Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

वज्रच्छेदिकाटीका

Tác giả
कमलशील
Thông tin
GRETIL — Pema Tendzin: Prajñāpāramitāvajracchedikāsūtram, with Prajñāpāramitāvajracchedikāṭīkā of Acārya Kamalaśīla. Sarnath 1994 (Bibliotheca Indo-Tibetica, 29).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तत्र भगवता धर्मपुद्गलयोर्विस्तरेण नैरात्म्ये देशिते ऽपि अनादिकालीनदृढात्माभिनिवेशसञ्चयबलेन यदि कश्चिदेवं मन्येत- यस्य सत्त्वादिसंज्ञा प्रवर्तते, न स बोधिसत्त्व इति? एवं तर्हि यदुक्तं भगवता ऽतस्मिन् काले ऽहं वीरदत्तो नाम नृपो ऽभवम्,ऽ; युष्मभ्यं मया धर्मो देशयिष्यते इत्यादि कथं स्यात् । (अतः) सत्त्वसंज्ञादिविरहस्य नैवमभिप्राय इति विघ्नभूताभिमानविसंयोगार्थं पञ्चमस्थानमधिकृत्याह- तत्किं मन्यसे सुभूते इत्यादि ।

अस्यायमत्र सामान्यतो ऽर्थः- ये मम मृदुश्रावकाः स्रोतआपन्नत्वादिषु धर्मनैरात्म्यानधिगमाद् अप्राप्तरसानुभवाः, तेषामपि अहन्त्वेन ममत्वेन चाभिनिवेशो न भवति, किं खलु पुनः उभयनैरात्म्याधिगमेन प्रहीणनिरवशेषावरणानामिति । तस्मिन् काले ऽहम्..... इत्यादि यत्तल्लोकेन सह व्यवहारप्रज्ञप्त्यर्थं परसन्तानव्यवच्छेदमात्रज्ञापनार्थं वा, सेनावनादिव्यवहारवत्, न त्वेकत्व- (वज्रट्_147) शाश्वतत्वाभिनिवेशतया । तत्त्वज्ञानस्थितैः न शक्यते तावल्लोकेन सह व्यवहर्तुम् । तस्मादभिमानस्थानविसंयोगार्थं त्वयापि नात्मन्यभिनिवेष्टव्यमिति समादापयति ।

तत्र स्रोतः निर्वाणमहानगरप्रापकदर्शनमार्गलक्षणम्, आपन्नः प्राप्तः, दर्शनप्रहेयसमस्तक्लेशप्रहायकः स्रोत आपन्न इति, तस्य च कर्तरि कर्मणि क्रियायां चाभिनिवेशप्रहाणेन इदम्प्रत्ययताधिगमान्नैरात्म्याधिगमो दर्शितः । मया इति कर्तर्यभिनिवेशः । फलम् इति कर्मण्यभिनिवेशः । प्राप्तः इति क्रियायामभिनिवेशः । इत्यनेन तावदर्थतः मया प्राप्तमिति विपक्षत्वेन परिदीत्यते । न स्रोतआपन्नस्यैवं भवति मया प्राप्तम् इत्यनेन अपलक्षणमात्रप्रदर्शनेन सर्वेषामभिमानानां प्रहेयत्वं प्रदर्शये । तत्र छन्दः प्रणिधानञ्चापि निर्दिश्यत इति । आर्यसुभूतिरपि भगवतो ऽभिप्रायं निर्दिशन् परमार्थस्थापन्नार्थं तत्र योगसमापत्तिं च ग्रहीतुं न हि स भगवन् कञ्चिद् (धर्मं) आपन्नः इत्याह । कथमिति न रूपमापन्नः इत्याद्याह ।

अनेन तावत् परमार्थत फलद्वैविध्यस्याप्राप्यत्वमपि निर्दिश्यते, तथा हि-फलभूतं प्राप्यस्वभावं किञ्चित् स्यात् (तर्हि) संस्कृतमसंस्कृतं वा स्यात् । तत्र तावदनुत्पन्नमेवासंकृतम्, अभावरूपत्वाद् शशविषाणमिव तन्न युज्यते (वज्रट्_148) प्राप्तुम्, अप्राप्त्यवस्थाविशिष्टत्वात् । संस्कृतं तावत् क्षणिकम्, उत्पादसमनन्तरं विनाशित्वात्, स्थितेरभावात् केनापि कथमपि तन्न प्राप्तुं शक्यते । यस्मिन् सन्ताने नैरात्म्यमार्गलक्षणहेतुसन्निहिततया क्लेशमुत्पादात्यन्तविरुद्धाश्रयलक्षणं फलमुत्पद्यत इति फलं प्राप्त्यत इत्येवमुच्यते, न तु परमार्थतः ।

अपि च, प्राप्यप्रापकभावः खलु भिन्नकालिकः समकालिको वा स्यात् । तत्र न तावत् प्रथमः पक्षः द्वयोरपि स्थितत्वात्, भिन्नकालिकस्तु एकस्मिन् प्रत्यासन्ने ऽपरस्य चासंनिहिते सति (भवति), तत्कथं द्वयोः स्थितिरिति । न च समकालावस्थितयोरुभयोः परस्परोपकारकत्वम्, असति चोपकारे प्राप्यप्रापकभावो नैवोपयुज्यते, अतिप्रसङ्गत्वात् ।

अन्यो ऽन्यसंयोगेनोत्पादलक्षणेनापि प्राप्यप्रापकभावस्य समकालिकत्वं न युज्यते, तथा हि- ये ऽमूर्तभावाः, ते नैव संयुज्यन्ते, क्वचिदप्यनवस्थानात्तेषाम् । न स्यात् प्राप्यप्रापकभावे समकालत्वमात्रमपि तेषाम्, अतिप्रसङ्गात् । न चाप्येकस्य हेतुत्वम्, उभयोः साधारणत्वात्, इदं प्राप्यमिदञ्च प्रापकमिति निश्चयो न भवती । ये तावन्मूर्ताः, तेषां सर्वात्मना संयोगे सति एकत्वं प्रसज्यते, एकदेशेन (संयोगे तु) सावयवत्वं प्रसज्यते । नैरन्तर्येणावस्थाने ऽपि न भवितुं शक्नोति उभयोः साधारणत्वात् । अविशेषान्न निश्चयः । अतः कल्पनासमारोपित एवायम् । अनेन तावत् सर्वः कर्मकर्त्रादिव्यवहारः स्पष्टमवबोद्धव्यः ।

धर्माः इति धर्मायतनम्, अनेनासंस्कृतमपि संगृह्यते, धर्मायतनस्य सप्तद्रव्यात्मकत्वात्, शेषेण रूपादिना च धर्मायतनैकदेशेन च संस्कृता निर्दिश्यन्ते । उपलक्षणमिदम् अतश्चक्षुरादिकं ग्रहीतव्यम् । एवं यतः परमार्थतः स कञ्चित् (धर्मं) नापन्नः, मया प्राप्तमित्यपि न मन्यते, तस्मात् सन्मार्गस्थितत्वात् स्रोतआपन्न इत्युच्यते ।

यदि मया प्राप्तमित्यभिनिवेशस्तदा कथं नोच्येत स्रोत आपन्न इति विचिन्त्य सचेद् भगवन् इत्याद्याह । मया इति यस्याहमित्यभिनिवेशः स्यात्तस्य नास्त्यात्मदृष्टिप्रहाणम्, यश्चाप्रहीणात्मदृष्टिः स अनुत्पन्नार्यमार्गः, यश्चानुत्पन्नार्यमार्गः, स पृथग्जन इति कथं स्यात् स्रोत-आपन्न इत्यभिसन्धिः । एवं हि ऽमया इति यो ऽयमभिनिवेशः, स आत्मदृष्टिसमुदयः । अनेन चित्तप्रग्रहो निर्दिष्टः । अनेन तावत् सकलेन स्थानस्यास्य गाम्भीर्यमभिहितम् ।

अमुमेवार्थं दृष्टान्तान्तरे प्रपञ्च्य निर्देष्टुं सकृदागामिनः इत्याद्याह । अत्रापि पदार्थाभिसन्ध्यादीनि पूर्ववद् योज्यानि । प्रहीणभावनाहेतषड्विधकामावचरक्लेश एवार्यसकृदागामी, सकृदागामित्वात् कामधातौ । प्रहीणभावनाहेयसकलकामावचरक्लेश एवानागामीत्युच्यते, पुनरनागामित्वात् (वज्रट्_150) कामधातौ । यदा समस्तत्रैधातुकावचरक्लेशमलानां प्रहाणं जायते, तदा स सकललोकपुज्यत्वाद् अर्हन्नित्युच्यते । न हि स कश्चिद् धर्मो यो ऽर्हन्नाम प्रहीणतथाविधक्लेशावरणज्ञानसन्ततौ उपचरितत्वात्, सन्ततेश्च प्रज्ञप्तौ सत्त्वान्न स कश्चन परमार्थतः, समारोपित एवासावित्यभिप्रायः ।

साम्प्रतम् आर्यसुभूतिः ऽअहंऽ; पदप्रयोज्यमात्मानमधिकृत्य विशिष्टत्वेन अरणाविहारीति साधारणगुणत्वेन अर्हन्निति च ऽअहमस्मिऽ; इत्यनेनोक्त्वा चित्तप्रग्रहमात्रं दर्शयितुं अहम् इत्याद्यवोचत् । अरणा इति समाधिविशेषः, अत्र चोभतोभागविमुक्तत्वमर्हत्त्वमालम्ब्य तदितरेषु रणा नोत्पाद्यन्त इति विचिन्त्य योगः समापद्यते । ततो व्युत्थाय तमालम्ब्य तदितरेषु नोपजायन्ते रणाः । यस्तया अरणया विहरणशीलः स एवमुच्यते । सुगमो ऽयं विभङ्गः ।

न मां व्याकरिष्यत् इति तदा अप्रहीणत्वादात्मदृष्टेर्मया स्रोत-आपत्तिफलमपि दुर्लभम्, किं खलु पुनः उभतोभागविमुक्तेनार्हता प्राप्यमरणाविहारित्वमित्यभिसन्धिः । कथमरणायां विहर्तव्यमिति चिन्तायां न क्वचिद् विहरति इत्यवोचत् । प्राप्तं मया किञ्चत् संकृतमंस्कृतं वेत्येवमभिनिवेशेन यो ऽस्थितः, स एवारणाविहारीति द्विरभिधानम्, नापर इत्यर्थः । अधुना अहमस्मि भगवंस्तथागतेनार्हता सम्यक्सम्बुद्धेन अरणाविहारिणामग्र्यो निर्दिष्टः । अहमस्मि भगवन् अर्हन् वीतरागः इति नात्माभिनिवेशेन, अथ कथमिति चेत्? व्यवहारमात्राभिनिवेशतया, एतच्च प्रागेव मया प्रोक्तम् ।

6. बुद्धोत्पादारागता-स्थानम् :

नन्वसति कस्मिंश्चिदपि प्राप्ये प्रापके वा परमार्थतः, बोधिसत्त्वभूतेन भगवता कथं तथागतदीपङ्करस्यान्तिकाद् धर्म उद्गृहीतः? अथ नोद्गृहीत इति चेद्? तदास्माभिर्धर्ममुद्ग्रहीतुकामैः कथमाराधनीस्तथागतोत्पाद इति ये परिकल्पयन्ति तेषामल्पश्रुतत्वप्रतिबन्धापाकरणार्थ षष्ठं स्थानमधिकृत्याह- अस्ति स कश्चिद् धर्मो यस्तथागतेन दीपङ्करस्य तथागतस्यार्हतः सम्यक्सम्बुद्धस्यान्तिकादुद्गृहीतः? इति । सुभूतिरपि प्रागेवाभिप्रायं विदित्वा नो हीदम् इत्यवोचत् । नास्ति परमार्थतः कस्यचिदपि धर्मस्य प्राप्यप्रापकत्वेन उद्ग्रहणं नाम, यथोक्तं पूर्वम् । ऽसर्वे धर्माः प्रकृत्या शान्ताःऽ; (वज्रट्_152) तथापि तथागतानुभावेन नानापदसमुदायादीनां ज्ञानावभासोत्पादमत्रे उद्गृहीतः इत्युपचर्यते, अतः श्रुतपर्येषणं सफलम् ।

अनेनार्थतः ऽबोधिसत्त्वेन श्रुतपर्येषणकाले बुद्धोत्पाद आराधनीयस्तदनन्तरं बुद्धधर्मा उद्गृहीतव्याःऽ; इत्यभिनिवेशो विपक्षत्वेन निर्दिष्टः । तत्प्रहाणे छन्दप्रणिधानाभ्यां स्थातव्यमित्यपि निर्दिष्टम् । अस्ति स कश्चिद् धर्मो दीपङ्करस्यान्तिकादुद्गृहीतः? इति दिङ्मात्राभिधानेन उद्गृहीतधर्मस्य सर्वनिमित्तं विनिवर्तते । ऽनास्ति स कश्चिद् धर्म उद्गृहीतःऽ; इत्यनेन परमार्थतः धर्माणामग्राह्यत्वं व्यवस्थाप्य तत्र योगसमापत्तिः विक्षेपनिग्रहश्च निर्दिष्टौ । स्थानस्यास्य गाम्भीर्यमपि परिदीपितम् ।

7. क्षेत्रविशुद्धिप्रणिधान-स्थानम् :

यदि परमार्थतः कर्मकर्त्रादयो न स्युस्तदा कथं बोधिसत्त्वा बुद्धक्षेत्रपरिशोधनार्थं प्रणिदधतीति तर्कयतां तेषां हीनालम्बनमनसिकारभावनाविबन्धसंयोगार्थं सप्तमस्थानमधिकृत्याह- यः कश्चिद् बोधिसत्त्वः इति । वितथम् इति मृषा । यद्येवं (तर्हि) भगवान् बोधिसत्त्वानां तत्तत्क्षेत्रपरिशुद्धिसम्पदं कथमुक्तवानिति विचिन्त्य तत्कस्य हेतोः? इति पृच्छायं क्षेत्रव्यूहाः इत्यादि समाधानमभिहितम् । बहूनि क्षेत्राणि तु क्षेत्रव्यूहाः । अव्यूहास्ते इति परमाणुभिराब्धो ऽवयविभूतो वा नास्ति कश्चिद् व्यूहः परमार्थत इत्यव्यूहा एव ते, तथापि स्वप्नोपलब्धक्षेत्रव्यूहवद् अविचाररमणीयमात्र संवृतिसत्त्वमुक्तं तेनोच्यन्ते क्षेत्रव्यूहाः इति । अन्यथा (वज्रट्_153) परमार्थस्वभावस्त्वनाभिलाप्यतायानभिलाप्य इत्यभिप्रायः । उक्तञ्चाप्रतिष्ठितत्वं प्रागेव । एवां मुषितस्मृतिकानामुपकाराय उपसंहारोपयेन स्मारयितुं तस्माद् इत्याद्याह । एवम् इति यथोक्तेन विधिना, कस्यचिदपि वस्तुनः सिद्धेरभावात् तत्र ऽअप्रतिष्ठितं चित्तमुत्पादयितव्यम्ऽ; इत्यर्थः । शेषं तु पूर्ववत् ।

तत्र वितथं वदेत् इत्यनेनार्थतः परमार्थतः मया क्षेत्रव्यूहो निष्पाद्यत इत्यभिनिवेशो विपक्षत्वेन परिदीपितः । ऽक्षेत्रव्यूहाःऽ; इति निमित्तमात्राभिधानेन समस्तहीनालम्बनभावनाविसंयोगो निर्दिष्टः । हीनालम्बनमनसिकारभावनां प्रति छन्दः प्रणिधानमपि [न कर्त्तव्यमित्यपि] निर्दिष्टम् । अव्यूहास्ते तथागतेन भाषिताः इत्यनेन परमार्थव्यवस्थापनेन योगसमापत्तौ प्रवृत्तिः गम्भीरता च निर्दिश्येते । तेनोच्यन्ते क्षेत्रव्यूहाः इत्यनेनापवादान्तं परिहृत्य विक्षेपनिग्रहो निर्दिष्टः, स्थानस्यास्य औदार्यं च परिदीपितम् ।

8. सत्त्वपरिपाक-स्थानम् :

स्कन्धेभ्यः पृथक्त्वेनासत्त्वे ऽपि किं नाभिन्ना एव सत्त्वाः? अन्यथा सत्त्वपरिपाकार्थं कथं बोधिसत्त्वाः प्रवर्तेरन्? इति यो विचारः, तस्मात् सत्त्वोपेक्षालक्षणविघ्नभूताद् विसंयोगार्थम् अष्टमस्थानमधिकृत्य तद्यथापि नाम इत्युक्तम् । पुरुषः इत्यसुरेन्द्रो राहुरिति । तस्यात्मभावस्तु कामधातौ सुमेरुपरिमाणः । तस्य महत्त्वे ऽपि व्यर्थैव तन्महत्ता । किमर्थं देशितं भगवतेत्यभिप्रायं वक्तुकामनया तत्कस्य हेतोः? इत्यापृष्टम् । तमेव अभिप्रायं वक्तुमाह- न भावः इति । परमार्थतः एकानेकस्वभावेन वियोगात् (वज्रट्_154) निःस्वभावता एव । स्वप्नदृष्ट इव स आत्मभावः संवृतितः प्रोक्तस्तथागतेन, न तु परमार्थतः ।

तेनोच्यते आत्मभावः इत्यत्रोपपत्तिमाह । एवमयं संवृतिरेव, तस्मात्तथोच्यते, अन्यथा परमार्थतः कस्यचिदपि धर्मस्यासिद्धत्वात् तथा नोच्येतेत्यभिप्रायः । अभावं तावद् भावत्वेनाभ्युपगच्छतां तेषां जैमिन्यादीनां प्रतिषेधार्थम् न स भावः इत्याह । अभावस्य तु भावव्यतिरेकेण स्थितलक्षणत्वात् कथं तद्विपरीतस्वभावो न स्यात्?ऽ; तेनोच्यते आत्मभावःऽ; । अन्यथा पतमार्थतः कस्यचिदप्यात्मभावस्यासिद्धेः किमित्यात्मभाव इहोच्यते, ततो ऽयमभावत्वेन देशितः सुमेरुमात्रपरिमाणो ऽपि य आत्मभावो यदा निःस्वभावत्वात् परमार्थतो नास्ति, तदा कथं परात्मभावः सस्वभावः सात्मको वा भवेत्?

अत्रार्थतः सत्त्वपरिपाकायोद्यमरतानां बोधिसत्त्वानां सत्त्वाभिनिवेशः परमार्थतः विपक्षत्वेन प्रदर्शितः तत्प्रहाणाय छन्दः प्रणिधानं च निर्दिष्टे । ऽपुरुषःऽ; इत्युपलक्षणमात्राभिधानेन अण्डजादीनां सर्वेषां पृथगात्मभावानां परिग्रहणमुक्तम् । न भावः स तथागतेन भाषितः इत्यनेन तावत् परमार्थं व्यस्थाप्य योगसमापत्तिस्थानं गम्भीरत्वं च परिदीपिते । न स भावः इत्यनेन तु विक्षेपनिग्रहो निर्दिष्टः ।

9. बाह्यशास्त्रेषु व्यपगतरागता-स्थानम् :

सम्प्रत्यस्य धर्मपर्यायस्य महार्थत्वप्रतिपादनेन बाह्यशास्त्रेष्वभिनिविष्टानां तत्रानुनयविक्षेपपरिहारार्थं नवमस्थानमधिकृत्य- तत्किं मन्यसे सूभूते इत्याह । (वज्रट्_155) अनेन तावत् चतुर्भिः प्रकारैरस्य धर्मपर्यायस्य वैशिष्ट्यं परिदीप्यतेपुण्यपरिग्रहः, देवादिभिः सत्कारः, दुस्करकृत्यविधानम्, तथागतादितुल्यताकरणम् । तत्र पुण्यपरिग्रहस्तु यदाह ततो निदानं बहुपुण्यस्कन्धं प्रसुनुयात् इति । देवादिभिः सत्कारस्तु यदाह स पृथिवीप्रदेशः चैत्यभूत्यभूतो भवेद् इति । दुष्करकृत्यविधानं तु यदाह परमेण ते आश्चर्येण समन्वागता भविष्यन्ति इति । तथागतादितुल्यताकरणं तु यदाह तस्मिंश्च पृथिवीप्रदेशे शास्ता विहरत्यन्यतरान्यतरो वा विज्ञगुरुस्थानीयः इति ।

तत्र रत्नदानस्य पुण्याभिधानं विशेषद्वयेन विशिष्टं परिदीपितम्- वस्तुविशेषः क्षेत्रविशेषश्च । वस्तुविशेषो ऽपि तावत् उदारः प्रणीतश्चेति ।- (वज्रट्_156) तत्रौदार्यं तु वस्तुभेदसंबाहुल्यम्, यदाह तावतो लोकधातून् इति । प्रणीतस्तु लोके दूर्लभत्वेन ख्यातः यदाह सप्तरत्नपरिपूर्णं कृत्वा इति । क्षेत्रं स्वपरार्थसम्पद्योगेन विशिष्टम् । तत्र परार्थसम्पत्तावत् हेयोपादेयार्थानां परेभ्यो ऽविपर्ययेण सम्प्रकाशनम्, आह तथागतेभ्यः इति । यथा वस्तुतथता तथा भाषितत्वात् निरुक्त्या तथा उक्त इति कथ्यते ।

स्वार्थसम्पत्तु ज्ञान-प्रहाणसम्पद्भेदेन द्विविधा । तत्र अर्हद्भ्यः इत्यनेन प्रहाणसम्पद् दर्शिता, हतक्लेशारित्वाद् निरुक्त्या ऽअर्हन्ऽ; इत्युच्यते । सम्यक्सम्बुद्धेभ्यः इत्यनेन तावज्ज्ञानसम्पदुक्ता । तस्मात् पदत्रयस्योक्तेः साफल्यमिति सामान्येन सङ्ग्रहार्थः ।

आरोचयामि इतीच्छा द्योतिता भवति । आरोचयामि प्रतिवेदयामि अवबोधयामि प्रज्ञामुत्पादयामीत्यर्थः । तत्र पूर्वं तावत् परस्य फलम् अथवा अपरं तु पूर्वस्य व्याख्यानम् । देशयेत् इति शब्दं सम्प्रकाशयेत् इति छन्दम् अधिमुक्तिमुत्पादयेदित्यर्थः । संख्यया परिच्छेत्तुमशक्यत्वाद् असंख्येयम् इति । प्रमापयितुमशक्यत्वाद् दृष्तान्ताभावाद् वा अप्रमेयम् इति ।

भाष्येत इति आत्मना ग्रन्थस्वाध्यायः, सम्प्रकाश्येत इति परेभ्यः सम्यक् पदार्थदेशाना, अथवा ऽभाष्येतऽ; इति पदम् ऽसम्प्रकाश्येतऽ; इत्यर्थम् । चैत्यभूत्यभूतः इति वन्दनीयः, चैत्य एव चैत्यभूतः वशीभूत इतिवत्, यदैवं पुद्गलनैरात्म्यगाथामात्रोपदेशेनापि चैत्यभूत्यभूतो जायते किं खलु पुनः नैरात्म्यद्वयोपदेशेन इत्यभिप्रायः । उद्गृह्य इति पदम्, धारयिष्यन्ति इत्यविस्मरणम्, वाचयिष्यन्ति इति पुस्तकगतम् पर्यवाप्स्यन्ति इति अर्थम् ।

अनेन तावद् श्रुतमयप्रज्ञया धारणं दर्शितम्, चिन्तामय्या भावनामय्या प्रज्ञया चोद्गृहीतत्वाद् योनिशश्च (मनसि करिष्यन्ति) इत्याह । अविपरीततयार्थमवबोधयिष्यन्तीति वाक्यशेषः । क्वचिद् धारयिष्यन्ति इत्येकमेव पदम्, तत्र धारणं तु पदार्थयोर्द्रष्टव्यम् । परमेण आश्चर्येण इति तु एवंविधगम्भीरोदारधर्मस्याधिगतत्वात् ।

शास्ता ........ स्थानीयः इति धर्मभाणकः, शास्तृकृत्यकरणात्, स एव साक्षाद् धरमाणबुद्ध इवेति वाक्यशेषः । गुरु इति मञ्जुघोषाद्यन्यतरः कश्चित् तत्कार्यसाधनाय धर्मभाणकः स्थानीयरूपेण द्रष्टव्यः । कुत्रचित् अन्यतरान्यतरो इति पदद्वयम् । तच्च ये केचन गुरुसदृशाः (तेषां) सर्वेषां पर्यायः । अतस्तत्र स्थानीयः इति निर्दिष्टः । एभिः सर्वैः स्थानस्यास्यौदार्यं निरूपितम् । अर्थतश्च सद्धर्मपरिग्रहमुत्सृज्य बाह्यशास्त्रानुरागो विपक्षत्वेन परिदीपितः, तस्मिन्ननुरागं परित्यज्य धर्मं प्रतिपत्तुं छन्दः प्रणिधानं च दर्शिते । इतो धर्मपर्यायाद् इत्युपलक्षणमात्रपरिकीर्तनेन बाह्यशास्त्रेष्वनुरागं परिवर्ज्य सर्वसद्धर्मान् प्रति यत्न आस्थेय इति परिदीपितम् ।

अचिन्त्यसामर्थ्यन्वितत्वादयं धर्मपर्यायः नाममात्रश्रवणेनापि परानुपकरोतीति सत्त्वानां पुण्योत्पादकथनाय आर्यसुभूतिः को नाम अयम् इति पृष्टवान् ।- (वज्रट्_158) कथं चैनं धारयामि इत्यनेन अस्योद्ग्रहणेनाप्यप्रमेयपुण्यं भवतीति परिदीप्यते ।

प्रज्ञापारमिता नाम इति यस्या तन्नाम तत्तथा उच्यते । इयं प्रज्ञापि, पारमधिगम्य परिच्छेदयतीत्यपि पारमितेति, प्रज्ञा च सा पारमिता चेति समासः । अथवा प्रज्ञायाः पारं प्रज्ञापारम्, अनया तदधिगम्य परिच्छिद्यते ऽतस्तथोच्यते । सा चार्थतः सर्वविधप्रज्ञासु उत्तमा ताथागती प्रज्ञा नान्यदा प्रज्ञया पारं परिमापयितुं शक्यम् । अथवा प्रज्ञ्यापारम् इता गता इत्येवार्थः । सा च यथोक्ता प्रज्ञैव, न त्वन्यत् तत्पारगमनासम्भवात् । अनेन दानपारमितादयो ऽप्युक्ता भवन्तीति । तदभिधानेनायं धर्मपर्यायो ऽपि तथोक्तः, यथा सीताहरणादिकाव्ययोजना । तस्याश्च भगवताः प्रत्यात्मवेद्यत्वेनासाधारणत्वात् परमार्थतश्चानुत्पन्नत्वात् सा शब्देनाभिधातुं न शक्यत इत्याशयेन वितर्क्य तत्कस्य हेतोः? इतिओ पृष्टवान् । यैव सुभूते, प्रज्ञापारमिता तथागतेन भाषिता सा इत्युदतरत् ।

परमार्थतः प्रत्यात्मवेद्यत्वेनासाधारणत्वात् परमार्थतश्च सर्वधर्माणाम् अत्यन्तानुत्पन्नत्वात् च सा न शब्देनाभिधेया, तथापि विकल्पप्रतिबिम्बः- (वज्रट्_159) स्वस्वरूपबहिर्भूत इवारोप्यते । स विकल्पो ऽपि प्रकृत्या भ्रान्तः, अतस्तेन समारोपित आकारो ऽपि मिथ्यैव । तस्मात् विकल्पप्रतिबिम्बभूता या प्रज्ञापारमिता तथागतेन देशिता, सा शब्देन व्युत्पाद्यमाना अपारमितैव, न तु तथागतस्य प्रज्ञा, सत्यसंवृत्या ज्ञेयस्य पारङ्गतत्वात्तस्याः, अन्यथा कथं भगवान् सर्वज्ञः स्यादिति । ततो भ्रान्तप्रतीतेः स विकल्पप्रतिबिम्बो नैव भेदेनावगम्यते, अतो ज्ञानस्वभावत्वेन सैव परमार्थप्रज्ञा तथागतेन भाषिता इत्युच्यते । तस्मात् तथाविधदेशनायां नैव विरोध इत्यभिप्रायः । अथवा या ताथागती प्रज्ञा प्रतीतिरूपत्वेन तथागतेन भाषिता सैव परमार्थतो न विद्यते, परमार्थतो ऽपारङ्गतत्वात्तस्याः । एव इति शब्दस्तु अपारमिता इत्येतदनन्तरं द्रष्टव्यः ।

अनेन परमार्थत्वं प्रतिपाद्य तत्र योगसमापत्त्या कथं प्रतिपत्तव्यमिति निर्दिष्टम् । यथा प्रज्ञापारमिता विकल्पप्रतिबिम्बात्मिकैव बाह्यत्वेन समारोप्य भगवता भाषिता, तथैव सर्वे धर्मा अपि नान्यथा तथागतेन कथिता इति देशनार्थमाह- तत्किं मन्यसे सुभूते इति । परमार्थतः सर्वधर्माणामसिद्धत्वात्, सिद्धेष्वपि स्वलक्षणस्यासाधारणत्वेन सङ्केतेन प्रज्ञपयितुमशक्यत्वात्, सामान्यलक्षणमेव तावत् प्रज्ञप्यमानत्वात्, स्वसामान्यलक्षणे व्यतिरिच्य अपरस्याभिधेयस्याभावात् परस्परपरिहारस्थितलक्षणत्वात्तयोः, अत एव च परमार्थतः ऽनास्ति कश्चिद् धर्मो यस्तथागतेन भाषितःऽ; इति विज्ञाय स्थविरः सुभूतिः नो हीदं भगवन्, नास्ति स कश्चिद् धर्मो यस्तथागतेन भाषितः इत्यवोचत् । अनेन विक्षेपनिग्रहः गाम्भीर्यं च निर्दिष्टे भवतः ।

10. सत्त्वभाजनलोकयोः पिण्डग्राहविशीर्णतायोग-स्थानम् :

एवं सर्वधर्मेषु नैरात्म्यं विस्तरेण दर्शितम्, तथापि ये तावद् आदिकर्मिकाः कथं सर्वधर्मेषु नैरात्म्यं भावयितव्यमिति चिन्तयन्ति, भावनिमित्तमभिओभवितुमनुपायकौशलविसंयोगार्थं दशमस्थानधिकृत्याह- तत्किं मन्यसे सुभूते इत्यादि । अत्र द्विविधेन उपायेन एकानेकस्वभाववियोगाधिगमात् सर्वधर्मनैरात्म्यं भावयितव्यमिति दर्श्यते । तत्र द्विविध उपायस्तावत् तनूकरणोपायः निराभासकरणोपायश्च । तत्र यावत् पृथिवीरजो भवेत् इत्यनेन एकस्वभाववियोगाधिगमात् तनूकरणोपायो निर्दिश्यते । न युज्यते ह्यस्य लोकधातोरेकत्वम्, आवृत्तानावृत्तादिविस्पष्टलक्षणयुक्तत्वाद् । अनेकत्वनिराकरणाय तावत् परमाणोर्निराकरणमभ्युपेतव्यम् । अत एव परमाणुविभावनायां सत्त्यामेकत्वं प्रहीयत एवेति । बोधिसत्त्वैस्तावत् प्रायेण परीत्तालम्बनमनसिकाराभावात् त्रिसाहस्रमहासाहस्रलोकधात्वालम्बनार्थं त्रिसाहस्रमहासाहस्रे इत्याह । अनेन तावदौदार्यं परिदीपितम् ।

ते च परमाणवो ऽपि यदि दिग्भागभेदेन भिन्नत्वादसिद्धा एव स्युः, (तर्हिं) कथं तद् बहु रजः? इति प्रवादिनामाशयमभिलक्ष्य कस्य (वज्रट्_161) हेतोः? इत्यपृच्छत् । यत्तद् पृथिवीरजः इति तदुदतरत् । बहु तत् पृथिवीरजो ऽपि यः परमाणुस्वभाव उक्तस्तदेकत्वग्रहणनिषेधात् तदरज एव । मायानिर्मितस्वभावत्वान्नास्ति परमाणुः परमार्थतः, बुद्ध्योपचरितरूपत्वात् । इदं तावदेकत्वग्रहणोपायमात्रम्, न तु परमार्थम्, तेनोच्यते पृथिवीरज इति । तद् युक्तं संवृतौ सत्त्वात्, अन्यथा परमार्थस्तस्यासत्त्वाद् अनभिलाप्यत्वाच्च स्वलक्षणं नाभिलप्यत इत्येवमभिप्रायः । उद्भावनासंवृत्यापि तस्य देशनं न युज्यते, तदीयान्यतरात्मस्वभावस्य अप्रतिभासमानत्वात् । अनेन तावद् अनेकस्वभाववियोगाधिगमोपायो निराभासकरणत्वेनोपदर्श्यते । एवञ्चान्तशः परमाणूनामपि युक्त्या प्रत्येकं परिक्ष्यमाणानां प्रतीतावेव सत्त्वात् प्रतीयते लोकधातूनां चानेकस्ववियुक्तत्वम्, ततश्च (तेषां) निःस्वभावत्वमवगम्यते ।

एवं खलु भाजनलोकस्य एकानेकस्वभाववियोगेन निःस्वभावत्वमॄ एवमभिधाय सत्त्वलोकस्याप्यभिधानार्थ यो ऽसौ लोकधातुः इत्याह । अत्र लोकधातुना सत्त्वलोको ऽभिप्रेतः, इतरस्य पूर्वमेवोक्तत्वात् । अधातुः सः इति एकानेकस्वभावरहितः स इत्यभिप्रायः । एवं यो हि रूपस्कन्धः स भाजनलोकत्वेनाभिहितः, शेषाश्चत्वारः स्कन्धास्तु यथैकानेकस्वभावेन वियुक्तास्तथा पूर्वं विवेचिता एव । एवं सति परमार्थतो निःस्वभावत्वात् सर्वे धर्मा मायोपमा दृश्यन्ते योगिभिः ।

अनेन गाम्भीर्यमपि तावदुक्तम् । अर्थतः परमार्थे सत्त्वभाजनलोकीयभावाभिनिवेशो विपक्षत्वेन परिदीपितः । तत्प्रहाणार्थं च छन्दः प्रणिधानं च निर्दिष्टे । त्रिसाहस्रमहासाहस्रे लोकधातौ इति निमित्तमात्राभिधानेन सर्वभावानां निःस्वभावत्वभावना सन्दर्शिता । अरजस्तत् इति अधातुः इत्याभ्यां परमार्थव्यवस्थापनया योगसमापत्त्या कथं प्रतिपत्तव्यमिति तत् परिदीपितम् । तेनोच्यते लोकधातुः इत्यनेनापवादान्तं परिहृत्य विक्षेपनिग्रहो निर्दिष्टः ।

11. तथागतपूजासत्कार-स्थानम् :

सम्प्रति ये बोधिसत्त्वाः पुण्यसम्भारप्रतिपत्तये ऽत्यन्तमुपकारित्वाद् भगवन्तं पूजयेयुस्तेषां तस्य (भगवतः) अविनाशिकायो न पूरयति पुण्यसम्भारम्, सम्यङ्मनसिकाराप्रवृत्तत्वात् । तस्मात् तेषां सम्भारासञ्चयतो वियोगार्थं एकादशस्थानमधिकृत्याह- तत्किं मन्यसे सुभूते इत्यादि । सामान्यतो ऽत्रायं सङ्ग्रहार्थः, तथागतपूजासत्कारेषु लक्षणसम्पदा तथागतो न द्रष्टव्यः, अथ कथमिति चेत्? परमार्थधर्मतायामित्युच्यते ।

इह अवशिष्टव्याख्यानं तु रूपकायाप्तिकामतास्थानानुरूपम् । न चात्र पुनरुक्तिरप्याशङ्कनीया । पूर्वं रूपकायाप्तिकामताप्रसङ्गे तु तद्व्युदासो दर्शितः, अधुना तथागतपूजासत्कारप्रसङ्गे दर्शितत्वाद् भिन्न एव (रूपकायः) । अत्रार्थतः रूपकाये तथागताभिनिवेशं विपक्षत्वेन निर्दिश्य तत्प्रहानार्थं छन्दः प्रणिधानं चापि प्रदर्शिते । लक्षणानि इत्युपलक्षणमात्रोक्त्या सकलो रूपकायः परिदीपितः । अलक्षणानि इति परमार्थव्यवस्थानम् । तेन इत्यादिना विक्षेपनिग्रहो निर्दिष्टः ।

12. कायचित्तपरिश्रान्तौ विर्यम्युख्यानारम्भलाभ-सत्कारविरहितता :

एवं सर्वधर्माणां नैरात्म्यावगमोपाये निर्दिष्टे ऽपि कायजीवितेष्वासज्य ये लाभसत्काराध्यसिताः कौसीद्यलाभसत्कारपिण्डपातानुरक्ता तेषां तत्रानुरक्तिविसंयोगार्थं द्वादशस्थानमधिकृत्याह- यश्च खलु पुनः सूभूते, स्त्री वा पुरुषो वा इत्यादि ।

अनेन चासारे ऽनेकशतसहस्रदुःखैकस्थानतुच्छात्मभावे तस्मिन् स्निह्यन् एतावच्छरिरपरित्यागेनापि यत्पुण्यं न प्राप्तम्, तदन्तरायकरत्वात्तस्मिन् कायजीविते निरपेक्षचित्ततया सर्वात्मनास्मिन् (धर्मपर्याये) योगः करणीय इति परिदिपितम् । अनेनार्थतः कौसीद्यादयो विपक्षत्वेन दर्शिताः । तत्प्रहाणाय सद्धर्मसमादानाय च छन्दः प्रणिधानञ्चापि निर्दिष्टे । इतो धर्मपर्यायात् इत्युपलक्षणमात्रोक्त्या समस्तमहायानश्रवणादीनि आबध्यन्ते । बहुतरं पुण्यम् इत्यनेन आदार्यमुक्तम् ।

धर्मवेगेन इति धर्मश्रद्धाबलेनेत्यर्थः । आर्यसुभूतिः अश्रूणि प्रामुञ्चत् तदपि भगवतो ऽधिष्ठानेनान्येषु कुसीदेषु जनेषु अद्भुतमहायानधर्मस्याभिधानेन परमश्रद्धोत्पादार्थे द्रष्टव्यम् । तस्माद् हस्तेन अश्रूणि प्रमृज्य भगवन्तमेतदवोचत् आश्चर्यं भगवन्, यावदयं धर्मपर्यायस्तथागतेन भाषितः इत्याह । यावद् इति कारित्रविशेषः । यावता प्रकारेण देशानार्हास्तान् बोधिसत्त्वानुपदिशन्त्विति वाक्यार्थः ।

कस्मादित्याकाङ्क्षायां यतो मे ज्ञानमुत्पन्नम् इत्यकथयत् । यतः इत्यार्यसत्यगोचरज्ञानोत्पादमारभ्य एतत्पर्यन्तं धर्मपर्यायस्य परमपुण्यफलस्य यथोक्ता देशना श्रावक-प्रत्येकबुद्धनामगोचरा नैवं श्रुतपूर्वेत्यर्थः । एतेन (वज्रट्_164) दौर्लभ्यं प्रोक्तम् । एवं विशिष्टं पुण्यं श्रुत्वा येषां वीर्यमारभ्य प्रवृत्तानामस्मिन् धर्मे यथारुतसंज्ञा भवति तेषां तद्दोषपरिजिहीर्षया परमेणाश्चर्येण इत्यवोचत् । विपुलपुण्यान्युत्पादयतो ऽधमपुरुषस्य तादृग्दुष्करश्रद्धाधिमुक्तितो ऽत्यन्तगम्भीरपुद्गल-धर्मनैरत्म्याधिमुक्तिश्च ममेव पुद्गलनैरात्म्यमात्रशुद्धज्ञानेन, परमेण ते आश्चर्येणं समन्वागता भविष्यन्ति । भूतसंज्ञाम् इत्यविपरीतार्थसंज्ञाम्, न तु शब्दाभिनिवेशेनेदं भूतत्वमिति संज्ञा । एवमत्र परमार्थभिप्रेत्य सर्वधर्मनिःस्वभावत्वं निर्दिष्टम्, न तु संवृतिम्, निःस्वभावताया अभावात्तत्र । तस्मान्न दर्शनदिना विरोध इत्यभिप्रायः ।

ननु भूतसंज्ञायां सत्यां, संज्ञाया अपि सत्त्वं परमार्थतः स्यात्, असत्सु च संज्ञेयेषु संज्ञाया अप्यभावः प्रसज्येत, तस्मात् कथं परमार्थतः सर्वधर्मनिःस्वभावत्वं सिध्येदित्युपालम्भं विचिन्त्य तत्कस्य हेतोः? इत्यवोचत् । या चैषा भगवन्, भूतसंज्ञा इत्युअदतरत् । संज्ञानाम न काचन, एकानेकस्वभावेन वियोगात्, परमार्थतः सा असंज्ञैव । अत एव नोच्यते भूतसंज्ञेयं भूतसंज्ञात्वेनेति दर्शितम्, यतो ह्यविचाररमणीयमात्रतः विद्यते तस्मात् तां तथागतो भाषते भूतसंज्ञा, अन्यथा सर्वथाभावान्न भाषेत । ततः परमार्थव्यवस्थायां कथं योगसमापत्त्या प्रतिपत्तव्यम्, कथं च विक्षेपो निग्रहीतव्य इत्युभयं दर्शितं गाम्भीर्यञ्चापि निगदितम्, अध्यारोपापवादान्तावपि परिहृतौ ।

तेषु कुसीदेष्वेवाश्चर्योत्पादनार्थम् न मम भगवन्, आश्चर्यं यदहमिमं धर्मपर्यायं भाष्यमाणमवकल्पयामि, अधिमुच्ये, ये ऽपि ते भगवन्, सत्त्वा भविष्यन्त्यनागते ऽध्वनि पश्चिमे काले पश्चिमे (वज्रट्_165) समये पश्चिमायां पञ्चशत्यां ये इमं भगवन्, धर्मपर्यायम् उद्ग्रहीष्यन्ति, धारयिष्यन्ति, पर्यवाप्स्यन्ति, ते परमाश्चर्येण समन्वागता भविष्यन्ति इत्याह ।

अत्रायं सामान्येन समासार्थः- अनागते सद्धर्मविप्रलोपकाले ये बोधिसत्त्वा इमं धर्मपर्यायं धारयिष्यन्ति, न ते पुद्गलादिभिर्गृहीता भविष्यन्ति, मय्यप्येवं सम्भावनायां सद्धर्मोत्थानकाले ऽपि युष्माकमेतादृशप्रतिपत्त्यभावे इदमत्यन्तं लज्जास्थानं तत् स्यादित्युच्यते । तत्र ऽअहम्ऽ; इति पद्गलनैरात्म्यं बोध्यते, इमं इत्यनेन पुद्गलधर्मनैरात्म्यं प्रकाश्यते, भाष्यमाणम् इति तु साक्षात् प्राकाश्यमानं भगवता, अवकल्पयामि इति प्रसादाकारः प्रसन्नता संदर्श्यते, अधिमुच्ये इति सम्प्रत्ययश्च, ते सत्त्वाः इत्यनेन भगवन्, अनागते कल्पे भाविनः । अत्रोद्ग्रहीष्यन्तीत्यादीनि यानि पदानि तानि पूर्वमेवोक्तानि ।

तच्चैवं निरुच्यते- पुद्गलनैरात्म्यमात्रमवगन्तुर्मम भगवतः सकाशात् साक्षात् श्रवणबलेन यद्धि नैरात्म्यद्वयप्रतिपादके ऽस्मिन् धर्मे प्रसादसम्प्रत्ययमात्रं जातं तन्नैवाश्चर्यम् । ये भगवन् (तेषु) कल्पेषु अस्मिन् [धर्मे] धारणादिक्रमेण ईदृशं धर्मपर्यायमधिगम्य पर्यवाप्स्यन्ति ते परमाश्चर्येण समन्वागता भविष्यन्ति । भगवन्, (तेषु) कल्पेषु बहुलतया महायानविप्रकृष्टा भवन्ति, तेषु (वज्रट्_166) श्रद्धोत्पादस्त्वतिदुर्लभ इत्यभिप्रायः ।

एतेन कौसीद्यं प्रहाय सद्धर्मग्रहणादौ छन्देन प्रणिधानेन च स्थातव्यमित्यादर्शितम् । न केवलं तेषु आगमयोग एवापितु (तेषु) प्रतिपत्तिसम्पदमपि दर्शयितुम् अपि तु खलु पुनर्भगवन् इत्यवोचत् । आत्मा इत्यादिवचनम्, तूपलक्षणम्, अतस्तेषां धर्मसंज्ञा (अपि) न प्रवर्तिष्यते, द्वयोर्नैरात्म्ययोर्युगपदधिगमात् ।

यद्यनात्मादिकं सत् तदा संज्ञापि तत्र नियमेन प्रवर्तयेदिति विचिन्त्य तत्कस्य हेतोः? इति पृष्ट्वा आत्मसंज्ञा इत्युदतारीत् । यथात्मेत्याद्युक्तस्तथा अयमहमित्ययात्मसंज्ञा या सर्वजनप्रसिद्धा, तस्या अपि परिक्षाक्षमत्वादकिञ्चनत्वे सति आत्माद्यनुभवाभावादसत्याः का कथा । अनेन तावद् योगसमापत्तिः निर्दिष्टा ।

ननु चासत्त्वे सत्यात्मादेस्तद्विपर्ययेण नात्मसंज्ञा प्रवर्तिष्यत इति कुत इत्याभ्यन्तरोत्थितं प्रश्नं विचार्य तत्कस्य हेतोः? इत्यवोचत् । सर्वसंज्ञापगता हि बुद्धा भगवन्तः इत्युदतरत् । अत्रायमर्थः- समस्तभावानां यथावत्तत्त्वाधिगमेन ऽबुद्धा भगवन्तःऽ; इत्युच्यते । परमार्थतः कस्यापि संज्ञेयस्याभावात्, न कुत्रापि ते संज्ञा प्रवर्तते, अन्यथा विपर्यासः स्यात् । बोधिसत्त्वास्तु बुद्धानुनुशिक्षामनुवर्तन्ते, अन्यथा कथं तत्पदं प्राप्नुयुः, तस्मात् बुद्धैर्भगवद्भिर्यथा सर्वसंज्ञापगतत्वं शिक्षितं तथा बोधिसत्त्वैरपि शिक्षितव्यम् । तस्माद् ये बोधिसत्त्वास्तस्यामनुशिक्षन्ते तेषामात्मादिसंज्ञा नियमतो न प्रवर्तते । (वज्रट्_167) एवमेतत् इति विनेयानां निश्चयापादनार्थं स्वयमभ्युपगम्य भगवता द्विरुक्तम् । इतः पूर्वमनारब्धवीर्यानधिकृत्याभिहितम् । सम्प्रति पुद्गला धर्मगाम्भीर्यं श्रुत्वा त्रस्यन्ति । अतः प्रथमतरमनारब्धवीर्याणां तेषाम् अनारब्धवीर्यत्वापनयनार्थं ये सत्त्वाः इत्याद्याह । सन्त्रासे सति नारभन्ते वीर्यम्, श्रावकयाने ऽस्मिन् भगवता धर्ममात्रमिदं पुद्गलासत्त्वमित्युक्तम्, महायाने तु तदपि धर्ममात्रं मिथ्येति देशितम्, तस्माद् अनादिकालीनसहजात्मदृष्टिसम्प्रयुक्तान्तःकरणा अभावितात्मानः पुद्गलनैरात्म्यं श्रुत्वा नास्त्यहमिति त्रसिष्यन्ति । तन्निषेधार्यं नो त्रसिष्यन्ति इति देशितम् । ये धर्ममात्रे ऽभिनिविष्टास्ते धर्मनैरात्म्यदेशनाश्रवणकाले सन्त्रसिष्यन्ति, यद् धर्ममात्रं तस्याप्यसत्त्वे ऽअहो ! न मया भाव्यम्ऽ; इति मत्वा दशदिगवलोकनेनापि शरणाभावात् सन्त्रासे तदपाकरणाय न सन्त्रसिष्यन्ति इत्युद्दिष्टम् । चिन्ताकाले उभयाभावयोगस्याशक्यत्वात् सन्त्रसिष्यन्ति ऽकथमस्माभिर्नैरात्म्यद्वयमधिगन्तव्यम्ऽ; इत्यादिमसन्त्रासापसारणार्थं न सन्त्रासमापत्स्यन्ते इत्युक्तम् ।

अन्ये तावन्नैरात्म्यद्वयानवबोधाद् यो हि त्रासो मृदु-मध्याधिमात्रात्मकः स एभिस्त्रिभिः पदैः यथाक्रममुदीरित इत्येवं मन्यन्ते, अपरे तु त्रिविधस्त्रासः श्रवण-मनन-भावनाकाले भवतीत्यभ्युपगच्छन्ति । सम्प्रति लाभसत्कारेषु वीतरागत्वात् ऽते परमाश्चर्येण समन्वागता भविष्यन्तीति ।ऽ; श्रोतुकामानां हिताय स्वयं पूर्वं प्रश्नमुथ्याप्य तत्कस्य हेतोः? इत्यवोचत् । परमपारमितेयं इत्युक्तम् । प्रज्ञापारमितेयं बोधेरासान्नहेतुः । अस्या अभावेन दानादिपारमितानामभावात् सर्वपारमितासु श्रेष्ठा । न केवलं मयैवेयं परमा परमा प्रोक्ता, (वज्रट्_168) अपि तु सर्वबुद्धैरपीयं परमेत्युक्तेति दर्शनार्थं यां च परमपारमितां इति निगदितम् ।

अनेन ऽएकबुइद्धेन देशितमपि अविपरीतार्थत्वेन गृह्यते सर्वबुद्धैकाभिप्रेतत्वे खलु किमुच्यताम्ऽ; इत्येवं दीपितम् । (यदि) अस्माभिः सर्वैः परमा संसाधिता स्यात्, कथं न (वयं) परमेणाश्चर्येण समन्वागता भविष्यामः? अनेन परमत्वदर्शनेन ह्रियः द्वितीयं स्थानं निर्दिश्यते, तथा हि- धर्मो ऽयं (एतावान्) श्रेष्ठस्तथापि त्वं यल्लाभसत्काराध्यवसितः प्रमादेन स्थितस्तदतीव लज्जाजनकमित्युच्यते । अनेन चित्तप्रग्रहः सन्दर्शितः ।

13. दुःखाधिवासन-स्थानम् :

एवं ह्रीस्थाने देशिते ऽपि ये दुःखे ऽक्षान्त्या वीर्यातिशयमारब्धुं नोत्सहन्ते, तेषां दुःखाक्षान्तेर्व्यपगमार्थं त्रयोदशस्थानमधिकृत्याह अपिअ तु खलु पुनः सुभूते इत्यादि । किमत्र क्षान्तिः? केन लक्षणेन सा क्षान्तिर्ज्ञायते? तस्याः य आकारः, यथा वाकारः, यश्चाक्षान्तेः प्रतिपक्षः सो ऽनेन स्थानेन दर्श्यते । कीदृशी क्षान्तिरिति चेत्? सर्वधर्मानुपलम्भस्वभावः, अतः या तथागतस्य क्षान्तिपारमिता सैव अपारमिता इत्युक्तम् । परमार्थतः का क्षान्तिः, येन क्षान्तिः, यत्र क्षान्तिः, यश्च क्षम्यः, या च क्षान्तिः, तेषां सर्वेषामनुपलम्भात् (वज्रट्_169) सैव अपारमिता । एवं परमार्थतो ऽनुत्पन्नत्वात् नास्ति तत्र पारं गतेत्यभिसन्धिः । अनेन तस्याः क्षान्तेः स्वभावेनानुत्पन्नत्वं गाम्भीर्यं चापि दर्शितम् ।

एवं सर्वधर्मानुपलम्भमनसिकारेण कुतः बोधिसत्त्वानां क्षान्तिरिति विचिन्त्य तत्कस्य हेतोः? इति ज्ञापकहेतौ पृष्टे यदा सुभूते इत्याद्यत्तरमाह । अङ्गानि हस्तपादादीनि, प्रत्यङ्गानि अङ्गुल्यादीनि । नापि मे काचित्संज्ञा इति परदेहसंज्ञा, शस्त्रसंज्ञा, छेदसंज्ञा, परसंज्ञा, क्षान्तिसंज्ञादयश्च । अनेन सर्वधर्मानुपलम्भो ऽभिहितः ।

ननु असत्याञ्च कस्याञ्चित् संज्ञायां मूर्च्छावस्थावद् चित्ताभावो भविष्यतीति चेत्? तत्र नापि असंज्ञा वा बभूव इत्याह । तस्मिन् काले सर्वधर्मनैरात्म्यावबोधकं योगिज्ञानं तथ्यसंवृतिस्वभावभिप्रेतम् । तच्च कथमिति चित्तगतं प्रश्नं विकल्प्य स्वयं तत्कस्य हेतोः? इत्युक्त्वा सचेत् सूभूते इत्युदतरत् । व्यापादसंज्ञापि अस्यायमभिप्रायः- यत्र आत्मसंज्ञा, तत्र नूनं तन्मत्रेणात्मस्नेहो जायते । एवमात्मस्नेहसम्प्रयोगे ऽवश्यं स्व-परविकल्पौ जायेते । तेनैवं य आत्मोपकारित्वेनोपादत्तास्तेष्वात्मीयत्वं परिकल्प्यते, इतरेषु च परत्वं कल्प्यते । अत एवात्मानुरूपा प्रवृतिः । तत्रात्मनि आत्मीयेषु च प्रवृत्तौ अनुरागः, तद्विपरीतेषु च द्वेषः । ताभ्यां सम्बद्धः समस्तो दोषराशिः सम्भवति । अत एवोक्तम् :

आत्मनि सति परसंज्ञा स्व-परविभागात् परिग्रहद्वेषौ । अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥ इति ॥

यत्र व्यापादादिदोषौस्तत्र कथं क्षान्तिवादीति प्रसेत्स्यति, येन क्षान्तिबलेन कलिङ्गराजा एव सत्त्वः नरकं गमिष्यतीत्यभिप्रेतम् । अनेन कृतापकारे ऽपि (वज्रट्_170) सति निर्विकारतया नियतं व्यापादादिसम्भवाभावतया आत्मादिसंज्ञाव्यपगमहेतुतया च ईदृश्याः क्षान्तेर्ज्ञानमादर्शितम् ।

अनेनैव च त्रिविधाः क्षान्तयो ऽपि तावन्निर्दिश्यन्ते । अत्र कलिङ्गराजा इत्यनेन अपकारमर्षणक्षान्तिः परिदीपिता, अङ्ग-प्रत्यङ्ग इत्यनेन दुःखाधिवासनक्षान्तिः मे तस्मिन् समये इत्यादिना च धर्मनिध्यानक्षान्तिः । अनेन धर्मपुद्गलविकल्पयोर्विपक्षतया निर्देशेन विनेयास्तत्प्रहाणे यथोक्तक्षान्त्युत्पादे सम्यग्ग्रहणे चावतरन्ति । तदेवम्, विनेयजनाः ऽयदा भगवानेव बोध्यर्थमेवंविधां परां क्षान्तिं भावितवान्, तत्कथमस्माभिर्न भावनीया, दुष्करकर्मण्यननुष्ठिते दुर्लभपदं नाधिगम्यतेऽ; इति विचारयन्ति । ततस्ते विनेयास्तस्यां प्रओत्साह्यन्ते । अङ्ग-प्रत्यङ्गेति निमित्तमात्राभिधानेन सर्वदुःखाधिवासनक्षान्तिः समुदीरीता ।

सम्प्रति यदाकारा सा क्षान्तिः, तथा दर्शयितुम्- अभिजानाम्यहं सुभूते इत्याह । तदपि कलिङ्गराजा मे अङ्गप्रत्यङ्गमांसान्यच्छेत्सीत् इत्येतत्प्रसङ्गप्राप्तम्, साक्षान्नोक्तम् । सा च क्षान्तिः द्विविधा दीपितानिरन्तरपरापकारदुःखविषयिका परापकारासह्यदुःखविषयिका च । तत्र निरन्तरदुःखविषयस्तु यत् पञ्चजातिशतानि इति । एतेन अस्यौदार्यम् अभिहितम् । असह्यदुःखविषयस्तु यत् अङ्ग-प्रत्यङ्गानीति कथितम् ।

त्रिविधं (हि) दुःखं तावद् असह्यं वस्तु, तद्यथा- संसारदुःखं सत्त्वप्रतिकूलप्रवृत्तिदुःखं परिभोगवैकल्यदुःखं च । तत्र प्रथमस्यासह्यवस्तुनः प्रतिपक्षत्वेन तस्मात्तर्हि इत्युक्तम् । समस्तेनानेन असह्यप्रहाणात् बोधौ छन्देन (वज्रट्_171) प्रणिधानेन च स्थातव्यमिति दर्शितम् । बोधिचित्तोत्पादे सति न केनापि संसारदुःखेन स्पृष्टो भविष्यतीत्यभिप्रायः । बोधिचित्तोत्पादे ऽपि आत्माभिनिविष्टतया त्रिविधदुःखसंज्ञाभिः सन्त्रस्य कदाचित् पुनर्नोत्पादः स्यादतः सर्वसंज्ञा विवर्जयित्वा इत्याह । सर्वसंज्ञाश्चात्र आत्मादिसंज्ञाः त्रिविधदुःखसंज्ञाश्च । रूपाद्यभिनिवेशेन श्रावकादिवत् संसारं परिकल्प्य तद्दुःखसन्तप्ताः न कदाचिदपि बोधिचित्तमुत्पादयन्ति, अतः न रूपप्रतिष्ठितम् इत्याद्यूक्तम् ।

रूपादिषु सताभिनिवेशो हि तत्र प्रतिष्ठित इति पूर्ववदत्राप्युक्तः, न चात्रपुनरुक्तिरपि । अनेन असह्यवस्तुनः प्रतिपक्षो ऽभिहितः । पूर्वेण तु पारमितायां योगः करणीयः । अत्र विनेयैः नाधर्मप्रतिष्ठितम् इति शेषः । अनेन तावदभावे ऽभिनिवेशः प्रतिषिध्यते । न क्वचित् प्रतिष्ठितम् इत्यनेन रूपादिषु नाममात्रसत्ताभिनिवेशः प्रतिषिध्यते, योगसमापत्तिश्चोदीरिता भवति ।

किं रूपादीनां सतां तत्सत्त्वस्य प्रहाणार्थम्, यदुत असतां वितथाभिनिवेशस्य प्रहाणार्थं प्रतिषेधः क्रियते? इति चित्तोत्थितं प्रश्नं वितर्क्य तत्कस्य हेतोः? इत्यपृच्छत् । उत्तरार्थमाह- यत्प्रतिष्ठितं तदेवाप्रतिष्ठितम् इति । अत्रायमर्थः- अनादिकालस्तच्चितं रूपादिषु भावाभिनिवेशबलेन रूपादौ प्रतिष्ठितम्, यः खलु सत्याभिनिवेशः, स तस्य रूपादिवस्तुनो ऽभावात् परमार्थतो न प्रतिष्ठितः । तस्मादेव इत्यनेनोपसंहारेणात्र द्वितीये पक्षे प्रतिस्ठितत्वमेव दर्शितं भवति । दानशब्देनात्रापि पूर्ववत् षट् पारमिता एवाभिप्रेताः ।

द्वितीयासह्यवस्तुन प्रतिपक्षत्वेन अपि तु खलु पुनः सुभूते इत्याद्याह । समस्तेनानेन बोधिसत्त्वा येषामर्थायातिदुष्करपारमितायोगमारब्धुमुत्सहन्ते, ते ऽपि सत्त्वा यदि परमार्थतो न स्युः, सत्त्वसंज्ञापि परमार्थतो न स्यात्, कथं ते तथाविधेषु मिथ्याप्रवृत्तेषु सत्त्वेषु खिन्ना भवेयुः (वज्रट्_172) इत्यादर्शितम् । तत्र सत्त्वं संज्ञां च प्रतिषिध्य नैरात्म्यद्वयमुदीरितम् । सर्वसत्त्वानामर्थाय इत्यनेनात्रौदार्य दर्शितम् । अवशिष्टेन सकलेन गाम्भीर्यं सन्दर्शितम् ।

एवं तावद् युक्त्या क्षान्तिर्युज्यत इति निर्दिश्य साम्प्रतं तथागते सम्प्रत्ययो ऽपि युज्यत इति निरूपयन् भूतवादी इत्याद्याह । प्रथमम् उद्देशः, शेषः विधेयम् । अथवा सत्यचतुष्टयमुद्देशः, क्रमशः अभिसम्बध्यते । अथवा भूतवादी इति साध्यम्, तथागतः इति ज्ञापकनिर्देशः । यथान्ये बुद्धा भगवन्तः क्लेशज्ञेयावरणानि प्रहीणवन्तस्तथैव तथागतो ऽप्ययं गतः प्राप्तः, तेन तथागतः । तस्मादविपर्यस्तत्वेन भूतवादीति, विपरीतदेशनायाश्च हेतोरावरणस्याभावः सिध्यति हेत्वनुपलब्धेः ।

तथागत एवायमिति कथं सिध्यतीत्याह- सत्यवादी इति । ऽसत्यम्ऽ; चतुरार्यसत्यलक्षणम्, तस्य यो वादी, स तथागत इति निर्धार्यते । अत्यन्तपरोक्षार्थस्तु सर्वथा सम्यक् कथयितुं न शक्यते, यथोक्तम्-

परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करम् ।

अयं सत्यवादी सत्यं केन रूपेण जानातित्याह- तथावादी इति । स वस्तुतत्त्वमविपरीततया यथावद् वदतीति तथावादी । स हेयोपादेयतत्त्वं सोपायं यथास्थितं तथैव भाषते ऽतः स कथं न सत्यवादी स्यादिति । एवंभूते ऽपि तद्देशितानि चत्वारि सत्यानि किं तथैव प्रतिष्ठितानीति? इत्यत आह- न वितथवादी इति । यतो ऽविपरीतप्रमाणोपपन्नानि, न प्रमाणबाधितानि उक्तान्यतः सत्यानीत्यर्थः एतेन समग्रेण कार्यकारणेन भगवतः प्रामाण्यं साधितम् । अत एवोक्तम्-

तायात् तत्त्वस्थिराशेषविशेषज्ञानसाधनम् ।

एकस्यापि भावस्वभावस्य परमार्थतो ऽसिद्धत्वाद् एकमपि सत्यं तावद् दुःसाध्यम्, किमिति सत्यचतुष्टयमिति चतुःसत्याभिधानाच्च भूतवादीति ।

एवं भगवता ऽमायोपमाः पञ्चस्कन्धाःऽ; इत्युक्ते सति कथं तेषां दुःखसत्यस्वभावत्वम्, दुःखस्यापि परमार्थतो ऽनृतत्वात् तत्समुदयनिरोधयोप्यसत्त्वमेव, अत्यन्ताभावभूते शशश्रृङ्गादौ तावत्तौ (समुदय-निरोधौ) न सम्भवतः । निरोधस्य त्वभावात् तत्प्रापको मार्गो ऽपि नैव परमार्थतः, गम्याभावे नैव गमको ऽपि । तथोक्तम्- ऽबोधिं प्रतिष्ठाय एकस्यापि सत्यस्य सिद्धिर्न दृष्टा, किमिति चतुर्णाम्?ऽ; इति देशनावत् ।

एतत् प्रविचिन्त्य ये भूतवादिनि शब्दशो ऽभिनिविष्टास्तेषामध्यारोपान्तपरिहारार्थम् अपि तु खलु पुनः सुभूते इत्याद्याह । न तत्र सत्यम् इति परमार्थतः कस्यचिदपि स्वभावस्यासिद्धेः । न मृषा इत्यत्र सत्यव्यवच्छेदेन (वज्रट्_174) स्थितत्वात् तद्व्यवच्छेद्यत्वाभावाद् येन मृषाअत्वं भवेत् तन्मृषा । अथ वा न सत्यम् इति यथा मायोपमा मृषा ज्ञानरूपाः । अविचाररमणीयमात्रतया स्थितत्वाद् न मृषा इति । अनेन तावद् अन्तद्वयप्रतिषेधेन मध्यमा प्रतिपद् एव निर्दिश्यते । श्रावकाणामात्माभिनिवेशस्य प्रहाणार्थं पुद्गलनैरात्म्यांशमात्रेण चत्वार्यार्यसत्यानि देशितानि, न तु सर्वेभ्य इत्यविरोधः ।

कायादिकमुपलभ्य तदर्थको दानं ददाति, अनुपलभ्य अतदर्थको वा, तयोः को विशेष इति यच्चिन्तनं तत् तृतीयस्यासह्यवस्तुनः प्रतिपक्षत्वेनाह तद्यथापि नाम इत्यादि । यः काय-भव-भोगात्मकवस्तुषु सुखमात्रत्वेनाभिनिविश्य (सत्यत्वेनैवाभिनिविश्य) तदर्थिकस्तत्र पतित्वा दानं ददाति, स अन्धकारप्रविष्टपुरुषसदृशः, सतोरपि चक्षुषोः वस्त्वर्थानुपलम्भेन हेयोपादेयार्थानभिज्ञतया विपर्यस्तार्थेषु समस्तदुःखस्थानेषु पतितो भवति । ततः बोधिसत्त्वा महासुखभोगात् प्रच्युता भविष्यन्ति । तद्वियोगेन श्रावकादिवत् दुःखसन्तप्ततया बोधेर्व्यावृता भविष्यन्ति ।

यो वस्त्वपतिओतो दानं ददाति, कायादिवस्त्वनुपलभ्य तदनर्थी भूत्वा दानं ददाति तत्तु यथापि नाम चक्षुष्मान् पुरुषः नानाविधानि रूपाणि पश्येत् दृष्ट्वा च हेयस्य हानम् उपादेयस्य चोपादानमिव । (अथ) तदपि असत्यरुणोदये कदाचिन्न दृश्यत इति? सूर्ये ऽभ्युद्गते इत्याह । सूर्ये ऽभ्युद्गते ऽपि अन्धकारपूर्णेषु गृहादिषु न पश्यतीति मत्वाह प्रभातायाम् इति । (वज्रट्_175) प्रभातेति शब्दः अन्धकारद्योतनार्थमुक्तः तस्मान्निरन्धकारायां दिशायामित्यर्थः ।

तत्सामग्र्ये ऽपि यो ऽन्धः, स कदाचिदपि न पश्यतीत्याशङ्कायां चक्षुष्मान् इत्याह । एवमवस्तुपतितो बोधिसत्त्वो द्रष्टव्यः, सः अविद्यातामिस्रप्रबोधेन ज्ञानसूर्याभ्युद्गमेन च नानाविधानि ज्ञेयानि यथावत् सम्पश्यति, विपर्यस्तवस्तूनि समस्तदुःखस्थानानि हेयदुःखानि चापि मृषात्वात् परिवर्जयति, समस्तसुखस्थानस्यानुरसम्यक्सम्बोधिलक्षणस्योपादेयस्योत्तमपदस्यापि कामनया तत्र प्रवर्तते ।

तस्माद् बोधिसत्त्वा महाभोगसम्पदनुप्राप्य अनुत्तरसुखेन कायं स्थिरीकृत्य बोधेरविनिवृत्ता भवन्तीत्यभिप्रायः, अत एव अविनिवृता इति । पूर्वं त्वालम्बनमात्रेण तस्मिन् स्थितिरादर्शिता, अत्र तु आलम्बनपूर्वकं तस्मिन्ननुरागलक्षणे पतनम् । तस्मादत्र पतित इत्युक्तम्, पूर्वं तु प्रतिष्ठित इत्युक्तम् । अनेन सकलेन चित्तप्रग्रहः परिदीपितः ।

14. ध्यानसास्वादविरति-स्थानम् : अनेन प्रकारेण क्षान्तिप्रवृता अपि ये ध्यानसमास्वादयन्तस्तत्रैवासक्ता ज्ञानसम्भारपारिपूरये हेतुभूतं महायानधर्ममनारब्धास्तेषां ज्ञानसम्भारवियोगपरिहारार्थं चतुर्दशस्थानमधिकृत्य अपि तु खलु पुनः सुभूते इत्याद्याह । स्थानेनानेन ध्यानरसास्वादापगमाय पञ्चभिः प्रकारैः सद्धर्मं प्रति वीर्यार्थं गुणविशेषः परिदीपितः, (यथा)- 1. तथागतानुभावः, 2. विशिष्टपुण्यसञ्चयः, 3. धर्मतत्साधनयोः प्रशंसनम्, 4. देवादिभिः सत्कारः, 5. पापपरिशोधनं च । तत्र तथागतानुभावस्तु ज्ञातास्ते तथागतेन इत्यादि यदाह । उद्ग्रहीष्यन्ति इत्यादिपदानां व्याख्यानं पूर्ववदेव । भगवान् हि सर्वं विजानातीति सर्वज्ञः द्रष्टा च । तत्र किं महद् आश्चर्यं तेष्वित्यन्वेषणायां पुण्यसञ्चयवैशिष्ट्यमादर्शयितुमाह सर्वे ते सत्त्वाः इति । अप्रमेयपुण्यस्कन्धानां प्रसवनाद् ज्ञातास्ते भाग्यवन्त इति वाक्यशेषः ।

किं च तावत् पुण्यस्कन्धस्य वैशिष्ट्यम्, येन (सः पुण्यस्कन्धः) अपरिमितो भवतीति विचिन्त्य विशिष्टपुण्यसंग्रहं दर्शयन् पश्च खलु पुनः सुभूते ! स्त्री वा पुरुषो वा इत्याद्याह ।

सूर्य-प्रभा-पृथ्वीजलाद्यवस्थाविशेषः पूर्वाह्णः । एवम्भूतेष्ववस्थाविशेषेष्वेव कालः इति प्रज्ञप्यते, न तु विशिष्टत्वेन परिकल्पित इवेति दर्शयितुं कालशब्दस्तत्सामान्याधिकरण्येन विशेष्यते । अन्यथैकात्म्याद् अयं पूर्वाह्ण इत्यादिभेदा न स्युः । विशेषणान्तरैर्भेदे ऽभ्युपगते स एव विशेषः सूर्याद्यवस्थानां विशेषः पूर्वाह्णादिव्यवहारप्रज्ञप्तीनां च हेतुः स्यात्, अकिञ्चित्करत्वे किमदृष्टसामार्थ्येन कालेन प्रज्ञप्तेनेत्यभिप्रायः । न च स मन्दतीव्रबुद्धयादिलिङ्गवानपि युज्यते, मन्दादिबुद्धीनां तद्धेतुतः समुद्भवे क्रमोणोत्पत्तिविरोधाद्, एतच्च पूर्वं दर्शितमेव । बाधकप्रमाणस्यापि प्रागेवात्मदूषणप्रसङ्गे दर्शितत्वात् किमधिकेन ।

सामान्यजनैः सङ्केतवशेनोत्पन्नस्तथाविधः प्रणिनामवस्थाविशेषः कालः इति व्यवहारे प्रज्ञप्यते, न तु शब्दार्थसम्बन्धप्रज्ञप्तिवशेनेति दर्शयितुं समये इति शब्देन विशेष्यते । कस्यचिदेकस्याप्यकथनेन यथोक्तदेशनाभिप्रायस्य प्रतिपादनाभावात् पदत्रयमुक्तम् । सङ्केतविषयत्वेन प्रज्ञापकं शब्दमारोप्य समानाधिकरण्यं कॄतम् । ध्यानरसास्वादविरागायात्रेदमुक्तम् । पूर्वं देयस्य एवंविधस्य च कालस्यानिर्देशान्नैव तावत् पुनरुक्तिदोषः ।

अयमेव ततो निदानं बहुतरं पुण्यस्कन्धं प्रसुनुयाद् अप्रमेयमसंख्येयम् इत्यनेन औदार्यं परिदीप्यते । संख्या-द्रव्यकाल-विशेषैर्विशिष्टं दानोद्भूतं पुण्यमभिभूयते । एवं तावत् गङ्गानदीबालुकासमान इति संख्याविशेषं दर्शयति । आत्मभावः इति दुरवगाहो द्रव्यविशेषः । कल्पकोटिनियुतशतसहस्राणि इति कालविशेषः । सा च कल्पकोटिः नियुता, सापि शतसहस्रेति पदेन युक्ता ।

एतत् कथं ज्ञातव्यम्? इति धर्मस्तुतिवैशिष्ट्यं दर्शयितुम् अपि तु खलु सुभूते इत्याद्याह । अचिन्त्यो ऽयं धर्मपर्यायः अत्यन्तगम्भीरः सर्वधर्माणां निस्वभावतालक्षणः तथागतैः प्रत्यात्मवेदनीयः, श्रावकादिभिरपरैश्चापि (वज्रट्_178) चिन्तयितुमशक्यो ह्यत्र निर्दिष्टः । अतुल्यः इति अन्यत्र एवंविधस्य अदर्शनात्, एतत्तुल्यस्य विशिष्टस्य वाभावात्, तुल्यस्य अधिकस्य वाभावेन अचिन्त्यहेतुतो ऽचिन्त्यमेव फलं सम्भवतीत्युक्तम् । कथं अतुल्य इति चिन्तायामाह श्रेष्ठयानसम्प्रस्थितानाम् इति । अतिशयेन पारं गतस्तु श्रेष्ठ इति । श्रावकादीनाम् अयं धर्मपर्यायः इत्युक्तम् । अग्रयानम् इत्यग्राणां यानं वा अग्रं चेदं यानमिति वा पदविग्रहः । ये तत्र सम्प्रस्थितास्ते तथोच्यन्ते । एवमेव श्रेष्ठयानसम्प्रस्थितनामित्यपि तस्समानमेव । तौ तावत् पर्यायौ । पर्यायदेशनाभिप्रायस्तु विनेयजनोपकारः, येन कतिपये भव्या भवन्ति ।

इतरयानान्यपेक्ष्य श्रेष्ठ इति केचित् । समस्तक्लेशज्ञेयावरणविशुद्धया वा श्रेष्ठ अथवा अग्रमिति परमम् । प्रत्येकबुद्धयानमपि श्रावकयानापेक्षया परमिति विचारणायामाह- श्रेष्ठयानसम्प्रस्थितानाम् इति । अत्यन्तं प्रशस्तगमनात् श्रेष्ठ इत्युक्तम् । श्रावकाद्येनेकयानेभ्यो ऽतिशयेन प्रशस्यत्वादत्र श्रेष्ठः इति शब्द प्रयुक्तः । तच्च महायानमित्येव । श्रावकादिनामभव्यत्वाद् धर्मदेशनेयं बोधिसत्त्वेभ्य एवोक्ता । तेन सिद्धो ऽयं धर्मपर्यायो ऽतुल्य इति । तथागतेन भाषितः इत्यन्येषामगोचरत्वात् । धर्मपर्यायो ऽयम् इत्यादिभिः यथोक्तार्थान् प्रसाध्य उपसंहृत्य च तत्प्रतिपत्तुं विशेषस्तुतिः सन्दर्शिता ।

यतो हि धर्मपर्यायो ऽयमचिन्त्यो ऽप्रमेयश्च तस्माद् विपाको ऽप्यस्याचिन्त्य एव । ततः ये इमं धर्मपर्यायं धारयिष्यन्ति इत्यादि तु सिद्धमेवेत्यर्थः । अप्रमेयम् इत्युद्देशः, शेषस्तान्निर्देशः । तत्र अचिन्त्यम् इति चिन्ताविषयातिक्रान्तत्वेन अननुमेयत्वात् । अतुल्यम् इत्यप्रतिसमम् । अमाप्यम् इति सर्वसत्त्वप्रयोगे ऽपि मापयितुमशक्यत्वात् । अपरिमाणम् इति (वज्रट्_179) महद्भिर्देशादिभिरप्यपरिमाप्यत्वाद् आकाशतोप्यधिकम् । अथवा सर्वाण्यपीमानि पर्यायान्तर्गतानि । सर्वे ते सुभूते, सत्त्वाः समांशेन बोधिं धारयिष्यन्ति इति बोधिभारोद्वहनम् अंशोद्वहनसदृशम् । अनेन तावत् सकलेन ध्यानसुखास्वादं परित्यज्य ज्ञानसम्भारपारिपूरिहेतौ धर्मपरिग्रहणादौ छन्दप्रणिधानाभ्यां स्थातव्यमिति दर्शितम् ।

कस्मात् खलु श्रेष्ठयानसम्प्रस्थितेभ्यो भगवता भाषितो न त्वन्येभ्यः, किं खलु भगवत्यपि रागो द्वेषश्च इति विचिन्त्य तत्कस्य हेतोः? इत्याह, अतः सुभूते हीनाधिमुक्तिकैः इत्युदतरत् । अनेन खलु भगवति सर्वसत्त्वेषु एकसुतवद् वात्सल्यमिति नास्ति रागो द्वेषो वा । तथापि ये यदा भव्या भवन्ति तदा तेभ्यो देशयन्ति, न त्वन्येभ्यः । अन्यथा उपायानभिज्ञत्वान्नैव भवेद् भगवान् सर्वज्ञः इत्येवं दर्श्यते । हीनाधिमुक्तिकैरिति श्रावकप्रत्येकबुद्धैः । आत्मादिदृष्टिकैः इति तैर्थिकैः । नेदं स्थानं विद्यते इति नास्ति तदर्थमवकाश इति ।

यच्छ्रावकैः प्रत्येकबुद्धैश्चापि श्रोतुं न शक्यते तत्कथं शक्यते पृथग्जनैः श्रोतुम्? यत्तैर्न श्रोतुं शक्यं तत् कथं शक्यत उद्ग्रहीतुं वा पर्यवाप्तुं वा । अतस्तदसम्भवमित्यर्थः । अनेन तावद् योगसमापत्ताववातार्यते ।

यद्येवं कथं तावदार्यसुभूतिना धर्मपर्यायो ऽयं श्रोतुं शक्यत इति चेद्? भगवतो ऽधिष्ठानेनेति नास्ति दोषः । सर्वप्रदेशेषु यस्मिन् पृथिवीप्रदेशे सूत्रमिदं भाष्यते स एवैकः पृथिवीप्रदेशो ऽनुशंसनीय इति प्रतिपादयन् देवदिसत्कारवैशिष्ट्यं दर्शयितुम् अपि तु खलु पुनः सुभूते इत्याद्यवोचत् ।

पूर्वं तावद् बाह्यशास्त्राभिष्वङ्गपरिवर्जनार्थमुक्तम्, सम्प्रति ध्यानरसास्वादवर्जनार्थमिति नास्ति पुनरुक्तता, समस्तसंगृहीतार्थाभिधाने ऽपि भिन्नप्रसङ्गाभिधानान्नास्ति पुनरुक्ततेति ज्ञातव्यम् । पूजनीयः इति छत्रध्वजपताकादिभिः, वन्दनीयः इति नमस्करणीयः, प्रदक्षिणीयः प्रदक्षिणायोग्यः, अत एव पूजनीयत्वादिधर्मैर्युक्तावाद् चैत्यः ।

ननु ईदृशेषु धर्मपर्यायेषु अभ्युद्यतानामपि कथं केचित् परिभूता दृश्यन्त इति चिन्तायां पापपरिशोधनविशेषदेशनाय ये सुभूते, कुलपुत्रा वा कुलदुहितरो वा इत्याद्याह । परिभूता भविष्यन्ति इति परिभाषणभण्डनादिभिर्व्यापन्ना भविष्यन्ति, सुपरिभूताश्च भविष्यन्ति इति वधबन्धनादिभिः पीडिता भविष्यन्ति ।

एवमेते महात्मानः कथं परिभूता भविष्यन्तीति विचिन्त्याह तत्कस्य हेतोः? इति । तेषां सत्त्वानाम् इत्याद्युदतरत् । पौर्वजन्मिकानि इति पूर्वजन्मनि कृतानि । दृष्ट एव धर्मे इति प्रत्युत्पन्नजीविते । बुद्धबोधिं (वज्रट्_181) चानुप्राप्स्यन्ति इति पापानि परिशोध्य कालान्तरे भावनानिरता न चिरं अनुत्तरसम्यक्सबोधिमभिसम्बुद्ध्य बुद्धा भविष्यन्तीति वाक्यार्थः ।

ततो निदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम् इति यदाह तत्र केन प्रकारेण अप्रमेयाख्येयावबोधः स्यात्? इत्यत्र अभिजानाम्यहं सुभूते इत्याद्याह । अत्र प्रभावेण बहुतरेण चाप्रमेयमसंख्येयं च परिदीपितम् । तत्राभिजानामि सुभूते अतीते ऽध्वन्यसंख्येयैः कल्पैः असंख्येयतरैः इत्यादिना प्रभावः परिदीपतः । अयं तावत् पुण्यस्कन्धस्यैव प्रभावः । एतावता प्रशस्तरो विशिष्टतरः (पूर्वकः) पुण्यस्कन्धो ऽप्यभिभूयते । दीपङ्करतः यावत् असंख्येयकल्पम् । असंख्येयकल्पस्तावद् गणनातीतत्वात्, दीपङ्करस्य परेण परतरेण चतुरशीतिबुद्धकोटिनियुतशतसहस्राण्यभूवन्, ये मयारागिताः इति प्रतिपत्त्यर्चया आराधिताः । न विरागिताः इत्यन्तराले ऽपि तदभिनिर्हारस्य अनुत्सृष्टत्वात् । यच्च इति कर्तृविशेषः ।

ततो ऽयमर्थः यश्च आरागणादिकः (पुण्यस्कन्धः), यश्च उद्ग्रहणादिश्रद्धादिपुण्यस्कन्धस्तदुत्पादितश्च वासनात्मकः स्कन्धः, अनयोः (पुण्यस्कन्धयोः) पूर्वपुण्यस्कन्धः उत्तरपुण्यस्कन्धस्यास्य शततमीमपि कलां (वज्रट्_182) नोपैति इति । एतावतो ऽल्पीयस्त्वं दर्शयितुं सहस्रतमीमपि इत्याह । संख्या इति तुल्येष्वेव युज्यते, यथा हिमवता (तुल्य) विन्ध्य इत्युच्यते, न तु सर्षपः । कलाम् इत्यंशः, स च समानजातीय एव, यथा सुमेरोः कला पर्वतशिखरमेव, न तु तृणशिखरः । गणनाम् इत्यपि तुल्येष्वेव्, यथा सुमेरुरपि गिरिः, हिमवानपि गिरिः, न तु सर्षपः । उपमाम् इत्यपि सदृशेष्वेव, यथा गोसदृशो गवय इत्युच्युते, न तु मक्षिका । लघुरपि परिकर्मवशेन तस्य (महतः) कृत्यं करोति, यथा निशिते कृते सति दात्रमप्यसिकृत्यं करोतीति मत्वा उपनिषदम् इत्याह । ताडनपीडनादिविस्तारोपायेन तीक्ष्णीकृते ऽप्यतिलघुतया न क्षमत इत्यर्थः । अत एव औपम्यमपि इत्याह । तस्योपमाभावमपि न क्षमते ।

सर्वज्ञवचनादेवैतज्ज्ञातव्यम्, एवंविधेषु इन्द्रियविषयातीतेषु विषयेषु सर्वज्ञवचनस्यैव प्रामाण्यात् । अपि च परिशुद्धे काले सर्वसत्त्वानामपि परिशुद्धत्वान्नाश्चर्याम्, अपरिशुद्धे तावत् काले ये सत्त्वा क्षणमात्रमश्यपरिशुद्धा भवन्ति, तदाश्चर्यम् । एवं प्रभावमुखेन तावदप्रमेयत्वं प्रदर्शितम् ।

कथमसंख्येयं संख्ययेति विचारणायां सचेत्पुनः सुभूते...... तस्मिन् समये इत्याद्याह । तेन बहुलं परिदीपितम् । तत्पुण्यगणनयापि विषादमनुप्राप्य (वज्रट्_183) व्यामुग्धचित्तान्तर्विशेषे उन्मादमनुप्राप्नुयुः । ततः उद्भूतेनोन्मादेन चित्तविक्षेपं वा गच्छेयुः । अनेन गाम्भीर्यमौदार्यं चोपदिष्टिम् ।

एवमस्नाद् धर्मपर्यायात् संख्याप्रभावप्रतिसंयुक्तमेवंविधं फलं कथं ज्ञायत इति? अपि तु खलु पुनः सुभूते इत्याद्याह । फलं पुनः हेत्वनुरूपमेव भवति । लघिष्ठे ऽपि न्यग्रोधवृक्षबीजे ऽतिशयसारसम्पन्नत्वाद् बृहच्छाखापल्ल्ववृक्षभूतं फलं नोपदृश्यते । धर्मपर्यायो ऽप्ययम् अल्पपरिवर्तो ऽप्यत्यन्तगम्भीरः, अचित्यधर्मदेशनाद् अचिन्त्यः । अतो ऽस्मादचिन्त्याद् हेतुप्रत्यययानुरूपमचिन्त्यं फलं भवति, हेतुप्रत्ययप्रभावस्तावत् सर्वज्ञगोचरत्वाद् अचिन्त्यः । विपाकशब्दो ऽत्र फलार्थः, तेन निष्यन्दादिफलानि संगृह्यन्ते । एतेन सर्वेण चित्तप्रग्रहो दर्शितः ।

15. अभिसमयकाले ऽहमितिविकल्पवियोग-स्थानम् :

एवं निराकृते ऽपि ध्यानसास्वादे प्रत्यासन्ने ऽभिसमयकालें यैः बोधिसत्त्वैः आत्मवैशिष्ट्यमवलोक्य ऽअहं सम्यक्सम्बोधिमार्गप्रतिपन्नः, सर्वे मया सत्त्वाः परिनिर्वापयितव्याःऽ; इति मन्यमानैस्तैस्तस्मिन् आत्मग्राहविकले ऽभिसमयाकाले कथं स्थातव्यम्, कथं प्रतिपत्तव्यम्, कथं चित्तं प्रग्रहीतव्यम्? इत्येतद् दर्शयितुं पञ्चदशस्थामधिकृत्याह- सूभूति....... अवोचत्- कथं भगवन्, बोधिसत्त्वयानसम्प्रस्थितेन स्थातव्यम् इति । स्थातव्यमित्यादिदेशनात्रयं तु (वज्रट्_184) प्रागेवोक्तं भगवता । नास्ति सुभूते, स कश्चिद् धर्मो यो बोधिसत्त्वयानसम्प्रस्थितो नाम इत्यवशिष्टेनात्र आत्मग्राहविसंयोगः क्रियते । शेषाणां (पदानां) व्याख्या तु पूर्ववत् ।

यथेदं पुद्गलधर्मनैरात्म्यं प्रागेव भगवता प्रकाशितं तथोक्ते सति बोधिसत्त्वेषु पुनः अभिसमयकाले कथमात्मग्राहः सम्भवेद्? तन्निराकरणायोक्तमपि किं पुनरुच्यते? अथैवमपि देशनायां संमुह्येत् प्रागुक्तस्यानवस्थानं च स्यादिति? तथा देशिते ऽपि अनादिकालात्यन्तदृढीभूतात्माभिनिवेशवशतया केषाञ्चित् सम्मोहस्यानिवृत्तेः देशितो ऽप्यर्थः पुनरुपदिश्यते । पुनर्देशनाकाले पारिषद्यानां सम्मोहनिवृत्तेनार्नवस्था स्यात् । भगवता कृतस्योपदेशस्य फलं तावत् सम्मोहविनिवृत्तिरेव विनेयजनानामिति न निष्फलम् । अत एव सम्मोहनिर्वृतौ सत्यां फलाभावेन पुनः प्रवृत्त्यभावात् प्रकृतमेवेदम् ।

16. अववादपर्येषणस्थानम् :

यदि बोधिसत्त्वयानसम्प्रस्थितो नाम न स्यात् स कश्चिद् धर्मः (तर्हि) कथं भगवान् दीपङ्करस्य शास्तुरन्तिकादववादं प्राप्य अनुत्तरां सम्यक्सम्बोमभिसम्बुद्धः? अथ न स्याद् (सः) अभिसम्बुद्धः (तर्हि) अभिसमयकाङ्क्षिणाववादो न पर्येष्टव्य इति ये मन्यन्ते, तेषामववादवियोगविसंयोगाय षोडशस्यामधिकृत्य तत्किं मन्से सुभूते इत्याद्याह । पूर्वं धर्मकायाप्तिकामतावसरे धर्मग्राहनिषेध उक्तः, इदानीमभिसमयकाले अभिसम्बुद्धस्य तस्य निषेधः क्रियते ऽतो न पुनरुक्तता । नास्ति परमार्थतः स कश्चिदपि ज्ञानज्ञेयात्मको धर्मः, यथा पूर्वं विचारितम् । तद्बलेन अविचाररमणीयमात्रतया श्रुतमय्यादिप्रज्ञोपादकमेण भगवतः- (वज्रट्_185) स्वयम्भूसर्वज्ञज्ञानं तथ्यसंवृत्या ग्राह्यात्मकं समुद्भवति ।

ननु तदपि भगवतो दीपङ्करस्यानुभावमात्रमिति चेद्? एवं सत्यपि अनुरूपमेव, तथापि तस्मिन् सर्वबुद्धानां साधारणानुभावाः, न केवलं भगवतो दीपङ्करस्यैव । यदि न स्यादभिसम्बुद्धः (कश्चित् तर्हि) कथं तेन सम्यक्संबोधौ भगवान् व्याकृत इति विचार्य सचेत् पुनः सूभूते इत्याद्याह ।

अयमभिप्रायः- यदि भगवतः प्रत्यात्मवेद्यो धर्मः परमार्थतो तथाभूतो भवर्त् तदा स्यादभिसम्बुद्धः, अथवा ऽमया पुनः धर्मो ऽभिसम्बुद्धःऽ; इत्यहङ्कारः समुद्भवेत् तदा स्याद् ऽअभिसम्बुद्धःऽ; इत्येवं विपरीताभिनिवेशात् तथागतस्य व्याकरणं न भवेत् । यतो हि तदा ऽमयाभिसम्बुद्धःऽ; इति न भवति, न च धर्मोदिष्वप्यभिनिवेशः भवति । तत एवाहम् अविपरीतसम्यग्ज्ञानमार्गस्थितौ व्याकृतः ।

नास्ति स कश्चिद् धर्मो ऽभिसम्बुद्धः इत्यनेन अर्थतो दीपङ्करस्यान्तिकाद् अववादग्राहविकल्पं विपक्षत्वेन दर्शयित्वा तद्विकल्पप्रहाणाय छन्दः प्रणिधानं चापि देशितम् । दीपङ्करेत्युपलक्षणमात्रेणाभिहितेन सर्वे धर्मोद्ग्रहणविकल्पा निर्वतन्ते । नास्ती इत्यनेन तस्य गम्भीरत्वमुक्तम्, सम्यक्सम्बोधये अववादपर्येषणविधानेन तावदस्योदारत्वं चोक्तम्, श्रावकप्रत्येकबुद्धाववादाद् अत्यन्तविशिष्टत्वात् ।

यदि तथागतेन सम्यक्सम्बुद्धेन न स्यात् स कश्चिद् धर्मो यो ऽनुत्तरायां सम्यक्सम्बोधौ अभिसम्बुद्धः, तदा कथं तथागतत्वं भवेत्? तद्यथा पूर्वबुद्धा अभिसम्बोधिं गताः, तथैवात्रापि गतत्वादभिसम्बुद्धस्तथागत उच्यत इति चेत्? अभिसम्बुद्ध इत्याख्यस्य कस्यचिद् धर्मस्याभावात् तत्कथं भवेदिति विचिन्त्य तत्कस्य हेतोः इति पृष्ठवान् । तथागत इति सुभूते इत्यादि चोदतरत् । तथता इति धर्माणामविपरीतस्वभाव उच्यते, स चन्दिशान्तादिस्वभावः, सर्वधर्मसाधारणत्वात् सा भूतः इति वचनेन विशेषिता, भुतस्तु यथार्थत्वेन तथागतज्ञानमभिधीयते । तस्यास्तथताया या परमार्थतो ऽनुपन्नधर्मता स तथागत इत्युच्यते । यथोक्तम्-

अनुत्पादधर्मः सततं तथागतः । इति ।

परमार्थतो धर्मतापि धर्मिणो नेतरा, अतः परमार्थतः सर्वधर्माणामनुत्पादो धर्मता । सर्वधर्माधिगमस्वभावो ऽविचाररमणीयः परमार्थतो ऽनुत्पन्नः तथ्यसंवृतौ परिकल्प्यमानः सज्ज्ञानविशिष्टः ऽतथागतःऽ; उच्यत इति वाक्यार्थः । तस्य च परमार्थतो ऽनुत्पन्नत्वान्नास्ति कश्चिद् ग्राह्यो ग्राहको वा । तस्मान्नास्ति कश्चिद् धर्मो ऽप्यभिसम्बुद्धः (नाम) परमार्थतः । तथ्यसंवृतिमाश्रीत्य तेन विशिष्टज्ञानेन यथा अभिसम्बुद्धः तथा गत इत्येवमभिप्रायः ।

परमार्थाश्रयेणाभिसम्बुद्ध इति कस्मात्तथा नोच्यते? इति चिन्तायां यः कश्चित् सुभूते इत्याद्याह । तत्कस्य हेतोः? इति न सत्यम् इत्यनेन योग्जम् । शेषस्तु सुगमान्न व्याख्यायते । एवं तर्हि ऽसंवृतितः तथागतेन अभिसम्बुद्धःऽ; इति व्यवस्थैव कथं व्यवस्थाप्यत इति विचार्य यश्च धर्मः इत्युक्तम् । यः इति रूपादिलक्षणधर्मः, तत्र न सत्यम् इतिः मायावत्प्रतिभासमानानां विचार्यमाणानामत्यन्तशून्यत्वेनानुत्पन्नत्वात् शशश्रृङ्गवद् अत्यन्ताभावः । न मृषा अविचाररमणीयस्वभावेन मायावत्प्रतिभासमानात् । अथवा नापि सत्यम्, न कस्यापि धर्मस्य परमार्थतः सिद्धेः । न मृषा, न च विचारगोचरः कश्चित् सत्यः सिद्धः, सर्वधर्माणामनुत्पादात् ।

अनेनाध्यारोपापवादान्तौ निराकृत्य मध्यममार्गं च व्यवस्थाप्य योगसमापत्तौ प्रवर्त्त्यते । तस्मात् इत्येवं परमार्थतः सर्वधर्माणामनुत्पादात् न सत्यं न च मृषा । तथागतो ऽपि परिशुद्ध्यानुत्पादधर्मया प्रभावितः, अनुत्पादधर्मतायाः साधारणत्वात्, (तथा हि)-

अनुत्पादधर्मः सततं तथागतः सर्वे च धर्माः सुगतेन सादृशाः । निमित्तग्राहेण तु बालबुद्धयः असत्सु धर्मेषु चरन्ति लोके ॥

इत्यादि । सर्वधर्मा बुद्धधर्माः इति तथागतो भाषते । यद्यनुत्पन्ना एवामी धर्मास्तत् कथं सर्वधर्माः इत्युच्यन्त इति प्रविचिन्त्य सर्वधर्मा इति सुभूते इत्याद्याह । अयमत्रार्थः- परमार्थतस्तथा विद्यन्ते, न तु व्यवहारप्रज्ञप्तितः । असन्तस्तावत् परमार्थतो रूपादिधर्माः, किन्त्वपरमार्थं खल्वविचारितमाश्रित्य यस्मात् स्वसामान्यलक्षणग्रहणं तस्मात् सर्वधर्माः इत्युच्यन्ते, न तु परमार्थतः, तत्र स्थितानां सर्वेषां दृश्यमानत्वे ऽप्यभावात् । अनेन तावद् विक्षेपनिग्रहः सन्दर्शितः ।

17. अभिसमय-स्थानम् :

यदि न स्यात् स कश्चिद् धर्मो भगवताभिसम्बुद्धः कथं (तर्हि) बोधिसत्त्वा उपादत्तमववादं सम्मुखीकृत्य धर्मपुद्गलनैरात्म्यमधिगच्छेयुः? इति विचिन्त्याभिसमयप्रतिपादनार्थः तद्यथापि नाम इत्याद्याह । अयमभिसमयस्तावत् ज्ञानप्राप्तिनिरभिमानिताभ्यां संदर्श्यते । कथं ज्ञानप्रात्येति चेत्? द्विविधं ज्ञानमाश्रित्य, गोत्रसम्परिग्रहज्ञानं समताज्ञानञ्च । तत्र यज्ज्ञानप्राप्त्या तथागतगोत्रे समुत्पद्य बुद्धगोत्रे नियतो जायते तद् गोत्रसम्परिग्रहज्ञानम् । तदुत्पादेन उपेतकायो भवति । उपेत इत्यात्मना परिगृहीतः, कायस्तु तथागतकायः । येन सो ऽधिगतः, स उपेतकायः । कथं ज्ञायते तज्ज्ञानप्राप्तिरित्याह- महाकायः इति ।

अनेन पुद्गलधर्मनैरात्म्यसमताज्ञानं समवाप्य अभिसमयः सम्प्रदर्श्यत इत्यतो गोत्रज्ञानमभिधीयते । तेन समताज्ञानेन पुद्गलधर्मनैरात्म्यधिगम्य सर्वे (वज्रट्_189) सत्त्वा आत्मनि (आत्मवत्) सङ्गृहीता भवन्ति । तस्मात् समस्तसत्त्वकायानामात्मनि सङ्ग्रहेण स महाकाय इति । नाप्यपार्थको ऽयं शब्दः, एवं सर्वसत्त्वानामात्म- सङ्ग्रहेण स काय इत्युच्यते । तेषां संबहुल्वे ऽपि न महाकायशब्दार्थत्वम् । अनेन स्थानस्यास्य औदार्यं समुदीरितम् ।

अयमभिप्रायः- बोधिसत्त्वानामभिसमयो ऽप्ययं तथ्यसंवृतिमाश्रित्य विशिष्टज्ञानोत्पादमात्रेण प्रभावितो भवति । परमार्थतो न किञ्चिन्निरूपकं निरूप्यं वेति दर्शयितुम्, आर्यसुभूतिः- भगवंस्तथागतेन पुरुषो भवेदुपेतकायः इत्याद्याह । अनेनार्थतस्तावदुपेतकाय-महाकायाभिनिवेशस्तु विपक्षत्वेन निर्दिष्टः । (अतः) तत्प्रहाणाय छन्दप्रणिधानाभ्यां स्थातव्यमिति दर्शितम् । उपेतकायो महाकाय इति निमित्तमात्राभिधानेन बोधिअसत्त्वानां सर्वधर्मेष्वभिनिवेशो निवर्तते । परमार्थे ऽपि तावद् व्यवस्थाप्य योगसमापत्तौ चावतार्यते । गम्भीर्यमप्युक्तम्, समारोपान्तो ऽपि निराकृतः । पूर्वेण तावदपवादान्तः प्रतिषिद्धः ।

यदि तथागतेन स एव कायो स्यात् नोक्तः स्यात् तदा प्राप्ताभिसमयो बोधिसत्त्वं ऽएवं मया बोधिसत्त्वाभिसमयः सम्प्राप्तः साम्प्रतमहं सत्त्वान् परिनिर्वापयिष्यामिऽ; इत्येतत् कथं सञ्चितयेत्यन्यदीयं सद्विकल्पं समुदीक्ष्य निरभिमानितयाभिसमयं दर्शयितुं यो बोधिसत्त्वं इत्याद्याह । अनेन य एवं वदेत्- अहं सत्त्वान् परिनिर्वापयिष्यामीति ऽअहं य एवं वदेत्- अहं सत्त्वान् परिनिर्वापयिष्यामीतिऽ; अहं बोधिअसत्त्वो ऽस्मि (वज्रट्_190) इत्यभिमानी स तथ्यतो न बोधिसत्त्वः इति दर्श्यते । तत्कस्य हेतोः? इत्यत्र ज्ञापकहेतुः परिपृष्टः । धर्मः इति तु रुपादिअस्वभावो वा पुद्गलादिस्वभावो व । युक्तितो विचारणायां तस्य धर्मस्यादृस्टत्वाद् आर्यसुभूतिरप्याह नो हीदम् इति । तस्या युक्तेः सर्वत्र साधारणत्वाद् भगवान् नैरात्म्यद्वयावतारणार्थं तस्माद् इत्याह । निसत्त्वाः इत्यादि तावदुपलक्षणम्, निःस्वभावा अपि द्रष्टव्याः । अनेन विक्षेपनिग्रहो निर्दिष्टः । उक्तो ऽभिसमयः ।

अत ऊर्ध्वं बुद्धभूमे पर्येषणम् । तदपि बुद्धस्य सप्तभिः सम्पद्भिः संगृह्यते । सप्त सम्पदश्च- 1. क्षेत्रपरिशुद्धिसम्पद् 2. अनुत्तरदृष्टिपरिशुद्धिसम्पद् 3. अनुत्तरज्ञानपरिशुद्धिसम्पद् 4. प्राप्तपुण्यस्कन्धाधिपत्यसम्पद् 5. कायसम्पद् 6. वाक्-सम्पद् 7. चित्तसम्पच्च ।

1. क्षेत्र परिशिद्धिसम्पद् :

तत्र यदि न स्यात् कश्चिद् बोधिसत्त्वो नाम धर्मः, (तर्हि) कस्तावद् बुद्धक्षेत्रं परिनिष्पादयितुं यत्नं कुर्यात्? इत्याशङ्कां निराकर्तुं बुद्धक्षेत्रपरिशुद्धिसम्पदमधिकृत्य- यः सुभूते बोधिसत्त्वः इत्याद्याह । सो ऽपि तथैव वक्तव्यः इत्यभिमानित्वान्नोच्यते स बोधिसत्त्व इत्यर्थः । (वज्रट्_191) पुद्गलधर्मनैरात्म्ययोरनधिगमे ऽप्यधिगतमित्यभिमानात् । एवमहस्मीत्यभिमानान्न तस्य पुद्गलनैराअत्म्यावगमः, न च धर्मनैरात्म्यावबोधः, असत्सु क्षेत्रव्युहेष्वपि तत्राभिमानात् । अनेन क्षेत्रव्यूहेषु मायोपमत्वाधिमुक्त्या बोधिसत्त्वेन कथं स्थातव्यमित्येतद् दर्शितम् ।

यदि परमार्थतो न स्युस्ते क्षेत्रव्यूहाः (तदा) भगवता कथमुक्ता इति विचिन्त्य तत्कस्य हेतोः? इत्याह । पूर्ववदस्य व्याख्यानम् । न चेयं पुनरुक्तिः । पूर्वं तावदधिमुक्तिचर्याभूमिस्थितानां बोधिसत्त्वानां बोधिसत्त्वक्षेत्रपरिशुद्धौ प्रणिधानावस्थायां बोधिसत्त्वविकल्पस्य निषेधार्थम् (उक्ताः), सम्प्रति बुद्धेक्षेत्रपरिशुद्धिपरिनिष्पत्तये ये बोधिसत्त्वा एवंविधेनाभिनिवेशेन प्रवर्तन्ते, येषां चैवंविधो विकल्पः, तन्निराकरणार्थमुक्तम् । न चानवस्थाप्रसङ्ग, तदैवंविधस्य कस्यचिदितरविकल्पस्यासम्भवात् ।

अनेनेह बोधिसत्त्वेन कथं प्रतिपत्तव्यं तद् व्यपदिष्टम् । कीदृशो बोधिसत्त्वो नामेत्यत्र यः सुभूते बोधिसत्त्वः इत्याद्याह । निरात्मानो धर्माः इति द्विरुक्तया द्विविधेन नैरात्म्येन सर्वधर्माणां नैरात्म्यं दर्श्यते । बोधिसत्त्वो बोधिसत्त्वः इति द्विरुक्त्या तदेव द्विविधं नैरात्म्यज्ञानं दर्श्यते । अथवा एकस्तावद् बोधिसत्त्वः आवृत्तः, बोधिसत्त्व इत्याख्यात इत्युत्तरस्तु (कथनस्य) प्रकारः ।

तेन किं दर्शयिष्यत इति चेद्? केन निष्पाद्यन्ते यदि पुद्गलादिग्राहकाभावः, क्षेत्रव्यूहाः इति धर्मग्राहकस्याप्यभावः, उभयभावाधिगमेन बोधिसत्त्व इत्याख्यात इति निर्दिष्टम् । अनेन चित्तप्रग्रहो देशितः । एभिः सर्वैः स्थानै गाम्भीर्यं दर्शितम् । तत्र मायावद्बुद्धक्षेत्रपरिनिष्पादनाधिमुक्तया बोधिसत्त्वानां प्रवृत्तिप्रदर्शनेनौदार्यमुक्तम् ।

2. अनुत्तरदृष्टिपरिशुद्धिसम्पद् :

यदि नास्ति बोधिसत्त्वो नामः कश्चिद् धर्मः, तदा तथागतः परिशुद्धदर्शनेन परिशुद्धज्ञानेन च युक्त एव न भवेत्, तस्य बोधिसत्त्वादुत्पन्नात्वात्, तस्याभावे स कथं भवतुमर्हति, अहेतुकत्वे नित्यसत्त्वादिदोषाः, तस्माद् यस्यां संनिपतिततायां परिषधेवं विकल्पो भवेत्, तस्याः कृते परिशुद्धं दर्शनं ज्ञानञ्चेत्यनुत्तरद्वयमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह । पूर्वतः भगवतो ऽभिप्रायं गृहीत्वा आर्यसुभूतिरप्याहसंविद्यते इति ।

अनेन परमार्थतः बोधिसत्त्वो नाम स कश्चिद् धर्मो न भवति, तथापि संवृतौ पुण्यज्ञानसम्भारं परिपूर्य परिशुद्धंज्ञानदर्शनाभ्यां यस्तथागतो भवति, (तेन) अविचारमणीयस्कन्धमात्रस्य बोधिसत्त्वस्यास्तित्वं भवन्त्येव । अन्यथा संवृतावपि यदि स न भवेत् तदा कस्तथागतो भवेदित्येवं तावत् दर्शितम् । तत्र संविद्यते तथागतस्य प्रज्ञाचक्षुः इत्येव तावन्नोच्यते, (अपि तु) विशिष्टं विशुद्धदर्शनमभिधातुं चक्षुषो विद्यामानत्वं दर्शितम् ।

समासतश्चतुर्विधं भवति चक्षुः- रूपग्राहकम्, परमार्थसत्यग्राहकम्, संवृतिसत्यग्राहकम्, सर्वाकारज्ञेयग्राहकं च । रूपग्राहकमपि द्विविधम्- कर्मफलं भावनाफलञ्चेति । पञ्चविधं चक्षुः क्रमशः- तत्र स्थूलविषयत्वात् प्रथमं रूपग्राहकं कथितम्, परमार्थवशेन संवृतिज्ञानं परिशुद्धध्यतीत्यतः पूर्वं परमार्थसत्यग्राहकं पश्चाच्च संवृतिसत्यग्राहकमभिहितमिति सङ्गच्छते क्रमनिर्देशः । पुद्गलधर्मनैरात्म्ययोः संविद्यते प्रज्ञाचक्षुः, संवृतौ धर्ममात्रमेव तावदवभासते, न तु पुद्गल इति पुद्गलशून्ये धर्ममात्रे धर्मचक्षुः, सर्वज्ञेयानां सर्वाकारज्ञानं तावद् बुद्धचक्षुरित्युच्यते, अनेनेदानीं साक्षात्कृत्य विहरणात् । तथ्यसंवृतौ पञ्चचक्षुषां देशनयोक्तं विशुद्धदर्शनम् ।

3. अनुत्तरज्ञानपरिशुद्धिसम्पद् :

विशुद्धज्ञानाभिधानार्थम्- तत्किं मन्यसे सुभूते इत्याद्याह । त्रैकालिकाः चित्तचैतसास्तावच्चित्तसन्ततिः । ततः त्रैकाल्यविषयत्वेन तद्विषयावबोधो ज्ञानमित्युच्यते, न तु दर्शनम् । तदपि सरागचित्तवीतरागचित्तेत्यादिनानाविधसंक्लेशव्यवदानभावेन वेदितव्यम् ।

तावन्तो लोकधातवः इत्युपलक्षणम्, अनन्तलोकधात्वन्तर्निहितसत्त्वानां चित्तधारायाः परिज्ञानात् । तथाहि- संवृतौ तथागतस्य मांसचक्षुरादीनि भवन्ति, अतस्तन्निष्पादनार्थं बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यम् । अनेन तावद् वचनेन सम्पद्द्वयं परिदीपितम् ।

मांसचक्षुरादीन्यपि एकानेकस्वभावाभ्यां विचारणायामनुपलब्धान्येव । न ह्यर्थान्तरज्ञानेन ग्रहणं युज्यते, यथा पूर्वं विचारितम्, एवं सति कथं प्रज्ञास्येते तथागतस्य मांसचक्षुरादिविद्यमानता चित्तधारा चेति चित्ताशयं विदित्वा तत्कस्य हेतोः? इत्याह । बोधिसत्त्वेन कथमनयोर्द्वयोर्विशुद्धयोर्योगसमापत्त्या प्रतिपत्तव्यम्? इत्येतदभिधातुं चित्तधारा चित्तधारा इत्याद्याह । परमार्थतः अधारा इति । स्वभावतो ऽसत्त्वे ऽपि संवृतिमधिकृत्याह- तेनोच्यते चित्तधारेति इति । अन्यथा परमार्थतः सर्ववाग्गोचरातीतत्वान्न वक्तुं शक्ष्यत इत्यभिप्रायः । चित्तधारेत्युपलक्षणम् । मांसचक्षुरादीन्यपि चक्षुःस्वभावरहितान्येव उक्तानीति कथनं प्रकृतं साक्षान्नोक्तम् ।

अत्र कथं चित्तं प्रग्रहीतव्यमिति तदभिधातुमाह तत्कस्य हेतोः? इति । अधारेत्यनेन सह योजनीयम् । अतीतादीनां चित्तानां परमार्थतो ऽनुत्पन्नत्वाद् अनुपलम्भः । सत्त्वे ऽपि ग्रहणानुपपत्त्या नानुपलम्भः । तथा सति अचित्तधारादेशनमपि न भवेत्, न चानुपलम्भमात्रेण भावानां निःस्वभावत्वं स्यात् । यथा त्रैकालिकचित्तस्य परमार्थतो ऽभावस्तथा पूर्वमुक्तं वक्ष्यते च । चित्तोक्तिरूपलक्षणम्, ततो ऽतीतादिमांसचक्षुरादीन्यप्यनुपलब्धान्येव । अत्र अधारा इत्यादिभिः पदैर्गाम्भीर्यमुक्तम्, शेषैरौदार्यम् ।

4. प्राप्तपुण्यस्कन्धाधिपत्यसम्पद् :

यदि नास्ति त्रैकालिकं चित्तं तदा पुण्यस्कन्धो ऽपि न स्यात्, चित्ताश्रितत्वात्तस्य । ततः तथागतस्य पुण्यस्कन्धाधिपत्यसम्पदं सम्पादयितुं कथं बोधिसत्त्वो यत्नं कूर्यादिति विचिन्त्य पुण्यस्कन्धाधिपत्यसम्पदमधिकृत्य- तत्किं मन्यसे सुभूते इत्याद्याह । अनेन कुलपुत्रो वा कुलदुहिता वा यो ऽन्तशो रत्नादिकं बाह्यवस्तु त्यजति, सो ऽपि (यदि) महापुण्यस्कन्धेन युक्तो भवति (तदा) कथं न तथागतस्य असंख्येयाप्रमेयकल्पेषु दुष्करानेकशतान्यभ्यस्यतः पुण्यस्कन्धाधिपत्यं स्यादित्येवं देशितम् ।

अत एव परमार्थतो ऽसत्यपि पुण्यस्कन्धे संवृतौ सत्त्वाद् बोधिसत्त्वेन तत्र वशीभावं निष्पादयितुं छन्दप्रणिधानाभ्यां स्थातव्यमित्यादर्शितम् । अनेनौदार्यमप्युक्तम् । कथं न परमार्थतः पुण्यस्कन्धसत्त्वं व्यवस्थाप्यत इति विचिन्त्य ऽबोधिसत्त्वेनात्र कथं प्रतिपत्तव्यम्, कथञ्च चित्तं प्रग्रहीतव्यम्,ऽ; इत्युभयं सन्दर्शियितुं सचेत् सुभूते इत्याद्याह । सचेत् इति ऽयदिऽ; इत्यर्थः । न तथागतो ऽभाषिष्यत् इति परमार्थतो ऽभिधानं नाचरिष्यत् । अनिर्देशे ऽपि तथा ख्यायत इत्यभिप्रायः । यथा परमार्थतः पुण्यस्कन्धस्याभावस्तथा प्राग्वर्णितः । अनेन तथागतस्य पुण्यस्कन्धाधिपत्यसम्पदं परिनिष्पादयितुं प्रस्थितेन बोधिसत्त्वेन परमार्थतस्तदनुपलम्भेन योगसमापत्त्या प्रतिपत्तव्यम् । परमार्थतस्तदालम्बनाभिनिवेशपरिहारेण (वज्रट्_196) चित्तं प्रग्रहीततव्यम् इत्युभयं देशितम्, गाम्भीर्यमप्युक्तम् ।

5. कायसम्पद् : (अ) रूपकायसम्पद्

यदि पुण्यस्कन्धो नैव स्यात् तदा तथागतानां द्विविधा कायलक्षणसम्पद्-अनुव्यञ्जनकायसम्पद्, लक्षणकायसम्पच्च यानुत्तरपुण्येनाभिनिर्वर्तयितुमिष्यते, सा नैव स्यात्, कारणाभावात् । तस्मात् तथागतस्य द्विविधां कायसम्पदं परिनिष्पादयितुं कथं बोधिसत्त्वैर्यत्नो ऽनुष्ठेय इति विचिन्तयद्भ्यस्तथागतस्य रूपकायसम्पदमधिकृत्य- तत्किं मन्यसे सुभूते इत्याद्याह ।

रूपकायः इत्यनुव्यञ्जनकायरूपेण द्रष्टव्यः । लक्षणकायः पश्चाद् वक्ष्यते गोबलिवर्दन्यायेन । ततो ऽयमत्रार्यसुभूतेराशयः- यथा परमार्थतो ऽस्कन्ध एव पुण्यस्कन्धस्तथा रूपकायो ऽप्युनुत्पन्न एव । अतः परमार्थतः न रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्यः इत्युच्यते । संवृतौ मायानिर्मितबुद्धवद् विद्यत एव रूपकायः, तत उपपन्न एव (तस्य) पुण्यस्कन्धादुद्भवः ।

तस्माद् बोधिसत्त्वेन मायानिर्मितबुद्धस्य तथाविधरूपाधिमुक्तया तत्प्रतिपत्तये छन्द-प्रणिधानाभ्यां स्थातव्यमिति देशितम् । नाप्यत्र पुनरुक्तिता । पूर्वमधिमुक्तिचर्याभूमौ रूपकायाप्तिकामताकाले तथागतपूजासत्कारकाले च तथाविधो ऽभिनिवेशः परिवर्जितः, सम्प्रति शुद्धाध्याशयभूमौ तथागतरूपकायसम्पदं (वज्रट्_197) परिनिष्पादयितुं सम्प्रस्थितस्य बोधिसत्त्वस्य रूपे ऽभिनिवेशो भवतीति यासां प्रसिद्धिस्तासां परिषदां दुर्विकल्पो निराकृत इत्युक्तत्वात् ।

एवं तर्हि तथागतानां रूपकायः कस्माद् देशित इति विचिन्त्य तत्कस्य हेतोः? इत्यपृच्छत् । न रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्यः इत्यनेन योजनीयम् । नासौ तावत् सिध्यति, अवपविरूपेण परमाणुसञ्चयरूपेण वा रूपस्यासिद्धत्वाद्, यथा विचारितं प्राक् । अनेन बोधिसत्त्वेन कथं प्रतिपत्तव्यम्, तन्निर्दिष्टम् । तेन इति इत्यं संवृतौ भावः, न तु शशविषाणवत् सर्वथाभावः । अनेन चापवादान्तं परिहृत्य कथं चित्तं प्रग्रहीतव्यम्, (इति) एतन्निर्दिष्टम् । अनेन सर्वस्थानेन गाम्भीर्यं प्रदर्शितम् । संवृतौ तथागतस्य रूपकायसम्पदं निष्पादयितुं बोधिसत्त्वैः करणीयानां यत्नानां निदर्शनेन आदार्यमपि दीपितम् ।

(ब) लक्षणकायसम्पद् :

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.