Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
वज्रच्छेदिकाटीका
- Tác giả
- कमलशील
- Thông tin
- GRETIL — Pema Tendzin: Prajñāpāramitāvajracchedikāsūtram, with Prajñāpāramitāvajracchedikāṭīkā of Acārya Kamalaśīla. Sarnath 1994 (Bibliotheca Indo-Tibetica, 29).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
कमलशील: वज्रच्छेदिकाटीका
आचार्यकमलशीलविरचितया
आर्यप्रज्ञापारमिताया वज्रच्छेदिकाया विस्तृतटीकया सहितम्
नमो मञ्चुश्रिये कुमारभूताय
मङ्गलाचरणम्
कायः प्रसिद्धः परिदृश्यमानो जनेषु सर्वेषु स्फुटं तथापि । स्वभावतो वस्तुतया न प्राप्तो निदर्शितः सो ऽपि च प्राप्तिहेतुः ॥
फलस्य श्रेष्ठस्य च नित्यभूतपरमस्य चाग्र्यस्य जिनैः समस्तैः । अतश्य त्रैयध्विकसर्वबुद्धप्रसूं नमस्याम्यनिशं हृदा ताम् ॥ 1 ॥
अल्पीयसाभ्यासबलेन यस्याः, महान्ति पुण्यानि हि सञ्चिनोति । उत्खातमूलानि च पापकानि, सर्वाणि चापादयति क्षणेन ॥
अतश्च तस्याश्चिरभावनार्थं, मार्गं प्रवक्ष्ये स्वबलानुरूपम् । गुरूपदिष्टं सुपरीक्षितं च मतिं स्वकीयामनुवर्तयित्वा ॥ 2 ॥
तत्रादौ सूत्रं व्याचिख्यासुः साध्यवसाय (विषय-) ग्रहणादौ श्रोतॄणामवतारणार्थं प्रयोजनमाह । न हि प्रयोजनमन्तरेण प्रेक्षावान् क्वचित् प्रवर्तते । तदनन्तरं प्रयोजनोपायमुपदर्शयितुमभिधेयस्तावद् वक्ष्यते, (यतो हि) अभिधेयरहितं सूत्रं दशदाडिमानीत्यादिवाक्यवन्नेष्टप्रयोजनं साधयति । ततः सौकर्येण तदभिधेयग्रहणार्थं पिण्डार्थो वक्ष्यते ।
तदनन्तरं समासार्थप्रतिपत्तये पदार्थो ऽभिधास्यते । ततः क्रमस्याविरोधं निदर्शयितुं पदानामनुसन्धिर्दर्शयिष्यते । तदनन्तरं पूर्वापरयुक्तिविरोधापनोदनाय चोदकं प्रति समाधानं वक्ष्यत इत्येव न्यायः । तत्र वज्रच्छेदिका इति सूत्रस्य नामधेयम् । अनेनैव तावद् अभिधेयः प्रयोजनं चाभिधीयेते ।
अत्र द्विधा वज्रच्छेदिका । सूक्ष्मक्लेशज्ञेयावरणानि वज्रवद्दुर्भेद्यानि, तेषां छेदनात् । एतेनास्य (ग्रन्थस्य) आवरणद्वयप्रहाणं तावत् प्रयोजनं निर्दिष्टम् । अथवा छेदनं हि वज्राकारसादृश्येन वज्रवदिति । वज्रस्य हि उभे शिखरे स्थूले मध्यं च सूक्ष्मम् । तथैवेयं प्रज्ञामिताप्यादावधिमुक्तिचर्याभूमिम् अन्ते च बुद्धभूमिं विस्तरेण निर्दिशति । सूक्ष्मेण तावन्मध्यभागेन शूद्धाध्याशयभूमिं निर्दिशति । अत एवेयं वज्राकारवदिति । एतेन भूमित्रितयमस्याः (वज्रच्छेदिकायाः) अभिधेयो निर्दिष्टः ।
पिण्डार्थस्तु संक्षेपेण पञ्चधा, तद्यथा- निदानम्, उपोद्घातः, बुद्धवंशानुपच्छेदः प्रतिपत्तिलक्षणम्, तत्स्थानञ्च ।
तत्र निदानं तु सूत्रारम्भनिमित्तम्, तच्चापि एवं मया श्रुतम् इत्यारभ्य तेन खलु आयुष्मान् सुभूतिः इत्येतावत्पर्यन्तं देशितम् । तस्य च सङ्गीतिकारैरात्मप्रामाण्यप्रतिपादनायोक्तत्वात् । एवं सुत्रान्तरेष्वपि वाच्यम् ।
उपोद्घातस्तावत् प्रकरणेन सूत्रार्थव्युत्पादनार्थं संयुज्यते । अप्रस्तुताभिधानेन सर्वम् असमञ्जसं स्यादिति तन्निराकर्तुं सर्वत्रापि प्रकरणेन योज्यम् । अथ खल्वायुष्मान् सुभूतिरुत्थायासनात् इत्यादिना तन्निर्दिष्टम् । बुद्धवंशानुपच्छेदो ऽपि च तेनैव दर्शितः । आर्यसुभूतिना इमां प्रज्ञापारमितां बुद्धवंशानुपच्छेदकत्वेन विदित्वा यथा बुद्धवंशानुपच्छेदो भवेत् तथैवादौ संस्थापिता ।
प्रतिपत्तिलक्षणं तु बोधिसत्त्वयानसम्प्रस्थितेन कथं स्थातव्यम्? इत्यादिना प्रोक्तम् ।
तस्य प्रतिपत्तिलक्षणस्य स्थानं तावत् कस्मिन् विषये बोधिसत्त्वेन स्थातव्यम्? प्रतिपत्तव्यम्? चित्तं प्रग्रहीतव्यम्? यदेतत् तत्तस्य स्थानमिति । तदपि इह सुभूते ! बोधिसत्त्वयानसम्प्रस्थितेन एवं मया इत्यादिनारभ्य तारका तिमिरम् इत्यन्तिमगाथां यावदभिहितम् । प्रतिपत्तिलक्षणं तस्य स्थानं चेत्येताभ्यां द्वाभ्यां बोधिसत्त्वानामशेषकरणीयपरिपूर्णता सम्प्रकाशिता, इत्येष तावत् पिण्डार्थः ।
निदानम् :
पदार्थादयश्चेमे साम्प्रतमभिधीयन्ते- तत्र एवम् इति शब्दो ऽभ्युपगमादिनानार्थेषु दृश्यते । अत्र प्रकरणादिबलेन संन्निधापितार्थो ग्राह्यः । अयं हि वक्ष्यमाणसकलसूत्रार्थं व्यवस्थापयति । मया इत्यन्यव्यवच्छेदेन अर्थस्य साक्षाच्छ्रवणं निर्दिश्यते । आत्मनैव श्रुतं न श्रवणपरम्परायातमित्यर्थः । श्रुतम् इत्यधिगमो निषेध्यते । तथागताद् ऋते नान्ये स्वतस्ताथाभूतधर्माधिगमवन्तो भवन्ति । एतेनानाप्तप्वं निराक्रियते । एकस्मिन् समये इति एकस्मिन् काले, सर्वकालमेवंविधधर्मरत्नश्रवणं दुर्लभमित्याख्यातम् । (वज्रट्_99) यद्वा स्वगतं बाहुश्रुत्यमुपदर्शितम् । एकस्मिन् काले इदं श्रुतमन्यदा अन्यदपि श्रुतमिति दर्श्यते । अथ वा, एकस्मिन् समये भगवान् विहरति स्म इत्युत्तरेण सम्बध्यते । अपरिमिताविनेयानां तेषां हिताय अन्यदा अन्यत्र विहरति स्म इति प्रतिपाद्यते । क्लेशस्कन्धमृत्युदेवपुत्ररूपाणां चतुर्णां माराणां भञ्जकत्वान्निरूक्तया भगवान् इति स्मर्यते । अथ वा ईश्वर्यादिमत्त्वात् ऽभगवान्ऽ; इत्युच्यते । यथोक्तम्-
ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । ज्ञानस्याथ प्रयत्नस्य षण्णां भग इति श्रुतिः ॥
श्रावस्ती इति श्रवस्तेस्तन्नामकर्षेराश्रमत्वाच्छ्रावस्ती नगरी, तयोपलक्षितो देशविशेषो ऽपि तत्सम्बन्धेन श्रावस्तीत्युच्यते । देशोक्तया अयं देशो ऽपि चैत्यभूतो ऽभिधीयते, तद्यथा चैत्यभूतः स पृथिवीप्रदेशो भविष्यति इत्यत्राप्युक्तम् । अथ च सङ्गीतिकारैरात्मवचनानामादेयताप्रतिपादनायैतत् सर्वमुक्तम् । लोकप्रत्यायनार्थं तावत् [स] प्रदेशः साकारः समृद्धश्चेत्युक्तः, एवं सति परैः ग्राह्यं भवति वचनम्, नान्यथा तदादेयवचनमिति ।
श्रावस्तीप्रदेशस्य अत्यन्तं विस्तीर्णत्वात् कुत्र विहरतीति स्थाननिश्चयाभावाद् जेतवने इत्युक्तम् । ऽजेतृऽ; इत्याख्यस्य राजकुमारस्य वनत्वाद् जेतवनमिति । तदपि तावत् कस्यचिदप्रसिद्धमिति सम्भावनायाम् अनाथपिण्डदस्यारामे इत्युक्तम् । गृहपति-अनाथपिण्डद इत्यनाथेभ्यो दयया पिण्डदानेन तथा प्रसिद्धः, स खलु भगवदर्थं निरन्तरया रत्नानि विकीर्य जेतुः राजपुत्रादारामं क्रीतवान् । राजपुत्रजेतृणापि तत्र काचिद् भूमिरावासादिभिः समलङ्कृता, अतस्तयोस्तद् वनमिति प्रसिद्धिं गतम् । कस्यचिदेकस्योपादानेन अभिप्रेतदेशविशेषस्यानवबोधात् पदत्रयमुक्तम् । अथवा श्रावस्तीत्यनेन बहुनां मध्ये विहरणात् परार्थसम्पदभिहिता । जेतवने ऽनाथपिण्डदस्याराम इत्यनेन (च) विवेकविहरणात् स्वार्थसम्पत् ।
अत्र कः साक्षीति चिन्त्यमाने महताभिक्षुसंघेन इत्युक्तम् । भिन्नक्लेशा हि भिक्षवः । मारादिभिः प्रत्यर्थिभिरभेद्यत्वात् तेषां समूहः संघः इत्युच्यते । महान् भिक्षुसंघस्तावत् भूयस्त्वेन आनुभावेनेति द्वैविध्येन, आनुभावस्तावद् दर्शितः । कथं भूयस्वमिति चेद्? सार्धमर्धत्रयोदशभिः (भिक्षु) शतैः इत्याद्युच्यते । तस्मिन् समये तावतामेव सत्त्वात् । भिक्षुसंघात् बोधिसत्त्वानां बाहुल्यं तु तेषामेवार्थाय सूत्राणां भाषितत्वात् । बोधौ सत्त्वमाशयो येषां ते ऽबोधिसत्त्वाःऽ; । श्रावकेष्वपि बोधौ सत्त्वं विद्यते, अतस्तेषां व्यवच्छेदाय महासत्त्वैः इत्याह । धर्म-चित्तोत्पाद-अधिमुक्ति-अध्याशय-सम्भार-काल-सम्प्रतिपत्तिलक्षणैः सप्तभिर्महत्त्वैरुपेत्वाद् महासत्त्वाः ।
तत्र धर्महत्त्वं तु बोधिसत्त्वेभ्यः शतसाहस्रिकाप्रज्ञापारमितादिविपुलधर्माणां देशनात् । चित्तोत्पादमहत्त्वं तावदनुत्तरायां सम्यक्सम्बोधौ चित्तोत्पादात् ।
अधिमुक्तिमहत्त्वं तमिन्नेव गम्भीरोदार धर्मे ऽधिमुक्तत्वात् । आशयमहत्त्वं तु सर्वसत्त्वहितसुखोत्पादाशयात् । सम्भारमहत्त्वं तावदपरिमितपुण्यज्ञानंसम्भरणात् । कालमहत्त्वं खलु त्रिभिरसंख्येयकल्पैर्बोधिप्राप्तेः । सम्प्रतिपत्तिमहत्त्वं हि अनुत्तरसम्यक्सम्बोधेर्निष्पादनात् ।
विहरति इति चतुर्भिरीर्यापथैः, अथवा अनुत्तरेण ब्रह्म-देव-आर्यविहारेण विहरति । स्म इति विहृतवानिति दर्शितम् । तत्र भिक्षुसंघस्तु कृतकृत्यत्वाद् मृदुकारुणिकत्वाच्च सर्वकालं तथागतस्य पादान्तिके निषद्यत इति विदित्वा स्यास्नुत्वसंदर्शनार्थं पूर्वमुक्तः । बोधिअसत्त्वास्तु अपरिमेयसत्त्वार्थक्रियासाधन-परिनिष्पत्तौ अकृतकार्यत्वात्, अधिमात्रकरुणया जगदर्थकरणाय लोकधातुषु विहरणात् सर्वकालं भगवतः पादान्तिके ऽनिषीदनाच्च पश्चादुक्ताः । अत एव श्रावकसूत्रान्तेषु नोच्यन्ते बोधिसत्त्वाः, न च तानि (श्रावकसूत्राणि) तदर्थानि, अनियतानि चेति ।
अथ इति तदनन्तरम् । समये इति नियते । एतेन नियतस्तावत् पिण्डकाल इति । कालनियतत्वं तु अस्मिन्नेव काले पिण्डपातो ग्रहीतव्य इति, तदपि किमिति अपरिज्ञानात् तदर्थं पूर्वाह्णः इति वचनेनाभिधीयते । पूर्वाह्णञ्च कालसमयश्चेति समासः ।
उपवसतां प्रवजितानां च पिण्डकालोपलम्भेन पूर्वाह्णलक्षणं भगवता देशितमेकान्तेनेत्यवबोधनार्थं कालसमये इत्युक्तम् । अन्यथा पूर्वाह्ण इत्येतद्वचनेन तदएकान्तत्वनिर्देशो नावगम्यते । भगवता स्वेच्छया कृतमिति सम्भाव्यमानत्वाद् एतत् पदत्रयमुक्तमिति वा । निवास्य इति गृहप्रवेशानुरूपं वस्त्रधारणम् । तदपि शिक्षासु श्रोतृणां गौरवसम्पादनार्थम्, अन्यथा स्वस्यैव विनेयत्वाभावे कथं परस्य विनेयता स्यात् । चीवरमादाय इत्यत्र चीवरादानं (वज्रट्_103) तावत् प्रावरणलक्षणं द्रष्टव्यम्, नास्त्यन्तस्यावकाश इति । महानगरी इति देशविशेषः, श्रावस्तीमात्रव्यवच्छेदार्थम् । किमर्थं भगवान् पिण्डाय प्राविक्षत् इति । श्रावकेष्वल्पेच्छताप्रवृत्तिः, दरिद्र-रोगि-गृहिणी-वृद्धादिष्वनुग्रहः, अन्धादिभ्यो नेत्रादिसम्प्राप्तिरिति, विविधविस्मयहेतूनामनवरतं प्रदर्शनेन भगवति च परेषां प्रसादोत्पादनार्थं इत्येतान्यपरिमितानि प्रयोजनान्यवगन्तव्यानि । कृतभक्तकृत्यः इति यः खलु भोजनादिभक्तकृत्यं सम्पादितवान्, स एवमुच्यते ।
अल्पकुशलमूलेभ्यो निर्जाता अपि ब्रह्मादयः कवलीकाराहारविनागान्नैव भक्तकृत्यं कुर्वन्ति, तर्हि अचिन्त्यकुशलमूलनिर्जातो हि भगवान् (बुद्धः) कथं कुर्यादिति? तथा आर्यधर्मसंगीतौ अपि भाषितम् "तथागतस्तु क्षुत्पिपासावर्जितः मूत्रपुरीषविरहितो ऽक्षीणकायश्च भवति" इति । सत्यमेवैतत् तथापि यदि भगवतः स कायो न परमार्थभूतः, तदा स्यात् सर्वोपालम्भावसरो ऽपि, यदा त्वयं भगवतो निर्माणकायः, एवंविधचरितप्रदर्शनेन वेनेयसत्त्वाशयानुरूपं प्रवर्तते, तदा कथमुमालम्भावकाशः ।
मनुष्यभावे एव वीर्यारम्भेण एतादृशमनुत्तरपदं लभ्यत इति विनेयानामुत्साहनार्थं मनुष्यभावं दर्शयित्वा एवंरूपं पिण्डभक्तं दर्शितवान् । ये दायका दानपतयः तेषु पिण्डपरिकर्मप्रकाशनेन प्रहर्षः समुपजायते । भाग्यवन्तो ऽपि किञ्चित्कर्मावरणवशात् प्रेतादिषु समुपजाताः महौजस्का यक्षादयः भगवतां करनखामृतेन संस्पृस्टं परमाक्षयदिव्यरसमादाय परिभुञ्जानाः परमसुखसंतृप्तचेतस उत्तमां समाधिं समवाप्नुवन्ति । अतः अपरिमेयं तावद् भगवतो भक्तकृत्यम् ।
केन प्रकारेण भक्तकृत्यं कृतमिति चेत्? तदर्थं पश्चाद् इत्याद्याह । सर्वमादाय तदनु यत् पिण्डपातं भक्तं तत् पश्चाद्भक्तपिण्डपातम् । पूर्वमेतत्समादानं तु श्रावकाणां धूतगुणेष्ववतारणार्थम् । भक्तमिति (भक्षणकृत्यं) सम्पादितमित्यर्थः । अथवा पश्चादिति यद् द्वितीयवारमादानं तत् पश्चाद्भक्तम् । तदेव पश्चाद्भक्तमपि पिण्डश्चापीति पदयोजना । अथवा अपारह्णभक्तत्वेन यः परिभुज्यते पिण्डः स एवमुच्यते ।
अतश्च धूतगुणवत्त्वात् विकालभोजनपरिहृतत्वाच्च तद्विओरहितमेतद् भक्तं स्यादित्यर्थः । प्रतिशाम्य इति प्रतिष्ठाप्येत्यर्थः । तच्च शक्रादयस्तु भगवदाज्ञामादातुं समुद्यतास्तदन्तिके सदैवोपतिष्ठन्ते, किन्तु प्रव्रजितास्तु स्वयमेवानुतिष्ठन्त इति निदर्शयितुं भगवता स्वयं पात्रचीवरप्रतिष्ठापनं कृतम्, अलभ्यमानभृत्यानां मन्दभाग्यानां दौर्मनस्यपरिहाणार्थमपीति ।
अशुच्याभासं सततसमितपाकर्तुं कमलेषु पादनिक्षेपणम्, क्रियान्त्राद्यधिमुक्तसत्त्वाशयानुवर्तनं वा सरजस्कपादाभ्यां शयनासनानामनवमर्दनम् इति शिक्षायामादरं दर्शयितुं पादप्रक्षालनं द्रष्टव्यम् ।
प्रज्ञप्त एवासने इति देवादिभिः प्रज्ञप्ते । ऋजुकायं प्रणिधाय इति नातिनम्रं नातिस्तब्धमित्यर्थः । कथं धर्मदेशनाकाले भगवान् समाहितेन ईर्यापथेन (वज्रट्_105) न्यषीददिति चेत्? समाहितैरेव धर्मो ऽयं ज्ञातुं श्रोतुं वा शक्यते नान्यैरिति समाधौ यत्नोत्पादाय लोकाअनां प्रवर्तनात् ।
प्रतिमुखीं स्मृतिमुपस्थाप्य इति पूर्वं बोधिसत्त्वावस्थायां तावद् अनुत्तरपदं प्राप्य यथा बुद्धवंशानुपच्छेदः स्यात्तथाहं करिष्ये इति यत् प्रणिधानं कृतं तत् प्रणिधानं स्मरणाभिमुखीकृतमित्यर्थः । भगवांस्तु बुद्धः सदा समाहितः सन्नपि सर्वथा स्मृतौ विहरति । असमयस्मरेण न किञ्चित् स्यात् । समये प्रणिधानस्मरणं हि सफलं भवति । समये स्मरेणनापि भगवतः सदा समाहितत्वं न विरुध्यते ।
अथ खलु संबहुला भिक्षवः इत्यनेन किमुक्तम्? यत्परिमाणेन भिक्षुसंघेन सह भगवान् श्रावस्त्यां विहरति स्म, स सर्वः धर्मदेशनाकाले तत्र नैव सन्निपतितः । त्रिभ्यो ऽधिकास्तत्र सन्निपतिता इत्युक्तम् । तच्च सङ्गीतिकारैः परसम्प्रत्ययोत्पानादनार्थं निर्दिष्टम् । सन्निपतितः इति सन्निहित एव । सन्निषण्णः इत्यासने उपविष्टः । लोके प्रायः समान्यपूर्वकं विशेषः स्थाप्यत इति लोकप्रसिद्ध्यनुरूपमुभयमाह । अन्यथा निषण्णः इत्येतावत्मात्रेण अप्युभयमुक्तं स्यादिति । उक्ता निदानपदार्थाः ।
उपोद्घातो बुद्धवंशानुपच्छेदश्च :
सम्प्रति उपोद्घातो बुद्धवंशानुपच्छेदश्च कथयिष्येते । परमाश्चर्यमादर्शयितुं द्विरभिधानम् । सुगत इति सम्बोधनम् । नैरात्म्यद्वयमार्गेण (वज्रट्_106) सम्यग् गत इति सुष्ठुरूपेण गतः सुगतः सुरूपवदिति । अथवा निखिलसवासनाशेषक्लेशज्ञेयावरणानि प्रहाय गतः सुगतः, सूपूर्णघटवत् । अथवा अपुनरावृत्त्या गतः सुगतः, सुनष्टज्वरवत् । यावतैवानुग्रहीताः, तावतैवानुपरिगृहीता इत्यर्थः ।
राजादयो ऽपि आश्रितान् प्रजादीन् यथाशक्ति अनुपरिगृह्णन्ति किन्त्वत्र भगवति आश्चर्यमित्याशङ्काकायां किमाश्चर्यमिति तथागतेनार्हता सम्यक्संबुद्धेन इत्युक्तम् । यथावद्वस्तुतत्त्वदेशनात् तथागतः । अथवा यथा पूर्वका नैरात्म्यद्व र्गेण गताः क्लेशज्ञेयावरणप्रहाणमधिगताः, अत्रापि तथा गतत्वात् तथागतः । सर्वलोकाभ्यर्हणीयत्वात्, अरीणां क्लेशानां वा हन्तृत्वाद् अर्हन् । समस्तज्ञेयानां सम्यगबोधात् सम्यक्संबुद्धः । एभिः पदैर्भगवतः प्रहाणज्ञानरूपा स्व-परार्थसम्पदुपदर्शिता भवन्ति ।
एतेनैवमभिधीयते- राजादीनां प्रजादिष्वनुग्रहे तावन्नैवाश्चर्यम्, यतो हि ते लाभसत्कारादिस्वार्थार्थितया पराननुगृह्णन्ति, भगवतस्तावत् तथागतत्वेनार्हत्त्वेन सम्यगभिसम्बुद्ध्य अधिगताशेषसम्पत्तितया यो ऽनुग्रहः स खल्वत्र आश्चर्यमित्यादर्शितम् । ऋते करुणां भगवतो ऽनुग्रहे ऽस्मिन् नास्ति किञ्चिदनुग्रहकारणान्तरमित्यनेनाभिहित एव भवति भगवान् महाकारुणिकः ।
अनुपरिगृहीताः इति अभिसम्बुद्धेन भगवता धर्मचक्रप्रवर्तनाकाले परिपक्वकुशलमूला बोधिसत्त्वा भूमिष्ववतारिताः, धर्मतायां बोधिसत्त्वानां प्रतिष्ठापनेन । परीन्दिताः इति अपरिपक्वकुशलमूलानाम् आदिकर्मिकाणामनुग्रहाय त एव परीन्दिताः, धर्मतायां बोधिसत्त्वान् प्रतिष्ठापयितुम् । मम परिनिर्वाणप्रदर्शनं तु युष्मास्वप्राप्तगुणानामधिगमाय, प्राप्तानां च सम्यगपरिहाणायेति । एवमनुग्रहपरीन्दनेत्युभाभ्यां बुद्धवंशानुपच्छेदः सम्प्रकाशितः ।
बोधिसत्त्वेष्वनुग्रहस्तु पञ्चधा सम्यग् वेदितव्यः- काल-विशेषता-उदारता-स्थिंरता-व्यापकताभिः । तत्र कालः- जन्मजन्मातरत्वात् । विशेषता-तैर्थिक-श्रावक-प्रत्येकबुद्धेभ्यो ऽनुग्रहेण विशिष्टत्वात् । उदारता- अनुत्तरत्वात् तदनुग्रहस्य । स्थिरता- आत्यन्तिकत्वात् । व्यापकता- तदनुग्रहेण तु स्व- परसन्तत्योर्हितसम्पादनात् ।
परीन्दनापि त्रिधा सम्यग् द्रष्टव्या, आश्रय-धर्मताप्रापण-ज्ञप्तिचवनैः । कीदृशस्तावदाश्रयः? कल्याणमित्रेषु परीन्दनात् सा भवत्यविप्रणष्टा । किं तावद् धर्मताप्रापणम्? अनुपरिगृहीता बोधिसत्त्वा धर्मतया पराननुग्राहयन्ति । किं तर्हि ज्ञप्तिवचनम्? त्वया अन्ये बोधिसत्त्वा अनुग्रहीतव्या इत्याज्ञापितम्, न त्वनादरभावः । उपोद्घात-बुद्धवंशानुपच्छेदपदार्था उक्ताः ।
प्रतिपत्तिलक्षणम् :
प्रतिपत्तिलक्षणं तावदुच्युते- तदधिकारेण कथम् इत्युक्तम् । आर्यसुभूतिः खलु षड्विधप्रयोजनार्थं पृष्टवान् । 1 संशयोपच्छेदाय, 2 अधिमुक्तिसमुत्पादाय, 3 गम्भीरेष्वर्थेष्ववतारणाय, 4 अविनिवर्तनाय, 5 परमप्रमोदसञ्जननाय, 6 सद्धर्मस्य चिरस्थित्यै च ।
तत्र प्रज्ञापारमितेयं कथं बुद्धवंशस्य अनुपच्छेदं करोतीति सन्देहकारिणां संशयोपच्छेदनार्थम् । अपरिपक्वसन्ततीनां बोधिसत्त्वानां पुण्यबाहुल्यख्यापनेन प्रज्ञापारमितासु अधिमुक्तिसमुत्पादनार्थम् । परिपक्वसन्ततीनां तावद् गम्भीरेष्वर्थेष्ववतारणार्थम् । अभूतप्रतिपत्तिपरिभूतानां तदुद्ग्रहणधारणयोर्व्यायच्छतां पुण्यवाहुल्याभिकाङ्क्षया अविनिर्वतनार्थम् । अनुगृहीतेषु विशुद्धाध्याशयेषु स्वाधिगततद्धर्मदर्शनेन परमप्रमोदसञ्जननार्थम् । अनागते काले महयानसद्धर्मस्य चिरमवस्थानार्थम् ।
समासतस्तु सन्दिग्धानां सम्यक् सम्प्रकाशनाय, पुण्याभिकाङ्क्षणाम् अपरिक्वबोधिसत्त्वानां सम्यगवतारणाय, विप्रतिपत्तिविहतानां सम्प्रहर्षणाय, शुद्धाध्याशयानां प्रमोदाय च । तत्र स्थातव्यम् छन्दप्रणिधानाभ्याम् । प्रतिपत्तव्यम् योगसमापत्त्या । चित्तं प्रग्रहीतव्यम् विक्षेपनिग्रहेण । तत्र (वज्रट्_109) छन्दस्तावदभिलाषः । प्रणिधानं तु अभिलषितार्थे ऽभिसंस्कारलक्षणेन यच्चिन्तनम् । योगसमापत्तिः खल्ववितर्कसमाधिः । विक्षेपनिग्रहस्तावत् समाधितो विक्षिप्तं चित्तं विक्षेपेभ्यो निवार्य तत्रैव विनियोजनम् । प्रथमेन प्रयोगमार्गः, द्वितीयेन परिनिष्पत्तिमार्गः, तृतीयेन त्वविप्रणाशमार्गः परिदेशितः ।
स्थाने पृच्छतो भगवान् आर्यसुभूतये साधुकारमदात् । शृणु इत्यवहितश्रोत्राभ्यां श्रोतुं प्रवर्तस्व । साधु इत्यविपरीतप्रतिपत्त्या उद्ग्रहीतुम् । सुष्ठु च मनसि कुरु सम्यक्तया उद्ग्रहीतुमुद्युक्तो भव इत्यर्थः । तदपि अवाङ्मुख-अशुचि-सच्छिद्रभाण्डानामिव श्रोतृजनानां यथाक्रमं त्रिविधदोषपरिहारार्थमिदमुदीरितमिति । भाषिष्ये इति तेभ्य एव सम्प्रकाशयिष्यामि, नान्येभ्य इति । अन्यथा अवाङ्मुख-अशुचि-सच्छिद्रभाण्डेषु अम्बुवृष्टिरिव (वज्रट्_110) धर्मवृष्टिरपीयं निरर्थकैव स्यादित्यर्थः । अथवा अहं तु केवलं देशयिष्यामि त्वमेव तावद् यत्नतः प्रतिपद्यस्वेत्यर्थः ।
बोधिसत्त्वयानेति बोधिसत्त्वानां यानम्, येन बोधिसत्त्वा निर्यान्ति । तच्च दशभिः पारमिताभिः दशभिश्च भूमिभिः परिगृह्यते । तत्र सम्प्रस्थानं तावत् प्रणिधिप्रस्थानचित्ताभ्यां सम्प्रवर्तनम् । एतद्विशेषणं तु श्रावकादिबोधिप्रतिषेधार्थम्, बोधिसंप्रस्थितेन इत्येतावदुच्यमाने बोधीनां त्रित्वादन्यस्या अपि बोधेरवगमः स्यादिति । प्रत्यश्रौषीत् इत्यभ्युपगमादित्यर्थं । उक्ताः प्रतिपत्तिलक्षणपदार्थादयः ।
प्रतिपत्तिस्थानम् :
साम्प्रतं तत्स्थानान्यभिधीयन्ते । तत्स्थानानि तावत् समासतो ऽष्टादशप्रकाराणि; तद्यथा- 1. चित्तोत्पादः 2. पारमितायोगः 3. रूपकायाप्तिकामता 4. धर्मकायाप्तिकामता 5. भावनाविशेषलाभे ऽनभिमानः 6. बुद्धोत्पादारागता 7. क्षेत्रविशुद्धिप्रणिधानम् 8. सत्त्वपरिपाकः 9. बाह्यशास्त्रेषु व्यपगतरागता 10. सत्त्वभाजनलोकयोः पिण्डग्राहविशीर्णतायोगः 11. तथागतपूजासत्कारः 12. कायचित्तपरिश्रान्तौ वीर्यवैमुख्यानारम्भलासत्कारविरहितता । कायचित्तपरिश्रान्तौ वीर्यारम्भोतोविनिवृत्तिः, न आरम्भ इत्यनारम्भः । अहो, आरब्धवीर्यो ऽयमिति परेण ज्ञायमाने सति श्रद्धामागम्य लाभसत्काराध्यवसितत्वम् । तस्माद् बोधिसत्त्व एतेभ्यः सर्वेभ्यो विमुच्य प्रजह्यात् । 13. दुःखाधिवासनम् 14. ध्यानास्वादविरतिः 15. अभिसमयकाले ऽहमितिविकल्पवियोगः 16. अववादपर्येषणम् 17. अभिसमयः 18. बुद्धभूमिपर्येषणं च ।
एतानि तावदष्टादशविधानि स्थानानि, यत्र बोधिसत्त्वेन स्थातव्यं प्रतिपत्तव्यं चित्तं च प्रग्रहीतव्यमिति । एतैः स्थानैर्भूमित्रयं संगृह्यते, तद्यथा- षोडशभिः स्थानैरधिमुक्तिचर्याभूमिः, अभिसमयस्थानेनैकेन शुद्धाध्याशयभूमिः, बुद्धभूमिपर्येषणेन च बुद्धभूमिः संगृह्यते । सर्वसत्त्वपरिनिर्वापणचित्तमुत्पाद्य पारमितायोगी तावत् तथागतस्य रूपकाय-धर्मकायप्राप्तौ छन्दमुत्पादयति । ततः आ अभिमानम् अन्तिमम् अहं-विकल्पं यावदभिसमयस्तान्तरायेभ्यश्चित्तं विप्रकर्षते । ततश्चाभिसमयार्थमववादं पर्येषते, तदनन्तरमभिजानाति, तदूर्ध्वं बुद्धभूमिं पर्येषते । अयमेव तेषां क्रमः ।
1. चित्तोत्पाद-स्थानम् :
तत्र बोधिचित्तमधिकृत्य यावन्तः सत्त्वाः इत्याह । यावत् इति परिमाणम् । किं तत्र परिमाणम्? सत्त्वसंग्रहेण इत्युक्तम् ऽसत्त्वधातुस्तु (वज्रट्_112) अपरिमितः, अथापि सत्त्वः सत्त्व इति यस्तत्स्वभावः तदितरव्यावृत्तशब्दाध्यारोपितार्थसभागरूपेण ख्यातः स एव सत्त्वेन संगृह्यते । तेन दृश्यविकल्प्ययोकत्वेनाभिसंक्षिप्य तद्रूपेणाध्यवसितत्वाद् रूपादिस्कन्धविशेषैरुपादीयन्ते । अतस्ते आयुष्मानिव प्रतीयन्ते ।
एवं सामान्यतो निरूप्य विशेषतो दर्शयितुमाह- अण्डजाः इत्यादि । विशेषलक्षणं तावत् त्रिभिः प्रभेदैरभिहितम् । योनिभेदेनाण्डजादयश्चत्त्वारः । स्थानभेदेन तु रूपिणामरुपिणां च पृथक्स्थानत्वात् । कामावचरा रूपावचरास्तावद् रूपिणः, अरुपावचरास्तु अरुपिणः । निमित्तोद्ग्रहणभेदेन संज्ञिनः इत्यादयः । बृहत्फलस्यैकदेशं भवाग्रजांश्चं सत्त्वान् विहाय सर्वे सत्त्वाः संज्ञिनः । बृहत्फलस्यैकदेशस्तावद् असंज्ञीनः । अयमपि निमित्तोद्ग्रहणभेदात्मक एव, तदभावभेदेनोपलक्षितत्वात् । भवाग्रजास्तावद् नैव संज्ञिनो नासंज्ञिनो वा । प्रभेदो ऽयं मन्दमेधसामनुग्रहायैव कृतः, अन्यावध्यानपरिहारार्थं तावन्नैव प्रपञ्चितः । ऽसर्वे धर्माः निःसत्त्वाःऽ; इत्यनेन सह वचनस्यास्याविरोधः प्रदर्शितः । अत्र सत्त्वधातुरिति सांवृते सत्ये सत्त्वधातुस्तं दर्शयितुं यावान् इत्याद्याह । प्रज्ञप्यमानः इति पञ्चस्कन्धविशेषात्मकत्वेन प्रज्ञायत इति, न तु तैर्थिकाः प्रज्ञप्त्या प्रज्ञपयन्तीत्यर्थः । अनेनापवादान्तस्तावत् परिहृतः, प्रज्ञप्तावपवादाभावात् । यस्मिन् अप्रतिष्ठितनिर्वाणधातौ सास्रवोपधिर्नाशिष्यते, स तथोच्यते । श्रावकाणां परिनिर्वाणं तावद् नात्र निर्वाणधातु; तस्य हीनत्वात् । प्रणीतफले संविद्यमाने कृपालूनां हीनफलार्थिता न खलु युक्तिमती । संविद्यमाने ऽपि प्रणीतफले प्राप्तुमशक्यत्वादेवं प्रार्थ्यत इति चेत्? त्वन्मतानुसारं तावद् त्रिविधगोत्रत्वादगोत्रत्वाच्च सर्वैः हीनफलमपि प्राप्तुं नैव शक्यते ।
अथ बोधिसत्त्वगोत्रं तावत्तथाविधं यद्वशतया महाकरुणावेगाभिभूतेन (मया) कथमिदं शक्यमिति, संविद्यमानेष्वपरेषु परार्थकारिषु बुद्धबोधिसत्त्वेषु निरर्थकेन मयात्र प्रणिधानेन किमिति विचारान् सन्त्यज्य परप्रत्ययतां च दूरीकृत्य महाकरुणार्द्रः जाज्वल्यमानेन दुःखाग्निना पीड्यमानं जगद् विलोक्य अहमेव तारयिष्यामीति चिन्तयमानः प्रणिदधाति । यथोक्तम्-
दुष्करादुष्करां वेति कल्पनां परिहाय च । अभ्युपेतं जगच्चार्तमित्यास्येन स्वयं त्वया ॥
इति । यद्यप्येवम्, तथापि प्रियपुत्रस्य नृपत्वाय प्रणिधानमिव सत्यप्यप्राप्ये प्रणीतफले कथन्न प्रणिधानमिति । किमर्थं हीनमेव प्रार्थ्यते । अत एवाप्रतिष्ठितनिर्वाणम् एवात्र अनुपधिशेषनिर्वाणधातुर्युज्यते । तत्र सास्रवोपधेः शेषत्वाभावात् ।
निर्वापयितव्याः इत्येतावन्मात्रं कस्मान्नोक्तम्? प्रथमादिध्यानानां व्यावृत्त्यर्थमिति । तानि तावदधोभूमिक्लेशाभावाद् निर्वाणपर्यायेणोक्तानि भगवता । सोपधिशेषे निर्वाणधातौ इति कस्मान्नोक्तमिति चेत्? दुःखोपधिशेषस्याप्रहीणत्वात्तत्र । सर्वसत्त्वनिर्वापणाशयस्तु बोधिसत्त्वानां त्रिभिर्हेतुभिर्द्रष्टव्यः, तद्यथा-
1. अक्षणोत्पन्नेभ्यः कालान्तरावस्थानम्, अक्षणावस्था तावदुपलक्षणमिति । नैतावन्मात्रम् । तस्यामवस्थितौ परिनिर्वाणं नैव सम्भाव्यते । 2. अपरिपक्वानां परिपाचनम् । 3. परिपक्वानां विमोक्षणं च ।
तस्मान्नाशक्तार्थिता (तेषाम्) । निखिलसत्त्वानां परिनिर्वापणाशयेन अनेन आदार्यं तावद् बोधिचित्तस्यादर्शितम् । छन्दप्रणिधानाभ्यां कथं स्थातव्यं- (वज्रट्_114) तदप्यत्रावेदितम् । कथं योगसमापत्त्या प्रतिपत्तव्यमिति तद्देशयितुमाह एवम् इत्यादि । संवृतौ सर्वसत्त्वानां परिनिर्वापणे ऽपि यथा परमार्थतो न को ऽपि सत्त्वः बोधिसत्त्वेनोपलभ्यते, तस्याअभावादित्येवं योगमापत्त्या प्रत्यवेक्षणीयम् । व्युत्थितो भूत्वा न परमार्थतः को ऽपि सत्त्वो मया परिनिर्वापितः इति यश्चित्तोत्पादस्तेन गम्भीरत्वं परमार्थबोधिचित्तत्वञ्च दर्शितं भवति, पूर्वेण तु संवृतिरिति । तेन विक्षेपनिग्रहेण कथमत्र चित्तं प्रग्रहीतव्यमित्यादर्शयितुमाह- तत्कस्य हेतोः? सचेत् इति यदीत्यर्थः ।
अथ यः पुद्गलादिसंज्ञया प्रवर्तते किं स बोधिसत्त्व इति वक्तव्यः? सत्त्व इत्युक्तौ पुनः कस्य हेतोः इति प्रश्नेनेतराभिरपि (संज्ञाभिः) न वक्तव्यः इत्याह । अस्यायमभिप्रायः- कुमतिभिस्तावत् पञ्चस्कन्धातिरिक्तः अन्तर्व्यापारवांश्चतुर्णां भोगानां भोक्ता एकः पुरुष इति परिकल्प्यते सत्त्वः, जीव इत्यादिशब्दैश्च व्यवह्रियते । ये चानिर्वचनीयत्वेन पुद्गलमिच्छन्ति तैरपि तस्य स्कन्धस्वभावविलक्षणत्वेनाभ्युगतत्वात् तद्बलेनार्थान्तर एवाभ्युपेयते । न कदापि पदार्थो ऽनिर्वचनीयः सम्भवति, सर्वस्याप्यनिर्वचनीयत्वप्रसङ्गात् । तत्साधकप्रणाभावाद् बाधकसद्भावाच्च तद्द्रष्टा बोधिसत्त्वो विपरीताभिनिवेशेन विपर्यस्त एव भवति । यः खलु विपर्यस्तः स कथं परमार्थबोधिसत्त्वः?
अन्ये पुनराहुः- अस्ति तावदात्मसाधकं प्रमाणमिति । तथा ह्i-bandha-mokष-मार्ग-हेतुफलसम्बन्धस्मृतिप्रत्यभिज्ञादीनामेकाधिकरणकत्वे तावत् प्रसिद्धे नैरात्म्यवादिनां युष्माकं मते तु यस्तदाधार एकः प्रसिद्धः स नास्ति कश्चिदिति कस्तावदाधारः? विज्ञानक्षणानां प्रतिक्षाणं पृथक्त्वात् । बद्धो (वज्रट्_115) देवदत्तः मुक्तश्चान्यो यज्ञदत्त इति नैव व्यवस्था, न चान्यः प्रत्यनुभविष्यति अन्येन कृतस्य कर्मणः फलमित्यतिप्रसङ्गः । कृतविप्रणाशो ऽकृताभ्यागमश्च प्रसज्येते । तथा हि- कर्तृत्वेन प्रज्ञप्तो यो हि विज्ञानक्षणः, तस्य फलेनानभिसम्बन्धात् कृतविप्रणाशाख्यो दोषः । अकर्तुश्चैव तस्य फलेन योगादकृताभ्यागमो दोषः स्यात् ।
स्मृत्यादिकं अ भिन्नाधिकरणकमिति न लोके प्रतीतम् । अथ कथमिति चेत्? एकाधिकरणकमेव । देवदत्तस्य चित्तानुभवः यज्ञदत्तचित्तेन न स्मर्यते वा प्रत्यभिज्ञायते वा । येनानुभूयते तेनैव स्मर्यते प्रत्यभिज्ञायते वेति प्रसिद्धम् । फलतश्चैक एव पुरुषः सर्वावस्थास्वनुगन्ता भवति । प्रयोगः- यौ बन्धमोक्षौ तावेकाधिकरणकौ, यथा- देवदत्तस्यैव शृङ्खलाबन्धनं मोक्षश्च । विवादास्पदीभूतौ बन्धमोक्षावपि बन्धमोक्षावेवेति बन्धमोक्षावेवेति स्वभावहेतुः । तथैव कर्त्रादेरप्येकाधिकरणत्वसाधने प्रयोगाः कल्पयितव्या इति ।
तत्र यदि स्वतन्त्रस्यैकस्य परमार्थसतो नित्यस्य पुरुषस्याधिकरणत्वं साध्यते, तदा तथाविधेन पुरुषेण सह क्वापि हेतोः सम्बन्धासिद्धेरनैकान्तिकत्वम्, सर्वेषां संस्काराणां क्षणिकत्वात्, देवदत्तादेः नित्यत्वैकतस्वभावासिद्धेः दृष्टान्तस्यापि साध्यविकलत्वम् । अत एव विरुद्धो हेतुः तद्विपर्यव्याप्तत्वात् ।
अथ एकाधिकरणत्वमात्रं साध्यते, तदा सिद्धसाधनम् । एकसन्तानप्रवृत्तत्वेन तेन बन्धनादीनामेकाधिकरणत्वमिष्यत एव ।
अपि च, यदा यत्र सन्ताने ऽविद्यादिकं कार्यकारणभावेनाविच्छिन्नं निरन्तरं प्रवर्तते, तदा स बद्धः इत्युचर्यते, स एव पुनः श्रुतमयादिक्रमेणार्यमार्गोत्पादाद् अविद्यादिनिरोधेनाश्रयपरावृत्तौ मुक्तः इत्युपचर्यते । उभावपि तौ बन्धमोक्षौ नित्यैकपरमार्थवस्तुविषयकौ नतरां सिद्धौ । लौकिकबन्धमोक्षयोरपि तथात्वात् ।
यस्मिन् सन्ताने शुभोओ वा अशुभो वा चित्तानुभवः समुत्पद्यते, तस्मिन्नेव कालान्तरे सन्ततिपरिपाकमागम्य मस्तुलुङ्गलाक्षादिरसावसिक्तसन्ततिपरिपाक इव सुख-दुःख-स्मृत्यादिफलोदयो दृष्टाः, तस्माच्छुभादीनामेकाधिकरणत्वं तावत् प्रसिद्धम् । नैव खलु कश्चिदेकः कर्ता भोक्ता स्मर्ता वा । सर्वेषामेतेषां व्यवहारस्य प्रज्ञप्तेर्वा कार्यकारणभावमात्रेण प्रभावितत्वात् । न चातिप्रसङ्गः, नियतसामर्थ्यवतो बीजादेरिव कारणशक्तेः प्रतिनियतत्वात् । ततश्च येषु कार्यकारणभावः प्रतिनियतः तेषु नैव कश्चिद् एको ऽनुगतः भिन्नावस्थश्च परिदृश्यते । इह सत्त्वहेतोस्तथात्वे सति किमनेनात्मना परिकल्पितेन । आत्मोपचारस्य या खलु कर्त्राद्यवस्था, सा तावद् हेतुः, या खलु भोक्त्राद्यवस्था, सा फलमित्येवंविधो हि कार्यकारणभावो ऽवश्यमभ्युपेतव्य इति । अन्यथा तयोरुभयोरप्यवस्थयोरनुपपन्नत्वे परस्परोकारकत्वाभावे वा आकाशमिव कथं तावत् तावत् सिध्येत् भोक्त्रादिः । शक्तिप्रतिनियमो ऽप्यभ्युपगन्तव्य एव । इत्थं प्रतिनियतात्मना सम्बन्धेन सुखादीनां सम्भवः न तु सर्वत्र । अतः (वज्रट्_117) कार्यकारणभावेन दृश्यमानानि कुशलादीन्येव कर्ता, भोक्ता च स्यात्, किमनेनादृष्टस्वभावेन आत्मना परिकल्पितेन ।
अथ नानुमानेन आत्मा सिद्धः स्यात्, तथापि प्रत्यविषयत्वाद् अहंबुद्धेः प्रत्यक्षत एवात्मा सिध्यतीति चेत्? तदपि तावन्न युज्यते, भ्रान्तत्वात् सविकल्पत्वाद् असिद्धत्वाच्च प्रत्यक्षेण तत्राहंबुद्धेरिति । अहंबुद्धौ प्रतीयमानत्वे यथा खलु प्रत्यक्ष एको नित्यो विभुश्चात्मा स्वसिद्धान्तैरुकल्प्यते तथा नैवोपलभ्यत इत्यवश्यमेव द्रष्टव्यम् । अन्यथा अहंबुद्धेर्यदि प्रत्यक्षत्वं स्यात् तदा विवादमानेषु तावन्नैव प्रवर्तेत आत्मविषये कश्चन विवादः, सविकल्पाया अहंबुद्धेर्निश्चयात्मकत्वात्, निश्चयेन च विषयीकृते अध्यारोपाभावाच्च ।
एवमेवान्यो ऽन्येष्वप्येवञ्चातीयेषु सम्भवाद् विप्रलम्भः । अनादिकालाभ्यासवशात् प्रतिनीयतेषु रूपादिस्कन्धेषु एकत्वमध्यारोप्य परं व्यावर्त्तीयतुमहमिति प्रतीतिः, तस्यां प्रतीतौ तेषामेव रूपादीनां प्रतिभासमानत्वात् ।
काये चायमात्मग्रहः, कथं तर्हि मम देह इति भेदमात्रग्रहणमिति चेत्? तच्चात्मालम्बने ऽपि तुल्यम् । यदि चात्मनि अयमात्मग्रहः, कथं तर्हि मम आत्मा इति चिन्त्यते । अथ वस्तुतो ऽभिन्ने ऽपि भेदान्तरपरिहारेण तन्मात्रजिज्ञासायां शिलापुत्रकस्य शरीरवद् भेदोपचारेण ग्रहणान्नास्ति विरोध इति चेत्? देहालम्बने ऽपि चैतत् समानम् ।
आत्मा खलु विषयः पुनः क्रमोत्पत्त्या विरुध्यत इति पश्चात् वक्ष्यते । न केवलमात्मग्रह आत्मा अपितु तद्विषयो रूपादिरात्मास्तीत्यपि वक्तुं न शक्यते, तदविलक्षणत्वात्तस्य । क्रमेणोपलभ्यमानत्वान्न ते एकस्वभावाः, न च स्वतन्त्राः । अत एवोक्तम्-
न चात्मदृष्टिः स्वयमात्मलक्षणा न चापि दुःसंस्थितता विलक्षणा ।
नामव्यवहास्य तु अभीष्टत्वान्नात्र कश्चिदपि विवादः । अत एव नास्ति किञ्चिदात्मप्रसाधकं प्रमाणम् । नास्ति प्रत्यक्षमनुमानं च व्यतिरिच्य प्रमाणमित्यन्यत्र विचारितम् ।
बाधकप्रमाणं तावन्निराक्रियते- यद्येवमात्मा स्कन्धेभ्यो ऽभिन्नस्तदा स्कन्धवत् क्षाणिकः स्याद् अथवा स्कन्धाः खल्वात्मवन्नित्याः स्युः, तदभिन्नत्वात्, स्कन्धवदनेकत्वप्रसङ्गो ऽपि दुर्निवारः स्यात् । अतः स्कन्धेष्वेव आत्मेति प्रज्ञप्यते, न तावन्नाम्नि विवादः ।
अथ स्कन्धेभ्यो भिन्न आत्मा इष्यते तदा सुखादिनासम्बद्धत्वे न सिध्येत् तस्य भोक्तृत्वादिकम् । तत्र प्रयोगः- यो नास्ति सुखदुःखादिभिः सम्बद्धः स नास्ति कर्ता वा भोक्ता वा, मुक्तः संसारी वापि न युज्यते, यथा वन्ध्यापुत्रः । आत्मापि तथार्थक्रियादिभिर्न कथञ्चनापि सम्बध इति व्यापकानुपलब्धिः । न चायमसिद्धो हेतुः, तथा हि- सुखादिना हि सम्बन्धे सति आधाराधेयलक्षणो वा संयोगलक्षणो वा कार्यकारणलक्षणो वेति पक्षत्रयम् ।
न तावत् प्रथमः पक्षः, अकिञ्चित्करत्वात् । तथा हि- अधःप्रसर्पणधर्मिणां जलादीनामधोगमनप्रतिबन्धकत्वेन व्यवस्थाप्यते तावदाधारः । सुखादीनाममूर्तत्वान्न सम्भवति (तेषाम्) अधोगमनमिति कथमिव आत्मन आधारत्वमिति । स्थित्यापि नाधारः, स्थितेः स्थातुरभिन्नत्वात्, तस्यैव कारकत्वमिति? तदपि तावन्निषिध्यते । स्थितेः पृथकत्वे सति सा नैव तावत्स्थातुरुपकारिका अर्थान्तरभूतत्वात्तस्याः । नास्त्येव तस्यां स्थातुरुत्पादसामर्थ्यम्, असामर्थस्य सर्वत्रैवाभिव्यक्तत्वात् । स्वयं भङ्गात्मनः तावन्नास्ति कश्चन स्थापकः, अनवस्थितत्वात्तस्य, अन्यथा तेन भङ्ग एव तस्य स्यान्न तावदवस्थानम् । अविपरिणामात्मनि तावत् स्थापकेन किं क्रियते, स्थीरात्मना स्वभावेन स्वयमवस्थितत्वात् ।
अत एवाकिञ्चित्करत्वेन संयोगसम्बन्धो ऽपि तावन्नैव युज्यते, अतिप्रसङ्गात् । एवं हि सति सर्वस्य सर्वसंयोगहेतुत्वम् । एवं च नैवोपपद्यते तावद् भिन्नार्थेन भिन्नार्थस्य संयोगः, सर्वस्य स्वयमवस्थितत्वात् लौहशलाकावत् । अपि च, संयोगबलेन यदि आत्मा सुखी वा दुःखी वा भवेत्, तदा संयोगैकत्वमेव स्यात्, अविशिष्टत्वेन प्रतिनियतात्मभिः सुखादिभिर्नैव स्यात् सम्बन्धः । तत एवात्मना सहैकत्वे सुखादिना नैव स्यात् कश्चित् सुखी वा दुःखी वा । अदर्शने ऽपि बलेनाभ्युपगते निश्चये तेनैव निश्चितः स्यात्तदा किं तावत् संयोगपरिकल्पनया, सर्वसामर्थ्यविरहितत्वात्तस्य । सम्बन्धिभेदेन भिन्नायामपि प्रज्ञप्तौ परमार्थतः भावानामभिन्नस्वभावे सति कथं स्वभावभेदाश्रितः पृथगर्थक्रियाभेदः स्यादिति कुमतिपरिकल्पित एवायं खलु सम्बन्धः ।
न चापि कार्यकारणसम्बन्धः । क्रमेण वेद्यमानत्वात् सुखादिनाम् । अविकले हेतौ सति न युज्यते तावत् कादाचित्ककार्यसम्भवः, अविशिष्टत्वात् । परैरनाधेयातिशयो ऽप्रतिबद्धसामर्थ्यो वा खल्वात्मा कथं सहकारिकाकारणमपेक्ष्यक्रमेणोत्पादयेत्, न हि सहकारिणि तदपेक्षा । दुःखोत्पादहेतुत्वाद् यदि बद्धस्तदा सर्वथा बद्धत्वान्नैव मुक्तः स्यात्, तत्स्वभावापरित्यागात्, परित्यागे वा कथं नित्यः स्यात् । अदुःखावस्थोत्पादहेतुत्वाद् यदि मुक्तस्तदा विमुक्त एव भवेन्न कदाचिदपि बद्धः स्यात्तदा कथं तावत् कल्प्येत आधेयनिबन्धनं बन्धमोक्षत्वमिति ।
यदि चैतन्यादिलक्षणत्वेनोत्पादसामर्थ्येन वा कर्ता स्यात्तदा कर्ता एव सदा भवेत् कथ तावद् भोक्ता? अथ सुखाद्युत्पादहेतुत्वेन यदि भोक्ता स्यात्तदा भोक्तैव भवेत् कथं तावत् कर्ता? किञ्च कापिलपरिकल्पितस्य (अत्मनः) (वज्रट्_120) सुखादिभिराकाशवन्निर्विकारत्वेन नैव खलु युज्यते भोक्तृत्वम्, अतिप्रसङ्गात् । सति वा विकारे नित्यताहानिः । न खलु हेतुमात्रतया कर्ता वा भोक्ता वा, अतिप्रसङ्गात् । तथैव स्मृत्यादिष्वपि नाश्रयित्वमुपयुज्यत इति योज्यम् ।
तस्मान्नैरात्म्यवादिन्येव पक्षे बन्धोमोक्षादिव्यवस्था युक्तिमती । कार्यकारणवैशिष्टयमात्रेण तस्या व्यवस्थाया प्रभावितत्वात् । स च कार्यकारणभावस्तावदनित्येष्वेव सम्भवति, न खलु नित्येषु । तेषु नास्ति कस्यचिदपि कार्यस्य क्रमेणोत्पादसामर्थ्यम्, यथोक्तं प्राक् । न चापि युगपद्, तथाविधफलोत्पादसमर्थस्वभावानुगमे फलोत्पादाभावस्तावन्न युज्यते प्राग्वत् । अननुगमे च प्राक्स्वभावताहानिः । क्रमयौगपद्याभ्यां व्यतिरिक्तो नास्त्येव कश्चिदाकारान्तरः, यः स्यादर्थक्रियायां प्रभुविष्णुः, परस्परपरिहारस्थितलक्षणत्वात्तयोः । अत एव यावन्तः परपरिकल्पिता आकाशादयो ऽक्षणिकाभावास्ते सर्वे अर्थक्रियासामर्थ्यहितत्वाद् अभावव्यवहारविषया उच्यन्ते परमविचक्षणैर्बौद्धैरिति । शशविषाणादावपि अभावव्यवहारप्रज्ञप्तिः अर्थक्रियायां सामर्थ्याभावमात्रनिबन्धनैव, एअतद्बलेनार्थक्रियासमर्थविषयिका खलु भावव्यहारप्रज्ञप्तिः, परस्परपरिहारस्थितलक्षणत्वाद् भावाभावयोः ।
एवंविधे सर्वसामर्थ्यशून्ये शशविषाणाद्यविशेषे ऽपि ऽभावःऽ; इति नाम व्यवहारे सति नास्ति नाम्नि विवादः । तथापि अर्थक्रियार्थिनो हि प्रेक्षावन्तः (वज्रट्_121) तथाविधानुपलम्भस्वभावे वन्ध्यापुत्राद्यविशेषे च भावव्यवहारो न युज्यत इत्याहुः । अत एव नासिद्धो हेतुः । न चानैकान्तिकः, आकाशादिष्वपि कर्तृत्वप्रसङ्गात् । सपक्षे सत्त्वान्न च विरुद्धः । तस्मादात्मनो लक्षणान्तराभावाद् बन्ध्यापुत्रसदृश एव । विनश्वरत्वे सति स्कन्धान्तर्गता एव पुद्गलाः प्रसज्येरन्, सर्वसंस्कृतानां स्कन्धसंगृहीतत्वात् । अथाविनश्वरत्वे तावत् स्कन्धान्तर्गतधर्मविसदृशत्वादर्थान्तरा एव ते भवेयुरिति दोषो ऽयमुक्तपूर्व एव । अतो नास्ति कश्चिदनिर्वचनीयो भाव इति । अतः ऽसर्वे धर्मा निरात्मानःऽ; इति भगवतः सिंहनादः समस्ततैर्थिककुञ्जरवृन्दानां भीकरः, अनवमर्दनीयत्वात् । अलमतिविस्तरेण ।
2. पारमितायोग-स्थानम् :
पारमितायोगमधिकृत्याह- अपि तु खलु पुनः इत्यादि । एतच्च पदद्वयं सामान्यविशेषस्वभावात्मकं द्रष्टव्यम् । दानं दातव्यं न तुवस्तुप्रतिष्ठितेन बोधिसत्त्वेनेत्यर्थः । दानम् इत्यनेन त्रिविधदानमधिकृत्य षट् पारमिता दर्शिताः न तु दानमात्रम् । तत्रामिषदानेन दानपारमिता निर्दिष्टा, अभयदानेन तावद् शील-क्षान्तिपारमिते, धर्मदानेन तु वीर्य-ध्यान-प्रज्ञापारमिताः । वीर्याभावे धर्मादान-प्रवचनयोः परिखिन्नत्वान्न धर्मं देशयेत् । ध्यानाभावे श्रद्धातिरेककर्माभिलषतया संक्लिष्टा भवेद् देशना । प्रज्ञायाश्चाभावे स तद् विपरीततया धर्मं देशयेत् । तस्मात् त्रयाभावे न सिध्यति धर्मदानम् । वीर्यं सर्वत्रगमित्यपरे ।
दानं दातव्यम् इत्यनेन षट्सु पारमितासु छन्द-प्रणिधानाभ्यां कथं स्थातव्यमिति निर्दिष्टम् । न वस्तुप्रतिष्ठितेन इत्यादिनात्र योगसमापत्त्या (वज्रट्_122) कथं प्रतिपत्तव्यमित्यावेदितम् । एवं हि बोधिसत्त्वेन दानं दातव्यम् इत्यादिना विक्षेपं निगृह्य कथं चित्तं प्रग्रहीतव्यमित्येतन्निर्दिष्टम् । तत्र न वस्तुप्रतिष्ठितेनेति प्रज्ञापारमितायां योगस्य याथावत्त्वं तावन्निर्दिष्टम् ।
तत्र देय-दायक-प्रतिग्राहकादिवस्तुषु यत्तत्त्वतो ऽभिनिवेशनं तत् प्रतिष्ठानम् । यदि बोधिसत्त्वः वस्तुन्यभिनिविश्य पारमितायां युञ्जीत, मिथ्यायोगोभवेत्, परमार्थतः कस्यचिदप्यभिनिवेश्यवस्तुनः सर्वथाभावेन विपरीताभिनिवेशात्, तस्साधकबाधकप्रमाणाभावभावतश्च ।
तथा हि- परैः परमार्थतः इष्टा विज्ञानव्यतिरिक्ता अर्थास्तावान्न प्रत्यक्षसिद्धाः, अर्थान्तरेण ज्ञानेन ग्रहणायोगात् । अर्थे सति साकारेण निराकारेण अन्याकारेण वा ज्ञानेन ग्रहणमिति त्रयः पक्षाः । तत्र तावन्न साकारेण चित्रवर्णादिदर्शनकाले एकज्ञानाभिन्नत्वादाकारणामप्येकत्वं प्रसज्येत, अथवा आकारभिन्नत्वादाकारवज्ज्ञानस्याप्यनेकात्मकत्वं प्रसज्येत ।
अनेकत्वं तावन्न युज्यत एव, एकैकपरमाणुग्राह्यज्ञानानुभवाभावान्न सिध्यति तावज्ज्ञानस्यैकत्वम्, तदसिद्धावनेकत्वमपि खल्वसिद्धम्, एकैकसहंतिस्वरूपत्वाद् अनेकस्य । चित्राकारव्यवस्थापनायै अनेकज्ञानोत्पादपरिकल्पनयापि ज्ञानस्य विषयं व्याप्य स्थितत्वाद् ग्राहकज्ञानानामुत्पादो ऽपि न सम्भवति, अमूर्त्तत्वाज्ज्ञानानाम् ।
अन्यच्च, सारूप्यं तावदेकदेशेन भवेत् सर्वात्मना वा । तत्र न तावत् सर्वात्मना- अर्थज्ज्ञानस्यापि जडस्वभावप्रसङ्गात् । न चैकदेशेन- एकस्य तावन्निरवयवत्वाद् । व्यावृत्तिभेदेनांशोपचारे ऽपि वस्त्वादिसारुप्यधर्माणां सर्वत्र (वज्रट्_123) विद्यमानत्वात् सर्वेण सर्वमवगम्येत । अथ तदुत्पन्नं तत्सारूप्यं चेत्येतद्द्वयेन वेदयतीति अर्थसारुप्यस्य समनस्तरप्रत्ययस्यापि ग्राहकत्वप्रसङ्गः ।
सत्यपि सारूप्ये परमार्थतः बाह्यार्थो न प्रत्यक्षसिद्धः, नीलाकारात्मनो ज्ञानस्य स्वसंविदितत्वात् । यतो हि प्रत्यक्षैव नीलादिविज्ञप्तिर्नापरा । यत्तद् विज्ञानं तदेवार्थग्राहकमिति चेत्? भवतु नाम प्रज्ञप्तितः, न तु परमार्थतस्तद् वेदनम्, आत्माकारस्य स्वसंविदितत्वात्, अत्यन्तपरोक्षत्वादर्थानां कथं तदाकारं ज्ञानं भवेदिति । स्वाकाराधानेन तावदुत्पादको हेतुर्नैव नियमेन सिध्यति, व्यभिचारात् ।
परमाणवः खलु नैव स्थूलप्रतीतिविषयः, सूक्ष्मत्वात्तेषाम् । न च संहिताः, तेभ्यो ऽनर्थान्तरत्वात् विकल्पविषयाणाम् असत्त्वाच्च । संहतार्थान्तरत्वे पृथक् प्रतिभासः स्यात् । आवृतानावृतयोश्च विरोधान्नैव तावद् युज्यत एकत्वम् । अनेकत्वे संघातस्य परमाणुरेव स स्यान्न त्वर्थान्तरः ।
न च तावन्निराकारपक्षः- नीलादिष्वकिञ्चित्करत्वात्तस्य । भावमात्रेण वेदने सति सर्वैः सर्ववेदनप्रसङ्गः, अविशिष्टत्वात् सर्वस्य । अतो नीलसंवेदनमिदम्, न पीतमिति व्यवस्था न स्यात्, व्यवस्थायाः कस्यापि हेतुविशेषस्याभावात् । विशेषस्य कस्यचिदभ्युपगमे स एव तावत् साकारत्वाभ्युपगमः । प्रतीतिस्वभावमात्रे तावद् विशेषाभावाज्ज्ञानात्मनि नाकारातिरिक्तं भेदकमन्यत् स्यात् ।
नैवान्याकारपक्षः, अतिप्रसङ्गात् । एवं हि सति रूपविषयकमाकारविज्ञानं तावत् परीक्षामर्हति, तथा हि- न तावत् प्रत्यक्षतो ऽर्थः सिध्यति, नानुमानादपि । अप्रत्यक्षस्यार्थस्य ज्ञानस्य च केनापि हेतुना सम्बन्धासिद्धेः । फलज्ञानाद् भिन्नस्य कारणमात्रत्वानुमाने नेष्टसिद्धिः, इतरस्य समनन्तरप्रत्ययस्य विद्यमानत्वात् । इतरत् प्रमाणं नास्ति, अतो तावन्नैव सिध्यति बाह्यो ऽर्थः ।
न तावत् परमार्थतः ज्ञानस्वभावता प्रत्यक्षेण सिध्यति, अद्धैतस्वभावताया असंविदितत्वात्, अन्यथा न को ऽपि तत्त्वद्रष्टा स्यात् । नानुमानेनापि एवंविधेनाकारेण कस्यापि हेतोः सम्बन्धस्यासिद्धेः ।
नन्वेवं कथं संक्लेशव्यवदाने स्यातामिति चेत्? न, त्वन्मते ताभ्यां सह तस्य कस्यचिदपि सम्बन्धस्यासिद्धत्वात् । तयोः परमार्थतः क्वचिदपि वस्तुनि (वज्रट्_124) सम्बन्धासिद्धेः । न तावत् तदुत्पत्तिलक्षणसम्बन्धः, सर्वथा परोक्षत्वात्तस्य । परोक्षेण सह सम्बन्धस्तु न केनाप्यर्वाग्दर्शिना ग्रहीतुं शक्यते । अविद्यादीनामविचाररमणीयत्वे ऽपि संक्लेशमूलत्वे नास्ति विरोधः, अविद्यादौ विचारेण तृष्णानिवृत्तौ व्यवदानम्, ततो विपक्षभूतलक्षणम् अविचारैकरमणीयमुपपद्यते, तदा परमार्थतो वस्त्वभावेन कथं तयोरप्यभावप्रसङ्गः । ये एतयोरेकान्तेन निर्हेतुकत्वमभ्युपगच्छन्ति, तेष्वेवायं प्रसङ्गः, न तु संवृतितः प्रतीत्यसमुत्पादवादिषु ।
अत एव परमार्थतः भावस्वभावसाधकं किञ्चिदपि प्रमाणं नास्ति, अस्त्येव च बाधकम् । इत्येवं तावत्- यदेकानेकस्वभावविगतं तत् परमार्थतो निःस्वभावम्, गगनारविन्दवत् । परैरिष्टाः सर्वे ज्ञानज्ञेयात्मकाः भावाकाराः, एकानेकस्वभावशून्या इत्यतो व्यापकानुपलब्धिः, एकानेकाभ्यां व्याप्तत्वात् स्वभावस्य । द्वयमेतत् तत्र नास्ति । एवं तावद् रूपाद्यायतनानां बाह्यवस्तूनां नैकत्वम्, आवृत्यनावृत्योर्विरुद्धर्मयोस्तत्रोपलब्धे । अपि च, विरुद्धधर्मसंसर्गे ऽप्येकत्वे विश्वमप्येकद्रव्यं स्यात् । ततो युगपदुत्पत्तिविनाशौ स्याताम् ।
नानेकत्वमपि, तथा हि- अनेकस्मिन् विभज्यमाने सति विभक्ताः परमाणव एव स्युः ततश्च पौर्वापर्यावस्थानं न स्यान्निरवयवत्वात् परमाणूनाम्, चित्तचैतसिकवत् । ततो दिशं व्याप्य अवस्थिता न प्रतिभासेरन् । अत एव दिग्भागभेदो ऽभ्युपगन्तव्य एव । सति चाभ्युपगमे कथं नाम भवेदेकत्वम् । अतः सिद्ध एव तावदेकानेकस्वभावविरहत्वं बाह्यार्थानाम् ।
नीलादिप्रतिभासिनो ज्ञानस्यापि नैकस्वभावत्वम्, चित्राकारग्रहितयावभास्यमानत्वात्, भिन्नसन्तानवर्त्त्यनेकविज्ञानक्षणवत् । यथासंख्यम् अनेकविज्ञानानि युगपत् प्रवर्तन्त इत्यपि वक्तुं न युज्यते निरवयवानाममूर्तानां खलु पौर्वापर्यावस्थितेरयुक्तत्वात् । तथावस्थानाभावे न तथावभासः ।
अथ स्यात्- विज्ञानं त्वेकमेव, मिथ्याकाराणां तत्रावभास्यमानत्वान्न नानात्वदोष इति चेत्? सति चैवं कथं ते तत्र भासेरन् मृषाः । अवभास इति प्रकाशात्मक उच्यते । तस्य ज्ञानगतधर्मत्वे सति मिथ्याकाराणां शशविषाणादिवदत्यन्ताभ्यावः स्यादिति कथमवभासेरन्निति ।
ततः प्रकाशात्मकाकारेभ्यः मृषात्वेनाभ्युपेतेभ्यः कस्तावदन्यः ज्ञानस्वभावः सद्भूतस्ते ऽवशिष्यते, प्रकाशात्मलक्षणत्वाद् विज्ञानस्य । नीलादयो ऽपि प्रकाशात्मकाः स्वभावेनावभास्यमानत्वात् । नीलादीनां स्वस्वभावाद् भिन्नं यदन्यत् प्रकाशरूपमिति सद्भूतं किमपि नाति, अन्यव्यवच्छेदापेक्षया विशेषे प्रायशो व्यवहारात् ।
विशेषाणां मिथ्यात्वे सर्वेषां मिथ्यात्वमतिविस्पष्टं स्यात् । निराकारस्य (मिथ्याकाररस्य) सत्याकारात्मनि (साकारात्मनि) ज्ञाने कथं नियमेनाअभासः स्यात्, तयोस्तावत् तादात्म्यलक्षणो वा तदुत्पत्तिलक्षणो वा सम्बन्ध एव नास्ति । सम्बन्धाभावे न खलु युज्यते ऽवभासनम्, अतिप्रसङ्गात् । अत एव नास्ति तावदसिद्धो हेतुः । भावानामन्याकाराभावान्नाप्यैकान्तिकः । न चापि विरुद्ध, सपक्षे सत्त्वात् । अत एव यथा यथार्थाश्चित्यन्ते विशीर्यन्ते तथा तथा । तथा चोक्तम्-
वस्तुस्वभावचिन्तायां यथा न सत्स्वभावता । एकानेकस्वभावो ऽपि न तेषां विद्यते तथा ॥
अपि चार्यलङ्कावतारे भगवतोक्तम् :
यथा हि दर्पणे रूपमेकत्वान्यत्ववर्जितम् । दृश्यते न च तन्नास्ति तथा चोत्पादलक्षणम् । बुद्ध्या विवेच्यमानानां स्वभावो नावधार्यते । तस्मादनभिलाप्यास्ते निःस्वभावाश्च देशिताः ॥
तथा चार्यमाधिराजसूत्रे ऽपि
यथैव आर्द्रं कदलीयस्कन्धं सारार्थिकः पुरुषु विपाटयेत् । बहिर्वा अध्यात्म न सारमस्ति तथोपमान् जानथ सर्वधर्मान् ॥
तस्मात् सर्वभावानां मायावदविचाररमणीयत्वादनभिनिवेशेन दानं दातव्यम्, न तु वस्तुप्रतिष्ठितेन इत्ययमर्थो ऽत्र युक्तिसङ्गतः । एवं दानादिषु यथा योगस्तथा आदर्शितः, नान्यत्र ।
यदि परमार्थत कस्यचिदपि वस्तुनो भावाभावाद् वस्तुप्रतिष्ठितेन दानं न दातव्यम्, तदा अवस्त्वभिनिवेशेन तु दानस्य कथैव का, अत एव न (वज्रट्_127) क्वचिप्रतिष्ठितेन इत्युक्तम् । बोधिसत्त्वेनाभावविकल्पो ऽपि प्रहातव्यः, भावग्राहाभावे सति तस्याप्यभावात् । संवृतौ तावद् देयदायकादयो भवन्त्येव । ततो वस्तुनो ऽभावे ऽपि तावदभिनिवेशो न युज्यत एवेत्यभिप्रायः । न रूपप्रतिष्ठितेन इत्यादिना बोधिसत्त्वेन न क्वचित्प्रतिष्ठितेन दानं दातव्यमित्येव विस्तरेणाभिहितम् ।
धर्मः इत्यनेन शब्देन धर्मायतनं परिगृह्यते, आयतनेन प्रपञ्चः अभिव्यज्यते, अतश्चक्षुरादीनि आध्यात्मिकायतनानि नोच्यन्ते । अनुत्पादादयो विकल्पा अपि न करणीया इति निदर्शनार्थ सुभूते, यथा इत्याद्युक्तम् । निमित्तं तु वस्तुस्वलक्षणं लिङ्गं वानुत्पादादि, तस्योद्ग्रहणं संज्ञा । तत्र निर्विकल्पन्तु अप्रतिष्ठितम् । अत एव न क्वचित् प्रतिष्ठितेन इति निर्दिष्टम् । अथवा समग्रेणैतेन गाम्भीर्यमस्य व्यपदिष्टम्, अध्यारोपावादान्तौ प्रतिषिद्धौ चेति ।
अस्मिन् दर्शने उपलम्भकानां ज्ञानपुण्यसम्भारपारिपूरोयोग्यत्वं प्रतिषिध्यते, एवं पूजानुग्रहकाम्यया यद् दीयते, तेनातितरां सम्प्रसादो जन्यते, न तु देय-दायक-प्रतिग्राहकानुपलम्भे प्रतिष्ठितत्वेन, एवं ह्यभावः, देयाद्यनुपलब्धत्वाद् विषयस्याभावाच्च । प्रथमपक्षे केनापि कस्यचिदपि देयस्याभावात् पुण्याभावः प्रसज्यते, (द्वितीयपक्षे तावत्) बोधिसत्त्वैः यो हि सत्त्वार्थं श्रम आस्थितः, सो ऽपि व्यर्थः स्यात् सत्त्वाभावात् । अत एव नाभावमात्रम् ।
भगवता देयादिवस्तूनां दृष्टत्वात्, न च विषयस्याप्यभावः । अन्यथा कथं भगवतार्थिजनेभ्यः पुत्रादयः प्रदत्ता इति सर्वाण्येतानि चोद्यानि मनसि निधाय तत्कस्य हेतोः? इति पृच्छायां यः सुभूते, बोधिसत्त्वः इत्यादिना विसर्जितम् ।
अयमभिप्रायः- सम्यग्दृटिविहितानि दानादीनि सुविशुद्धतया विशिष्टेष्टफलानि अभिनिर्वर्तयन्ति, न विपरीततया समुद्भूतानि, मिथ्यादृष्टिप्रवर्तितशीलाङ्गादिवत् । देयादिवस्तूनि यथोक्तन्यायेन कथञ्चिदप्यसत्त्वात् मिथ्योपलब्धान्येव, मरीचिकासु उदकोपलम्भवत् । तस्मात् तदुद्भूतः सर्वपारमिताइधिस्तावद् आत्मात्मीयविपर्यसोद्गतसोद्गतदानादिवदविशुद्धहेतोः सम्भूतत्वात् क्षीणबलः, देयाद्युपलक्षणप्राप्तानुपलम्भस्तु भूर्तार्थगोचरत्वादविपर्यस्तः, मरिचिकायामुदकानुपलब्धिवत् । तस्मादुपचितहेतुसम्भूतदानादीनि बृहत्फलानि, पुष्टबीजाभिनिर्वृत्ताङ्कुरादिवत् । अत एव अनुपलम्भप्रतिष्ठितानि दानादीनि सम्यग्दृष्टिसम्भूतानीति विपश्चित्सु प्रसादातिशयं जनयन्ति, नान्येषु ।
ततश्च दानादिष्वप्रवृत्ततया पुण्याभावो देयादीनां चैकान्ताभावो नेष्यते, संवृतिसत्त्वाभ्युपगमात् । असमाहितावस्थायां मायावदुपलम्भान्न सर्वत्रानुपलम्भः । तदा चाधिमुक्तितः प्रादुर्भावादेवानुपलम्भो व्यवस्थाप्यते । समाहितावस्थायाम् उपलम्भस्यात्यन्ताभावमात्रम्, तदा दानादिषु प्रवृत्तिर्नाभ्युपेयते प्रयोगावस्थायां (वज्रट्_129) व्युत्थितावस्थायां वा क्रिययोपालम्भो न युज्यते । अतो महाफलत्वाय पारमितायोगस्यैदार्यमभिधीयते । संवृतौ कार्यकारणभावस्योपदर्शनाद् अपवादान्तो ऽपि निषिध्यते ।
3. रूपकायाप्तिकामता-स्थानम् :
त्रिधा पुण्यमाकाशसमं भवति- सर्वत्रगोदाराक्षयत्वैः । लौकिकलोकोत्तरपुण्यप्रसवनात् सर्वत्रगत्वम्, लौकिकं तावत् पुण्यमसमाहितावस्थायां प्रसूयते, लोकोत्तरं तु समाहितावस्थायामेव । विशिष्ट-विशिष्टतरगमनादुदारत्वम् । यावत्संसारमपर्यादानादक्षयत्वम् । तदभावान्न रूपप्रतिष्ठितेन दानं दातव्यमिति बोधिसत्त्वः तथागतरूपकायाप्तिकामनया दानादिषु कथं प्रवर्तेतेति चेदिति चोद्यमाशङ्कय तत्किं मन्यसे सुभूते इत्यादिना रूपकायाप्तिकामता स्थानं निर्दिष्टम् । अर्थतो ऽत्र रूपकाये तथागतत्वाभिमानलक्षणो विपक्षो ऽपाक्रियते । लक्षणसम्पदा इति निमित्तमात्राभिधानेन तथागतस्य निखिलो रूपकायः लक्षणानुव्यञ्जनैरलङ्कृतः परिदीपितः ।
तत्र लक्षणानि तावत् चक्राङ्कहस्तपादतादीनि द्वात्रिंशत् पदबाहुल्यभिया नोल्लिख्यन्ते, सूत्रेषु यथोक्तानी तथैवावधेयानि । स्थानस्थोत्तप्तपूर्णत्वेन निष्पत्तिः । (वज्रट्_130) अशीतिरनुव्यञ्चनानि ताम्रवर्णनखादीनि, यथासूत्रं ज्ञातव्यानि । तानि लक्षनादीन्यपि मायानिर्मितबुद्धलक्षणवन्मिथ्यैव । अत एव तथाविधे रूपकाये छन्दप्रणिधानाभ्यां स्थातव्यमिति निर्देशः ।
अथेमानि लक्षणानि परमाणुसञ्चयस्वभावानि वा तदारब्धावयविरूपाणि वा भवेयुरिति? न तावत् प्रथमः पक्ष, परमाणूनां पूर्वमेव निरस्तत्वात् । नापि द्वितीयः, असति चारम्भके तदारब्धावयविनो ऽप्यभावात्, पूर्वोक्तावरणादिविरुद्धर्मोपलम्भाच्च । तदुद्दिष्टेनाभिहितो ऽभिप्रायः । एतद् विचिन्त्य सुभूतिराह नो हीदम् इति व्यक्तीकृतम् ।
यदि लक्षणानि मृषा भवेयुस्तर्हि कथं भगवता तत्तत्सूत्रेषु लक्षणानि समुपदिष्टानीति चिन्तयन् तत्कस्य हेतोः इति पृष्ट्वैवं सैवालक्षणसम्पद् इत्याह । सा लक्षणसम्पत् तावन्नोक्ता परमार्थतः । मायानिर्मितबुद्धवदित्यनेन मृषास्वभावत्वमात्रमुक्तमित्यर्थः ।
आर्यसुभूतिनोक्तमेवार्थ परिपूरयितुं भगवता यावत् इत्याद्याह । यावल्लक्षणसम्पद् इति परमार्थतो यावल्लक्षनसम्पत्स्वभिनिवेशः, तावन्मिथ्याभिनिवेश एवेत्यर्थः, यथोक्तमेव पूर्वम् । यावल्लक्षणसम्पद् इति तद्वीपरीततया अभिहितेत्यवगन्तव्यम् । एतेन योगसमापत्त्या कथं प्रतिपत्तव्यमिति तद्देशितम् । कथमन्तद्वयं परिवर्ज्य चित्तं प्रग्रहीतव्यमिति तन्निर्दिष्टम् । एवम् इति मायानिर्मितबुद्धवल्लक्षणतस्तथागतो द्रष्टव्यः । अनेनापवादान्तो निराक्रियते, संवृतौ भगवतो रूपकायस्पाप्रत्याख्यानात् । अलक्षणं तावत् परमार्थे द्रष्टव्यम्, कस्यापि लक्षणस्यासिद्धत्वात् । अनेन तावत् समारोपान्तो निराक्रियते । तथागतस्य रूपकायावाप्तये प्रणिधानैस्त्वौदार्यमुक्तम् । तदनुपलम्भतया च गाम्भीर्यम् । रूपकायाप्तिकामतास्थानं तावदुक्तम् ।
4. धर्मकायाप्तिकामतास्थानम् : (अ) प्रवचनधर्मकायः
द्विविधः खलु धर्मकायः- प्रवचनधर्मकायः, अधिगमधर्मकायश्च । अधिगमधर्मकायो ऽपि द्विविधः-ज्ञानहेतुकः पुण्यहेतुकश्च । तत्रानागते पुरुषेषु पञ्चकषायाणामाधिक्यादेवंविधधर्मरत्नस्य अत्यन्तगम्भीरोदारफलत्वात् प्रवचनधर्मकाये ऽनाप्तत्वाशङ्कया अस्ति इति पृष्टवान् । अस्ति इति पदं तु केचित् सत्त्वाः ये इमेष्वेवंरूपेषु सूत्रान्तपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यन्ति इत्यर्थपदेन योज्यम् । पश्चिमायां पञ्चशत्याम् इत्यत्र शतानां पञ्चकं पञ्चशती, भगवतां शासनं पञ्चशतवर्षाणि स्थास्यतीति प्रसिद्धेः । अत एव पश्चिमेति विशेषणं विहितम् । तस्मिन् काले पञ्चकषायाणामधिमात्रता भवति ।
सद्धर्मविप्रलोपस्तावद् अधिमुक्ति-वाचन-स्वाध्याय-उपदेश-आख्यान-श्रवण-चिन्तादीनां हानिः । एवं इति गम्भीरोदारार्थः । सूत्रान्तपदेषु इति सूत्रान्तदेशनावाचः, ताभिरर्थस्य प्रतिपाद्यमानत्वात् ज्ञाप्यमानत्वाच्च । अनेन निमित्तमात्राभिधानेन समस्तप्रवचनधर्मकायस्तावत् परिदीप्यते । अथवा सूत्रान्तपदेषु इत्यभिधियमानार्थकेषु । अस्मिन् कथने ऽएवम्ऽ; इत्यनेन तावद् गम्भीरौदार्ये योजनीये । भाष्यमाणेषु इति प्रथमतया अभिधियमानेषु । द्वीतीयतया (वज्रट्_132) अर्थप्रतिपादकेष्वित्यर्थः । अर्थतो ऽविपर्ययस्तसंज्ञैवात्र भूतसंज्ञेत्यभिधीयते न तु शब्दाभिनिवेशमात्रम् ऽअयं भूतःऽ; इति संज्ञा । अनेन तावदर्थसिद्धौ अभूतसंज्ञा निराक्रियते ।
सर्वत्राप्रतिहतज्ञानेन तान् भाविनः (सत्त्वान्) प्रत्यक्षवद् दृष्टवा भगवान् सूभूतिसशयं परिहर्तुं भविष्यन्ति इत्याह । महासत्त्वाः इति तेषां बोधिसत्त्वगुणानां सम्प्रदर्शनार्थमुक्तम् । ते ऽपि यथा प्रतिपन्नाः, यादृशेन च हेतुना सम्प्रतिपन्नाः, याद्दृशेन कल्याणमित्रेण परिगृहीताः, यथा वा भूतसंज्ञया संज्ञितास्तान् भगवान् परिदीपितंवान् । शीलवन्तः गुणवन्तः प्रज्ञावन्तश्च इत्यनेन तु क्रमशो ऽधिशीलाधिचित्ताधिप्रज्ञाश्चेति शिक्षात्रयप्रतिप्रत्तिसमन्विताः निर्दिष्टाः । शीलप्रज्ञयोश्च पृथगुक्तत्वाद् गुणस्तावदत्र ध्यानजो ग्राह्यः, गोबलीवर्दन्यायेनेति ।
क्लेशवति पश्चिमकाले तु कथं तथाविधशीलादिगुणवन्तो भविष्यन्तीति चिन्तयित्वा सूभूते इत्याद्याह । पर्युपासिताः इति चीवर-पिण्डपातादिभिः पर्यूपासिताः, छत्रध्वजपताकादिभिश्च पूजिता भविष्यन्ति । अवरोपितकुशलमूलाः तावदववादमनुशासनीं च शिरसादाय शीलादिगुणसम्पद्भ्यः प्रयत्नवन्तो द्रष्टव्याः । तेषां ततो ऽपि बहुतरं पुण्यमभिधातुं अनेकबुद्धशतसहस्रः इत्युक्तम् । (वज्रट्_133) अनेन तेषां हेतुसिद्धिः संदर्शिता । ज्ञातास्ते तथागतेन इति नामान्याशयाश्च । दृष्टास्ते तथागतेन इति कायाः ।
अनेन तावत् कल्याणमित्रपरिगृहीता इओति दर्शितम् । तच्च सम्प्रस्थितानां प्रोत्साहनार्थम्, विप्रस्थितानां ह्रीसञ्जननार्थमाह । अन्यथा सर्वेषां ज्ञानात् ज्ञानात् सर्वज्ञो भगवानिति देशनया को विशेषो दर्शितो भवेत्, अथवा तत्तेषां भव्यत्वं यत् तत्प्रमुखं कृत्वा देशना प्रवर्तितेत्यवगन्तव्यम् । भव्या ज्ञाता इति वाक्यशेषः । अतस्तेषामशेषं पुण्यस्कन्धसङ्ग्रहं दर्शयितुं सर्वे ते सत्त्वाः इत्याह । प्रसविष्यन्ति इति पुण्योत्पादकालः, प्रतिग्रहीष्यन्ति इति निरोधकाले तद्वासनाः परिग्रहीष्यन्ति ।
एभिः सर्वैरभूतसंज्ञां निराकृत्य भूतसंग्योत्पादने छन्दप्रणिधानाभ्यां स्थातव्यमित्यादर्शितं तथा स्थानस्यास्यौदार्यमपि परिदीपितम् । तत्कस्य हेतोः? ते अनेकबुद्धशतसहस्रपर्युपासिताः कथं ज्ञास्यन्त इति ज्ञापकहेतौ परिपृष्टे ऽत्र तेषां बोधिसत्त्वानां महासत्त्वानाम् इत्याद्याह । अनेन तवत् योगसमापत्तौ कथं प्रतित्तव्यमित्येतत् प्रकाशितम्, गम्भीरता चाप्यभिहिता ।
अहमित्यात्मग्रहणम् आत्मसंज्ञा सा । ममेति ग्रहणं सत्त्वसंज्ञा, तस्यैवात्मन आ स्थितिं परिग्रहः जीवसंज्ञा, पुनः पुनः गतिषु गमनादानं पुद्गलसंज्ञा । यदि नास्ति आत्मादिसंज्ञा तर्हि किं श्रावकादिवद् अस्ति रूपादिधर्मसंज्ञा? इति चिन्तायां न धर्मसंज्ञा इत्युक्तम् । परमार्थतः कस्यचिदपि धर्मस्याभावादित्यभिप्रायः ।
अथ किम् उच्छेदवादिनामिव अभावसंज्ञा? इति चिन्तायां एवं नाधर्मसंज्ञा प्रवर्तते इत्युक्तम् । संवृतौ अविचाररमणीयतया धर्माणां सद्भावात् संवृतिपथस्थितेभ्यस्तावद् अधर्मसंज्ञा नैव युक्तिमती, न तु परमार्थज्ञानस्थितेभ्यः । तन्निषेधान्न कश्चिद् धर्म उपलभ्यते यत्राधर्मसंज्ञा प्रवर्तेत, धर्माग्रहणे तदभावात् । विषयाभावनिषेधस्तु न कुत्रापि सम्भवति, तद्यथा सत्ये ऽपि विज्ञप्तिमात्रे विज्ञप्तिमात्रतेयमिति विकल्पयन् न विज्ञप्तिमात्रतायां स्थितः, एवमेव सत्ये ऽप्यधर्मे ऽधर्मबोधस्य तत्रावस्थानासम्भवात् सर्वं समानम् ।
यद्यात्मादीनामसत्त्वं तदा तत्र तत्संज्ञाया अप्रवृतौ सत्यां ऽआत्मैव रूपमिदम्ऽ; इत्यादिकं नाममात्रमिति नामाभिनिवेशसंज्ञा तेषां भवेदिति मत्वा संज्ञापि इत्युक्तम् । नाम्नस्तावद् रूपस्कन्धान्तर्भूतत्वाद् रूपादिवद् मिथ्यात्वमेव, विप्रयुक्तमपि प्रज्ञप्तिमात्रमिति । तस्मात् संज्ञापि मिथ्याभिनिवेश एवेत्यभिप्रायः ।
यद्येवं तर्हि तस्यामवस्थायां सर्वसंज्ञाविगमाद् मृत-निरोधसमापन्नपुद्गलवद् योगिनो ऽभाव एव स्यादिति नापि..... नाअंज्ञा प्रवर्तते इत्युक्तम् । येन ते योगिनो भवन्ति, तच्च योगिज्ञानं तथ्यसंवृतिस्वभावमिति । व्युत्थाने शुद्धलौकिकज्ञानमुद्भवतीति, अन्यथा अहेतुकमेव तद् भवेत् । यद् योगिज्ञानं संवृतिस्वभावं तत् केनावगम्यत इति चेत्? तेनैव हेतुना । यथा प्रत्यात्मवेद्यतया पुद्गलनैरात्मावबोधेन आत्मस्थितं पुद्गलनैरात्म्यमधिगम्यते, अत्रापि तत्तुल्यम् । ज्ञानं संवित्तिश्च न संवृतौ नाभ्युपगम्येते । योगिना स्वलक्षणप्रत्यभिमुखीकरणात् तत्रस्थं नैरात्म्यं नोपलभ्यते, तदानीमतीतादेस्तावदसंनिहितत्वादनन्तत्वाच्च ।
कथ तर्हि? निःस्वभावताविचारेण तद्गोचरीभूतानां सर्वधर्माणां सामान्येन नैरात्मसङ्ग्रहात् या खलु व्यवस्था सैव युगपदुलम्भनम् । तेषां तज्ज्ञानमपि परमार्थतो ऽविषय एव, (तथापि) सत्यस्वप्नज्ञानवदविसंवादकत्वेन प्रामाण्यं व्यवस्थाप्यते । सामान्येन तत्र तदात्मभावो ऽपि संगृह्यते, न तत्र पृथक् तदालम्बकत्वम् । तस्मात् सति नैरात्म्यद्वयावबोधे तेषामनेकशतसहस्रबुद्धानां पर्युपासनं प्रतीयते । बुद्धानामपर्युपासनया तावन्न सम्भवति तदवबोधः तैर्थिकवत् । स तु संसारे न उचितो भवतीत्यभिप्रायः । अनया योगसमापत्त्या कथं प्रतिपत्तव्यं कीदृश्या च भूतसंज्ञया तत् संज्ञातव्यमिति संदर्शितं तद्गाम्भीर्यमित्यपि च परिदीपितम् ।
आत्मादीनामसत्त्वे तेषामात्मादिसंज्ञाया अभावात् पदसमुदायादिभिः आत्मत्व सूक्तं दुरक्तं च लक्षणं धर्माधर्मसंज्ञं किं तेषु नियमेन न प्रवर्तते? नैवम्, यदि बोधिसत्त्वाना न भवेत् तत्र संज्ञा, (तर्हि) अयुक्तयुपपन्नतीर्थकरधर्मान् परित्यज्य भगवद्देशितेषु धर्मेषु तदधिगमाय कथं छन्द उत्पादनीय इत्याशङ्कायां तत्कस्य हेतोः? इति तत्समाधानाय सचेत् सुभूते इत्याह ।
अयमभिप्रायः- एकानेकस्वभावविचारेण यथा रूपादिलक्षणधर्मा न संविद्यन्ते, तथा देशनाधर्मा अपि । यत्र धर्मसंज्ञा तत्रात्मादिसंज्ञा अपि निश्चयेन नैव प्रहीणा, धर्मनिमित्तग्रहणमूलत्वात् तस्याः । धर्मनिमित्तग्राहकमनसिकारस्य (वज्रट्_136) तस्या एव मनसिकाररूपत्वात् मैत्रीप्रभृतिषु तत्त्वमनसिकारासद्भावे नात्मदृष्टिः परिहीयते । अत एव एकमेव यानम्, तच्च महायानमित्युक्तम् ।
अपि च, बोधिसत्त्वानां सा धर्मसंज्ञा यद्यवश्यमनुत्पन्नदर्शनमार्गः स्यात् तथा सति तेन कथमात्मादिसंज्ञा प्रहीणा स्यात्? दर्शनमार्गप्रहेयत्वात्तस्याः । अतः सर्वमेतत् परीक्ष्य स एव तेषामात्मग्राहो भवेत् इत्युक्तम् । तस्य तद्धेतुत्वात् तदनुशयाप्रहीणत्वाच्चेत्यभिप्रायः । अन्यथा तयोर्भिन्नाकारत्वात् कथं धर्मसंज्ञैव आत्मग्राहः स्यादिति । धर्मास्तावदत्र युक्त्युपपन्नागमलक्षणा एवेष्टाः तद्विपरीता अधर्माः । एवं सति तत्तत्सूत्रेषु कथं भगवता बोधिसत्त्वेभ्यः सद्धर्मः परिग्राहयिष्यते? एवमनुचिन्त्य तत्कस्य हेतोः? इति परिपप्रच्छ । तदर्थं सुभूते इत्याद्याह । नोद्ग्रहीतव्यः वितथमार्गेण विपरीताभिनिवेशक्षणेन नोद्ग्रहीतव्यः, सत्य इति नाभिनिविष्टव्यमिति वाक्यार्थः । अभिप्रेतसिद्ध्यर्थं कोलोपमदेशितस्य लक्षणस्य न ग्रहणनिषेध इत्यभिप्रायः ।
तस्मात् इत्यादिना स एवार्थः पदान्तरै प्रयुक्तः, यतो हि सर्वो धर्मो ऽधर्मश्च सत्य इत्यभिनिवेशस्य विपरीताभिनिवेशत्वाद्, युक्त्योपपन्नो य आगमसमूहः संसारार्णवोत्तरणाय प्रोक्तः कोलोपमः स (यदा) पारं गत्वा निष्प्रयोजनत्वात् परित्याज्यो भवति, किमु (तदा) ते ऽयुक्तयोपपन्नास्तैर्थिकानामिवाधर्माः । सप्रयोजनमपि तदालम्बनं मया नानुज्ञातमित्येवमुक्तवान् तथागतः । अन्यथा धर्माधर्मादिकं यदि सत्यस्वभावं स्यात् तदा परमार्थविषयत्वात् तदभिनिवेशस्य संसारपारगतेष्वपि युक्तिसहं (वज्रट्_137) स्यादिति, किमिति तथागतः तन्निषेधतीति? इति तु संग्रहार्थः । तथा आर्यरत्नकरण्डसूत्रे ऽपि भगवता उक्तम्-
"भदन्त सुभूते कोलोपमं धर्मपर्यायजानद्भिर्धर्मा एव प्रहातव्याः, प्रागेवाधर्मा इति । यो हि धर्मः प्रहीयते, सो ऽपि नाधर्मः इति ।"
यः सूत्रादिधर्मपर्यायः स कोलोपम उच्यते । धर्मा एव इत्येतद् उपलक्षणम् । तेन रूपादयो मार्गलक्षणाश्च धर्माः संगृह्यन्ते । अधर्मा इत्यपि उपलक्षणमात्रम्, तेन प्रसिद्धविरुद्धाः अधर्मलक्षणाः परपरिकल्पिता आत्मादयश्च उपदिष्टास्ते ऽपि संगृह्यन्ते । अथवा धर्माधर्माभिधेयाभिधानात् न सर्वसंग्रहे दोषः । अनेन तावद् विक्षेपं नीगृह्य कथं चित्तं प्रग्रहीतव्यमित्येतद् दर्शितम् ।
[ब] अधिगमधर्मकायस्थानम् : [1] ज्ञानहेतुधर्मकायः ननु धर्मादयः सर्वे परमार्थतो मिथ्यास्वभावाः, तदा अभिसम्बुद्धो भूत्वा ऽभगवता सर्वे धर्मा देशिताःऽ; इति तदपि मृषैव स्यात्, अत एव बोधिसत्त्वैः तथागतज्ञानहेतुमधिगमधर्मकायं प्राप्तुं छन्दो न जनयितव्यः, इत्येतद् विचार्य ज्ञानहेतुधर्मकायावाप्तये छन्दोत्पादनाय तत्किं मन्यसे सुभूते इत्यक्तम् ।
अनेनार्थतः परमार्थस्तु अनुत्तरा सम्यक्संबोधिरिति अभिसम्बुद्ध इत्येतयोः (वज्रट्_138) ग्रहणमपि विपक्षतया परिदीपितम्, तथ्यसंवृतिस्वभावं तु तथागतस्य ज्ञानहेतुं ज्ञानधर्मकायं प्राप्तुं छन्दः प्रणिधानं च प्रदर्शिते । अनुत्तरा सम्यक्सम्बोधिः इत्युपलक्षणमात्रपरिदीपनेन श्रावक-प्रत्येकबुद्धादीनां प्रतिपत्तिभेदेन भिन्नः ज्ञानहेतुको ऽधिगमकायस्तावन्निर्दिश्यते । श्रावकादीनामपि गुणा बोधिसत्त्वेनावगन्तव्या एव, अन्यथा कथं तावत् सर्वज्ञपदलाभः ।
संवृतिस्वभावस्त्वेवम्- सम्बोधिः सम्बोद्धव्यं देशना देशितव्यमित्यादयः सर्वे पर्यायाः । भगवता कं परमार्थाभिप्रायमभिलक्ष्य सर्वं मिथ्यैवेत्युक्तम्, तदुक्ताभिप्रायं संगृह्य आर्यसुभूतिस्थविरः यथाहं भगवतो भाषितस्यार्थमाजानामि इत्येतदवोचत् । यथाहमाजानामित्यभिप्रायविवरणम् । कस्मान्नाभिसम्बुद्धः, धर्मदेशना च न स्त इति चिन्तायां तत्कस्य हेतोः? इति । अग्राह्यः इति परमार्थस्तावन्निर्विकल्पज्ञानगोचरो ऽपि न भवतीति उक्तपूर्वम् । अनभिलाप्यः शब्दाविषयत्वादिति । सर्वे शब्दगोचरास्तावत् समारोपितसामान्यमात्रात्मकाः, सामान्यस्य चाभावरूपत्वात् । इमौ द्वौ (शब्दौ) अभिसम्बुद्धाभावस्य धर्मदेशनाभावस्य च यथाक्रमं हेतुतयाभिहितौ ।
ननु स्युः सर्वे भावा अग्राह्याः अनभिलाप्याः, तथापि स्वलक्षणधारणात् परमार्थतः धर्मस्वभावतास्थिता एवेत्याशङ्कायां न स धर्मः इत्याह । सर्वभावानां परमार्थतः स्वभावेन परिनिर्वृत्तत्वान्न सम्भवति स्वलक्षणधारकत्वम् । यद्येवं तर्हि भगवता अभावो ऽभिसम्बुद्धो द्रष्टव्य इति विचार्य नाधर्मः इत्युक्तम् । स तु प्रसज्यप्रतिषेधस्वभावः अनेन तावत् योगसमापत्तिं निर्दिश्य अध्यारोपो ऽपवादान्तश्च निरस्तौ । तत्कस्य हेतोः? इत्युपपत्तिः पृच्छ्यते, तदर्थं असंस्कृतप्रभाविताः इत्याह । असंस्कृतत्वं तावद् धर्माणां परमार्थस्वभावः, तच्च युक्त्या विचार्यमाणमनुत्पत्तिलक्षणमेव पर्यवस्यति, यथा पूर्वं विचारितम् ।
उक्तं भगवता धर्मसंगीतौ-
ऽयो आनन्द, धर्मो ऽनुत्पन्नः, अनिरुद्धः, अस्थितः अविकृतस्तदुच्यते आर्यसत्यमितिऽ; । इदमानन्द, अभिसन्धाय तथागतेन असंस्कृतप्रभाविता आर्यश्रावका इति देशितम्, यथा पूर्वमुक्तम् ।
अयञ्च ऽउत्पादाद् वा तथागतानाम्, अनुत्पादाद् वा तथागतानाम्, नित्यं तथैव सत्त्वान्निर्विकारत्वाच्चासंस्कृतः, तदधिगमादार्यपुद्गलाः तत्प्रभाविता भवन्ति, धर्मतत्त्वाधिगमेन प्रभावितत्वादार्यणाम् । अन्येषु तत्त्वसद्भावो नैव तावद् युज्यते, तच्च (तत्त्वं) असंस्कृतमपि न (स्यात्) प्रसज्यप्रतिषेधस्वभावाभावात्, भावस्वभावस्वात्तस्य । आर्यैः नान्यविधो भावस्वभावो ऽवबुध्यते, तद्भिन्नस्वभावस्यैवाधिगमात् । भावग्रहणाभावेन तदभावरूपत्वे सति भावग्राह एव तावत् प्रसज्यते । अत एव आर्यसन्धिनिर्मोचनसूत्रे उक्तम्- ऽन तत्त्वस्य भावादितरो ऽर्थःऽ; इति ।
अतः यथोक्तदोष आपद्यते । तत्तु (तत्त्वं) परमार्थतो नास्ति भावस्वभावः, असिद्धैव भावस्वभावता कस्यापि । भावस्वभावतेव तदपि (वज्रट्_140) संस्कृतं प्रसज्येत । अतः अभावरूपत्वेन धर्मेषु सत्त्वादतत्त्वमेव स्वभावेन तत् । सर्वेषामपि तज्ज्ञानप्रसङ्गः, भावस्वभाववत् । संक्लेशहेतुप्रसङ्गो ऽपि दुर्निर्वारः स्यात् । अत एव तेषु आर्यसन्धिनिर्मोचनादिषु- ऽन तत्त्वस्य भावादितरो ऽर्थःऽ; इत्युक्तम् । अत एव न धर्मो नाधर्मः इत्युवाच । अनेन भावाभावसदसदादीनां निषेधरूपं देशितम् । अपि चानेन विक्षेपनिग्रहो ऽपि निर्दिष्टः । एतत्सर्वैः स्थानस्यास्य गम्भीरत्वमपि संदर्शितम् ।
(2) पुण्यहेतुकधर्मकायः
यदि भगवतो ऽभिसम्बोधिर्वा धर्मदेशना वा नास्ति कश्चिओद् धर्मः, कथं तर्हि बोधिसत्त्वेन पुण्यहेतुधर्मकायं प्राप्तुकामेन सद्धर्मपरिग्रहे ऽनुप्रवर्तितव्यमिति विचिन्त्य पुण्यहेतुधर्मकयकामताच्छन्दोत्पादनाय तत्किं मन्यसे सुभूते इत्युक्तम् । तत्र सप्तरत्नानि तावत् स्वर्ण-रौप्य-वैडूर्य-अश्मगर्भ-मुसारगल्व-लोहितमुक्ता-स्फटिकाः आर्यसद्धर्मपुण्दरीके उक्तानि । ऽचतुर्दीपादानां सहस्रं (वज्रट्_141) साहस्रो लोकधातुः । तत्सहसं द्विसाहस्रः । तत्सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातुःऽ; । ततो निदानम् इति रत्नदानानां निदानात् ततः पुण्योद्भवः, तदहेतोः सम्भवतीत्यर्थः । सर्वाणि कुशलचित्तानि, तदुत्पन्ना वासनाः पुण्यानि । तेषां राशिः स्कन्ध इति । फलबाहुल्यात् तद्बाहुल्यम् । बहु इति विशेषणम् । बहु बहु इति द्विरुक्त्या बाहुल्याधिक्यम् ।
यदि परमार्थतः सर्वे (धर्माः) अनुत्पन्नाः, कथं ततो निदान पुण्यस्कन्धं प्रसुनुयात्? इत्याशङ्क्य तत्कस्य हेतोः? इत्युक्त्वा स्वयमभिप्रायं विदित्वा अस्कन्धः इत्यभिहितवान् । परमार्थत इति शेषः । प्रज्ञप्तिसत्त्वात् स्कन्धानां न पुण्यस्कन्धो भावरूपेण सम्भवति । पुण्यमपि वासनास्वरूपमवस्थाविशेषे उपचर्यते । भावानां स्थिरत्वेन अभिसंस्कारेण अप्रवृत्तत्वात् चित्तमपि प्रज्ञप्तिसन्मात्रमेव । एकानेकस्वभावेन प्रतिस्वं परीक्षायां मिथ्यैव तावत् स्वभावः । अत एव न पुण्यस्कन्धः परमार्थतो विद्यते ।
अनेन योगसमापत्तिः परिदीपिता, अध्यारोपान्तश्च निषिद्धः । विद्यन्त एव पुण्यस्कन्धाः संवृतौ । अत एव पुण्यस्कन्धस्तथागतेन भाषितः इत्युक्तम् । यद्येवं न स्यात्, परमार्थतः स पुण्यस्कन्धो भवेत् (तदा) परमार्थस्य शब्दागोचरत्वात् न भवेत् तदभिधानम् । अभाषितमित्येवं वचनं निरर्थकमिति चेत्? यतो भाषितास्तस्मात् संवृतावेवेत्यवगन्तव्यम् । अनेनापवादान्तस्य निषेधो निर्दिष्टः । एवमार्यसुभूतिना अन्तद्वयपरिहारः कृतः ।
तदनन्तरं पार्षदा उदारधर्मश्रवणभव्याः, तेन च बहुतरं पुण्यमिति आवेदितुं भगवता यश्च खलु पुनः सुभूते इत्याद्युक्तम् । अनेन तथागतानां (वज्रट्_142) पुण्यहेतुकाधिगमकायस्य प्रवचनकायतो निर्जातत्वात् ततश्चतुष्पादिकायामपि गाथायां देश्यमानायां (यदा) तादृशं पुण्यायतनं भवेत् (तदा) तथागतानां पुण्यहेतुकधर्मकायस्य तु कथैव केति निर्दिश्यते । नायं पदार्थः, (तथापि) सामर्थ्यलभ्यो ऽयमर्थ इत्यदोषः । एतेन परमार्थतः धर्मदेशनायाः अभिसम्बुद्धस्य चाप्यसत्त्वे संवृतौ तावत् पुण्यकायदेशनायाः सत्त्वात् बोधिसत्त्वैः पुण्यमधिगान्तुं प्रवर्तयितव्यमेवेत्यभिप्रायः ।
अनेन तावद् विशिष्टपुण्यप्रतिपादनेन औदार्यमस्य परिदीपितम्, तदुत्पादाय च छन्दप्रणिधाने निर्दिष्टे । षट्पादिकाया गाथायाः सत्त्वे ऽपि चतुष्पादिका इति विशेषीकृता । गाथा इति यत्र न यतिओ, ऽपादऽ; शब्देन चतुःपादं गाथापरिमाणं परिगृह्यते । उद्गृह्य इति स्वाध्यायं विधाय । देशयेत् इति पदानि । सम्प्रकाशयेत् इत्यर्थः । असंख्येयम् इति संबहुलम् । अप्रमेयम् इति प्रमविषयातीतत्वात् । अनेन चार्थतः पुण्यानुत्तिविपक्षस्तावन्निराकृतः । पुण्यमित्युपलक्षणमात्रमेतेन तथागतस्य समस्तः पुन्यसम्भारो निर्दिष्टः ।
किमिति श्रद्धेयमात्रमुत युक्तितो ऽवगम्यमिति मनसि कृत्वा तत्कस्य हेतोः? इति पृच्छायाम् अतो निर्जाता हि सुभूते, तथागतानामर्हतां सम्यक्संबुद्धानामनुत्तरा सम्यक्संबोधिः इति युक्तिवचनमभिहितवान् । एवं (वज्रट्_143) बहुतरं पुण्यम् इति तच्च बृहत्फलत्वात्तत् बहुतरं पुण्यम्, न तु स्वरूपतस्यस्य कायाभावात् । रत्ननिर्जातं तत्पुण्यं तु महापरिभोगादि गौणसाअंसारिकं फलं प्रापयति । प्रज्ञापरिगृहीतत्वे सति दानादीनां महाबोधिफलमधिगम्यते, न तु प्रादेशिकानाम् । धर्मदानेन तावदक्षयाप्रतिमतथागतपदप्राप्तेः तन्महत्त्वं किमिति न प्रसक्तम्? यथा धर्मेणानुग्रहो न तथा रत्नैः परेषामनुग्रहः । तथा हि परेभ्यः सम्प्रकाशितेन क्रमशो ऽनेन धर्मेण क्षिप्रमेव बुद्धत्वपदं लभ्यते, न तु रत्नैः । अत एव परेभ्यः परानुग्राहकत्वाद् रत्नदानाद् धर्मदानं विशिष्टमित्याभिसन्धिः ।
अतो निर्जाताः इति संसाध्यते । दशचरितानि निःश्रित्य पारम्पर्येण प्राप्यन्त इत्यर्थः । तानि तावद् दश चरितानि- लेखनं पूजनं दानं वाचनं श्रवणम् उद्ग्रहणम् सम्प्रकाशनं स्वाध्यायः चिन्तनं भावना चेति । अतो निर्जाताश्च बुद्धा भगवन्तः इति संवृतौ एतान्याश्रित्य बुद्धाः प्रज्ञप्ता इति (वज्रट्_144) वाक्यशेषः परमार्थतस्तु बोधिः बुद्धश्च भिन्नौ न स्तः । अनेन तावत् पुण्यस्य परमवैशिष्टयपरिदीपनेन तदुत्पादयितुं छन्द-प्रणिधानाभ्यां स्थातव्यमिति देशितम् ।
यदि परमार्थतः सर्वधर्मानुत्पाद एव तदा सर्वे बुद्धधर्मा अप्यनुत्पन्ना एव भवेयुः तत्कथम् अतो निर्जाता अनुत्तरा सम्यक्संबोधिरिति? न बुद्धानां बोधेर्भिन्नत्वमिति विचार्य तत्कस्य हेतो? इति परिपृच्छा, एतदर्थमत्र बुद्धधर्माः इत्युक्तम् । बुद्धप्रज्ञप्तिहेतुका अनुत्तरसम्यक्संबोधिलक्षणा धर्मा एव हि बुद्धधर्माः । तस्मान्नैव केवलं बोधिभिन्नाः परमार्थतः बुद्धाः, अपितु प्रज्ञप्तिहेतुत्वाद् अतो निर्जाता बुद्धः इत्युक्तमित्यभिप्रायः । ते ऽपि परमार्थतो ऽनुत्पन्नत्वाद् अबुद्धधर्मा इति, संवृतिमाश्रित्य तथागतानामनुसम्यक्संबोधिस्तु अतो निर्जाता इत्यादिना तथागतेन भाषिता, न तु परमार्थत इति । अत एव तत्तदितरपक्षेभ्यः बुद्धधर्मा इति परमार्थतो नैव वक्तुं शक्यते । प्रत्यात्मवेदनीयत्वेनानभिलाप्यास्त इत्यभिप्रायः । अनेन योगसमापत्तिः विक्षेपनिग्रहः गाम्भीर्यञ्च देशितानि ।
अत्र केचिदाहुः कथं त्रिधा भिन्नो ऽयं धर्मकायः । अथ धर्मकायप्राप्तिः धर्मकायहेतोश्चानुरूपतया पुण्यस्वभावः, प्रज्ञप्त्या च प्रवचनस्वभावो धर्मकाय इति चेद्? तथा सति रूपकायो ऽपि तत्प्राप्तेरनुरूपहेतुत्वात् तत्प्रापकहेतुत्वाच्च धर्मकायः स्यादिति । (अतः) तन्न सत्यम्, भगवतां बुद्धानां धर्मकायस्तु परिशुद्धज्ञानस्वभावस्तथा या च तस्य सामान्यधर्मता,. तस्यां व्यवस्थाप्यते । नास्त्यस्यायं विपाकभेदः, न चात्र प्रवचनपुण्ययोरुपचारेण धर्मः इति देशनापि । किमिव तर्हीति चेत्? वस्तुमात्रं धर्म इति देशना । धर्मा इत्यादि स्वयमेवं ख्यातत्वात् । स्वसामान्यलक्षणधारणाद् धर्मा इति यत् व्याख्यातं तत् सर्वधर्मसाधारणमिति न रूपकायस्तथागतत्वेन निर्दिष्टः, अज्ञापकत्वात् । प्रज्ञप्तित इत्युच्यमाने ऽपि न रूपकायो धर्मकायत्वेन प्रसक्तो भवति, पुण्यहेत्वनुरूपत्वात् (वज्रट्_145) तस्य । यथोक्तम्-
बुद्धानां रूपिकायो हि पुण्यं सम्भृत्य जायते । धर्मकायः समासेन ज्ञानसम्भारजो नृप ॥
तस्माज्ज्ञानसम्भारस्यैव तत्प्राप्त्युपायत्वान्न रूपकायेन स गृह्यते, प्रज्ञप्तिहेत्वभावान्नोच्यते रूपकायो ऽधर्मकायःऽ; इति । प्रवचनकायस्तु सम्यग्ज्ञानस्य फलमिति । सम्भारलक्षणपुण्यनिचयस्यापि तत्प्राप्तिहेतुत्वात् प्रज्ञप्त्या धर्मकाय इत्युच्यमानो ऽपि युज्यत एवेति अलमधिकेन । अन्यत् कुचोद्यं युक्तमयुक्तं वेति विचक्षणैर्विवेचियिष्यत इति मत्वा पदबाहुल्यभिया न लिख्यते । धर्मकायाप्तिछन्दस्थानमुक्तम् ।
इतः परं द्वादशविपक्षाणां प्रतिपक्षाणि द्वादशस्थानानि यथाक्रमं वेदितव्यानि । इमे तावद् द्वादश विपक्षाः- 1. अभिमानः 2. अभिमानाभावे ऽपि अल्पश्रुतत्वम् 3. बाहुश्रुत्ये ऽपिहीनालम्बनमनसिकारभावना 4. हीनालम्बनमनसिकारभावनाया अभावे ऽपि सत्त्वोपेक्षा 5. तदुपेक्षाया अभावे ऽपि बाह्यशास्त्रेषु सानुरागा प्रवृत्तिः 6. तथा प्रवृत्त्यभावे ऽपि भावनिमित्ताभिभवोपायेष्वकौशलम् 7. तत्र उपायकौशले ऽपि पुण्यसम्भारासञ्चयः 8. पुण्यसम्भारसञ्चये ऽपि लाभसत्कारकौसीद्यैः पिण्डास्वादनम् 9. तथास्वादनाभावे ऽपि दुःखाक्षान्तिः 10. दुःखाधिवासनायामपि ज्ञानसम्भारासञ्चयः 11. ज्ञानसम्भारसञ्चये ऽपि आत्मपरिग्रहः 12. आत्मग्रहाभावे ऽपि अववादायोगः
5. भावनाविशेषलाभे ऽनभिमानस्थानम् :
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
