Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

करुणापुण्डरीकसूत्र

Thông tin
GRETIL — Isshi, Yamada, Mahakarunapundarika Sutra. London: School of Oriental and African Studies, 1968, 1-420.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तत्किं मन्यध्वे कुलपुत्रान्यः स तेन कालेन तेन समयेन महाकारुणिको नाम बभूव, न चान्यो द्रष्टव्यो ऽहं स तेन कालेन तेन समयेन महाकारुणिको नाम बभूव रत्नगर्भस्य तथागतस्य पिता / अयं मे प्रथमचित्तोत्पादो ऽभूतनुत्तरायां सम्यक्संबोधौ / प्रथमचित्तोत्पादेन च मे गणानातिक्रान्ताः सत्त्वाः समादापिता अनुत्तरायां सम्यक्संबोधौ / अयं मे प्रथमः शूरभावः शूरकार्यं च / सो ऽहं प्रणिधानवशेन ततश्च्यवित्वा संकर्षणे बुद्धक्षेत्र उपपन्नश्चण्डालकुले द्वितीयः शूरभावः शूरकार्यं च / तदा मे चण्डालवंशे (क्प्सू 353) स्थित्वा सत्त्वां कुशले नियोज्य स्वबलपराक्रमेण यावद्बलचक्रवर्तित्वं प्राप्तं, सर्वजंबूद्वीपे च कलिकलुषकलहाः प्रशमिता, आयुश्च वर्धापिताः / अयं च मे प्रथम आत्मपरित्यागः, यदा च मे स्वनेत्राः परित्यक्ताः स्वचर्मपरित्यागश्च / सो ऽहं ततश्च्युतस्तत्रैव संकर्षणे क्षेत्रे द्वितीये द्वीपे प्रणिधानवशेन चण्डालकुल उपपन्नः / पेयालं, तत्र च मयैवंरूपेण दृढवीर्यपराक्रमेण सत्त्वान्नियोजयित्वा कुशलेषु कर्मेषु, यावद्बलचक्रवर्तित्वं मे प्राप्तं / तत्र च कलिकलुषकलहवैरविग्रहाः प्रशमिता, आयुश्च वर्धापितं / तत्र च स्वशरीरात् जिह्वा कर्णौ च परित्यक्तौ, यावत् सर्वन् तत्संकर्षणं महासाहस्रं बुद्धक्षेत्रं सर्वद्वीपेष्वेवं पुरुषकारं कृतं / प्रणिधानदृढवीर्यपराक्रमेणानुप्रबन्धेन प्रणिधानवशेन गङ्गानदीवालिकासमेषु पञ्चकषायेषु बुद्धक्षेत्रेषु एवंरूपं महापुरुषकारं कृतं, सत्त्वाश्च कुशलेषु नियोजिताः, त्रिषु च यानेषु समादापिताः, कलिकलुषकलहरणविग्रहाः शमिताः /

इत्यर्थं कुलपुत्रान्येषां बुद्धानां भगवतां बुद्धक्षेत्रं परिशुद्धं / यदा ते बुद्धा भगवन्तः पूर्वे ऽनुत्तरां सम्यक्संबोधिचर्यां चरमाणा न परामापत्त्या (क्प्सू 354) चोदयन्ति, न च परस्य भयं दर्शयन्ति, न श्रावकप्रत्येकबुद्धयाने सत्त्वां समादापयन्ति / इत्यर्थं तेषां बुद्धानां भगवतां परिपूर्णाभिप्रायाणां परिशुद्धं बुद्धक्षेत्रं भवति / न च तत्र बुद्धक्षेत्रे आपत्तिनाम, न शिक्षाग्रहणस्य, न च परुषवचनं श्रूयते, न चाकुशलशब्दः; अन्यत्र धर्मशब्देन तद्बुद्धक्षेत्रमपगतामनापशब्देन स्फुटं भवति / तत्र च सत्त्वा यथाकामकरणीया भवन्ति, न च तत्र श्रावकप्रत्येकबुद्धयानस्य नाम प्रज्ञप्तिप्रादुर्भावो ऽस्ति / यदा च मया गङ्गानदीवालिकासमेषु महाकल्पेषु गङ्गानदीवालिकासमेषु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु परुषवचनभयेन सत्त्वाः प्राणातिपातवैरमण्ये समादापिता यावत्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः / (क्प्सू 355) तेन कर्मावशेषेण म एतर्ह्येवं परिक्लिष्टं बुद्धक्षेत्रं अकुशलशब्देनापूरितं अकुशलमूलसमवधानगतैः सत्त्वैः परिपूर्णं, त्रिभिश्च यानैर्धर्मं देशयामि / यथा च मे पूर्वं प्रणिधानं कृतं तथारूपं बुद्धक्षेत्रं परिगृहीतं / यादृशाश्च मे सत्त्वा वैनेयाः परिगृहीतास्तदृशेनैव बलवीर्योद्योगेन बोधिचारिकाः चीर्णाः, यादृशं चैव बीजं प्रक्षिप्तं तादृशं बुद्धक्षेत्रं प्रतिलब्धं / यथारूपं मया प्रणिधानं कृतं /

संक्षिप्तेन ते कुलपुत्र दानपारमितां कथयिष्यामि यथा मया बोधिसत्त्वचारिकां चरमाणेन दानपरित्यागः परित्यक्तः, न केनचित् पूर्वं बोधिसत्त्वेनैवंरूपः दानपरित्यागः परित्यक्तः, न च पुनः कश्चिद्बोधिसत्त्वो भविष्यति य एवंरूपं दानपरित्यागं बोधिचारिकां चरमाणः परित्यजति, यथा मया बोधिसत्त्वचारिकां चरमाणेन दानं परित्यक्तं, अन्यत्राष्टौ सत्पुरुषाः / धरणिदत्तो नाम सत्पुरुषो बभूव, दक्षिणायां दिशायां (क्प्सू 356) सर्वघोषायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुद्धः संकरमर्दार्चिर्नाम तथागतो वर्षशतायुष्कायां प्रजायां धर्मं देशयति / स सप्तमे दिवसे परिनिर्वास्यति / एवं वीर्यसंचोदनो नाम बभूव बोधिसत्त्वः, यः पुरिमायां दिशायामजयवत्यां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, वर्षशतायुष्कायां प्रजायां बुद्धकार्यं कृतवान् गङ्गानदीवालिकासमा कल्पातिक्रान्ताः / यदा स तथागतो ऽनुत्तरपरिनिर्वाणेन परिनिर्वृतः, अद्यापि तस्य महाकारुणिकस्य शरीराणि शून्येषु बुद्धक्षेत्रेषु पञ्चकषायेषु बुद्धकार्यं कुर्वन्ति / एवं च वदन्ति सारकुसुमितो बोधिसत्त्वो दृढवीर्यसमाधानो बलवेगपरित्यागेन बोधिसत्त्वचारिकां चरति / दशगङ्गानदीवालिकासमैर्महाकल्पैरतिक्रान्तैः पश्चात् स तत्रोत्तरायां दिशायां सहेतुसंकर्षणो नाम भविष्यति पञ्चकषाये बुद्धक्षेत्रे तत्रासौ सत्पुरुषो ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यति, सहेतुकृष्णविध्वंसनराजो नाम भविष्यति तथागतो ऽर्हन् सम्यक्संबुद्धो यावद् बुद्धो भगवान् /

प्रज्ञार्चिःसंकोपितदष्टो (क्प्सू 357) नाम बोधिसत्त्वः सत्पुरुष एकस्य महाकल्पस्यात्ययेन पश्चिमायां दिशि भैरवती नाम लोकधातुर्भविष्यति पञ्चकषाये वर्षशतायुष्कायां प्रजायामनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, सूर्यगर्भार्चिविमलेन्द्रो नाम भविष्यति तथागतो ऽर्हन् सम्यक्संबुद्धो भगवान् / अयं पुनः संरोचनो गणनातिक्रान्तैः कल्पैर्निर्दिष्टितैरुपरिमस्यां दिशि क्षारवर्चनिकुञ्जितायां लोकधातौ पञ्चकषाये तीव्रकलुषसंक्षोभणे कल्पे ऽसौ संरोचनः पूर्वप्रणिधानेन पञ्चाशद्वर्षायुष्कायां प्रजायां तत्र क्षारवर्चनिकुञ्जिते बुद्धक्षेत्रे ऽनुत्तरां (क्प्सू 358) सम्यक्संबोधिमभिसंभोत्स्यते, अचिन्त्यरोचनो नाम तथागतो भविष्यति यावद् बुद्धो भगवान् / स पूर्वप्रणिधानेन दशवर्षानि सकलं बुद्धकार्यं कृत्वा परिनिर्वास्यति / तत्रैव दिवसे तस्य तथागतस्य सद्धर्मो ऽन्तर्धास्यति, दशवर्षाणि पुनस्तं बुद्धक्षेत्रं शून्यं भविष्यति / ततः पश्चादसौ प्रहसितबाहुर्बोधिसत्त्वस्तत्र च क्षारवर्चनिकुञ्जिते बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, वैरोचनधर्मो नाम भविष्यति तथागतो ऽर्हन् सम्यक्संबुद्धो / सो ऽपि दशवर्षाणि सकलं बुद्धकार्यं कृत्वानुपधिशेषे निर्वाणधातौ परिनिर्वास्यति / तस्य च परिनिर्वृतस्य पूर्वप्रणिधानेन सप्तवर्षाणि सद्धर्मः स्थास्यति / अत्र द्वौ सत्पुरुषौ लब्धपूर्वव्याकरणौ लब्धास्वादावनुत्तरायां सम्यक्संबोधौ भगवतः पुरतः पादौ शिरसा वन्दित्वा प्रीतिसौमनस्यप्रामोद्येन सप्ततालमात्रप्रमाणमुपर्यन्तरीक्षे ऽभ्युद्गम्य प्राञ्जलीभूतौ स्थित्वा भगवन्तमेकस्वरेण गाथाभिरध्यभाषतां /

"विरोचसे बुद्ध यथैव सूर्य अभ्युद्गतो मेरुरिमस्मिं लोके / विशुद्धचक्षुर्विरजा विनायका आलोकभूता सुगता नमो ऽस्तु ते //

बहूनि कल्पान ति वीर्यभाविता पर्येषमाणेन ति अग्रबोधि / बहुजिना पूजिता पूर्वे ये त्वया न चैव ते व्याकर्षीमतितनायकाः //

प्रहीणरागा परिमुक्तचित्ता कृतं ति कार्यमिह सर्वलोके / प्रणष्टमार्गाण देशेसि धर्मं सत्त्वांश्च उत्तारयसे भवार्णवात् //

वयं पि प्रव्रज्य स्वयंभूशासने या प्रातिमोक्ष जिन शिक्ष देशिता / वयं पि शिक्षित्व समाहितेन्द्रिया तवैव आसन्न सदा भवेमः //

अनिश्रिता जीवितकर्मकामा शास्तारमाज्ञाय श्रुणित्व धर्मं / आस्वाद लप्स्याम्यभिसेकभूमि जिनो ऽभिव्याकार्षी इदमेव अर्थं" //

भगवानाह - "तौ च कुलपुत्र द्वौ अनुत्पादितबोधिचित्तौ; इमौ च संरोचनः प्रहसितबाहुः, ते चत्वारो धरणिदत्तो वीर्यसंचोदनः सारकुसुमितः प्रज्ञार्चिःसंकोपितदष्टः, इमे षट्सत्पुरुषा मया प्रथमं बोधाय समादापितास्तां शृणु /

भूतपूर्वं कुलपुत्रातीते ऽध्वन्यसंख्येयैरप्रमाणैः कल्पैरतिक्रान्तैः, यदासीत्तेन कालेन तेन समयेनेदं बुद्धक्षेत्रमरजमेरुजुगुप्सितं नामाभुत्, तदाहं महाकल्पे वर्तमाने वर्षशतायुष्कायां प्रजायां गन्धपद्मस्य तथागतस्य शासने सद्धर्मप्रतिरूपके (क्प्सू 361) वर्तमाने ऽहं च कुलपुत्र तेन कालेन दुर्धनो नाम बभूव बलचक्रवर्ती जम्बूद्वीपविजयी सहस्रं पुत्राणां बभूव / तानप्यहमनुत्तरायां सम्यक्संबोधौ समादापितवान् / ते ऽप्यपरेण समयेन निष्क्रम्य गन्धपद्मस्य तथागतस्य शासने प्रव्रजितास्ते च भूयस्या मात्रया गन्धपद्मस्य तथागतस्य शासनं ज्वालितवन्तः, स्थापयित्वा षट्पुत्रां ये न प्रव्रजिता न चेच्छन्ति बोधिचित्तमुत्पादयितुं / अहं च पुनः पुनर्विज्ञापयामि / "को युष्माकमभिप्रायो यद्यूयं बोधिचित्तं नोत्पादयथ, न च प्रव्रजथ?" / ते आहुः / "न वयं प्रव्रजामः / तत्कस्माद्धेतोः?, यः क्षयान्तकाले सद्धर्मप्रतिरूपके वर्तमाने प्रव्रजितो ऽशक्तः सकलं शीलस्कन्धमाराधयितुं, स च सप्तधनविरहितो भवति, मग्नः संसारपङ्के, पुनश्च स देवमनुष्यश्रीः कदाचिल्लभति, नित्यं त्रिष्वपायेषु परिभ्रमति, बुद्धशिक्षायां न समादाय वर्तते / इत्यर्थं वयं न परिव्रजामः" / तानहं पुनः पृष्टवान् / "किं पुनर्यूयं बोधौ चित्तं नोत्पादयथ?" / त आहुर्["]यद्यस्माकं सर्वं जम्बूद्वीपं दद्यादेवं (क्प्सू 362) वयं अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेमः" /

तदहं कुलपुत्र श्रुत्वा परमप्रीतमना एवं चिन्तयामि / "मया सर्वं जम्बुद्वीपका मनुष्यस्त्रिशरणगमने प्रतिष्ठापिता, आर्याष्टाङ्गे उपोषधवासे समादापितास्त्रिषु च यानेषु समादापिता / यन्नूनमहमिमं जम्बुद्वीपं षड्भागं कृत्वा षण्णां पुत्राणां दद्यां; दत्वा चानुत्तरायां सम्यक्संबोधौ समादापयेयं / अहं च निष्क्रम्य प्रव्रजेयं" / एवं सर्वं जम्बूद्वीपं षड्भागं कृत्वा पुत्राणां दत्तं / अहं च निष्क्रम्य प्रव्रजितस्ते च षज्जम्बूद्वीपराजानः परस्परविरुद्धाः कलहभण्डनविग्रहरोगपरचक्रसंक्षोभविविदमापन्नाः / यतः सर्वजम्बूद्वीपे दुर्भिक्षं संवृत्तं, शष्पानि न संपद्यन्ते, वर्षं न प्रवर्षति, वृक्षेभ्यश्च पत्रपुष्पफलानि न निष्पद्यन्ते, ओषधितृणानि च न संपद्यन्ते, मृगपक्षिणो ऽपि क्षुत्तृष्णाप्रज्वालितगात्रा विहन्यन्ते / तदाहमेवं चिन्तयामि / "मया चैतर्हि आत्मपरित्यागः कर्तव्यः, सत्त्वाः स्वमान्सरुधिरेण संतर्पयितव्यास्[ / "]ततो ऽहम् आश्रमं परित्यज्य मध्यमेषु जनपदेषु गत्वा दगपालं पर्वतमभिरुह्य प्रणिधानमकरोत् /

"यथा त्यजामि स्वशरीरजीवितं कारुण्यहेतोर्न च स्वर्गहेतोरर्थाय लोकस्य सदेवकस्य भवेद् इहापर्वतमात्रमुच्छ्रयं //

यथा त्यजामि प्रियरूपसंपदं न शक्रब्रह्माण न मारकारणात् / अर्थं करो भेष्यसि देवलोके भवेयं मह्यं बहुमान्सशोणितं //

शृण्वन्तु नागा नरदेवयक्षा ये देवता शैलगिरौ निवासिणः / कृपा ममोत्पन्नय सत्त्वहेतोः तर्पष्य सत्त्वां स्वकमांसशोणितैः" //

यदा च मया कृतं प्रणिधानं, क्षुभितास्त्रयो लोकाः, कंपिता धरणी, चलितो मेरुः, रुदन्ति देवगणास्ततो ऽहमात्मानं दगपालात्पर्वतात्पातयामास / प्रणिधानवशेन मम पर्वतप्रमाणमात्मभावः संवृत्तः, योजनशतं विस्तारेण योजनमुच्चत्वेन; यावन् मनुष्यमृगपक्षिणः आरब्धा मान्सरुधिरं भक्षयितुं / मम च कुलपुत्र स कायः सत्त्वैः परिभुज्यमानः प्रतिदिनं वर्धते, योजनशतसहस्रं विस्तारेण संवृत्तः योजनसहस्रमुच्चत्वेन / सर्वत्र मानुषशिराः प्रादुर्भूताः सकेशकर्णनयनानासौष्ठदान्ताः सजिह्वा अनेकमुखशतसहस्राः प्रादुर्भूताः / ते च मुखा मनुष्यशब्देन घोषयन्ति / "भोः सत्त्वा भो गृह्णथ येनार्थं, मान्सं परिभुञ्जथ, रुधिरं पिवथ, नयनां गृह्णथ, कर्णनासां केशौष्ठदन्तजिह्वां गृह्णथ / यस्यार्थं येनार्थं यावदर्थं संतर्पितशरीराः परिपुर्णाभिप्राया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयथ, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा / अयं युष्माकमुपभोगपरिभोगो न क्षीयते, न च युष्माकं श्रद्धादेयं भविष्यति, मा वः क्षिप्रमेव जीवितक्षयो भवतु" / (क्प्सू 365) ये च तत्र विज्ञाः सत्त्वास्ते केचिच्छ्रावकयाने चित्तमुत्पादयन्ति, केचित् प्रत्येकबुद्धयाने, केचिदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति, केचित् पुनर्देवमनुष्योपपत्तौ चित्तान्युत्पादयन्ति; मान्सं भक्षयन्ति, रुधिरं पिवन्ति, केचिन्नयनानि गृह्णन्ति, केचित् कर्णौ, केचिन्नासां, केचिदोष्ठौ, केचिद्दान्तां गृह्णन्ति; गृहित्वा प्रक्रमन्ति; प्रणिधानवशेन चान्योन्यं प्रादुर्भवति, मान्सं न चापचयं भवति, न परिक्षयं गच्छति /

यावद्दशवर्षसहस्राणि सर्वजम्बूद्वीपका मनुष्या यक्षमृगपक्षिणो ऽपि स्वशरीरेण संतर्पयामास / तैश्च दशभिर्वर्षसहस्रैर्गङ्गानदीवालिकासमानि मया नेत्राणि परित्यक्तानि, चतुःसमुद्रोदकप्रमाणं मया रुधिरं परित्यक्तं, सुमेरुसहस्रप्रमाणं मया मान्सं परित्यक्तं, चक्रवाडपर्वतप्रमाणा मया जिह्वा परित्यक्ता, युगन्धरमेरुप्रमाणा मया कर्णाः परित्यक्ताः, विपुलासुमेरुप्रमाणा मया नासाः परित्यक्ताः, इमं गृध्रकूटपर्वतप्रमाणा मया दान्ताः परित्यक्ताः, कृत्स्नं सहं बुद्धक्षेत्रं प्रज्ञापनप्रमाणं मे तत्र स्वचर्म परित्यक्तं /

पश्य कुलपुत्र दशवर्षसहस्राणि एवमप्रमेयासंख्येयापरिमाणाः स्वशरीरपरित्यागाः परित्यक्ता एकजीवितेन; एवमप्रमेयासंख्येयापरिमाणाः सत्त्वाः संतर्पिताः; एकचित्तक्षणमपि मे विप्रतिसारो नोत्पन्नः / एवं च मे तत्र प्रणिधानं कृतं / यद्यहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, इयं मे आशा परिपूर्यतु, यथा मयैकद्वीपे स्वशरीरेण सर्वसत्त्वाः संतर्पिताः, एवमेव गङ्गानदीवालिकासमा वर्षसहस्रा अस्मिन्नरजमेरुजुगुप्सिते बुद्धक्षेत्रे सर्वद्वीपेष्वेवंरूपो ममात्मभावः प्रादुरभवत्, यथैकद्वीपे दशवर्षसहस्राणि एवं सर्वद्वीपेषु सत्त्वां स्वमान्सरुधिरचर्मनयनकर्णनासौष्ठजिह्वाकेशैः संतर्पयित्वा त्रिषु यानेषु समादापयेयं, मनुष्यां यक्षराक्षसां सर्वतिर्यग्योनिकान् ये केचिन् मान्सरुधिरभोजनाहाराः पृथग्यक्षा यावदन्तशः यामलौकिकाः तांश्चाहं संतर्पयेयं / यथा चाहमेकस्मिन् बुद्धक्षेत्रे स्वशरीरेण सर्वसत्त्वां संतर्पयेयं / एवमेव समन्तद्दशसु दिक्षु गङ्गानदीवालिकासमेषु (क्प्सू 367) बुद्धक्षेत्रेषु स्वमान्सरुधिरचर्मनयनां यावज्जिह्वाभिरेवंरूपेणात्मभावेन गङ्गानदीवालिकासमान् महाकल्पान् तेषु तेषु बुद्धक्षेत्रेषु स्वकायजीवितेन सत्त्वां संतर्पयेयं, एवंरूपमात्मभावं प्रतिलभ्य /

विसंवादिता मे बुद्धा भगवन्तो भवेयुर्ये दशसु दिक्ष्वन्येषु बुद्धक्षेत्रेषु प्रवर्तितधर्मचक्राः तिष्ठन्ति यापयन्ति धर्मं च देशयन्ति, माहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, मा चाहं संसारे संसरमाणो बुद्धशब्दं शृणुयां मा च धर्मशब्दं मा सङ्घशब्दं मा पारमिताशब्दं मा मारबलपराशयशब्दं मा वैशारद्यशब्दं यावत् कुशलशब्दमपि संसारे मा शृणुयां, नित्यं चावीचौ नरके संभवेयं; यदि मे एवंरूपः स्वशरीरपरित्यागः सत्त्वसंतर्पणार्थे न संपद्यत, नैवंरूपं च मे प्रणिधानं परिपूरि स्याद्यथा मे आशा चिन्तिता / ये ऽपि चेमस्मिं बुद्धक्षेत्रे सर्वत्र द्वीपेष्वेकैकस्मिं द्वीप एवंरूपा आत्मभावाः परित्यक्ताः सत्त्वांश्च मान्सरुधिरेण संतर्पिता, एवं दशसु दिक्षु गङ्गानदीवालिकासमेष्वन्येषु बुद्धक्षेत्रेषु सत्त्वा एवंरूपेणात्मभावेन स्वमान्सरुधिरेण सन्तर्पिताः / पश्य (क्प्सू 368) कुलपुत्र तथागतस्य दानपारमिता आत्मभावपरित्यागं य मयानुप्रबन्धेन तत्कालं नेत्राः परित्यक्ताः तेषां पुनरयं जम्बूद्वीपे यावत्त्रायस्त्रिंशद्देवपर्यन्तप्रमाणे राशिर्भवेत् / अयं कुलपुत्र तथागतस्य संक्षिप्तेन आत्मपरित्यागदानपारमिता /

पुनरपरं कुलपुत्र ततः पश्चादप्रमेयानां कल्पानामत्ययेन अयं बुद्धक्षेत्रश्चन्द्रविद्युतो नाम बभूव; तमपि पञ्चकषायं बभूव / अहं चास्मिं जम्बुद्वीपे राजा बभूव प्रदीपप्रद्योतो नाम बलवांश्चक्रवर्ती / एवं च मया सर्वजंबूद्वीपकाः सत्त्वाः कुशलेषु नियोजिता, यथा पूर्वोक्तं / पश्चादहमुद्यानभूमिं निर्यातः स्वभूमिदर्शनाय; तत्र चाहं पुरुषमद्राक्षं, पश्चाद्बाहुं गाढबन्धनं बध्यमानं दृष्ट्वा मयामात्याः पृष्टाः / "किम् अनेन पुरुषेण कृतं?" / अमात्या मां प्रत्यूचुर्[ / "]अयं पुरुषो देवस्य सापराधिको; यदेतस्य पुरुषस्य संवत्सरे शष्पं धान्यं चोत्पद्यते ततो देवस्य षट्कांशो देयः, यथान्ये कुटुम्बिनो ददन्त्यायद्वारं ये देवस्य नगरग्रामजनपदकर्वटेषु प्रतिवसन्ति (क्प्सू 369) कर्मान्तेन जीविकां कल्पयन्ति; तं चैष पुरुषो न ददाति" / तानहमेतदवोचं - "उत्सृजत एतं पुरुषं / मा कस्यचिद्बलाद्धनधान्यं गृह्णीत" / ते कथयन्ति / "देव न कश्चित् सुप्रसन्नचित्तो ददाति, यद्देवस्य दिवसेदिवसे ऽन्नपानभोजनपरिभोगो देवीनां देवस्य चान्तःपुरदेवस्य पुत्राणां दुहितृणां उपभोगपरिभोगः सर्वं तत्परः सकाशादुद्ध्रियते / न च कश्चित् प्रसन्नः प्रयच्छति" / तच्चाहं परमदुर्मनाश्चिन्तयामि / "कस्याहमिमं सर्वं जम्बूद्वीपं राज्यैश्वर्यं दद्यां?" / मम पञ्चपुत्रशतानि बभूवुस्तांश्च बोधौ समादापयित्वा, इमं जम्बूद्वीपं पञ्चभागशतानि कृत्वा पुत्राणां प्रदत्तं / अहं च तपोवनं गत्वा रिषिप्रव्रज्येन ब्रह्मचर्यं चचार; वनखण्डे उडुम्बरमूले दक्षिणस्य महासमुद्रस्य नातिदूरे नवमूलफलाहारो विहरामि ध्यायी अनुपूर्वेण पञ्चाभिज्ञः संवृत्तः /

तेन खलु पुनः समयेन पञ्चशता जम्बूद्वीपकानां वाणिजानां महासमुद्रमवतीर्णास्तैस्ततः प्रभूतो रत्नस्कन्ध आसादितः / तत्र च चन्द्रो नाम सार्थवाहः (क्प्सू 370) तेन भाग्यवता विज्ञपुरुषेण चिन्तामणिः समासादितः / स ततो रत्नद्वीपाद्विपुलं रत्नधनस्कन्धं तं च चिन्तामणिं गृहीत्वा संप्रस्थितः, ततः क्षुभितः समुद्रो नागा आकुला रुदन्ति देवता यास्तत्र निवासिन्यस्तत्र चाश्वस्तो नाम रिषिर्बोधिसत्त्वः पूर्वप्रणिधानेन तत्रोपपन्नः; तेन महासत्त्वेन स सार्थः स्वस्तिना क्षेमेण च महासमुद्रादुत्तारितस्तस्य च सार्थवाहस्यान्यतरो दुष्टराक्षसः प्रत्यर्थिको ऽवतारप्रेक्षी विवरगवेषी पृष्ठतः पृष्ठतः समनुबद्धः / तेन सप्तदिवसानि परमकलुषा वातवृष्टिरवसृता; यतस्ते वणिजः प्रणष्टमार्गा परमभीतादुच्चस्वरेण क्रन्दन्ति रुदन्ति परिदेवन्ति, देवतामायाचन्ति शिववरुणां यावन् मातापितरमाक्रन्दन्ति प्रियपुत्रां / यावदश्रोषीदहं दिव्येन श्रोत्रेण यावत्तत्रागत्वा वणिजः समाश्वासिताः, "समागतो ऽहं; मा भायथ; अहं युष्माकं मार्गामुपदर्शयिष्यामि, यावज्जम्बूद्वीपं (क्प्सू 371) स्वस्तिना क्षेमेण च प्राप्स्यथ" / तदाहं पट्टं तैलेन म्रक्षयित्वा स्वहस्तं वेष्ट्य अग्निना प्रज्वाल्य सत्यवचनमकरोत् - "यदि मया षट्त्रिंशद्वर्षा चतुर्भिर्ब्राह्मैर्विहारैर्वनखण्डनिवासिनां सत्त्वानामर्थाय हिताय नवमूलफलाहारेण चतुरशीतीनां नागयक्षसहस्राणां चित्तसन्ततिः परिपाचिता अवैवर्तिकाश्च स्थापिता अनुत्तरायां सम्यक्संबोधौ /

तेन सत्येन सत्यवचनेन कुशलमूलपरिपाकेन ज्वलतु मे हस्तं; लभन्तु मार्गं वणिजः स्वस्तिना क्षेमेण जम्बूद्वीपं प्रापयन्तु" / यावत् सप्तरात्रिदिवसाः स्वहस्तं ज्वालितवान्, ते वणिजो जम्बूद्वीपे स्थापितास्तत्र मया प्रणिधानं कृतं : यदा जम्बूद्वीपं रत्नपरिहीणं भवेत्, तद् यदाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, तदा इयं मे आशा परिपूर्यतु, सार्थवाहो भवेयं जम्बुद्वीपे सप्तवारां चिन्तामणिमानयित्वा विविधं रत्नवर्षं अभिप्रवर्षयेयं; यावत् सर्वद्वीपेष्वस्मिन् बुद्धक्षेत्रे एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु शून्येषु बुद्धक्षेत्रेषु पञ्चकषायेषु रत्नं प्रवर्षयेयं, यावत्पूर्वोक्तं / (क्प्सू 372) एवं च मे आशा परिपूर्णा गङ्गानदीवालिकासमानां महाकल्पानामन्तरेण सार्थवाहो ऽभूवन्, गङ्गानदीवालिकासमेषु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु रत्नानि प्रवर्षितानि; एकैकद्वीपे सप्तवारां विविधं रत्नवर्षं प्रवर्षितं / एवमप्रमेयासंख्येयाः सत्त्वा रत्नैः परिपुर्णाभिप्रायाः कृतास्त्रिषु च यानेषु नियोजिताः / पश्य कुलपुत्र तथागतस्य रत्नपरित्यागलक्षणं विपाककुशलमूलं /

पुनरपरं कुलपुत्राप्रमेयाणां कल्पानामत्ययेनान्तरेणायं बुद्धक्षेत्रस्तिमिरं नामाभूत्; संतोषणे कल्पे वर्तमाने पञ्चकषाये पञ्चवर्षसहस्रिकायां प्रजायां प्रणिधानेनाहमस्मिन् जम्बूद्वीपे सूर्यमालगन्धो नाम ब्राह्मणो ऽभूवन् वेदपाठकः / तत्कालं च सत्त्वा भूयसा शाश्वतदृष्टयो ऽभूवन् सवैरपराक्रमाः सकलहाधिष्ठानाः / तेषां चाहं महाबलवेगपराक्रमेण सत्त्वानां शत्रुभूतं स्कन्धप्रयोगेन धर्मं देशयामि, शून्यग्रामायतनप्रत्यवेक्षणाप्रत्ययसमनुबद्धं सोत्पादव्ययं आनापानस्मृतिमनस्कारं दर्शयामि / ते ऽनुत्तरायां (क्प्सू 373) सम्यक्संबोधौ चित्तोत्पादनकुशलमूलपरिणामनाभियोजिताः, स्वयमेव चाहं पञ्चाभिज्ञः संवृत्तः; तेन च समयेनाप्रमेयासंख्येयाः सत्त्वा ममाववादानुशासनेन पञ्चाभिज्ञाः संवृत्ताः / एवमप्रमेयासंख्येयाः सत्त्वाः कलहविग्रहवैरानवसृज्य वनखण्डमाशृत्य वनखण्डे मूलफलाहारा ध्यायन्तश्चतुर्भिर्ब्राह्मैर्विहारै रात्रिदिवसमतिनामितवन्तः / ततः क्षीयमाणे कल्पे यदा तैर्दक्षिणीयैः कृत्स्नं जम्बूद्वीपं स्फुटमभूत् / ते च कलिकलहरणवैरविग्रहविवादाः प्रशान्ताः, अकालवातवर्षाः प्रशमिताः, प्रणीता ओजवतीपृथिवीसंनिश्रिताः शष्पा बभूवुः / केवलं विविधरोगोपहता बभूवुः कल्पदोषेण / तदाहमेवं चिन्तयामि, "यद्यहं सत्त्वानां व्याधिं न शक्तः शमयितुं" / तस्य ममैतदभवद्, "यन्नूनमहं शक्रं महाब्राह्मणं लोकपालानन्ये च देवर्षयो वा (क्प्सू 374) नागर्षयो वा शक्रर्षयो वा मनुष्यर्षयश्च सन्निपातयेयं, भैषज्योपकरणशास्त्रं सत्त्वानां हितार्थमुपदर्शयेयं /

तदाहमृद्ध्या गत्वा शक्रब्रह्माणलोकपालदेवर्षीणां नागर्षीणां शक्रर्षीणां मनुष्यर्षीणां आरोचयेयं / एकविडपतिर्नाम पर्वतः, तत्र संनिपातयित्वा विडचरकमूर्धनि नाम स्थानं भूतसंनिवारणप्रतिशरणं रक्षावातपित्तश्लेष्मसंप्रसादनशास्त्रं निर्देशयेयं" / पेयालं, अप्रमेयासंख्येयानां सत्त्वानां व्याधिप्रशमनं कृतं / तत्र महाप्रणिधानं कृतं यथा मयैकदिवसे ऽप्रमेयासंख्येयानां सत्त्वानां प्रज्ञावभासः कृतः, त्रिषु च यानेषु नियोजिता, अपायपथाः पिथिताः, स्वर्गपथप्रतिष्ठापिता, विविधाश्च व्याधयः प्रशमिताः परिमोचित्ताश्च / एवमप्रमेयानामसंख्येयानां सत्त्वानां प्रज्ञालोको दत्तः, सौख्ये ऽवस्थापिताः / तदनेन कुलपुत्र (क्प्सू 375) कुशलमूलविपाकेन इयं मे प्रणिधानाशा परिपूर्णाः / यदा च मयैकदिवसे ऽप्रमेयानामसंख्येयानां सत्त्वानामपायपथा निरोधिताः, स्वर्गपथे च प्रतिष्ठापिता, ग्लानप्रत्ययोपकरणार्थं देवर्षियक्षसङ्घाः सन्निपातिताः सत्त्वानामर्थाय विडचरकमूर्धनि देवलोके प्रकाशिते सत्त्वानामारोग्यकौशल्यमेवमेव तिमिरे बुद्धक्षेत्रे सर्वद्वीपेषु चैवंरूपः पुरुषकारः कृतः, सत्त्वाश्च स्वर्गपथे प्रतिष्ठापिता, देवनागयक्षमनुष्या ऋषयः सन्निपातिता यैस्सत्त्वानामर्थाय विविधा विद्यास्थानाः प्रकाशिताः / यथेन तिमिरे बुद्धक्षेत्रे एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु पञ्चकषायेषु बुद्धक्षेत्रेष्वेवंरूपः पुरुषकारः कृतः, सत्त्वाश्च त्रिषु यानेषु नियोजिताः, स्वर्गपथे च प्रतिष्ठापिता, विविधाश्च विद्यास्थाना लोके प्रकाशिताः, सत्त्वा व्याधितः परिमोचिता, अनुत्तरा च मे कुलपुत्रैवंरूपा आशा परिपूर्णाः /

अपि तत्र तिमिरे बुद्धक्षेत्रे सर्वद्वीपेष्वेवंरूपः पुरुषकारः कृतो यथा प्रणिधानं कृतं / अप्यनुत्तरेण (क्प्सू 376) ज्ञानेन दशसु दिक्षु गङ्गानदीवालिकासमेषु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेष्वैकैकस्मिन् बुद्धक्षेत्रे सर्वद्वीपेष्वेवंरूपः पुरुषकारः कृतो, यथा मे पूर्वप्रणिधानं कृतं / पश्य कुलपुत्र प्रज्ञाविशेषं बोधिचर्यायां, अयं च तथागतस्य त्रयाणां सुचरितानां कुशलमूलबीजं /

तथा प्रत्यवरकालसमये ऽसंख्येयैः कल्पैरधिकतरैरन्तरेणेदं बुद्धक्षेत्रं विचितदोषं नामाभूत्, संश्रयसे महाकल्पे वर्तमाने तदपि पञ्चकषायं / पुरिमायां दिश्यनुपञ्चाशायां चातुर्द्वीपिकायां वडं नाम जम्बूद्वीपमभूत् / तत्राप्यहं सत्त्वपरिपाचनार्थमुपपन्नः, चतुर्द्वीपेश्वरः चक्रवर्ती राजा अम्बरो नाम बभूव / तत्र च मया सत्त्वा दशसु कुशलेषु कर्मपथेषु समादापिता निवेशिताः प्रतिष्ठापितास्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः / सर्वंददश्च बभूव सर्वत्रदायी / तत्र च मे याचनका आगत्वा विविधानि रत्नानि याचन्ति, तद्यथा हिरण्यसुवर्णं (क्प्सू 377) यावच्चेन्द्रनीलमहानीलज्योतीरसदकप्रसादकानि याचनकानां तावत्प्रभूतानि रत्नानि लभ्यन्ते / तदाहममात्यां पृष्टवान् / "कुत एषां रत्नानां प्रादुर्भावः?" / त आहुः / "नागराजानो निधीर्निदर्शयन्ति, निधीनां लोके प्रादुर्भावाद्रत्नानां प्रादुर्भावो भवति / न केवलं तात्तका निर्देशयन्ति यात्तका देवस्य याचनकाः" / तदाहं प्रणिधानमकरोत् / "यद्यहं पञ्चकषाये लोके वर्तमाने तीव्रक्लेशारणे कलियुगे वर्तमाने वर्षशतायुष्कायां प्रजायां अनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयं / तदियं मे आशा परिपूर्यतु, यदहमस्मिन् बुद्धक्षेत्रे निधिदर्शको नाम नागराजा भवेयं / सर्वत्र चास्मिं विजितघोषे बुद्धक्षेत्रे सर्वद्वीपेषु च एकैकस्मिन् द्वीपे सप्तजन्मानि परिगृह्णीयां / एकैकस्मिंश्च जन्मनि निधिकोटीनयुतशतसहस्राणि दर्शयेयं प्रयच्छेयं च नानारत्नपरिपूर्णानि: तद्यथा हिरण्यसुवर्णं यावदिन्द्रनीलमहानीलज्योतीरसदकप्रसादाश्च / एकैकश्च निधियोजनसहस्राणि गत्वा विस्तरेण परिपूर्णमपि रत्नं सत्त्वानां निदर्शयेयं प्रयच्छयेयं (क्प्सू 378) च, यदस्मिं बुद्धक्षेत्रे एवंरूपं शूरभावं कुर्यां / एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु पञ्चकषायेषु लोकधातुषु एकैकस्मिन् क्षेत्रे सर्वत्र द्वीपे सप्तजन्मानि प्रतिगृह्णीयां", यावद्यथा पूर्वोक्तं /

यदा च मे कुलपुत्रैवंरूपं प्रणिधानं कृतं तदा गगनतले देवकोटीनयुतशतसहस्रैरन्तरीक्षात् पुष्पवृष्टिः प्रवर्षिता साधुकारश्चानुप्रदत्तः / "साधु साधु सर्वंदद, ऋधिष्यति ते एवंरूपा आशा यथा ते प्रणिधानं कृतं" / अश्रोषीन् महाजनकायः राज्ञो ऽम्बरस्य देवैर्गगनतलगतैः सर्वंदद इति नाम कृतं, श्रुत्वा चैषमेतदभवत् / "यन्नूनं वयं दुष्करपरित्यागं दानं याचेमः / यदि परित्यक्ष्यति तदा सर्वंदद इति नाम भविष्यति" / ततस्ते सर्वा आरब्धा राज्ञो ऽम्बरस्यान्तःपुरिकां याचितुं, देवीमग्रमहिषीं पुत्रदुहितॄणां याचितुं; तदा राजाम्बरः प्रयच्छति प्रसन्नचित्तस्तेषां एतदभवत् / "न चेदं दुष्करं यो भार्यां परित्यजति / यन्नूनं वयं राज्ञो ऽम्बरस्याङ्गप्रत्यङ्गानि याचमः / तद्यदि दास्यति सर्वंददो भविष्यति, (क्प्सू 379) अथ न दास्यति न सर्वंददो भविष्यति" /

ततस्तस्याग्रतः तत्र ज्योतीरसो नाम माणवको राज्ञो ऽम्बरस्याग्रतः स्थित्वा, "सर्वंदद राज्यं ददस्वे"ति प्रार्थितवान् / श्रुत्वा च राज्ञाम्बरेण परमप्रीतिमनसा स्वयमेव ब्राह्मणं स्नापयित्वा पट्टं बध्वा राजाभिषेकेनाभिषिच्य राजत्वे प्रतिष्ठापयित्वा सर्वं जम्बूद्वीपं निर्यातयित्वा, प्रणिधानमकरोद् / "अहं सर्वजम्बूद्वीपपरित्यागेनानुत्तरां सम्यक्संबोधिमभिसंबुध्येयं / यदीयं मे आशा परिपूर्यति, यो ऽयं ममैतर्हि सर्वजम्बूद्वीपे राजा प्रतिष्ठापितो वर्तत्वस्य जम्बूद्वीपे आज्ञा, दीर्घायुष्च भवतु, राजा चक्रवर्ती चिरस्थायी / यदा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, यदा युवराजत्वेन व्याकुर्यामनुत्तरायां सम्यक्संबोधौ" / रोचो नाम ब्राह्मणस्तेन मे उभौ पादौ याचितौ, तस्य मया स्वयमेव प्रसन्नचित्तेन तीक्ष्णं शस्त्रं गृहीत्वा स्वपादौ छित्वा प्रदत्तौ, प्रणिधानं चाकरोत् / "लभेयाहमनुत्तरां शीलपादां" / (क्प्सू 380) तत्र द्राष्टावो नाम ब्राह्मणस्तेन मे उभे नेत्रे याचिते, तस्य च मया उभे नेत्रे उत्पाद्य दत्ते, पेयालं, अनुत्तरं पञ्चचक्षुः प्रतिलभाय प्रणिधानं कृतवान् / न चिरेण सरच्छिघोषो नाम ब्राह्मणस्तेन मे उभौ कर्णौ याचितौ, स्वयमेव तस्य मया कर्णौ छित्वा दत्तौ, अनुत्तरश्रोताप्रतिलाभाय च प्रणिधानं कृतं / संजीवनश्च नामाजीविको ऽभूत्, तेन मे पुरुषनिमित्तं पुरुषेन्द्रियं याचितं, स्वयमेव च मया छित्वा दत्तः, अनुत्तरवस्तिगुह्यतालक्षणप्रतिलाभाय च प्रणिधानं कृतं / अपरेण च मे मांसरुधिरं याचितं, स्वयमेव च मया दत्तं, सुवर्णवर्णतालक्षणप्रतिलाभाय च मे प्रणिधानं कृतं / अपरश्च क्षीरसो नाम परिव्राजकस्तेन च मे उभौ हस्तौ याचितौ, स्वयमेव च मया दक्षिणेन हस्तेन वामं हस्तं छित्वा दक्षिणं छेदापयित्वा दत्तो, अनुत्तरश्रद्धाहस्तप्रतिलाभाय च प्रणिधानं कृतं / यदा चाङ्गप्रत्यङ्गानि छिन्नानि तदा च मया रुधिरम्रक्षितेन कायेन प्रणिधानं कृतं / "यदि (क्प्सू 381) मे ऽनेन परित्यागेनानुत्तरायां सम्यक्संबोधौ आशा परिपूर्येत, अवश्यमहमस्य कायस्य प्रतिग्राहकं प्रतिलभेयं" /

ते ऽप्यकृपका अनार्या अकृतज्ञाः सत्त्वाः कोट्टराजानो ऽमात्याश्चाहुः / "अयं दुर्बुद्धिरल्पमेधाः सर्वाङ्गविकर्तितः सर्वराज्यैश्वर्यपरिभ्रष्टः / किं भूयो ऽनेन मान्सपेशिना प्रयोजनं?" / ते मां गृहीत्वा बहिर्नगरश्मशानभूमौ छोरित्वा प्रकान्ताः / तत्र दंशमशका आगत्वा रुधिरं पिबन्ति, कुर्कुरशृगालगृध्रा आगत्वा मान्सं भक्षयन्ति / तत्र चाहं प्रसन्नचित्तः प्रणिधानमकरोत् / "यदा च मया सर्वराज्यैश्वर्यं परित्यक्तं, सर्वशरीरं चैवाङ्गप्रत्यङ्गानि परित्यजता, एकक्षणमपि न विप्रतिसारिकृतं चित्तं, न च मे रोष उत्पादितस्तेन मे आशा परिपूर्यतु, अयं मे कायो मान्सपर्वतः संतिष्ठतां, ये केचित् सत्त्वा मान्साहारा रुधिरपानास्ते मांसं भक्षयन्तु रुधिरं पिबेयन्तु / यावच्च (क्प्सू 382) मे सत्त्वा मांसं भक्षयेयू रुधिरं च पिबेयुस्तावन् मे प्रणिधानवशेन शरीरं वर्धतु, अनुपूर्वेण यावद्योजनशतसहस्रमुच्चत्वेन कायः संवर्धतु पञ्चयोजनसहस्रं विस्तारेण / तत्र मया वर्षसहस्रं स्वमान्सरुधिरेण सत्त्वाः संतर्पिता; यावभ्यश्च मया जिह्वाः परित्यक्ता या मृगपक्षिभिः परिभक्ताः प्रणिधानवशेन चान्योन्याः प्रादुर्भूताः तेषां अयं गृध्रकूटपर्वतप्रमाणो राशिः स्यान्नित्यं चानुत्तराप्रभूताजिह्वतालक्षणप्रतिलाभाय मे प्रणिधानं कृतं /

तत्राहं च्युत्वा रूढवडे जम्बूद्वीपे पूर्वप्रणिधानेन नागेषूपपन्नो निधिसंदर्शनो नाम नागराजा बभूव / यामेव रात्रिं नागेषूपपन्नस्तामेव रात्रिं निधिकोटीनयुतशतसहस्राणि निधानानां संदर्शितानि स्वयमेव घोषं चारयामि / "भोः सत्त्वा अस्मिन् प्रदेशे निधिः प्रादुर्भूतः, नानारत्नपरिपूर्णस्तद्यथा हिरण्यसुवर्णः यावद्दकप्रसादकं / यूयं गृह्णध्वं / गृहीत्वा भोः सत्त्वा दशकुशलान् कर्मपथान् समादाय वर्तध्वं, अनुत्तरायां च सम्यक्संबोधौ चित्तमुत्पादयत, (क्प्सू 383) श्रावकयानेन वा प्रत्येकबुद्धयानेन वा चित्तमुत्पादयथ / गच्छथ गृह्णथ रत्नानि यावदर्थं" / तत्र च रूढवडे जम्बूद्वीपे सप्तनागजन्मपरिवर्तेन सप्तसप्तवर्षकोटीनयुतशतसहस्रेष्वप्रमेयासंख्येया निधयो निर्दर्शिताश्च प्रदत्ताश्च / एवं च तत्राप्रमेयासंख्येयाः सत्त्वास्त्रिभिर्यानैर्निवेशिता, दशसु कुशलेषु कर्मपथेसु निवेशिता, नानाविधैश्च रत्नैः संतर्पिता, अनुत्तरद्वात्रिंशल्लक्षणप्रतिलाभाय प्रणिधानं कृतं / एवं द्वितीये द्वीपे सप्तभिर्नागजन्मपरिवर्तैरेवंरूपं पुरुषकारं कृतवान् / एवं त्रितीये यावत्सर्वत्र विजितदोषायां लोकधातौ सर्वेषु द्वीपेषु एवंरूपः पुरुषकारः कृतः / एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेसु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु, एकैकस्मिन् द्वीपे एवंरूपाः सप्तनागजन्मपरिवर्तेषु मया यावत् सप्तसप्तवर्षकोटीनयुतशतसहस्रैरेवमप्रमेयासंख्येया निधयः सत्त्वानां प्रदत्ता, यावद्यथा पूर्वोक्तं / पश्य कुलपुत्र तथागतस्य बोधिचारिकां, यथा तथागतस्तीव्रेण बलवीर्येण द्वात्रिंशल्लक्षणपर्येषणबोधिचर्यां चीर्णवान्, यथात्र पूर्वे न (क्प्सू 384) ये बोधिसत्त्वा एवंरूपां तीव्रबलवीर्येण बोधिचारिकां चीर्णवन्तः, न कश्चिदेतर्हि, न च पुनः कश्चित् पश्चाद्भविष्यति बोधिसत्त्वो य एवं तीव्रेणोद्योगबलवेगेनानुत्तरायां सम्यक्संबोधौ चारिकां चरेत्, स्थापयित्वा तानष्टौ यथा पूर्वोक्तं /

तदा चासंख्येयानां कल्पानामत्ययेन प्रत्यवरकालसमयेनेदं बुद्धक्षेत्रं प्रवाडोदुपानिर्नाम बभूव / शून्ये पञ्चकषाये उत्पले महाकल्पे वर्तमाने ऽस्यां चातुर्द्वीपिकायामहं शक्रो ऽभूवन् सविरोचनो नाम / अपश्यमहमस्मिन् जम्बूद्वीपे सत्त्वानामकुशलपर्येष्टिचर्यां; दृष्ट्वा चाहं परमभीषणकं यक्षरूपमात्मानमभिनिर्मायास्मिं जम्बूद्वीपे ऽवतीर्य मनुष्याणां पुरतः प्रत्यस्थां / ते च मां दृष्ट्वा भीता मां पृच्छन्ति / "केन ते प्रयोजनं?, वयं ते तद्दास्यामः" / मयोक्तं / "आहारेण मे प्रयोजनं" त आहुः / "कीदृशस्त आहारः?" / मयोक्तं / "मनुष्यान् मारयित्वा भक्षयामि / तांश्चाहं न खादयामि ये मनुष्या यावज्जीवं प्राणातिपाताद्विरता, यावन् मिथ्यादृष्ट्याः प्रतिविरता, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति प्रत्येकबुद्धयानेन वा श्रावकयानेन (क्प्सू 385) वा चित्तान्युत्पादयन्ति तानप्यहं न खादयामि" / तत्र च मे सत्त्वा निर्मितकाः परिभूक्तायां दृष्ट्वा ते सत्त्वा भयेन यावज्जीवं प्राणातिपातात्प्रतिविरता अदत्तादानाद्यावन् मिथ्यादृष्टेः प्रतिविरताः / कैश्चिदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं, कैश्चित् प्रत्येकबुद्धयाने कैश्चिच्छ्रावकयाने चित्तमुत्पादितं / सर्वे चातुर्द्वीपिकाः सत्त्वा दशसु कुशलेषु कर्मपथेषु त्रिषु च यानेषु प्रतिष्ठापितास्तत्र मया प्रणिधानं कृतं / "यदि मे ऽनुत्तरायां सम्यक्संबोधौ आशा परिपूर्येत, तदिदं मे प्रणिधानपरिपूर्णं भवेत्, यथा च मे चातुर्द्वीपिकाः सत्त्वाः कुशले मार्गे नियोजिता / एवमेव सर्वत्रास्मिं बुद्धक्षेत्रे सर्वचातुर्द्वीपिकेषु सत्त्वाः एवंरूपेण भयेन मां पश्येयुः, दशसु चैव कुशलेषु कर्मपथेषु

प्रतिष्ठापयेयं, त्रिषु च यानेषु नियोजयेयं / एवमेव समन्ताद्दशसु दिक्षु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु सत्त्वां दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेयं, त्रिषु च यानेषु नियोजयेयं" / एवमेव मे कुलपुत्र आशा प्रणिधिश्च परिपूर्णः सर्वत्र प्रवाडोदुपानायां लोकधातौ मनुष्या यक्षरूपेण विनीताः कुशलेषु धर्मेषु / एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु (क्प्सू 386) शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु यक्षरूपेण मया मनुष्याः कुशलमार्गचर्यायां प्रतिष्ठापिताः / यथा च मया बहवः सत्त्वा भयात् कुशलचर्यायां प्रतिष्ठापिताः; तेन कर्मावशेषेण ममैतर्हि बोधिवृक्षमूले वज्रासने निषण्णस्य बोधिमभिसंबोधुकामस्य मारः पापीयां महासैन्येनोपसंक्रान्तो बोधौ व्याक्षेपकरणार्थं / अयं मे कुलपुत्र संक्षिप्तेन दानपारमिता; बोधिचर्यां चरमाणस्य लब्धा चाहं गंभीरां क्षान्तिं गंभीरां धारणीं गंभीरां समाधिं पञ्चलौकिकाभिज्ञाः प्रतिलब्धाः; एवंरूपं महापुरुषकारं कृतवान् / एवमप्रमेयासंख्येयाः सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः / एवमप्रमेयासंख्येयाः सत्त्वाः प्रत्येकबुद्धयाने, एवमप्रमेयासंख्येयाः सत्त्वाः श्रावकयाने समादापिता निवेशिताः प्रतिष्ठापिताः / स्थापयित्वा यावन्तो मया बोधिसत्त्वचर्यायां चरमाणेन, बुद्धक्षेत्रपरमाणुरजःसमा मे बुद्धा (क्प्सू 387) भगवन्तः पर्युपासिताः, एकैकस्य बुद्धस्यान्तिके सागरोदकबिन्दुप्रमाणा मया गुणाः परिगृहीताः, गणनातिक्रान्तानां प्रत्येकबुद्धानां मया पूज कृता, गणनातिक्रान्तानां तथागतश्रावकानां पूजा कृता, एवं मातापितॄणां पञ्चाभिज्ञानामृषीणां पूजा

कृता / मया च कृपया पूर्वं बोधिसत्त्वचर्यां चरमाणेन स्वमांसरुधिरेण सत्त्वाः संतर्पिता, इदानीमपि धर्मेण संतर्पिताः //

इति श्रीकरुणापुण्डरीके महायानसूत्रे दानपरिवर्तो नाम पञ्चमः // 5 // वि (एपिलोगुए) यथाहं कुलपुत्र बुद्धचक्षुषा पश्यामि दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमान् बुद्धान् भगवतः परिनिर्वृतान्, ये मया प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः, ये मया दानपारमितायां प्रथमं समादापिता यावत्प्रज्ञापारमितायां समादापिता निवेशिताः प्रतिष्ठापिताः / एवमेवैतर्हि पूर्वस्यां दिशि अप्रमेयासंख्येयास्ते बुद्धा भगवन्तः प्रवर्तितधार्मिकधर्मचक्राः तिष्ठन्तो यापयन्तो धर्मं देशयन्तो ऽद्रक्षं, ये मया प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादिता निवेशिताः प्रतिष्ठापिताः / एवं यावत्षट्सु पारमिताषु वक्तव्यं, एवं दक्षिणपश्चिमोत्तरहेष्टिमोपरिषु दिक्षु वक्तव्यं /

पश्याम्यहं कुलपुत्र पुरिमे दिग्भागे इतो बुद्धक्षेत्रादेकनवतिबुद्धक्षेत्रशतसहस्राण्यतिक्रम्य (क्प्सू 389) संपुष्पिते लोकधातौ विमलतेजगुणराजो नाम तथागतस्तिष्ठति ध्रियते यापयति धर्मं च देशयति / मया स भगवान् पूर्वं प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितः समादापितो निवेशितः प्रतिष्ठापितः; मया दानपारमितायां यावत्प्रज्ञापारमितायां प्रथमं समादापिताः, पेयालं / पुरिमायां दिशि अभिरत्ये बुद्धक्षेत्रे अक्षोभ्यो नाम तथागतो, जम्बूनदे बुद्धक्षेत्रे सूर्यगर्भो नाम तथागतः, रतीश्वरे बुद्धक्षेत्रे रतीश्वरघोषज्योतिर्नाम तथागतः, सूर्यप्रतिष्ठिते बुद्धक्षेत्रे ज्ञानभास्करो नाम तथागतः, जयवैश्रये बुद्धक्षेत्रे नागनिनर्दितो नाम तथागतः, संजीवने बुद्धक्षेत्रे वज्रकीर्तिर्नाम तथागतः, स्वरजे बुद्धक्षेत्रे व्याघ्ररश्मिर्नाम तथागतः, अरतीये बुद्धक्षेत्रे सूर्यगर्भो नाम तथागतः, वैरप्रभे बुद्धक्षेत्रे कीर्तिश्वरराजो नाम तथागतः, मेरुप्रभे बुद्धक्षेत्रे (क्प्सू 390) अचिन्त्यराजो नाम तथागतः, संवरे बुद्धक्षेत्रे ज्योतिश्रीर्नाम तथागतः, कुसुमप्रभे बुद्धक्षेत्रे प्रभाकेतुर्नाम तथागतः, क्षमोत्तरे बुद्धक्षेत्रे मेरुस्वरसन्दर्शनमेरुर्नाम तथागतः, धरणावत्यां बुद्धक्षेत्रे ज्ञानबिम्बो नाम तथागतः, कुसुमविचित्रे बुद्धक्षेत्रे विमलनेत्रो नाम तथागतः / एतां पूर्वंगमां कृत्वा कुलपुत्र पुरिमायां दिश्यप्रमेयासंख्येयान् बुद्धान् भगवतस्तिष्ठतो यापयतो धर्मं देशयतो बुद्धचक्षुषा पश्यामि / ये ऽनुत्पादितबोधिचित्ताः पूर्वे ऽनुत्तरायां सम्यक्संबोधौ समादापिता मया च प्रथमं दानपारमितायां यावत्प्रज्ञापारमितायां समादापिताः प्रतिष्ठापिता, मया च प्रथमं तिष्ठतां यापयतां बुद्धानां भगवतां सकाशमुपनीता यत्र तैः सर्वप्रथमं व्याकरणं प्रतिलब्धं अनुत्तरायां सम्यक्संबोधौ" //

अथ तस्यां वेलायां संपुष्पितायां लोकधातौ तस्य विमलगुणतेजराजस्य तथागतस्यासनं प्रकंपितं / ये तत्र बोधिसत्त्वास्ते तस्य विमलगुणतेजराजस्य (क्प्सू 391) तथागतस्यासनं प्रकंपितं दृष्ट्वा तमेव तथागतं पृष्टवन्तः / "को भदन्त भगवन् हेतुः कः प्रत्ययो यदि इदमदृष्टपूर्वं भगवत आसनं प्रकंपितम्[?"]इति / स तथागतस्तानवोचत् - "अस्ति कुलपुत्राः पश्चिमे दिग्भागे इतो बुद्धक्षेत्रादेकोननवतिबुद्धक्षेत्रानतिक्रम्य तत्र सहा नाम लोकधातुस्तत्र शाक्यमुनिर्नाम तथागतस्तिष्ठति ध्रियते यापयति / स एतर्हि चतुर्णां पर्षदां पूर्वयोगमारभ्य धर्मं देशयति / तेन तथागतेन पूर्वं बोधिसत्त्वभूतेनानुत्तरायां सम्यक्संबोधौ समादपिताः, येन मे प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पन्नं; तेन तथागतेनाहं प्रथमं दानपारमितायां समादापितो निवेशितः प्रतिष्ठापितो यावत्प्रज्ञापारमितायां; तेन तथागतेन पूर्वबोधिसत्त्वचर्यां चरताहं प्रथमं तिष्ठतां यापयतां बुद्धानां भगवतां सकाशमुपनीतो, यत्र मे प्रथमं व्याकरणं प्रतिलब्धमनुत्तरायां सम्यक्संबोधौ / स च मे शाक्यमुनिस्तथागतः कल्याणमित्रः सहे लोकधातौ तिष्ठति यापयति, स एवं चतुर्णां पर्षदां इमं पूर्वयोगमारभ्य धर्मं देशयति / तेन तथागताधिष्ठानेन ममासनं कंपते / को युष्माकं कुलपुत्रोत्सहते (क्प्सू 392) मद्वचनात् सहं बुद्धक्षेत्रं गन्तुं शाक्यमुनेस्तथागतस्यारोग्यकौशल्यं परिपृच्छनाय?" / ततस्ते बोधिसत्त्वा विमलगुणतेजराजानं तथागतमाहुर्[ / "]य इह भदन्त भगवन् संपुष्पिते बुद्धक्षेत्रे ऋद्धिमन्तः सर्वबोधिसत्त्वगुणपारमिताप्राप्तास्ते ऽद्य पूर्वाह्नसमये महान्तमवभासं दृष्ट्वान्यस्माद्बुद्धक्षेत्राद्विकुर्व्याभ्यागतस्तेनायं मुहूर्तं पृथिवीचालः पुष्पवृष्टिश्च" / ते च बोधिसत्त्वा आहुः / "वयमपि भदन्त भगवन् गमिष्यामस्तं सहं बुद्धक्षेत्रं तं शाक्यमुनिं वन्दनाय पर्युपसनाय तं च सर्वज्ञताकारधारणीमुखप्रवेशं धर्मपर्यायं श्रवणाय" /

ते बहुबोधिसत्त्वशतसहस्राः स्वेनर्द्ध्यनुभावेन ततो बुद्धक्षेत्रात्संप्रस्थिताः / ते नावगच्छन्ति क्व गन्तव्यं / ते ऽप्याहुः / "तामपि वयं भदन्त भगवन् दिशं न जानीमो यत्र सहा लोकधातुः शाक्यमुनेस्तथागतस्य बुद्धक्षेत्रं" / ततः स विमलगुणतेजराजस्तथागतो बाहुं प्रसार्य पञ्चभ्यो ऽङ्गुलिभ्यो विविधान्यर्चिंषि प्रमुमोच / ततस्तार्चिष एकोननवतिबुद्धक्षेत्रसहस्राण्यवभासितवान्, (क्प्सू 393) यावच्चेमं सहं बुद्धक्षेत्रमवभासितवान् / यतस्ते बोधिसत्त्वाः पश्यन्ति सर्वावदिमं सहं बुद्धक्षेत्रं स्फुटं बोधिसत्त्वैर्गगनतले च देवनागयक्षासुरैः स्फुटं / दृष्ट्वा च पुनस्ते बोधिसत्त्वास्तं विमलगुणतेजराजानं तथागतमेवमाहुः / "पश्यामो वयं भदन्त भगवन् सहं बुद्धक्षेत्रं सर्वावन्तं स्फुटं, नास्ति तत्रावकाशो ऽन्तशो दण्डनिक्षेपणमात्रमपि यन्न स्फुटं बोधिसत्त्वैः / पश्यामः शाक्यमुनिस्तथागतो ऽस्मान् निरीक्षते धर्मं च देशयति" / स च विमलगुणतेजराजस्तथागतस्तेषां बोधिसत्त्वानामेवमाह - "समन्तचक्षुः कुलपुत्राः शाक्यमुनिस्तथागतो / ये केचित् कुलपुत्राः सहे लोकधातौ सत्त्वा भूमिस्थिता वा अन्तरीक्षस्थिता वा ततश्चैकैकः सत्त्व एवं संजानाति, "मं शाक्यमुनिस्तथागतः सर्वचेतसा निरीक्षते ममैकमारभ्य धर्मं देशयति" / सर्ववर्णंश्च स कुलपुत्र शाक्यमुनिस्तथागतो धर्मं देशयति एकवर्णस्थानं / (क्प्सू 394) ये च तत्र कुलपुत्र सत्त्वा ब्राह्मभक्तास्ते शाक्यमुनिं तथागतं ब्रह्माणं समनुपश्यन्ति, महाब्रह्मपतिव्याहारेण धर्मं शृण्वन्ति; यावद् ये मारभक्तिका, ये सूर्यभक्तिका, ये चन्द्रभक्तिका, ये वैश्रवणभक्तिका, ये विरूढकभक्तिका, ये विरूपाक्षभक्तिका, ये धृतराष्ट्रभक्तिका, ये महेश्वरभक्तिकास्ते सत्त्वा महेश्वररूपवर्णसंस्थानवचनव्याहारेण शाक्यमुनिं तथागतं पश्यन्ति धर्मं च शृण्वन्ति / यावच्चतुरशीतिस्तत्र सत्त्वानां वर्णसंस्थानभक्तिरूपव्याहारसहस्राणि ते तथा चैव शाक्यमुनिं तथागतं पश्यन्ति धर्मं च शृण्वन्ति" /

तस्यां च पर्षदि रहगर्जितो नाम बोधिसत्त्वो द्वितीयश्च ज्योतिरश्मिर्नाम बोधिसत्त्वः / अथ विमलगुणतेजराजस्तथागतस्तान् बोधिसत्त्वान् आमन्त्रयति स्म / "गच्छथ यूयं कुलपुत्राः सहे लोकधातौ शाक्यमुनिं तथागतं मद्वचनादारोग्यकौशल्यं सुखस्पर्शविहारतां परिपृच्छथ" / ते बोधिसत्त्वा आहुः / "सर्वावन्तं भदन्त भगवन् सहं बुद्धक्षेत्रं सक्षितिगगनं (क्प्सू 395) बोधिसत्त्वैः स्फुटं समनुपश्यामः / न चात्रैकसत्त्वस्याप्यवकाशो ऽस्ति क्षितौ गगने वा यत्र वयं प्रतितिष्ठेमः" / स च विमलगुणतेजराजस्तथागत आह - "मा कुलपुत्रा एवं वदथ, "नास्ति सहे बुद्धक्षेत्रे ऽवकाशः" / विस्तीर्णावकाशः स शाक्यमुनिस्तथागतो ऽचिन्त्यैर्बुद्धगुणैः, पूर्वप्रणिधानेन विस्तीर्णा तथागतस्य कृपाशासनावतारप्रवेशा, त्रिशरणगमनं, त्रियानधर्मदेशनामारभ्य धर्मं देशयति, त्रिविधं च शिक्षासंवरं देशयति, त्रीणि च विमोक्षद्वाराण्युपदर्शयति, त्रिभ्यो ऽपायेभ्यः सत्त्वानुद्धरति, तिसृषु च शिवेषु पथेषु प्रतिष्ठापयति /

एकस्मिं समये कुलपुत्र शाक्यमुनिस्तथागतो ऽचिराभिसंबुद्धो वैनेयसत्त्वावेक्षया मध्ये शैलपर्वते इन्द्राक्षस्य यक्षस्य भवने सालगुहायां विहरति, सप्ताहमेकपर्यङ्केनातिनामयति, विमुक्तिप्रीतिसुखं प्रतिसंवेदयति / सर्वावती च सा सालगुहा तथागतकायेन स्फुटा, नास्ति तत्रावकाशो ऽन्तशश्चतुरङ्गुलप्रमाणं (क्प्सू 396) यत्तथागतकायेन न स्फुटं / तस्य च सप्ताहस्यात्ययेन दशभिर् दिशाभिर्द्वादशनयुता बोधिसत्त्वानां तत्र सहे लोकधातौ यस्तस्य पर्वतस्याभिमुखं स्थित्वा शाक्यमुनेस्तथागतस्य वन्दनाय पर्युपासनाय धर्मश्रवणाय / स च कुलपुत्र शाक्यमुनिस्तथागतस्तत्र पर्शदि रिध्यभिसंस्कारमभिसंस्कृतवान्; सा च सालगुहा एवं विस्तीर्णा चैवं विपुला च प्रादुर्भूता, यदा ते द्वादशनयुता बोधिसत्त्वानां तत्र सालगुहायां प्रविष्टा विस्तीर्णावकाशं पश्यन्ति स्म / एकैकश्च बोधिसत्त्वस्तत्र तथागतस्य विविधबोधिसत्त्वविकुर्वणेन पूजां कृत्वा, एकैको बोधिसत्त्वस्तत्र सप्तरत्नमयासनं निर्मितवान् यत्रोपविष्टा धर्मं शृण्वन्ति स्म / एवं विस्तीर्णावकाशः कुलपुत्र स शाक्यमुनिस्तथागतः / ते च बोधिसत्त्वास्तस्य शाक्यमुनेस्तथागतस्य सकाशाद्धर्मं श्रुत्वा शाक्यमुनेस्तथागतस्य पादौ शिरसा वन्दित्वा त्रिष्कृत्वः प्रदक्षिणीकृत्य स्वकस्वकेषु बुद्धक्षेत्रेषु संप्रस्थिताः / अचिरप्रकान्तानां च तेषां बोधिसत्त्वानां सालगुहा यथा पौर्वाणां संस्थिता /

तत्र चतुर्द्वीपिकायां कौशिको नाम शक्र आयुःपरीक्षीणस्तिर्यग्योन्युपपत्तिभयभीतः, स चतुरशीतिभिस्त्रयस्त्रिंशद्देवसहस्रैः सार्धं येन सालगुहा येन च भगवांस्तेनोपसंक्रामति / उपसंक्रम्य सामन्तके इन्द्राक्षस्य सालगुहाभवने स्थितः, तस्य भगवतो ऽनुभावेन एतदभवत् / "यन्नूनं वयं पञ्चशिखं गन्धर्वपुत्रमध्येषेमः / स च पञ्चशिखो मधुरेण स्वरेण भगवन्तमभिमुखं स्तविष्यति, तदा भगवान् ध्यानसमाधिभ्यो व्युत्थास्यति" / ततः शक्रः पञ्चशिखं गन्धर्वपुत्रमधीष्ठवान् / अथ पञ्चशिखो वीणां मनोज्ञेन गीतवादितेन भगवतो ऽनुभावेन पञ्चभिः स्तवशतैर्भगवतो वर्णमभाषत / यदा च कुलपुत्र पञ्चशिख आरब्धो भगवतो ऽभिस्तवनाय ततः स शाक्यमुनिर्भगवान् सुघोषवैरोचनकेतुं नाम समाधिं समापन्नस्तेन समाधिना ये सहे लोकधातौ महर्द्धिकयक्षराक्षसा वासुरा वा गरुडा वा किन्नरा वा महोरगा वा गन्धर्वा वा सर्वे कामावचरा देवा सर्वे रूपावचरा देवपुत्रास्तत्र सन्निपाता बभूवुर्ये च स्वरभक्तिकास्ते स्वरं श्रुत्वा प्रसीदन्ति, ये वर्णयशोभक्तिकास्ते भगवतो वर्णं (क्प्सू 398) श्रुत्वा तस्य भगवतः सकाशे तीव्रप्रेमप्रसादगुरुगौरवचित्रीकारजाताः प्रसीदन्ति, ये वेणुवाद्यभक्तिकास्ते वेणुवाद्यं श्रुत्वा प्रसीदन्ति / ततः शाक्यमुनिर्भगवांस्ततः समाधेर्व्युत्थाय सालगुहाया द्वारं दर्शापयामास / शक्रश्चोपसंक्रान्तो भगवन्तं पृष्टवान् / "भगवं कुत्रोपविशामः?" / स शाक्यमुनिस्तथागत उवाच - "निषीदध्वं यक्षा यावत्तस्थुः समागताः" /

ततः सालगुहा एवं विस्तीर्णा संस्थिता यथा द्वादशगङ्गानदीवालिकासमा यक्षास्तत्र गुहायां प्रविष्टा, निषण्णायाश्च तस्याः पर्षदः स शाक्यमुनिस्तथागतस्तथारूपां धर्मदेशनां कृतवां; यथा ये तस्मिन् पर्षदि श्रावकयानिका निषण्णास्ते श्रावकयानकथां शृण्वन्ति, नवनवतिकोट्यस्तत्र श्रोतापत्तिफलं प्राप्ताः; ये च तत्र पर्षदि अनुत्तरसम्यक्संबुद्धयानिकास्ते शुद्धां महायानकथां शृण्वन्ति; तत्र च पञ्चशिखगन्धर्वपूर्वंगमा अष्टादशनयुता अवैवर्तिकाः संस्थिता अनुत्तरायां सम्यक्संबोधौ; यैश्च तत्रानुत्पादितं त्रिषु यानेषु चित्तं, तत्र कश्चिदनुत्तरायां सम्यक्संबोधौ (क्प्सू 399) चित्तमुत्पादितं, केश्चित्तत्र प्रत्येकबुद्धयाने चित्तमुत्पादितं, कश्चिच्छ्रावकयाने चित्तमुत्पादितं; स च तत्र कौशिकः शक्रो भयात्परिमुक्तो, वर्षसहस्रं चायुर्विवृद्धं, अवैवर्तिकश्चानुत्तरायां सम्यक्संबोधौ बभूव / तदेवं विस्तीर्णावकाशः कुलपुत्र स शाक्यमुनिस्तथागतः /

एवं विस्तीर्णं चास्य तथागतस्य स्वरमण्डलं / न शक्यं केनचित्तस्य तथागतस्य स्वरमण्डलस्य पर्यन्तमुद्गृहीतुं वा गणायितुं वा / विस्तीर्णं तस्य तथागतस्योपायकौशल्यं सत्त्वपरिपाकश्च: न शक्यं तस्य तथागतस्योपायकौशल्यं पर्यन्तमुद्गृहीतुं / विस्तीर्णकायश्च कुलपुत्र तथागतो; न शाक्यं केनचित्तस्य मूर्धानमवलोकयितुं, कायस्य वा पर्यन्तमधिगन्तुं / यावन्तश्च सत्त्वा एतर्हि तत्र सहे बुद्धक्षेत्रे सन्निपतिता यदि ते सत्त्वाः शाक्यमुनेस्तथागतस्य कुक्षौ प्रविशेयुस्ते सर्वे तत्र विचरेयुस्ते च सत्त्वास्तस्य तथागतस्यैकरोममुखे प्रविशेयुः निष्क्रमेयुश्च; ते एकरोममुखात्तस्य तथागतस्य न शक्ताः पर्यन्तमुद्गृहीतुं ऊनत्वं वा पूर्णत्वं वान्तशो (क्प्सू 400) दिव्येनापि चक्षुषा / तदेवं विस्तीर्णकायः स शाक्यमुनिस्तथागतः /

पुनरपरं कुलपुत्र विस्तीर्णबुद्धक्षेत्रः स शाक्यमुनिस्तथागतो / यावन्तश्च दशसु दिक्षु गङ्गानदीवालिकसमा बुद्धक्षेत्रा एवं परिपूर्णा भवेयुः सत्त्वैस्तद्यथापि नामैतर्हि सहं बुद्धक्षेत्रं सर्वे ते सत्त्वा एतर्हि सहे बुद्धक्षेत्रे विशेयुः सर्वे ते तत्र विचरेयुः / तत्कस्माद्धेतोस्[? / ] तथैव तस्य तथागतस्य पूर्वं प्रथमचित्तोत्पादेनानुत्तरायां सम्यक्संबोधौ प्रणिधानं बभूव / तिष्ठतु कुलपुत्रैकं गङ्गानदीवालिकासमा लोकधातवः, सचेत्कुलपुत्र यावद्दशसु दिक्षु सहस्रं गङ्गानदीवालिकासमा बुद्धक्षेत्रा एवं विस्तीर्णाः तद्यथैतर्हि सहबुद्धक्षेत्रं परिपूर्णं सत्त्वैः ते सर्वे एतर्हि सहे लोकधातौ प्रविशेयुस्ते सर्वे तत्र विचरेयुरेवंरूपं तस्य तथागतस्य पूर्वं प्रथमचित्तोत्पादितानुत्तरज्ञानप्रतिलाभाय प्रणिधानं बभूव / एवं विस्तीर्णबुद्धक्षेत्रः स कुलपुत्र शाक्यमुनिस्तथागतः / एभिश्चतुर्धर्मैर्विशिष्टतरः स शाक्यमुनिस्तथागतो यथावद्गृह्णीत (क्प्सू 401) यूयं कुलपुत्रा इमां चन्द्ररोचविमलां पुष्पां, गच्छथ पश्चिमां दिशं यथा स्वयं दृष्ट्वा सहं बुद्धक्षेत्रं, मम वचनेन तं शाक्यमुनिं तथागतं आरोग्यकौशल्यं पृच्छत" /

स च विमलगुणतेजराजस्तथागतश्चन्द्ररोचविमलां पुष्पां गृहीत्वा रहराजस्य बोधिसत्त्वस्य ज्योतिरश्मेश्च बोधिसत्त्वस्य दत्वाह - "गच्छत कुलपुत्रौ ममर्द्धिबलाधानेन सहां लोकधातुं" / तत्र च विंशतिः प्राणिसहस्राण्याहुर्[ / "]वयमपि भदन्त भगवन् गच्छेमः तथागतानुभावेन सहं लोकधातुं तस्य शाक्यमुनेस्तथागतस्य दर्शनाये वन्दनाय पर्युपासनाय" / विमलगुणतेजराजस्तथागत आह - "गच्छत कुलपुत्रा यथाभिप्रायाः" / तौ च द्वौ बोधिसत्त्वौ रहराजश्च ज्योतिरश्मिश्च सार्धं विंशतिभिर्बोधिसत्त्वसहस्रैस्तस्य विमलगुणतेजराजस्य तथागतस्य रिद्धिबलेन ततः संपुष्पिताया लोकधातोः संप्रस्थिता एकचित्तक्षणेनेदं सहं बुद्धक्षेत्रमनुप्राप्ता गृध्रकूटे पर्वते प्रत्यस्थातः / ते येन भगवां शाक्यमुनिस्तथागतस्तेनाञ्जलिं प्रणम्याहुः / "अस्ति भगवन् (क्प्सू 402) पुरस्तिमे दिग्भागे एकोननवतिबुद्धक्षेत्रसहस्राण्यतिक्रम्य तत्र संपुष्पितो नाम लोकधातुः, तत्र विमलगुणतेजराजो नाम तथागतः / स च पुनस्तथागतो बोधिसत्त्वगणपरिवारस्तथागतस्य गुणवर्णकीर्तयमान एवमाह - "शाक्यमुनिर्नाम तथागतः सहे बुद्धक्षेत्रे तिष्ठति यापयति / तेन च तथागतेन पूर्वं बोधिसत्त्वभूतेन बोधिसत्त्वचारिकां चरमाणेनाहं सर्वप्रथममनुत्तरायां सम्यक्संबोधौ समादापितो निवेशितः प्रतिष्ठापितस्तस्य च वचनेन मयानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं तेन तथागतेनाहं प्रथमं दानपारमितायां निवेशितो, यावत्पूर्वोक्तं / एवमेभिश्चतुर्भिर्धर्मैर्विशिष्टतरः स शाक्यमुनिस्तथागतो / यथा तेनेमे चन्द्ररोचविमला पुष्पाः प्रेषिता आरोग्यकौशल्यं च पृच्छति" /

एवमभिरत्या बुद्धक्षेत्रादक्षोभ्यस्य तथागतस्यासनं कंपति / ये च तत्र बोधिसत्त्वाः सन्निपत्तितस्ते चापि दृष्ट्वाक्षोभ्यस्य तथागतस्यासनं कंपितं परिपृच्छन्ति स्म / पेयालं यथा पूर्वोक्तं / (क्प्सू 403) सर्वेषां एवं वक्तव्यं / तेन च समयेनाप्रमेयासंख्येयाः पुरिमायां दिशि तथागतदूता बोधिसत्त्वा इमं सहं बुद्धक्षेत्रं सहचन्द्ररोचविमलैः पुष्पैः संप्राप्ताः शाक्यमुनेस्तथागतस्य परिपृच्छनाय पूजनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च /

समनन्तरपरिवासितो भगवतः पुरिमायां दिशि बुद्धक्षेत्रनाम परिकीर्तनं बुद्धानां भगवतां, दक्षिणां दिशं पुनर्भगवानारब्धः परिकीर्तयितुं / "पश्याम्यहं कुलपुत्र दक्षिणस्यां दिशीतो बुद्धक्षेत्रादेकगङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रम्य तत्र सर्वशोकापगतो नाम लोकधातुस्तत्राशोकश्रीर्नाम तथागतस्तिष्ठति ध्रियति यापयति / मया स भगवान् सर्वप्रथमं पूर्वं बोधिसत्त्वचारिकां चरमाणेनानुत्तरायां सम्यक्संबोधौ समादापितो, यावद्यथा पूर्वोक्तं / जंबूप्रभे बुद्धक्षेत्रे धर्मेश्वरविनर्दिर्नाम तथागतः, मेरुप्रतिष्ठिते बुद्धक्षेत्रे गतीश्वरसालेन्द्रो (क्प्सू 404) नाम तथागतः, गुणेन्द्रनिर्यूहे बुद्धक्षेत्रे सिंहविजृम्भितराजा नाम तथागतः, मणिमूलव्यूहे बुद्धक्षेत्रे नारायणविजितगर्भो नाम तथागतः, मुक्ताप्रभसंचये बुद्धक्षेत्रे रत्नगुणविजृम्भितसंचयो नाम तथागतः, देवसोमे बुद्धक्षेत्रे ज्योतिगर्भो नाम तथागतः, चन्दनमूले बुद्धक्षेत्रे नक्षत्रविधानकीर्तिर्नाम तथागतः, विशिष्टगन्धे बुद्धक्षेत्रे पुण्यबलसालराजा नाम तथागतः, सुविदिते बुद्धक्षेत्रे मनोज्ञघोषस्वरविनर्दितो नाम तथागतः, दुरण्ये बुद्धक्षेत्रे सालजयबिन्दुराजा नाम तथागतः, नर्दश्चोचे बुद्धक्षेत्रे तेजेश्वरप्रभासो नाम तथागतः, अभिगर्जिते बुद्धक्षेत्रे सुमनोज्ञस्वरनिर्घोषे नाम तथागतः, रत्नविसभे बुद्धक्षेत्रे रत्नतलनागेन्द्रो नाम तथागतः, पलामरत्नवृक्षरत्ने (क्प्सू 405) बुद्धक्षेत्रे धर्ममेघनिर्घोषेश्वरसौम्यो नाम तथागतः, पेयालं यथा पूर्वोक्तं / एवमप्रमेयासंख्येयानां बुद्धानां भगवतां दक्षिणस्यां दिश्यासनानि कंपन्ति / सर्वे ते बुद्धा भगन्तः शाक्यमुनेस्तथागतस्य वर्णं यशः कीर्तिमुदीरयन्ति / यावत्तेन समयेनाप्रमेयासंख्येया दक्षिणस्यां दिशि तथागतदूता बोधिसत्त्वाः सहचन्द्ररोचविमलैः पुष्पैरिमं सहं बुद्धक्षेत्रमनुप्राप्ताः शाक्यमुनेस्तथागतस्य पृच्छनाय यावद्धर्मश्रवणाय" /

पुनश्च भगवान् आह - "पश्याम्यहं कुलपुत्र पश्चिमायां दिशीतो बुद्धक्षेत्रात् सप्तानवतिबुद्धक्षेत्रनयुतशतसहस्राण्यतिक्रम्य तत्रोपशान्तमतिर्नाम बुद्धक्षेत्रस्तत्र रत्नगिरिर्नाम तथागतः तिष्ठति ध्रियति यापयति धर्मं च देशयति / मया स भगवान् पूर्वं बोधिसत्त्वभूतेन बोधिसत्त्वचर्यां चरमाणेन सर्वप्रथममनुत्तरायां सम्यक्संबोधौ समादापितो, (क्प्सू 406) यावद्यथा पूर्वोक्तं / बुद्धक्षेत्राणां पेयालं, वररश्मिकोशो नाम तथागतः, स्वरज्ञकोशो नाम तथागतः, हरितालकीर्तिः, समन्तगर्भः, ब्रह्मकुसुमः, करधरविक्रमः, धर्मवेशप्रदीपः, असमन्तरमेरुस्वरविघुष्टराजः, ब्रह्मेन्द्रघोषः, यथा पूर्वोक्तं / एवमप्रमेयासंख्येयानां पश्चिमायां बुद्धानां भगवतां येषां शाक्यमुनिना तथागतेन नामानि परिकीर्तितानि तेषामासनानि कंपन्ति / यावत्तेन समयेनाप्रमेयासंख्येयाः पश्चिमायां दिशि बुद्धदूता बोधिसत्त्वाः सहचन्द्ररोचविमलैः पुष्पैरिमं सहं बुद्धक्षेत्रमनुप्राप्ता यावन्निषण्णा धर्मश्रवणाय / पेयालं, एवमुत्तरा दिग्वक्तव्या, एवमुपरिमायामेवमधः, एवं पूर्वदक्षिणा, एवं दक्षिणपश्चिमा, एवं पश्चिमोत्तरा, एवमुत्तरपूर्वा" /

पुनः शाक्यमुनिर्भगवानाह - "पश्याम्यहं कुलपुत्रोत्तरपूर्वायां दिशीतो बुद्धक्षेत्रादष्टानवतिबुद्धक्षेत्रकोटीनयुतशतसहस्राण्यतिक्रम्य (क्प्सू 407) तत्र विजयं नाम बुद्धक्षेत्रं, विगतसंतापोभववैश्रवणसालराजो नाम तथागतः / मया स तथागतः पूर्वं बोधिसत्त्वभूतेन बोधिसत्त्वचर्यां चरमाणेन सर्वप्रथममनुत्तरायां सम्यक्संबोधौ समादापितो, यावत्षट्सु पारमितासु; यावन्मया सर्वप्रथमं तिष्ठतां यापयतां बुद्धानां भगवतां सकाशमुपनीतो, यत्र तेन व्याकरणं प्रतिलब्धमनुत्तरायां सम्यक्संबोधौ; यदा नाम परिकीर्तितं तदासनं कंपितां; यावच्चतुरशीतिसत्त्वानां वर्णभक्तिसंस्थानरूपव्याहारसहस्राणि तथा शाक्यमुनिं तथागतं पश्यन्ति धर्मं च शृण्वन्ति /

तत्र च पर्षदि द्वौ बोधिसत्त्वौ, एकः विगोपशिखरो नाम द्वितीयः संरोचनबुद्धो नाम; स च विगतसंतापोद्भववैश्रवणसालराजो नाम तथागतस्तौ द्वौ बोधिसत्त्ववामन्त्रयित्वैवमाह - "गच्छत यूयं कुलपुत्रौ सहे बुद्धक्षेत्रे, मद्वचनाच्छाक्यमुनेस्तथागतस्यारोग्यकशल्यं (क्प्सू 408) सुखस्पर्शविहारतां परिपृच्छत" / तावाहतुः / "सर्वावन्तं भदन्त भगवन्नावां सहं बुद्धक्षेत्रं सक्षितिगगनं समनुपश्यामः / न च तत्रैकसत्त्वस्याप्यवकाशो ऽस्ति क्षितौ वा गगने वा यत्रावां प्रतिष्ठेवहि" / स च तथागत आह - "मा कुलपुत्रैवं वदत, "नास्ति सहे बुद्धक्षेत्रे ऽवकाशः" / तत्कस्माद्धेतोर्[? / ]विस्तीर्णावकाशः कुलपुत्रौ स शाक्यमुनिस्तथागतो ऽचिन्त्यैर्बुद्धगुणैः, पूर्वप्रणिधानेन विस्तीर्णा तस्य तथागतस्य कृपाशासनावतारप्रवेशा, त्रिशरणगमनं, त्रिभिर्यानैर्धर्मं देशयति, त्रिविधं शिक्षासंवरं देशयति, त्रीणि विमोक्षद्वाराणि प्रकाशयति, त्रिभ्यश्चापायेभ्यः सत्त्वानुद्धरति, त्रिषु च शिवपथेषु सत्त्वान् प्रतिष्ठापयति /

एकस्मिन् समये कुलपुत्र स शाक्यमुनिस्तथागतो ऽचिराभिसंबुद्धो वैनेयसत्त्वावेक्षया विषमशैलेन्द्रपर्वतमध्ये इन्द्राक्षस्य यक्षस्य भवने सालगुहायां विहरति स्म, सप्ताहमेकपर्यङ्केनातिनामयति स्म, विमुक्तिप्रीतिसुखसंवेदी / सर्वावती च सा सालगुहा (क्प्सू 409) स्फुटा तथागतकायेन, नास्ति तत्रावकाशो ऽन्तशश्चतुरङ्गुलप्रमाणं यन्न तथागतकायेन स्फुटं / तस्य च सप्ताहस्यात्ययेन दशभ्यो दिग्भ्यः द्वादशनयुता बोधिसत्त्वानां महासत्त्वानां सहे लोकधातौ संप्राप्तास्तस्य शाक्यमुनेस्तथागतस्य वन्दनाय / यावदिमैश्चतुर्भिर्धर्मैर्विशिष्टतरः स शाक्यमुनिस्तथागतो यथान्ये तथागता /

गृह्णीध्वं यूयं कुलपुत्रा इमां चन्द्ररोचविमलां पुष्पां; गृहीत्वा गच्छत दक्षिणपश्चिमां दिशं, यथा स्वयं दृष्ट्वा तं सहं बुद्धक्षेत्रं; मम वचनात्तस्य शाक्यमुनेस्तथागतस्यारोग्यकौशल्यं पृच्छत" / स च विगतसंतापोद्भववैश्रवणसालराजस्तथागतः चन्द्ररोचविमलान् पुष्पां गृहीत्वा विगोपशिखरस्य बोधिसत्त्वस्य ददाति संरोचनबुद्धस्य च बोधिसत्त्वस्य महासत्त्वस्य, एवं चाह - "गच्छत कुलपुत्रौ ममर्द्धिबलाधानेन सहं बुद्धक्षेत्रं" / तत्र विंशतिप्राणसहस्राण्याहुः / (क्प्सू 410) "वयमपि भगवन् गमिष्यामस्तथागतस्यानुभावेन सहं बुद्धक्षेत्रं शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय" / तथागत आह - "गच्छत कुलपुत्रा यथाभिप्रायाः" / ततस्तौ द्वौ बोधिसत्त्वौ सार्धं विंशतिभिर्बोधिसत्त्वसहस्रैस्तस्य तथागतस्य रिद्ध्यनुभावेन ततो विरजाद्बुद्धक्षेत्रात्संप्रस्थिताः, एकक्षणेनेह बुद्धक्षेत्रे ऽनुप्राप्ता गृध्रकूटे पर्वते प्रत्यस्थुः / एकान्तस्थिताश्च येन शाक्यमुनिस्तथागतस्तेनाञ्जलिं प्रणम्याहुः / "अस्ति भदन्त भगवन्नुत्तरपूर्वायां दिशि, यथा पूर्वोक्तं / तेन तथागतेनेमे चन्द्ररोचविमलाः पुष्पाः प्रेषिता, भगवतश्चारोग्यकौशल्यं पृच्छति" / एवं मारभवनविध्वंसनस्य तथागतस्यासनं कंपितं / ये च तत्र बोधिसत्त्वाः सन्निपतितास्ते चापि दृष्ट्वा तं मारभवनविध्वंसनं तथागतस्यासनं कंपितं तथागतं परिपृच्छन्ति, यावद्यथा पूर्वोक्तं / एवं सालेन्द्रराजा विक्रमरश्मिः पद्मोत्तरः (क्प्सू 411) चन्दनो मेरुराजः सागरः सारज्योतिर्ज्ञानविक्रमस्तथागतः / यावत्तेन च समयेनाप्रमेयासंख्येया उत्तरपुरिमायां दिशि तथागतास्ते बोधिसत्त्वाः सहचन्द्ररोचविमलपुष्पैरिह सहे बुद्धक्षेत्रे संप्राप्ताः शाक्यमुनेस्तथागतस्य पृच्छनाय पूजनाय वन्दनाय धर्मश्रवणाय //

तावदेव शाक्यमुनिस्तथागत ऋद्ध्यनुभावेन सर्वेषां सत्त्वानां ये सहे बुद्धक्षेत्रे सन्निपतितास्तेषां एकैकस्य सत्त्वस्य योजनप्रमाणमात्रमात्मभावः संस्थितः; सर्वावन्तं च सहं बुद्धक्षेत्रं एवंरूपैः सत्त्वैः स्फुटं, न कश्चिद्बुद्धक्षेत्रे क्षितौ वा गगने वावकाशो यः सत्त्वैरस्फुटो ऽन्तशो ऽञ्जनशलाकाप्रदेशमात्रमपि यः सत्त्वेभ्यो न स्फुटो ऽभूत् / सर्वे च ते सत्त्वाः शून्यमाकाशं पश्यन्ति, न च परस्परं पश्यन्ति; न चैषां पर्वतसुमेरुचक्रवाडमहाचक्रवाडपर्वताश्चक्षुष आभासमागच्छन्ति, न लोकान्तरिका (क्प्सू 412) दिव्या विमाना ऊर्द्धं यावदधो काञ्चनचक्रं ततोर्द्धं पृथिवी चक्षुषो नाभासमागच्छन्ति, स्थापयित्वा तथागतं शाक्यमुनिं / ते तथागतं पश्यन्ति / तत्र च भगवान् आकाशस्फुरणं धर्मावच्छेदप्रश्रब्धिसमाधिं समापन्नो / यतस्ते चन्द्ररोचविमलाः पुष्पाः सर्वरोममुखेसु भगवतः प्रविशन्ति / सर्वे च ते सत्त्वाः पश्यन्ति सहे लोकधातावन्तर्गता विगताः सर्वसत्त्वानां चित्तचैतसिकेषु मनसिकाररूपसंदर्शनताः, ते चैव भगवतो रोममुखे निरीक्षन्ते स्म / तत्र चोद्यानमद्राक्षुः, नानारत्नवृक्षं नानापत्रं नानापुष्पं नानाफलाकीर्णां नानावस्त्रं नानाच्छत्रध्वजपताकाकेयूरमुक्तिकाहारालङ्कृतांस्तां वृक्षां पश्यन्ति, तद्यथापि नाम सुखावत्यां लोकधातावुद्यानां / सर्वेषां च तेषां सत्त्वानामेतदभवत् / "गच्छामो वयमेतदुद्यानं दर्शनाय" /

सर्वे च ते सत्त्वा ये (क्प्सू 413) सहे लोकधातावन्तर्गताः, स्थापयित्वा नैरयिकां यामलौकिकां तैर्यग्योनिकां आरूप्यावचरां, सर्वे परिशिष्टाः सत्त्वास्तस्य तथागतस्य रोममुखेभ्यस्तथागतशरीरे प्रविष्टाः / अथ भगवांस्तामृद्धिं प्रतिप्रस्रम्भयित्वा व्युत्थितः / ततस्ते सत्त्वा अन्योन्यं दृष्ट्वाहुः / "कुत्र शाक्यमुनिस्तथागतः? / मैत्रेयो बोधिसत्त्व आह - "संप्रजानं ततः सत्त्वाः समन्वाहरत सर्वे वयं तथागतस्य कुक्षौ सन्निपतिताः" / ततस्ते सत्त्वाः सान्तरबाहिरं तथागतकायं दृष्ट्वा स्वयं प्रत्यक्षीभूता "यथा वयं तथागतस्य कुक्षावन्तर्गताः सन्निपतिताश्च", तेषामेतदभवत् / "कुतो वयं तथागतस्य कुक्षौ प्रविष्टाः, केनास्मिन् प्रवेशिताः?" / ततो मैत्रेयः सर्वावती पर्षदं स्वरेण विज्ञपयन्नुवाच - "शृण्वन्तु भवन्तस्तथागतस्यैवमृद्धिविकुर्वणप्रातिहार्यं यदस्माकं हितकरः शास्ता धर्मं देशयति तद्युष्माभिः सर्वचेतसा समन्वाहर्तव्याः" / ततः सर्वावती पर्षत्प्राञ्जलीभूताः /

(क्प्सू 4144) भगवांश्च सर्वसुखचर्याधर्मं देशयति स्म / तत्र कतरा सर्वसुखचर्या? / यदुत संसारपङ्कादुत्तारणं आर्याष्टाङ्गमार्गे ऽवतारणं सर्वज्ञता स्वयंभूज्ञानपरिपूर्णता / तत्र दशप्रकारा ध्याननिवेशचित्तोत्पादपरिणामनता, यदुत सर्वसत्त्वेभ्यो महाकरुणाचित्ताधिष्ठानं, हितवस्तुसंजननता, अतीर्णसत्त्वोत्तारणतया महानावसमुदाननता, अमुक्तमोचनतासन्नाहं असन्तविपर्यासपरिमोचनतया, महासिंहनादानुत्रासनसन्नाह नैरात्म्यधर्मप्रत्यवेक्षणतया, सर्वलोकधातुगमनसन्नाह मायास्वप्नप्रतिभासोपमसर्वधर्मावबुध्यनतया, सर्वलोकधात्ववभासनालङ्करणसन्नाहः शीलस्कन्धाधिष्ठानपरिशुद्ध्या, दशतथागतबलपरिनिष्पादनसन्नाहः सर्वपारमितापरिपूर्या, चतुर्वैशारद्यप्रतिलाभसन्नाहं यथावादितथाकारितया, यावदष्टादशावेणिकबुद्धधर्मनिरवशेषप्रतिलाभसन्नाहं, बोधिसत्त्वानां यथाश्रुतधर्मप्रतिपत्तिरप्रपञ्चनता चेयं दशप्रकारा निवेशधर्ममुखचर्या / अलक्षणामुखपरिज्ञागतिचर्याया सर्वधर्मनैरात्म्यमनसिकारचित्तानुत्पादानिरोधासमयम् (क्प्सू 415) अवैवर्तिकभूमिर्यत्र संवर्तविवर्तानुच्छेदमशाश्वतमविक्षिप्तं / इमस्य खलु पुनर्धर्मपर्यायस्य भाष्यमाणस्याशीतिकोटीगङ्गानदीवालिकासमाः सत्त्वास्तथागतस्य कुक्षिगता अवैवर्तिका अभूवन्ननुत्तरायां सम्यक्संबोधौ; गणनातिक्रान्ताश्च तत्र बोधिसत्त्वा महासत्त्वा ये नानाविधधारणीक्षान्तिप्रतिलब्धा अभून् / सर्वे च पुनस्तथागतशरीराद्रोममुखेभ्यो निष्क्रान्ता आश्चर्यप्राप्ता, भगवतः पादौ शिरसा वन्दित्वा, दशदिशः प्रकान्ताः, स्वकस्वकेषु बुद्धक्षेत्रेषु गतास्तथागतस्य स्वरमण्डलकायप्रमाणज्ञपनार्थं /

तत्र ये बोधिसत्त्वाः पुरिमां दिशं गच्छन्ति अप्रमेयासंख्येयाः, पुरिमायां दिशि यद्बुद्धक्षेत्रानतिक्रामन्ति न च शाक्यमुनेस्तथागतस्य स्वरमण्डलं प्रतिहन्यते, एवं च तत्र स्वरं शृण्वन्ति विचित्रपदार्थव्यञ्जनाः, तद्यथा शाक्यमुनेस्तथागतस्य पुरतो निषण्णैर्धर्मः श्रुतः, एवमेवास्य धर्मं शृण्वन्ति / (क्प्सू 416) अपि च तत्रापि शाक्यमुनेस्तथागतस्य कायस्योनत्वं वा पूर्णत्वं वा न प्रज्ञायते, शाक्यमुनेस्तथागतस्य कायः स्फुटो दृश्यते बोधिसत्त्वैः श्रावकैश्चाप्रमेयासंख्येया बोधिसत्त्वाः श्रावकाश्चैकरोममुखे शाक्यमुनेस्तथागतस्य प्रविशन्तो निष्क्रामन्तश्च संदृश्यन्ते / एवं द्वितीये रोममुखे, यावत्सर्वरोममुखेभ्यः प्रविशन्तो निष्क्रामन्तश्च संदृश्यन्ते, यावच्चैवं दशसु दिक्षु वक्तव्यं /

सर्वावती च सा पर्षा यावद्भगवतः कायान्तर्गताः सा भगवतः कायरोममुखेभ्यो निष्क्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिष्प्रदक्षिणी कृत्वा भगवतो ऽभिमुखं प्रत्यवस्थाद्भगवन्तमेव विचित्रार्थपदव्यञ्जनरुतव्याहारैः स्तवमानाः / अथ तावच्चैव कामावचरा रूपावचराश्च देवपुत्रा विचित्रां च गन्धमाल्यविलेपनवृष्टिं प्रवर्षिता, दिव्यानि च तूर्याणि प्रवादितवन्तो, दिव्यानि च छत्रध्वजपताकावस्त्रदुष्याभरणानि भगवतः पूजायोद्युक्ताः //

तत्र वैशारद्यसमुद्धारणिर्नाम बोधिसत्त्वो येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - (क्प्सू 417) "किं नामायं भदन्त भगवन् महाव्याकरणं सूत्रान्तः?" / भगवान् आह - "सर्वज्ञताकारधारणीमुखप्रवेशो नाम, बहुबुद्धकं नाम, बहुसन्निपातं नाम, बोधिसत्त्वव्याकरणं नाम, वैशारद्यमार्गोत्तारणं नाम, समाधानकल्पावतरणो नाम, बुद्धक्षेत्रसन्दर्शनो नाम, सागरोपमो नाम, गणनातिक्रान्तो नाम, करुणापूण्डरीको नाम" /

पुनरप्याह - "कियन्तं भदन्त भगवन् कुलपुत्रो वा कुलदुहिता वा पुण्यस्कन्धं प्रसविष्यति, य इमं धर्मपर्यायं श्रोष्यति उद्गृहीष्यति धारयिष्यति वाचयिष्यति परेषां च विस्तरेण संप्रकाशयिष्यति लिखिष्यति लिखापयिष्यति अन्तश एकगाथामपि?" / आह - "पूर्वं च मयोक्तमिह पुण्यस्कन्धं; संक्षेपेणेदानीं कथयिस्यामि / यः कश्चिदिमं धर्मपर्यायं श्रोष्यति उद्गृहीष्यति धारयिष्यति वाचयिष्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति अन्तश एकगाथामपि, यश्च पुनः पश्चिमायां पञ्चाशत्यामन्तशो लिखित्वा धारयिष्यति, स बहुतरं पुण्यस्कन्धं प्रसविष्यति, न त्वेवं षोडशमहाकल्पान् षट्पारमिताचरमाणस्य बोधिसत्त्वस्य पुण्यस्कन्धः / (क्प्सू 418) तत्कस्माद्धेतोः? / सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रवणब्राह्मणिकायाः प्रजायाः सयक्षनागगन्धर्वकुम्भाण्डप्रेतपिशाचकिन्नरासुराणां दुष्टचित्तानां प्रसादनः, सर्वरोगाणां प्रशमनः, सर्वकलिकलहविग्रहविवादव्युपशमनः, सर्ववाताकालमरणरोगप्रशमनः, सर्वदुर्भिक्षप्रशमनकरः, क्षेमकरणीयः, सुभिक्षकरः, आरोग्यसामग्रीकरः, भीतानामभयसुखकरः, क्लेशव्युपशमनकरः, कुशलमूलविवृद्धिकरः, अपायदुःखप्रमोचनकरस्त्रिभिर्यानैर्मार्गसन्दर्शनकरः, समाधिधारणीक्षान्तिप्रतिलाभकरः, सर्वसत्त्वानामुपजीवकरो, वज्रासननिषीदनकरः, चतुर्मारधर्षणकरो, बोधिपक्षाभिसंबुध्यनकरो, धर्मचक्रप्रवर्तनकरः, आर्यसप्तधनविरहितानां सत्त्वानां बोधिपक्षसमृद्धिकरः, बहुपरिवारः; अभयपुरनगरप्रवेशकरणार्थं मया धर्मपर्यायो भाषितः" /

"कस्य हस्ते इमं धर्मपर्यायं परिन्दामि? / को ममेमं धर्मपर्यायं पश्चिमायां पञ्चाशत्यां रक्षिष्यति, अधर्मभूमिष्ठानां सत्त्वानां भिन्नशीलानां च भिक्षूणां (क्प्सू 419) कर्णपुटे प्रकाशयिष्यति, अधर्मरागरक्तानां विषमलोभाभिभूतानां मिथ्याधर्मपरिचितानां अपरिपक्वचित्तां संवेजयिष्यति?" / सर्वावती च सा पर्षा भगवतश्चेतसा चित्तमाज्ञाय; तत्र पर्षदि मेरुपुण्यो नाम यक्षरिषिर्निषण्णः / अथ मैत्रेयो बोधिसत्त्वो महासत्त्वस्तं मेरुपुण्यं यक्षरिषिं गृहीत्वा भगवतः सकाशमुपनीतवान् / भगवान् आह - "उद्गृह्ण त्वं महर्ष इमं धर्मपर्यायं, यावत्पश्चिमायां पञ्चाशत्यां देशान्तरगतानामवैवर्तिकानां बोधिसत्त्वानां कर्णपुटेषु प्रकाशस्व / अद्य चावैवर्तिकचित्तं संजनयस्वा "है"वं भदन्त भगवंश्चतुरशीतिमहाकल्पा अतिक्रामन्ता यन्मया भदन्त भगवन् पूर्वं प्रणिधानेन यक्षरिषित्वालब्ध्यानुत्तरायां सम्यक्संबोधौ बोधिचारिकां चरमाणो गणनातिक्रान्ताः सत्त्वा मया चतुर्षु ब्राह्मविहारेषु प्रतिष्ठापिताः, अवैवर्तिकभूमौ च प्रतिष्ठापिताः / (क्प्सू 420) अहं च सत्त्वानां स्वयमेव परिपाचयामि यावत्पश्चिमायां पञ्चाशत्यां य इमं धर्मपर्यायं उद्गृहीष्यति, यावद्य इतश्चतुष्पदिकामपि गाथां धारयिष्यति" //

इदमवोचद्भगवान् आत्तमनाः सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति //

इति श्रीकरुणापुण्डरीकं नाम महायानसूत्रं समाप्तं //

शुभम् अस्तु //

ये धर्मा हेतुप्रभवा हेतु तेषां तथागतः / हेवदत्तेषां च यो निरोध एवं वादि महाश्रमणं //

शुभमस्तु सर्वदात् // शुभं // शुभं // शुभं //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.