धर्मस्वामी सून्या विमाना भवे देवतानां / देशेत मार्गं शिवशान्तिक्षेमं न भूय मह्यं भवे ईश्वरत्वं //

उत्सदप्राप्तं भवे बुद्धक्षेत्रं माराण कोटी संयोजयन्तो /

[_mvu_2.320_] सन्नद्धवर्मा कवचितवर्मा संग्रामकाले भवथाप्रमत्ता //

उद्योजयित्वान स मारसेनां उपसंक्रमित्वा वरपादपेन्द्रं / अद्राक्षीत् कृष्णो तथ बोधिसत्वं सूर्या सहस्रं यथ अन्तरीक्षे //

तस्यैव चित्तं अभु वेपमानं एषो न शक्यो मये धर्षणाये / लोके भिप्रेतं रतनं ग्रहेत्वा राज्यानपेक्षं जनयित्व छन्दं //

दिव्यं च चूर्णं वरचन्दनस्य जाम्बूनदस्य रतनामयं च / दिव्यां च गृह्य वरसारगन्धां सो बोधिसत्वम् ओकिरे वेगजातो //

एकांशं कृत्वा वसनं कृतांजलि प्रदक्षिणं निदह्य जानु भूम्यां / संहर्षितो ऽनिमेषं प्रेक्षमाणः सो बोधिसत्वं स्तवे तस्मिं काले //

रूपेन त्वं असदृशो पुण्यवन्तो वर्णेन तुह्यं सदृशो न प्राप्तो /

[_mvu_2.321_] सुसंप्रजानो मरुपूजनीयो लोकैकवीरो स्थितो वृक्षमूले //

न तुभ्य अस्ति सदृशो कुतोत्तरो देवो व नागो मनुजो व लोके / सर्वां अभिभोसि दिशतां शिरीये घनाभ्रमुक्तो गगणे व चन्द्रो //

तवा हि ते पूजनिया भुंजाहि सप्त रत्नानि प्रवरोत्तमानि / चक्रं प्रवर्तेहि महिं आवसाहि चातुर्द्वीपो रत्ना परिभवाहि //

तुवं च प्राप्ता दिश प्रेक्षमाणो अदीनचित्तो च अनन्ततेजो / देवसहस्रानभिभोहि आभा विदग्धस्थूणां यथ सुवर्णबिम्बं //

द्वात्रिंशतीहि स्फुटो लक्षणेहि विरोचे कायं तव सत्वसार / सोभासि राज्ये स्थितो अप्रमत्तो प्रशासि सत्वां पितरो व पुत्रां //

चत्वारि द्वीपां वसि ईश्वरत्वे न च करेसि इह अनुशास्तिं / त्वं ऋद्धिप्राप्तो विचरेसि लोके शिष्यो ते भेष्यं यथ एकपुत्रो //

इस्त्रीसहस्रैः सह क्रीडमानो

[_mvu_2.322_] मरूण राजा व शिरिद्धिप्राप्तो / दास्यामि तुभ्यं रतनानि सप्त भवाहि राजा विदु चक्रवर्ती //

भविष्यते पुत्रसहस्रं तुभ्यं शूराण वीराण महाबलानां / वरांग[रूपान] परसैन्यप्रमर्दकानां ससागरान्तं जये लोकम् एतं //

इमा च पश्य बहु मारकन्या पुष्पा ग्रहेत्वा वरचन्दनस्य / प्रागन्तरीक्षे शुचिवसननिवस्ता गीते कलासु परमार्थप्राप्ता //

वीणां गृहेत्वा पणवां मृदंगां शंखा च वेणुं च सुघोषकां च / संभारिकां नकुलककिंफलां च उपगीयमाना तद वृक्षमूले //

अन्ये स्थिहित्वा गगणे डियन्ता चूर्णां क्षिपन्ति वरचन्दनस्य / जाम्बूनदस्य रतनामयं च क्षिपन्ति चूर्णं तव भोन्ति सर्वे //

हाहाभेरीशंखपणवनिनादे प्रासादश्रेष्ठे रम त्वं कुमार / पुष्पं च गन्धं च विलेपनं च

[_mvu_2.323_] भुंजाहि तत्र परिचारको हं //

चक्रं च नागो हयवरो मंजुकेशो वैडूर्यमणिरतनं विशिष्टं / स्त्री च श्रेष्ठा धनधरो खड्गहस्तो परिणायको रत्ना भवन्ति सप्त //

तवाधिपत्ये निवसं कुमार शुश्रूषन्तो मृदु भाषमाणं / श्रुत्वान ते वाक्य सुखी भविष्यं मृषा च भाषे न व एवरूपः //

सत्ये स्थिहित्वा लभये सुरूपं कायं विशिष्टं स्फुटं लक्षणेहि / व्यंजनेहि तथ अनुव्यंजनेहि प्रभासमानो स्फुट लक्षणेहि //

सो मंजुघोषो रुतवल्गुभाषी उल्लोकयित्वा दिशता समन्ता / अष्टांगुपेतां (निनादये) वाचां शृणोहि यक्ष गिरां भाषतो मे //

राजा भविष्यं अहं सर्वलोके बुद्धित्व बोधिं वशिशान्तिक्षेमां / पुत्रा च भूता मम अप्रमत्ता काहिन्ति श्रुत्वा मम आनुशास्तिं //

ममापि सप्त रतना विशिष्टा

[_mvu_2.324_] भेष्यन्ति बुद्धित्व मे अग्रबोधिं / बोध्यंग सप्त पुरिमजिनप्रशस्तान्* तां व लभित्व भवति अप्रमत्तो //

चत्वारो अन्याम् अहं ऋद्धिपादां ध्यानप्रमाणं तथ मार्गश्रेष्ठं / बुद्धित्व सत्यानि समन्तज्ञानि अभिप्राप्तो दिशतां विजेष्यं //

जुगुप्सनीयाः सुखहीनाः हि कामा न अत्र विज्ञो लभे आनिसंसं / एषो हि मार्गो नरके तिरिच्छे यमस्य लोके बहुप्रेतलोके //

अधर्मकामा रत मैथुनस्मिं तमान्धकारे प्रणता समन्ता / विहीननेत्रा च्युतशुक्लधर्मा ते कामसेवी नर एवरूपाः //

दुर्गन्धपूतिं अशुचिं अनार्यं न तत्र जातु रता शुद्धसत्वाः / बालो नये तत्र विशेषसंज्ञां न पण्डितो जानयि तत्र च्छन्दं //

समृद्धे पक्वे यथ शालिक्षेत्रे विद्युत्पतेया अशनिवरचक्रं /

[_mvu_2.325_] तथैव शुक्ला परमार्थधर्मा कामनिदानं अफला भवन्ति //

पृथग्जना तु रता हीनसेवी जात्यन्धभूता अबुधा रज्यन्ति / रज्यन्ति ते अबुधचेतसेन न कामतृष्णां जने बोधिसत्वो //

संवर्तनीये यथ बुद्धक्षेत्रे हुतासने प्रज्वलिते नभस्मिं / रमणीय आभा मषिं छारिकां वा तथैव कामां विचिकित्सु [शुक्ल]धर्मा //

विसृष्ट वध्यो यथ पार्थिवेन लभेय मोक्षं श्रियं स्वस्तिभावं / न हीनकामां प्रतिसेवमानो लभेय अर्थं तु जिनानुज्ञातं //

उच्चारो शुष्को यथ दह्यमानो जुगुप्सनीयो परमदुर्गन्धो / न राजपुत्रो तहिं भवति उदग्रो तथैव कामा गर्हित पण्डितेहि //

ग्रीष्माण मासे यथ पश्चिमस्मिं लवणोदकं जनये तृषां नराणां / तथैव कामां दुःख [प्रति]सेवमानो

[_mvu_2.326_] अज्ञानप्राप्तो जनयति जालतृष्णां //

यं तेहि पूयं यकृद्वृक्कफुष्फसेहि गूथं च अन्यं अनुगतम् आत्मभावे / प्रस्यन्दमानं वहिमुखेहि काये न अत्र विज्ञो जने सौमनस्यं //

सिंहाणलाला यथ श्लेष्मपूरं कफो थ पित्तं अनुगतं मस्तरोगं / सदा श्रवन्तो अशुचि जिगुप्सितं च न अत्र विज्ञो जने सौमनस्यं //

कामनिदानं प्रपतिषु दुर्गतीषु उच्चावचं दुःखं नरा देवयन्ति / मुद्गा च माषा यथ कुम्भप्राप्ता तथैव खिन्ना नरकेषु सत्वा //

असीहि च्छिन्ना बहुविधम् आत्मभावा शक्तिशरेहि पुन पि संप्रभिन्ना / बाला करोन्ति त्रिविधं अनिष्टं न अत्र जातु अभिरतु बोधिसत्वो //

रूपेहि वूल्हो भवति सम्मोहजातः यो कामतृष्णां जने अल्पबुद्धिः / स्वयं व सेवि दुःखकररोगमूलं यथा स्मसाने कुणपं शृगालः // {श्मशाने}

[_mvu_2.327_] मा कृष्णबन्धु मम मोहनार्थं कामां प्रशंस गर्हिता पण्डितेहि / अंगारकर्षूं यथ संप्रपूरां तथैव कामां त्यजे बोधिसत्वो //

न कामसेवी हि इमं प्रदेशं द्विजाभिकीर्णं स्फुट पादपेहि / न चापि एवं स्फुट लक्षणेहि सेवित्व कामां लभे आत्मभावं //

रक्षित्व शीलं अशवलब्रह्मचर्यं सेवित्व बुद्धां हतरजा निष्किलेशा / भावेत्व क्षान्तिं बहुकल्पकोटी विशिष्टो भोति (स्फुट) आत्मभावो //

अच्छिद्रशिलो पुरिमभवे अभूषि क्षान्ती-उपेतो सद अप्रमत्तो / शोधेत्व मार्गं विविधं अनन्तं सो अद्य लप्स्यं वर-अग्रबोधिं //

भगवतो सार्थवाहो हितकरो अप्रमत्तो पुरतो स्थित्व अवच स कृष्णबन्धु / शृणोहि तात मम गिरां भाष्यमाणां मा अत्र दोषं प्रजने अप्रसादं //

यद् एष जातो असदृश पुण्यवन्तो कम्पे सशैला वसुमति षड्विकारं /

[_mvu_2.328_] ओभासिता दश दिशता अभूषि दिव्या च वाद्या अघट्टिता संप्रवाद्यि //

दिव्यां छत्रां धारये देवपुत्राः ध्वजपताकैः स्फुटो बुद्धक्षेत्रो / चैला भ्रमेन्सु मरुगणा देवसंघा अप्रमादं जनयि अदीनसत्वा //

एषो चक्षुर् भविष्यति सर्वलोके आलोकभूतस् तिमिरं निहत्वा / एषो न्धकारं विधमे दुःखितानां मा अप्रसादं जनेहि बालबुद्धे //

एषो हि लेनं भविष्यति सर्वलोके त्राणं च द्वीपं शरणं परायणं / अकरित्वा नरमरु च प्रसादं घोरं व्रजन्ति निरयं अवीचिं //

एषो हि लोके असदृशो दक्षिणेयो एषो हि लोके सततं हितानुकम्पी / एतं सक्तृत्वा नरनारिसंघा च्युता सुखी भवे इह सर्वलोके //

यो अत्र मानं जने न प्रसादं पुण्योपपेते धुतरजे शाक्यसिंहे / न तस्य जातु भवे स्वस्तिभावो च्युतश् च क्षिप्रं व्रजे दुर्गतीषु //

[_mvu_2.329_] एषो हिमां अचलचमूं प्रभेत्ति अभ्युत्क्षिपित्वान ते सागरातो / क्षेत्राण कोटीनयुता क्षिपेय स्थामेन लोके समो नास्ति सैन्यं //

एषो समुद्रं जलधरं वारिपूर्णं असुरनिकेतं उदधिं समन्ततेजं / शोषेय सर्वं दृढव्रतो अप्रमत्तो एषो हि सर्वम् अभिभवे मारसैन्यं //

ब्रह्मं च शक्रं अभिभवे गुह्यकां च नागासुरा च मनुजा महोरगा / विदग्धस्थूणां यथ सुवर्णबिम्बं पीडे नारायणं जिन घनशरीरो //

एषो ग्रहेत्वा गिरिवरं चक्रवाडं पाणितलेन समरजं करेय / न एष शक्यो उपगतो बोधिमूले चालेतुं वीरो दृढव्रतो अप्रमत्तो //

चन्द्रं पतेया नभतो मेदिनीये इयं च भूमी स्थिहि नभे आत्मनेन / प्रतिस्रोतं सर्वा नदीयो वहेन्सुः न चैव शक्यो दृढव्रतो चालनाय //

[_mvu_2.330_] यथा गजेन्द्रः सुबलवां षष्टिहायनः षड्डन्तनागो समुच्छ्रितकायो / पादेन भिन्दे अविमनो आमभाण्डं तथैव सर्वां करिष्यति मारसैन्यां //

मारो ह्य् अवाच स दुःखितो सार्थवाहं त्रसेसि किं मा यथ बालबुद्धि / सन्नद्ध सेना कवचितवर्मिता च करिष्यिमस्य दृढव्रतस्यान्तरायं //

वर्षा सहस्रा मया यो पोषितो हि उच्चतीह अयं मम ज्येष्ठपुत्रो / सौ गौतमस्य अभूर् इह अनुयात्रो अवसादयिष्यन्तो समारसैन्यं //

उदुम्बरस्य यथ पुष्प जातं वर्णोपपेतं सुरुचिरं मंजुगन्धं / तथैते बुद्धा हतरजा निःकिलेशा कल्पान कोटीनयुतेहि भोन्ति //

अश्रद्दधन्तं पितरं विपन्नशीलं ग्राहेय शुद्धां करुणां जनेत्वा / पुत्राण एवं प्रकृति तस्य भोति अनुकम्पको स्मि न अहं अमित्रो //

सुमेरुमूर्ध्ना यदि नरो आरुहित्वा

[_mvu_2.331_] आत्मानं मुंचेय महीतलस्मिं / लभेय सौख्यं शरीरे पतित्वा न बोधिसत्वे अहितानि कृत्वा //

अंगारकर्षू परमा प्रपूरा तत्र पतित्वा नरो बालबुद्धिः / लभेय सौख्यं शरीरे पतित्वा न बोधिसत्वे अहितानि कृत्वा //

असिं गृहीत्वा सुलिखितं तैलधौतं मुखे करित्वा स्वके ओहरेय / लभेय सौख्यं सिय ततो स्वस्तिभावो न बोधिसत्वे परुषाणि कृत्वा //

क्षुरेहि मार्गं यथ आक्रमन्तो वर्षसहस्रं अथ वर्षकोटि / लभेय सौख्यं सिय ततो स्वस्तिभावो न बोधिसत्वे परुषाणि कृत्वा //

विलीनलोहं पिबन्तो अल्पबुद्धिः लभेय सौख्यं उदरे सुदीप्ते / संछिन्न अन्त्रे यकृद्वृक्कफुष्फसे च न बोधिसत्वे परुषाणि कृत्वा //

अयोगुडां पि गिलन्तो ज्वलन्तां लभेय सौख्यं उदरे प्रदीप्ते / संछिन्ने यकृवृक्कफुष्फसे च

[_mvu_2.332_] न बोधिसत्वे परुषाणि कृत्वा //

शैलो महन्तो यथ चक्रवाडो क्षिप्तो नभातो पतितो न्रस्य मूर्ध्ने / जनेय सौख्यं सिय ततो स्वस्तिभावो न बोधिसत्वे परुषाणि फृत्वा //

अंगारकर्षू इषु-असितोमरा च क्षिप्ता नभातो पतिता आत्मभावे / जनेय सौख्यं सिय ततो स्वस्तिभावो न बोधिसत्वे परुषाणि कृत्वा //

शक्यं सहस्रा अयं लोकधातुः कल्पान कोटी धरितुं करेण / चित्तां च ज्ञातुं विविधा नराणां न संस्तरातो मुनिचालनाये //

शक्यं समुद्रे जनधरे वारिपूर्णे मध्योदके ज्वालितुम् अग्निस्कन्धं / सुमेरुमात्रो प्रभंकरो धूमकेतुः न संस्तरातो मुनिचालनाये //

शीलेनुपेतो असदृशो क्षान्तिये च तपे व्रते च पुरा पारप्राप्तः / स केशरिर् वा मृगपति जातवेगो नादं नदन्तो जिनो मारसैन्ये //

[_mvu_2.333_] यथा महन्ते प्रपतितो पीह कूपे जात्यन्धसत्वो यथ स्पन्दमानो / अक्षी संप्राप्तो दिशम् अप्रजानो तथा तव भेष्यति मार सैन्यं //

पश्याहि त्वं तात ते देवपुत्रां रूपेणुपेता कृतपुण्यकर्मां / चूर्णां गृहेत्वा वरचन्दनस्य उदग्रचित्ता अभिकिरे बोधिसत्वं //

सर्वा सहस्रा स्फुट देवताहि विमान सर्वां विजहिय आगताहि / नभे स्थिहित्वा अवकिरि पुष्पचूर्णैः बोधिसत्वं प्रमुदिता ओकिरन्ति //

मा पापचित्तं जनय विशालबुद्धे दुरासदा हि महासार्थवाहा / दुर्गतिषु प्रपतिषु पांसुकूले अपेय तातो दुःखी कृच्छ्रप्राप्तः //

ये अत्र प्रेम्नं जनयिषु गौरवं च ये सत्व एतं शरणं उपेन्ति / अपायभूमी विजहिय नचिरेण सर्वे स्पृशन्ति अजरं अशोकं //

जनीसुतो पितं अवच विशालबुद्धि विचित्रां पुष्पां गृहिय मनोज्ञां / अभ्योकिरित्व जगसत्वसारं

[_mvu_2.334_] सर्वान्ते सेनां करेय भस्म //

निधानं लब्ध्वा यथ अन्धसत्वा अपश्यमाने न भवेय दोषो / तथा व लब्ध्वा महादक्षिणेयं प्रमादबन्धु जनयसि अप्रसादं //

हिरण्यधारं यथ अक्षमात्रं प्रवर्षमाणो गृहे बालबुद्धिः / उत्क्रोशमानो व्रजेय च्यविष्यं तथैव तातो न सहं महर्षिं //

विमानं लब्ध्वा यथ चन्दनस्य मनोज्ञगन्धं शुभदर्शनीयं / ततो निष्क्रमित्वा प्रपते इह कूपे तथैव तातो असहं महर्षिं //

मणिविमाने रुचिरे प्रभास्वरे सिंहासनातो यथ उत्थिहित्वा / अंगारकर्षूं प्रपते निष्क्रमित्वा तथैव तातो असहं महर्षिं //

प्रासादं लब्ध्वा यथ कांचनस्य जाम्बूनदस्य शुभदर्शनीयं / ततो व्रजित्वा प्रपतो अर्णवस्मिं तथैव तातो असहं महर्षिं //

सुवर्णनिष्कां यथ ओशिरित्वा

[_mvu_2.335_] ग्रीवाय ताम्रं धरयेय लोके / तथैव लब्ध्वा मुनिं दक्षिणेयं प्रमादबन्धु जनयसि अप्रसादं //

अमृतस्य पात्रं यथ ओशिरित्वा विषस्य पात्रं पिबेद् बालबुद्धिः / तथैव लब्ध्वाब् महदक्षिणेयं प्रमादप्राप्तो जनयसि अप्रसादं //

यथा लभित्वा शुभनीलनेत्रा उत्पाटयेय (स्वयं) बालबुद्धिः / तथैव लब्ध्वा मुनिं दक्षिणेयं प्रमादबन्धु जनयसि अप्रसादं //

अहो स्मृतिं हि अपचिनोहि मार दिव्यं ग्रहेत्वा वरमुक्तिहारं / ओभासयन्तं दिशता प्रभाय मा अप्रसादं जनयाहि तात //

यथा च एषो इह लोकधातुं ओभासि सर्वां शुभरूपधारी / भिन्दित्व मेरुं महचक्रवाडं समुद्रमध्ये यथ शैलराजा //

यथा च एषो स्थितो वृक्षमूले सुमेरुमूर्ध्ने अभिभवि देवपुत्रा / नात्र प्रदेशे स्थितो कामसेवी मा अप्रसादं जने कृष्णबन्धु //

न अस्ति सत्वो त्रिभवस्मि तात

[_mvu_2.336_] यो एवरूपो भवे पुण्यवन्तो / अदृश्यमानो यथ रस्मिराजो तथा निषण्णो मुनि बोधिमूले //

यथा निषण्णो जिनो क्रकुच्छन्दो प्रभासमानो दिश वृक्षमूले / तथास्य कायो स्फुटो लक्षणेहि मा अत्र तात जने अप्रसादं //

कोनाकनामो यथ लोकनाथो विशुद्धचक्षुस् तिमिरस्य घाती / प्रभासमानो दिशतां शिरीये सो पि निषण्णो इह वृक्षमूले //

यस्यैव नामं अभु काश्यपो ति समन्तवक्षुर् वरदक्षिणीयो / सो पि निषण्णो इह वृक्षमूले बुध्यसि वीरो वर-अग्रबोधिं //

ये भद्रकल्पे अभु लोकनाथाः संबोधिप्राप्ता मुनि देवदेवा / पूर्वे निषण्णा इह वृक्षमूले बुध्यन्सु वीरा शिव-अग्रबोधिं //

[बुद्ध]सहस्रचत्वारि जिना हि पूर्वं इह निषण्ण द्रुमवरपादपेन्द्रे / अनागता हितकर लोकनाथा प्राप्स्यन्ति ते पि वर-अग्रबोधिं //

[_mvu_2.337_] भाषित्व गाथाम् इमम् एवरूपां महास्मृतीति वरनामधेयो / मुक्तिहारं क्षिपे गौतमस्य उदग्रचित्तो वरवेगजातो //

विद्युप्रतिष्ठो परो मारपुत्रो दिव्यं ग्रहेत्वा शुभकल्पदुष्यं / सो बोधिसत्वं मुनि प्रेक्षमाणो उदग्रचित्तो स्तवे बोधिमण्डे //

मनोज्ञघोषं रुतं सत्वसारो . . . . . . . . . . . . . . . . . . / न कश्चिद् अस्ति समो सर्वलोके तथासि पूर्वचरितो महर्षि //

त्याग्यासि पूर्वे चरं कल्पनन्तां त्यक्ता विशिष्टा तव राजधानी / हस्तिगणा अश्व बहु पुण्ययानं तेन प्रभासि दिश सत्वसार //

त्यजित्व भार्या तथ चात्ममांसं पुत्रा च धीता नयनात्ममांसं / त्यजित्व पूर्वं प्रिय-उत्तमांगं तेन प्रभासि दिशतां समन्ता //

त्यजित्व दिव्या रतनानि शुद्धा नाना विमाना स्फुटरत्नचित्ता / नक्षत्र-आभा नभे विद्युताभा

[_mvu_2.338_] सर्वो विभासि पुरतो जनस्य //

भाषित्व गाथाम् इम एवरूपां विद्युप्रतिष्ठो परो मारपुत्रो / वस्त्राण कोटीनयुतां सहस्रां क्षिपे नरेन्द्रे वरवेगजातो //

कल्याणमित्रा पि तं धारयेन्सुः मा अप्रसादं जनये बहुबुद्धेः / न शक्य एषो विमलप्रभो महात्मा चालेतुं भूयो मुनिम् आसनातो //

असद्दधानो वचनं दुर्बुद्धिः ईर्ष्यां च क्रोधं जने कृष्णबन्धु / सो दुष्टचित्तो अबुधो च जातो भूयस्य मात्रं जने अप्रसादं //

माराण कोटीशत सन्नहित्वा सन्नह्य मारो बहुमारसैन्यं / बोधाय विघ्नं तद कर्तुकामो स पापचित्तं जने हीनबुद्धिः //

यक्षाण कोटीनयुता सहस्रा नागासुरा मनुजमहोरगा च / गन्धर्वपुत्रा बलस्थामप्राप्ता उपसंक्रमेन्सुः यतो पादपेन्द्रं //

शिलां ग्रहेत्वा महघोररूपां

[_mvu_2.339_] सन्नद्धवर्मी अतिघोरप्रेक्षी / विद्यून् क्षिपेसि असनिं प्रवर्षे उपसंक्रमन्तो वरपादपेन्द्रं //

शक्तिं ग्रहेत्वा इषुतोमरां च असिं ग्रहेत्वा क्षुरतीक्ष्णधारां / मालाविलम्बी किलिकिलायमाना उपक्रमेन्सुः सिंहपादपेन्द्रं //

सिंहाश् च व्याघ्रा तुरगा गजाश् च उष्ट्रा गवा गर्दभाश् चान्यरूपा / आशीविषप्रगृहीतशिरांसि उपसंक्रमेन्सुः यतो बोधिसत्वो //

अन्ये ग्रहेत्वा महदग्निस्कन्धां प्रदीप्तशीर्षा विकृतस्वभावा / क्षुरप्रचारी च विभग्ननासा मारस्य सैन्या स्थित बोधिमूले //

रथसहस्राणि च बोधिमण्डे ध्वजपताका च सनन्दिघोषा / जालाविचित्रा शुभवादिता हि ध्वजाग्रमूर्धे च सनन्दिघोषा //

समन्त त्रिंश स्फुट योजनानि [यक्षसहस्रेहि महभैरवेहि /] चतुर्दिशं चोपरि च नभातो

[_mvu_2.340_] ते यक्षसंघा परमसुघोररूपा //

असिं ग्रहेत्वा निशितां सुतीक्ष्णां युगप्रमाणोपगतो कृष्णबन्धु / सो बोधिसत्वं अवच प्रदुष्टचित्तो उत्थाहि शीघ्रं अतो आसनातो //

समन्तात् त्रिंश स्फुट योजनानि यक्षसहस्रेहि महभैरवेहि / न शक्यं भिक्षु प्रव्रजितुं कहिंचित्* तवाद्य च्छेत्स्यं यथ वेणुखण्डं //

ततो प्रमुंचे गिरां बोधिसत्वो अष्टांगुपेतां मधुरां सुघोषां / सर्वे ते सत्वा सियु मारभूता न च समर्था मम रोमम् इंजितुं //

एको सि भिक्षु स्थितो वृक्षमूले सेना च नास्ति तवैवरूपा / कस्य बलेन न सिया समर्थं तं मारसैन्यं तव रोमम् इंजितुं //

दाने च शीले च क्षान्तिये च वीर्ये ध्याने बहुकल्पकोट्यो / प्रज्ञाये श्रेष्ठाय भवे अप्रमेये न मह्यम् अस्ति समो सर्वलोके //

मैत्र्याविहारी करुणाविहारी

[_mvu_2.341_] सत्वान अर्थे चरितो बोधिचर्यां / बुद्धित्व बोधिं लभे बुद्धज्ञानं सत्वां प्रमोक्ष्याम्य् अहं कृष्णबन्धु //

अच्छिद्रशीलो पुरिमे भवेसु कल्पान कोटीनयुता अनन्ता / समाहितो वज्रसमो अभेद्यो सो अद्य प्राप्स्यं वर-अग्रबोधिं //

यावन्ति सेना तव कृष्णबन्धु सर्वे भवेन्सु वसि ईश्वरत्वे / ते चक्रवाडसम आयुधेहि न च समर्था मम रोमम् इंजितुं //

शून्या निमित्ता प्रणिधी विभाविता न सत्वसंज्ञा . . . . . . . . / न मारसंज्ञा न विहिंससंज्ञा एवं स्थितस्य अबलो सि पाप //

न रूपसंज्ञा न पि शब्दसंज्ञा नापि रससंज्ञा न च गन्धसंज्ञा / न प्रष्टव्यसंज्ञा . . . . . . . एवं स्थितस्य असमर्थो सि मार //

न स्कन्धसंज्ञा न मे धातुसंज्ञा अध्यात्मसंज्ञा च विभाविता मे / यथान्तरीक्षं हि अभावभूतं एवंस्वभावा हि च सर्वधर्माः //

[_mvu_2.342_] जालेहि चित्रेण हि दक्षिणेन पराहने वसुमतिं बोधिसत्वो / सा षड्विकारं चलिता लोकधातु शब्दं च आसी तद भीष्मरूपं //

कंसस्य पात्रीं यथ मंजुघोषां पराहनेय पुरुषो ग्रहेत्वा / एवं तथैव रणे लोकधातु यदा हने वसुमतिं बोधिसत्वो //

त्रस्ता अभूषि तद मारसेना भीता पलाये च बहुयोजनानि / चतुर्दिशं नैव च प्रेक्षमाणा पश्यन्ति बुद्धं यथ रस्मिराजं //

अन्ये रथेहि पते मेदिनीयं गर्जन्त मेघा यथ अन्तरीक्षे / यथ हस्तिनागा च महार्णवस्मिं तथैव सर्वा हत मारसैन्याः //

दिव्यां च पुष्पां प्रकिरेन्सु देवा चूर्णं प्रवर्षेन्सु च चन्दनस्य / मन्दारवा ओकिरे बोधिसत्वं समन्ता त्रिंश स्फुट योजनानि //

देवसहस्रा नभे अम्बराणि भ्रामेन्सु अन्ये क्षिपं मुक्तिहारं /

[_mvu_2.343_] गाथाभि गीतेहि अपरे स्तवेन्सुः प्रध्याये तूष्णीं दुःखि कृष्णबन्धुः //

सप्ताहपूरं दुःखि मारसैन्यं द्रुमस्य मूले अभु कृच्छ्रप्राप्तं / जात्यन्धभूतं दिशम् अप्रजानं बुद्धश् च शोभे यथ रस्मिराजो //

परस्परं रथशत भज्यमाना पश्यितु हतां महिं प्रकम्पमानां / ते निर्मिणित्वा विकृतात्मभावां उपसंक्रमेन्सुः वरपादपेन्द्रं / न ते पुराणां प्रतिलभेन्सु रूपां सर्वे अभून्सुः भयभीतरूपा //

यथैव तले यो विहगो निबद्धो तथा कृष्णबन्धुः धरणीतलस्मिं / सप्ताहपूरं सबलो ससैन्यो समोहजातो न प्रभोति गन्तुं //

रूपधातो उपगता देवपुत्राः सर्वे समग्रा प्रमुदितवेगजाता / अक्षप्रमाणां अवकिरे चूर्णधारां दिव्यां विशिष्टां वरचन्दनस्य //

ध्वजान कोटीनयुता सहस्रा उच्छ्रापयेन्सुः नभे देवपुत्राः /

[_mvu_2.344_] पताकपट्टैः स्फुट बुद्धक्षेत्रं यदा हने वसुमतिं बोधिसत्वो //

दिव्या च वाद्या प्रपद्यि अन्तरीक्षे संगीति दिव्या अभु देवतानां / पुष्पां प्रवर्षे नभि देवपुत्रा यदा हने वसुमतिं बोधिसत्वो //

यावन्ति वृक्षा अभु मेदिनीये सर्वे अभू कुसुमानन्तगन्धाः / शून्या निमित्ता प्रणिधि विभाविता एवंस्वभावं वदते स शब्दं //

दिव्ये विमाने स्थिते मेघम् ऊर्ध्वे नागे विमाने तथ सागरस्मिं / मनोज्ञघोषा असुरपुरेषु शब्दाः यदा हने वसुमतिं बोधिसत्वो //

यं कालं रस्मिं अवसृजति बोधिसत्वः पाणितलातो कुशलचित्रातो / तदा स्थपेत्व नरकान्तिरिच्छां यमस्य लोका प्रपति सर्वलोके //

विह्वलजातां वसुमतिं अद्दशेन्सुः माराण कोटि प्रपतति मेदिनीये / संबोधिप्राप्तं मुनिम् अद्दशेन्सुः चन्द्रसहस्रं यथ अन्तरीक्षे //

[_mvu_2.345_] परस्परस्य तद उत्थहित्वा भूयस्या मात्रया तत मेदिनीयं / नभातो क्षिप्ता यथ चित्रपट्टा तथैव सा तद अभु मारसेना //

असन्त्रसन्तो वरबोधिसत्वो विगतभयो अतुलियो पुण्यक्षेत्रो / पूर्वञ् चरित्वा वरधर्मश्रेष्ठं प्रभासि लोके यथ रस्मिराजः //

इदं च दुःखं अयं च समुदयः तथा निरोधो अथ मार्गश्रेष्ठो / इमस्मिं सन्ते प्रादुर्भोति इमस्मिं नष्टे इदम् अस्तम् एति //

अविद्या हेतु भवसंस्कृतस्य तं प्रत्ययं भवति जाननाय / विज्ञानहेतु भवे नामरूपं प्रत्ययं च तं भवति षडिन्द्रियस्य //

षडिन्द्रियं भवति तथ स्पर्शजातं स्पर्शो च हेतु भवे वेदनानां / संवेदयन्तो जायति तृष्णालु तृष्णाप्रत्ययं भवति उपादानं //

उपादानहेतुं भवं संस्मरन्ति जातीजरामरणं तथैव व्याधिः /

[_mvu_2.346_] शोका च भोन्ति परिदेवितानि आयासा भोन्ति दुःखदौर्मनस्यं //

प्रतीत्यधर्मं प्रविचितो बोधिसत्वः निरोधस् तेषाम् अविकलि सर्वज्ञाने / तेषां च एवं प्रकृतिं पश्यमानो अतुल्यं प्राप्तो वरम् अग्रबोधिं //

यदा च प्राप्तो वरम् अग्रबोधिं विशुद्धचक्षुं जिनो अप्रमेयं / प्रवृत्तज्ञानो दिशता अप्रसंगो त्रैलोक्ये शब्दो व्रजि परंपराय //

पराहता दुन्दुभि अप्रमेया शब्दो अभूषि तद अप्रमेयो / अशोकप्राप्ता नरनारिसंघा देवा च नागा मनुजा महोरगाः //

आवासशुद्धा उपगता देवपुत्राः कोटीसहस्रा नयुता अनन्ता / ते अंजलिं दशनखं प्रग्रहेत्वा अभिस्तवे दशबलं पारप्राप्तं //

समुद्रमध्ये यथ शैलराजा सुमेरुमूर्ध्ने यथ वैजयन्तो / सूर्यसहस्रं यथ अन्तरीक्षे एवं प्रभासि जिनो बोधिमूले //

यस्यार्थं दानं पुरिमभवेषु दिन्नं

[_mvu_2.347_] यस्यापि शीलम् अशवलं रक्षितं पूर्वे / यस्यार्थं प्रज्ञा परमा निषेविता सा ते नरेन्द्रवर प्राप्त बोधिः //

चक्षुष्मन्तो तिमिरस्य हन्ता विनाशधर्मनिधनं सत्वसारः / स्वयंभूप्राप्तः नरवरसार्थवाहः न कश्चित् ते समसमो सर्वलोके //

ओभासिता ते सर्वलोकधातु घना विमुक्तेन यथ चन्द्रमेण / यथ दिव्य आभा प्रतपति देवनानां नागासुराणां च महोरगाणां //

सुमेरु शक्यो तुलयितुं शैलराजा परागकृत्वा शत एत्तकानि / भागा च कृत्वा समा सर्षपेण न बुद्धवर्णं क्षपितुं जिनानां //

महासमुद्रो यथ वारिपूर्णो करेण गृह्य गणयितुं शक्यो विन्दू / कोटीसहस्रा नयुता शतानि न शक्यं वर्णं भाषितुं जिनानां //

शक्यं भवाग्रां ज्ञातुं त्रिसहस्रां इह सर्वभूमिवृक्षवाततेजः /

[_mvu_2.348_] तृणलता-औषधिवीर्यसंख्यां न बुद्धवर्णो क्षपयितुं शक्य सर्वं //

भिन्दित्व वारां शतं वा सहस्रं शक्यन्तरीक्षं गणयितुं नभाग्रं / चतुर्दिशानां शत एत्तकानि न बुद्धवर्णो क्षपयितुं शक्य सर्वं //

या सत्वधातु गणयितुं शक्यं सर्वा रोमां च तेषां पि च केशा मूर्ध्नि / तेषां पि काया पुरिमा अतीता न शक्यं वर्णं क्षपयितुं जिनानां //

ये सत्व श्रुत्वा गुणम् एवरूपं प्रसन्नचित्ता स्मरे लोकनाथं / तेषां सुलाभा विजहिय दुर्गतीयो बोधी च तेषां मता नचिरेण //

पुनर् अपरं भिक्षू तथागतो अनुत्तरां सम्यक्संबोधिम् अभिसंबोधित्वा सप्ताहपूरं एकपर्यंकेनातिनामेसि // अथ खलु भूम्यवचरा देवा अन्तरीक्षेचरा देवा चतुर्महाराजिका च देवा त्रायस्त्रिंशा च देवा यामा च देवा तुषिता च देवा निर्माणरती च देवा परनिर्मितवशवर्ती च देवा महाब्रह्मा च ब्रह्मकायिका च ब्रह्मपुरोहिता च ब्रह्मपारिषद्या च आभा च परीत्ताभा चाप्रमाणाभा च आभास्वरा च शुभा

[_mvu_2.349_] चाप्रमाणशुभा च शुभकृत्स्ना च वृहत्फला च अवृहा च अतपा च सुदृशा च याव अकनिष्ठा च देवा सप्ताहपूरं तथागतं बोधिमण्डवरगतं सत्करोन्ति गुरुकरोन्ति मानयन्ति पूजयन्ति सर्वावती च त्रिसाहस्रमहासाहस्रा लोकधातुः सप्ताहपूरं एकालंकारा अभूषि // अथ खलु भगवां ताये वेलाये इमां गाथाम् अभाषि //

सप्ताहपूरं संबुद्धो बोधिं बुद्धित्व उत्तमां / आसनातो न उत्थेसि सर्वलोकस्य चेतियो //

देवकोटीसहस्राणि गगणस्मिं समागता / पुष्पवर्षं प्रवर्षेन्सु सप्तरात्रम् अनूनकं //

उत्पलां पदुमां चम्पां पुण्डरीकां मनोरमां / सहस्रपत्रां रुचिरां तत्र देवा प्रवर्षिषु //

मारश् च दुर्मनो आसि काण्डेन लोखते महीं / जितो स्मि देवदेवेन शाक्यसिंहेन तापिना //

त्रायस्त्रिंशा च यामा च तुषिता ये च निर्मिता / परनिर्मिता ये देवा कामधातुप्रतिष्ठिताः //

लोहितं चन्दनं दिव्यं अगुरुं अथ चम्पकं / दिव्या च पुष्पवर्षाणि अन्तरीक्षेण ओकिरि / अक्षमात्राहि धाराहि बुद्धक्षेत्रं फली इमं //

ब्रह्मकोटिसहस्राणि गगणस्मिं समागताः / वर्षन्ति सुखुमं चूर्णं दिव्यं लोहितचन्दनं //

भूम्या देवा उपादाय शुद्धावासाः स्वयंप्रभाः / एवं परंपरा आसि देवताहि परिस्फुटा //

छत्रध्वजपताकाहि अन्तरीक्षं परिस्फुटं /

[_mvu_2.350_] करोन्ति पूजनां श्रेष्ठां संबुद्धस्य शिरीमतो //

आभा च विपुला मुक्ता बुद्धक्षेत्रं परिस्फुटं / भवाग्रा लोकधातूयो ग्निसवर्णा भवेसि च //

प्रशान्ता निरया आसि बुद्धक्षेत्रस्मि सर्वशो / शीतीभूता च अंगारा सत्वा च सुखिता अभू //

येषां नैरयिकं दुःखं परिक्षीणं तद् अन्तरं / निरयेषु च सत्वा ते देवेषु उपपद्यिषु //

संजीवकालसूत्रेषु तपने च प्रतापने / प्रशान्तो रौरवे अग्निः लोकनाथस्य रश्मिभिः //

अवीच्यां अथ संघाते प्रत्येकनिरयेषु च / प्रशान्तो सर्वशो अग्निः लोकनाथस्य रस्मिभिः //

यावन्ता लोकधातूषु प्रत्येकनिरया अभू / प्रशान्तो सर्वशो अग्निः लोकनाथस्य रस्मिभिः //

ये च तिरिच्छानयोनीयं मान्सरूधिरभोजना / मैत्राय स्फुटा बुद्धेन न हिंसन्ति परस्परं //

छत्रध्वजपताकेहि बोधिवृक्षो अलंकृतः / कूटागारेहि संछन्नो देवपुत्रेहि निर्मिता //

खाणू च कण्टकथला च शर्करा सिकता पि च / समन्ता बोधिमण्डातो हेष्टा भूमौ प्रतिष्ठिताः //

रत्नामयीये भूमीये बोधिमण्डं परिस्फुटं / या इह बुद्धक्षेत्रस्य देवपुत्रेहि निर्मिता //

[_mvu_2.351_] देवपुत्रसहस्राणि धरणियं प्रतिष्ठिता / धूपनेत्रां गृहेत्वान पूजेन्ति लोकनायकं //

हेठा च धरणी सर्वा पदुमेहि परिस्फुटा / जाम्बूनदसुवर्णस्य बुद्धतेजेन उद्गताः //

ये चापि व्याधिता सत्वा दुःखिता अपरायणाः / अरोगा सुखिता भूता बुद्धरस्मिपरिस्फुटाः //

जात्यन्धा रूपां पश्येन्सुः लब्ध्वा चक्षुं विशारदं / परस्परं चालपेन्सु बोधिप्राप्तस्य तायिनो //

रागाश् चाप्य् अपि च दोषा मोहाश् च तनुनो कृताः / यं कालं शाक्यसिंहेन प्राप्ता बोधि महर्षिणा //

प्रासादा सविमाना च कुटागारमनोरमाः / सर्वे ततोमुखा आसि बोधिसत्वस्य तायिनः //

यावन्ति बुद्धक्षेत्रस्मिं नरनारी च किंनराः / सर्वे ततोमुखा आसि बोधिसत्वस्य तायिनः //

देवता देवपुत्रा च देवकन्या च शोभनाः / सर्वे ततोमुखा आसि येन बोधि महर्षिणो //

नागा चाप्य् अथ गन्धर्वा यक्षा कुम्भाण्डराक्षसाः / सर्वे ततोमुखा आसि येन बोधि महर्षिणः //

दारिका दारका चैव शय्यासनावशायिताः / ततोमुखा संस्थिहेन्सु येन बोधि महर्षिणो //

ये चाप्य् आभरणा दिव्या विशिष्टा रतनामयाः /

[_mvu_2.352_] आबद्धा आसि देवानं सर्वे ततोमुखा अभू //

नागानां अथ यक्षाणां पिशाचराक्षसान च / तेषां चाभरणा सर्वे येन बोधि ततो गताः //

देवानाम् अथ नागानां यक्षाणां राक्षसान च / ततोमुखा विमानाभू येन बोधि महर्षिणो //

नुपूरा वलया चैव अथ वा परिहारकाः / बोधिप्राप्तस्य बुद्धस्य येन विलम्बिताम्बरं //

जनान हारा च कण्ठे निष्कानि शोभनानि च / आबद्धका मनुष्याणां येन बोधि निरिंगिता //

मुक्तिहाराश् च आबद्धा विचित्रा मणिकुण्डला / कटका च मुद्रिका च येन बोधि निरिंगिता //

यावन्ति बुद्धक्षेत्रस्मिं सत्यधातू अचिन्तिया / जानन्ता वा अजानन्ता येन्ह बोधि निरिंगिता //

वाता च शीतला वाये मनोज्ञगन्धा मनोरमाः / समन्तबुद्धक्षेत्रस्मिं बोधिप्राप्तस्य तायिनो //

यावन्ति बुद्धक्षेत्रस्मिं देवा नागा च मानुषा / असुरा च किन्नरा यक्षा सर्वे पश्यन्ति नायकं //

धूपनेत्रां ग्रहेत्वान सर्वे तेन सुखस्थिता / पूजयन्ति लोकप्रद्योतं बोधिमण्डे प्रतिष्ठितं //

अंजलीहि नमस्यन्ति गाथाभिर् अस्तवेन्सु ते /

[_mvu_2.353_] पूजां करोन्ति बुद्धस्य बोधिमण्डे प्रतिष्ठिता //

सर्वे आसन्नं पश्यन्ति लोकनाथं प्रभंकरं / न कश्चिद् दूरे संजाने व्याममात्रे यथा स्थितं //

न कश्चित् पृष्ठतो बुद्धं लोकधातूय पश्यति / सर्वा दिशा हि बुद्धस्य संमुखां पश्यति दृशां //

वामदक्षिणपार्श्वेहि न कश्चिल् लोकनायकं / संजानति महावीरं सर्वे पश्यन्ति नायकं //

धूपितं बुद्धक्षेत्रस्मिं धूपनं च तद् अनन्तरं / समन्ता बुद्धक्षेत्राणां गन्धेन कोटियो स्फुटा //

न शक्यं गणनां कर्तुं एत्तिया सत्वकोटियो / पश्यित्वा शिरिं बुद्धस्य संबोधिम् अभिप्रस्थिताः //

तृणा च अथ काष्ठा च औषधीयो वनस्पती / सर्वे ततोमुखा आसि येन बोधि महर्षिणो //

को अयं ईदृशान् धर्मा लोकनाथेन दर्शितां / श्रुणित्वा न सिया तुष्टो अन्यत्र मारपक्षिकात्* //

न शक्यं सर्वं ख्यापेतुं वाचया ऋद्धि भाषतः / या शिरि आसि बुद्धस्य बोधिप्राप्तस्य तायिनः //

येहि च दृष्टो संबुद्धो बोधिमण्डे प्रतिष्ठितः / पूजितश् च महावीरो ते श्रुत्वा तुष्ट पण्डिताः //

शीलस्कन्धे च अच्छिद्रे ये भिक्षू सुप्रतिष्ठिताः / ते श्रुणित्वा इदं सूत्रं हर्षं काहिन्ति भद्रकं //

[_mvu_2.354_] क्षान्तिसौरभ्यसंपन्ना अलीनकायमानसाः / अर्थिका बुद्धज्ञानेन तेषां तुष्टिर् भविष्यति //

येहि आश्वासिता सत्वा मोचिष्यि उपपद्यतां / बुद्धित्व उत्तमां बोधिं तेषां तुष्टिर् भविष्यति //

येहि पुरिमका बुद्धा सत्कृता द्विजसत्तमा / इदं च सूत्रं श्रुत्वान तुष्टा भेष्यन्ति महर्षिणः //

येहि ते कृपणा सत्वा अन्नपानेन तर्पिताः / ते इदं सूत्रं श्रुत्वान बुद्धे काहिन्ति गौरवं //

येहि ते अधना सत्वाः धनेहि प्रतिच्छादिताः / ते इदं सूत्रं श्रुत्वान बुद्धे काहिन्ति गौरवं //

येहि च पूर्वं बुद्धानां चेतिया मापिता शुभाः / बुद्धित्वा वरप्रसादा ते खु भेष्यन्ति प्रीणिताः //

येहि पुलुवं सद्धर्मो लोकनाथस्य धारितो / त्यजित्वा लाभसत्कारं ते खु भेष्यन्ति प्रीणिता //

ये ते असंस्कृतायुश् च दण्डकर्मेहि वर्जिताः / ओरसा लोकनाथस्य ते हि करिष्यन्ति पूजनां //

ये ते मैत्रेयं संबुद्धं पश्यित्वा द्विपदोत्तमं / काहिन्ति विपुलां पूजां तेषां हर्षो भविष्यति //

ये ते सिंहं महानागं पश्यित्वा लोकचेतियं / काहिन्ति विपुलां पूजां तेषां हर्षो भविष्यति //

केतुस्य लोकनाथस्य ये हि करिष्यन्ति पूजनां /

[_mvu_2.355_] अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति //

प्रद्योतस्य च बुद्धस्य ये करिष्यन्ति पूजनां / अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति //

ज्योतिन्धरं च ये बुद्धं पश्यित्वा अपराजितं / पूजां महतीं काहिन्ति तेषां हर्षो भविष्यति //

सुनेत्रं लोकप्रद्योतं ये दृष्ट्वा सत्करिष्यन्ति / अप्रमाणाय पूजाय तेषां हर्षो भविष्यति //

द्वौ बुद्धौ कुसुमनामानौ लोकनाथौ तथागतौ / ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति //

मरुं च द्विपदश्रेष्ठं संबुद्धं वदतां वरं / ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति //

पुष्पं च अग्रसंबुद्धं पश्यित्वा द्विपदोत्तमं / ये काहिन्ति परमां पूजां तेषां हर्षो भविष्यति //

ये गृद्धा लाभसत्कारे जिह्मविज्ञाननिश्रिता / अल्पेछं तं श्रुणित्वान तेषां त्रासो भविष्यति //

ये च संगणिकारामा गणवासे प्रतिष्ठिता / विवेकं श्रुत्वा बुद्धस्य न तेषां दौर्मनस्यता //

एवं दुःशीला श्रुत्वानैवं बुद्धेन भाषितं / नता लोकप्रदीपस्मिं तीव्रं काहिन्ति गौरवं //

ये ते व्याकृता बुद्धेन बोधिसत्वा अनागता / सूरता सुखसंवासा तेषां तुष्टिर् भविष्यति //

[_mvu_2.356_] येषां विवर्तना नास्ति बुद्धज्ञानातो सर्वशः / ते इमं सूत्रं श्रुत्वान भेष्यन्ति सुखिता नराः //

येहि पुरिमा बुद्धा सत्वसारा गुरुकृता सत्कृता पूजिता नरेन्द्रा / प्रणतमनाः शिष्ट बुद्धज्ञाने नरवरवर्ण श्रुणित्व तुष्टा भोन्ति //

ये च अविकलाः समन्तशुद्धा वरगुणकोटीशतोपपन्ना / ये च धरसि धर्म लुज्यमानं मुदितमना सुगतस्य शासनस्मिं //

ये च अचपला ō आनुबद्धा अमुखरा नो च अभू विकीर्णवाचा / . . . . . . . . . न मानुपेता जिनवरवर्ण श्रुणित्व तुष्टा भोन्ति //

येषां अपरित्यक्त बुद्धज्ञानं एवं विरजा च अतुल्यनन्तबोधि / ये च चरन्ति व्रतम् अप्रमत्ता जिनवरवर्ण श्रुणित्व तुष्टा भोन्ति //

चतुर्हि भिक्षू धर्मेहि समन्वागतः तथागतो पूर्वे बोधिसत्वचारिकां चरन्तो सर्वलोक-अभ्युद्गतताम् अनुप्राप्तः // कतमेहि चतुर्हि // अच्छिद्रेण शीलस्कन्धेन . . . . .

[_mvu_2.357_] . . . . . सर्वसत्वहितचित्तताय सर्वसत्व-ओहितचित्तताय // इमेहि भिक्षूः चतुर्हि धर्मेहि समन्वागतः तथागतो पूर्वे बोधिसत्वचारिकां चरमाण इमं एवरूपं सर्वज्ञानम् अनुप्राप्तः //

___अथ खलु भगवान् ताये वेलाये इमां गाथाम् अभाषि //

शीलस्कन्धो धनं श्रेष्ठं लोकनाथस्य शासने / न सुवर्णं न च रूप्यं धनं भिक्षुस्य वर्णितं //

शीलं व पूजेतु शास्तु शासने सुप्रतिष्ठितो / दुःशीलो छम्भितो दूरं न सो बुद्धस्य श्रावको //

शीलं रक्षित्वा अच्छिद्रं पश्यन्ति द्विपदोत्तमा / लोकनाथा महावीरा द्वात्रिंशवरलक्षणाः //

मैत्राया शीलस्कन्धेन अरण्यवासे च उत्सुकः / सूरतः सुखसंवासो एतं श्रामण्यकं धनं //

अल्पेछो अल्पसन्तुष्टो सूरतो सुसमाहितः / हिरी-ओत्तप्पसंपन्नो एतं श्रामण्यकं धनं //

साधुशीला भिक्षू हि सर्वे तृष्णा छित्त्वान जालिनीं / सप्त बोध्यंगान् भावेन्ति एतं श्रामण्यकं धनं //

शून्यतां शान्तां भावेति भवा च विरतो मुनिः / बहुदुःखा असारा च एतं श्रामण्यकं धनं //

सो सो महाधनो भवति यो एवं प्रतिपद्यति / प्रतिपत्तीय संपन्नो स खु भिक्षु महाधनो //

[_mvu_2.358_] शीलसंपन्नो यो भिक्षुः स आढ्यो ति प्रवुच्चति / न हि मुक्ताप्रवाडेहि भिक्षु भोति महाधनो //

शीलवां सुखसंवासो भिक्षु भोतु अहिंसको / न हि चीवरलाभेन व्रजते भिक्षु स्वर्गतिं //

शीलं शुचि निषेवित्वा वर्जति सर्व-अक्षणां / न ज्ञातिलाभं एषन्तं शास्ता भिक्षुं प्रशंसति //

शीले आभोगं कृत्वान स्वर्गो भोति न दुल्लभो / प्रियो मनापः सर्वेषां यत्र यत्रोपपद्यति //

शीलं रक्षेथ मेधावी प्रार्थयन्तो त्रयो सुखां / प्रशंसां चित्तलाभं च प्रेत्य स्वर्गे च मोदनं //

शीलं प्रावरणं श्रेष्ठं अलंकारं प्रभास्वरं / शीलेन शोभितो भिक्षुः ददन्तो न विहन्यति //

शीलेन परिशुद्धेन कायो भोति प्रभास्वरो / न चास्य जायते दाघो मरणे प्रत्युपस्थिते //

शीलेन परिशुद्धेन फलप्राप्तिर् न दुल्लभा / किम् अंग पुनः स्वर्गति लोकनाथं च पश्यति //

शीलेन शोभितो भिक्षुः परिशुद्धेन मार्दवो / न हि उच्चेन भाषेण भिक्षु भोति प्रशंसितो //

शीलवां च असन्त्रस्तो न सो भायति कदा च न / न कदाचिद् युतागसं गच्छति भूतदुर्गतिं //

[_mvu_2.359_] शीलवां भोति अल्पार्थो अल्पकृत्यो गुणे रतो / समाधिं लभते क्षिप्रं स चापि प्रसादं गच्छति //

शीलस्कन्धेन गुप्तेन भिक्षु भोति विशारदो / न तस्य हन्यते चक्षुं पश्यित्वा जिनश्रावकां //

शीलं च भिक्षु शोधित्वा निवासं पुरिमं स्मरे / कल्पकोटीसहस्राणि संप्रजानप्रतिस्मृतो //

शीलस्य च स निष्यन्दो यं निरीक्षीय गच्छति / ब्रह्मलोकं महावीरो सर्वलोकस्य चेतियो //

शीलेन परिशुद्धेन दिव्यं चक्षु विशुध्यति / न तस्यागमनं भोति बुद्धक्षेत्रेषु सर्वशो //

शीलेन सुसमाप्तेन अप्रमेयतथागतः / च्युतोपपादं जानाति सर्वसत्वान नायको //

शीलवां विचरे लोके अप्रमत्तो प्रधानवां / न तस्य दुल्लभो भोति बुद्धघोषो मनोरमो //

शीलवां प्रियो सत्वानां भवति सर्वत्र पूजितो / सत्कृतो मानितश् चापि शुद्धचित्तो अनंगणो //

शीलेन परिशुद्धेन च्यवन्तं पश्यते नरः / विमानं रुचिरं श्रेष्ठं अप्सरोगणसेवितं //

शीलेन परिशुद्धेन च्यवन्तं पश्यते नरः / सुमेरुमूर्ध्ने रुचिरे त्रायस्त्रिशानमालये //

शीलेन परिशुद्धेन यामां पश्यति देवतां / तं चैव नगरं दिव्यं अप्सराहि परिस्फुटं //

[_mvu_2.360_] शीलेन परिशुद्धेन तुषितां पश्यति देवतां / विमानां पश्यति तेषां विचित्रां रतनामयां //

शीलेन परिशुद्धेन निर्माणरतीं पश्यति / सुनिर्मितां देवपुत्रां पश्यति च स्वलंकृतां //

शीलेन परिशुद्धेन देवां पश्यति शोभनां / परनिर्मितवशवर्ती विमानेषु प्रतिष्ठिता //

शीलेन परिशुद्धेन पश्यते मारमालयं / मणिवितानसंछन्नं अप्सरोगणसेवितं //

शीले आभोगं कृत्वान ब्रह्मां पश्यति देवतां / जांबूनदविमानं च मणीहि प्रतिमण्डितं //

शीलवां पश्यते भिक्षु देवां च ब्रह्मकायिकां / ब्रह्मपुरोहितां देवां विमानेहि प्रतिष्ठितां //

शीलवां पश्यते भिक्षुर् विमानेषु प्रतिष्ठितां / ब्रह्मपार्षद्यां च देवां महाब्रह्मां च देवतां //

शीलस्कन्धेन सम्पन्नो आभां पश्यति देवतां / विशिष्टां पश्यते तेषां विमानां रतनामयां //

शीलवां पश्यते भिक्षुः शुभां देवा महर्द्धिकां / पश्यते शुभकृत्स्ना पि अप्रमाणाभां पश्यति //

शीलं विशुद्धं रक्षित्वा परीत्तशुभां पश्यति / देवपुत्रसहस्राणि रूपधातुप्रतिष्ठितां //

शीलेन परिशुद्धेन पश्यति च बृहत्फलां / तथा अवृहां अतपां पश्ये सुदृशां च सुदर्शना /

[_mvu_2.361_] शीलेन परिशुद्धेन शुद्धावासां पि पश्यति //

ये तत्र परिनिर्वायि वारिसिक्तो यथानलो / ते पि भिक्षू पश्यन्ति शीलं रक्षित्व शोभनं //

शीले अशवलः सदा अभूषि पुरिमभवेषु विशिष्टलक्षमाणः / तेन दशबलं उपेति शास्तं तस्य विरोचति काये लक्षणेहि //

शीले सदा समाधौ अप्रमत्तश् च चरति जिनः पुरिमा अनन्तकल्पां / तेन भवति लोकधर्मस्वामी गगणगतो यथा सूर्यो रस्मिराजो //

एवं शीलं परिशुद्धम् आचरित्वा अपरिमितं तथा अनन्तकल्पं / सुगतो लंकृतः शोभते लक्षणेहि मुखातो वाति गन्धं चन्दनस्य //

इमां गुणां सततं विपश्यमाना जिनवरवर्णितं शीलं रक्षमाणाः / विहरथ पवने उदग्रचित्ता मुनिवर पूजित येहि ते प्रणीता //

दृष्ट पुरिम बुद्ध सार्थवाहा हतरजा सत्कृत पूजिता स्वयंभू /

[_mvu_2.362_] छन्दो जनितो बोधिये वराये इमे गुणाः श्रुत्वा उदग्रा बोधिसत्वाः //

पुनर् अपरं भिक्षवो शीलपरिशुद्धः तथागतः समाधिपरिशुद्धः प्रज्ञापरिशुद्धः विमुक्तिपरिशुद्धः विमुक्तिज्ञानपरिशुद्धः क्षान्तिपरिशुद्धो भिक्षवः तथागतो सौरभ्यपरिशुद्धो पि भिक्षवः तथागतो मैत्रापरिशुद्धो भिक्षवः तथागतो करुणामुदितापरिशुद्धो पि भिक्षवो तथागतो // एवं परिशुद्धस्य भिक्षो तथागतस्य यः सत्कारं कुर्यात् पुष्पमाल्यगन्धध्वजपताकाहि वाद्य-अनुलेपनेहि न तस्य पुण्यस्य शक्यं पर्यन्तम् अधिगन्तुं / नापि सो पुण्यस्कन्धं अन्तरेण शक्यं क्षपणाय अन्यत्र त्रीहि यानेहि अन्यतरान्यतरेण यानेन यावन् न परिनिर्वाणं तस्य पर्यन्तः // तत् कस्य हेतोः // यथा एवं हि भिक्षो तथागतो अप्रमाणः सर्वेहि गुणेहि तथा एवं भिक्षो तथागतो प्रतिष्ठापिता दक्षिणा अप्रमाणा अपर्यन्ता अचिन्तिया अतुलिया अमापिया अपरिमाणा अनभिलाप्या // यश् च खलु पुनः भिक्षो तथागतम् एतरहि तिष्ठन्तं यापयन्तं सत्करेया गुरुकरेया मानेय पूजेया पुष्पेहि गन्धेहि माल्येहि छत्रेहि ध्वजेहि पताकाहि वाद्येहि धूपेहि विलेपनेहि अन्नपानयानवस्त्रेहि यश् च परिनिर्वृतस्य सर्षपफलमालम् अपि धातुं सत्करेया इत्य् एतं समसमं //

___अथ खलु भगवां ताये वेलाये इमां गाथाम् अभाषीत् //

बोधाय चित्तं नामेत्वा हिताय सर्वप्राणिनां / यस् स्तूपं लोकनाथस्य करोति अभिप्रदक्षिणं //

स्मृतीमन्तो मतीमन्तो पुण्यवन्तो विशारदो / भोति सर्वत्र जातिषु चरन्तो बोधिचारिकां //

[_mvu_2.363_] देवनागान यक्षाणां राक्षसानां च पूजितो / भोति सर्वत्र जातीषु स्तूपं कृत्वा प्रदक्षिणं //

वर्जेति अक्षणां अष्टौ ये केचिद् देशिता मया / आरागेति क्षणं एकं बुद्धोत्पादं सुशोभनं //

वर्णरूपेण संपन्नो लक्षणेहि अलंकृतो / उपेतो वरवर्णेन अदीनमनमानसो //

आढ्यो महाधनो भोति पुण्यवन्तो अनीर्षुको / पश्यित्वा लोकप्रद्योतं सत्करोति पुनर् पुनः //

न सो मुह्यति धर्मेषु नैरात्म्यं दृष्ट्वा शून्यतां / प्रसादं लभते क्षिप्रं धर्मेण सो च कोविदो //

श्रेष्ठिकुलेषु आढ्येषु स्फीतेतु चोपपद्यति / अतिदानपतिः शूरो मुक्तात्यागो अमत्सरी //

ये केचिज् जंबूद्वीपस्मिं विशिष्टा कुलशोभनाः / तत्र सो जायते वीरो हीनां च परिवर्जयेत्* //

गृहपतिमहाशालो शिरितेजेन तेजितो / पूजितो भवति सर्वत्र स्तूपं कृत्वा प्रदक्षिणं //

ब्राह्मणमहाशालश् च प्रज्ञावन्तो बहुश्रुतो / क्षत्रियमहाशालश् च आढ्यो भोति महाधनो //

राजा पि धार्मिको भोति जंबूद्वीपस्मिं ईश्वरो / प्रशासति इमां च सर्वां मेदिनीं गिरिकुण्डलां //

चक्रवर्ती महर्द्धिकः सप्तरत्नान ईश्वरः /

[_mvu_2.364_] राज्ये प्रतिष्ठितो बुद्धं सत्करोति पुनर् पुनः //

च्युतश् च गच्छते स्वर्गं प्रसन्नो बुद्धशासने / शक्रो पि भोति देवेन्द्रो मेरुमूर्धनि ईश्वरो //

सुयामो भोति देवेन्द्रो भोति संतुषितो पि च / निर्मितो पि च देवेन्द्रो वशवर्ती च ईश्वरः //

ब्रह्मा पि ब्रह्मलोकस्मिं ईश्वरो भोति पण्डितो / सत्कृतो देवकोटीहि स्तूपं कृत्वा प्रदक्षिणं //

न शक्यं भाषणक्षपणं कल्पकोटिशतेहि पि / ये स्तूपं लोकनाथस्य करोन्ति अभिप्रदक्षिणं //

न जातु अन्धो काणो वा भोति कल्पान कोटिभिः / बोधाय चित्तं नामेत्वा यो वन्दे शास्तु चेतियं //

विशुद्धां लभते नेत्रां विशालां नीलशोभनां / चेतियं लोकनाथस्य कृत्वा अभिप्रदक्षिणं //

उपेतो बलवीर्येण न कौसीद्यं स गच्छति / अप्रमत्तो सदा भोति स्तूपं कृत्वा प्रदक्षिणं //

दृढवीर्यो दृढस्थामो धौरेयो दृढविक्रमो / कौशल्यं गच्छते क्षिप्रं स्तूपं कृत्वा प्रदक्षिणं //

अग्निविषेण शस्त्रेण न जातु कालं करोति च / कालं करोति पूर्णेन आयुःक्षीणेन पण्डितो //

विघुष्टो राजधानीषु राष्ट्रेषु निगमेषु च / रूपेण अर्थभोगेहि स्तूपं कृत्वा प्रदक्षिणं //

शुचिगात्रो शुचिवस्त्रः शुक्लधर्मप्रतिष्ठितो / ततो न सेवते कामां चरन्तो बोधिचारिकां //

[_mvu_2.365_] पुष्पस्य मालां कृत्वान यः स्तूपे उपनिक्षिपे / चित्तं बोधाय नामेत्वा न सो जातु विहन्यति //

इतश् च्यवित्वा मृतो हि त्रायस्त्रिंशां स गच्छति / विमानं लभते क्षिप्रं विचित्रं रतनामयं //

कूटागारांश् च प्रासादां अप्सरोगणसेवितां / मालां स्तूपे दहित्वान त्रायस्त्रिंशेषु भुंजति //

अष्टांगवरसंपूर्णां सुवर्णवालुकसंस्तृतां / वैडूर्यस्फाटिकास्तीर्णां दिव्यां पुष्करिणीं लभे //

भुंजित्वा विभवां दिव्यां परिपूरेत्व पण्डितो / च्यवित्वा देवलोकातो मनुष्यो भोति भोगवां //

तेन च कुशलमूलेन आरागति तथागतं / पूजेति द्विपदश्रेष्ठां अप्रमत्तो विचक्षणो //

न सो जय्यति रागेन नापि दोषेण ह्रीयति / ना जातु भोति संमूढः पूजेत्वा द्विपदोत्तमं //

अरक्तश् च अदृष्टश् च अमूढः संवृतेन्द्रयः / भोति सर्वत्र जातीषु पूजेत्वा लोकनायकं //

जातीकोटीसहस्राणि शतानि नयुतानि च / सत्कृतो भोति सर्वत्र मालां दत्त्वान चेतिये //

चक्रवर्ती अपि राजा शक्रो पि भोति ईश्वरः / ब्रह्मा पि ब्रह्मलोकस्मिं मालां दत्त्वान चेतिये //

पट्टदामं ददित्वान लोकनाथस्य चेतिये /

[_mvu_2.366_] सर्वे स्य अर्था वर्तन्ति ये दिव्या ये च मानुषाः //

हीनां च कुलां वर्जेति न स तत्रोपपद्यति / आढ्यश् च धनवां भोति जम्बूद्वीपस्मिं ईश्वरो //

रूपेणाथ भोगेहि च वर्णेन अथ ऋद्धिया / विशिष्टो भोति सर्वत्र पूजां कृत्वा तथागते //

जातिस्मरश् च सो भोति न सो रागेन ह्रीयति / जानते दोषं कामानां ब्रह्मचर्यं समादिये //

रूपेहि अथ शब्देहि रसेहि अपराजितो / न करोति पापकं कर्म पूजेत्वा द्विपदोत्तमं //

गन्धेहि अथ स्पर्शेहि न जातु स च ह्रीयति / स्मृतिमां संप्रजानश् च भोति पूजेत्व नायकं //

न तस्य चौरा राजानो धनस्कन्धं परामृषे / अग्निर् वा अपस्करोति पूजां कृत्वा तथागते //

शोकं च शोकवैराग्यां न सो जातु निगच्छति / पट्टदामं ददित्वान पुष्पं च लोकनायके //

सर्वत्र भोति जातीषु अशोक अनुपद्रुतो / पूजेत्वा लोकप्रद्योतं चक्रवर्ती महर्द्धिको //

सुघट्टितहस्तपादो अंगशोभां निगच्छति / वर्णरूपेण संपन्नः पूजेत्वा लोकनायकं //

वर्जेति पापकं कर्म चरन्तो बोधिचारिकां / पश्यते द्विपदश्रेष्ठां ये लोकस्मिं सुदुर्लभा //

[_mvu_2.367_] कल्पकोटीसहस्राणि शतानि नयुतानि च / भुंजित्वा सौख्यं सप्रज्ञो बुध्यते बोधिम् उत्तमां //

मालाविहारं कृत्वान लोकनाथस्य धातुषु / अभेद्यपरिवारेण राजा भोति महर्द्धिको //

वर्जेति पापकां धर्मा ये आर्येहि विवर्जिता / चरति कुशलां धर्मां ये बुद्धेहि प्रशंसिता //

प्रियश् च दयितो भोति सत्कृतश् च प्रशंसितो / देवानाम् अथ नागानां ये च लोकस्मिं पण्डिता //

महता परिवारेण शोभनेन महाबलो / पूजयति द्विपदश्रेष्ठं संबुद्धम् अपराजितं //

यत्र सो जायते गेहे पुण्यतेजेन तेजितो / तं कुलं सत्कृतो भोति राष्ट्रेण निगमेन च //

मालाविहारं कृत्वान चित्तं बोधाय नामये / तस्यैषा भोति संपत्ति या बुद्धेहि प्रशंसिता //

न सो कुब्जो च खंजो वा खलितो वा विचंक्रमो / अलंकृतो लक्षणेहि यत्र यत्रोपपद्यति //

दरिद्र सत्व पश्यित्वा धनेन अभिच्छादये / असंहरणीयश् च सो चरन्तो बोधिचारिकां //

इमां च वसुधां सर्वां ओशिरित्वा महामतिः / अदीनचित्तो सो भोति न सो जातु विषीदति //

पुत्रांश् च धीतरांश् चैव भार्या कल्याणभद्रिकां / ओशिरित्वान सो याति यो बोधिम् अभिप्रस्थितो //

पूर्वालापी च सो भोति सुमुखश् च सुदर्शनः /

[_mvu_2.368_] न सो हन्यति ईर्ष्याये न च मानेन कदा चन //

सो अनीर्षु सूरतश् चैव क्षान्तिये पारमिंगतो / हितैषी गुणसंपन्नो यो बोधिम् अभिप्रस्थितो //

रतनं सर्वलोकस्मिं उत्पादस् तस्य दुर्लभो / अनिंदितो दक्षिणीयो यो बोधिम् अभिप्रस्थितो //

गगणे निमिषे शक्यं बालेन गणेतु तारकां / न तस्य गुणपर्यन्तं शक्यं वाचाय भाषितुं //

शक्यं सर्वेषां सत्वानां त्रियध्वचित्तं जानितुं / न तस्य गुणपर्यन्तं शक्यं वाचाय भाषितुं //

महासमुद्राश् चत्वारो बालेन सिकतां तथा / नागकोटीसहस्राणि न तस्य गुण भाषितुं //

ये रोमा सर्वसत्वानां गतिषु षट्सु ये जगे / गणेतु निमिषे शक्यं न तस्य गुण भाषितुं //

यत्रेयं वसुधा सर्वा आपस्कन्धे प्रतिष्ठिता / निर्मितुं शक्यते बालेन न तस्य गुण भाषितुं //

देवागारम् उपादाय ये कल्पस्थायिजीविनो / ये अत्रान्तरेण वृक्षा ये च भूमि अनागता //

पुष्पा फलानि च शक्यं गणयितुं विजानता / त तस्य बुद्धपुत्रस्य गुणपर्यन्त भाषितुं //

भाषेयुस् तस्य शूरस्य वर्णमालां मनोरमां /

[_mvu_2.369_] न शक्यं बुद्धपुत्रस्य गुणपर्यन्त भाषितुं //

जातीशतसहस्राणि यः से करेय अप्रियं / देवा मनुष्यां वर्जेत्वा निरयस् तस्य गोचरः //

अन्धो अचक्षुको भोति दुःखितो अपरायणो / उत्पीडां बोधिसत्वानां यः करोति अविद्दसु //

च्युतो अवीचिं गच्छेया दारुणं भयभैरवं / महता आत्मभावेन दुःखां वेदेति वेदनां //

योजन-आत्मभावेन भोति तत्रोपपद्यते / समन्तमण्डलाकीर्णो समन्तपरितापितो //

पंच शीर्षसहस्राणि आत्मभावे प्रतिष्ठिता / एकशीर्षे च जिह्वानां शता पंच अनूनका //

हलानां शत एकस्मिं जिह्वाग्रे प्रतिपादिता / तं पाचेति महाघोरं पापकर्मस्य तत् फलं //

अवीचितश् च्यवित्वान तपनं च प्रतापनं / वेदेति तत्र दुर्मेधो पौराणं दुष्कृतं नरो //

उत्पीडां बुद्धपुत्राणां यः करोति अविद्दसु / न तस्य सुलभो जातु भेष्यते मानुषो भवः //

जातीशतसहस्राणि शतानि नयुतानि च / दुःखा वेदनां वेदयति ततोनिदानं पच्यति //

मज्जाघासो विषो भोति अभिमर्दो भयानको /

[_mvu_2.370_] उत्पीडनं करित्वान बुद्धपुत्राण तायिनां //

क्षुधापिपासाम् अधिगतो पापकर्मस्य तत् फलं / न सो भोजनं लब्ध्वान जातु तृप्तीय भुंजति //

ततो च्यवित्वा यमलोके महाद्रोणिषु खज्जति / न त्राणं लभते जातु कृत्वा उत्पीड भिक्षुणां //

ततो च्युतः कालगतो मानुषं लोकम् आगतो / जात्यन्धो भोति दुर्मेधो दृष्टचित्तो असंवृतो //

वाचा दुर्भाषिता भवति असत्या घोषपापिका / मनुष्येहि च्यवित्वान क्षिप्रं गच्छति दुर्गतिं //

कल्पकोटीसहस्रेहि न जातु बुद्धं पश्यति / उत्पीडां बुद्धपुत्राणां यः करोति असंवृतो //

वस्तुषु बुद्धपुत्राणां करोन्तो रक्ष धार्मिकां / वर्जेति दुर्गती सर्वां क्षिप्रं गच्छति स्वर्गतिं //

आढ्यो महाधनो भवति बलवन्तो विशारदो / स्मृतिप्रज्ञाय संपन्नो सुखितो भोत्य् अनुपद्रुतो //

यदा च लोकप्रद्योता भवन्ति परिनिर्वृता / पश्यित्वा बुद्धस्तूपानां सत्करोन्ति पुनर् पुनः //

को इमान् एदृशा धर्मां श्रुत्वा बुद्धस्य भाषितां / प्रसादं बुद्धपुत्राणां न करेया पुनः पुनः //

यश् च बुद्धसहस्राणि शतानि नयुतानि च / यथा वालिका गंगाये एत्तकां कल्प सत्करे //

यश् च प्रलुज्जन्तं सद्धर्मं लोकनाथेन दर्शितं /

[_mvu_2.371_] एकरात्रिंदिवं चापि धारये पुण्यं विशिष्यति //

अहं च पूजितो भोति बुद्धज्ञाने प्रतिष्ठितः / ते पि च पूजिता बुद्धा धर्मे लुज्जन्ते धारिते //

प्रलुज्जमाने सद्धर्मे यो रक्षे शास्तु शासनं / कल्पकोटीसहस्रेहि न सो जातु विहन्यति //

कायेन सुखितो भोति न स रोगं च गच्छति / अमनापसहस्रेहि न जातु संहरीयति //

क्षान्तिये भोति संपन्नो सूरतः सखिलो मृदुः / मैत्रचित्तश् च सत्वेभ्यो रक्षित्वा शास्तु शासनं //

सुखितो प्रमुदितः प्रतिक्रोशं प्रतिलभति पुरिमनिरोधदृष्टं / सर्वां जहति अक्षणां अशेषा जिनवरधर्म धारेत्वा लुज्जमानं //

कवचितो सदा भोति लक्षणेहि यथा गगणं प्रतिपूरं तारकेहि / स मधुरवचनो मनोज्ञघोषो जिनवरधर्म धारेत्व लुज्जमानं //

हीनकुलविवर्जितो स भोति सुखितं येषु न अस्ति सौमनस्यं / आढ्य सुखित भोति भोगवां च

[_mvu_2.372_] जिनवरधर्म धारेत्व लुज्जमानं //

स्थामवर उपेति वीर्यवन्तो विचरति सर्वां वसुन्धरां अदीनो / बुद्धशतसहस्र सत्करोति जिनवरधर्म धारेत्व लुज्जमानं //

स्मृतिमतिगतिवन्तो पुण्यवन्तो परमसुसत्कृतु भोति नरामरेषु / विदु परमप्रशस्त जंबुद्वीपे जिनवरधर्म धारेत्व लुज्जमानं //

परमसु-अभिरूपदर्शनीयो प्रिय भवति नरनारीणां मरूणां / सुरुचिरु प्रशस्तु पुण्यवन्तो जिनवरधर्म धारेत्व लुज्जमानं //

कल्पशतसहस्रकोटी पूरां गुणस्थाविर्यसंगतो अनन्तज्ञानी / नो च क्षपेय सर्व आनुशंसं जिनवरशासनं लुज्जितं धरेत्वा //

येषाम् इमं पुरिमसूत्रं शास्ता दशबलधारि प्रकाशि देवदेवो / तेषाम् इदं नराणां हर्षम् अप्रकम्प्यं भविष्यति पश्चिमे काले वर्तमाने //

भाषेच् च जिनवरधर्म निर्वृतानां

[_mvu_2.373_] श्रद्धाय तेषां धरयति गारवेण / दानं च देति अपरिमितचेतियेषु पूजेति संघ भगवतो च गारवेण //

प्रलज्जमाने जिनवरशासनस्मिं धारेति शास्तु वरधर्मनेत्री / सो तं अकरित्वा शुभकर्मश्रेष्ठं नोपचक्रमे शुभं कालकर्मं //

सर्वे च सत्वा सियु लोकनाथा समन्तचक्षू हतरजनिष्किलेशा / ते कल्पकोटीनयुतां सहस्रां भाषेयु वर्णं जिनवरे पुष्पदिन्ने //

पापं च कर्मं विजहति सर्वकालं श्रेष्ठं च धर्म प्रकरि उदग्रचित्तो / चरित्वार्थं सुचिरं चारिकासु सो बुद्धो लोके भवति अतुल्यो //

यः सार्षपेण सूक्ष्मतरं ग्रहेत्वा धूपेय गन्धं भगवतो चेतियेषु / तस्यानुशंसां शृणोथ मे भाषमाणं प्रसन्नचित्ता जहिय किलेशां //

सो पुण्यवन्तो चरति दिशासु अरोगप्राप्तो दृढव्रत अप्रमत्तो / विनेति लोकां चरयन्तो चारिकां प्रियो मनापो भवति जनस्य //

[_mvu_2.374_] राज्यं च प्राप्तो जिन सत्करोति महानुभावो विदु चक्रवर्ती / सुवर्णवर्णो स्फुटो लक्षणेहि मनोज्ञगन्धां लभते सर्वकालं //

तस्य दुःखं नास्ति दौर्मनस्यं स भोगां हीनां वितरि चारिकासु / आढ्यश् च भोति धनवां प्रभूतभोगो अशेषप्राप्तो विचरति सर्वलोके //

उपसंक्रमि बहुजनं पृच्छमानो धर्मं विशिष्टं जिनशासनस्मिं / विनेति कांक्षां गिरां भाषमाणः श्रुत्वा च धर्मं लभे सौमनस्यं //

न पापकर्मं करि हीनबुद्धिः ज्ञानं तु ज्ञात्वा परमं विशिष्टो / करोति दिव्यं शुभप्रेमणीयं शोधेति चक्षुं विधमति अन्धकारं //

न तीव्ररागो भवति न तीव्रदोषो न तीव्रमोहो भवति मनुष्यलोके / चरन्त शुद्धं अशबलब्रह्मचर्यं करोति अर्थं अपरिमित-अनन्तं //

न कस्यचिद् भवति प्रदुष्टचित्तो न भोगहानिर् भवते कदाचित्* / न तस्य नीघो भवति जनस्य धूपेत्व गन्धं जिनचेतियेषु //

[_mvu_2.375_] विशुद्धचित्तो विमलो विधूतपापः शान्तः प्रशान्तः परशमेनुपेतः / कल्पान कोटी नयुता शतां चरित्वा बोधिं अतुल्यां स्पृशति अदीनचित्तो //

सत्वान कोटीनयुतां सहस्रां मार्गे अशोके परमे स्थपेत्वा / वर्तेत्व चक्रं असदृशं सर्वलोके निर्वायि पश्चा हतरजो निष्किलेशो //

पताकं दत्त्वा भगवतो चेतियेषु जनयेत्* छन्दं कथम् अस्मि बुद्ध लोके / सो पूजनीयो भवति जनस्य चरन्तु श्रेष्ठो जिनचारिकाये //

विघुष्टशब्दो भवति विदु प्रशंस्यः शुद्धं विशुद्धं लभे आत्मभावं / उद्वीक्षणीयो भवति जनस्य देवान नागान गुरु पूजितश् च //

सुवर्णवर्णो सद आत्मभावो लाभी च भोति शुभचीवराणां / कर्पासिकानाम् अथ कम्बलानां क्षोमदुकूलान च कौशिकानां //

ये जंबुद्वीपे कुलश्रेष्ठ भोन्ति आढ्या महात्मा बहुधनस्वापतेया / तत्रैव तस्य भवतोपपत्ति

[_mvu_2.376_] वर्जेति हीना कुला ये दरिद्रा //

येन तस्य क्वचिज् जनियति ईश्वरत्वं प्रदुष्टचित्तो न भवति कश्चि सत्वो / पापं च कर्मं गरहति सो परेषां विशुद्धशीलो भवति सदाप्रमत्तो अमत्सरी भवति अनाग्रहीतः सो मुक्तत्यागो भवति अशोकप्राप्तो / न जीविकार्थं जनयति सो परेषां विघुष्टशब्दो भवति सदा प्रशस्तो //

पश्यित्व बुद्धं महासार्थवाहं करोति पूजां सद हृष्टचित्तो / छत्रैः पताकैः ध्वजगन्धमाल्यैः सदा चरन्तो अशबलब्रह्मचर्यं //

मनुष्यलोके गुरुकृत सत्कृतो च देवेषु दिव्यं लभति विमानश्रेष्ठं / मनोज्ञवर्णं सुरुचिरदर्शनीयं रजताभिच्छन्नं मणिस्फाटिकेहि //

[चित्रं] सुमेरुमूर्ध्ने लभति ईश्वरत्वं सर्वे स्य देवा अभिनत शिष्यभूता / धर्मेण तेषां जनयति सौमनस्यं न जातु भोति परमप्रमत्तो //

ततो च्यवित्वा भविष्यति मनुष्यलोके राजान श्रेष्ठो वरचक्रवर्ती / न तस्य पापं जनयति कश्चि सत्वः

[_mvu_2.377_] प्रियो मनापो भवति जनस्य //

कल्पान कोटीनयुता सहस्रां लभित्व सौख्यं सुचिरं मर्त्यलोके / गत्वान देशं पुरिमजिनान वुट्ठं सो बोधिं बुद्धे अजरमराम् अशोकां //

ध्वजं दहित्वा हतरजसत्वसारे तं च प्रसूतं लभे नो चिरेण / प्रभूतकोशो भवति अनोपमप्रज्ञो परिवार तस्य होति अदीनचित्तो //

लभित्व भोगां विभजति भुंजते च न तस्य त्रासो भवति न दौर्मनस्यं / राजा सो तुष्टो वितरति ग्रामराष्ट्रं न पापचित्तं जनयति तस्मिं जातु //

श्रेष्ठी विशिष्टो भवति प्रभूतकोशो गृहपतिश् च रतनविचित्रितांगो / पुत्रो च राज्ञो अथ वा अमात्यो राजा च भवति बलचक्रवर्ती //

वर्जेति सो हीनकुलानि सर्वान्* विशिष्टभोगं कुलरत्नं लभित्वा / सदाप्रमत्तो भवति अलीनचित्तो वर्जेति कामां यथ मीढकुम्भं //

[_mvu_2.378_] विशिष्टरूपं लभते क्षणांश् च कुले च श्रेष्ठे भवतीश्वरश् च / परिवारस् तस्य भवति अभेद्यो पुरस्कृतश् च भवति जनेन //

न चित्तशूलं जनयति सो पुरेषु प्रसन्नचित्तो सदा अप्रमत्तो / न तस्य अग्नि क्रमते न शस्त्रं उल्लोकनीयो सद पुण्यवन्तो //

प्रमादं सो न चरति पुण्यवन्तो सुसंप्रजानो सद सो मनुष्यो / सुनिगृहीतो भवति मुक्तचित्तो न तस्य . . . . धर्मस्य अन्तो //

सुतीक्ष्णगात्रो भवति विशिष्टो सुविशुद्धचित्तो भगवां सत्यवादी //

भयार्दितानां जने सौमनस्यं त्राणं चरेय च परायणं च //

स वै करित्वा बहुकामनुष्यं प्रतिस्थिहित्वा महाज्ञानस्कन्धे / गच्छित्व मण्डं वरपादपेन्द्रं बुद्धे अतुल्यो वर-अग्रबोधिं //

हेष्टा उपादाय भवाग्रपूरं

[_mvu_2.379_] जाम्बूनदस्य इमं बुद्धक्षेत्रं / शक्यं क्षपेतु शिरिम् एवरूपां न बुद्धस्तूपे धरयतो एकदीपं //

न तस्य कायो भवति विवर्णो दृढे स पीठे . . . . . अच्छति / आलोकप्राप्तो चरे सर्वलोके दहित्व दीपं भगवतो चेतियेषु //

यदा च भोति जिनप्रादुर्भावो {सेनर्त्: -प्रादुभावो} आसन्नप्राप्तो भवति तथागतस्य / पुत्रो च भ्राता अथ पिता वा ज्ञातिको सो ज्ञानस्कन्धं लभे नचिरेण //

बुद्धान क्षेत्रा नयुतामिता सहस्रा पूरा भवेन्सुः यदि सर्षपाणां / शक्यं गणेतुं तुलय्य जानितुं वा न बुद्धस्तूपे धरयतो एकदीपं //

अग्रार्हं बुद्धो वरदक्षिणीयो अग्रां चरित्वा चारिकां विशिष्टां / करित्व पूजं गुणसागरस्य विपाको अग्रो भवति अनोपमो //

वैडूर्यरत्नेहि मणीहि पूरा सर्वा सियायं सहालोकधातु / शक्यं क्षपेतुं शिरिम् एवरूपां न बुद्धस्तूपे धरयतो एकदीपं //

[_mvu_2.380_] कार्षापणेहि सहलोकधातुं हेष्टा उपादाय भवाग्रपूरां / शक्यं क्षपेतुं शिरिम् एवरूपां न बुधस्तूपे धरयतो एकदीपं //

क्षेत्रसहस्रा वरचन्दनेन हेष्टा उपादाय भवाग्रपूरां / शक्यं क्षपेतुं शिरिम् एवरूपां न बुद्धस्तूपे धरयतो एकदीपं //

क्षेत्रा सहस्रा बहुवस्त्रपूरा यं देवलोके शुभकस्मि दुष्यं / शक्यं क्षपेतुं शिरिम् एवरूपां न बुद्धस्तूपे धरयतो एकदीपं //

देवेषु दिव्या च रत्ना विचित्रा नागासुरमनुजमहोरगानां / शक्यं क्षपयितुं शिरिम् एवरूपां न बुद्धस्तूपे धरयतो एकदीपं //

ये दिव्यगन्धा नरदेवलोके तेहि भवेया सहा संप्रपूरा / शक्यं क्षपेतुं शिरिम् एवरूपां न बुद्धस्तूपे धरयतो एकदीपं //

प्रमाणं शक्य दिशि विदिशासु ज्ञातुं आकाशधातु अयम् एत्तिको ति /

[_mvu_2.381_] न बुद्धस्तूपे धरयतो एकदीपं प्रमाण शक्यं गणयितुं पुण्यस्कन्धे //

छत्रं से दिन्नं भगवतो मारुतानां बुद्धोत्तमस्य व्रजतो नरर्षभस्य / चित्तं प्रसादेत्व नरोत्तमस्मिं मा बुद्धकायं तपे रस्मिराजा //

सो तं करित्वा अहं धर्मश्रेष्ठं शतं सहस्रं मरुशक्र आहु / ब्रह्मापि आसि अहं ब्रह्मलोके शतसहस्रं ददिय जिनस्य च्छत्रं //

राजा अभूषि अहं चक्रवर्ती शतसहस्रं दशदिशाचरो भूयः / श्रेष्ठी अभूत्* धनवां प्रभूतकोशो गृहपति बहुधनो पुण्यवन्तो //

विंशच् च कोटि सुगतोत्तमानां आगमित मे गुरुकृत सत्कृता च / शय्यासनेहि . . . . . . . . . . . . . विहारास् तेषां कृतगन्धलिप्ताः / दौर्गन्धियं अपगतं सर्व मह्यं उष्णं च शीतं विवर्जितं मे //

तुष्टो च भोसि परमोदग्रचित्तो पूजां च तेषां परमोत्तमानां / करोषि अलंकृत्वा शुभदर्शनीयं

[_mvu_2.382_] ददित्व च्छत्रं जिनचेतियेहि //

तस्यापि भोति शुभ आत्मभावो द्वात्रिंशतीहि स्फुट लक्षणेहि / येहि स्य नित्यं प्रतपति आत्मभावः यूपो विशिष्टो यथ कांचनस्य / जाम्बूनदस्य यथ दर्शनीयो असंप्रकीर्णो स्फुटो व्यंजनेहि //

अभिज्ञप्राप्तो भवति भिषच्छ्रेष्ठो चरन्तो जित्यं जिनचारिकासु / न भोगहीनो भवति कदाचिद्* देवान भोति गुरु पूजितो च //

न कामभोगै रमते कदाचिद्* विशुद्धशीलो सद ब्रह्मचरी / समादियित्वा पवनं व्रजित्वा अरिक्तध्यानो सुविशेषप्राप्तो //

न ध्यानहानिर् भवते कदाचित्* न बोधिचित्तं जहते कदाचित्* / मैत्राविहारी सद हृष्टचित्तो ददित्व च्छत्रं जिनचेतियेषु //

वाद्येषु पूजित्व नरर्षभस्य न शोकशल्या प्रसहन्ति तस्य / मनोज्ञघोषो च मनुष्यलोके स्वरं च तस्य विशुद्ध भोति //

विशुद्धश्रोतो च उदग्रचित्तो

[_mvu_2.383_] विशुद्धचक्षू च सुसंप्रजानो / श्रोतेन्द्रियेण सु-उपेतो भोति वादेत्व वाद्यं जिनचेतियेषु //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.