Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

वज्रच्छेदिकाटीका

Tác giả
कमलशील
Thông tin
GRETIL — Pema Tendzin: Prajñāpāramitāvajracchedikāsūtram, with Prajñāpāramitāvajracchedikāṭīkā of Acārya Kamalaśīla. Sarnath 1994 (Bibliotheca Indo-Tibetica, 29).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

लक्षणकायसम्पदमधिकृत्य तत्किं मन्यसे सुभूते इत्यद्याह । अत्र पूर्ववत् सर्वमभिहिअतम् ।

6. वाकसम्पद् :

यदि रूपकायपरिनिष्पत्त्याअ न तथागतो द्रष्टव्य इति चेत्, तदा देशनापि भगवता नैव भवेत्, रूपकायेन संगृहीत्वात् तस्याः? अतो (वज्रट्_198) बोधिसत्तवैस्तथागतस्य वाक्सम्पदं निष्पादयितुं कथं यत्नः कर्त्तव्य इति विचिन्तयद्भ्यो वाक्सम्पदमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह । परमार्थतो वाच्य-वाचक-वचनानामभावात् न तथागतस्यैवं भवति मया धर्मो देशित इति । अन्यथा विपर्ययान्न भवेत् सर्वज्ञः । यथा वाचकाः आत्मादयः, वाच्या बाह्याध्यात्मिका भावाः, वचनानि करणरूपाणि शब्दस्वभावाभावात्मकानि वा तथा विस्तरेण प्रागेवोक्तानि । सर्वे भावाः शून्यत्वव्याप्ताः प्रागेव प्रतिपादिताः । संवृतौ वाच्य-वाचक-वचनानाम् अविचाररमणीयत्वेन व्यवहारमात्र एव (ते) भवन्ति, न तु परमार्थे ।

यदि वस्तुतत्त्वस्यैवमभिधाने ऽपि व्यामोहेन किचित् परमार्थतस्त्रयाणां (तेषां) परामार्थसत्त्वं कल्पयेयस्तदा ऽकिं नु स्यात्ऽ; इति विचिन्त्य यः सुभूते इत्याद्याह । अभ्याचक्षीत इत्यभ्यालपेत् । कथं तदभूतमालपितुं शक्यत इति विचारणायामाह असतोद्गृहीतेन इति । विपरीताभिनिवेशतो वितथग्रहणात् तदभूतमित्यर्थः । अनेन तथागतस्य वाक्सम्पदि प्रवृत्तेन बोधिसत्त्वेन प्रतिश्रुत्कादिवज्ज्ञात्वा प्रवर्तितव्यमिति, बोधिसत्त्वेन कथं स्थातव्यमिति देशितम् ।

यदि वचनादित्रयमसत् (तदा) पुद्गलधर्मनैरात्म्यदेशकेन भगवता नानापदवाक्यात्मिकेयं धर्मदेशना कथं प्रसिध्यति? तस्यां सत्यां तदभिधेयो वाच्यो ऽपि स्यादेव, यश्च तद्देशको वाचकः, सो ऽपि भवेदेव । तद्बलेन त्रीण्यपि (वाच्य-वाचक-वचनानि) भवेयुरिति चिन्तायां तत्कस्य हेतोः? इति पृष्टम् । अत्र धर्मदेशना इत्युदतरत् ।

अयमभिप्रायः- परमार्थतः धर्मदेशनायां सत्यां (सा) स्वलक्षणस्वभावा वा स्यात् सामान्यलक्षनस्वभावा वा । तत्र न तावत् प्रथमः पक्षः, सर्वं पारमार्थिकं स्वलक्षणं तावत् पूर्वमेव विस्तरेण निराकृतम् । न च द्बितीयो ऽपि (वज्रट्_199) असति स्वलक्षणे आधारस्याभावेन कस्यचिदप्यसत्त्वात् । सामान्यद्रव्यत्वाभ्युपगमे स्वलक्षण एव सङ्गृहीतं स्यादिति तन्निषेधेन तस्यापि निषेध एव । अन्यव्यावृत्त्या सामान्यलक्षणमध्यारोपितस्वभावमिति परिकल्पिते सति धर्मदेशनाया नैरर्थक्यत्वेन सिद्धसाधनम् ।

तस्याः (शब्दात्मिकाया देशनायाः) परमार्थतः स्वलक्षणसत्त्वे ऽपि न युज्यते तया धर्मदेशना । स्फोटादिशब्दस्य नित्यस्वभावस्य परैः पदत्वेन परिकल्पितस्य क्रमाक्रमाभ्यामर्थक्रियाकारित्वं तावद् विरुध्यते, सर्वसाअमर्थ्यापगतत्वाच्चैतन्यादिषु कुत्रापि खलु नैव युज्यते, अकिञ्चित्करत्वेन कथं तद् भवेत् पदम्? अनित्यस्यापि तावत् स्वलक्षणस्व न युज्यते पदत्वम्, सङ्केतकाले दृष्टस्य व्यवहारकाले ऽनन्वयात् । न हि युज्यते अन्यस्य सङ्केतो ऽन्यस्य च व्यवहारः, अतिप्रसङ्गात् । अत एव स्वलक्षणमप्यभिधातुं न युज्यते, अनन्वयात् । सामान्यपदार्थे ऽभिधेयत्वेनाभ्युपगते सति अभिधेयस्वभावत्वेन तस्य स्वलक्षणस्वरूपत्वान्न हि प्रदेशान्तरगमनम् ।

एकत्वं तु देशकालादिभिन्नास्वनेकव्यक्तिष्वनुगतमपि न युज्यते तथा हि- (अथ) एकस्यां व्यक्तौ सर्वात्मना व्याप्तं स्यात् तदा येन एकत्वेन परिकल्पितः स स्वभावस्तेन अन्यत्राधिगतेतरव्यक्तिभिः सम्बद्धः तदितरस्वभावस्तत्र न भवेदिति, एकत्वहानिप्रसङ्गात् । (अथ) एकदेशेन व्याप्तं स्यात् तदा सावयत्वाग्रहणदोषः । एवं यावत्यो भिन्नव्यक्तयस्तासामेकदेशेन व्याप्तिव्यवस्थया तावतीनां ग्रहणं स्यात्तदा एकव्यक्तिग्रहणं तावदेकदेशग्रहणेन युक्तं भवेत्, भिन्नव्यक्तिषु देशकालपरिमाणादिभिन्नासु तास्वेकव्यक्तिग्रहणं तावदेकदेशग्रहणाद् युगपुद्ग्रहणाभाव एव । तस्माद् वाच्य-वाचकत्वं तावदश्यारोपेणैव युज्यते, न तत्त्वतः । अत एवोक्तं भगवतान्यत्र-

येन येन हि नाम्ना वै यो यो धर्मो ऽभिलप्यते । न स संविद्यते तत्र धर्माणां सा हि धर्मता ॥

वचनं मिथ्या, वाच्य-वाच्यकानां या देशना तद्द्वारा आगता, सापि स्पष्टैव । उभयोरभावो भगवता पृथकत्वेन नोक्तः । अनेन बोधिसत्त्वेन कथं प्रतिपत्तव्यम्, कथञ्च चित्तं प्रग्रहीतव्यमित्येतद् दर्शितम् । एतेन सर्वेण गाम्भीर्यं दर्शितम् ।

7. सप्तधा चित्तसम्पदः- 1. स्मृत्युपस्थानम् 2. अभिसम्बोधिः 3. महाधर्मार्थप्रज्ञप्तिः 4. महाववादार्थप्रज्ञप्तिः 5. धर्मकायपरिग्रहणम् 6. संसारे निर्वाणे चाप्रतिष्ठानम् 7. प्रस्थिति-पारिशुद्धिः ।

1. स्मृत्युपस्थानम् :

तत्रेदानीमेवं गम्भीरधर्मो ऽयमनागते काले घनीभूते कुदृष्टिजाले कथं सफलो भविष्यतीति नाभिश्रद्धधन्ति परिवाराः । य एवं चिन्तयन्ति तेषामविश्रम्भं निवारयितुम् आर्यसुभूतिश्चित्तसम्पत्सु स्मृत्युपस्थानमधिकृत्य भगवन् इत्याद्याह । भगवताप्यनागते ऽध्वनि शीलवन्तो गुणवन्तश्च भविष्यन्तीति किं नोक्तपूर्वम् । सम्प्रति तेषां सत्त्वे ऽसत्त्वे वा एकान्तेनानभिनिवेशं देशयितुम् अस्ति इति नोक्तम्, अन्तद्वयनिषेधार्थं ते सुभूते इत्याद्याह ।

परमार्थतः स्कन्धपुद्गलादीनां सत्स्वभावानुपलम्भात् न सत्त्वाः इत्यनेनाध्यारोपान्तनिषेधः, अविचारैकरमणीयत्वेन सदैव विद्यमानत्वेन नासत्त्वाः इत्यनेनापवादान्तनिषेधः । भविष्यन्ति इत्यनया देशनया भगवतः कीदृगविपरीतस्मृत्युपस्थानमिति सत्त्वेभ्यो दर्शयित्वा भगवतस्तस्यां स्मृत्युपस्थानसम्पदि बोधिसत्त्वेन छन्द-प्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् । न ते सत्त्वाः नासत्त्वाः? इत्यनेन योगसमापत्तिनिर्दिष्टा ।

यदि न ते सत्त्वाः स्युस्तदा कथं भगवता ऽभविष्यन्त्यनागते ऽध्वनि शीलवन्तो गुणवन्तश्च तेऽ; इत्याद्युक्तमित्येवं परिवितर्कं विचार्यं तत्कस्य हेतोः? इत्यपृच्छत् । असत्त्वास्ते भाषिताः इति परमार्थतो ऽसत्त्वा एव, संवृतिसत्स्कन्धसद्भावमाश्रित्य भाषितास्ते । संवृतौ सत्त्वात् तेनोच्यन्ते सत्त्वा इति । अन्यथा संवृतावप्यसत्त्वे न (ते) भाषिताः स्युरित्यनेन चित्तप्रग्रहो दर्शितः । सर्वेण तावदनेन गाम्भीर्यमुक्तम् । सर्वसत्त्वेभ्यो भगवताप्रतिहतस्मृत्युपस्थानदेशनात् तावदौदार्यं निर्दिष्टम् ।

2. अभिसम्बोधिः

यदि न स्याद् भगवतः काचिदपि धर्मदेशना, तदा न स्यात् (सः) सम्यक्सम्बुद्धो ऽपि ततस्तथागताभिसम्बोधिसिद्धये व्यर्थः स्याद् बोधिसत्त्वानां यत्नः । यतो ऽभिसम्बुद्धधर्मा इष्यन्ते, अतो देशनापि भवतीति मन्वानेभ्यः (वज्रट्_202) तेभ्यो ऽभिसम्बोधिम् अधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह । आर्यसुभूतिः पूर्वाभिप्रायं गृहीत्वा नास्ति सः इत्युदतरत् । तदेवं मन्यते- परमार्थाभिप्रायेण भगवता धर्मदेशना प्रतिषिद्धेति । यथा परमार्थतः कस्याश्चिदपि धर्मदेशनाया अभावः (तथा) अभिसम्बुद्धस्याप्यभावः, एतत् पूर्वं निर्दिष्टम् ।

संवृतितः भगवतो धर्मदेशना, सम्बोधिः, तद्धेतुप्रतिपत्तिश्चापि विद्यन्त एव, तस्माद् बोधिसत्त्वेनानुत्तरसम्यक्सम्बोधेस्तथ्यसंवृतिस्वभावायाः साधनार्थं यत्नः करणीयः । अनेन बोधिसत्त्वेन कथं स्थातव्यमिति दर्शितम् । पूर्वमववादपर्येषणकाले बोधिसत्त्वाना ऽअभिसम्बोधि परमार्थःऽ; इति यो विकल्पः, स अपनोदितः, इदानीं बुद्धभूमिपर्येषणकाले परेषां तादृग्विकल्पनिराकरणान्न भवति पुनरुक्तिदोषः ।

भगवता अनुत्तरा सम्यक्सम्बोधिस्तथ्यसंवृतौ व्यवस्थापिता, सा कीदृशीति अत्र अणुरपि इत्याद्याह । यत्र ज्ञानं प्रचरति (तत्र) भगवता ग्राह्यस्वरूपस्य स्वलक्षणस्य सूक्ष्मो ऽपि धर्मस्वभावो नोपलब्धः, स तावत् समस्तधर्मनैरात्म्यावबोधस्वरूपा अनुत्तरा सम्पक्सम्बोधिः । तैर्थिक-शैक्षाशैक्षज्ञानाच्छ्रेष्ठत्वेन ऽअनुत्तरा । सर्वभावानां तथताया यथावदधिगमस्वभावत्वेन उच्यते सम्यक्सम्बोधिरित्यर्थः । तत्र सर्वधर्माणामनुपलब्धिहेतो "न" इत्युक्तम् । यतो ह्यसत्त्वं ततो ऽनुपलम्भः । विद्यमानत्वे नानुपलब्धिः, सत्सु सर्वधर्मेषु तथागतस्य आलम्बनज्ञानस्यैव ज्ञापकत्वात् । अनेन धर्मनैरात्म्यावबोधस्वभावो निर्दिष्टः ।

साम्प्रतं पुद्गलनैरात्म्यावबोधस्वभावं प्रतिपादयितुं अपि तु खलु पुनः सूभूते इत्याद्याह । समाः स धर्मः इति तदवबोधितेषु सर्वधर्मेषु पुद्गलनैरात्म्यसाम्यात् । न तत्र किञ्चिद्विषमम् इति सर्वत्र तदविपर्ययात्, आत्मग्राहहेतोर्भावाभिनिवेशस्य प्रहीणत्वात् । भगवता तावदात्मग्राहः सवासनः प्रहीणः । तेन सैव पुद्गलनैरात्म्यज्ञानस्वभावा सम्बोधिः, अनुत्तरा सम्यक्सम्बोधिरित्युच्यते, नान्या । केन रूपेण समः स धर्म इत्यत्र निःसत्त्वत्वेन इत्याद्याह । अनेन सर्वेण कथं योगसमापत्त्या प्रतिपत्तव्यमिति तन्निर्दिष्टम् । सा कथमभिसम्बुद्ध्यत इत्याह कुशलैर्धर्मैः इति । सा पुण्यज्ञानसम्भारात्मकैः कुशलैर्धर्मैरभिसम्बुद्ध्यत इत्यर्थः ।

यद्यसत्त्वाद् अणुरपि धर्मो नोपलभ्येत, कथं नाम भवेयुः कुशला धर्माः? यतस्तैरभिसम्बुद्ध्यते ऽतः कुशला धर्माः इत्याद्याह । परमार्थास्तु अर्धमा एव । संवृतौ सत्त्वात् कुशला धर्माः इत्युक्तम् । तस्मात् कुशलेर्धर्मैरभिसम्बुध्यत इत्यत्र नास्ति दोषः । अनेन अध्यारोपापवादान्तग्राहविक्षेपनिराकरणेन चित्तप्रग्रहो निर्दिष्टः । एतैः सर्वः स्थानैः गाम्भीर्यमपि सन्दर्शितम् । अशेषपुद्गलधर्मनैरात्म्यावबोधरूपस्य सम्यक्सम्बोधिस्वभावस्य परिदीपनेन औदार्यमपि दर्शितम् ।

3. महाधर्मार्थप्रज्ञप्तिः

भगवतः सा सम्यक्सम्बोधिः कथं वेदित्वया? इति विचार्यमाणे महार्थधर्मतया प्रज्ञापितत्वेन तत्सत्तां दर्शयितुं यश्च खलु पुनः सुभूते (वज्रट्_204) इत्याद्याह । सुमेरवः पर्वतराजानः इत्युपलक्षणम् । अनन्तलोकधातून् रत्नैः परिपूर्य दानेन यत् पुण्यं तदपि उपमां नैव क्षमते । इतः प्रज्ञापारमितायाः इत्युपलक्षणमात्रपरिदीपनेन सकलो महायानधर्मः परिलक्षितो भवति । यावद् इति वचनेन सहस्रतमी कला- ऽशतसहस्रतमी कला .......... उपमा-औपम्यमित्येतानिऽ; संगृह्यन्ते । एवं महार्थधर्मप्रज्ञपनेन हेतुना भगवतश्चित्तसम्पदः सम्यक्संबोधेः आनुत्तर्यमवगम्यते, तथाविधसम्यक्संबोधिम् अन्तरा तथाविधधर्मदेशनाया अशक्यत्वात् ।

तस्मादेतादृक्चित्तसम्पत्सम्पादने छन्द-प्रणिधानाभ्यां स्थातव्यम् । सकलेनानेन कथं स्थातव्यं बोधिसत्त्वेनेति निर्दिश्यते, अनेनैवौदार्यमप्यभिहितम् । सा च सम्बोधिः तथ्यसंवृतिस्वभावा द्रष्टव्या, न तु परमार्थतः, प्रागेवोक्तत्वात्, साक्षादनुक्तमपि सामर्थ्यतः योगसमापत्तिः, चित्तप्रग्रहः गाम्भीर्यं च निर्दिष्टम् । 4. महाववादार्थप्रज्ञप्ति : भगवतो लोकोत्तरज्ञानावस्थायां सत्त्वसंज्ञा सर्वथा न प्रवर्तते, अत्यन्तसमाहितत्वात्, अदो नाश्चर्यम् । सत्त्वेभ्यो विमुक्तयुपदेशकाले ऽसमाहितावस्थायां विशुद्धलौकिकज्ञानावस्थायामपि सत्त्वादिसंज्ञा न प्रवर्तत इति तन्निर्दिश्य अववादमहार्थत्वेन प्रज्ञप्तिहेतुना भगवतो ऽनुत्तरचित्तसम्पदं (वज्रट्_205) प्रतिपत्स्यमानां दर्शयितुं महार्थाववादमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह । प्रश्नस्योत्तरमप्रतीक्षमाणः सपदि स्वतः न खलु पुनः सुभूते, एवं द्रष्टव्यम् इत्याद्याह । तस्माद् भगवतश्चित्तसम्पदस्तादृशे महार्थाववादहेतौ बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् ।

किं सत्त्वानां सत्त्वे ऽपि संक्लेशहेतुभूततया तथा नाभिप्रेयते तथागतेन? आहोस्वित् सत्त्वाभावादिति चिन्तयतामाशयं विज्ञाय तत्कस्य हेतोः? इति पप्रच्छ । स्कन्धात्मकस्य पुद्गलात्मकस्य च कस्यचित् सत्त्वस्य परमार्थतो ऽभावाद् एवं नोपलभ्यत इति दर्शयितुमाह- नास्तिं कश्चित् सत्त्वो यस्तथागतेन परिमोचित्तः इति । अनेन बोधिसत्त्वैः कथमत्र योगसमापत्त्या प्रतिपत्तव्यमिति तन्निर्दिष्टम् ।

अभावः कथं ज्ञातव्य इत्यत्र यदि पुनः सुभूते इत्याद्याह । अयमत्राभिप्रायः यथाज्ञेयं तथागतस्य ज्ञानं प्रवर्तते, अन्यथा अप्रहीणावरणत्वेन कथं स्यात् तथागतत्वम् । तस्माद् यदि सत्त्वः स्यात् तदा सन्दृश्येत स तथागतेन, आत्मनः प्रत्यक्षोपलब्धतया विचिअकित्साभावात् । स एव तावत्तस्य प्रगाढः आत्मग्राहः स्यात् । ततश्च आत्मग्राहहेतुतः समुत्पन्नं निखिलक्लेशजालबन्धनमप्यतिदृढं स्यात् तदा रागाद्यतिप्रगाढबद्धस्य आवरणाप्रहाणेन भगवतः तथागतपदप्राप्तिर्न स्यात् । भगवता च तत्पदं प्राप्तम्, अतः प्रहीणसकलावरणः सः । प्रहीणावरणया अशेष आत्मग्राहशिखरी विशीर्यते, तस्मात् सत्त्वाभावो न ज्ञायते ।

आत्मन्यसति किमात्मदृष्टिलक्षण आत्मग्राहो न भवति? किमर्थं भगवता आत्मादिसंज्ञा नोच्यते? इत्यत्र आत्मग्राह इति सुभूते इत्याद्याह । यदि (भगवता) आत्मादिवस्तुन एव ग्रहणं स्यात्तदा प्रहीणावरणस्य तस्य भगवत (वज्रट्_206) आत्मग्राहः समुद्भवेत्, कस्याप्यात्मग्राहस्याभावात् अग्राह एष तथागतेन भाषितः ।

अथ कीदृश आत्मग्राह इति? स च इत्याद्याह । श्रवणादिविरहाद् हेयोपादेययोरनभिज्ञत्वाद् बालाः, प्रेक्षावत्त्ववियोगाद् आअर्येभ्यः पृथक्त्वाच्च पृथग्जनाः । पृथग्जना अपि केचित् सच्छास्त्रं श्रुत्वा योनिशोमनस्कारस्थिताः धर्मनैरात्म्याधिमुक्ताः सत्यमभिनिविशन्ते, तदनात्मग्राहव्यवच्छेदतो बाला इत्याह । बालमात्रकथनात् स्कन्धाद्यभिज्ञा अपि तादृशाः पृथग्जना अनुपजातार्यमार्गतया बाला एव । बालानां वैशिष्टयमभिधातुं व्यावृत्ते ऽप्यात्मग्राहे बालत्वेन तेष्वात्मग्राह इत्यवभासते, तस्मात्तदाशयवशाद् आत्मग्राह इत्येवं निर्दिष्टम् ।

न तन्मात्रेण सत्यम्, अतिप्रसङ्गात् । अनात्मशब्दप्रयोगेणापि कथं नात्मादीनां सत्यग्रहणम्, यद्यात्मा न स्यात्तदा के तावत् पृथग्जना अभिधीयेरन्? इति विचिन्त्य बालपृथग्जनाः इत्याद्युक्तम् । परमार्थतस्तु अजना एव, संवृतिमाश्रित्योक्तत्वान्न दोषः । एभिः सर्वैरध्यारोपापवादान्तनिराकरणेन चित्तप्रगृहीत्तत्वं दर्शितम् । अनेन सर्वेण तावत् साक्षाद् गाम्भीर्यं प्रोक्तम् । अशेषसत्त्वधातुभ्यो महार्थाववदप्रज्ञप्तेर्हेतुत्वदर्शनेन चित्तसम्पद आदौर्यमपि निर्दिष्टम् ।

5. धर्मकायपरिग्रहणम् :

यदि बालपृथग्जनाः न स्युः, कथं तथागतस्य लक्षणानुव्यञ्जनैरलङ्कृताः कायसम्पदः सम्भवेयुः? पृथग्जनाः स्वकरुणामूलकबोधिचित्तमुत्पाद्य पारमितासु प्रयतन्ते (ततश्च) लक्षणादिभीरलङ्कृतास्तथागतकायसम्पत्तिवन्तो भवन्ति, तदभावे मूलभावात् कथं भवेयुः तादृयस्तथागतकायसम्पद इति? ये पारिषद्याः (वज्रट्_207) कृतानल्पविकल्पाः रूपादिषु भावाभिनिवेशेनैवं चिन्तयन्ति, तेभ्यो धर्मकायपरिग्रहमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह । पूर्वं धर्मकायतया न व्यवस्थापितम्, इदानीं धर्मकायं व्यवस्थापयितुमुक्तत्वान्न पुनरुक्तिदोषः ।

लक्षणसम्पदा तावत् परमार्थविचारणायामवयविनः परमाणुसंघातस्य वा स्वभावेनानुपपत्तिं विदित्वा पूर्वकमेवाभिप्रायं गृह्णन् सुभूतिराह नो हीदम् । एवमेव उपपत्त्यन्तरं भगवता सचेत् पुनः सुभूते इत्यादिनोक्तम् ।

यदि तथागतो लक्षणसम्पन्मात्रेण प्रभावितः स्यात् तदा वक्ष्यमाणहेतुना तुल्यत्वाद् राजापि चक्रवर्ती कथं न भवेत् तथागतः? ननु स्थानस्थोत्तप्तपूर्णत्वेन विशिष्टा भगवतो लक्षणसम्पद्, न तु चक्रवर्तिनः, ततः स नोच्यते तथागत इत्यपि न युज्यते, स्थानस्थादिविशेषस्यापि जडस्वभावत्वे नास्ति कश्चिद् विशेषः । तेन यदि तथागतो जडस्वभावैर्लक्षणादिधर्मैः प्रभावितो ऽभविष्यत् तदा चक्रवर्ती अपि तथागतो ऽभविष्यत् इति चेत्? न, तस्मात्तथागस्तावद् अशेषवस्तुस्वभावस्य यथावदधिगममात्रेण प्रभावित इत्यभिप्रायः । अनेन तथाविधं ज्ञानहेतुकं तथागतकायं प्रति बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् ।

अधुना परमार्थतस्तत्तथागतज्ञाने ऽपि नाभिनिवेष्टव्यमिति दर्शयितुं धर्मकायो (वज्रट्_208) व्यवस्थाप्यते । बोधिसत्त्वेन कथं योगसमापत्त्या प्रतिपत्तव्यमिति द्वाभ्यां गाथाभ्यां प्रदर्श्यते ।

तत्र पूर्वगाथया कथं तथागतो न द्रष्टव्यः, कैश्च न दृश्यत एतन्निर्दिष्टम् । कथं न द्रष्टव्य इति चेत्? दर्शनादिव्यवहारप्रज्ञप्त्या । के न पश्यन्तीति चेत्? मिथ्याप्रहाणप्रसृताः । रूपेण चाद्राक्षुः इत्यनेन रूपे ऽभिनिविष्टाः पुद्गलाः पारमार्थिकलक्षणादिभिरलङ्कृतं धर्मरूपं पुद्गलरूपं च पश्यन्तीति व्यवहारप्रज्ञप्तिर्निदिष्टा । घोषेण चान्वयुः इति मां शब्देन एवमेव स तथागत इति ज्ञातवन्त इत्यर्थः । अनेन श्रवणव्यवहारप्रज्ञाप्तिर्निदिष्टा । उपलक्षणमात्रमिमौ व्यवहारौ । तेन विशेषभेदो विज्ञानं चापि संगृहीतम् ।

मिथ्याप्रहाणप्रसृतास्ते जनाः तावद् वितथामार्गस्थितत्वान्न मां सम्यग् रूपेण द्रक्ष्यन्ति । प्रहीयते ऽनेनेति प्रहाणं मार्ग इत्युच्यते, तच्च विपरीतत्वान्मिथ्या । तदप्यदर्शनहेतुः ।

अथ कथं बुद्धा द्रष्टव्या इत्यत्र धर्मतः इत्याद्याह । धर्माणां यो ह्यकृत्रिमः स्वभावः, स ऽधर्मताऽ; इत्युच्यते । सा च युक्त्यागमाभ्यां सिद्धत्वादादितः शान्तादिस्वभावा । सैव तथता, धर्मधातुः, भूतकोटिः, अनिमित्तं परमार्थश्चेत्यादिपर्यायैरुच्यते ।

सर्वत्र तथाभावात् ऽतथता तदालम्बनेन सर्वे बुद्धधर्माः सम्भवन्ति । तद्धेतुभूतत्वाद् ऽधर्मधातुऽ; अविपरीतत्वाद् भूतः, तत्पर्यन्तत्वाद् भूतकोटिः । (वज्रट्_209) तत्र नीलादिसर्ववस्तुनिमित्तानामभावाद् अनिमित्तं । परमस्य ज्ञानस्य गोचरत्वात् परमार्थः । किमिति सा धर्मतया द्रष्टव्येत्यत्राह- धर्मकायाः इति । स्वभावार्थः कायशब्द उच्यते । तेनायमर्थः- सम्यग्ज्ञाननिबन्धना ये तथागतेषु व्यवस्थापितास्ते परमार्थतो धर्मस्वभावाः । यो यत्स्वभावः, स तत्स्वभावेन द्रष्टव्यः, न त्वन्यस्वभावेन । यद्येवं तर्हि धर्मता प्रकाशस्वभावा भवेत्, अन्यथा कथं तल्लक्षितास्ते द्रष्टुं शक्यन्त इति विचार्य धर्मता इत्याद्याह ।

किमशक्यत्वाद् अपरिज्ञेया अथवा परिज्ञाने दोषसद्भावादिति विचिन्त्य न शक्या इत्याद्याह । धर्मिस्वभावे सिद्धे तद्धर्मता विज्ञातुं शक्यते, यदा धर्मिस्वभाव एव कश्चित् परमार्थतो न सिद्धस्तदा कथं सा धर्मतापि विज्ञातुं शक्यते केवलया स्वसन्तत्या । नास्ति सा केवलेत्यभिप्रायः ।

यद्येवं सम्यग्ज्ञानस्वभावानां बुद्धनामपि धर्मिणां परमार्थतो ऽसिद्धत्वान्न स्याद् दर्शनम्, तत्कथं धर्मता द्रष्टव्येति चेत्? नैष दोषः । ये परमार्थतः सर्वधर्मिणो न पश्यन्ति त एव धर्मतां पश्यन्ति । धर्मता तावदनुत्पन्नस्वभावा, सा कथं तद्विपरीतोत्पादग्रहणेन ग्राह्या, न हि घटग्रहणेन तदनुत्पादग्रहणम् । अनेन तथागतो न रूपकायेन द्रष्टव्यः, अपि तु धर्मकायेन द्रष्टव्य इत्येतन्निर्दिश्यते ।

असत्यपि तथागतस्य लक्षणसम्पत्स्वभावत्वे युज्यत एव लक्षणसम्पद्धेतुकं तथागतस्यानुत्तरसम्यक्सम्बोधिलक्षणम्, गणकैः (लक्षणज्ञैः) बोधिसत्त्वस्य लक्षणसम्पदं द्रष्ट्वा भगवान् अनुत्तरसम्यक्सम्बोधौ व्याकृत इति (वज्रट्_210) येषां संशयः, तत्परिहारार्थं तत्किं मन्यसे सुभूते इत्याद्याह । यदि लक्षणसम्पद् अनुत्तरसम्यक्सम्बोधेर्हेतुः स्यात् तदा चक्रवर्तिनो ऽपि स्यादित्यभिप्रायः । गणकैस्तावत् तथाविधं लक्षणमात्रं द्रष्ट्वा व्याकृतम्, न तु हेतुमित्यदोषः ।

अनेन चित्तप्रग्रहीतत्वं निर्दिष्टम् । अनेन तावत् सकलेन स्थानेन गाम्भीर्यं दर्शितम् । संवृतौ चाशेषवस्तुस्वभावाधिमगलक्षणस्य तथागतज्ञानस्य निर्देशेन आउदार्यमपि निर्दिष्टम् ।

6. संसारे निर्वाणे चाप्रतिष्ठानम् : (अ) निर्वाणे ऽप्रतिष्ठानम्

परमार्थतः सर्वधर्माणामभावाद् यदि सा धर्मता विज्ञातुं न शक्यत इति चेत् तत उच्छेदवादी भवान् स्यात् । ततश्च तथागतस्याप्यभावाद् अप्रतिष्ठितनिर्वाणमपि न सिध्यतीति यदाशङ्कितं तदर्थं संसारनिर्वाणयोः अप्रतिष्ठानमधिकृत्य सुभूते ..... एवं ..... बोधिसत्त्वयानसम्प्रस्थितैः ....... इत्याद्याह । न च भूतविनाशो ऽपि प्रज्ञप्तः, धर्मताया यथावदवबोधात् । अत एव चोक्तम्-

नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन । द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥

अनागते धर्मवृत्तिप्रतिबन्धकत्वेन उच्छेदो ऽपि न प्रज्ञप्तः, यथाभूतधर्मताया देशनात् । सर्वे धर्मो अविचाररमणीयतया यथाभूतैः प्रत्ययैरुत्पद्यमाना अभ्युपेयन्ते, अतो भगवता बुद्धेन तथ्यसंवृतिस्वभावायाः माहाकरुणाया निर्माणादौ अधिपतित्वमादाय पुनर्विनेयेभ्यो यथावदुपायोपदर्शनेन (वज्रट्_211) निरवच्छिन्नसंसारप्रवाहो ऽभ्युपेयते । अनेन भगवतो निर्वाणे ऽप्रतिष्ठितत्वं निर्दिष्टम् । तथाविधे भगवत्काये छन्दप्रणिधानाभ्यां स्थातव्यमिति तदपि निर्दिष्टम् ।

(ब) संसारे ऽप्रतिष्ठानम् :

यद्येवं भगवान् संसारप्रवृत्तिमभ्युपैति, तदा संसर्ता एव भवतीति विकल्प्य संसारे ऽप्रतिष्ठितत्वं दर्शयितुं यश्च खलु पुनः सुभूते इत्याद्याह । निरात्मकेषु इति मायावत् परतन्त्रत्वात्, न स्वत आत्मभावः, नित्यस्य क्रमक्रमाभ्यां हेतोर्विरोधात्, अहेतुकस्य अकिञ्चित्करत्वात् । स्वपरयोर्नाधिष्ठानमपि, अधिष्ठातुरेवासम्भावात्, तस्मात् सर्वधर्मास्ते उभयविधाः निरात्मकाः ।

यथोक्तम् : "आत्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथ्ग्जनः प्रज्ञप्तिमनुपतितः, न त्वत्रात्मा वा आत्मीयं वा ।" अनेन सर्वधर्मेषु पुद्गलनैरात्म्क्षान्तिः सन्दर्शिता । अनुत्पत्तिकेषु इत्यनेन धर्मनैरात्मक्षान्तिनिर्दिष्टा ।

यदि भावानामुत्पादो भवेद्, अहेतुको वा भवेत्, सहेतुको वा । सहेतुके ऽपि नित्यहेतुको वा अनित्यहेतुको वेति विकलद्वयम् । तत्र न तावत् (वज्रट्_212) प्रथमो विकल्पः कादाचित्कत्वप्रतीतेः । निरपेक्षस्य सदसदवस्थासमत्वेन सर्वत्र निर्विशिष्टत्वात् नित्यं सत्त्वमसत्त्वं वा स्यात् ।

अतश्च कादाचित्कत्वसम्भवाद् द्वितीयो ऽपि पक्षस्तावन्न युज्यते । नित्यस्य इतरैः सहकारिभिस्तावन्न कश्चित् सामर्थ्यविशेषः क्रियते । कुत्रचिदप्यनपेक्षः सन् किमिव क्रमेण कार्यमुत्पादयेन्न युगपदिति । कारणे ऽविकाले न कादाचित्ककार्यतिरोधानं युज्यते । कथं क्रमेणोत्पादः स्यादिति ।

ये स्वहेतुं भावानां वदन्ति, ते ऽप्यर्थतो ऽभावादेवभ्युपगच्छन्ति । स्वभावे सिद्धे हेतुरपि स्यान्न त्वसिद्धे, सर्वसामर्थ्यविरहलक्षणत्वात्तस्य । स्वाभवे सिद्धे तस्याहेतुकसिद्धिरेवाभ्युपगता स्यात्, तदितरान्यहेतौ चानभीष्टे कथं न निर्हेतुकः स्यात् । न भावः स्वभावाद् भिन्नः । अतः सिध्यति तत्सिद्धे, (फलतः) अहेतुक एव स्यात् । अन्यथा तत्सिद्धे ऽप्यसिद्धत्वात् कथं तदभिन्नस्वभावत्वम् । ततो यो ऽहेतुवादी पक्षो निरस्तः, स अत्रापि तुल्यः ।

न तावद् युज्यते तृतीयपक्षो ऽपि समानासमानकालयोः कारणत्वविरोधात् । तथा हि, हेतौ सति स फलेन (कार्येण) समानकालो वा भवेद् भिन्नकालो वा? न तावत् समानकालात्, स्वयप्राप्तात्मस्वभावस्य सर्वसामर्थ्यशून्यत्वात् कुत्रापि फले योगाभावात् । आत्मस्वभावे च (प्राप्ते) तत्स्वभाववत् फलस्यापि तत्समानकालभावितया आत्मस्वभावत्वमेव । न तत्र फलं युज्यते ।

भिन्नकाले ऽपि तावत् तदितरकालव्यवधानेन वा भवेद्, यथावैभाषिकैर्विपाकहेतुरिष्यते, तथा । अथवा अव्यवधानेन वा भवेद्, यथासौत्रान्तिकैः कार्यकारणयोरुत्पादविनाशौ ऽतुलादण्डोन्नामावनामवद्ऽ; उच्येते तथा स्यादिति? तत्र तदितरकालव्यवधानेन फलोत्पादे सति विनाशादेवोत्पादः अभ्युपगम्येत, सर्वसामर्थ्यविरहितत्वात्तस्य विनाशस्य न युज्यते हेतुभावत्वम्, अन्यथा अकारकस्य विनष्टवस्तुनो विनाशात् कथं (उत्पादः) भवेत् ।

अव्यवधानेनेति पक्षे ऽपि यदि सर्वात्मना अव्यबहितस्तदा तदेव समकालत्वं स्यात् । निरवयवयोर्द्वयोर्वस्तुनोः सर्वात्मना अव्यवहितत्वे एककालत्वातिरिक्ता नान्या गतिः । तस्मात् सर्वात्मना अव्यवहिते सति पूर्वं यथा अणुमात्रकम् (इति प्रसक्तम्), तथैव कल्पस्यापि क्षणमात्रकत्वं दुर्निवारम् ।

एकदेशेन चाव्यवहिते सावयवत्वं प्रसज्यते, अतः परमार्थतः सर्वे भावा अनुत्पन्ना एव । अविचाररमणीया मिथ्यात्वेनोत्पन्ना इव प्रतीयन्त एव, यथा भ्रान्तिज्ञाने प्रतिभासस्वभावाः । (यदि) न स्यात् प्रसिद्धमात्रं प्रमाणं (तदा) ऽकार्यकारणयोरागोपालं प्रसिद्धत्वान्न युज्यते विमर्शः इति वादः कथं युज्येत, प्रसिद्धस्य रूपादेः प्रमाणतः विशीर्णत्वात् । तस्मादुक्तं भगवता चन्द्रप्रदीपसूत्रे (समाधिराजसूत्रम्)-

न चक्षु प्रमाणं न श्रोत्रग्राणं न जिह्वा प्रमाणं न कायचित्तम् । प्रमाणं यद्येत भवेयुरिन्द्रियाः कस्यार्यमार्गेण भवेत् कार्यम् ॥

यस्मादिमे इन्द्रिय अप्रमाणा जदा स्वभावेन अव्याकृतश्च । तस्माद् य निर्वाणपथैव आर्थिकः स आर्यमार्गेण करोतु कार्यम् ॥

यत्प्रत्यक्षलक्षणमाहुराचार्यास्तच्च प्रत्यक्षं संवृतितः, परमार्थे ऽवतारणाय द्रष्टव्यम् । न च संवृतौ न समानपर्यनुयोगः, ततस्तस्य संवृतावुक्तत्वान्न परीक्षणं क्षमते । अतो भगवता शालिस्तम्बादिषु भावानां स्वपरोदयो निषिद्धः । तथोक्तम् आर्यलङ्कावतारे-

"सदसतोरुत्पत्तिविरहितत्वान्महामते, सर्वधर्मा अनुत्पन्नाः ।"

विस्तृतप्रज्ञापारमितासुं चोक्तम्- "सुभूते, न कश्चिद् धर्म उत्पन्नः, सा (अपि) अनुत्पन्ना" तत्र या प्रज्ञा, सानुत्पत्तिकधर्मक्षान्तिरित्युच्यते ।

तथोक्तं रत्नाकरनाम(महायान) सूत्रे-

स्व एव यदा नास्ति परो हेतुः कथं भवेत् । स्वाभावात् कथमुत्पादः परस्मात् सुगतो ऽवदत् ॥

अपि च,

भावा जायन्ति संवृत्या परमार्थे ऽस्वभावकाः ।

यद्येतत् सर्वं परिकल्पितस्वभावमधिकृत्योक्तमिति चेत्? न, सर्वस्वभावानां प्रमाणतो निराकृतत्वात् । अनेनापरो ऽल्पकुशलमूलो ऽपि (जनो यदा) संसारदुःखं नानुभवति, (तदा) अनुत्पत्तिकधर्मक्षान्तिप्राप्तत्वात् महाज्ञानालोकोदया लब्धानुत्तरपुण्यस्कन्धा बोधिसत्त्वाः कथं संसारदुःखम् अनुभवेयुरित्येवमावेदितम् ।

द्विविधो हि संसारदुःखस्यानुभवः- कायिको दौर्मनस्यलक्षणश्च । तत्र पूर्वकस्तु पापकर्मणः फलम्, अपरस्तु मोहजः, विपर्यस्तज्ञानसम्भूत एव । तत्रानुत्पन्नेषु धर्मेषु क्षान्तिप्राप्त्या बोधिसत्त्वेषु नास्त्युभयविधो दुःखहेतुः, पापं मोहश्चेति । अकारणान्न सम्भवति दुःखस्पर्शविहारः । अनेन कथं बोधिसत्त्वेन प्रतिपत्तव्यमिति देशितम् ।

उत्पादितबहुतरपुण्यस्कन्धा रूपावचरादिसत्त्वा इव किं (ते) संसार एव न भवन्ति? कथं वा बहुतरपुण्यस्कन्धोत्पादमात्रेण संसारे ऽप्रतिष्ठितत्वं सन्दर्शितमित्याशङ्क्य पुनः सुभूते इत्याद्याह ।

अनेन तावद् उत्पन्नपुण्यस्कन्धे ऽपि तेषां मिथ्याभिनिवेशेन पुण्यस्कन्धपरिग्रहस्य सर्वसंक्लेशमूलविपर्यासस्याप्रहीणत्वम्, अतः (ते) विशिष्टगतिं प्राप्ता अपि संसारे व्यवस्थाप्यन्ते, बोधिसत्त्वानां तु अनुत्पत्तिकधर्मक्षान्तिप्राप्तेः पुण्यस्कन्धेषु नास्ति सत्याभिनिवेशः, अतस्तेषां सर्वसंक्लेशमूलसंमोहस्य प्रहीणत्वान्न संसारे ऽवस्थानभित्येवं निर्दिश्यते । परविकल्पनिराकरणार्थमार्यसुभूतिरविदिताभिप्राय इव ननु परिग्रहीतव्यः इति विपरीतमभ्यधात् ।

तदयमाशयः- तत्तत्सूत्रेषु भगवता ऽबोधिसत्त्वः पुण्यस्कन्धं परिगृह्णातिऽ; इत्युक्तम् । अत्र न परिग्रहीतव्यः इति वचनेन कथं न विरोध इति? भगवानपि येनाभिप्रायेणोक्तवान् तदुभयमपि दर्शयितुमाह- परिग्रहीतव्यः इति । परिग्रहीत इति यदाह तत्तु परिग्रहलक्षणनय उपसंहारलक्षणः ।

विपरीतग्राहकलक्षणनिराकरणेन नात्र विरोधः । वितथमार्गग्राहकत्वं विपरितग्रहणमित्यनेन तद्विकल्पप्रहणाच्चित्तप्रग्रहणं दर्शितम् । यश्च खलु- (वज्रट्_216) पुनः सुभूते, कुलपुत्रो वा कुलदुहिता वा प्रारभ्य औदार्यमुक्तम्, अवशिष्टपूर्वभागैर्गाम्भीर्यं निर्दिष्टम् । एतेन सकलेन स्थानेन शाश्वतोच्छेदान्तं परिहृत्य मध्यममार्गो देशितः, निर्दिष्टं च संसारे निर्वाणे चाप्रतिष्ठितत्वम् ।

7. प्रस्थिति-परिशुद्धिः प्रस्थितिः परिशुद्धिरुच्यते । त्रिविधस्तस्याः प्रभेदः- 1. ईर्यापथेन प्रस्थितिः, 2. सत्त्वभाजनलोकाधिपत्येन प्रस्थितिः, 3. असंक्लेशेन प्रस्थितिश्च । 1. ईर्यापथेन प्रस्थितिः

तत्र यदि बुद्धो द्रष्टव्यो धर्मकायेन, न तु रूपकायेन, तदा भगवतश्चतुरीर्यापथेन जन्माभिनिष्क्रमणादिना चागमप्रसिद्धेन कथं न विरोध इति यो मन्यते तदर्थं प्रस्थानसम्पद ईर्यापथेन प्रस्थितिमधिकृत्य अपि तु खलु पुनः सुभूते यः कश्चिद् इत्याद्याह ।

गच्छति वा आगच्छति वा इत्येतद्द्वयेन चङ्क्रमणम्, तिष्ठति इत्यादिभिः क्रमेणावशिष्टा ईर्यापथा उक्ताः । ईर्यापथपिर्देशस्तूपलक्षणमात्रम् तेन जन्मादीनामप्यत्र निर्देशो द्रष्टव्यः । भगवत आगमेन परिदीपितानामीर्यापथादीनां यः सम्यक्तया शब्दशो ऽभिनिवेशस्तास्य विपरीताभिनिवेशान्न जानाति तथागतेन भाषितस्यार्थम् ।

न च भगवान् रूपकायेन प्रभावितः, असौ तु ज्ञानपरिशुद्धः, तस्यामूर्तत्वाज्ज्ञानस्य संवृतावपि गत्यादयो न सम्भवन्ति । गत्यादयस्तु रूपस्कन्धस्य स्थानविशेषप्रभावितत्वात् । ते च भगवतो निर्माणकायमाश्रित्योक्ताः, न च ज्ञानकायमाश्रित्य, तत्र संवृतितः परमार्थतो वा गत्यादीनामसम्भवात् । तस्माद् एवंविधायां ईर्यापथप्रस्थितौ बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति सन्दर्शितम् ।

यदि तथागते गत्यादयो न संविद्यन्ते (तर्हि) कथं तथागतः इति गत्या प्रभावित इवोच्यत इति चित्ताशयं वितर्क्याह- तत्कस्य हेतोः? इति । न मे स भाषितस्यार्थमाजानाति इत्यनेन योजनीयम् । अत्रोत्तरार्थं तथागतः इत्याद्याह ।

एवमभिप्रेयते- व्यपदेशो ऽयं न गत्या प्रभावितः, अपि तु अधिगमेन प्रभावितः गतः इत्यस्याधिगत्यर्थत्वात् । वस्तुतत्त्वं यथास्थितिः, तथैवाधिगम्यते, अधिगतत्वात् तथागतः । अथवा पूर्वकैर्बुद्धैर्यथा वस्तुतत्त्वमधिगतमविपर्ययेण तथैवानेनाप्यधिगतमित्यधिगतत्वात् तथागतः । स च तथ्यसंवृतौ ज्ञानकायत्वेन युज्यते, न चान्यत्राविकल्पितत्वात् । तच्च गमनादि क्वचित् संवृतावपि न सम्भवति, अमूर्तत्वात् । परमार्थे तु न सम्भवतितराम्, अनुत्पन्नत्वात् । ततः स वस्तुस्वभावाधिगत्या समस्तलोकस्य ज्येष्ठत्वात् पूजनीयत्वात् अर्हन् इत्युच्यते, सम्यगवबुद्धत्वात् सम्यक्सम्बुद्धः इत्युच्यते, अन्यथात्वेन जडस्वभावेन रूपकायस्तु तथा नोच्यत इति भावः ।

अनेन योगसमापत्तिः चित्तप्रग्रहश्च सन्दर्शितः । अनेन तावत् सकलस्थानेन गाम्भीर्यं निर्दिष्टम् । संवृतौ तथागतस्य निर्माणकायमाश्रित्य अनन्तलोकधातुषु अप्रतिहतगमनादिप्रदर्शनेन आदार्यमपि प्रदर्शितम् ।

2. (अ) भाजनलोकाधिपत्येन प्रस्थितिः

यस्तथागतस्य निर्मितरूपकायः, यश्च मनोमयकायः, तस्यापि एकानेकस्वभावविसंयोगान्मायानिर्मितबुद्धवत् मृषात्वं दर्शयितुं भाजनसत्त्वलोकभावविगमात् प्रस्थितिमधिकृत्य यश्च खलु पुनः सुभूते इत्याद्याह । पूर्वं त्वधिमुक्तिचर्याभूमौ बोधिसत्त्वस्याभावो दर्शितः, सम्प्रति बुद्धभूमौ भगवतः प्रस्थितिदर्शनान्न पुनरुक्तिः ।

अत्र पुनद्विविधेनोपायेन एकानेकस्वभाववियोगावबोधान्नैरात्म्यं दर्शितम् । तद्यथापि नाम मषिं कुर्यात्....... परमाणुसञ्चयः इत्यनेन एकानेकस्वभाववियोगावगमेन तनुकरणोपायो दर्शितः । अत्रापि पूर्ववद् व्याख्यानं (वेदितव्यम्) । ननु दिग्भागभेदेन परमाणवो ऽसिद्धा (तदा) कथं ते सञ्चिताः? इति सञ्चिन्त्य तत्कस्य हेतोः? इत्याशङ्क्योत्तरमाह (परिहरन्नाह) सचेद् भगवन् इति विज्ञय एकत्वग्राहकनिवृत्त्युपायार्थमेव परमाणुप्रभेदेन (यः) सञ्चयः स उक्तो न तु परमार्थतो ऽनवस्थितत्वात्, अन्यथा परमाणुसञ्चयः सर्वत्र प्रत्यक्षत्वेन प्रसिद्ध्येत । तस्मात् न भगवानवक्ष्यत् परमाणुसञ्चय इति अभाषिते ऽप्येवमाख्यातत्वात् । अनेन तथागतस्य रूपाभावत्वेन तादृश्यां स्थितौ छन्द-प्रणिधानाभ्यां स्थातव्यमिति देशितम् ।

यदि न स्यात् सञ्चयः (तदा) अपि नु बहुः स परमाणुसञ्चयो भवेत्? इति कस्माद् भगवानवक्ष्यदित्याशयं विदित्वा तत्कस्य हेतोः? इत्याह । असञ्चयः सः इति पूर्वोत्तरादिदिग्भागभेदेन अवस्थितानां तेषां परमाणूनां स्वभावेनासिद्धत्वान्न युज्यते तत्त्वतः सञ्चयः । एकत्वग्राहनिराकरणायैव (वज्रट्_219) भाषितम् तेनोच्यते परमाणुसञ्चय इति ।

असति च दिग्भागभेदे परमाणवः परमाण्वन्तरैः पूर्वापरोर्ध्वाधोदिग्भागभेदेन परिवृता न स्युः, ततो न भवेदुपचयश्चित्तचैत्तादिवत् । भाग एव भवति परमाणुरित्यपि कथनं न युज्यते, तत्रापि तर्कसाम्यात् । एवंभूतेनिष्ठितो ऽपि न युज्यते । अनिष्ठिताः परमाणवः स्वभावेन तर्हि त्वया किं साध्यते? अनिष्ठितस्वभावे भावो न सिध्यति, ततः सिद्धमस्माकं मतमिति । अनेकस्वभावत्वमणूनां यदृच्छयापि नोच्यते, (तदा) अनिष्ठिते परमाणौ (अनेकस्वभावत्वं) कथमुपपद्येतेति मयोक्तम् । ये परमाणवस्त्वया निरवयवत्वेन व्यवस्थाप्यन्ते तेषां पूर्वोत्तरादिदिग्भेदाभ्युपेतत्वात् दिग्भागभेदेनाभ्युपगम्यन्ते, तेन सावयवाः [ते] प्रसज्यन्ते । ततः प्रसङ्गसिद्धो हेतोराश्रयासिद्धिः, न च केवलं चित्तचैतसिकाभ्यामनैकान्तिकाः, अमूर्तत्वात्ते न दिक्ष्ववस्थिताः, पूर्वोत्तरादिदिग्भिरपि नावतिष्ठन्ते ।

तेनोक्तम्-

न रूपे नैव नेत्रे च तयोर्मध्ये ऽपि न स्थितः । यत्र स्थितो भवेत्तत्र न सन्नैव हि चाप्यसत् ॥

अलं प्रसङ्गेनेति । अनेन त्वनेकस्वभावराहित्यमवगम्य निराभासोपायसन्दर्शनेन योगसमापत्तिश्चित्तप्रहश्चेति निर्दिष्टम् । बहुः स परमाणुसञ्चयो भवेत् इत्यनेनौदार्यं चाभिहितम्, अवशेषेण तु गाम्भीर्यम् ।

(ब) सत्त्वलोकाधिपत्येन प्रस्थितिः

सम्प्रति सत्त्वलोकाभावप्रस्थितिमधिकृत्य भाषितस्त्रिसाहस्रमहासाहस्रो लोकधातुरिति सः इत्याद्याह । भाजनलोकस्य पूर्वमुक्तत्वादत्र लोकधातुस्तावत् सत्त्वलोकत्वेनेष्टः । उभयत्र त्रिसाहस्रमहासाहस्राभिधानेन तावदनन्तलोकधातुरुपलक्ष्यते । अत एव अधातुः स तथागतेन भाषितः इति पञ्चस्कन्धात्मकः स सत्त्वलोको ऽप्येकानेकस्वभावविरहितः पूर्ववदुक्तः ।

अनेन तथागतस्य तथाविधायां सत्त्वलोकाभावप्रस्थितौ बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् । निराभासेन तु योगसमापत्तिरियं कथं प्रतिपत्तव्येत्यपि सन्दर्शितम् ।

इदानीं चित्तं कथं प्रग्रहीतव्यमिति दर्शयितुं तत्कस्य हेतोः? इति पृष्टवान् । ऽअधातुः स तथागतेन भाषितऽ; इत्यनेन योजनीयम् । उत्तरार्थं सचेद् भगवन् इत्याद्याह । यदि सत्त्वलोको यथाप्रसिद्धस्तथा परमार्थतः स्यात् स्थूलैकस्वभावस्तदा तथागतेन यथास्थिति वस्तुतत्त्वमधिगतमिति स एव (वज्रट्_221) पिण्डग्राहः स्यात् ।

स्कन्धेषु पिण्डग्राह एवात्मग्रहणहेतुः, स एव च तथागतस्य पिण्डग्राहो ऽतिगाढतरः स्यात्, तदप्रहाणं चाभिप्रेतं भवेत् । न त्वेवम्, अत एवान्यत्र यो बालजनेभ्यः पिण्डग्राह आत्मग्राहस्य हेतुत्वेन भगवता भाषितः स परमार्थतो ऽग्राह्य एव । ग्राह्ये हि पिण्डे एकानेकस्वभावस्य कस्यचिदभावात् । बालजनप्रसिद्धो भावः केवलं संवृतित उक्तः । तेनोच्यते पिण्डग्राह इति । तदर्थसाधनायैवं भगवान् पिण्डग्राअस्यार्थमुक्तवान् । किमुच्यत इति चेत्? व्यवहारे पिण्डग्राह इति परमार्थे ऽभावात् स धर्मस्त्वनभिलाप्य इत्युक्तवान् ।

यद्येवं ग्राह्यः पिण्डो न स्यात् तदा तत्र ग्राहकस्याप्यभावात् कथं व्यवहारे पिण्डग्राह इति विचिन्त्याह- स च बालपृथजनैरुद्गृहीतः इति । बालास्तु भ्रान्तिवशादसन्तमपि सद्भूतमिव गृहणन्ति । तदाशयवशेन व्यवहारः प्रज्ञप्यते, (अतो) न विरोध इत्यभिप्रायः । तस्मात् ते बाला इत्युच्यन्ते, अन्यथा यथावस्तु व्यवहारप्रज्ञप्तौ कथं ते बालाः स्युः?

उक्तमत्र कथं चित्तं प्रग्रहीतव्यमिति । गाम्भीर्यमौदार्यमपि चात्र पूर्ववद् योजनीयम् । अनेन यदा सर्वे भावाः परमार्थतः स्वभावशून्यास्तदा रूपकायः ज्ञानकायश्च कथं भवेत् परमार्थतः सस्वभावः, मूलसत्त्वस्याभावादिति देशितम् ।

सम्प्रति यो हि कश्चित् सुभूते इत्यादिना सर्वस्थानेषु योगसमापत्तेः केनोपायेन सर्वत्र समाधेयमिति तत् प्रदर्श्यते । एवमनुसन्धिः- यदि नास्ति पिण्डग्राहस्तदा तन्मूलप्रभवायाः सत्कायदृष्टेरेवाभावात् कथं भगवान् पञ्चसु दृष्टिषु सत्कायदृष्टिमाहेति तदर्थं यो हि कश्चित् सुभूते इत्याद्याह । अत्र कथमविकल्प्यम्, यश्चाविकल्पकः, यमिन्नविकल्प्यम्, येनाविकल्पकः, यश्चाविकल्पः, तद्दर्शनेन योगसमापत्तेः सम्यगुपायो दर्शितो भवति ।

तत्र यो हि कश्चित् सुभूते इत्यारभ्य तेनोच्यते आत्मदृष्टिः एतत्पर्यन्तमनेन कथमविकल्प्यं तदुद्दिष्टम् । कथमिति चेत्? उक्तो ऽन्यैर्थिकैरात्मा, भगवता तु पुद्गलनैरात्म्यप्रतिपादनादात्मनिषेधार्थमाह आत्मदृष्टिः इति तस्याः आत्मदृष्टेर्निराकरणेन धर्मनैरात्म्यं व्यवस्थाप्यते अदृष्टिः सा तथागतेन भाषिता इत्युक्तम् । तामात्मदृष्टिं यदि सत्यतो न गृह्णाति (तदा) एवं प्रयोगे बोधिसत्त्वो योगसमापत्तौ प्रवर्तते । यस्मादविकल्पकस्तस्मात् स तत्रावरणोपायः ।

एवं हि सुभूतेअ बोधिसत्त्वयानसम्प्रस्थितेन इत्यनेन यो ऽविकल्पकः स परिदीप्यते । सर्वधर्माः इत्यनेन यस्मिन्नविकल्प्यम् तद्दर्शितम् । ज्ञातव्या द्रष्टव्या अधिमोक्तव्याः इत्यनेन येनाविकल्प्यं तदभिहितम् । केनाविकल्प्यमितिं चेत्? ज्ञानेन दर्शनेन अधिमुक्त्या च । तत्र ज्ञानं श्रुतमयी प्रज्ञा, दर्शनं चिन्ताययी प्रज्ञा, तयोपनिध्यानत्वाद्, अधिमुक्तिः भावनामयी प्रज्ञा, अध्याशयो ऽत्राधिमुक्तिशब्देन वक्तुमिष्यते । सा तु भावनाबलेन सिध्यतीति, अत एव भावनमयी प्रज्ञा निर्वेधभागीयावस्थायामधिमुक्तिशब्देनोक्ता ।

तथा चाधिमोक्तव्या, यथा न प्रत्युपस्थामहे इत्यनेन यो ऽविकल्पस्तं दर्शयति । असंज्ञैषा तथागतेन भाषिता इत्यत्र हेतुः परिकीर्तितः । कस्यचित् संज्ञेयस्य अभावो ऽपि, एकानेकस्वभावशून्यत्वात् परमार्थत सा असंज्ञा । संवृतिसत्यमधिकृत्यान्यत्र तथागतेन भाषितम् । तस्या (वज्रट्_223) मिथ्यार्थाधिगमावस्थायां कथं न स्यादविकल्प इत्यभिप्रायः । सर्वस्थानेषु योगसमापत्त्युपायो ऽभिहितः ।

3. असंक्लेशेन प्रस्थितिः (अ) देशनासंक्लेशः

द्विधा तवदसङ्क्लेशः- देशनासंक्लेशः, संसारासंक्लेशश्च । तत्र यदि नास्ति धर्मसंज्ञा तदा तथागतस्य सत्त्वेभ्यो तद्धर्मदेशनासंज्ञासमुत्पादे कथं न भवेत् संक्लेशः? कृपया सत्त्वार्थं यावत्संसारावस्थाने सति धर्मसंज्ञया कथं न स्यात् संक्लेशः? इति विचिन्त्य तयैव चित्तसम्पदा देशनासंक्लेशं गाथया च संसाराक्लेशमावेदयितुम् यश्च खलु पुनः सुभूते इत्याद्याह ।

पूर्वं प्रसङ्गान्तरे लोकधातुप्रशस्तिप्रदर्शनमनुशंसायाः प्रशंसनम्, सम्प्रत्यसंक्लेशाधिकारे ऽनन्तलोकधातुदेशनया नोच्यते अनुशंसेति न पुनरुक्तिः । अत्रापि युक्तिस्तु प्राग्वद् वक्तव्या । उद्गृह्य इति स्वध्याये ऽधीतम्, धारयेत् इति पदम्, वाचयेत् इति पुस्तकासिकं वाचयेत्, पर्यवाप्नुयात् इति त्वर्थग्रहणमित्यर्थः । अनेन यमान्महार्थो ऽयं धर्मस्तस्माद्बोधिसत्त्वेनैवंविधायां महार्थधर्मदेशनायामवश्यमेव छन्द-प्रणिधानाभ्यां स्थातव्यं तत्परिदीपितम् ।

भाष्यमाणायामपि कथं न स्यात्संक्लेश इत्येतद्दर्शयितुं कथं न सम्प्रकाशयेत् इत्याह । अयमभिप्रायः- परमार्थतो ऽनुत्पन्नत्वेनभिलाप्यत्वेन देशितत्वे ऽपि सर्वधर्माणाम्, ते धर्मा अनभिलाप्यस्वभावेन नोच्यते । एवमुक्तम्- यथा विनेयजनास्तथा सर्वे धर्मा आदितो ऽनुत्पन्नत्वादनभिलाप्याः (वज्रट्_224) तस्मान्न ते केनापि व्यपदेश्या इत्येवं दर्श्यत इति । तथा सति असंक्लेशेन देशना, अविपरीतार्थत्वात् । अन्यथा संक्लिष्टा स्याद् विपरीतदेशनत्वात् । अत एव तथागतो धर्मदेशनाकाले विशुद्धलोकज्ञाने प्रस्थितः, अतो धर्मसंज्ञाभाससमुद्भवे ऽपि तत्त्वतो ऽभिनिवेशाभावात् संक्लेशदोषाभावः । अनेन योगसमापत्तिः, चित्तप्रग्रहः गाम्भीर्यञ्च निर्दिष्टम्, पूर्वेण तावदौदार्यम् ।

[ब] संसारासंक्लेशः

साम्प्रतं निखिलप्रज्ञापारमिताकायं व्यवस्थाप्य गाथया संसारासंक्लेशो देश्यते । अनया गाथया चत्वारि संस्कृतलक्षणानि परिदीपितानि । (तानि तावत्) स्वभावलक्षणम्, विषयरसास्वादनलक्षणम्, आदीनवान्वयलक्षणम्, निर्याणान्वयलक्षणं चेति ।

तत्र पञ्चस्कन्धात्मकानां भावानां यथाप्रतीति प्रतीत्यसमुत्पादस्तावद् हेतुप्रत्ययसंगृहितत्वात् संस्कृतं इत्युच्यते । एतेषां सर्वेषां स्वभावः तारकाः इव द्रष्टव्यः । रात्रौ यथा तारका अवभासन्ते, न तु दिवसे, तथैव संस्कृता अपि अविद्याज्ञानान्धकारे सति प्रतिभासन्ते, ज्ञानसूर्यालोके सति नावभासन्ते, अतः (ते) तारकस्वभावा इव द्रष्टव्याः । पुद्गलधर्मदृष्टयभिनिवेशात्मकाः संस्कृतास्तु मिथ्याप्रतीतिहेतुत्वात् तिमिरवज्ज्ञातव्याः ।

विज्ञानलक्षणं च कर्मवर्तिकं तृष्णास्नेहं चाश्रित्य प्रज्वलनाद् दाप इव द्रष्टव्यम्, एवमेतन्निदर्शनेन संस्कृतस्वभावलक्षणं परिदीपितम् । मायोपमया विषयरसास्वादनलक्षणं निर्दिश्यते, वितथावभासमानत्वात् । तत्रादीनवान्वयलक्षणं संस्कृतस्वभावं द्विविधम्- अनित्यान्वयः दुःखान्वयश्च । अवश्यायोपमया अनित्यतान्वयः प्रदर्श्यते, न चिरं स्थितत्वात् । बुद्बुदोपमया तावद् (वज्रट्_225) दुःखतान्वयः प्रदर्श्यते, वेदना बुद्बुदोपमा इति, या काचिद् वेदना सेह दुःखमिति भाषितत्वात् ।

त्रिविधैः दुखैः सर्वा वेदना दुःखा वेदितव्या । तत्र दुःखवेदना तावद् दुःखदुःखम्, तत्सहिता ये संस्कारास्ते ऽपि तदनुरूपतया दुःखमेव; सुखावेदना तावद् विपरिणामदुःखेन दुःखम्, तत्सहिता ये धर्मास्ते ऽपि तदनुरूपतया दुःखम्, न दुःखा न सुखा वेदना, तत्सहितानि वस्तूनि च संस्कारदुःखम्, उत्पादभङ्गलक्षणत्वेन तानि दुःखम् । एवं सर्वं संस्कृतं दुःखान्वितं द्रष्टव्यम् ।

तत्र निर्याणान्वयलक्षणं तावत् पुद्गलधर्मशून्यतान्वयम्, तदालम्बननिर्वृतत्वाद्भगवता खलु द्विविधंनिर्याणालम्बनमुक्तम् । आर्यसमाधिराजसूत्रेचाप्युक्तम् :

नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत । स हेतुर्निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये ॥

द्विविधनैरात्म्यसम्प्रयुक्ताः सर्वसंस्कृताः, तथा हि- अतीत-प्रत्युत्पन्न-अनागतभेदेन त्रिविधाः संस्कृताः । तत्र ये तावदतीतास्ते स्मृतिमात्रावस्थिता अतो निःस्वभावत्वेन, धर्म-पुद्गलतया शून्याः आत्मनानधिष्ठितत्वात्, ततश्च स्वप्नौपम्येन द्विविधनैरात्म्यान्वयास्ते व्यपदिष्टाः । प्रत्युपन्ना विद्युदौपम्येन एकानेकस्वभावरहिताः अग्राह्यस्वभावत्वदिति तेनान्विता व्यपदिष्टाः । (वज्रट्_226) अनागतास्तावदलब्धस्वभावाः, अभ्रौपम्येन आकाशसमचित्ते तद्बीजदौष्ठुल्येन जनितत्वादिति नैरात्म्यद्वयं तावद्देशितम् ।

अतो ऽनेन खलु समग्रेणात्र बोधिसत्त्वैः सदा सर्वसंस्कृतस्वभावमेवं विचार्य छन्द-प्रणिधानाभ्यां स्थातव्यमिति परिदीपितम् । निर्याणान्वप्रदर्शनेन तावद् योगसमापत्तिश्चित्तप्रग्रहश्च निर्दिष्टः । अनेन सम्पूर्णेनस्थानेन गाम्भीर्यञ्च व्यपदिष्टम् ।

गाथायामस्यां तावदिदं परिदीप्यते- संक्लेशमुलं तावद् विपर्यासः । अतः संस्कृतस्वभावेष्वनेकशः केनचिद् विचारयता मनसिकुर्वता अप्येवं संस्कारपरिज्ञानाद्यदा विपर्यासाभावात् न भवति संक्लेशं (तदा) कथं (नाम) यथावदशेसवस्तुस्वभावपरिभावको विधूताशेषविपर्यासजालस्तथागतः संक्लिष्टो भवेत् । अत एव समस्तसंस्कृतदोषान् अवगच्छन् तथागतः, पद्ममिव संसारदोषाम्भसानवलिप्तचित्तः, प्रतिज्ञातसमस्तजगत्समुद्धरणाशयः, सफलकारित्रः, महाकरुणान्वितचित्तः, निरवधिजगद्धितसुखसाधनाभिप्रायेण संसारचक्रसंसरणं यावत् प्रतिष्ठितो वेदितव्यः । तथा चोक्तम्-

कर्तुं लोके सुखं शान्तौ भवे चाप्यनधिष्ठितः । इति सर्वसत्त्वानवलोकितुं भूमावस्थीयत इत्यप्युक्तम् ।

त्रैयध्विकानां जननी मुनीनां ख्याता यथाशक्ति मया ततो जगत् । विपुलेन पुण्येन वियत्समेन विधूय चान्ध्यं सुगतत्वमाप्नुयात् ॥

आचार्यकमलशीलेन माध्यमिकनयेन विरचिता विस्तृता आर्यवज्रच्छेदिकाटीका परिसमाप्ता । अष्टम्यां शताब्द्यां भारतीयाचार्य मञ्जुश्रीमित्रेण भोत-लोचावा येशे-देमहाभागेन च भोटभाषायामनूदिता । विदुषां वशंवदेन आचार्यपेमातेनजिनमहादयेन भोटभाषातः संस्कृतभाषायां पुनरुद्धृता सर्वसत्त्वहितसुखार्थम् इति ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.