Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
करुणापुण्डरीकसूत्र
- Thông tin
- GRETIL — Isshi, Yamada, Mahakarunapundarika Sutra. London: School of Oriental and African Studies, 1968, 1-420.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
चत्वार इमे धर्मा बोधिसत्त्वमार्गस्योपस्तम्भकराः / कतमे चत्वारः? / पारमितास्वभियोगः, सत्त्वानां संग्रहवस्तूत्सर्गः, ब्रह्मविहाराभिनिष्पादनता, अभिज्ञाविक्रीडनाता / चतुर्भिर्धर्मैर्बोधिसत्त्वेनातृप्तविहारिणा भवितव्यं, दानातृप्ततया धर्मश्रवणातृप्ततया भावनातृप्ततया सत्त्वेभ्यः सङ्ग्रहवस्त्वतृप्ततया विहरतव्यं / चत्वार इमे बोधिसत्त्वेनाक्षया निधयः परिपूरयितव्याः / कतमे चत्वारः? श्रद्धा बोधिसत्त्वेनाक्षयो निधिः परिपूरयितव्यः, धर्मदेशना परिणामना दरिद्रसत्त्वपरिग्रहश्चाक्षयो निधिः परिपूरयितव्यः / चतस्र इमा बोधिसत्त्वपरिशुद्धिः / कतमाश्चतस्रः? नैरात्म्यतया शीलपरिशुद्धिः, निःसत्त्वतया समाधिपरिशुद्धिः, निर्जीवतया प्रज्ञापरिशुद्धिः, निष्पुद्गलतया विमुक्तिपरिशुद्धिः विमुक्तिज्ञानदर्शनतया च / चत्वारो धर्मा बोधिसत्त्वेन परिपूरयितव्याः, (क्प्सू 204) यैर्बोधिसत्त्वाः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ति, आकाशचक्रं प्रवर्तयन्ति, अचिन्त्यचक्रमतुल्यचक्रं अनभिलाप्यचक्रं नैर्याणिकचक्रं नैर्वेधिकचक्रं अप्रवृत्तिचक्रं प्रवर्तयन्ति /
भविष्यसि त्वं विमलवैशायनानागते ऽध्वन्यतिक्रान्त एकगङ्गानदीवालिकासमे ऽसंख्येये ऽचिरप्रविष्टे भद्रके कल्पे प्रशान्ते पञ्चकषाये काले वर्धमाने आयुषि अशीतिवर्षसहस्रिकायां प्रजायामनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, मैत्रेयो नाम भविष्यसि तथागतो यावद्बुद्धो भगवान्" /
अथ विमलवैशायनो ब्राह्मणो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादाभिवन्दनं कृत्वैकान्ते स्थित्वा पुष्पमाल्यचुर्णैर्भगवतः पूजोद्युक्तो गाथाभिरभिष्टौति /
"भव नाथ ललाटविशाला रुचिरोर्णा हिमवर्णा कनकगिरिकूटा सदृशास्तु मनाथा / कस्ते न नयु मुनि वृषभा लोकप्रदीपा गुणशतभरिता कालो ऽयं मे उक्तं भवहि बुद्धजगे" //
सर्वे समुद्ररेणुना ब्राह्मणेन पुरोहितेन सहस्रं वेदपाठकानां बोधौ समादापितां / यथा क्रकुत्सन्दः कनकमुनिः काश्यपो मैत्रेयो व्याकृत एवं सिंहः प्रद्योतः यावद्द्विरूनं सहस्रं वेदपाठकानां माणवकानां सर्वे ऽस्मिन् भद्रके कल्पे ऽनुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतवन्तः, सर्वे रत्नगर्भेण तथागतेनास्मिन्नेव भद्रके कल्पे ऽनुत्तरायां सम्यक्संबोधौ व्यवस्थापिताः /
यस्तेषां सर्वकन्यसः पुरोहितेन संचोदितः / "किं भो महाबलवेगधारी दीर्घं निरीक्षसे? / उत्पादयस्व सत्त्वेषु महाकरुणां" / इमाभिश्च गाथाभिर्विज्ञापयति /
"ये सत्त्वा जराव्याधिमृत्युभिर्भया तृष्णा नदी पतिता / प्रक्षिप्ता भवचारके प्रतिभयं स्कन्धे निविष्टा नराः / पीत्वा क्लेशविषं परस्परवधं दुःखार्णवे संस्थिता / मोहे अन्धे प्रणष्टमार्गे अशुभसंसारयन्त्रे भ्रमन् / दुःखेन जालितभूत सर्वत्रिभवेय मिथ्याय दृष्टि स्थिताः / सर्वप्राण भ्रमन्ति पञ्चगतिभिश्चक्रं यथा वर्तते / धर्मा चक्षु विहीन पञ्चगतिभिरत्राण सत्त्वान् स्मरी / भावे प्रज्ञ जहित्वा कङ्क्षविमति बोधाय चन्दं जने / तृष्णाशोकनुदो भवाहि जगतो सत्त्वान बन्धुर्भवा / क्लेशबन्धनमोक्षणार्थं जगतो बोधाय चित्तं नमे / धर्मचक्षुर्विहीन मोहविगतमार्गं च श्रेष्ट दद / संसारभवचारकेषु ज्वलितां धर्मरसेन तर्पया / त्वं शीघ्रं उपसंक्रम्य हितकरपादा निपत्यं मुने / सर्वा भो प्रणिधि प्रशस्त्र सुदृढ बुद्धो भव नायकः / सत्त्वश्वासकरो भवाहि जगतः सत्त्वार्णवा उद्धरे / मोक्षमार्गप्रणीत इन्द्रियबलबोध्यङ्गदाता भवेत् / धर्मवर्षमुत्सृज धर्मजलदं सत्त्वान दुःखं शमेत्" //
स च कुलपुत्र महाबलवेगधारी माणवक आह - (क्प्सू 208) "नाहं भो उपाध्याय संसाराभिरामां श्रीमाकाङ्क्षामि, न च पुनः श्रावकप्रत्येकबुद्धयानाभिलाशी; अनुत्तरयानमाकाङ्क्षामि / मुहूर्तं भो उपाध्याय प्रतीक्षाहि, शृणुष्व यथाहं सिंहनादं नदामि" //
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणस्ततो ऽभिनिष्क्रम्य स्वकां पञ्चब्राह्मणदारकानुपस्थायकानामन्त्रयित्वोवाच - "भो दारका उत्पादयतानुत्तरायां सम्यक्संबोधौ चित्तं" / ते ऽप्याहुः / "नास्माकं किञ्चिद् अस्ति यद् वयं बुद्धप्रमुखस्य भिक्षुसङ्घस्य निर्यातयामः / कथं च वयमनवरुप्तकुशलमूला बोधिचित्तमुत्पादयामः?"
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो ऽग्रपुरोहितः प्रथमः करभुजो नामोपस्थायकः तस्य सप्तरत्नमयं कर्णविभूषणं दत्वा, द्वितीयः स्थालभुजो नामोपस्थायकः तस्य द्वितीयं सप्तरत्नमयं कर्णवेठकं दत्वा, तृतीयः जलभुजो नामोपस्थायकस्तस्य सप्तरत्नमयं पीठं ददाति, चेतुर्थः वेगभुजो (क्प्सू 209) नामोपस्थायकस्तस्य सप्तरत्नमयं दण्डं ददाति, पञ्चमः सारभुजो नामोपस्थायकस्तस्य सर्वसौवर्णभृङ्गारं दत्वोवाच / "गच्छत यूयं माणवका इमानि वस्तूनि बुद्धप्रमुखस्य भिक्षुसङ्घस्य निर्यातयित्वानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयथ" /
अथ ते पञ्चोपस्थायका गत्वा भगवत्सकाशं तानि वस्तुनि यथा निक्षिप्तानि बुद्धप्रमुखस्य भिक्षुसङ्घस्य निर्यातयित्वैवमाहुः / "व्याकरोत्वस्माकं भगवाननुत्तरायां सम्यक्संबोधौ, तस्मिंश्च भद्रके कल्पे वयेमनुत्तरां सम्यक्संबोधिमभिसंबुध्यमहि" / पेयालं, व्याकृताः कुलपुत्र रत्नगर्भेण तथागतेन करभुजो माणवको बोधाय भद्रकल्पे दृढस्वरो नाम भविष्यति तथागतः, स्थालभुजस्तदन्तरे सुखेन्द्रियमतिर्नाम भविष्यति तथागतः, तस्यानन्तरे जलभुजः सार्थवादिर्नाम भविष्यति तथागतः, तस्यानुसंधेः वेगभुजः प्रियप्रसन्नो नाम भविष्यति तथागतः, (क्प्सू 210) तस्यानुसंधेः सारभुजो नाम माणवको हरिपत्रचूडो नाम भविष्यति तथागतः /
समनन्तरव्याकृतास्ते पञ्चभद्रकल्पिका माणवकाः पुरोहितः पुनरपि महाबलवेगधारिणमाह - "महाबलवेगधारी गृह्णाहि बुद्धक्षेत्रगुणव्यूहान्, करोहि प्रणिधानं भगवतः सकाशाद्यादृशमाकाङ्क्षसि, निमन्त्रयाहि सर्वसत्त्वान् धर्मरसेन, चराहि च दृढवीर्येण स्वकं बोधिचारिकां / मा भूयो दीर्घं निरीक्षस्व" / बाहुना च गृहीत्वा भगवतो ऽन्तिकमुपनीतः /
स च कुलपुत्र महाबलवेगधारी माणवको भगवतः पुरतो निषण्णश्चाह - "कियद्बहवो भगवन्ननागते ऽध्वनि मुनिभास्करा अस्मिन् भद्रकल्पे उदयन्ति?" रत्नगर्भस्तथागत आह - "तस्मिन् माणवक भद्रके कल्पे चतुरुत्तरं सहस्रं मुनिभास्कराणां उदयः / माणवक आह - "यावत्तेषां भदन्त भगवन् भद्रके महाकल्पे निर्वृतानां जिनसूर्याणां पश्चिमको सारभुजो (क्प्सू 211) नाम माणवको ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते हरिपत्रचूडो नाम भविष्यति तथागत, तावच्चिरमहं बोधिसत्त्वचारिकां चरिष्यामि विविधव्रततपचर्यादानदमसंयमश्रुतवीर्यक्षान्तिसौरत्यपुण्यप्रज्ञासंभारं समुदानयमानः / सर्वेषां च भद्रकल्पिकानामचिराभिसंबुद्धानां प्रथमं पिण्डपातं दद्यां; परिनिर्वृतानां च शरीरपूजां कुर्यां; तेषां च सद्धर्मधारको भवेयं / शीलविरहितान् सत्त्वान् शीलसंपदि समादापयेयं निवेशयेयं प्रतिष्ठापयेयं; दृष्टिविरहितान् सङ्कटप्राप्तान् सत्त्वान् सम्यक्दृष्ट्यां समादापयेयं निवेशयेयं प्रतिष्ठापयेयं; एवमाशयविरहितान् सम्यगाशये प्रतिष्ठापयेयं; एवमाचारविरहितानाचारे प्रतिष्ठापयेयं; नानाविधानां सत्त्वानां कुशलचर्यां निदर्शयेयं / तेषां च बुद्धानां भगवतामचिरास्ताङ्गते सद्धर्मे पुनरहं सद्धर्मनेत्री सद्धर्मपरिग्रहं सद्धर्मस्योत्पादं सद्धर्मप्रदीपं लोके ज्वालयेयं /
शस्त्रान्तरकल्पकालसमये सत्त्वान् प्राणातिपातवैरमण्यां प्रतिष्ठापयेयं यावत् सम्यग्दृष्ट्यां; दशाकुशलकर्मपथेभ्यः सत्त्वान् कुमार्गादुद्धृत्य सम्यक्पथे स्थापयेयं; दुश्चरितान्धकारं (क्प्सू 212) च नाशयेयं; सुचरितालोकं च निदर्शयेयं; कल्पकषायं यावच्चायुर्दृष्टिक्लेशकषायं च लोके नाशयेयं / दुर्भिक्षान्तरकल्पकालसमये ऽहं सत्त्वां दानपारमितायां नियोजयेयं यावत् प्रज्ञापारमितायां समादापयेयं निवेशयेयं; षट्पारमितास्वहं सत्त्वान् नियोजयमानः सर्वदुर्भिक्षान्धकारकलिकलुषरणवैरविग्रहविवादं शमयेयं; सत्त्वानां सन्ततौ क्लेशानलं शमयेयं / रोगान्तरकल्पकालसमये चाहं सत्त्वां षट्पारायणीयेषु समादापयेयं; चतुर्षु सङ्ग्रहवस्तुषु नियोजयेयं प्रतिष्ठापयेयं; रोगान्धकारं च सत्त्वानां विध्वंसयेयं, यावत् सत्त्वानां सन्ततौ क्लेशं प्रशमयेयं / सर्वे सहे बुद्धक्षेत्रे भद्रकल्पे सत्त्वानेवंरूपैर्व्यसनैः परिमोचयेयं / यदा चतुरुत्तरं सहस्रं बुद्धा भगवन्तो भद्रके महाकल्पे उत्पन्ना निर्वृताश्च भवेयुः, सर्वेण सर्वं च सद्धर्मनेत्री अन्तर्हिता भवेत्, ततः पश्चादहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं / यावांश्चतुरुत्तरसहस्राणां भद्रकल्पिकानां बुद्धानां भगवतामायुर्भवेत् तान्तकम् मम बोधिप्राप्तस्य दीर्घमायुर्भवेत्; यावांश्च तेषां श्रावकसङ्घो भवेत् तावान् ममैकस्य श्रावकसङ्घः स्यात्; (क्प्सू 213) यावतश्च ते कल्पैश्चतुरुत्तरं बुद्धसहस्रं सत्त्वान् विनियेत् तावतः सत्त्वान् अहं विनयेयं /
ये च तेषां बुद्धानां भगवतां श्रावकशिक्षायां स्खलेयुर्दृष्टिप्रपाते वा प्रपतेयुर्बुद्धानां भगवतां सकाशे ऽगौरवचित्ताः प्रदुष्टचित्ता भवेयुः, धर्मे सङ्घे च स्खलितचित्ता भवेयुः, रागचित्ता आर्यापवादाः आनन्तर्यकाराश्च भवेयुर्बोधिप्राप्तश्चाहं सर्वान् संसारपङ्कादुद्धरेयं, अभयपुरे च निर्वाणनगरे प्रावेशयेयं / यावन् मम परिनिर्वृतस्य सद्धर्मक्षयो न भवेत् तावद् भद्रकमहाकल्पे ऽक्षयो भवेयं; निष्ठिते मम सद्धर्मे निष्ठिते भद्रकल्पे, ये मम धातवो जन्मशरीरः ते ऽप्रमेयासंख्येयास्तथागतविग्रहाः संतिष्ठेरन् द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृतगात्राः, एकैकं लक्षणमशीतिभिरनुव्यञ्जनैः समलङ्कृतं भवेत् / ते च तथागतविग्रहा दशसु दिक्ष्वप्रमेयेभ्यो ऽसंख्येयेभ्यः शून्येभ्यो बुद्धक्षेत्रेभ्यो (क्प्सू 214) गत्वा एकैको बुद्धविग्रहो ऽप्रमेयासंख्येयां त्रिभिर्यानैः सत्त्वान् समादापयेत् निवेशयेत् प्रतिष्ठापयेद्; यत्र बुद्धक्षेत्रे ऽन्तरकल्पे न नाशो भवेत् तत्र तथागतविग्रहः सत्त्वान् परित्रायेद्यथा पूर्वोक्तं तथा पश्चाच्चिन्तामणिः प्रादुर्भवेत्; येशु बुद्धक्षेत्रेषु सत्त्वा रत्नविरहिता भवेयुः तेषु बुद्धक्षेत्रेषु गत्वा रत्नवृष्टिः प्रवर्षान्निधयश्च संदर्शयेयुः; येषु च बुद्धक्षेत्रेषु सत्त्वाः कुशलक्रियाविरहिता भवेयुः व्याधिभीः क्लिष्टास्तेषु बुद्धक्षेत्रेसु गोशीर्षोरगसारकालानुसारी गन्धवृष्टिः प्रवर्षेयुः, सा च गन्धवृष्टिः सत्त्वानां क्लेशव्याधीर्दृष्टिव्याधीः कायव्याधीश्च प्रशमयेत्; ततस्ते सत्त्वाः पुण्यक्रियावस्तुष्वभियुक्ता भवेयुः स्वर्गपरायणा भवेयुः /
एवंरूपमहं भदन्त भगवन् बोधिचारिकां चरमाणः सत्त्वान् परित्रायेयं / बोधिप्राप्तश्चाहमेवंरूपं बुद्धकार्यं कुर्यां; परिनिर्वृतश्चाहमेवानन्तापर्यन्तेभ्यो बुद्धक्षेत्रेभ्यः सत्त्वान् परित्रायेयं / यदि मे भदन्त भगवन्नैवंरूपा आशा परिपूर्येता न च सत्त्वानां भैषज्यभूतो (क्प्सू 215) भवेयं, विसंवादिता मे बुद्धा भगवन्तो भवेयुर्ये दशसु दिक्ष्वनतापर्यन्तेषु लोकधातुषु तिष्ठन्ति ध्रियन्ति यापयन्ति सत्त्वानां धर्मं देशयन्ति, मा मे भगवान् व्याकुर्यादनुत्तरायां सम्यक्संबोधौ / ये ऽपि ते संप्रतिपन्नां भगवन् बहुप्राणकोट्यो ऽनुत्तरायां सम्यक्संबोधौ व्याकृताः सत्त्वास्तान् अहं बुद्धान् भगवतो विराधयेयं, मा चाराधयेयं, मा च मे भूयो बोधिहेतोः संसारे संसारमाणस्य बुद्धशब्दो धर्मशब्दः सङ्घशब्दः कुशलशब्दः कुशलकर्मक्रियाशब्दः श्रोत्रपथेषु निपतेत्, नित्यमहमवीचिपर्यापन्नो भवेयं, यदि मे भगवन्नैवंरूपा आशा परिपुर्येत" /
अथ रत्नगर्भस्तथागतो महाबलवेगधारिणो माणवकस्य साधुकारमदात् / "साधु साधु सत्पुरुष, भविष्यसि त्वं सत्पुरुष सत्त्वानां भैषज्यभूतः दुःखेभ्यश्च परिमोचकस्तेन त्वं सत्पुरुष भैषज्यराजज्योतिर्विमलो नाम भवस्व / भविष्यसि त्वं भैषज्यराजज्योतिर्विमलानागते (क्प्सू 216) ऽध्वन्येकस्मिन् गङ्गानदीवालिकासमे ऽसंख्येये ऽतिक्रान्ते ऽनुप्रविष्टे द्वितीये गङ्गानदीवालिकासमे ऽसंख्येये भद्रके कल्पे चतुरुत्तरस्य बुद्धसहस्रस्याचिराभिसंबुद्धानां पिण्डपातं दास्यसि यावद्यथा स्वयं प्रणिधानं कृतं, निर्वृतस्य च हरिपत्रचूडभद्रस्य तथागतस्य सद्धर्मे ऽन्तर्हिते ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, रोचश्च नाम तथागतो भविष्यसि यावद्बुद्धो भगवान् / अर्धकल्पं च ते आयुर्भविष्यति, यावच्च तस्य चतुरुत्तरस्य बुद्धसहस्रस्य भद्रकल्पिकानां श्रावकसङ्घो भविष्यति तावच्च तवैकस्य श्रावकसङ्घो भविष्यति, तावतश्च सत्त्वान् विनयिष्यसि / परिनिर्वृतस्य च सद्धर्मान्तर्धानं भद्रकस्य महाकल्पस्य कल्पक्षयो न भविष्यति; एतावन्तश्च बुद्धविग्रहा भविष्यन्ति, यावच्छून्येषु बुद्धक्षेत्रेषु गन्धवृष्टिः सत्त्वानां क्लेशव्याधिर्दृष्टिव्याधीः कायव्याधीश्च शमयिष्यति, त्रिषु चैव पुण्यक्रियावस्तुषु सत्त्वान् प्रतिष्ठापयिष्यन्ति स्वर्गपरायणांश्च" /
अथ खलु कुलपुत्र भैषज्यराजज्योतिर्विमलो बोधिसत्त्व आह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तथा मे भगवान् सतपुण्यलक्षणालङ्कृतेन पाणिना मूर्धानां स्पर्शतु" / अथ खलु कुलपुत्र रत्नगर्भस्तथागतः शतपुण्यलक्षणालङ्कृतेन पाणिना भैषज्यराजज्योतिर्विमलस्य बोधिसत्त्वस्य मूर्धानं परिमार्जयित्वा तस्थौ / अथ खलु कुलपुत्र भैषज्यराजज्योतिर्विमलो बोधिसत्त्वस्तुष्ट उदग्र आत्तमनाः प्रमुदितचित्तो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दितवैकान्ते ऽतिक्रम्य स्थितं / समुद्ररेणुर्ब्राह्मणो दिव्येन कौशिकवस्त्रेणाच्छादयित्वोवाच / "साधु साधु सत्पुरुष, शोभनं प्रणिधानं कृतं / न भूयस्त्वया ममोपस्थानं कर्तव्यं / यथा सुखमेव विहरस्व" //
अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैतदभवत् - "मया बहवः प्राणकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ समादापितानि, यथेदं (क्प्सू 218) सर्वावन्तं पर्षदं पश्यामि सर्वैश्चेमैर्महासत्त्वैरुदारोदाराणि प्रणिधानानि कृतानि प्रसन्नानि च बुद्धक्षेत्राणि परिगृहीतानि स्थापयित्वा वायुविष्णुनान्यैर्बोधिसत्त्वैः कलियुगं परिवर्जितं / मयापि कलियुगकाले वर्तमाने सत्त्वा धर्मरसेन तर्पयितव्या, दृधश्च व्यवसायः कर्तव्यः / तथारूपेण च मया प्रणिधानेन सिंहनादो नदितव्यः / यथेयं सर्वा बोधिसत्त्वपर्षदाश्चर्यप्राप्ता भवेत्, सर्वावती चेयं पर्षा सदेवगन्धर्वमाणुषासुरश्च लोको ऽयं मां प्राञ्जलीभूतो नमस्येत पूजां च कुर्याद् / अयं च मे बुद्धो भगवान् साधुकारमनुप्रयच्छेत् व्याकुर्यात्, तथा ये च दशसु दिक्षु बुद्धा भगवन्तः तिष्ठन्ति यापयन्ति सत्त्वानां धर्मं देशयन्ति ते ऽपि बुद्धा भगवन्तो मम सिंहनादं नदतः साधुकारं प्रदद्युः, व्याकुर्युश्चानुतरायां सम्यक्संबोधौ, दूतांश्च प्रेषयेयुर्यत् सर्वावतीयं पर्षत् शृणुयात् तांश्च दूतान् पश्येत् / ये ऽपि च तस्यां पश्चात्काले महाकरुणासमन्वागता बोधिसत्त्वास्ते ऽप्येवंरूपं क्लिष्टं बुद्धक्षेत्रं महाकलियुगकाले बोधिं (क्प्सू 219) प्रणिधानेन प्रतिगृह्णीयुर्धर्मदुर्भिक्षकान्तारे क्लेशौघैरुह्यमानान् सत्त्वान् परित्रायेयुः, बुद्धकार्यं च कुर्युः, सत्त्वानां धर्मं देशयेयुः / यावत् परिनिर्वृतस्यापि मे ऽचिन्त्याः कल्पकोटीनयुतशतसहस्रातिक्रान्ते दशसु दिक्ष्वतुल्येभ्यो ऽपरिमाणेभ्यश्च बुद्धक्षेत्रेभ्यो ऽपरिमाणा बुद्धा भगवन्तो मम परिनिर्वृतस्य वर्णं भाषेरन्, यशश्च घोषं च चारयेयुः, बोधिसत्त्वानां चाग्रतो मम प्रणिधाननेत्रीमुद्भावयेयुः / ते च बोधिसत्त्वा मम करुणापरिभाविताधिष्टानं प्रणिधानं श्रुत्वा परमाश्चर्यप्राप्ता भवेयुः, ते ऽपि सत्त्वेभ्यो महाकरुणां सर्जयेयुः; ततश्च ते एवंरूपं एव प्रणिधानं प्रतिगृह्णीयुर्यथाहमेतर्हि प्रतिगृह्णामि, ते ऽप्येवंरूपे क्लिष्टे बुद्धक्षेत्रे बोधिमभिसंबुध्येयुः / चतुर्भिरोघैः सत्त्वान् प्रत्युह्यमानानुत्तारयेयुः, त्रिभिश्च यानैर्विनयेयुः, यावन्निर्वाणपथे स्थापयेयुः" /
एवंरूपं कुलपुत्र समुद्ररेणुर्ब्राह्मणो अग्रपुरोहितो महाकरुणापरिभावं प्रणिधानं सर्जयित्वा, एकांशं चीवरं प्रावृत्य येन रत्नगर्भस्तथागतस्तेनोपसंक्रामति (क्प्सू 220) स्म / तेन खलु पुनः समयेन बहुदेवकोटीनियुतशतसहस्राणि गगनतले दिव्यानि तूर्यकोटीनियुतशतसहस्राणि वाद्यन्ति पुष्पवृष्टिश्च प्रवर्षिता, एककण्ठेन चोदाहरन्ति / "साधु साधु सत्पुरुष, उपसंक्रम त्वं भगवतः सकाशं / गृह्ण त्वं प्रवरप्रणिधानं / क्लेशव्याकुले लोके प्रशमयिष्यसि दुःखस्कन्धं सत्त्वानां ज्ञानतोयेन प्रशमयिष्यसि" / सर्वावती सा पर्षत्प्राञ्जलीभूता अभिमुखा एककण्ठेन वदति / "साधु साधु सत्पुरुष, प्रवरपण्डितास्माकं हितकर कुरुष्व दृढप्रणिधानं प्रवरबुद्धिमयं शृणोमः" / पुरोहितश्चोपसंक्रामति यदा च निक्षिप्तं पुरोहितेन भगवतः सकाशे जानुमण्डलं, तावच्चायं त्रिसाहस्रमहासाहस्रो लोकधातुः सर्वावतीदं संतरणं बुद्धक्षेत्रं कंपति प्रकंपति चलति प्रचलति क्षुभ्यति प्रक्षुभ्यति वेधति प्रवेधति, अघट्टितानि तूर्यानि प्रवाद्यन्ति; ये च मृगपक्षिणस्ते सर्वे मनोज्ञं स्निग्धं च शब्दमुदीरयन्ति, वृक्षाश्च पुष्पाणि प्रमुञ्चन्ति / ये केचिदस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीं निश्रित्य भूताः प्रतिवसन्ति ये बोधौ समादापिता ये न च समादापिताः, स्थापयित्वा नैरायिकां यामलौकिकां च, सर्वे (क्प्सू 221) हितचित्ताः कल्याणचित्ता अवैरचित्ता अकलुषचित्ता मैत्रिचित्ता आश्चर्यचित्ता बभूवुः / ये सत्त्वाः स्वर्गचरास्ते खे स्था एवं परमप्रीतिमनसः, पुष्पैर्माल्यैर्गन्धैर्वाद्यै रत्नच्छत्रैर्ध्वजैः पताकाभिर्वस्त्रदुष्यैः स्निग्धमनोज्ञं शब्दं ब्राह्मणस्य प्रणिधानं श्रवणायोद्युक्ताः पूजाकर्मणे / चैवं यावदकनिष्ठभवनपर्यन्ता देवा जम्बूद्वीपं अवतीर्य गगनतले स्थित्वा दिव्यैर्गन्धैर्यावद्दुष्यैर्ब्राह्मणस्य प्रणिधानं श्रवणार्थमुद्युक्ताः पूजाकर्मणे /
ब्राह्मणश्चाञ्जलिं प्रगृह्याभिर्गाथाभी रत्नगर्भं तथागतमभितुष्टाव /
"ध्यानेभिर्विक्रीडसि ब्रह्मरिवा रूपेण प्रभावसि शक्ररिवा / धनधान्य प्रयच्छसि राजरिवा रतनाग्रवरो मुनिश्रेष्ठिरिवा / गिरि सौम्य विनर्दसि सिंहरिवा न च कंपसे दृढमेरुरिवा / न च क्षोभ्यसे उदधीषरिवा गुणदोषवही समुद्रवारिरिवा / मल सर्व प्रवाहसि तोयुरिवा दहि क्लेश्वनं मुनिरग्निरिवा / न च सज्जसे क्वचिद्वायुरिवा मुनि तत्त्वे निदर्शक देवुरिवा / मुनि धर्म प्रवर्षसि नागुरिवा जग सर्वं तर्पयसि वृष्टिरिवा / अन्यतीर्थं प्रमर्दसि सिंहरिवा गुणगन्ध प्रमुञ्चसि पुष्परिवा / मधुरगिर भाषसि ब्रह्मरिवा जग दुःखप्रमुञ्चक वैद्यरिवा / समचित्तमुपस्थिहि मातरिवा जग नित्यानुगृह्णसि मित्ररिवा / किर मान अरी दृढ वज्ररिवा छिन्दि तृष्णलता मुनिशत्रुरिवा / जग तारयसे नदितारुरिवा दहि ज्ञानतृणां मुनिनागरिवा / ददि शीतप्रभा मुनिचन्द्ररिवा नर पद्म विबोधयि सूर्यरिवा / चतुरग्रफलान् दधि वृक्षरिवा रिषिसङ्घवृतो मुनिपक्षिरिवा / जिनबुद्ध विषाल समुद्ररिवा समचित्त जगे तृणकाष्ठरिवा / शून्यधर्म निरीक्षसि स्वप्नरिवा समलोकानुवर्तसि वारिरिवा / मुनि बोधिय व्याकृत सत्त्व त्वया वरलक्षणधारि सुकारुणिका / त्वयि सत्त्व विनीत अनन्तबहू मम व्याकरि बोधिय अग्रवरे / वरप्रज्ञा महारिषि सत्यरुचेः मम व्याकरि बोधिय छिन्दि मतीं / भवि बुद्ध जगे कलिक्लेशरणिः स्थपि सत्त्वशतांशि विशान्तपथे" //
यदा कुलपुत्र समुद्ररेणुर्ब्राह्मणो ऽग्रपुरोहितो रत्नगर्भं तथागतमाभिर्गाथाभिः स्तुत्वा तस्थौ, तावदेव सा सर्वावती पर्षा सदेवगन्धर्वमाणुषा साधुकारमदात् //
पुरोहित आह - "मया भदन्त भगवन् बहुप्राणकोट्यो ऽनुत्तरायां सम्यक्संबोधौ समादापितास्तैश्च (क्प्सू 224) स्वकस्वकोदारोदाराणि बुद्धक्षेत्राणि परिगृहीतानि परिशुद्धाशयावरुप्तकुशलमूलाः सुविनीताः सत्त्वा वैनेयाः परिगृहीताः / इमे च ज्योतिपालपूर्वंगमानां चतुरुत्तरसहस्रं वेदपाठकाणं ये तथागतेन भद्रकल्पिका व्याकृताः, ते ऽपि सत्पुरुषा रागद्वेषमोहमानचरितांस्त्रिभिर्यानैर्विनयन्ति; तदपि तैस्तीव्रक्लेशावरणकलियुगकषायाः परिवर्जितास्तैरुत्सृष्टा आनन्तर्यकारकाः सद्धर्मप्रतिक्षेपकाः आर्यापवादका मिथ्यादृष्टय आर्यसप्तधनविरहिता अमातृज्ञा अपितृज्ञा अश्रामण्या अब्राह्मण्या अकृत्यकारका अपुण्यकराः परलोकभयादर्शिनो विपरीततत्त्वबोधिनो ऽनाथकास्त्रिषु सुचरितेषु, तथा देवमानुषिकाभिः श्रीसंपत्तिभिरुद्युक्ताः त्रिषु दुश्चरितेषु संप्रतिपन्नाः दशसु कुशलेषु कर्मपथेषु विरहिताः सर्वकल्याणमित्रै रिञ्चिताः सर्वपण्डितैः प्रक्षिप्ता भवचारके ऽनुश्रोतमुह्यन्तः क्षारनद्यां सीदन्तः संसारपङ्कैर्मोहान्धकाराविरहिता निर्मुक्ताः सर्वकुशलक्रियायां सर्वे शून्येषु बुद्धक्षेत्रेषूज्झिताः सकुशलमूलसमवधानगताः कुमार्गविहन्यन्तो महासङ्कटप्राप्तास्तस्मिन् (क्प्सू 225) काले सहे बुद्धक्षेत्रे दशवर्षायुष्का भद्रकल्पे मनुष्या भविष्यन्ति, सर्व इमे सत्पुरुषैः पण्डितैरुत्सृष्टा उज्झिताः / तत्कालं भवावर्तके संसारचक्रे ऽत्राणा अशरणा अपरायणा दुःखभाजनभूताः सत्त्वास्तां परिवर्जयित्वा स्वकस्वका बुद्धक्षेत्राः प्रधानप्रधानाः परिगृहीताः, सुविनीताश्च परिशुद्धाशयाः अवरुप्तकुशलमूलाः आरब्धवीर्या बहुबुद्धकृताधिकारा वैनेयाः परिगृहीताः / न एवं, भदन्त भगवन्?" रत्नगर्भस्तथागत आह - "एवं, ब्राह्मण, यथाभिप्रायाः सत्त्वाः प्रणिधानं कुर्वन्ति बुद्धक्षेत्रगुणव्यूहाश्च परिगृहीतास्तत्रैव च मया व्याकृताः" /
ब्राह्मणः प्राह - "ममापि भदन्त भगवन् हृदयं कंपति तद्यथापि किंशुकपत्रं परमदीनमानसो ऽहं सर्वशरीरं च मे आयासितं, यदि मे भदन्त भगवन् सत्त्वाः करुणास्पदभूता बोधिसत्त्वैस्तत्कालमुत्सृष्टा महाकलियुगान्धकारप्रक्षिप्ताः सर्वपरिवर्जिताः /
अहमपि भदन्त भगवन्ननागते ऽध्वनि अतिक्रान्ते एकगङ्गानदीवालिकासमे ऽसंख्येये ऽवशिष्टे द्वितीये गङ्गानदीवालिकासमे ऽसंख्येये तस्मिंश्च भद्रके महाकल्पे दशवर्षशतायुष्कायां प्रजायां कालं प्रतीक्षमाणास्तावच्चिरमहं संसारे न परिखिद्येयं बोधिचारिकां चरमाण, उत्सहायि चाहं समाधानबलेन चिरपाचनयान्वैनेयान् प्रतिगृह्णामि, षट्पारमिताश्चरमाणो वैनेयान् प्रतिगृह्णामि / श्रुतं च मया भगवतः सकाशाद् "वस्तुनिमित्तं परित्यागेयं दानपारमिता" / तथारूपमहं दानपारमितां चरिष्यामि यथा जन्मान्तरेष्वप्रमेयाः सत्त्वा याचनका आगमिष्यन्ति तेषां तथारूपां परित्यागं परित्यजेयं, तद्यथान्नपानखाद्यभोज्यपेयलेह्यवस्त्रशय्यासनाश्रयप्रतिश्रयमाल्यगन्धविलेपनग्लानप्रत्ययभैषज्यदानं छत्रध्वजपताकाधनधान्यहस्त्यश्वरथसुवर्णरूप्यहिरण्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतजातरूपदक्षिणावर्तसर्वामहमेवं परित्यागं परमप्रासादकारुण्यमानसः सत्त्वानां दत्वाफलाभिकाङ्क्षी (क्प्सू 227) सत्त्वपरिपाचनार्थं वैनेयसत्त्वानुग्रहार्थं त्यागसंभारं परित्यजेयं / ये च पुनः सत्त्वा अतित्यागयाचनका आगत्वा याचयेरन् तद्यथा दासदासीग्रामनगरराज्यभार्यापुत्रदुहितृहस्तपरित्यागपादपरित्यागकर्णनासानयनजिह्वाचर्मरुधिरास्थिकायजीवितशिरःपरित्यागं, एवंरूपाः परित्यागाः परमप्रसन्नः कारुण्यमानसः अफलाभिकाङ्क्षी सत्त्वानां दानं दद्यां वैनेयानुकंपार्थं /
तथारूपायामहं दानपारमितायां चरिष्यामि, यन्न कदाचित् पूर्वं केनचित् सत्त्वेन एवंरूपाः परित्यागाः परित्यक्ताः स्युर्न च पुनः पश्चात् कश्चिद् बोधिसत्त्वः अनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः एवंरूपाः परित्यागाः परित्याजेत् / यदहं तेषु जन्मान्तरेषु अप्रमेयासंख्येयेषु कल्पकोटीनयुतशतसहस्रेष्वनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः दानपारमितायां चरेयं / यदहं महाकरुणासमन्वागतानां पश्चिमकानां बोधिसत्त्वानां परित्यागनेत्रीगुणान् स्थापयेयं / "या प्रशमा रणिक्लेशानामियं शीलपारमिता" / तथाहमनुत्तरायां (क्प्सू 228) सम्यक्संबोधौ चारिकां चरमाणो विविधशीलव्रतनिरन्तरदुष्करचारिकां चरेयं, यथा पूर्वोक्तं / "या विषयेष्वक्षण्यनता आत्मप्रत्यवेक्षणा इयं क्षान्तिपारमिता" / तथारूपमहं क्षान्तिं भावयमानो, यथा पूर्वोक्तं / "या विवेकता सर्वसंस्कृता भावना उद्युज्यना सर्वासंस्कृतशान्तमनुत्तरचर्यया अविवर्तना इयं वीर्यपारमिता" / "या सर्वसंस्कारेषु विपर्यासप्रहाणाय शून्यता समुदाचारः इयं ध्यानपारमिता" / "या प्रकृत्यनुत्पत्तिकधर्मक्षान्तिरियं प्रज्ञापारमिता" / या अप्रमेयासंख्येयेषु कल्पकोटीनयुतशतसहस्रेषु दृढोत्साहबलवेगचर्या, यथा पूर्वोक्तं, न कश्चिद् बोधिसत्त्वो ऽनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः एवं दृढोत्साहबलवेगेन प्रज्ञापारमितायां चीर्णः स्यां, न च पुनः पश्चात्कश्चिद् (क्प्सू 229) बोधिसत्त्वो ऽनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः एवं दृढोत्साहबलवेगेन प्रज्ञापारमितायां चरेत्, तथाहं चरेयं; पश्चिमकानां बोधिसत्त्वानां महाकरुणासमन्वागतानां नेत्रीगुणं स्थापयेयं /
प्रथमचित्तोत्पादेनाहं पश्चिमकानां बोधिसत्त्वानां महाकरुणां निवर्तयेयं, यावदनुत्तरपरिनिर्वाणेन बोधिसत्त्वाश्चाश्चर्यप्राप्ता भवेयुरित्यर्थमहं त्यागस्यामन्यनता चरेयं, शीलानिश्रयता क्षान्त्यामन्यनता वीर्ये ऽनायूहनता ध्यानेष्वप्रतिष्ठितता प्रज्ञायामद्वयतां चरेयं / अफलाकाङ्क्षी आर्यसप्तधनविरहितानां सत्त्वानां सर्वशून्यबुद्धक्षेत्रोज्झितानामानन्तर्यकारकानां सद्धर्मप्रतिक्षेपकानामार्यापर्वादकानां मिथ्यादृष्टिकानामकुशलमूलसमवधानसङ्कटप्राप्तानां कुमार्गे विहन्यमानानां सत्त्वानामर्थायाहं पारमितास्तीव्रबलवेगोत्साहेन चरेयं / एकैकस्य सत्त्वस्यार्थे चाहं कुशलमूलबीजसंतत्याः प्रतिष्ठापनार्थं दशमहाकल्पान् (क्प्सू 230) अवीचिनरके दुःखां वेदनामुत्सहेयं, एवं तिर्यक्प्रेतेषु यक्षदरिद्रेषु मनुष्यदरिद्रेषु दुःखां वेदनामुत्सहेयं / यथा चैकसत्त्वस्य सन्तत्यां कुशलमूलबीजं प्रतिष्ठापयेयं तथा सर्वसत्त्वानां एवंरूपां रिक्तमुष्टिसदृशसन्तानां वैनेयां प्रतिगृह्णीयं / यावत् कल्पपर्यन्तेनाहमनार्थको दिव्यसुखोपपत्तिभिः, स्थापयित्वा एकजातिप्रतिबद्धतुषितभवनकालापरिक्षीचरमभविको बोध्यभिसंबोधनार्थं; तावच्चिरमहं संसारे बुद्धक्षेत्रपरमाणुरजःसमान् बुद्धान् भगवतः पर्युपासित्वा एकैकस्य च बुद्धस्याहं बुद्धक्षेत्रपरमाणुरजःसमां विविधां
पूजां कुर्यां, एकैकस्य च बुद्धस्य सकाशाद्बुद्धक्षेत्रपरमाणुरजःसमान् गुणान् अधिगच्छेयं, बुद्धक्षेत्रपरमाणुरजःसमांश्च सत्त्वान् बोधौ समादापयेयं / एवं प्रत्येकबुद्धयानिकानामेवं श्रावकयानिकानां यथाभिप्रायांश्च सत्त्वान् तथाहं समादापयेयं / असति बुद्धोत्पादे लोक ऋषिव्रतेनाहं सत्त्वां दशकुशलकर्मपथेषु नियोजयेयं समाधावभिज्ञासु च नियोजयेयं, (क्प्सू 231) दृष्टिव्यसनमहेश्वरभक्तां महेश्वररूपेणाहं सत्त्वान् कुशलेषु नियोजयेयं, नारायणभक्तांश्चन्द्रसूर्यभक्तां यावद्ब्रह्मभक्तान् ब्रह्मरूपेणाहं सत्त्वान् कुशलधर्मेषु नियोजयेयं / एवं गरुडरूपेण गरुडपक्षिणः कुशलचर्यासु नियोजयेयं, यावच्छक्ररूपेण / बुभूक्षितान् सत्त्वान् स्वमांसरुधिरेण संतर्पयेयं, व्यसनगतांश्च सत्त्वां स्वकेन कायेन जीवितेन च परित्रायेयं /
तावच्चिरमहं भदन्त भगवन् दग्धसन्तानानां कुशलमूलपरिहीनानामर्थायातिबलवेगेन चारिकां चरं, तावच्चिरं चाहं संसारे सत्त्वहेतोर्विविधचण्डघोरदारुणां दुःखां प्रतिच्छेयं: यावदतिक्रान्तानेकगङ्गानदीवालिकासमानामसंख्येयानां निर्गतानाम् अवशिष्टे द्वितीये गङ्गानदीवाइकासमे ऽसंख्येये ऽनुप्रविष्टे भद्रके महाकल्पे यदा ज्योतिपालो माणवको ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यति क्रकुत्सन्दो नाम तथागतो भविष्यति तदाहं तस्मिन् समये आर्येण प्रज्ञाचक्षुषा दशसु दिक्षु सहस्रबुद्धक्षेत्रपरमाणुरजःसमासु लोकधातुषु प्रवर्तितधार्मिकं धर्मचक्रं तिष्ठतो यापयतो बुद्धान् भगवतः पश्येयं / ये मया दग्धसन्ताना अकुशलमूलसमाधानाः (क्प्सू 232) सप्तधनविरहिताः सर्वैः शून्यैर्बुद्धक्षेत्रैरुज्झिता आनन्तर्यकारकाः सद्धर्मप्रतिक्षेपका आर्यापवादका यावत्कुमार्गे विहन्यन्तः मया सङ्कटप्राप्ताः प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः /
मया ते सत्त्वाः प्रथमं दानपारमितायां समादापिता यावत्प्रज्ञापारमितायां निवेशिताः स्युर्मया च तेषां सत्त्वानां तत्कुशलमूलबीजमनुत्तरे निर्वाणे प्रक्षिप्तं स्यात्, अपायेभ्यश्च परिमोचिताः स्युः, प्रज्ञापुण्यसंभारे च नियोजिताः स्युस्तिष्ठन्तो यापयन्तस्तेषु च बुद्धक्षेत्रेसु बुद्धेषु भगवतसूपनीताः स्युर्यदानुत्तरायां सम्यक्संबोधौ व्याकरणप्रतिलब्धा भवेयुः, समाधिधारणीक्षान्तिप्रतिलब्धाश्च स्युर्भूम्यवक्रान्ताश्च स्युर्मया च ते सत्त्वा बुद्धक्षेत्रगुणव्यूहा प्रणिधानं समादापिताः शिक्षापिताश्च स्युर्यथारूपं च ते बुद्धक्षेत्रगुणव्यूहां प्रतिगृह्णेयुस्ते च तान् अहं तस्मिन् समये ऽनुप्रविष्टे भद्रकल्पे क्रकुत्सन्दे जिनसूर्य उद्गते दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः (क्प्सू 233) तिष्ठतो यापयतः सत्त्वानां धर्मं देशयतः पश्येयं; तदाहं क्रकुत्सन्दस्य तथागतस्यार्हतः सम्यक्संबुद्धस्याचिराभिसंबुद्धस्य सकाशमुपसंक्रमेयं, उपसंक्रम्य विविधां पूजां कुर्यां, प्रश्नं च पृच्छेयं, प्रव्रजेयं, शीलश्रुतसमाधावभियुज्येयं, अग्रधर्मदेशकश्च भवेयं / ये च तस्मिन् समये दग्धसन्तानाः सत्त्वा अकुशलमूलसमवधानगता दृष्टिमार्गसंप्रतिपन्ना आनन्तर्यकारकाः कुमार्गविहन्यमानास्तेषां महासङ्कटप्राप्तानां सत्त्वानां धर्मं देशयेयं, तांश्चाहं वैनेयां प्रतिगृह्णीयां / अस्तांगते जिनसूर्ये तदाहमनाभोगेन बुद्धकार्यं कुर्यां यावद्वर्षशतायुष्कायां प्रजायां त्रिषु पुण्यक्रियावस्तुषु सत्त्वान्नियोजयेयं /
तस्मिंश्च काले ऽतिक्रान्ते देवलोकं गत्वा देवानां धर्मं देशयेयं, वैनेयांश्च प्रतिगृह्णीयां, यावद्विंशतिवर्षशतं सत्त्वानामायुर्भविष्यति / सत्त्वा ऐश्वर्यकुलरूपमदमत्ता मत्सरिणो भविष्यन्ति / पञ्चकषायान्धकारप्रक्षिप्ताः सत्त्वाः तीव्ररागास्तीव्रद्वेषास्तीव्रमोहास्तिव्रमानास्तीव्रपापेर्ष्यामत्सरिणो ऽधर्मरागरक्ता अधर्मभोगपर्येष्टिनो मिथ्यादृष्टयो विपरीतदर्शना आर्यसप्तधनविरहिता (क्प्सू 234) अमातृज्ञा अपितृज्ञा अश्रामण्या अब्राह्मण्या अकृत्यकरा अपुण्यकरा अपरलोकभयदर्शिनो ऽनभियुक्तास्त्रिषु पुण्यक्रियावस्तुषु अनर्थिकास्त्रिभिर्यानैरनभियुक्तास्त्रिषु सुचरितेषु अभियुक्तास्त्रिषु दुश्चरितेषु अनभियुक्ता दशसु कुशलेषु कर्मपथेषु अभियुक्ता दशस्वकुशलेषु कर्मपथेषु चतुर्विपर्यासोपहताश्चतुर्विपत्तिसंस्थानाश्चतुर्मारवशगताश्चतुर्भिरोघैरुह्यमानाः पञ्चनीवरणवशगताः सत्त्वा भविष्यन्ति / षडिन्द्रियमदमत्ता अष्टमिथ्यात्वप्रतिपन्नाः कामसङ्कटप्राप्ता अनुशयसमुत्थापका अनर्थिका देवमनुष्यश्रीसंपत्तिभिर्विपरीतदृष्टिकाः कुमार्गे विहन्यमाना आनन्तर्यकारकाः सद्धर्मप्रतिक्षेपका आर्यापवादकाः सर्वकुशलमूलपरिहीणा ध्वाङ्क्षामुखरा अकृतज्ञा मुष्टस्मृतयः कुशलजुगुप्सका दुःप्रज्ञा अल्पश्रुता दुःशीलाः कुहका मत्सरिणः परस्पराभाषका अन्योन्यागौरवाः कुशीदा विकलेन्द्रिया दुर्बलाश्चीवरविरहिता अकल्याणमित्रसंगृहीता गर्भाशयस्मृतिप्रणष्टा विविधरोगपहताः क्लिष्टा दुर्वर्णा अवहोटिमका अह्रीका अनपत्राप्याः परस्परभीता (क्प्सू 235) एकपूर्वभक्तेन बहुकायवाचा मनसा दुश्चरितं समाचरन्ति ते प्रशंसितशाश्वतदृष्टिकाः सत्त्वा भविष्यन्ति /
पञ्चस्कन्धाभिनिविष्टचित्ताः पञ्चकामगुणागृद्धचित्ता दुष्टचित्ता व्यापन्नचित्ता वैरचित्ता विहिंसाचित्ताः कलुषचित्ता रुक्षचित्ताः क्षुभितचित्ता अदान्तचित्ता अहितचित्ता उद्धतचित्ता अधर्माभिनिविष्टचित्ता अनवस्थितचित्ताः परस्परसारम्भचित्ताः परस्परवधकचित्ता धर्मविवर्जितचित्ता अविपक्वचित्ता धर्मेषु सारम्भचित्ता अकुशल उत्पादितचित्ताः शान्तनिर्वाणापर्येष्टिचित्ता अदक्षिणियचित्ताः सर्वसंयोजनबन्धनसमुदाननचित्ता व्याधिजरामरणासंप्रत्ययचित्ताः सर्वसंयोजनाधिष्ठितचित्ताः सर्वनीवरणपरिग्रहचित्ता धर्मध्वजप्रपातनचित्ता दृष्टिध्वजोच्छ्रयणचित्ताः परस्परावर्णचित्ता अन्योन्यभक्षणचित्ताः परस्परपीडनैश्वर्यचित्त द्वेषसमुद्ग्रहणचित्ता अन्योन्याघातचित्ताः कामेभ्यो ऽतृप्तचित्ताः (क्प्सू 236) सर्वपरिग्रहमात्सर्यचित्ता अकृतज्ञचित्ताः परदाराक्रमणचित्ता व्यापादविहिंसनचित्ता अप्रणिधानचित्ताः सत्त्वास्तत्काले भविष्यन्ति /
इमे चात्र शब्दाः परस्परान्तिकाच्छृण्वन्ति, नरकशब्दस्तिर्यग्योनिशब्दो यमलोकशब्दो व्याधिशब्दो जराशब्दो मरणशब्दो वधकशब्दो ऽक्षणशब्दो नित्यारिशब्दो हडिनिगडबन्धनचारकशब्दो दण्डपीडनाशब्दो ऽवर्णक्रोशनपरिभाषणाशब्दः संधिच्छेदनशब्दो गणच्छेदनशब्दश्चौर्यशब्दः परचक्रशब्दो दुर्भिक्षशब्दः काममिथ्याचारशब्दो मृषावादशब्द उत्पातशब्दः पैशुन्यशब्दः परुषशब्दः संभिन्नप्रलापशब्द ईर्ष्यामात्सर्यशब्द आग्रहपरिग्रहशब्दो ऽहङ्कारममकारशब्दः प्रियाप्रियशब्द इष्टानिष्टशब्दः प्रियविप्रयोगशब्दः क्रयविक्रयशब्दो ऽन्योन्यदासविहेठनाशब्दो गर्भवासशब्दो दुर्गन्धशब्दः शीतशब्द उष्णशब्दो जिघत्सापिपासाशब्दः श्रान्तक्लान्तवेदनाशब्दः कृषिकर्मान्तशब्दो विविधकर्मशिल्पपरिखिन्नशब्दो (क्प्सू 237) विविधरोगोपहतशब्दः, इमांश्च ते सत्त्वाः परस्परस्यान्तिकाच्छृण्वन्ति / एवंरूपैः परिहीणकुशलमूलैः परिहीणकल्याणमित्रैर्दुष्टचित्तैः सत्त्वैस्तस्मिन् काले सहालोकधातुराकीर्णा भविष्यति / उज्झिताश्च ते सत्त्वा भविष्यन्ति सर्वज्ञैः शून्यैर्बुद्धक्षेत्रैर्यथान्नपानदमसंयमकुशलकर्मक्रियाकुशलसमवधाना आर्याष्टाङ्गेन मार्गेण विरहितास्तमस्तमःपरायणाः प्रगाढकर्मप्रत्ययेन ते सत्त्वास्तस्मिन् समये भद्रकल्पे विंशोत्तरवर्षशतायुष्केषु प्रत्याजायिष्यन्ति /
तेषां सत्त्वानां कर्मप्रत्ययेन सहबुद्धक्षेत्रं हीनं भविष्यति, सर्वैरवरुप्तकुशलमूलैः सत्त्वैः परिवर्जितं, सलवणा च पृथिवी भविष्यति, पाषाणशर्करपांशुशीला पर्वतोत्कूला च धरणी भविष्यति, परुषदंशमशकाशीविषचण्डमृगपक्षिभिराकीर्णा भविष्यति, विषमकालकलुषा वायवो वास्यन्ति, विषमकालविरसलवणविमिश्रा अशनिवर्षा पतिष्यन्ति; तथारूपाः पृथिव्यां शष्पौषधितृणवृक्षा पत्रपुष्पफला धान्यरसाः सत्त्वानामन्नपानभोगपरिभोगविषमाः (क्प्सू 238) कलुषपरुषरुक्षविषसंसृष्टा भविष्यन्ति / ते सत्त्वाः परिभक्त्या भूयस्या मात्रया रुक्षा दुष्टाश्चण्डा रौद्राः परुषाः कदर्याः परिभाषका अन्योन्यागौरवा भीतेन चित्तेनाघातचित्ता वधकचित्ता भविष्यन्ति, मांसभोजनरुधिराहारा मृगचर्मप्रावरणाः प्रहरणाधिष्ठानाः प्राणिवधोद्युक्ता रूपकुलवंशैश्वर्यशास्त्रलिप्यश्वारोहणधनुर्ग्रहायुधपरिवारा मात्सर्यदर्पिता भविष्यन्ति; विविधलूहतपव्रताभियुक्ता भविष्यन्ति लोकाः /
तत्कालमहं तुषितभवनादवतीर्य विशिष्टे चक्रवर्तिकुलवंशे ईश्वरे राजकुले अग्रमहिष्याः कुक्षौ वैनेयसत्त्वकुशलमूलपरिपाचनार्थं गर्भवासमुपगृह्णीयां; सर्वावन्तं तस्मिन् समये सहे बुद्धक्षेत्रे उदारेणावभासेन स्फुरेयं, ऊर्ध्वं यावदकनिष्ठभवनपर्यन्तो ऽहं हेष्ठं यावत् काञ्चनचक्रपर्यन्तमुदारेणावभासेन स्फुरेयं / ये च तस्मिन् समये सत्त्वा सहे बुद्धक्षेत्रे प्रत्याजाता नरकेषु वा तिर्यग्योनौ वा यमलोके वा देवमनुष्ये (क्प्सू 239) वा ते सर्वे तमवभासं पश्येयुः स्पृशेयुः संजानेयुः; तेषां संसारे विमृशतां दुःखोद्विग्नानां निर्वाणाभिलाषमन्तशः क्लेशशमचित्तान्युत्पादयेयुः / इदं प्रथममग्रमार्गबीजमवरोपयेयं; यदाहं सर्वधर्मनयविपश्चितं सर्वसमाधिनिर्देशमेकधर्ममुखमपरान्तकल्पनिर्देशेन समाहितचित्तो दशमासां मातुः कुक्षौ निवसेयं; यावांश्चाहं प्राप्ते बुद्धत्वे सत्त्वां परिखिन्नां संसारे परिमोचयेयं / ते सत्त्वा मातुः कुक्षिगतं दशमासां मणिगर्भसंदर्शनसमाहितचित्तं पर्यङ्केन निषण्णं पश्येयुः / निर्गते च दशमासे सर्वपुण्यसंचयेनाहं समाधिना सर्वावन्तं सहबुद्धक्षेत्रं षड्विकारं धरणीं चालयेयं, ऊर्ध्वं यावदकनिष्ठभवनपर्यन्तं हेष्टिमेन च यावत् काञ्चनचक्रपर्यन्तं षड्विकारेण चालयेयं / ये च तस्मिन् समये सहे बुद्धक्षेत्रे सत्त्वाः प्रत्याजाता नरकेषु वा यावन् मनुष्येषु वा तान् प्रबोधयेयं /
यदाहं मातुर्दक्षिणे कुक्षावभिनिष्क्रमेयं, पुनरपि च सर्वावन्तं सहं बुद्धक्षेत्रमुदारेणावभासेन अफुरेयं; (क्प्सू 240) तदापि तस्मिन् समये सर्वान् सहे बुद्धक्षेत्रे सत्त्वान् संचोदयेयं, अनवरुप्तकुशलमूलानां सत्त्वानां सन्ताने निर्वाणबीजं प्रक्षिपेयं, अवरोपितनिर्वाणबीजसन्ततीनां सत्त्वानां समाध्यङ्कुरमवरोपयेयं / यदा चाहं चरणतलेन धरणीं स्पृशेयं सर्वावती तस्मिन् समये सहे बुद्धक्षेत्रे षड्विकारं धरणीं चालयेयं प्रकंपयेयं क्षोभयेयं यावत् काञ्चनचक्रपर्यन्तेन; तदाहं तस्मिन् समये सत्त्वान् जलनिश्रितां क्षितिनिश्रितां खनिश्रितां चतुर्योनिपर्यापन्नां पञ्चगतिसंनिश्रितां तान् सर्वान् अहं प्रतिबोधयेयं, येषां सन्ताने सत्त्वानामनुत्पन्नं समाधानाङ्कुरं रोपयेयं, दृढसमाधानाङ्कुरां त्रिभिर्यानैरवैवर्तिकां स्थापयेयं / सहजातमात्रस्य च मे यावदेव तस्मिन् सहे बुद्धक्षेत्रे महाब्रह्माणो वा मारा वा शक्रा वा चन्द्रा वा सूर्या वा लोकपाला वा महानागराजा वासुरेन्द्रा वा औपपादुका वा महर्द्धिका वा यक्षराक्षसनागासुरा वा सर्वे मम पूजाकर्मणे उपसंक्रामेयुः / सहजातमात्रश्चाहं सप्तपदानि प्रक्रामेयं / सर्वपुण्यसमुच्चयेनाहं समाधिना तथारूपं धर्मं देशयेयं यत्तत्सर्वावती सा पर्षत्त्रिभिर्यानैः (क्प्सू 241) प्रसादं प्रतिलंभयेत् /
ये च तत्र पर्षदि सत्त्वाः श्रावकयानिका भवेयुस्ते चरमभविका मम वैनेया भविका; ये च तत्र सत्त्वाः प्रत्येकबुद्धयानिका भवेयुस्ते वैरोचनकुसुमां क्षान्तिं प्रतिलभेयुः; ये च तत्र सत्त्वा अनुत्तरमहायानिका भवेयुस्ते सर्वे वज्रधरसमुद्रसंकोपितं समाधिं प्रतिलभेरन्, तेन च समाधिना तिस्रा भूमीः समतिक्रामेयुः / यदहं स्नापनमिच्छेयं ये च तत्र महानागराजानो विशिष्टतरा भवेयुः ते मां स्नापयेयुः; ये च सत्त्वा मां स्नापयमानं पश्येयुस्ते सर्वे त्रिभिर्यानैरेवंरूपान् गुणानधिगच्छेयुः यथा प्रोक्तं / ये च मां सत्त्वा रथमभिरोहन्तं समनुपश्येयुर्विस्तरेण कुमारक्रीडविविधशिल्पस्थानकर्मस्थानासनानि च ददर्श शिक्षापनयोग्यं स्त्र्यगारे पञ्च कामगुणरतिक्रीडार्धरात्रावुद्विग्ननिष्क्रमणालङ्कारविभूषणच्छोरणं लोहितवस्त्राभीक्ष्णं काषायवस्त्रपर्येषणबोधिवृक्षोपसंक्रमणं, ये च सत्त्वा मामुपसंक्रामन्तं पश्येयुः, तेषां चाहं सत्त्वानां सर्वपुण्यसमुच्चयेन (क्प्सू 242) समाधिना तथारूपं धर्मं देशयेयं यथा ते सत्त्वास्त्रिभिर्यानैस्तीव्रच्छन्दा उद्युज्येयुः / ये च तत्र सत्त्वाः प्रत्येकबुद्धयानिकास्ते सर्वे वैरोचनकुसुमां क्षान्तिं प्रतिलभेयुः; यैश्च महायानबीजं प्रक्षिप्तं भवेत् ते सर्वे वज्रधरसमुद्रसंकोपितं समाधिं प्रतिलभेयुस्तेन च समाधिना तिस्रो भूमिरतिक्रामेयुः /
स्वयं चाहं तृणसंस्तरणं गृह्णीयां बोधिवृक्षमूलवज्रासने प्रज्ञपयेयं निषीदेयं पर्यङ्कमाबध्वा ऋजुकेन कायेन; तथारूपमहमास्फानकं ध्यानं ध्यायेयं, आश्वासप्रश्वासा व्युपशमेयं; एकवारं दिवसेन ध्यानाद्व्युत्तिष्ठेयं, व्युत्थाय चाहमर्धतिलकफलमाहारमाहरेयं, अर्धं प्रतिग्राहकस्यानुप्रयच्छेयं / तावच्चिरं चाहमेवंरूपां दुष्करचारिकां चरेयं, यावदकनिष्ठभवनपर्यन्तेन सर्वे देवा ये सहे बुद्धक्षेत्रे पर्यापन्नास्त उपसंक्रामेयुर्मम च पूजां कुर्वाणाः, सर्वे मे साक्षिणः स्युर्दुष्करचर्यायां / यैश्च तत्र श्रावकयाने बीजमवरुप्तं स्यात्तेषां भदन्त भगवन् क्लेशव्युपशमाय सन्ताने भवेयं, चरमभविकाश्च मम वैनेया भवेयुः; ये प्रत्येकबुद्धयानिका (क्प्सू 243) यावद्यथा पूर्वोक्तं / एवं नागयक्षासुरगरुडकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डाः पञ्चाभिज्ञा ऋषय उपसंक्रामेयुर्मम पूजाकर्मणे, सर्वे च मे साक्षिणो भवेयुर्दुष्करचर्यायां; ये च श्रावकयानिका यावद्यथा पूर्वोक्तं / ये च तत्र चातुर्द्वीपिकायामन्यतीर्थिका लूहतपो व्रतदुष्करचारिकां चरन्ति, तेषां चामानुषा आरोचयेयुः / "न यूयं दुष्करकारका, यथास्मिन् प्रदेशे चरमभविको बोधिसत्त्वो दुष्करचारिकां चरति, तथारूपं ध्यायति हृदये मनस्कारं बध्नाति प्रश्रब्धकायसंस्कारः प्रश्रब्धवाक्संस्कारः प्रशान्ताश्चास्य प्रश्वासाश्वासाः; दिनेदिने चैकां वेलां ध्यानाद्व्युत्थित्वार्धतिलकफलमाहारमाहरति / सा दुष्करचर्या महर्द्धिका सा महाफला महाविस्तारा, न चिरेणासौ अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते / सचेन्न श्रद्धध्वं गच्छत स्वयं पश्यत" /
ते च तां दुष्करचर्यामुत्सृज्य मम दुष्करचर्यां दृष्ट्वा येषां श्रावकयानसन्तानबीजाङ्कुरं प्रतिष्ठितं स्यात्, यावद् यथा पूर्वोक्तं / ये मनुष्यराजा (क्प्सू 244) वा भट्टा वा नैगमजानपदा गृहस्थप्रव्रजिता गृहागारसंपन्नास्ते ऽपि मम दुष्करचर्यामुपसंक्रामेयुर्यावच्छ्रावकयानिका यथा पूर्वोक्तं / यश्च मातृग्रामो मम दर्शनयोपसंक्रमेत्, स तस्य पश्चिमको मातृग्रामप्रतिलाभो भवेद् इति, ये श्रावकयानिका यथा पूर्वोक्तं / ये मृगपक्षिणो दुष्करं चरमाणं निषण्णं पश्येयुस्स तेषां पश्चिमकस्तिर्यग्योनिप्रतिलाभो भवेद् इति; यैश्च मृगपक्षिभिः श्रावकयाने बीजान्यवरोपितानि तेनैकजातिप्रतिबद्धा मम चैव वैनेया भवेयुर्ये प्रत्येकबुद्धयाना यावद् यथा पूर्वोक्तं / एवंविधाः क्षुद्रकास्तिर्यग्योनिका वक्तव्या, एवं प्रेता वक्तव्यास्तावच्चिरं चाहमेवंरूपां दुष्करचर्यां चरेयं एकपर्यङ्केन यावद् बहुसत्त्वकोटीनयुतशतसहस्राणि दुष्करचर्यायां साक्षिभूता भवेयुः आश्चर्यप्राप्ताश्च, तेषां च सन्ताने ऽप्रमेयासंख्येयानां मोक्षबीजां प्ररोपयेयं / तथारूपामहं दुष्करचर्यां चरेयं यथा न पूर्वं केनचित् सत्त्वसंख्यातेन अन्यतीर्थिकेन वा श्रावकयानिकेन वा प्रत्येकबुद्धयानिकेन वा अनुत्तरमहायानिकेन वा एवं दुष्करचर्याचीर्णपूर्वः स्यात्; न च पुनः पश्चात् कश्चित् सत्त्वसंख्यातश्चरेत् अन्यतीर्थिका वा एवंरूपां दुष्करचारिकां (क्प्सू 245) शक्तांश्चरन्तु यथाहं चरेयं / अप्राप्तायामनुत्तरायां सम्यक्संबोधौ तदाहं पुरुषकारं कुर्यां सबलकायं मारं पराजयेयं, सावशेषकर्मफलं चाधिष्ठिहेयं, क्लेशमारं जिनेयं, अनुत्तरां च सम्यक्संबोधिमभिसंबुध्येयं /
तदहमेकसत्त्वस्य सन्ताने ऽर्हत्वं प्रतिष्ठापयेयं, तथा द्वितीयस्य तथा तृतीयस्य तथा चतुर्थस्य धर्मं देशयेयं, सन्ताने चार्हत्वं प्रतिष्ठापयेयं / एकैकस्य सत्त्वस्यार्थमहं शतसहस्रशः प्रातिहार्याणि दर्शयेयं, तस्य च सन्ताने सम्यग्दृष्टिं प्रतिष्ठापयेयं, बहुनि च धर्मार्थव्यञ्जनसहस्राणि भाषयेयं, यथा शक्त्या च फले प्रतिष्ठापयेयं / वज्रमयांश्च सत्त्वानां सन्ताने क्लेशपर्वतां ज्ञानवज्रेण भिन्द्यां त्रियानेन व्यवस्थानेन धर्मं देशयेयं / एकसत्त्वस्यार्थायाहं बहुयोजनशतानि पद्भ्यां गच्छेयं धर्मदेशनार्थमभयपदे प्रतिष्ठापनार्थं / अप्रतिषेधश्च मे शासने भवेत् प्रव्रज्यायाः, दुर्बलस्य मुष्टस्मृतेः विभ्रान्तचित्तस्य मुखरप्रगल्भचित्तस्य प्रदुष्टचित्तस्य दुःप्रज्ञचित्तस्य बहुक्लेशाकुलचित्तस्य मातृग्रामस्य मम शासने प्रव्रज्योपसंपद्भवेत् / (क्प्सू 246) चतस्रश्च मे पर्षाः स्युर्भिक्षुभिक्षुण्युपासकोपसिकाः / बहुजनप्रभूतं मे शासनं भवेत् देवानां सत्यदर्शनं यक्षाणां नागानामसुराणामार्याष्टाङ्गसमन्वागत उपोषधवासः, यावत्तिर्यग्योनिगतानामपि ब्रह्मचर्यावासो भवेत् /
बोधिप्राप्तस्य च मे भदन्त भगवन् ये सत्त्वा मम प्रदुष्टचित्ता वधकचित्ताः शस्त्रेण वाग्निना वा शक्त्या व विविधेन वा प्रहरणेनोपसंक्रामेयुः, रुक्षैः परुषैर्वचनैराक्रोशेयुः परिभाषेयुर्दिग्विदिक्षु वायशःशब्दं चारेयुः, विषसंसृष्टं वाहारपानमुपनामयेयुः; एवंरूपां कर्मफलानपरिक्षीणानधिष्ठिहित्वानुत्तरां सम्यक्संबोधिमभिसंबुध्येयं / यथा बोधिप्राप्तस्य मे सत्त्वाः पूर्वं वैरेण वधकोपकरणप्रयोगेन परुषवचनविविधप्रहरणविषान्नपानसंसृष्टेनोपसंक्रामेयुः रुधिरं च मे उत्पादयेयुः, तेषां सत्त्वानामहं शीलश्रुतसमाधिमहाकरुणाभावितेन ब्रह्मस्वरघोषदुन्दुभिनर्दितेन स्वरेण तथारूपं धर्मं देशयेयं, यत्तेषां चित्तानि प्रसादयेयं कुशले च नियोजयेयं; यथा ते सत्त्वाः कर्मावरणं देशयेयुः, आपत्यां संवरमापद्येयुः, (क्प्सू 247) न च तेषां सत्त्वानां स्वर्गे मोक्षफले वैराग्ये आश्रवक्षये वा आवरणकर्म भवेद् इति, मम चात्रापरिक्षीणकर्मफलक्षीणव्यन्तीकृतं भवेत् /
बोधिप्राप्तस्य च मे भदन्त भगवन् यावन्तो मम रोमकूपा भवेयुस्तावन्तो दिवसं बुद्धविग्रहान्निर्मिणुयां द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृतानशीतिभिरनुव्यञ्जनैस्तांश्चाहं बुद्धविग्रहान् शून्येषु बुद्धक्षेत्रेषु प्रेषयेयं, अशून्येषु च प्रेषयेयं, पञ्चकषायेषु बुद्धक्षेत्रेषु प्रेषयेयं / ये चापि तेषु बुद्धक्षेत्रेष्वानन्तर्यकारकाः सत्त्वा भवेयुः सद्धर्मप्रतिक्षेपकाः आर्यापवादका यावदकुशलमूलसमवधानकाः, ये ऽपि तत्र सत्त्वाः श्रावकयानसंप्रस्थिताः प्रत्येकबुद्धयानसंप्रस्थिता महायानसंप्रस्थिताः शिक्षायां कल्माषकारिणः छिद्रचारिणः मूलापत्तिमापन्नाः दग्धसन्तानाः शुभमार्गप्रणष्टाः संसाराटवीसंप्रस्थिताः कुमार्गविहन्यमाना महासङ्कटप्राप्ताः, तथारूपाः सत्त्वाः सत्त्वकोटीनयुतशतसहस्रादेको बुद्धविग्रह एकदिवसे (क्प्सू 248) सत्त्वानां धर्मं देशयेत् / ये सत्त्वा महेश्वरभक्तिकास्तेषां सत्त्वानां महेश्वररूपेण धर्मं देशयेयं / सहे च बुद्धक्षेत्रे मम वर्णं भाषयेयुस्तत्र च सत्त्वानां प्रणिधानमुद्योजयेयं / ते च सत्त्वा मम वर्णं श्रुत्वा ममैव बुद्धक्षेत्रे प्रणिधानं कुर्वीरन्, उपपत्तिं चाकाङ्क्षेयुः / याद्यहं भदन्त भगवन् तेषां सत्त्वानां मरणकालसमये पुरतः न तिष्ठेयं धर्मं न देशयेयं चित्तं न संप्रसादयेयं, मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं / यदि मे सत्त्वाः कालं कृत्वा दुर्गतीषूपपद्येयुर्न च मम बुद्धक्षेत्रे मनुष्यप्रतिलाभं लभेयुः, सर्वे मम धर्मा संमोषं गच्छेयुर्मा च मे प्रतिभायेयुर्मा चाहं शक्यं सकलं बुद्धकार्यं निष्पादयितुं / ये सत्त्वा नारायणभक्तिका यावत्ते सत्त्वाः कालं कृत्वा दुर्गतिं प्रपतेयुस्तन्मा चाहं शक्यं सकलं बुद्धकार्यं निष्पादयितुं /
बोधिप्राप्तस्य च मे सर्वबुद्धक्षेत्रेषु सत्त्वा आनन्तर्यकारका यावत् कुमार्गे विहन्यमाना महासङ्कटप्राप्ताः सत्त्वाः कालं कृत्वा मम बुद्धक्षेत्र उपपद्येरन्, इदं तेषां निमित्तं पांशुवर्णास्ते सत्त्वा भविष्यन्ति, (क्प्सू 249) पिशाचमुखी मुष्टस्मृतयो दुर्गन्धा दुःशीला अल्पायुष्का विविधरोगोपहता विविधपरिष्कारपरिहीणाश्च ते सत्त्वा भविष्यन्ति; तेषाम् सत्त्वानामर्थे ऽहं यावत्तस्मिन् समये सहे लोकधातौ चातुर्द्वीपिका भवेयुः, सर्वत्र च चातुर्द्वीपिकायां संतुषितभवनावतरणं मातुर्गर्भे चाहं जातुमुपदर्शयेयं, विस्तरेण कुमारक्रीडाशिल्पकर्मस्थानदुष्करचर्यामारधर्षणबोध्यभिसंबुध्यनधर्मचक्रप्रवर्तनं, सर्वत्र च चातुर्द्वीपिकासु सकलं बुद्धकार्यमुपदर्शयेयं, परिनिर्वाणं यावच्छरीरविभागमुपदर्शयेयं /
बोधिप्राप्तश्चाहं एकपदव्याहरेण धर्मं देशयेयं / ये सत्त्वाः श्रावकयानिकास्ते श्रावकयानकथापिटकं धर्मं देशितमाजानीयुः; ये सत्त्वाः प्रत्येकबुद्धवैनेयास्ते प्रत्येकबुद्धयानकथाधर्मं देशितमाजानीयुर्ये सत्त्वा अनुत्तरमहायानिकास्ते ऽनुत्तरमहायानकथाधर्मं देशितमाजानीयुः / ये सत्त्वाः संभारविरहितास्ते दानकथाधर्मं देशितमाजानीयुर्ये सत्त्वाः पुण्यविरहिताः सुखस्वर्गाभिलाषिनास्ते शीलकथाधर्मं देशितमाजानीयुः; ये परस्परभीतकलुषचित्ताः प्रदुष्टचित्तास्ते (क्प्सू 250) मैत्र्याव्याहारकथाधर्मं देशितमाजानीयुः; प्राणातिपातिकाः करुणाधर्मं देशितमाजानीयुः; य ईर्ष्यामात्सर्याभिभूतास्ते मुदिताव्याहारकथाधर्मं देशितमाजानीयुः; ये रूपारूप्यमदमत्तचित्तास्ते उपेक्षाव्याहारकथाधर्मं देशितमाजानीयुः /
ये कामरागमदमत्तचित्ता अशुभव्याहारेण धर्मं देशितमाजानीयुः; ये च सत्त्वा महायानिकौद्धत्यव्याकुलचित्तोपगतास्ते आनापानस्मृतिव्याहारेण धर्मं देशितमाजानीयुः; ये दुःप्रज्ञा वा प्रदीपप्रतीत्यसमुत्पादव्याहारेण धर्मं देशितमाजानीयुः; ये ऽल्पश्रुतवादिनस्ते ऽसंप्रमोषश्रुतधारणीविप्रणाशव्याहारेण धर्मं देशितमाजानीयुः; कुदृष्टिसङ्कटप्राप्ताः शून्यताव्याहारेण धर्मं देशितमाजानीयुः; वितर्कसमुदाचारोपहता अनिमित्तव्याहारेण धर्मं देशितामाजानीयुरप्रणिहितापरिशुद्धोपहता अप्रणिहितव्याहारेण धर्मं देशितमाजानीयुः; आशयापरिशूद्धाः परिशुद्धाशयव्याहारेण धर्मं देशितमाजानीयुः; व्यवकीर्णसमुदाचारोपहता बोधिचित्तासंप्रमोषव्याहारेण धर्मं देशितमाजानीयुः; क्षमप्रयोगोष्मोपहता (क्प्सू 251) अकृत्रिमव्याहारेण धर्मं देशितमाजानीयुः; अध्याशयप्रश्रब्धोपहता अनिश्रितव्याहारेण धर्मं देशितमाजानीयुः; क्लिष्टचित्ताः पेयालं कल्पचित्तव्याहारेण; कुशलसंप्रमोषचित्ता वैरोचनव्याहारेण; मारकर्मोद्युक्ताः शून्यताव्याहारेण; परवधे संप्रतिपन्ना अभ्युद्गतव्याहारेण; विविधक्लेशोपहतचित्ता विगतव्याहारेण; विषममार्गसंप्रतिपन्ना आवर्तव्याहारेण; महायानकौतुहलचित्ता विवर्तव्याहारेण; संसारोद्विग्नानां बोधिसत्त्वानां रतिव्याहारेण; कुशलभूमिज्ञानवगता अमूढव्याहारेण; परस्परासंतुष्टकुशलमूलानां श्रुतव्याहारेण; परस्परासमचित्तानामप्रतिहतरश्मिव्याहारेण; विषमकर्मसंप्रतिपन्नानां क्रियावतारणव्याहारेण; पर्षद्भयोपगतानां सिंहकेतुव्याहारेण; चतुर्माराभिभूतचित्तानां (क्प्सू 252) शूरव्याहारेण; बुद्धक्षेत्रानवभासगतानां सत्त्वानां प्रभाव्यूहव्याहारेण;
अनुनयप्रतिघानां शैलोच्चयव्याहारेण; बुद्धधर्मालोकनाभिभूतानां ध्वजाग्रकेयूरव्याहारेण; महाप्रज्ञाविरहितानामुल्कापातव्याहारेण; मोहान्धकारगतानां भास्करप्रदीपव्याहारेण; क्षयानिरुक्तिप्रयुक्तानां गुणाकरव्याहारेण; फेनपिण्डोपमात्माभिकाङ्क्षिणां नारायणव्याहारेण; चलाचलबुद्धीनां सारानुगतव्याहारेण; अवलोकितमूर्धानां मेरुध्वजव्याहारेण; पूर्वप्रतिज्ञोत्सृष्टानां सारवतिव्याहारेण; च्युताभिज्ञानां वज्रपदव्याहारेण; बोधिमण्डाभिकाङ्क्षिणां वज्रमण्डव्याहारेण; सर्वधर्मजुगुप्सितानां वज्रोपमव्याहारेण; सत्त्वचरितमप्रजानतां चारित्रवतिव्याहारेण; इन्द्रियपरापरानभिज्ञानां प्रज्ञाप्रदीपव्याहारेण; परस्पररुतमप्रजानतां (क्प्सू 253) रुतप्रवेशव्याहारेण; धर्मकायमप्रतिलब्धानां सद्धर्मकायविभावनव्याहारेण; तथागतदर्शनविरहितानामनिमिषव्याहारेण; सर्वालंबनविगोपितानामरण्यव्याहारेण; धर्मचक्रप्रवर्तनाभिकाङ्क्षिणां चक्रविमलव्याहारेण; अहेतुविद्यासंप्रस्थितानां विद्याप्रतीत्यानुलोमव्याहारेण; एकबुद्धक्षेत्रशाश्वतदृष्टीनां सुकृतविचयव्याहारेण; लक्षणानुव्यञ्जनानवरुप्तबीजानामलङ्कारवतिव्याहारेण; वाचारुतप्रभेदासमर्थानां निर्हारवतिव्याहारेण; सर्वज्ञज्ञानाभिकाङ्क्षिणां धर्मधात्वविकोपनव्याहारेण; प्रत्युत्पन्नावर्तनधर्माणां दृढव्याहारेण; धर्मधातुमप्रजानतां अभिज्ञाव्याहारेण; प्रज्ञोत्सृष्टानामच्युतव्याहारेण; मार्गविगोपितानामविकारव्याहारेण; आकाशसमज्ञानाभिकाङ्क्षिणां निष्किञ्चनव्याहारेण; (क्प्सू 254) पारमितापरिपूर्णानां परिशुद्धप्रतिष्ठाव्याहारेण; अपरिपूर्णासंग्रहवस्तूनां सुसंगृहीतव्याहारेण; ब्रह्मविहारविमार्गितानां
समप्रयोगव्याहारेण; बोधिपक्षरत्नापरिपूर्णानामव्यवस्थितनिर्याणव्याहारेण; सुभाषितज्ञानां प्रमुष्टचित्तानां सागरमुद्रव्याहारेण; अनुत्पत्तिकधर्मक्षान्तिकौतूहलचित्तानां निश्चितव्याहारेण; यथाश्रुतधर्मप्रमुष्टचित्तानामसंप्रमोषव्याहारेण; परस्परसुभाषितासंतुष्टानां वितिमिरव्याहारेण; त्रिरत्नाप्रतिलब्धप्रसादानां पुण्योत्सदव्याहारेण; धर्ममुखप्रवर्षणासंतुष्टानां धर्ममेघव्याहारेण; त्रिरत्नोच्छेददृष्टीनां रत्नव्यूहव्याहारेण; ज्ञानार्दितकर्माभियुक्तानामनुपमव्याहारेण; सर्वसंयोजनबन्धनगतानां (क्प्सू 255) गगनमुखव्याहारेण; सर्वधर्मानन्यचित्तानां ज्ञानमुद्रव्याहारेण; तथागतगुणापरिपूर्णानां लोकविद्यासंमुखीभावव्याहारेण; पूर्वबुद्धासुकृताधिकारिणां विनिश्चितप्रातिहार्यव्याहारेण; एकधर्ममुखापरान्तककल्पानिर्दिष्टानां सर्वधर्मनयव्याहारेण; सर्वसुत्रान्ताविनिश्चितानां धर्मस्वभावसमताविनिश्चितव्याहारेण; षट्पारायणीयधर्मपरिवर्जितानां सर्वधर्मनयव्याहारेण; विमोक्षचित्ताशयानभियुक्तानां विक्रिडिताभिज्ञाव्याहारेण; तथागतगुह्यानुप्रवेशविमर्शितानां अपरप्रणेयव्याहारेण; बोधिसत्त्वचर्यानभियुक्तानां ज्ञानागमव्याहारेण; ज्ञातिकामसंदर्शिकानां सर्वत्रानुगतव्याहारेण; सावशेषबोधिसत्त्वचारिकानामभिषेकव्याहारेण; दशतथागतबलापरिपूर्णानामनवमर्दव्याहारेण; (क्प्सू 256) चतुर्वैशारद्याप्रतिलब्धानामपर्यादीनवव्याहारेण; आवेणिकबुद्धधर्माप्रतिलब्धानामसंहार्यव्याहारेण; अमोघश्रवणदर्शनानां प्रणिधानव्याहारेण; सर्वबुद्धधर्मसंमुखानुबोधाय श्रोताविलानां विमलसमुद्रव्याहारेण; सावशेषसर्वज्ञज्ञानानां सुविबुद्धव्याहारेण;
अप्राप्तसर्वतथागतकार्याभिप्रायानामपर्यन्तनिष्ठाव्याहारेण धर्मं देशितमाजानीयुरिति /
ये बोधिसत्त्वा अशठा अमायाविनो ऋजुका ऋजुक जातीयाश्च तेषां चतुरशीतिधर्ममुखसहस्राणि चतुरशीतिसमाधिमुखसहस्राणि पञ्चसप्ततिधारणीमुखसहस्राणि अप्रमेयासंख्येयानां महायानसंप्रस्थितानां एकपदव्याहारेण इमे गुणाः सन्ताने प्रतिष्ठापयेयं; (क्प्सू 257) येन बोधिसत्त्वा महासत्त्वा महासंनाहसंनद्धा भवेयुः; अचिन्त्यप्रणिधानविशेषाभ्युद्गता भवेयुरचिन्त्यज्ञानदर्शनबोधिसद्गुणालङ्कृता भवेयुः, तद्यथा कायालङ्कृता लक्षणानुव्यञ्जनैः, वागलङ्कृता भवेयुर्यथाभिप्रायाः, सत्त्वाः सुभाषितेन संतोषयेयुः, श्रुतालङ्कृताः समाध्यवचनतया, स्मृत्यालङ्कृता धारण्यसंप्रमोषतया, मनो ऽलङ्कृता निर्वृत्यालङ्कृताः कुगत्यवबुध्यनतया, आशयालङ्कृता दृढप्रतिज्ञातया, प्रयोगालङ्कृताः प्रतिज्ञोत्तारणतया, अध्याशयालङ्कृता भूम्या भूमिसंक्रमणतया, दानालङ्कृताः सर्ववस्तुपरित्यागतया, शीलालङ्कृताः सुश्रुतावितविमलतया, क्षान्त्यलङ्कृताः सर्वसत्त्वाप्रतिहतचित्ततया, वीर्यालङ्कृताः सर्वसंभारोपचिततया, ध्यानालङ्कृताः सर्वसमापत्तिविक्रीडिताभिज्ञा भवेयुः, प्रज्ञालङ्कृताः (क्प्सू 258) क्लेशवासनपरिज्ञाविनो, मैत्र्यालङ्कृताः सर्वसत्त्वस्य त्रायानुगताः, करुणालङ्कृताः सर्वसत्त्वापरित्यागस्थिता, मुदितालङ्कृताः सर्वधर्माकथंकथाप्राप्ता, उपेक्षालङ्कृता उन्नामावनामद्वयविगताः, अभिज्ञालङ्कृताः सर्वविक्रीडिताभिज्ञाः, पुण्यालङ्कृता अक्षयभोगरत्नपाणिताप्रतिलब्धा, ज्ञानालङ्कृताः सर्वसत्त्वचित्तचरिताभिज्ञा, बुद्ध्यालङ्कृताः सर्वसत्त्वकौशल्यधर्मविबोधयितारः, आलोकालङ्कृताः प्रज्ञाचक्षुरालोकं प्रतिलभेयुः, प्रतिसंविदलङ्कृता
अर्थधर्मनिरुक्तिप्रतिभानप्रतिसंवित्प्रतिलब्धा भवेयुर्वैशारद्यालङ्कृताः सर्वमारपरप्रवादिनभिभूता, गुणालङ्कृता बुद्धानां गुणानुप्राप्ता, धर्मालङ्कृताः सततसमितमसङ्गप्रतिभानेन सत्त्वानां धर्मं देशयेयुः, आलोकालङ्कृताः सर्वबुद्धधर्मावभासगताः, प्रभालङ्कृताः सर्वबुद्धक्षेत्रावभासगता, आदर्शनप्रातिहार्यालङ्कृता अक्षुणव्याकरणा, (क्प्सू 259) अनुशासनीप्रातिहार्यालङ्कृता यथावदनुशासनीप्रदायका, ऋद्धिप्रातिहार्यालङ्कृताश्चतुरृद्धिपादपरमपारमिताप्राप्ताः, सर्वतथागताधिष्ठानालङ्कृतास्तथागतगुह्यानुप्रविष्टा, धर्मैश्वर्यालङ्कृता अपराधीनज्ञानप्रतिलब्धाः, सर्वकुशलधर्मप्रतिपत्तिसारालङ्कृता यथावादितथाकारिसर्वतो ऽनवमर्दिता भवेयुरिति /
अप्रमाणासंख्येयानां महायानसंप्रस्थितानां सत्त्वानामेकपदव्याहारेणाहं महता कुशलविशोधनसंनिचयेन संतर्पयेयं / ततस्ते बोधिसत्त्वा महासत्त्वाः सर्वधर्मेष्वपरप्रत्ययज्ञानं प्रतिलभेयुः, महता च धर्मावभासेन समन्वागता भवेयुः, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्येयुरिति /
ये ऽपि ते भदन्त भगवन् सत्त्वा भवेयुरन्येषु लोकधातुष्वानन्तर्यकारका यावन्मूलापत्तिसापराधिका दग्धसन्तानाः श्रावकयानिका वा प्रत्येकबुद्धयानिका वा अनुत्तरमहायानिका वा प्रणिधानवशेन मम बुद्धक्षेत्रे प्रत्याजायेयुः / अकुशलमूलसमवधाना रुक्षाः पापेच्छाः (क्प्सू 260) क्रूरखटुङ्कसन्ताना विपरीतबुद्धय आगृहीतसन्तानाः तेषां चाहं चतुरशीतिश्चित्तरुतसहस्रां देशयेयुः, यावत् कुशीदचित्तानां सत्त्वानामहं चतुरशीतिधर्मस्कन्धसहस्राणि विस्तरेण देशयेयं / ये च तत्र सत्त्वा अनुत्तरमहायानिका भवेयुः तेषां चाहं विस्तरेण षट्पारमिताधर्मं देशयेयं, दानपारमितां विस्तरेण देशयेयं यावत्प्रज्ञापारमितां विस्तरेण देशयेयं / ये च पुनस्तत्र सत्त्वाः श्रावकयानिका वा प्रत्येकबुद्धयानिका वा भवेयुः, अनवरुप्तकुशलमूला भवेयुः, शास्ताराभिकाङ्क्षिणः, तांश्चाहं त्रिशरणगमनेन व्यवस्थापयेयं, पश्चात् पारमितासु नियोजयेयं; विहिंसारतानां प्रानातिपातवैरमण्यां व्यवस्थापयेयं; विषमलोभाभिभूतानामदत्तादानवैरमण्यां व्यवस्थापयेयं; अधर्मरागरक्तां काममिथ्याचारवैरमण्यां व्यवस्थापयेयं; परस्परपरुषवचनभाषिणो मृषावादवैरमण्यां (क्प्सू 261) व्यवस्थापयेयं; उन्मत्ताभिरतान् सुरामैरेयमद्यप्रमादवैरमण्यां व्यवस्थापयेयं / येषां च सत्त्वानां सर्वपञ्चदोषा भवेयुस्तां पञ्चदोषवैरमण्योपासकसंवरे व्यवस्थापयेयं / ये सत्त्वा अनभिरताः कुशलेषु धर्मेषु तांश्चाहं रात्रिंदिवसमष्टाङ्गे शीले प्रतिष्ठापयेयं /
ये सत्त्वाः परीत्तकुशलमूलाभिरतचित्तास्तांश्चाप्यहं स्वाख्याते धर्मविनये उपश्लेषयेयं, प्रव्रज्यासंवरे दशशिक्षापदे ब्रह्मचर्ये स्थापयेयं / ये सत्त्वाः कुशलान् धर्मान् पर्येष्टुकामास्तानप्यहं कुशलेषु धर्मेषु समादाप्य सकले ब्रह्मचर्यवासे प्रतिष्ठापयेयं / एवंरूपानामानन्तर्यकारकानां यावद् आगृहीतसन्तानानां सत्त्वानामर्थे चाहं बहुविविधनानार्थपदव्यञ्जनप्रातिहार्यैर्धर्मं देशयेयं, अनित्यदुःखानात्मशून्यस्कन्धधात्वायतनानि दर्शयेयं, कुशले क्षेमे शिवे शान्ते ऽभयपुरे निर्वाणे प्रतिष्ठापयेयं / एवमहं चतुर्णां पर्षदां भिक्षुभिक्षुण्युपासकोपासिकानां धर्मं देशयेयं; ये च वादार्थिनो भवेयुस्तेषां अहं धर्मवादशास्त्रं प्रकाशयेयं; ये च नाभिरताः कुशलेषु धर्मेषु तेषां चाहं (क्प्सू 262) वैयावृत्यकर्माणि निर्दिशेयम्, स्वाध्यायाभिरतानामेकांशेन शून्यतां ध्यानविमुक्तिगामिनां निर्देशयेयं / एकैकस्य सत्त्वस्यार्थायाहं बहुयोजनशतसहस्राणि प्रद्भ्यां गच्छेयं, बहुविविधनानाप्रकारार्थपदव्यञ्जनोपायप्रातिहार्यैरखेदमुत्सहेयं, यावन्निर्वाणे स्थापयेयं; यावत् समाधानबलेनाहं पञ्चमभागमायुःसंस्काराणामवसृजेयं, परिनिर्वाणकालसमये चाहं स्वयमेव स्वशरीरसर्षपफलप्रमाणमात्रं भिन्देयं, सत्त्वानां कारुण्यार्थे चाहं पश्चात् परिनिर्वापयेयं; परिनिर्वृतस्य च मे वर्षसहस्रं सद्धर्मस्तिष्ठेत्, पञ्चपुनर्वर्षशतानि सद्धर्मप्रतिरूपकस्तिष्ठेत् /
ये च सत्त्वा मम परिनिर्वृतस्य शरीरेषु पूजौत्सुक्यमापद्येयू रत्नैर्यावद्वाद्यैरन्तश एकबुद्धनामैकवन्दना एकप्रदक्षिनीकरणेन एकाञ्जलिकर्मणा एकपुष्पेण पूजां कुर्वीरन्, सर्वे ते ऽवैवर्तिका भवेयुर्यथाभिप्रायास्त्रिभिर्यानैः / ये च सत्त्वा मम परिनिर्वृतस्य शासने ऽन्तश एकशिक्षापदमपि गृह्णीयुर्यथोक्तं समादाय वर्तेयुर्यावच्चतुष्पदगाथां पर्यवाप्नुयुर्वाचयेयुः, परेषां च देशयेयुः, ये ऽपि शृणुयुश्चित्तं (क्प्सू 263) वा प्रसादयेयुर्धर्मभाणकस्य वा पूजां कुर्युरन्तश एकपुष्पेणापि एकवन्दनेनापि, सर्वे ते ऽवैवर्तिका भवेयुस्त्रिभिर्यानैर्यथाभिप्राया; यावत् सद्धर्मे ऽन्तर्हिते सद्धर्मोल्कायां निर्वापितायां धर्मध्वजे पतिते ते च मम जन्मशरीरमवतरेयुर्यावत् काञ्चनचक्रे तिष्ठेयुर्यस्मिन् काले सहे बुद्धक्षेत्रे रत्नदुर्भिक्षं भवेत् तस्मिन् समये केतुमतिर्नाम मणिवैडुर्यमयं अग्निनिर्भासं तिष्ठेत् / तच्च ततो ऽभ्युद्गम्योर्द्ध्वं यावदकनिष्ठभवने स्थित्वा विविधां पुष्पवृष्टिं प्रवर्षेत्, मान्दारवमहामान्दारवपारिजातकमञ्जुषकमहामञ्जुषकरोचमहारोचमानपूर्णाचन्द्रविमलाशतपत्रसहस्रपत्रशतसहस्रपत्रसमन्तप्रभासमन्तगन्धासुरुचिरसदाफलाहृदयनयनाभिरम्याज्योतिप्रभाज्योतिरसानन्तवर्णानन्तगन्धानन्तप्रभानां (क्प्सू 264) एवंरूपानां पुष्पवर्षं अभिप्रवर्षेत् /
ततश्च पुष्पवर्षाद्विविधा शब्दा निश्चरेयुस्तद्यथा बुद्धशब्दो धर्मशब्दः सङ्घशब्द उपासकसंवरशब्द आर्याष्टाङ्गसमन्वागतोपोषधोपवासशब्दो दशप्रव्रज्याशिक्षापदसंवरशब्दो दानशब्दः शीलशब्दः सकलब्रह्मचर्यपरिपूर्णोपसंपदाशब्दो वैयावृत्तिशब्दो ऽध्ययनशब्दः प्रतिसंलयनशब्दः योनिशोमनसिकारशब्दो ऽशुभशब्दो आनापानस्मृतिशब्दो नैवसंज्ञानासंज्ञायतनशब्द आकिञ्चन्यायतनशब्दो विज्ञानानन्त्यायतनशब्द आकाशानन्त्यायतनशब्दो ऽभिभवायतनशब्दः कृत्स्नायतनशब्दः शमथविपश्यनाशब्दः शून्यताप्रणिहितशब्दो ऽनिमित्तशब्दः प्रतीत्यसमुत्पादशब्दः सकलश्रावकपिटकशब्दश्च निश्चरेत्, सकलप्रत्येकबुद्धयानपिटकशब्दो निश्चरेत्, सकलमहायानकथाषट्पारमिताशब्दः ते पुष्पा अवकिरेयुः / सर्वे च रूपावचरा देवाः शृणुयुः (क्प्सू 265) स्वकस्वकानि पूर्वकृतानि कुशलमूलान्यनुस्मरेयुः, सर्वकुशलेषु धर्मेषु महासत्त्वा अजुगुप्सनीयास्ते ततो ऽवतरेयुः सर्वे सहे लोकधातौ मनुष्यां दशकुशलेषु कर्मपथेषु नियोजयेयुः प्रतिष्ठापयेयुः / एवमेव सर्वे कामावचरा देवाः शृणुयुस्तेषां च तृष्णासंयोजनरतिक्रीडासौमनस्याभिरतांश्चित्तचैतसिकां सर्वान् प्रश्रम्भयेयुः, ते सर्वे स्वकानि पूर्वकृतानि कुशलमूलान्यनुस्मरेयुः, ते च देवलोकादवतीर्य सर्वे सहे लोकधातौ मनुष्यां दशकुशलेषु कर्मपथेषु समादापयेयुः प्रतिष्ठापयेयुः / ते च पुष्पा आकाशे विविधा रत्नाः प्रादुर्भवेयुः, तद्यथा भदन्त भगवन् रूप्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतजातरूपाश्मगर्भदक्षिणावर्ताः, सर्वे सहे बुद्धक्षेत्रे एवंरूपां रत्नवृष्टिं अभिप्रवर्षेयुः /
सर्वे च सहे बुद्धक्षेत्रे कलिकलहविवाददुर्भिक्षरोगपरचक्रपरुषवाग्रुक्षविषं सर्वेण सर्वं प्रशमेयुः, क्षेमारोग्या अकलहाबन्धनविग्रहाः सुभिक्षाः सर्वे सहे बुद्धक्षेत्रे संस्थिहेयुः / (क्प्सू 266) यानि च सत्त्वानि तानि रत्नानि पश्येयुः स्पृश्येयुः उपभोगकर्म वा कुर्वीरन् ते सर्वे त्रिभिर्यानैरवैवर्त्या भवेयुस्ते च पुनरधो यावत् काञ्चनचक्रे स्थिहेयुरेवमेव भदन्त भगवन् शस्त्रान्तरकल्पकाले समये पुनस्त इन्द्रनीलमणिरत्नाः संस्थिहेयुरूर्ध्वं यावदकनिष्ठभवनपर्यन्ते, स्थित्वा विविधां पुष्पवृष्टिमभिप्रवर्षेयुः, तद्यथा मान्दारवमहामान्दारवपारियात्रा यावदेवानन्तप्रभास्तस्माच्च पुष्पवर्षाद्विविधा मनोज्ञाः शब्दा निश्चरेयुस्तद्यथा बुद्धशब्दो धर्मशब्दः सङ्घशब्दो यावत्पूर्वोक्तं / ते पुनः शरीरा अधो यावत् काञ्चनचक्रे स्थिहेयुः / एवं तस्मिं समये दुर्भिक्षान्तरकल्पकाले पुनस्ते शरीरा ऊर्ध्वमुद्गच्छेयुर्यावदकनिष्ठभवनपर्यन्तं पुष्पवृष्टिर्यावत् पूर्वोक्तं / यावद् रोगान्तरकल्पं यथा पूर्वोक्तं / यथा भद्रके महाकल्पे मम परिनिर्वृतस्य शरीरास्तृकार्यं कुर्युः, गणनातिक्रान्तान्वैनेयां त्रिभिर्यानैरवैवर्तिकान् स्थापयेयं /
एवं पञ्चबुद्धक्षेत्रपरमाणुरजःसमैर्महाकल्पे वर्तमानैर्मम शरीराः सत्त्वान् विनेयुस्त्रिभिर्यानैरवैवर्तिकां स्थापयेयुः; यदा (क्प्सू 267) पश्चात् सहस्रगङ्गानदीवालिकासमैरसंख्येयैरतिक्रान्तैर्दशसु दिक्ष्वप्रमेयैरसंख्येयैरन्योन्येभ्यो लोकधातुभ्यस्ते बुद्धा भगवन्त उत्पद्येयुर्ये मया बोधिसत्त्वभूतेनानुत्तरायां सम्यक्संबोधौ चर्यां चरता प्रथममनुत्तरायां सम्यक्संबोधौ समादापिताः स्युः प्रतिष्ठापिता, मया च षट्पारमितासु समादापिता निवेशिताः प्रतिष्ठापिताः स्युः /
बोधिप्राप्तश्चाहमपि सत्त्वाननुत्तरायां सम्यक्संबोधौ समादापयेयं निवेशयेयं प्रतिष्ठापयेयं, ये च पुनः परिनिर्वृतस्य शरीरविकुर्वणेनापि सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेयुस्ते ऽपि पश्चात् सहस्रगङ्गानदीवालिकासमैरसंख्येयैर्वर्तमानैरसंख्येयैरतिक्रान्तैर्दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा मम वर्णं भाष्ययेयुः श्रावयेयुर्घोषं चोदीरयेयु"र्यच्चिरं भद्रको नाम कल्पो बभूव, तस्मिंश्च भद्रके महाकल्पे ऽनुप्रविष्टे चतुर्थे जिनभास्कर एवंनामा तथागतो बभूव, येन वयं प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता (क्प्सू 268) निवेशिताः प्रतिष्ठापिताः, दग्धसन्ताना अकुशलसमवधानगता आनन्तर्यकारका यावन्मिथ्यादृष्टिकास्तेन वयं षट्पारमितासु समादापिता निवेशिताः प्रतिष्ठापिताः / येन वयमेतर्हि सर्वज्ञाः सर्वाकारधार्मिकं धर्मचक्रं प्रवर्तयामः, निर्वर्ते तु गतिचक्रे बहुसत्त्वकोटीनयुतशतसहस्रान् स्वर्गे मोक्षफले च प्रतिष्ठापयामः स्युः" /
ये च सत्त्वा बोध्यर्थिकास्तेषां तथागतानां सकाशे मम वर्णकीर्तियशश्च शृणुयुस्ते तं तथागतं पृच्छेयुः, "कमर्थवशं सम्पश्यमानः स भगवांस्तथागत एवं पञ्चकषाये कलियुगे वर्तमाने ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः?" ते च तथागतास्तेषां बोध्यर्थिकानां कुलपुत्राणां कुलदुहितॄणां वा इमं मम महाकरुणासमन्वागतं प्रथमचित्तोत्पादं बुद्धक्षेत्रगुणव्यूहं प्रणिधानपूर्वयोगं च भाषेयुस्ते च बोध्यर्थिकाः कुलपुत्राः कुलदुहितरो वा आश्चर्यप्राप्ता भवेयुस्ते ऽप्युदाराधिमुक्तिका भवेयुस्ते ऽप्येवंरूपां महाकरुणां सत्त्वेषूत्पादयेयुरेवंरूपं च प्रणिधानं कुर्वीरन्, एवंरूपे तीव्रपञ्चकषाये क्लेशकषाये कलियुगे बुद्धक्षेत्रे आनन्तर्यकारकां यावदकुशलसमवधानां वैनेयां (क्प्सू 269) प्रतिगृह्णीयुस्ते च बुद्धा भगवन्तस्तान् महाकरुणासमन्वागतां बोध्यर्थिकां कुलपुत्रान् वा कुलदुहितॄन् वा एवंरूपेण व्याकरेणन व्याकुर्युर्यथाभिप्रायां तैः कुलपुत्रैः कुलदुहितृभिर्वा तीव्रपञ्चकषाये क्लेशे कलियुगे प्रणिधानं कृतं /
अपरे बुद्धा भगवन्तो मम शरीरविवर्तनेभिः पूर्वयोगैः सत्त्वानां बोध्यर्थिकानां कुलपुत्राणां कुलदुहितॄणां वा विस्तरेण भाषयेयुः, "एवं चिरमेवंनामा जिनसूर्यो बभूव; परिनिर्वृतस्य शरीरेभिरेवं चिरमेवंरूपणां दुःखितानां सत्त्वानामर्थाय एवंरूपाणि विविधानि प्रातिहार्याणि विविधा च नानाप्रकारा विकुर्वणाकृतास्तस्य शरीरविकुर्वणाभिर्वयं प्रथममनुत्तरायां सम्यक्संबोधौ संचोदिताः, अनुत्तरायां सम्यक्संबोधौ वयं कुशलमूलसमवधानान् प्रथमचित्तोत्पादादिदं पारमितासु चोद्योगः कृतः, यावद्यथा पूर्वोक्तं विस्तरेण" /
अथ खलु समुद्ररेणुर्ब्राह्मणो ऽग्रपुरोहितो रत्नगर्भस्य तथागतस्य पुरतः सदेवगन्धर्वमानुषिकायाः प्रजायाः इमां महाकरुणासमन्वागतां पञ्चशतानि प्रणिधानानि (क्प्सू 270) कृतवान्, स एवमाह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तथा चाहमनागते ऽध्वनि भदरके कल्पे तीव्रक्लेषे रणकषाये कलियुगे वर्तमाणे ऽन्धलोके ऽनायके ऽपरिणायके दृष्टिव्यसनान्धकारप्रक्षिप्ते लोके आनन्तर्यकारकानां यावत् पूर्वोक्तं; यदि चाहं शक्तः सकलमेवं बुद्धकार्यं निष्पादयितुं यथा च मे प्रणिधानं कृतं, न च विसरामि बोधौ प्रणिधानं, न चान्यक्षेत्रे कुशलमूलं परिणामयामि; एवमेव भदन्त भगवन् व्यवसायं / न च पुनरहं अनेन कुशलमुलेन प्रत्येकबुद्धयानं प्रार्थयामि, न च श्रावकयानं प्रार्थयामि, न देवमनुष्यलोके राजत्वं प्रार्थयामि, न देवमनुष्यलोके ऐश्वर्यं प्रार्थयामि, न पञ्चकामगुणपरिभोगार्थं, न देवोपपत्तिं प्रार्थयामि, न गन्धर्वासुरयक्षराक्षसनागगरूडोपपत्तिं प्राथयामि, न चात्र कुशलमूलं परिणामयामि / यच्च भगवान् एवमाह - "दानं महाभोगतायै संवर्तते, शीलं स्वर्गोपपत्तये श्रुतं महाप्रज्ञतायै भावना विसंयोगाय" / उक्तं चैतत्पुनर्भगवता, (क्प्सू 271) "ऋध्यति आशयो ऽभिप्रायः कुशलमूलपरिणामना पुण्यवतः सत्त्वस्य" / यच्च मया भदन्त भगवन् दानमयं वा शीलमयं वा श्रुतमयं वा भावनामयं वा पुण्यमार्जितं स्यात् /
यदि नैवंरूपा आशा परिपूर्येत यथा मे प्रणिधानं कृतं तदहं तत्सर्वं कुशलमूलं नैरयिकानां सत्त्वानां परिणामयामि; ये सत्त्वाः प्रचण्डमण्डघोरे ऽवीचौ नरके दुःखान्यनुभवन्ति ते चानेन कुशलमूलेन ततो व्युत्तिष्ठन्तु, इह च बुद्धक्षेत्रे मनुष्यप्रतिलाभं प्रतिलभन्तु, तथागतप्रवेदितं च धर्मविनयमारागयेयुः, अग्रत्वे च परिनिर्वायेयुः / यच्च तेषां सत्त्वानामपरिक्षीणकर्मफलं स्यात्तदहमेतर्हि कालं कृत्वाविचौ महानरके उपपद्येयं; बुद्धक्षेत्रपरमाणुरजःसमाध्यगमणीयाश्च मे कायाः प्रादुर्भवेयुः / एकैकश्च मे कायः सुमेरुपर्वतराजप्रमाणो महान् संभवेत्; एकैकश्च मे काय (क्प्सू 272) एवंरूपाः सुदुःखा वेदना जानीयाद्यथैतर्हि एष एकः शरीरः सुदुःखां वेदनां संजानाति; एकैकश्च मे आत्मभावो बुद्धक्षेत्रपरमाणुरजःसमां तीव्रां चण्डां खरां नैरयिकां कारणां अनुभवेयुर्ये चैतर्हि बुद्धक्षेत्रपरमाणुरजःसमेषु दशसु दिक्ष्वन्येषु लोकधातुषु सत्त्वा आनन्तर्यकारका यावदवीचिपरायणानि कर्माणि समुदानीतानि स्युर्यच्च यावद्बुद्धक्षेत्रपरमाणुरजःसमेषु महाकल्पेष्वतिक्रान्तेषु दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेष्वन्येषु बुद्धक्षेत्रेषु गत्वानन्तर्यकर्माणि क्षिपेयुः समुत्थापयेयुर्वा, सर्वेषां अर्थायाहं तत्कर्मावीचौ महानरके स्थितो ऽनुभवेयं, मा च मे सत्त्वा नरकेषूपपद्येयुः, सर्वे च ते सत्त्वा बुद्धा भगवन्त आरागयेयुः, संसाराच्चोत्तारयेयुः, निर्वाणनगरं प्रवेशयेयुः; तदाहमेतच्चिरेण नरकात् परिमुच्येयं /
यावद्दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेष्वन्येषु बुद्धक्षेत्रेषु सत्त्वैस्तथारूपं कर्मसमुत्थापितं आक्षिप्तं नियतवेदनीयं प्रतापने नरके उपपद्यितव्यं, यावद्यथा पूर्वोक्तं / एवं (क्प्सू 273) सन्तापने महारौरवे सङ्घाते कालसूत्रे संजीवने, एवं नानाविधा तिर्यग्योनिर्वाच्याः, एवं यमलोके वक्तव्यः, एवं यक्षदारिद्रे वक्तव्यं, एवं कुम्भाण्डपिशाचासुरगरुडा वाच्याः / यदा बुद्धक्षेत्रपरमाणुरजःसमेषु दशसु दिक्ष्वन्येषु लोकधातुषु सत्त्वैरेवंरूपं कर्माक्षिप्तं स्यात्, ये च मनुष्यान्धबधिरा अजिह्वाका अहस्तका अपादकाः स्मृतिप्रमुष्टचित्तैरुत्पाद्यितव्यं अशुचिभक्षयितव्यं, पेयालं यथा पूर्वोक्तं / पुनरेवमहमवीचौ महानरके उपपद्येयं; यावच्चिरं संसारे धात्वायतनस्कन्धं प्रतिगृह्णीयुस्तावच्चिरमहं एवंरूपां विविधे नरकतिर्यक्प्रेतेषु यक्षासुरराक्षसेषु यावन् मनुष्यदुःखोपपत्तिभिरेवं दुःखमनुभवेयं, यथा पूर्वोक्तं; यदि मे एवंरूपा अनुत्तरायां सम्यक्संबोधौ आशा न परिपूर्येत /
अथ खलु च पुनर्मे एवंरूपानुत्तरायां सम्यक्संबोधौ आशा परिपूर्येत यावत् पूर्वोक्तं, साक्षीभूता मे बुद्धा भगवन्तो भवन्तु / ये दशसु दिक्ष्वप्रमेयासंख्येयेषु अन्येषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति यापयन्ति धर्मं च देशयन्ति ते मम बुद्धा भगवन्तः (क्प्सू 274) साक्षीभूता भविष्यन्ति, ज्ञानभूता भविष्यन्ति / व्याकरोतु मे भदन्त भगवन्ननुत्तरायां सम्यक्संबोधौ, भद्रके कल्पे भवेयमहं विंशोत्तरवर्षशतायुष्कायां प्रजायां तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसम्पन्नो यावद्बुद्धो भगवान्; शक्तो ऽहमेवंरूपं बुद्धकार्यमभिनिष्पादयितुं या मे प्रतिज्ञा कृताः" /
अथ तावदेव सर्वावती पर्षा सदेवगन्धर्वमानुषासुरश्च लोकः क्षितिगगनस्थिताः, स्थापयित्वा तथागतं ते सर्वे ऽश्रूणि प्रवर्तयमानाः पञ्चमण्डलेन पादौ वन्दित्वाहुः / "साधु साधु महाकारुणिक, गंभीरा ते स्मृतिर्गंभीरेषु सत्त्वेषु महाकरुणोत्पन्ना, गंभीरं च महाप्रणिधानं कृतं / तदाध्याशयेन सर्वसत्त्वा महाकरुणया संच्छादिताय भूयसानन्तर्यकारका यावदकुशलमूलसमवधानगता वैनेयाः प्रतिगृहीता; एतेन प्रणिधानेन ज्ञायते यथा त्वं प्रथमचित्तोत्पादेनानुत्तरायां सम्यक्संबोधौ सत्त्वानां भैषज्यभूतस्त्राणं परायणं; सत्त्वानां दुःखप्रमोचनार्थं प्रणिधानं कृतं तथा ते आशा परिपूर्यतु व्याकरोतु च भगवाननुत्तरायां सम्यक्संबोधौ" /
स्वयं च राजा अमृतशुद्धः प्ररुदमानो ब्राह्मणस्य पञ्चमण्डलेन पादौ वन्दित्वाह /
"अहो परमगम्भीर सुखेषु त्वमनास्रितः / सत्त्वेषु त्वं दयापन्नः अस्माकं त्वं निदर्शकः" //
पेयालं, अवलोकितेश्वर आह -
"सत्त्वेषु सक्तेषु भवानसक्त अतीन्द्रियार्थेषु अतीन्द्रियाश्च / करोषि चैश्वर्यमिहेन्द्रियाणां भाषिष्यसे धारणि ज्ञानकोशं" //
पेयालं, महास्थामप्राप्तस्त्वाह - "बहुकोटीसहस्रसत्त्वानां कुशलार्थं समागताः / रुदन्ते त्वयि कारुण्य महापरमदुष्करं" //
मञ्जुश्रीर्बोधिसत्त्व आह -
"दृढवीर्यसमाधान वरप्रज्ञाविचक्षण / त्वमस्मान् अर्हसे पूजां माल्यगन्धविलेपनैः" //
गगनमुद्रो बोधिसत्त्व आह -
"एवं दत्तं त्वया दानं सत्त्वेभ्यो महती कृपा / क्षीणकाले ऽस्मिं त्वं नाथ भेष्यसे वरलक्षणः" //
वज्रच्छेदप्रज्ञावभासो बोधिसत्त्वो ऽप्येवमाह -
"यथाकाशं सुविस्तीर्णम् एवं त्वं करुणाश्रयः / त्वया सत्त्वेभ्यो ऽयं पन्था बोधिचर्या प्रदर्शितः" //
वेगवैरोचनो बोधिसत्त्व आह -
"न चान्ये कृपा सत्त्वेषु स्थापयित्वा तथागतं / यस्त्वं सर्वगुणोपेतो वरप्रज्ञाविचक्षणः" //
सिंहगन्धस्त्वाह -
"अनागते य अध्वाने भद्रके क्लेशमारके / यशः कीर्तिं त्वमाप्नोषि सत्त्व मोचयि दुःखितान्" //
समन्तभद्रो बोधिसत्त्व आह -
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
