Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

करुणापुण्डरीकसूत्र

Thông tin
GRETIL — Isshi, Yamada, Mahakarunapundarika Sutra. London: School of Oriental and African Studies, 1968, 1-420.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

"जन्मकान्तार उद्युक्ता मिथ्यामाश्रय सङ्कटा / गृहीता दग्धसन्ताना मांसरुधिरभोजना" //

अक्षोभ्य आह -

"अविद्याण्डकप्रक्षिप्ता क्लेशपङ्के समुत्थिताः / गृहीता दग्धसन्ताना (क्प्सू 279) आनन्तर्यकारकाः" //

गन्धहस्तो ऽप्याह -

"त्वमनागतभयं दृष्ट्वा यथा आदर्शमण्डले / गृहीता दग्धसन्तानाः सद्धर्मप्रतिक्षेपकाः" //

रत्नकेतुरप्याह -

"ज्ञानशीलसमाधानः कृपाकरुणभूषितः / गृहीता दग्धसन्ताना आर्याणामपवादकाः" //

विगतभयसंताप आह -

"त्वं दुःखं दृष्ट्वा सत्त्वानां त्र्यपायगतिमध्वनि / गृहीता दग्धसन्तानाः तुच्छमुष्टित्वयाश्रिताः" //

उत्पलहस्तो ऽप्याह -

"कृपाज्ञानेन वीर्येण पर्षा त्वयि मर्दिता / गृहीता दग्धसन्ताना जन्मामरणपीडिताः" //

ज्ञानकीर्तिराह - "बहुरोगोपहता क्लेशवायुसमीरिताः / शमेसि ज्ञानतोयेन (क्प्सू 281) मारबलं प्रमर्दसि" //

धरणीमुद्रो ऽप्याह -

"न वीर्यं दृढमस्माभिः क्षीणे क्लेशविमोक्षणे / यथा त्वं शूरसूर्येव क्लेशजालं प्रमर्दसि" //

उत्पलचन्द्रो ऽप्याह /

"दृढवीर्यसमुत्साह यथा गुणकृपाश्रयः / मोचेसि त्वं त्रयं लोक्यं प्रबद्धं भवबन्धनैः" //

विमलेन्द्र आह -

"महाकारुणि निर्दिष्ट बोधिसत्त्वान गोचरः / वयं हि त्वां नमस्यामः कृपाहेतुसमुत्थितः" //

बलवेगधार्यप्याह -

"क्लेशयोगे कलियुगे या बोधिस्त्वया समाश्रिता / छिन्द क्लेशे समूलांस्त्वं सिध्यते प्रणिधिर्दृढा" //

ज्योतिपालो ऽप्याह -

"ज्ञानकोशसमं तुल्यं कृता प्रणिधि निर्मला / वर्तसे बोधिचर्याय सत्त्वौषधिस्तवाश्रयः" //

बलसन्दर्शनो बोधिसत्त्वो महासत्त्वः प्ररुदमानो ब्राह्मणस्य पञ्चमण्डलेन पादौ वन्दित्वाञ्जलिं प्रगृहीतवानाह -

"अहो ज्ञानोल्क सत्त्वेभ्यः क्लेशरोगविशाटनी / कृपालु प्रज्वालिता ते सत्त्वान् मोचेसि दुःखितान्" //

सर्वावती च कुलपुत्र सा पर्षा सदेवगन्धर्वमाणुषा ब्राह्मणस्य पञ्चमण्डलेन पादौ वन्दित्वा कृताञ्जलिः स्थित्वा विचित्राभिरन्वयपदयुक्ताभिर्गाथाभिसभिस्तवित्वा तस्थौ //

यदा च कुलपुत्र समुद्ररेणुर्ब्राह्मणो रत्नगर्भस्य तथागतस्याग्रतो दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठापयति / अथ तावदेव महापृथिविचालः प्रादुर्भूतः समन्ताच्च दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु बुद्धक्षेत्रेषु पृथिवी चलति प्रचलति संप्रचलति क्षुभति प्रक्षुभति संप्रक्षुभति वेधति प्रवेधति संप्रवेधति रणति प्ररणति संप्ररणति / पुनरपि महान् अवभासः प्रादुर्भूता, विविधा च पुष्पवृष्टिः प्रवर्षितास्तद्यथा मान्दारवमहामान्दारवं यावदनन्तप्रभा एवंरूपा पुष्पवृष्टिः प्रवर्षितवती / यद्दशसु दिशासु बुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ति यापयन्ति परिशुद्धेषु बुद्धक्षेत्रेषु अपरिशुद्धेषु वा सत्त्वानां धर्मं देशयन्ति / ये च तत्र बोधिसत्त्वा महासत्त्वास्तेषां बुद्धानां भगवतामन्तिके निषण्णा धर्मश्रवणाय ते बोधिसत्त्वा महासत्त्वास्तं पृथिवीचालं दृष्ट्वा पुनस्ते बोधिसत्त्वास्तां बुद्धां भगवतः परिपृच्छन्ति / "को भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य (क्प्सू 285) लोके प्रादुर्भावाय, महत्याश्च पुष्पवृष्टेरभिप्रवर्षतु?" /

तेन खलु पुनः समयेन पूर्वस्यां दिशि इतो बुद्धक्षेत्रादेकगङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रम्य रत्नविचया नाम लोकधातुस्तत्र रत्नविचये बुद्धक्षेत्रे रत्नचन्द्रो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो भगवांस्तिष्ठति यापयति अप्रमेयेभ्यो ऽसंख्येयेभ्यो बोधिसत्त्वेभ्यः पुरस्कृतः परिवृतो धर्मं देशयति स्म यदुत बुद्धक्षेत्रे महायानकथा / तत्र बुद्धक्षेत्रे रत्नकेतुर्नाम बोधिसत्त्वो महासत्त्वाश्चन्द्रकेतुश्च; तौ द्वौ बोधिसत्त्वौ येन रत्नचन्द्रस्तथागतस्तेनाञ्जलिं प्रणम्य रत्नचन्द्रं तथागतमेतदवोचतां - "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावाय, महत्याश्च पुष्पवृष्टेः प्रवर्षणतायै?" / रत्नचन्द्रस्तथागत आह - "अस्ति कुलपुत्र पश्चिमायां दिशीतो बुद्धक्षेत्रादेकगङ्गानदीवालिकासमान् बुद्धक्षेत्रानतिक्रम्य तत्र सन्तीरणो नाम लोकधातुः /

तत्र सन्तीरणे बुद्धक्षेत्रे (क्प्सू 286) रत्नगर्भस्तथागतो यावद्बुद्धो भगवांस्तिष्ठति यापयति बहुबोधिसत्त्वकोटिर्व्याकरोत्यनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वविषयसंदर्शनप्रणिधानव्यूहसमाधिविषयधारणीमुखव्यूहं धर्मपर्यायं भाषमाण; एकश्चात्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तेनैवंरूपं प्रणिधानं कृतं महाकरुणापरिभाविता वाग्भाषिता अनुत्तरायां सम्यक्संबोधौ व्याकरणनिर्देशं बोधिसत्त्वानां तथारूपा प्रणिधाना उद्भाषिता यद्बहुभिः प्राणकोटिभिर्बोधौ प्रणिधानं कृतं, बुद्धक्षेत्रगुणव्यूहाश्च परिगृहीता वैनेयसत्त्वाश्च परिगृहीताः, सर्वतश्च स एको महाकरुणासमन्वागतो महाबोधिसत्त्वो यः सर्वावतीं तां पर्षदमभिभूय क्लिष्टं पञ्चकषायं क्लेशरणिकलियुगं बुद्धक्षेत्रं सर्व आनन्तर्यकारका यावदकुशलमूलसमवधानगता दग्धसन्ताना वैनेयाः परिगृहीताः; सर्वावती च सा पर्षत् सदेवगन्धर्वमाणुषासुरश्च लोकस्तं रत्नगर्भं तथागतमपहाय तस्य महाकारुणिकस्य पश्चिमकस्य पूजायोद्युक्ताः पञ्चमण्डलेन च वन्दित्वा प्राञ्जलीभूताः स्थितास्तस्य वर्णं भाषते / स च (क्प्सू 287) महासत्त्वस्तस्य भगवतो रत्नगर्भस्य तथागतस्य पुरतो निषण्णो व्याकरणं शृण्वानः / यदा च स महासत्त्वस्तस्य भगवतः पुरतो दक्षिणं जानुमण्डलं पृथिव्यां निक्षिप्तवांस्तदा स भगवांस्तथारूपं स्मितं प्रादुरकार्षिद्यथा दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमा लोकधातवश्चलिताः पुष्पवर्षं चाभिप्रवर्षितं /

सर्वत्र च तेषु बुद्धक्षेत्रेषु ते बोधिसत्त्वा महासत्त्वाः प्रबोधनार्थं महाकरुणाबोधिसत्त्वप्रणिधानचर्यानिदर्शनार्थं बोधिसत्त्वानां च महासत्त्वानां बुद्धक्षेत्रपरमाणुरजःसमेभ्यो दिग्भ्यो बुद्धक्षेत्रेभ्यः सन्निपतनार्थं बोधिसत्त्वानां च महासत्त्वानां समाधानमुखनिर्देशचर्यावैशारद्यधर्मपर्यायां भाषणार्थं तेन तथागतेन एवंरूपाणि प्रातिहार्याणि दर्शितानि" /

तौ च कुलपुत्र द्वौ बोधिसत्त्वौ तं रत्नचन्द्रं तथागतं परिपृच्छते स्म / कियच्चिरोत्पादितं भदन्त भगवांस्तेन महाकारुणिकेन बोधिसत्त्वेन महासत्त्वेन बोधिचित्तं?; कियच्चिरं बोधिचारिकां चीर्णवान्, येन पञ्चकषाये लोके तीव्रक्लेशरणे कलियुगे वर्तमाने कालः (क्प्सू 288) परिगृहीत आनन्तर्यकारका यावदकुशलमूलसमवधानगता दग्धसन्तानाः सत्त्वा वैनेयाः परिगृहीताः?" / रत्नचन्द्रस्तथागत आह - "सांप्रतं कुलपुत्र तेन महाकारुणिकेन प्रथमचित्तमुत्पादितं अनुत्तरायां सम्यक्संबोधौ / गच्छत कुलपुत्र यूयं तत् सन्तीरणं बुद्धक्षेत्रं तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय / तं च समाधानमुखनिर्देशं चर्यावैशारद्यधर्मपर्यायं श्रोष्यथ / तं च महाकारुणिकं बोधिसत्त्वं महासत्त्वं मद्वचनान् पृच्छथ; एवं च वदथ, "रत्नचन्द्रस्तथागतस्त्वां सत्पुरुषं पृच्छति / इदं च चन्द्ररोचविमलं पुष्पं प्रेषितवान्, साधुकारश्चानुप्रदत्त / एवं च प्रथमचित्तोत्पादेन त्वं सत्पुरुष महाकारुणिकव्याहारेण दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमासु लोकधातुषु बुद्धक्षेत्राणि शब्देनापूरितानि, तेन त्वया सर्वत्र महाकारुणिक नाम प्रतिलब्धं / तेन त्वं सत्पुरुष साधु भूयः पश्चिमकानां महाकारुणिकानां बोधिसत्त्वानां महासत्त्वानां महाकरुणाव्याहारेण प्रणिधाननेत्रीध्वजमुच्छ्रयणं / तेन त्वं सत्पुरुष (क्प्सू 289) भूयो बुद्धक्षेत्रपरमाणुरजःसमान् अनागतानसंख्येयान् कल्पान् बुद्धक्षेत्रपरमाणुरजःसमान् दशदिशि लोकधातुषु यशःकीर्तिशब्देनापूरय /

येन त्वया बह्वसंख्येयसत्त्वकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ समादापितानि निवेशितानि प्रतिष्ठापितानि भगवतः सकाशमुपनीतानि, अवैवर्तिकानि स्थापितान्यनुत्तरायां सम्यक्संबोधौ / भविष्यन्ति केचित्तत्र प्रणिधानेन बुद्धक्षेत्रगुणव्यूहां परिगृहीष्यन्ति, ये पश्चाद् व्याकरणं लप्स्यन्ते, ये त्वया बोधौ समादापिताः सर्वे ते पश्चाद् यावद् बुद्धक्षेत्रपरमाणुरजःसमासंख्येयकल्पैर्दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु अन्येषु लोकधातुषु बुद्धत्वं प्राप्य धर्मचक्रं प्रवर्तयित्वा त्वां आरभ्य वर्णं भाषिष्यन्ते / अनेन तृतीयेन कारणेन ते साधु सत्पुरुष" /

तेन खलु पुनः समयेन द्वानवतिबोधिसत्त्वकोट्य एककण्ठेन वदन्ति / "वयमपि भदन्त भगवन् सन्तीरणं बुद्धक्षेत्रं गच्छेमः तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकं दर्शनाय वन्दनाय पर्युपासनाय, तं च सत्पुरुषं दर्शनाय (क्प्सू 290) वन्दनाय, यस्य तथागतेन त्रिभिरङ्गैः साधुकारः प्रेषित, इमं च चन्द्ररोचविमलं पुष्पं प्रेषितं" / स च कुलपुत्र रत्नचन्द्रस्तथागत आह - "गच्छत कुलपुत्रा यस्यैतर्हि कालं मन्यध्वे, तत्र च रत्नगर्भस्य तथागतस्य सकाशात् समाधानमुखनिर्देशं चर्यावैशारद्यधर्मपर्यायं श्रोष्यध्वे" /

अथ तौ द्वौ कुलपुत्रौ रत्नकेतुश्चन्द्रकेतुश्च रत्नचन्द्रस्य तथागतस्य सकाशाच्चन्द्ररोचविमलं पुष्पं गृहीत्वा सार्धं द्वानवतिभिर्बोधिसत्त्वकोटीभी रत्नविचयायां लोकधातौ संप्रस्थितौ / तद्यथापि नाम विद्युता एवमेव ततो बोधिसत्त्वपर्षाद् रत्नविचये बुद्धक्षेत्रे ऽन्तर्हितौ, इह संतीरणे बुद्धक्षेत्रे जम्बूवनोद्याने च स्थितौ / येन रत्नगर्भस्तथागतस्तेनोपसंक्रामे तं उपेत्य रत्नगर्भस्य तथागतस्य पादौ शिरसा वन्दित्वा विविधाभिर्बोधिसत्त्वविकुर्वणाभिः पूजां कृत्वा रत्नगर्भस्य तथागतस्याग्रतो ब्राह्मणं दृष्ट्वा सर्वावतीं च बोधिसत्त्वपर्षां प्राञ्जलीभूतां वर्णं भाषमाणां तयोर्बोधिसत्त्वयोरेतदभवद् / "अयं स महाकरुणासमन्वागतो यस्य रत्नचन्द्रेण तथागतेनेमे (क्प्सू 291) चन्द्ररोचविमलाः पुष्पाः प्रेषिताः" / अथ तौ द्वौ बोधिसत्त्वौ भगवतः सकाशात् परिवर्तित्वा ब्राह्मणस्य पुष्पं उपनामयित्वा एतदवोचतां - "इमं ते सत्पुरुष रत्नचन्द्रेण तथागतेन चन्द्ररोचविमलं पुष्पं प्रेषितं, साधुकारश्च ते सत्पुरुषः प्रेषितः; यावद्यथोक्तं पूर्वं / पेयालं, अप्रमेयासंख्येयेभ्यः पूर्वायां दिशायां बुद्धक्षेत्रेभ्यो बोधिसत्त्वा महासत्त्वाः सन्तीरणं बुद्धक्षेत्रं संप्राप्ताः, चन्द्ररोचविमलपुष्पां गृहीत्वा ब्राह्मणस्य पुष्पाः प्रेषिताः, त्रिभिश्चाङ्गैः साधुकारः प्रेषितो; यथा पूर्वोक्तं /

एवं दक्षिणायां दिशायामितो बुद्धक्षेत्रात् सप्तनवतिबुद्धक्षेत्रकोटीनयुतशतसहस्रानतिक्रमित्वा तत्र निर्यूहविजृंभितो नाम लोकधातुस्तत्र निर्यूहविजृंभिते बुद्धक्षेत्रे सिंहविजृंभितेश्वरराजा नाम तथागतो ऽर्हन् सम्यक्संबुद्धस्तिष्ठति यापयति शुद्धानां बोधिसत्त्वानां महासत्त्वानां शुद्धां महायानकथां धर्मं देशयति स्म / तस्मिंश्च पर्षदि द्वौ बोधिसत्त्वौ महासत्त्वौ, एको ज्ञानवज्रकेतुर्नाम द्वितीयः (क्प्सू 292) सिंहवज्रकेतुस्तौ द्वौ बोधिसत्त्वौ सिंहविजृंभितेश्वरराजं तथागतं परिपृच्छतः स्म - "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावाय महतश्च पुष्पवर्षस्य?"; यावद् यथा पूर्वोक्तं / पेयालं, यावद् अप्रमेयासंख्येया दक्षिणस्यां दिश्यन्येभ्यो बुद्धक्षेत्रेभ्यो ऽप्रमेयासंख्येया बोधिसत्त्वकोटीनयुतशतसहस्राः संतीरणं बुद्धक्षेत्रमनुप्राप्ताः, यावद् यथा पूर्वोक्तं / तेन खलु पुनः समयेन पश्चिमायां दिशीतो बुद्धक्षेत्रादेकोननवतिबुद्धक्षेत्रकोटीनयुतशतसहस्रबुद्धक्षेत्रानतिक्रमित्वा तत्र जयावतिर्नाम बुद्धक्षेत्रं, तत्र जितेन्द्रियविशालनेत्रो नाम तथागतस्तिष्ठति यापयति, चतुर्णां पर्षदां त्रिभिर्यानैर्धर्मं देशयति स्म / तत्र भद्रवैरोचनो नाम बोधिसत्त्वो महासत्त्वः सिंहविजृंभितकायश्च नाम द्वितीयो बोधिसत्त्वो महासत्त्वस्तौ द्वौ सत्पुरुषौ जितेन्द्रियविशालनेत्रं (क्प्सू 293) तथागतमेतमर्थं परिपृच्छतः - "कुतो ऽयं महापृथिवीचालप्रादुर्भावो, महातश्च पुष्पवृष्टिप्रवर्षणस्य?"; यावद् यथा पूर्वोक्तं /

तेन खलु पुनः समयेनोत्तरस्यां दिशीतो बुद्धक्षेत्राद्बुद्धक्षेत्रकोटीनयुतशतसहस्राण्यतिक्रम्य तत्र जम्बुर्नाम लोकधातुस्तत्र लोकेश्वरराज नाम तथागतो यावद्बुद्धो भगवान् शुद्धानां महायानसंप्रस्थितानां बोधिसत्त्वानां शुद्धां महायानकथां धर्मं देशयति स्म / तत्र द्वौ बोधिसत्त्वौ, एको ऽचलस्थावरो नाम द्वितीयः प्रज्ञाधरो नाम, तौ लोकेश्वरराजं तथागतं परिपृच्छतः स्म - "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावस्य, महत्याश्च पुस्पवृष्टेर्[?"];यावद् यथा पूर्वोक्तं /

तेन खलु पुनः समयेनाधो दिशीतो बुद्धक्षेत्रादष्टानवतिबुद्धक्षेत्रनयुतानतिक्रम्य तत्र विगततमो ऽन्धकारा नाम लोकधातुस्तत्र विगतभयपर्युत्थानघोषो नाम तथागतस्तिष्ठति यापयति, चतुर्णां पर्षदां (क्प्सू 294) त्रिभिर्यानैर्धर्मं देशयति स्म / तत्र बुद्धक्षेत्रे द्वौ बोधिसत्त्वौ महासत्त्वावेको ऽरजवैरोचनो नाम द्वितीयः स्वर्गवैरोचनो नाम, यावद्यथा पूर्वोक्तं /

तेन खलु पुनः समयेनोपरिष्ठायां दिशीतो बुद्धक्षेत्राद्द्वे शतसहस्रे बुद्धक्षेत्राणामतिक्रमित्वा तत्र संकुसुमिता नाम लोकधातुस्तत्र संकुसुमिते बुद्धक्षेत्रे प्रस्फुलितकुसुमवैरोचनो नाम तथागत यावद् बुद्धो भगवांस्तिष्ठति यापयति, चतुर्णां पर्षदां त्रिभिर्यानैर्धर्मं देशयति स्म / तत्र बुद्धक्षेत्रे द्वौ बोधिसत्त्वौ महासत्त्वौ प्रतिवसत, एकः स्वविषयसंकोपितविषयो नाम द्वितीयो धारणीसंप्रहर्षणविकोपितो नाम बोधिसत्त्वस्तौ द्वौ सत्पुरुषौ प्रस्फुलितकुसुमवैरोचनं तथागतं पृष्टवन्तौ / "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावाय (क्प्सू 295) महत्याश्च पुष्पवृष्टेः?" / प्रस्फुलितकुसुमवैरोचनस्तथागत आह - "अस्ति कुलपुत्राधो दिशीतो बुद्धक्षेत्रात् द्वे शतसहस्रे बुद्धक्षेत्राणामतिक्रम्य तत्र संतीरणो नाम लोकधातुस्तत्र रत्नगर्भो नाम तथागतो यावद्बुद्धो भगवांस्तिष्ठति धर्मं च देशयति स्म /

बहुसत्त्वकोट्यो व्याकरोत्यनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वविषयक्षेत्रसन्दर्शनप्रणिधानविषयव्यूहसमाधिविषयधारणीमुखनिर्यूहं धर्मपर्यायं भाषमाण ; एकश्च तत्र महाकारुणिको बोधिसत्त्वो महासत्त्वः स एवंरूपं प्रणिधानं कृतवान्, महाकरुणापरिभाविता वाचा भाषिता, अनुत्तरायां सम्यक्संबोधौ व्याकरणनिर्देशं बोधिसत्त्वानां महासत्त्वानां, यथारूपा प्रणिधाननेत्र्युद्भाविता यथा बहुबोधिसत्त्वकोटीभिर्बुद्धक्षेत्रप्रणिधानं कृतं, बुद्धक्षेत्रगुणव्यूहा वैनेयसत्त्वाश्च परिगृहीताः; स चैको महाकरुणासमन्वागतो बोधिसत्त्वः सर्वावतिं पर्षदमभिभूय क्लिष्टं पञ्चकषायं क्लेशारणिकलियुगं बुद्धक्षेत्रं (क्प्सू 296) परिगृहीतं, सर्वे चानन्तर्यकारका यावद् अकुशलमूलसमवधानगता दग्धसंताना वैनेयाः परिगृहीताः / सर्वावतीर्च सा पर्षा सदेवगन्धर्वासुरमानुषश्च लोको रत्नगर्भस्य तथागतस्य पूजामपहाय तस्य महाकारुणिकस्य पूजाकर्मणे उद्युक्ताः पञ्चमण्डलेन वन्दित्वा प्राञ्जलिभूताः स्थित्वा वर्णं भाषन्ते स्म / स च महासत्त्वो रत्नगर्भस्य तथागतस्य पुरतो निषण्णो व्याकरणं शृण्वानः / यदा च तेन महासत्त्वेन तस्य भगवतः पुरतो दक्षिणं जानुमण्डलं पृथिव्यां निक्षिप्तं तदा तेन भगवता तथारूपं स्मितं प्राविष्कृतं, यदा दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु महापृथिवी षड्विकारं चलिता प्रचलिता संप्रचलिता कंपिता यावत् पुष्पवृष्टिः प्रवर्षिता /

सर्वेभ्यश्च तेभ्यो बुद्धक्षेत्रेभ्यो बोधिसत्त्वा महासत्त्वाः प्रबोधनार्थं, महाकारुण्या बोधिसत्त्वप्रणिधानचर्या निदर्शनार्थं, बोधिसत्त्वा महासत्त्वा बुद्धक्षेत्रपरमाणुरजःसमेभ्यो लोकधातुभ्यो दशभ्यो दिग्भ्यस्तत्र बुद्धक्षेत्रे सन्निपतनार्थं, बोधिसत्त्वानां च महासत्त्वानां समाधानमुखनिर्देशचर्यावैशारद्यं धर्मपर्यायं भाषणार्थं तेन तथागतेनैवंरूपाणि (क्प्सू 297) प्रातिहार्याणि दर्शितानि" /

तौ च कुलपुत्र द्वौ बोधिसत्त्वौ महासत्त्वौ स्वविषयसंकोपितविषयश्च धारणीसंप्रहर्षणविकोपितश्च तं प्रस्फुलितकुसुमवैरोचनं तथागतं परिपृच्छतः स्म / "कियच्चिरोत्पादितं भदन्त भगवंस्तेन महाकारुणिकेन बोधिसत्त्वेन महासत्त्वेन बोधाय चित्तं?; कियच्चिरं वा स महाकारुणिको बोधिसत्त्वो महासत्त्वो बोधिचारिकां चीर्णं, येन पञ्चकषाये लोके तीव्रक्लेशरणिके कलियुगे वर्तमाने कालः परिगृहीत आनन्तर्यकारका यावद् अकुशलमूलसमवधानगता दग्धसंताना वैनेयाः परिगृहीताः?" / प्रस्फुलितकुसुमवैरोचनस्तथागत आह - "संप्रति कुलपुत्र तेन महाकारुणिकेन प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं / गच्छत कुलपुत्रा यूयं सन्तीरणं लोकधातुं तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय तं च समाधानमुखनिर्देशं चर्यावैशारद्यं धर्मपर्यायं श्रवणाय / तं च महाकारुणिकं बोधिसत्त्वं महासत्त्वं मम वचनेन पृच्छथ एवं च वक्तव्यः; प्रस्फुलितकुसुमवैरोचनस्तथागतस्त्वां (क्प्सू 298) सत्पुरुष पृच्छते चन्द्ररोचविमलं पुष्पं प्रेषितं साधुकारश्चानुप्रदत्तः /

एवं च त्वया सत्पुरुष प्रथमचित्तोत्पादेन महाकरुणाव्याहारेण दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमा लोकधातवः शब्देनापूरिताः, महाकरुणाशब्दश्च प्रतिलब्धस्तेन त्वं सत्पुरुष साधु भूयः, पश्चिमकानां महाकरुणामहायानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां महाकरुणाव्याहारेण प्रणिधाननेत्रीध्वजामुच्छ्रेपयसि; तेन त्वं सत्पुरुष साधु भूयस्त्वं सत्पुरुष बुद्धक्षेत्रपरमाणुरजःसमानागता असंख्येयकल्पबुद्धक्षेत्रपरमाणुरजःसमा दशदिश लोकधातवो यशःकीर्तिशब्देनापूरितास्तेन त्वं सत्पुरुष बह्वसंख्येयसत्त्वकोटीनयुतशतसहस्रा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिता, भगवतः सकाशमुपनीता, अवैवर्तिकाश्च स्थापिता अनुत्तरायां सम्यक्संबोधौ / कैश्चित्तत्रैव भगवतः सकाशे प्रणिधानेन बुद्धक्षेत्रगुणव्यूहाः परिगृहीता वैनेयाः सत्त्वाः स्वकरुणारश्मिभिराच्छादिता; (क्प्सू 299) ये त्वयानुत्तरायां सम्यक्संबोधौ समादापिता न च व्याकरणप्रतिलब्धं, ते ऽपि पश्चाद्व्याकरणं प्रतिलप्स्यन्ते, सर्वे ते पश्चाद्यावद्बुद्धक्षेत्रपरमाणुरजःसमैरसंख्येयैः कल्पैर्दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेष्वन्येषु लोकधातुषु बुद्धत्वं प्राप्य धार्मिकं धर्मचक्रं प्रवर्तयित्वा त्वामेवारभ्य वर्णं भाषिष्यन्ति / एतेन तृतीयेन कारणेन त्वं सत्पुरुष साधु" /

तेन खलु पुनः समयेन बहुबोधिसत्त्वकोट्य एवमूचुर्["]वयमपि भदन्त भगवंस्तत्र संतीरणे बुद्धक्षेत्रे गच्छेम, तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय, तं च सत्पुरुषं दर्शनाय वन्दनाय पर्युपासनाय, यस्य तथागतेन त्रिभिरङ्गैः साधुकारो ऽनुप्रेषित, इमे च चन्द्ररोचविमलाः पुष्पाः प्रेषिताः" / स च कुलपुत्र प्रस्फुलितकुसुमवैरोचनस्तथागतस्तानाह - "गच्छत यूयं कुलपुत्रा यस्यैतर्हि कालं मन्यध्वे / तत्र यूयं कुलपुत्रा रत्नगर्भस्य तथागतस्य सकाशात् समवधानमुखनिर्देशचर्यावैशारद्यं धर्मपर्यायं (क्प्सू 300) श्रोष्यथ" /

अथ खलु कुलपुत्र तौ द्वौ बोधिसत्त्वौ स्वविषयसंकोपितविषयश्च धारणीसंप्रहर्षणविकोपितश्च तस्य प्रस्फुलितकुसुमवैरोचनस्य तथागतस्य सकाशाच्चन्द्ररोचविमलां पुष्पां गृहीत्वा बहुबोधिसत्त्वकोटीभिः सार्धं संकुसुमिताद्बुद्धक्षेत्रात् प्रस्थापिता इह बुद्धक्षेत्र एकक्षणेन संप्राप्ता जम्बूवनोद्याने तस्थुर्येन च रत्नगर्भस्तथागतस्तेनोपसंक्रान्तः / तेन खलु पुनःसमयेन सर्वावन्तं संतीरणं बुद्धक्षेत्रं एवंरूपं परिपूर्णं महायानिकैर्बोधिसत्त्वैः प्रत्येकबुद्धयानिकैः श्रावकयानिकैः कुलपुत्रैर्देवैर्यावन् महोरगैस्तद्यथापि नाम इक्षुवनं वा नडवनं वा तिलवनं वा शालिवनं वा संपन्नं स्फुटं भवेत् / एवमेव तस्मिन् समये संतीरणं बुद्धक्षेत्रं परिपूर्णं स्फुटं महायानिकैः कुलपुत्रैर्यावन् महोरगैस्ते च बोधिसत्त्वा रत्नगर्भस्य तथागतस्य पादौ शिरसा वन्दित्वा विविधसमाधानबलेन बोधिसत्त्वविकुर्वणेन पूजां कृत्वा रत्नगर्भस्य तथागतस्य पुरतः ब्राह्मणं दृष्ट्वा सर्वावत्यश्च ताः पर्षाः प्राञ्जलिभूताः स्थित्वा वर्णं भाषमाणाः / तेषां बोधिसत्त्वानामेतदभवत् - (क्प्सू 301) "अयं महाकारुणिको बोधिसत्त्वो महासत्त्वो यस्य प्रस्फुलितकुसुमवैरोचनेन तथागतेन इमे चन्द्ररोचविमलाः पुष्पा विसर्जितास्[" / ]ते च बोधिसत्त्वा भगवतः सकाशात् परावृत्य तस्य ब्राह्मणस्य ते चन्द्ररोचविमलाः पुष्पा उपनामयित्वाहुः / "इमे ते सत्पुरुष प्रस्फुलितकुसुमवैरोचनेन तथागतेन चन्द्ररोचविमलाः पुष्पाः प्रेषिताः, साधुकारश्च ते सत्पुरुषानुप्रदत्तः" / यावत्पूर्वोक्तं त्रिभिरङ्गैः साधुकारं निवेदितमिति /

यानि च तानि पुष्पाणि शून्येषु बुद्धक्षेत्रेषु प्रवर्षितानि, विविधश्च कुशलशब्दैस्तावद्बुद्धक्षेत्राण्यापूरितानि; तद्यथा बुद्धशब्देन धर्मशब्देन सङ्घशब्देनावभासशब्देन पारमिताशब्देन बलशब्देन वैशारद्यशब्देन अभिज्ञाशब्देनानभिसंस्कारशब्देनानुत्पादशब्देनानिरोधशब्देन शान्तशब्देनोपशान्तशब्देन प्रशान्तशब्देन महामैत्रीशब्देन महाकरुणाशब्देन / यद्दशसु दिशासु तेषु शून्येषु बुद्धक्षेत्रेषु तेनावभासेनावभासितास्तत्र (क्प्सू 302) ये केचित् सत्त्वा मनुष्या वामनुष्यास्ते सर्वे ये केचित् सत्त्वा यमसदृशाः केचिदुदकसदृशाः केचिच्छिखरसदृशाः केचिद्ब्रह्मसदृशाः केचिच्छक्रसदृशाः केचित् पुष्पसदृशाः केचिद्गरुडसदृशाः केचित् सिंहसदृशाः केचित् सूर्यसदृशाः केचिच्चन्द्रसदृशाः केचित् तारकसदृशाः केचिद्गृध्रसदृशाः शृगालकायाः संदृश्यन्ते; यथारूपेण कुशलपक्षमनस्कारेण ते सत्त्वाः सन्निषण्णा धर्मश्रवणाय, तथारूपेण कायेन संदृश्यन्ते / तथारूपाश्च कुलपुत्र तत्र सत्त्वाः स्वकं कायं पश्यन्ति; तथारूपाश्च ते सत्त्वा रत्नगर्भस्य तथागतस्य कायं समनुपश्यन्ति / स च कुलपुत्र समुद्ररेणुर्ब्राह्मणो ऽग्रपुरोहितो रत्नगर्भं तथागतं पुरतः सहस्रपत्रे सप्तरत्नमयपद्मकेशरे निषण्णं समनुपश्यति / सर्वे चात्र कुलपुत्र सत्त्वा निषण्णा वा स्थित्वा वा क्षितौ वा अम्बरे वा एकैकः सत्त्वो रत्नगर्भं तथागतमेवं पश्यन्ति; "अग्रतो रत्नगर्भस्तथागतो निषण्णो ऽहं" सर्वचेतसा समन्वाहरन्ति, "मामेकमारभ्य धर्मं देशयति" /

स च कुलपुत्र रत्नगर्भस्तथागतो ऽर्हन् सम्यक्संबुद्धः समुद्ररेणोर्ब्राह्मणस्य साधुकारमनुप्रदत्तः / "साधु साधु महाकारुणिक महाब्राह्मण, गणनातिक्रान्तानां सत्त्वानां त्वं असि कारुणिकहितकरः प्रभासकरो लोके संदृश्यसे / तद्यथापि नाम ब्राह्मण संपन्नं पुष्पक्षेत्रं नानावर्णं नानागन्धं नानास्पर्शं नानापत्रं नानादण्डं नानामूलं नानाभैषज्योपकरणस्थानं / केचिदत्र पुष्पा योजनशतं प्रमाणेन वर्णेन गन्धेन तपन्ति विरोचन्ति, केचिद्द्वियोजनशतं केचित्त्रियोजनशतं, पेयालं, केचिदत्र पुष्पा यावत् सर्वचातुर्द्वीपिकां लोकधातुं वर्णेन गन्धेन तपन्ति विरोचन्ति / ये च तत्र सत्त्वाश्चक्षुर्हीनास्ते पुष्पगन्धं घ्रात्वा चक्षुंसि प्रतिलभन्ते, बधिराः श्रोत्राणि प्रतिलभन्ते, यावत् सर्वाङ्गविहीनाः सर्वाङ्गानि प्रतिलभन्ते / ये च तत्र सत्त्वाश्चतुरुत्तररोगशतोपद्रुतास्ते तं गन्धं घ्रात्वा सर्वरोगेभ्यः परिमुच्येयुः / ये च तत्र सत्त्वा मत्तोन्मत्तपरमत्ताः सुप्तचित्ता विक्षिप्तचित्ताः स्मृतिप्रणष्टास्तेषां पुष्पाणां गन्धमाघ्रात्वा (क्प्सू 304) सर्वे स्मृतिं प्रतिलभेयुः / एवं च तत्र मध्ये पुष्पक्षेत्रे पुण्डरीकमुत्पन्नं, दृढसारं वज्रमयं वैदूर्यदण्डं शतकोमलं कनकपत्रमश्मगर्भकिंशुकं लोहितमुक्तिकेशरं, चतुरशीतिर्योजनसहस्राण्युच्चत्वेन योजनशतसहस्रं विस्तारेण / तच्च पुण्डरीकं दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमाल्लोकधातुं वर्णेन गन्धेन स्फुरित्वा विरोचते /

ये च ब्राह्मण तेषु दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु सत्त्वा धातुविरुद्धाः काया व्याध्युपहता अङ्गविहीना वा मत्तप्रमत्तोन्मत्ताः सुप्तस्मृतिप्रणष्टा विक्षिप्तचित्तास्तेषां सत्त्वानां तस्य पुण्डरीकस्यावभासं दृष्ट्वा गन्धं घ्रात्वा सर्वव्याधयः प्रशमं गच्छेयुः स्मृतिं च प्रतिलभेयुः / ये च तत्र बुद्धक्षेत्रेषु सत्त्वा मृता अचिरकालगता अविक्षिप्तशरीरास्तेषां कुणपेभ्यः तस्य पुण्डरीकस्य रश्मयो निपतित्वा गन्धेन वा स्पृष्ट्वा पुनस्ते कुणपा जीवितेन्द्रियं प्रतिलभेयुः, पुनश्चोत्तिष्ठेयुर्मित्रसालोहितांश्च दृष्ट्वा ते सर्वे उद्यानं प्रविश्य पञ्चभिः कामगुणैः समर्पिताः समङ्गीभूता विहरेयुस्ये च पुनस्ततश्च्यवेयुस्तेषु द्वे ब्रह्मविहार उपपद्येयुः, ये च तत्र चिरस्थायिनो भवेयुरपरीत्तायुष्का, न च तत्र च्यूत्वा अन्यत्रोपपद्येयुः / (क्प्सू 305) यथा ब्राह्मणास्तं पुष्पक्षेत्रमेवमयं महायानसन्निपातो द्रष्टव्यः / यथा सूर्योद्गमनकाले प्रत्युपस्थिते ते पुष्पा विसरिता प्रस्फुलिता भवन्ति तपन्ति विरोचन्ति केचिद्योजनशतमुच्चत्वेन केचिद् यावद् योजनसहस्रमुच्चत्वेन, बहुनां सत्त्वानां विविधरोगाः प्रशमन्ति, एवमेव सत्पुरुषाः तथागतो बुद्धसूर्यो लोक उदपादि / यथा ते पुष्पाः सूर्योदितस्य अस्य रश्मिभिर्विकसिता भासन्ति तपन्ति विरोचन्ति, विविधरोगोपहतानां सत्त्वानां रोगोपशमो भवति /

एवमेवाहं सत्पुरुष लोक उत्पन्नः सत्त्वां कारुण्यरश्मिभिः छादयित्वा विकसित्वा भूयः सत्त्वांस्त्रिषु पुण्यक्रियावस्तुषु नियोजयामि, त्वयाप्यप्रमेयासंख्येयाः सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेषिताः प्रतिष्ठापिता मम च सकाशमुपनीतास्तैश्च सत्त्वैर्मम सकाशे स्वकस्वकानि प्रणिधानानि कृतानि बुद्धक्षेत्राणि च परिगृहीतानि, केचित् परिशुद्धा बुद्धक्षेत्राः परिगृहीताः केचिदपरिशुद्धाः, तथा चैवं मया व्याकृताः / यैः सत्पुरुषैर्मम सकाशात् परिशुद्धा बुद्धक्षेत्राः परिगृहीतास्तैः शुद्धाशयाः सुविनेया अवरुप्तकुशलमूला वैनेयाः सत्त्वाः परिगृहीता, (क्प्सू 306) न ते बोधिसत्त्वा महासत्त्वा उच्यन्ते, न च तेषां महापुरुषकार्यं, न च तेषां महाकरुणाचित्तचैतसिकेषु प्रवर्तते, न च ते बोधिसत्त्वाः सर्वसत्त्वानां करुणार्थायानुत्तरां सम्यक्संबोधिं पर्येषन्ते / ये ऽपि ते परिशुद्धं बुद्धक्षेत्रं परिगृह्णन्ति, उत्सृष्टकृपास्ते बोधिसत्त्वा; ये श्रावकप्रत्येकबुद्धयानिकैः परिवर्जितं बुद्धक्षेत्रमाकाङ्क्षन्ति, न च ते बोधिसत्त्वाः कुशलज्ञानाशयभूता / येषामेवं प्रणिधानं कृतं यथा वयं श्रावकप्रत्येकबुद्धवर्जिता अकुशलमूलसमवधानगतैर्मातृग्रामैर्विवर्जिते नरकतिर्यग्योनियमलोकविवर्जिते बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयुर्महायानसंप्रस्थितानां बोधिसत्त्वानां श्रावकप्रत्येकबुद्धपरिवर्जितां शुद्धां महायानकथां धर्मं देशयेयं, बोधिप्राप्तश्चाहं दीर्घायुष्को भवेयं चिरस्थायी, बहूनि कल्पानि शूद्धाशयानां सुविनीतानां कुशलमूलसमवधानगतानां धर्मं देशयेयं /

तेन ते बोधिसत्त्वा न कुशलज्ञानाशयसंभूता, न महासत्त्वा इत्युच्यते /

स च कुलपुत्र रत्नगर्भस्तथागतो बाहुं प्रसारयित्वा पञ्चभिरङ्गुलीभिर्नानावर्णा अनेकवर्णा अनेकशतसहस्रवर्णा रश्मयः प्रामुञ्चन्, ते गत्वा रश्मयो ऽप्रमेयासंख्येया पुरिमायां दिशीतो बुद्धक्षेत्रान् अवभासयित्वा, तत्राङ्गुष्ठा नाम लोकधातुः, तत्राङ्गुष्ठायां लोकधातौ दशवर्षायुष्का मनुष्या दुर्वर्णा द्रोहोडिमका अकुशलमूलसमवधानगता अङ्गुष्ठमात्रमुच्चत्वेन / तत्र ज्योतीरसो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः / स च कलियुगप्रमाणानां मनुष्याणां हस्तप्रमाणेन हस्तमेकं तथागत ऊर्ध्वत्वेन हस्तश्च; अङ्गुष्ठप्रमाणानां पुरुषानां प्रमाणेन सप्ताङ्गुष्ठानि / स च तथागतस्तिष्ठति ध्रियति यापयति चतुर्णां पर्षदां त्रिभिर्यानैर्धर्मं देशयति /

अथ खलु कुलपुत्र तच्च बुद्धक्षेत्रं तांश्च मनुष्यांस्तं च तथागतं सर्वावती च सा पर्षाद्राक्षीत् / रत्नगर्भस्तथागतो ऽर्हन् सम्यक्संबुद्ध आह - "अनेन ज्योतीरसेन तथागतेनाप्रमेयासंख्येयैः कल्पैरतिक्रान्तैः प्रथमचित्तमुत्पादितमनुत्तरायां सम्यक्संबोधौ (क्प्सू 308) रत्नच्छत्राभ्युद्गतावभासस्य तथागतस्याग्रतो, बहुप्राणकोटीनयुतान्यनुत्तरायां सम्यक्संबोधौ समादापितानि निवेशितानि प्रतिष्ठापितानि; यथाभिप्रायां सत्त्वैस्तस्य तथागतस्य पुरतः प्रणिधानं कृतं, केचिद्बुद्धक्षेत्रगुणव्यूहाः परिगृहीताः परिशुद्धाः केचिदपरिशुद्धाः पञ्चकषायाः परिगृहीताः / तत्र च तेन महासत्त्वेनाहं समादापितो निवेशितश्चानुत्तरायां सम्यक्सबोधौ / तत्र च मया रत्नच्छत्राभ्युद्गतावभासस्य तथागतस्य पुरतो ऽनुत्तरायां सम्यक्संबोधौ पञ्चकषाये बुद्धक्षेत्रगुणव्यूहप्रणिधानं कृतं / स च मे तथागतः साधुकारमदासीत् व्याकृतश्चाहमनुत्तरायां सम्यक्संबोधौ / यो ऽसावस्माकं बोधाय समादायकः कल्याणमित्रो ऽतीव सत्पुरुषस्तीव्रपञ्चकषाये कलियुगे वर्तमाने काले प्रतिक्लिष्टं बुद्धक्षेत्रं परिगृहीतं, आनन्तर्यकारका यावदकुशलमूलसमवधानगता दग्धसन्तानाः संसाराटवीकान्तारसङ्कटप्राप्ता वैनेयसत्त्व प्रणिधानः परिगृहीतस्तस्य सत्पुरुषस्य दशसु दिक्ष्वप्रमेयासंख्येयेभ्यो ऽन्योन्यलोकधातुभ्यस्तिष्ठन्तो (क्प्सू 309) यापयन्तो बुद्धा भगवन्तः साधुकारं प्रदत्तवन्तः प्रेषितवन्तो, महाकरुणावैरोचनसौम्यो नाम कृतं /

स च महाकरुणावैरोचनसौम्यो बोधिसत्त्वो महासत्त्वो ऽस्माकं कल्याणमित्रो हितकर एतर्ह्यचिराभिसंबुद्धो ऽङ्गुष्ठवत्यां लोकधातौ अङ्गुष्ठप्रमाणानां पुरुषाणां मध्ये, तेषां एवाङ्गुष्ठप्रमाणानां पुरुषाणां हस्तप्रमाणेन हस्तप्रमाणकः स तथागतो दशवर्षायुष्कायां प्रजायां धार्मिकं धर्मचक्रं प्रवर्तितवान्; तस्यापि बोधिप्राप्तस्य दशसु दिक्ष्वप्रमेयासंख्येयेभ्यो लोकधातुभ्यस्तिष्ठद्भिर्यापयद्भिस्तैस्तैर्बुद्धैर्भगवद्भिर्दूताः प्रेषिताः पूजनार्थाय, ये तेन प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः / ये तेन प्रथमं दानपारमितायां यावत् प्रज्ञापारमितायां समादापिता निवेशिताः प्रतिष्ठापितास्तैर्बुद्धैर्भगवद्भिः पूर्वकृतज्ञतामनुस्मरणमाणैस्तस्य तथागतस्य पुष्पाः प्रेषिताः / पश्य ब्राह्मण यथा ते बुद्धा भगवतः सर्वेषु बुद्धक्षेत्रेषु दीर्घेणायुषा परिशुद्धाशयानां सुखविहारिणां सत्त्वानां बुद्धकार्यं (क्प्सू 310) कुर्वन्ति; स च ज्योतीरसस्तथागत एवं प्रतिक्रुष्टे पञ्चकषाये बुद्धक्षेत्रे बुद्धत्वं प्राप्तवान्, आनन्तर्यकारकानां यावदकुशलमूलसमवधानगतानां सत्त्वानामेवाल्पकेनायुषा बह्वतिरेकं बुद्धकार्यं करोति, अनुज्झित्वा श्रावकां प्रत्येकबुद्धांश्च धर्मं देशयरि / एवमेव त्वया सत्पुरुष सर्वामिमां बोधिसत्त्वपर्षामभिभूय विशिष्टतरं प्रणिधानं कृतं, प्रतिक्रुष्टे बुद्धक्षेत्रे पञ्चकषाये वर्तमाने आनन्तर्यकारका यावदकुशलमूलसमवधानगता वैनेयाः सत्त्वाः परिगृहीताः /

ये च ते महासत्त्वा यैः परिशुद्धा बुद्धक्षेत्राः परिगृहीता नरकतिर्यग्योनिपरिवर्जिताः श्रावकप्रत्येकबुद्धपरिवर्जिताः शुद्धाशयाः सुविनीता अवरुप्तकुशलमूलाः सत्त्वा वैनेयाः परिगृहीता इमे सत्त्वाः पुष्पोपमा उच्यन्ते, न ते महासत्त्वाः पुण्डरीकोपमा ये सुविनीतानामवरुप्तकुशलमूलानां मध्ये बुद्धकार्यं करिष्यन्ति /

चत्वारि ब्राह्मण बोधिअत्त्वानां कुशीदवस्तूनि / कतमानि चत्वारि? परिशुद्धबुद्धक्षेत्रप्रणिधानं, परिशुद्धाशयानां सत्त्वानां बुद्धकार्यप्रणिधानं, (क्प्सू 311) श्रावकप्रत्येकबुद्धयानकथा बोधिप्राप्तस्य देशनाप्रणिधानं, बोधिप्राप्तस्य दीर्घायुष्कताप्रणिधानं / इमानि चत्वारि बोधिसत्त्वानां कुशीदवस्तूनि / येन बोधिसत्त्वाः पुष्पोपमा इत्युच्यन्ते, न पुण्डरीकोपमा न महासत्त्वा इत्युच्यन्ते / तद्यथापि नाम ब्राह्मण इमान् महाबोधिसत्त्वपर्षां स्थापयित्वा वायुविष्णुना येनापरिशुद्धं बुद्धक्षेत्रं परिगृहीतं क्लेशाकुलाः सत्त्वा वैनेयाः परिगृहीता एकत्यो भद्रकल्पिकाः कुलपुत्राः /

चत्वारीमानि बोधिसत्त्वानां महासत्त्वानामारब्धवीर्यवस्तूनि / कतमानि चत्वारि? अपरिशुद्धबुद्धक्षेत्रप्रणिधानं, अपरिशुद्धाशयानां सत्त्वानां बुद्धकार्यप्रणिधानं, बोधिप्राप्तस्य श्रावकप्रत्येकबुद्धयानकथादेशनप्रणिधानं, मध्यमाया प्रतिपदा बोधिप्राप्तस्य नातिदीर्घतानाल्पायुष्कताप्रणिधानं / इमानि चत्वारि बोधिसत्त्वानां महासत्त्वानामारब्धवीर्यवस्तूनि / येन ते बोधिसत्त्वाः पुण्डरीकोपमा इत्युच्यन्ते, न पुष्पोपमास्ते बोधिसत्त्वा महासत्त्वा इत्युच्यन्ते / तद्यथापि (क्प्सू 312) त्वं ब्राह्मणैतर्हि अप्रमेयानामसंख्येयानां बोधिसत्त्वानां मध्ये कुशलव्याकरणक्षेत्रं तथागतस्याग्रतः करुणापुण्डरीकमुत्पन्नं प्रणिधानविशेषेण / यदा त्वया आनन्तर्यकारका यावदकुशलमूलसमवधानगता वैनेयाः परिगृहीतास्तीव्रं पञ्चकषायं बुद्धक्षेत्रं परिगृहीतं / महाकरुणाव्याहारेण त्वं सत्पुरुष दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमैर्बुद्धैर्भगवद्भिः साधुकारो दत्तो, दूताश्च प्रेषिता, महाकारुणिकश्च ते नाम कृतं, सर्वा चेयं पर्षत्तवैव पूजाकर्मणे उद्युक्ताः /

भविष्यसि त्वं महाकारुणिकानागते ऽध्वन्यतिक्रान्तानामेकगङ्गानदीवालिकासमानामसंख्येयानां कल्पानां परीत्तावशिष्टे द्वितीये गङ्गानदीवालिकासमे ऽसंख्येये, तस्मिनेव सहे बुद्धक्षेत्रे भद्रके कल्पे विंशोत्तरवर्षशतायुष्कायां प्रजायां, जरामरणाद्यधिके बुद्धक्षेत्रे ऽन्धलोके ऽनायके ऽकुशलमूलसमवधानगते कुमार्गे विहन्यमानानां महासङ्कटप्राप्तानां सत्त्वानामानन्तर्यकारकानामार्यापवादकानां सद्धर्मप्रतिक्षेपकानां मूलापत्तिसमापन्नानां यावद्यथा पूर्वोक्तं, आकीर्णे (क्प्सू 313) लोके तथागतो भविष्यसि विद्याचरणसंपन्नो यावद्बुद्धो भगवान्; विवर्तितगतिचक्रः प्रवर्तितधर्मचक्रः विवर्तितवशवर्तिमारक्लेशमारश्च अनन्तापर्यन्तानि दशसु दिक्षु बुद्धक्षेत्राणि शब्देनापूरयित्वा, महाश्रावकसन्निपातश्च ते भविष्यन्ति यदुतार्धत्रयोदशैर्भिक्षुशतैः; अनुपूर्वेण पञ्चचत्वारिंशतिभिर्वर्षैरेवंरूपं सकलं बुद्धकार्यं परिपूरयिष्यसि, यथा प्रणिधानं कृतं / यथा तस्मिन् समये ऽयं राजामृतशुद्धो ऽमितायुर्नामाप्रमेयैः कल्पैः सकलं बुद्धकार्यं करिष्यति, एवमेव त्वं महाकारुणिक तत्र सहे बुद्धक्षेत्रे भद्रके महाकल्पे विंशोत्तरवर्षशतायां प्रजायां पञ्चचत्वारिंशतिभिर्वर्षैरेवंरूपं सकलं महाबुद्धकार्यं करिष्यसि, शाक्यमुनिर्नाम तथागतो भविष्यसि / परिनिर्वृतस्य च ते सत्पुरुषानुत्तरपरिनिर्वाणेनाधिकं वर्षसहस्रं सद्धर्मः स्थास्यते / सद्धर्मे चान्तर्हिते तव सत्पुरुष ते ऽपि धातवः जन्मशरीरे एवंरूपं बुद्धकार्यं करिष्यन्ति, यथा स्वयं प्रणिधानं कृतं, एवं चिरं सत्त्वान् विनयिष्यसि, (क्प्सू 314) यथा पूर्वोक्तं" //

तत्काले कैतपुरे ब्राह्मण आसीत्, स एवमाह - "तेषु तेष्वप्रमेयेष्वसंख्येयेषु कल्पेषु तव सत्पुरुष बोधिचारिकां चरमाणस्याहं नित्योपस्थायक उपकरणमैत्र्यानुकूलः सहायको भूत्वा त्वामुपस्थिहेयं; चरमभविकस्याहं तव पिता भवेयं / बोधिप्राप्तस्य च ते सत्पुरुष अग्रदानपतिर्भवेयं; त्वं च मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ" / अपरा च तत्र विनीतबुद्धिर्नाम समुद्रदेवता, साप्याह - "तेषु तेषु यावच्चरमभविकस्याहं जनेत्री माता भवेयं / बोधिप्राप्तश्च त्वं महाकारुणिक मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ" / वरुणचारित्रनक्षत्रा देवता, साप्याह - "तेषु तेषु यावच्चरमभविकस्याहं क्षीरधात्री माता भवेयं / बोधिप्राप्तश्च मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ" / सनेमो नाम शक्रः, अपरस्तु पारचिन्ती नाम शक्रः, ते उभये ऽप्याहतुः / "वयमपि भो महाकारुणिक तेषु तेषु यावद्; बोधिप्राप्तस्य च ते वयं श्रावकयुगप्रज्ञावन्तो (क्प्सू 315) ऋद्धिमन्तश्च भवेमः" / अपरश्चारित्रचरणसुदर्शयूथिको नाम शक्रः, स एवमाह - "अहं ते महाकारुणिक तेषु तेषु यावच्चरमभविकस्य पुत्रो भवेयं" / अपरा शिखरदेवता सौरभ्याकिंशुका नाम, साप्याह - "अहं ते महाकारुणिक तासु तासु जातिषु भार्या भवेयं / बोधिप्राप्तश्च त्वं सत्पुरुष मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ" / कदुश्चरो नामासुरेन्द्रः, सो ऽप्याह - "अहं ते महाकारुणिका तेषु तेष्वप्रमेयासंख्येयेषु कल्पेषु सत्पुरुष बोधिचारिकां चरमाणस्याहमुपकरणमैत्र्यानुकुलः सहायो दासत्वेनोपस्थिहेयं, चरमभविकस्याहं ते उपस्थायको भवेयं /

बोधिप्राप्तस्य च ते सत्पुरुष धार्मिकं धर्मचक्रं प्रवर्तने ऽध्ययेयं, अहं च ते धर्मदेशनां प्रथमां सफलां कुर्यां, धर्मरसं च पिवेयं, अमृतं चौषधिं गच्छेयं, यावत् सर्वक्लेशप्रहाणादर्हत्वं प्राप्नुयां" / पेयालं, गङ्गानदीवालिकासमाश्च तत्र देवनागासुरा महाकारुणिकस्यानुप्रवृत्तिचर्याय (क्प्सू 316) प्रणिधानं कृतवन्तो वैनेयमुपन्यस्ता / एकश्च तत्र संज्ञाविकरणभीष्मो नामाजीविकः, स आह - "अहं ते भो महाब्राह्मण बहूपकरणसहायको भविष्यामि / नित्यमहं ते ऽप्रमेयेषु कल्पेषु सफलचारिकोपजीवीज्ञातिको भवेयं; नित्यं च त्वत्सकाशमुपसंक्रमेयं वस्तुयाचनार्थं शय्यासनवाहनहस्त्यश्वरथग्रामनिगमनगरकुलपुत्रदुहितृमांसरुधिरचर्मास्थिहस्तपादजिह्वाकर्णनासनयनशीर्षाणि च याचेयं / एवंरूपो ऽहं तव महाब्राह्मण दानपारमितासहायको भवेयं, यावत्प्रज्ञापारमितासहायको भवेयं / एवंरूपो ऽहं महाब्राह्मण बोधिचारिकां चरमाणस्य तव षट्सु पारमितासु सहायको भवेयं; यावत्त्वं बोधिं प्राप्नुया अहं च ते श्रावकस्थानमासादयेयं, अशीतिधर्मस्कन्धसहस्राण्युद्गृह्णीयां पृष्ठश्च धर्मदेशको भवेयं / त्वं च मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ" / श्रुत्वा च कुलपुत्र महाकारुणिको ब्राह्मणो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दित्वा, तं संज्ञाविकरणभीष्माजीविकं शब्दापयित्वाह - (क्प्सू 317) "साधु साधु सत्पुरुष यस्त्वं मम सहायको भविष्यसि अनुत्तरचर्याय, यावच्च त्वं ममाप्रमेयासंख्येयजन्मान्तरनयुतसहस्रेषूपसंक्रमेर्वस्तुयाचनार्थाय /

तदाहं प्रसन्नचित्तो दद्यां, मा च त्वमपुण्यभागी भवेः" /

भूयश्च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पुरत आह - "सचेन्मे भदन्त भगवंस्तेषु तेष्वप्रमेयेष्वसंख्येयेषु कल्पकोटीनयुतशतसहस्रेष्वनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणस्य ये मम पुरतो याचनकाः स्थित्वान्नं याचन्ति मृदुवचनेन वा पुरुषवचनेन वा उल्लङ्घनवचनेन वा स्पष्टवचनेन वा याचेयुः; सचेदहं भदन्त भगवन् याचनकस्यान्तिके एकचित्तक्षणमपि रोषं उत्पादयेयं / अप्रसादं वोत्पादयेयं दानस्य वा फलविपाकं काङ्क्षमाणो दानं दद्यां, विसंवादिता मे भवेयुः ये ऽप्रमेयासंख्येयेषु दशसु दिक्ष्वन्येषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ति यापयन्ति धर्मं च देशयन्ति, मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं / सचेदहं (क्प्सू 318) भदन्त भगवन् याचनकस्य प्रसन्नचित्तो दानं दद्यां, तदपि दानप्रतिग्राहकस्य श्रद्धादेयविनिपातनं, माकुशलैर्धर्मैरन्तरायकरं भवेत्; अन्तशो वालाग्रकोटीप्रमाणमात्रमपि विसंवादिता मे बुद्धा भगवन्तो भवेयुः / यदीदं प्रतिग्राहकस्य वालाग्रकोटीप्रमाणमात्रमपि कुशलेषु धर्मेष्वन्तरायं कुर्युः, अहमप्यवीचिपरायणो भवेयं / यथान्नस्य तथा वस्त्रस्य / यावद् ये मम याचनकाः शीर्षं याचेयुः, मृदुवचनेन वा परुषवचनेन वा उल्लङ्घ्यवचनेन वा स्पष्टवचनेन वा शीर्षं याचयेरन्; सचेदहं भदन्त भगवन् याचनकस्यान्तिके एकचित्तक्षणमपि रोषमुत्पादयेयं, अप्रसादचित्तमुत्पादयेयं, दानफलविपाकमाकाङ्क्षं शीर्षं परित्यजेयं, विसंवादिता मे बुद्धा भगवन्तो भवेयुः; यावदहमप्यवीचिपरायणो भवेयं / यथा दानमेवं शीलं यावत्प्रज्ञा परित्यागो वाच्यः" /

स च कुलपुत्र रत्नगर्भस्तथागतो महाकारुणिकस्य बोधिसत्त्वस्य महासत्त्वस्य साधुकारमदासीत् / "साधु साधु सत्पुरुष, महाकरुणाप्रतिष्ठितेन मनसा त्वया सत्पुरुषेमं प्रणिधानं कृतं" / सा च कुलपुत्र सर्वावती पर्षा सदेवगन्धर्वमानुषासुरश्च लोकः प्राञ्जलीभूतः स्थित्वा साधुकारं प्रादासीत् / "साधु साधु सत्पुरुष, महाकरुणाप्रतिष्ठितेन मनसा त्वया सत्पुरुष प्रणिधानं कृतम् / त्वमपि सत्त्वां षट्परायणीयधर्मैः संतर्पयिष्यसि" / स च कुलपुत्र यथा संज्ञाविकारभीष्माजीविको बोधिसत्त्वो दानप्रतिग्राहिकया प्रणिधानं कृतवान्, एवमेव चतुरशीतिभिः प्राणिसहस्रैः प्रणिधानं कृतं / स च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तान्येवंरूपाणि प्रणिधानानि चतुरशीतीनां प्राणिसहस्राणां सकाशाच्छ्रुत्वा संज्ञाविकारभीष्मेण प्रणिधानं कृतं / अथ महाकारुणिकः परमप्रीतिसौमनस्यजातः प्राञ्जलीभूतः स्थित्वा सर्वावतीं पर्षां व्यवलोक्य परमप्रीतमना आह / "अहो आश्चर्यं, भविष्याम्यहं धर्मदुर्भिक्षक्षीणकाले महाक्लेशरणे कलियुगे पञ्चकषाये वर्तमाने लोके ऽनायके सार्थवाहो ऽवभासकरः प्रदीपकरः अत्राणानामन्धानां मार्गनिदर्शकः / यत्र (क्प्सू 320) हि नामाहं प्रथमचित्तोत्पादेनैवमेवंरूपामनुत्तरायां बोधिचर्यायां सहायकाः प्रतिलब्धा ये मम जन्मान्तरेषु शीर्षप्रतिग्राहका भविष्यन्ति नयनकर्णनासाजिह्वाहस्तपादचर्मास्थिरुधिरं यावदन्नस्य प्रतिग्राहका भविष्यन्ति" /

पुनरपि कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पुरतो निषण्ण आह - "ये च मम भदन्त भगवन् तेषु तेष्वप्रमेयासंख्येयेषु कल्पकोटीनयुतशतसहस्रेषु जन्मान्तरेषु याचनका उपसंक्रामेयुर्यदि वान्नं यदि वा पानं यावच्छिरः प्रतिगृह्णीयुरन्तशो वालाग्रकोटीप्रमानमात्रमपि मम हस्तदानं प्रतिगृह्णीयुर्यावद्बोधिपर्यन्तेन / सचेदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्य न तां सत्त्वां संसारात् परिमोचयेयं, न च पुनर्व्याकुर्यां छ्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा, विसंवादिता मे बुद्धा भगवन्तो भवेयुः य एतर्हि दशसु दिक्षु, यावन्, मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं" /

पुनरपि कुलपुत्र रत्नगर्भस्तथागतो महाकारुणिकस्य बोधिसत्त्वस्य महासत्त्वस्य साधुकारं प्रादासीत् / (क्प्सू 321) "साधु साधु सत्पुरुष, एवंरूपं ते सत्पुरुष बोधिचारिकाप्रणिधानं, यथा मेरुशिखरिंधरेण तथागतेन पूर्वं प्रथमचित्तोत्पादेन लोकेश्वरज्योतिषस्तथागतस्य पुरतः एवंरूपया बोधिसत्त्वचर्यया प्रणिधानं कृतं एवंरूपा बोधिसत्त्वचारिका चीर्णा यथा प्रणिधानं कृतं / गङ्गानदीवालिकासमा महाकल्पा अतिक्रान्ता यथा तेन सत्पुरुषेण पुरिमायां दिशीतो कोटीशतसहस्रबुद्धक्षेत्रे ज्वालप्रतिसंख्यायां लोकधातौ वर्षशतायुष्कायामनुत्तरां सम्यक्संबोधिमभिसंबुद्धो, ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरो नाम बभूव तथागतो ऽर्हन् सम्यक्संबुद्धो भगवान्, पञ्चचत्वारिंशद्वर्षाणि बुद्धकार्यं कृत्वानुपधिशेषे निर्वाणधातौ प्रविष्टः / तस्य खलु महाकारुणिक ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरस्य तथागतस्य परिनिर्वृतस्य वर्षसहस्रं सद्धर्मनेत्री अस्थासीत्; सद्धर्मस्यान्तर्हितस्य वर्षसहस्रं पुनः सद्धर्मप्रतिरूपकमस्थासीत् / ये खलु महाकारुणिक ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरस्य तथागतस्य परिनिर्वृतस्य सद्धर्मनेत्र्यवस्थितायां (क्प्सू 322) सद्धर्मप्रतिरूपका वा भिक्षुर्भिक्षुणी वा दुःशीलपापधर्मा विषमसमुदाचाराः स्तौपिकवस्तुग्राहकालज्जिका वा धर्मपूजाच्छेदालज्जसंसृष्टा वा चतुर्दिशसङ्घस्य वा संमुखीभूतसङ्घस्य वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारं वा छिन्नं पौद्गलिकपरिग्रहे यावदात्मना परिभुक्तं गृहस्थानां वा दत्तं; तेन खलु महाकारुणिक ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरेण तथागतेन सर्वे ऽनुपूर्वेण व्याकृतस्त्रिभिर्यानैः / ये केचिन् महाकारुणिक तस्य भगवतः शासने रक्तकाषायप्रावृताः सर्वे ते अवैवर्तिका व्याकृतास्त्रिभिर्यानैः; ये ऽपि केचिन् मूलापत्तिसमापन्ना भिक्षुभिक्षुण्युपासकोपासिका वा पूर्वमेव ते तेन तथागतेन शास्तृसंज्ञाकुशलमूलविपाकेन त्रिभिर्यानैरवैवर्तिका व्याकृताः" /

पुनरपरं कुलपुत्र स महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पुरत आह - "एषैव मे भदन्त भगवन् प्रणिधिर्यावदेवाहमनुत्तरायां बोधिचर्यायां चरमाणो यान् सत्त्वानहं दानपारमितायां नियोजयेयं समादापयेयं प्रतिष्ठापयेयं यावत् (क्प्सू 323) प्रज्ञापारमितायामन्तशो वालाग्रकोटीप्रमाणमात्रमपि कुशलमूले नियोजयेयं; यावद्बोधिपर्यन्तेन चर्यां चरमाणो न तान् सत्त्वांस्त्रिभिर्यानैरवैवर्तिकभूमौ स्थापयेयमन्तश एकसत्त्वमपि, विसंवादिता मे बुद्धा भगवन्तो भवेयुः ये दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं / अनुत्तरज्ञानप्रतिलब्धश्चाहं भदन्त भगवन् ये मे सत्त्वाः शासने रक्तकाषायप्रावृता भवेयुः; यदि वा मूलापत्तिमापन्नाः स्युर्यदि वा दृष्टिव्यसनं संप्रतिपन्नाः स्युर्यदि वा त्रिषु रत्नेषु स्खलिताः सापराधा भवेयुर्भिक्षुभिक्षुण्युपासकोपासिका य एकक्षणमपि मम सकाशे शास्तृसंज्ञां वा गौरवचित्तं वोत्पादयेयुर्धर्मे वा सङ्घे वा गौरवचित्तमुत्पादयेयुः; सचेदहं भदन्त भगवंस्तान् सत्त्वांस्त्रिभिर्यानैरवैवर्तिकां न व्याकुर्यामन्तश एकसत्त्वमपि रिंचेयुर्विसंवादिता मे बुद्धा भगवन्तो भवेयुर्यावन् मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं / बोधिप्राप्तस्य (क्प्सू 324) च मे भदन्त भगवन् देवमनुष्यसत्कृतं गुरुकृतं मानितं पूजितं रक्तकाषायचीवरं भवेत् /

सहदर्शनेन सत्त्वाः काषायकण्ठास्त्रिभिर्यानैरवैवर्तिका भवेयुर्ये सत्त्वाः क्षुत्तर्षपीडिता अन्नपानविरहिता यक्षदारिद्रा वान्तशः यामलौकिकाः सत्त्वा ये काषायमभिलषेयुरन्तशश्चतुरङ्गुलमपि, सर्वे ते ऽन्नपानसंपन्ना भवेयुः परिपूर्णाभिप्रायाः / ये सत्त्वाः परस्परविरुद्धवैरबहुलाः परस्परयुद्धसंग्रामगता वा देवा वा यक्षा वा राक्षसा वा नागा वा असुरा वा गरुडा वा किन्नरा वा महोरगा वा कुंभाण्डा वा पिशाचा वा मनुष्या वा संग्रामगताः काषायमनुस्मरेयुः, ते सत्त्वाः करुणाचित्ता मृदुचित्ता अवैरचित्ताः कर्मण्यचित्ता भवेयुर्ये सत्त्वाः संग्रामे वा विवादे वा युद्धे वा कलहे वा काषायखण्डकं रक्षार्थं पूजनार्थं गौरवार्थं हरेयुस्ते सत्त्वाः सदा अपराजिता भवेयुरस्खलिता अविहेठिता भवेयुः, स्वस्तिना ततः संग्रामाद्वा युद्धाद्वा कलहाद्वा विवादाद्वा परिमुच्येयुः / यदि मे भदन्त भगवन्नेभिः पञ्चभिरार्यगुणै रक्तं काषायं न समन्वागतं भवेत्, विसंवादिता मे बुद्धा भगवन्तो भवेयुर्ये दशसु दिक्षु, (क्प्सू 325) यावन्, मा चाहं शक्तः सकलं बुद्धकार्यं परिनिष्पादयितुं, धर्मा मे संमोषं गच्छेयुर्मा चाहं शक्तः अन्यतीर्थिकां परिगृहीतुं / ये च भदन्त भगवन् ममाभिसंबुद्धस्य यावत् परिनिर्वृतस्य वा नमस्कारं करिष्यन्ति, "नमः शाक्यमुनये तथागताये"ति वाचं भाषिष्यन्ते, तेषां सर्वकर्मावरणक्षयो भविष्यति, अन्ते चानुत्तरेण बुद्धपरिनिर्वाणेन परिनिर्वास्यन्ति"ति /

स च पुनः कुलपुत्र रत्नगर्भस्तथागतो दक्षिणं बाहुं प्रसारयित्वा करतलेन महाकारुणिकस्य बोधिसत्त्वस्य शिरः परिमार्जयित्वाह - "साधु साधु सत्पुरुष, कल्याणं ते प्रणिधानं भद्रकप्रतिविमर्श; एवमेव ते सत्पुरुष पञ्चभिरार्यगुणै रक्तकाषायं सत्त्वानामुपजीव्यं भविष्यति" /

स भो पुनः कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तेन व्याकरेणेन साधुकारप्रामोद्य प्रसादेन तथागतपुण्यदीर्घाङ्गुलिपरिच्छादितेन दक्षिणेन मृदुतरुणकरतलसंस्पर्शेण कुमारभूतः संवृतो विंशद्वर्षसदृशो जातिप्रमाणेन /

पुनरपि कुलपुत्र सर्वावती सा पर्षा सदेवगन्धर्वमानुषा प्राञ्जलिभूता तस्थौ, महाकारुणिकस्य पूजाकर्मणे उद्युक्ताः पुष्पैर्वाद्यैर्महाकारुणिकस्य बोधिसत्त्वस्य महासत्त्वस्य पूजां कृत्वा विचित्रवर्णैः श्लोकैस्तुष्टाव // इति श्रीकरुणापुण्डरीके महायानसूत्रे बोधिसत्त्वव्याकरणपरिवर्तश्चतुर्थः //4// व् दानपरिवर्तो नाम पञ्चमः

स च पुनः कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दित्वा रत्नगर्भस्य तथागतस्य पुरतो निषसाद रत्नगर्भं तथागतं परिपृच्छत् - "समाधानमुखनिर्देशसंभारविशुद्धिमुखो धर्मपर्यायो बोधिसत्त्वानां मार्गो भगवता निर्दिष्टः; कियता भदन्त भगवन् समाधानमुखनिर्देशसंभारविशुद्धिमुखो धर्मपर्यायो बोधिसत्त्वानां मार्गो भगवता निर्दिष्टः?; कियता भदन्त भगवन् समाधानमुखनिर्देशसंभारविशुद्धिमुखो धर्मपर्यायः परिपूर्णो भवति?; कियद्रूपेण वा भदन्त भगवन् संभारेण समन्वागतः कुलपुत्रो वा कुलदुहिता वा दृढप्रतिष्ठितो भवति?; कियद्रूपेण समाधानमुखनिर्देशनालङ्कृतो भवति?" स भोः पुनः कुलपुत्र रत्नगर्भस्तथागतो ऽर्हन् सम्यक्संबुद्धो महाकारुणिकं बोधिसत्त्वमेतदवोचत् - "साधु (क्प्सू 328) साधु महाकारुणिक भद्रकः प्रश्नः कल्याणं ते प्रतिभानं / भूयस्या मात्रया त्वं महाकारुणिकाप्रमेयासंख्येयानां बोधिसत्त्वानां महासत्त्वानां हितकरो बहुकरश्चोत्पन्नो, यत्र हि नाम त्वं महाकारुणिक तथागतमिदमेवंरूपं प्रश्नं परिप्रष्टव्यं मन्यसे / तेन हि महाकारुणिक शृणु साधु च सुष्ठु च मनसिकुरु च /

महायानसंप्रस्थितानां कुलपुत्राणां अस्ति महाकारुणिक शूरंगमो नाम समाधिर्यत्र समाधौ स्थितो बोधिसत्त्वः सर्वसमाधिष्वनुप्रविष्टो भवति / अस्ति रत्नमुद्रो नाम समाधिर्येन सर्वसमाधयो मुद्रिता भवन्ति / अस्ति सिंहविक्रीडितो नाम समाधिर्यत्र स्थितः सर्वसमाधिभिर्विक्रीडति / सुचन्द्रो नाम समाधिः सर्वसमाधीनवभासयति / चन्द्रध्वजकेतुः समाधिः सर्वसमाधीनां ध्वजं धारयति / सर्वधर्मोद्गतः समाधिः सर्वसमाधयो ऽन्तर्गच्छन्ति / विलोकितमुद्रो नाम समाधिः सर्वसमाधीनां मुर्धानं व्यवलोकयति / धर्मधातुविगतसमाधौ स्थितो बोधिसत्त्वः सर्वधर्मधातुविनिश्चयाय (क्प्सू 329) गच्छति / नियतध्वजकेतौ समाधौ स्थितः सर्वसमाधीनां ध्वजं धारयति / वज्रे समाधौ स्थितः सर्वसमाधीन्निर्भिनत्ति / धर्मप्रवेशमुद्रे समाधौ स्थितः सर्वधर्मान् मुद्रयति / समाधिराजसुप्रतिष्ठितेन समाधिना सर्वसमाधिषु राजत्वेन प्रतिष्ठितो भवति / रश्मिमुक्तेन समाधिना सर्वसमाधिषु रश्मयो ऽवसरन्ति / बलवीर्येण समाधिना सर्वसमाधिषु बलवीर्यतां कारयति / समुद्गतेन समाधिना सर्वसमाधिषूद्गच्छति / निरुक्तिनिर्देशेन समाधिना सर्वसमाधिवचनप्रवेशां प्रविशति / अधिवचनप्रवेशेन समाधिना सर्वसमाधीनां नामधेयान्यनुप्रविशति / दिग्विलोकेन समाधिना सर्वसमाधीनवलोकयति / सर्वधर्मप्रभेदेन समाधिना सर्वधर्मप्रभेदतामनुप्रविशति / धारणीमुद्रेण समाधिना सर्वसमाधीनां मुद्रान् धारयति / सर्वधर्मविविक्तेन समाधिना सर्वसमाधिषु विवेकधर्मतामनुप्रविशति /

असंप्रमोषेण समाधिना सर्वसमाधयो न मुष्यन्ति / सर्वधर्माचलेन समाधिना सर्वसमाधिष्वचलतायै संतिष्ठते / सर्वधर्मसमवसरणसागरमुद्रे (क्प्सू 330) समाधौ सर्वसमाधयः संग्रहं समवसरणं गच्छन्ति / सर्वधर्मामन्यने समाधौ सर्वसमाधय उदयव्ययामन्यनतां गच्छन्ति / आकाशस्फरणेन समाधिना सर्वसमाधय आकाशे स्फुरन्ति / सर्वधर्माच्छेदनेन समाधिना सर्वसमाधयो ऽनुपच्छेदं गच्छन्ति / वज्रमण्डलेन समाधिना सर्वसमाधीनां मण्डलं धारयति / सर्वधर्मैकरसेन समाधिना सर्वसमाधीनां रसं धारयति / रणं जहेन समाधिना सर्वोपकरणक्लेशां जहाति / सर्वधर्मानुत्पादेन समाधिना सर्वधर्मानुत्पादानिरोधं दर्शयति / वैरोचनेन समाधिना सर्वसमाधीन् भावयति तपति विरोचति / सर्वधर्मानिरोधेन समाधिना सर्वसमाधीन् विभजति / अनिमिषेण समाधिना सर्वसमाधयो न कदाचित् समाधिधर्मा एषन्ते / अनिकेतेन समाधिना सर्वसमाधिषु न कदाचिद् (क्प्सू 331) धर्मस्थितिं समनुपश्यति / गगनकल्पेन समाधिना सर्वसमाधीन् गगनस्वभावासारत्वाय समनुपश्यति / निश्चित्तेन समाधिना सर्वसमाधिषु चित्तचैतसिका धर्माः प्रहीयन्ते / रूपापर्यन्तेन समाधिना रूपमवभासयति / विमलप्रदीपेन समाधिना सर्वसमाधीनां प्रदीपं करोति / सर्वधर्मापर्यन्तेन समाधिना सर्वसमाधिष्वपर्यन्तज्ञानं दर्शयति / विद्युदुन्मिषेण समाधिना सर्वसमाधिष्वपर्यन्तं ज्ञानं दर्शयति / सर्वप्रभंकरेण समाधिना सर्वसमाधिषु प्रभंकरमुखमुपदर्शयति /

धातुपर्यन्तेन समाधिना सर्वसमाधीनपर्यन्तविज्ञापनायोपदर्शयति / समाधिशुद्धसारेण समाधिना शून्यतां समाधिधर्मेष्वनुप्राप्नोति / मेरुचित्रेण समाधिना सर्वधर्मेषु ऋक्ततां संदर्शयति / विमलप्रभेन समाधिना सर्वसमाधीनां मलमपकर्षयति / सर्वधर्मासंप्रभेदेन समाधिना सर्वसमाधीनां व्युपकृष्टतां संदर्शयति / (क्प्सू 332) रतिकरेण समाधिना सर्वसमाधिषु रतिं प्रतिलभते / सर्वधर्मस्वभावविक्रीडितेन समाधिना सर्वसमाधिषु रूपानुपलब्धिं दर्शयति / विद्युद्विकरणेन समाधिना सर्वसमाधिष्वलक्षणत्वं दर्शयति / सर्वधर्मानिक्षेपविरजेन समाधिना सर्वसमाधीनां विरजं ज्ञानमुपदर्शयति / अक्षयवतेन समाधिना सर्वसमाधीनां न क्षयं नाक्षयं दर्शयति / सर्वधर्माचिन्त्यशुद्धेन समाधिना सर्वधर्मां प्रतिभासोपमां दर्शयति / तेजोवता समाधिना सर्वसमाधिषु ज्ञानं ज्वालयति / क्षयापगतेन समाधिना सर्वसमाधीनक्षयानुपगतां दर्शयति / अनिञ्जितेन समाधिना सर्वधर्मेषु नेञ्जति न वेपति न प्रपञ्चयति / विवर्धनेन समाधिना सर्वसमाधिसमापत्तिषु विवर्धमानां ज्ञेयं समनुपश्यति / सूर्यप्रदीपेन समाधिना सर्वसमाधिषु रश्मिमुखान्यवकिरति / चन्द्रविमलेन समाधिना सर्वसमाधिष्वालोकं (क्प्सू 333) करोति / शुद्धप्रतिभासेन समाधिना सर्वसमाधिषु चतस्रः प्रतिसंविदाः प्रतिलभते / काराकारेण समाधिना कारविहारक्रियां करोति ज्ञानकेतुं समनुपश्यति / वज्रोपमेन समाधिना सर्वधर्मान्निर्वेधीकरोति यस्य वेधमपि न समनुपश्यति /

चित्तस्थितेन समाधिना चित्तं न चलति न वेधति न प्रतिभासति न विघातमापद्यते, न चास्यैवं भवति "चित्तमेतद्" इति / समन्तालोकेन समाधिना सर्वसमाधिष्वालोकं समनुपश्यति / सुप्रतिष्ठितेन समाधिना सर्वसमाधिषु सुप्रतिष्ठितत्वे प्रतिष्ठति / रत्नकूटेन समाधिना सर्वसमाधिषु रत्नकूट इव संदृश्यते / वरधर्ममुद्रेण समाधिना सर्वसमाधयो मुद्रिता भवन्ति, धर्मसमतया न कंचिद्धर्मं समतानिर्मुक्तं समनुपश्यति / रतिं (क्प्सू 334) जहेन समाधिना सर्वधर्मेषु रतिं जहाति / धर्मोल्केन समाधिना सर्वधर्मेष्वसमारकृतां प्रतिलभते / अक्षरापगतेन समाधिना सर्वधर्मेष्वेकाक्षरमपि नोपलभते / आलंबनच्छेदेन समाधिना सर्वालंबनां व्युपच्छिनत्ति / अविकारेण समाधिना सर्वधर्माणां विकारं नोपलभते / प्रकृतिविशुद्धेन समाधिना सर्वधर्माणामुपकारं नोपलभते / अनिकेतचरेण समाधिना सर्वधर्मेषु निकेतं नोपलभते / तिमिरापगतेन समाधिना सर्वसमाधिचरणं न समनुपश्यति, तमोविषयं समतिक्रामति / सर्वगुणसंचयगतेन समाधिना सर्वधर्मेषु सन्निचयं जहाति / स्थितनिश्चित्तेन समाधिना सर्वधर्मेषु चित्तमिति नोपलभते / बोध्यङ्गगतेन समाधिना सर्वधर्मां बुध्यति / स्मृतिविकरणेन समाधिना सर्वधर्मेष्वसंख्येयप्रतिभानं (क्प्सू 335) प्रतिलभते / तत्करज्ञानविशुद्धेन समाधिना सर्वधर्मेष्वसमासमतां प्रतिलभते / ज्ञानकेतुसमाधिना सर्वत्रैधातुकमतिक्रामति / ज्ञानोपच्छेदसमाधिना सर्वधर्मव्यवच्छेदं समनुपश्यति / ज्ञानविकरणेन समाधिना सर्वधर्मविकरणतामनुप्राप्नोति /

निरधिष्ठानेन समाधिना सर्वधर्मामनाश्रयभूतां समनुपश्यति / एकव्यूहेन समाधिना न कंचिद्धर्मद्वयं समनुपश्यति / आकारनिर्हारवता समाधिना सर्वधर्माणां अनाकारनिर्हारं समनुपश्यति / सर्वाधिकारसर्वभवतलविकरणेन समाधिना सर्वधर्मेषु निर्वेधज्ञानं प्रविशति, यस्यानुप्रवेशान्न कंचित् प्रतिलभते / सङ्केतरुतप्रवेशेन समाधिना सर्वरुतसङ्केतेष्वनुप्रविशति / घोषवाग्भिरक्षरविमुक्तेन समाधिना सर्वधर्मेष्वक्षरविमुक्तिं (क्प्सू 336) समनुपश्यति / ज्ञानोल्कामता समाधिना सर्वसमाधिषु तेन भासति तपति विरोचति / वरज्ञानलक्षणविजृंभितेन समाधिना सर्वधर्मेष्वपरिशुद्धं लक्षणं दर्शयति / अनभिज्ञालक्षणवतेन समाधिना सर्वधर्मेष्वनभिलक्षणार्थं समनुपश्यति / सर्वाकारवरोपतेन समाधिना सर्वधर्मसमाधिषु सर्वाकारवरोपेतो भवति / सर्वदुःखसुजहेन समाधिना सर्वधर्मेष्वनिश्रियं समनुपश्यति / अक्षयकारणेन समाधिना सर्वधर्मेष्वक्षयं न समनुपश्यति / धारणपदेन समाधिना सर्वसमाधीं सर्वधर्मांश्च धारयति, सम्यक्त्वमिथ्यात्वं न समनुपश्यति / निरोधविधप्रशमेन समाधिना सर्वधर्मानुरोधविरोधां न (क्प्सू 337) समनुपश्यति / विमलप्रभासेन समाधिना सर्वसमाधिषु संस्कृतविमलं न समनुपश्यति / सारानुगतेन समाधिना सर्वधर्मेष्वसारं नोपलभते / पूर्णचन्द्रविमलेन समाधिना सर्वसमाधिषु गुणपरिपूर्णो भवति / महाव्यूहेन समाधिना सर्वसमाधिषु महाव्यूहसमन्वागतो भवति / सर्वलोकप्रभेदेन समाधिना सर्वधर्मेषु ज्ञानेनावभासयति /

समाधिसमताविरोचनेन समाधिना सर्वसमाधिष्वेकाग्रतां प्रतिलभते / अरणेन समाधिना सर्वधर्मेषु न रणति / अनिलनिकेतेन समाधिना सर्वधर्मेष्वालयं न करोति / तथास्थितनीश्चित्तेन समाधिना सर्वधर्मेषु तथता न विनिवर्तते / कायकलिसंप्रमथनेन समाधिना सर्वधर्मेषु सत्कायं नोपलभते / वाक्कलिविध्वंसनगगनप्रतिलब्धेन समाधिना (क्प्सू 338) बोधिसत्त्वः सर्वधर्मेषु वाक्कर्म नोपलभते / आकाशसंगगतिविमुक्तिनिरुपलेपसमाधिस्थितो बोधिसत्त्वः सर्वधर्मेष्वाकाशसंगतामनुप्राप्नोति / अयं समाधिमुखो महायानसंप्रस्थितानां बोधिसत्त्वानां निर्वेशः /

तत्र कतमो बोधिसत्त्वानां महासत्त्वानां संभारविशुद्धिमुखसंग्रहो धर्मपर्यायः? दानसंभारो बोधिसत्त्वानां सत्त्वपरिपाचनतया संवर्तते / शीलसंभारो बोधिसत्त्वानां प्रणिधानपूर्या संवर्तते / क्षान्तिसंभारो बोधिसत्त्वानां लक्षणानुव्यञ्जनपरिपूर्या संवर्तते / वीर्यसंभारो बोधिसत्त्वानां सर्वकार्यपरिपूर्या संवर्तते / ध्यानसंभारो बोधिसत्त्वानामाजानेयचित्ततया संवर्तते / प्रज्ञासंभारो बोधिसत्त्वानां सर्वक्लेशपरिज्ञया संवर्तते / श्रुतसंभारो बोधिसत्त्वानामसङ्गप्रतिभानतया संवर्तते / पुण्यसंभारो बोधिसत्त्वानां सर्वसत्त्वोपजीव्यतया संवर्तते / ज्ञानसंभारो बोधिसत्त्वानामसङ्गज्ञानतया संवर्तते / (क्प्सू 339) शमथसंभारो बोधिसत्त्वानां कर्मण्यचित्ततया संवर्तते / विपश्यनासंभारो बोधिसत्त्वानां विगतकथंकथया संवर्तते / मैत्रीसंभारो बोधिसत्त्वानामप्रतिहतचित्ततया संवर्तते / करुणासंभारो बोधिसत्त्वानां परिपाकाखेदतायै संवर्तते / मुदितासंभारो बोधिसत्त्वानां धर्मारामरतिरमणतायै संवर्तते / उपेक्षासंभारो बोधिसत्त्वानामनुनयप्रतिघप्रहाणाय संवर्तते / धर्मश्रवणसंभारो बोधिसत्त्वानां विवरणप्रहाणाय संवर्तते / निष्क्रमणसंभारो बोधिसत्त्वानां सर्वपरिग्रहोत्सर्गाय संवर्तते / अरण्यवाससंभारो बोधिसत्त्वानां कृतकर्माविप्रणाशतया संवर्तते / स्मृतिसंभारो बोधिसत्त्वानां धारणीप्रतिलाभतया संवर्तते / मतिसंभारो बोधिसत्त्वानां बुद्धिप्रभेदनतया संवर्तते / गतिसंभारो बोधिसत्त्वानामर्थगत्यनुबुध्यनतया संवर्तते /

स्मृत्युपस्थानसंभारो बोधिसत्त्वानां कायवेदनाचित्तधर्मानुबुध्यनतया संवर्तते / सम्यक्प्रहाणसंभारो बोधिसत्त्वानां सर्वाकुशलधर्मप्रहाणतायै संवर्तते, सर्वकुशलधर्मभावनाय च (क्प्सू 340) / ऋद्धिपादसंभारो बोधिसत्त्वानां कायचित्तलघुत्वतया संवर्तते / इन्द्रियसंभारो बोधिसत्त्वानां सर्वसत्त्वेन्द्रियपरिपूर्या संवर्तते / बलसंभारो बोधिसत्त्वानां सर्वक्लेशानवमर्दनतया संवर्तते / बोध्यङ्गसंभारो बोधिसत्त्वानां धर्मस्वभावानुबुध्यनतया संवर्तते / मार्गसंभारो बोधिसत्त्वानां सर्वकुमार्गसमतिक्रमताय संवर्तते / सत्यसंभारो बोधिसत्त्वानामकुशलधर्मापसरणस्वर्गोपपत्तिप्रतिलाभाय संवर्तते / प्रतिसंवित्संभारो बोधिसत्त्वानां सर्वसत्त्वसंशयच्छेदनतया संवर्तते / प्रतिसरणसंभारो बोधिसत्त्वानामपराधीनज्ञानतया संवर्तते / कल्याणमित्रसंभारो बोधिसत्त्वानां सर्वगुणाय द्वारतया संवर्तते / आशयसंभारो बोधिसत्त्वानां सर्वलोकाविसंवादनतया संवर्तते / प्रयोगसंभारो बोधिसत्त्वानां सर्वसंभारोत्तरणतया संवर्तते / अध्याशयसंभारो बोधिसत्त्वानां विशेषगामितया संवर्तते / प्रतिसंलानसंभारो बोधिसत्त्वानां यथाश्रुतधर्मप्रतिपत्या संवर्तते / सङ्ग्रहवस्तुसंभारो बोधिसत्त्वानां सत्त्वपरिपाचनतया (क्प्सू 341) संवर्तते / सद्धर्मपरिग्रहसंभारो बोधिसत्त्वानां त्रिरत्नवंशानुपच्छेदनतया संवर्तते / परिणामनाविधिज्ञकौशल्यसंभारो बोधिसत्त्वानां बुद्धक्षेत्रपरिशुद्ध्या संवर्तते / उपायकौशल्यसंभारो बोधिसत्त्वानां सर्वज्ञज्ञानपरिपूर्या संवर्तते /

अयं कुलपुत्र बोधिसत्त्वानां संभारविशुद्धिमुखसङ्ग्रहो धर्मपर्यायः" /

पुनरपि कुलपुत्र रत्नगर्भस्तथागतो महाबोधिसत्त्वपर्षदं व्यवलोक्य महाकारुणिकं बोधिसत्त्वं महासत्त्वमामन्त्रयित्वाह - "तत्र महाकारुणिका कियद्रूपेण वैशारद्यालङ्कारेणालङ्कृतो बोधिसत्त्वो महासत्त्वः क्षान्तिं परिपूरयति? परमार्थदर्शिनो बोधिसत्त्वस्य महासत्त्वस्यामोघव्यायामपरिग्रहचित्तः सर्वत्रैधातुके यो ऽपरिग्रहचित्तः सर्वसत्त्वेभ्यः स उच्यते महावैशारद्यश्रमणधर्मो यस्याकाशपाणिसमचित्तं सर्वधर्मेषु / अयं महाकारुणिक बोधिसत्त्वस्य वैशारद्यालङ्कारः /

कथं च पुनः क्षान्त्या परिपूरिर्भवति? अणुरपि (क्प्सू 342) तत्र धर्मन्नोपलभते यदनुबुध्येय प्रतिबुद्ध्येयुर्वा अविपाकधर्मानधिमुच्यते; यदुत मैत्र्या चैव नैरात्म्यं च, करुणा च निःसत्त्वता च, मुदिता च निर्जीविता चोपेक्षा च निष्पुद्गलता च, दानं च दान्तचित्तता च, शीलं च शान्तचित्तता च, क्षान्तिश्च क्षमाचित्तता च, वीर्यं च विवेकचित्तता च, ध्यानं च निध्यप्तिचित्तता च, प्रज्ञा चाप्युदारचित्तता च, स्मृत्युपस्थानता च स्मृत्यमनसिकारचित्तता च, सम्यक्प्रहाणं चानुत्पादनिरोधचित्तता च, ऋद्धिपादाश्चाप्रमाणचित्तता च, श्रद्धा चासङ्गचित्तता च, स्मृतिश्च स्वयंभूचित्तता च, समाधिश्च समापद्यनुचित्तता च, प्रज्ञेन्द्रियं चातीन्द्रियचित्तता च, बलं चानवमर्दचित्तता च, बोध्यङ्गश्च बुद्धिप्रभेदनचित्तता च, मार्गश्च भावनाचित्तता च, शमथश्चोपशमचित्तता च, विपश्यना चासंमोहचित्तता च, आर्यसत्यभावना चात्यन्तपरिज्ञाभावनाचित्तता च, बुद्धमनसिकारश्चास्वकारचित्तता (क्प्सू 343) च, धर्ममनसिकारश्च धर्मधातुसमचित्तता च, सङ्घमनसिकारश्चाप्रतिष्ठितचित्तता च, सत्त्वपरिपाचनश्चादिविशुद्धिचित्तता च, सद्धर्मपरिग्रहश्च धर्मधात्वसंभेदचित्तता च, क्षेत्रपरिशुद्धिश्चाकाशसमचित्तता च, लक्षणपरिपूरिश्चालक्षणचित्तता च, क्षान्तिप्रतिलाभश्चानुपलम्भचित्तता च, अवैवर्तिकभूमिश्च संवर्तानिवर्तचित्तता च, बोधिमण्डालङ्कारचित्तं च त्रैधातुकमण्डलचित्तता च, मारनिग्रहचित्तं च सर्वसत्त्वेभ्यः सर्वसत्त्वानुग्रहचित्तता च, बोधिश्च सर्वधर्मसमता च बोधिचित्तता च, धर्मचक्रप्रवर्तनं च सर्वधर्माप्रवर्तनचित्तता च, महापरिनिर्वाणसंदर्शनं च संसारस्वभावचित्तता च" //

अस्मिन् धर्मपर्याये भाष्यमाणे चतुःषष्टीनां बोधिसत्त्वशतसहस्राणां ये दशभ्यो दिग्भ्यो गृध्रकूटे पर्वते शाक्यमुनेस्तथागतस्यान्तिके पूर्वयोगसमाधानमुखनिर्देशं संभारविशुद्धिमुखधर्मपर्यायं श्रवणार्थमागतास्तैरनुत्पत्तिकेभ्यो धर्मेभ्यः क्षान्तिः प्रतिलब्धाः / शाक्यमुनिस्तथागत आह - "अस्य खलु पुनः कुलपुत्र धर्मपर्यायस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य भाषमाणस्याष्टचत्वारिंशतीनां गङ्गानदीवालिकासमानां बोधिसत्त्वानां महासत्त्वानामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो ऽभूत् / चातुर्द्वीपिकलोकधातुपरमाणुरजःसमैर्बोधिसत्त्वैर्महासत्त्वैरवैवर्तिकभूमिः प्रतिलब्धो बभूव / गङ्गानदीवालिकासमानां बोधिसत्त्वानां महासत्त्वानामस्य समाधानमुखनिर्देशस्य संभारविशुद्धिमुखधर्मपर्यायस्य सकलपरिपूर्णं विशुद्धज्ञानाधिगमो बभूव" //

स च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तेन प्रामोद्यप्रसादेन विंशतिवर्षसदृशः कुमारभूतः संवृत्तो, रत्नगर्भस्य तथागतस्य पृष्ठतः समनुबद्धो ऽस्थात् / स च कुलपुत्र राजामृतशुद्धः सार्धं (क्प्सू 345) पुत्रसहस्रेणाशीतिभिश्च कोट्टराजसहस्रैरन्यैश्च द्वानवतिभिः प्राणकोटिभिः सार्धं निष्क्रम्य प्रव्रजितः शीलश्रुतसमाधिसौरत्यैरभियोगकृतवान् /

स च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वो ऽनुपूर्वेण चतुरशीतिधर्मस्कन्धसहस्राणि रत्नगर्भस्य तथागतस्य सकाशाच्छ्रावकयानकथां पठितवान् पर्यवाप्तवांश्च; नवतिधर्मस्कन्धसहस्राणि प्रत्येकबुद्धयानकथामुद्दिष्टवां पठितवान् पर्यवाप्तवान्; ततः शतसहस्रमनुत्तरमहायानकथायां तथा कायस्मृत्युपस्थानकथायामुद्दिष्टवान् पठितवान् पर्यवाप्तवांश्च, शतसहस्रं वेदनास्मृत्युपस्थानकथायां, शतसहस्रं चित्तस्मृत्युपस्थानकथायां, शतसहस्रं धर्मस्मृत्युपस्थानकथायामुद्दिष्टा पठिता पर्यवाप्ताश्च; शतसहस्रं धातुस्कन्धकथां, शतसहस्रमायतनस्कन्धकथां, शतसहस्रं रागसंयोजनप्रहाणस्कन्धकथां, शतसहस्रं द्वेषसंयोजनप्रहाणस्कन्धकथां, शतसहस्रं मोहप्रहाणप्रतीत्यसमुत्पादस्कन्धकथां, शतसहस्रं समाधिविमोक्षस्कन्धकथां, शतसहस्रं (क्प्सू 346) बलवैशारद्यावेणिकबुद्धधर्मस्कन्धकथामुद्दिष्टवान् पठितवान् पर्यवाप्तवांश्च / यावद्दशधर्मस्कन्धशतसहस्रं रत्नगर्भस्य तथागतस्य सकाशादुद्गृहीतवान् पर्यवाप्तवांश्च /

यावदपरेण कालसमयेन रत्नगर्भस्तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुपधिशेषे निर्वाणधातौ परिनिर्वृतः / स च कुलपुत्र महाकारुणिको बोधिसत्त्वः नानाविधाप्रमेयासंख्येया वाद्यपुष्पचूर्णामाल्यगन्धविलेपनच्छत्रध्वजपताकारत्नैः पूजां कृतवान्, नानागन्धैश्च स्नापनं कृतवान्, शरीरप्रतिष्ठापनं च सप्तरत्नमयं स्तूपं कृतवान् पञ्चयोजनमुच्चत्वेनार्धयोजनं विस्तारेण / ततः सप्तदिवसान्यप्रमेयासंख्येया वाद्यपुष्पमाल्यगन्धविलेपनच्छत्रध्वजपताकारत्नैश्च पूजां कृत्वा, पुनरपि तत्राप्रमेयासंख्येयास्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः / स तेषां सप्तानां दिवसानामत्ययेन चतुरशीतिभिः प्राणसहस्रैः सार्धं निष्क्रम्य केशश्मश्रूण्यवतार्य काषायानि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धयागारादनागरिकां प्रव्रज्य रत्नगर्भस्य तथागतस्य परिनिर्वृतस्य शासनं ज्वालितवान्; दशवर्षसहस्राणि (क्प्सू 347) सद्धर्मधारको बभूव / तत्र चाप्रमेयासंख्येयां सत्त्वांस्त्रिभिर्यानैः समादापयामास निवेशयामास प्रतिष्ठापयामास, त्रिशरणगमने च प्रतिष्ठापयामास, उपासकसंवरे च श्रामणेरसंवरे उपसंपदायां भिक्षुभावे ब्रह्मचर्यवाससंवरे निवेशिताः प्रतिष्ठापिताः /

स बहूनि प्राणकोटीनयुतशतसहस्राणि अभिज्ञर्द्धिकौशल्ये च नियोजयित्वा सौरत्यब्रह्मचर्यवासे नियोजयित्वा शत्रुभूतेषु च स्कन्धेसु परिज्ञायां नियोजयित्वा शून्यग्रामायतनपरिज्ञायां नियोजयित्वा प्रतीत्यसमुत्पन्नाः सर्वधर्माः संस्कृतज्ञानपरिज्ञायां नियोजयित्वा प्रतिभासोपमान् मरीच्युपमान् दकचन्द्रोपमान् सर्वधर्मान् दर्शयित्वानुत्पादानिरोधाप्रतिसंधिनिरोधशान्तप्रशान्तोपशान्तपरमप्रणीतनिरोधनिर्वाणपरिज्ञानं दर्शयित्वा आर्याष्टाङ्गे मार्गे प्रतिष्ठापयित्वा कालं कृतवान् / एवमेव च ते सत्त्वास्तस्य महाकारुणिकस्य महाश्रमणस्य शरीरेषु शरीरपूजां कृतवन्तो, यथा राज्ञश्चक्रवर्तिनः शरीरेषु शरीरपूजा क्रियते / एवमेव तस्मिन् समये ते सत्त्वा महाकारुणिकस्य महाश्रमणस्य शरीरेषु शरीरपूजां कृतवन्तो / यस्मिंश्च दिवसे महाकारुणिको (क्प्सू 348) महाश्रमणः कालगतस्तस्मिन् दिवसे रत्नगर्भस्य तथागतस्य सद्धर्मो ऽन्तर्हितस्तैश्च बोधिसत्त्वैर्महासत्त्वैः प्रणिधानवशेनान्यत्र लोकधातुषूपपत्तिः परिगृहीताः; केचित् प्रणिधानवशेन तुषितभवन उपपन्नाः, केचिन् मनुस्येषु केचिन्नागेषु केचिदसुरेषु केचित् प्रणिधानेन विविधासु तिर्यग्योनिषूपपन्नाः //

कालगतश्च कुलपुत्र महाकारुणिको महाश्रमणः प्रणिधानवशेन दक्षिणायां दिशायामितो बुद्धक्षेत्राद्दशबुद्धक्षेत्राण्यतिक्रम्य तत्र संकर्षणो नाम लोकधातुरशीतिवर्षायुष्काश्च तत्र मनुष्या अकुशलमूलसमवधाना रौद्रा लोहितपाणयः पापनिविष्टा अदयापन्नः सर्वसत्त्वेषु अमातृज्ञा अपितृज्ञा अपरलोकभयादर्शिनः / प्रणिधानवशेन महाकारुणिको महाश्रमणस्तत्र संकर्षणे बुद्धक्षेत्रे चण्डालकुल उपपन्नो ऽभूत् / स चातीवदीर्घशरीरो ऽभूदतीवबलवान् अतीववेगवान् अतीवस्मृतिमान् अतीवप्रतिभानवान् अतीवजवसमन्वागतो ऽभूत् / स दृढेन बलवेगेन सत्त्वान् संगृहीत्वाह - "यदि यूयं भो सत्त्वा अदत्तादानात् प्रतिविरमत, काममिथ्याचाराद्यावन् (क्प्सू 349) मिथ्यादृष्ट्याः प्रतिविरमत, तदहं युष्माकं जीवितं प्रयच्छामि जीवितोपकरणानि च दास्यामि / अथ च पुनर्न प्रतिविरमत, अहं जीविताद्व्यपरोपयित्वा प्रक्रमिष्यामि" / ततस्ते सत्त्वा अञ्जलिं प्रगृह्याहुः / "वयमिदानीन् तव नाथस्य वचनेनाद्याग्रेण यावज्जीवमदत्तादानाद्यावन् मिथ्यादृष्ट्याः प्रतिविरमामः" / स बलचण्डालो गत्वा राज्ञो वा राजभट्टानां वा निवेदयति / "जीवितोपकरणेन मे प्रयोजनमन्नेन वा पानेन वा खाद्येन वा भोज्येन वा पेयवस्त्रशय्यागन्धहिरण्यसुवर्णमणिमुक्तवैडूर्यशङ्खशिलाप्रवाडरजतजातरूपेण वा प्रभूतानि जीवितोपकरणानि ददत मम" / स बलचण्डालः सत्त्वान् यावज्जीवं दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयामास / ततस्ते मनुष्याः पञ्चवर्षशतायुष्का बभूवुः / यश्च तत्र राजा स कालगतः ततस्तै राजामात्यैः स बलचण्डालो राजाभिषेकेनाभिषिच्य राज्ये प्रतिष्ठापितः पुण्यबलो नाम संस्कृतः /

अथ कुलपुत्र राजा पुण्यबलो न चिरेणैव तं विषयमनुशासितवान्, दृढवीर्यपराक्रमेण द्वितीयं (क्प्सू 350) विषयं समनुशासितवान् / यावद् राजा पुण्यबलो न चिरेण सर्वजम्बूद्वीपे राजा बलचक्रवर्ती बभूव / यदा च राज्ञा पुण्यबलेन सर्वजम्बूद्वीपे राजत्वं प्रतिगृहीतं ततः पश्चात् सत्त्वाः प्राणातिपातविरमणे समादापिता निवेशिताः प्रतिष्ठापिताः / एवमदत्तादानाद्यावन् मिथ्यादृष्टिवैरमण्ये समादापिताः सम्यग्दृष्ट्यां प्रतिष्ठापिता, यथाभिप्रायाः सत्त्वास्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः / अथ राजा पुण्यबलः सर्वजम्बूद्वीपिकां सत्त्वां दशकुशलेषु कर्मपथेषु प्रतिष्ठापयित्वा त्रिषु यानेषु संनियोज्य सर्वजम्बूद्वीपे घोषमनुश्रावयमास / "ये केचिद् याचनका अन्नार्थिका यावद् रत्नार्थिका वा ते सर्व आगच्छन्तु / अहं सर्वदानानि दास्यामि" / ततो ऽपरेण कालसमयेन सर्वजम्बूद्वीपिकाः सत्त्वा आगत्वा राजानं पुण्यबलं याचितवन्तः; राजापि पुण्यबलस्तान्यारभ्य विविधानि दानानि दत्तवान् /

तत्र पांशुघोषो नामाजीविको राजानं पुण्यबलमुपसंक्रम्याह / "यदि त्वं महाराज विविधं महादानपरित्यागं परित्यजसि, अनुत्तरां सम्यक्संबोधिमाकाङ्क्षसि / यदि त्वं महाराज ममाशां परिपूरयिष्यसि, भविष्यसि त्वं महाराज लोकप्रदीपो जिन" इति / राजाह - "केन ते (क्प्सू 351) ऽर्थः" / पांशुघोष आजीविक आह - "अहं महाराज विद्याधरत्वमिच्छामि महासुरसंग्रामप्रमर्दनकल्पं साधयितुं / तेनाहं तव पुरतः स्थित्वा विज्ञापयामि जीवतः पुरुषस्य चर्मणा प्रयोजनं चक्षुषा च प्रयोजनं" / अथ कुलपुत्र राजा पुण्यबल एवं चिन्तयति / "प्रतिलब्धम्मया बलचक्रवर्तिराजत्वं / गणनातिक्रान्तश्च सत्त्वा दशकुशलेषु कर्मपथेषु प्रतिष्ठापितास्त्रिषु च यानेषु नियोजिता, अप्रमेयं च मे दानं दत्तं / अयं च मे कल्याणमित्रो ऽसारात् कायात् सारमाददामि" / स राजाह - "तुष्टो भव ददामि ते इमं प्राकृतमांसचक्षुस्तेनाहं लभेयानुत्तरं धर्मचक्षुः / ददामि ते इमं स्वकं चर्म प्रसन्नचित्तेन, तेन चाहं लप्स्ये ऽनुत्तरां सम्यक्संबोधिं" / अथ कुलपुत्र राजा पुण्यबलो दक्षिणेन हस्तेनोभौ नेत्रावुत्पाद्याजीविकस्य दत्वा रुधिरम्रक्षितेन मुखेनाह / "शृण्वन्तु मे इह देवयक्षमहर्द्धिका ये केचिन्नरा ये ऽसुरा ये च भूता इहागताः खेचरा भूमौ स्थिता ये नरा, बोधाय मया दानं नामितं शुभं प्राप्स्ये ऽहं शान्तं पदं, सत्त्वांस्तारयेयं, घोरात् संसारार्णवात् पारे ऽनुत्तरे निर्वाणे शिवे स्थापयेयं" / पुनराह - (क्प्सू 352) "यद्यहमनुत्तरां सम्यक्संबोधिं प्राप्नुयां, तावच्चिरं मम जीवितेन्द्रियं मा निरुध्येत मा च मे स्मृतिर्नश्येत मा च मे विप्रतिसारो भवेद्, यावच्चिरमस्याजीविकस्य सा विद्या न सिद्धा भवेत्" / आह - "गृह्णाहि चर्म" / स च कुलपुत्र पांशुघोषाजीविकस्तीक्ष्णं शस्त्रं गृहीत्वा राज्ञो ध्रियतः कायच्चर्ममपनेत्वा चर्म गृहीत्वा विद्यां साधयित्वा, तथा सप्तदिवसानि राज्ञः पुण्यबलस्य जीवितेन्द्रियं न निरुद्धं, न च स्मृतिः प्रमुष्टा, न च तां दुःखां वेदनां वेदयति, न चास्यैकक्षणं अपि विप्रतिसारो जातः /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.