Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
गण्डव्यूहसूत्र
- Thông tin
- GRETIL — P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
एवमेव बोधिचित्तादृश्यमहौषधिगृहीतो व्यवकीर्णविहारी बोधिसत्त्वः सर्वमारविषये न दृश्यते / तद्यथा कुलपुत्र अस्ति सर्वमणिरत्नसमुच्चयं नाम महामणिरत्नराजं महासमुद्रे / तस्य अन्यलोकधात्वसंक्रान्तस्य अस्थानमनवकाशो यन्महासमुद्रस्य सर्वकल्पोद्दाहाग्निना शक्यं तालमात्रमपि परिशोषयितुम् / एवमेव सर्वज्ञताचित्तोत्पादसर्वमणिरत्नसमुच्चयमहामणिरत्नराजाध्याशयसंतानगतानां बोधिसत्त्वानामस्थानमनवकाशो यदेककुशलमपि सर्वज्ञतापरिणामितं प्रणश्येत् नेदं स्थानं विद्यते / उत्सृष्टे च पुनः सर्वज्ञताचित्तोत्पादे सर्वकुशलमूलान्युपशुष्यन्ति / तद्यथा अस्ति सर्वप्रभाससमुच्चयं नाम महामणिरत्नम् / तेन कण्ठावसक्तेन सर्वमणिरत्नालंकारा जिह्मीभवन्ति / एवमेव बोधिसत्त्वसर्वप्रभाससमुच्चयमहामणिरत्नाशयालंकारावबद्धो बोधिसत्त्वः सर्वश्रावकप्रत्येकबुद्धचित्तोत्पादरत्नालंकारानभिभवति / तद्यथा कुलपुत्र अस्ति उदकप्रसादकं महामणिरत्नम् / तद्वारिप्रक्षिप्तं सर्वकर्दमकालुष्यं प्रसादयति / एवमेव बोधिचित्तोदकप्रसादकमहामणिरत्नं सर्वक्लेशकर्दमकालुष्यं प्रसादयति / तद्यथा कुलपुत्र उदकसंवासमणिरत्नावबद्धः कैवर्त उदके न म्रियते, एवमेव सर्वज्ञताचित्तोदकसंवासमणिरत्नगृहीतो बोधिसत्त्वः सर्वसंसारसागरे न म्रियते / तद्यथा कुलपुत्र अस्ति नागमणिवर्ममहारत्नम् / तेन सहगते कैवर्तादयो जलजीविनः सर्वनागभवनानि प्रविशन्तो ऽधृष्या भवन्ति सर्वनागोरगैः / एवमेव सर्वज्ञताचित्तोत्पादज्ञाननागमणिधर्मधारी बोधिसत्त्वः सर्वकामधातुभवनानि प्रविशन्न क्षण्यते /
तद्यथा कुलपुत्र शक्राभिलग्नमणिरत्नावबद्धः शक्रो देवराजो सर्वदेवगणानभिभवति, एवमेव सर्वज्ञताचित्तशक्राभिलग्नमहामणिरत्नराजप्रणिधिमकुटावबद्धो बोधिसत्त्वः सर्वत्रैधातुकमभिभवति / तद्यथा कुलपुत्र चिन्ताराजमहामणिरत्नगृहीतः पुरुषः सर्वदारिद्र्यान्न बिभेति, एवमेव सर्वज्ञताचित्तोत्पादचिन्ताराजमहामणिरत्नगृहीतो बोधिसत्त्वः सर्वोपकरणजीविकाभयेभ्यो न बिभेति / तद्यथा कुलपुत्र सूर्यकान्तमणिरत्नं सूर्यदर्शितमग्निं प्रमुञ्चति, एवमेव सर्वज्ञताचित्तोत्पादसूर्यकान्तमणिरत्नं प्रज्ञारत्नरश्मिसंसृष्टं ज्ञानाग्निं प्रमुञ्चति / तद्यथा कुलपुत्र चन्द्रकान्तं नाम महामणिरत्नं चन्द्राभया स्पृष्टमुदकधारां प्रमुञ्चति, एवमेव बोधिचित्तोत्पादचन्द्रकान्तमहामणिरत्नं कुशलमूलपरिणामनाचन्द्रप्रभास्पृष्टं सर्वकुशलमूलप्रणिधितोयधाराः (gv 400) प्रमुञ्चति / तद्यथा कुलपुत्र चिन्ताराजमणिमकुटावबद्धानां महानागराजानां नास्ति परोपक्रमभयम्, एवमेव बोधिचित्तमहाकरुणाचिन्ताराजमणिमकुटावबद्धानां नास्ति दुर्गत्यपायोपसंक्रमभयम् / तद्यथापि नाम कुलपुत्र जगद्व्यूहगर्भं नाम महामणिरत्नं सर्वसत्त्वाभिप्रायपरिपूरणतया न कदाचित्क्षयमुपैति, एवमेव बोधिसत्त्वचित्तोत्पादसर्वजगद्व्यूहगर्भमहामणिरत्नं सर्वसत्त्वाभिप्रायबोधिप्रणिधिपरिपूरणतया न कदाचित्क्षयमुपैति /
तद्यथा कुलपुत्र राज्ञश्चक्रवर्तिनो महामणिरत्नः स तमोन्धकारविधमं गच्छति, अन्तःपुरमध्यगतं च प्रभासयति, एवमेव सर्वज्ञताचित्तोत्पादचक्रवर्तिमहामणिरत्नं सर्वमविद्यान्धकारविधमं सत्त्वगतिषु गच्छति, कामधातुस्थितं च महाज्ञानालोकमवमुञ्चति / तद्यथा कुलपुत्र ये इन्द्रनीलमहामणिरत्नाभया स्पृश्यन्ते, सर्वे ते इन्द्रनीलमहामणिरत्नवर्णा भवन्ति, एवमेव सर्वज्ञताचित्तोत्पादेन्द्रनीलमहामणिरत्नं येषु विचार्यते प्रेष्यते, यानि च कुशलमूलानि सर्वज्ञताचित्तोत्पादेन परिणम्यन्ते, तानि सर्वाणि सर्वज्ञतामहामणिरत्नवर्णानि भवन्ति / तद्यथा कुलपुत्र वैडूर्यमणिरत्नं वर्षशतसहस्रमपि अमेध्यमध्यगतं तिष्ठत् सर्वदौर्गन्ध्येन सार्धं न संवसति, एवमेव सर्वज्ञताचित्तोत्पादात्यन्तविमलविशुद्धप्रभमणिरत्नं सर्वपृथग्जनशैक्षाशैक्षप्रत्येकबुद्धगुणरत्नाकरानभिभवति / तद्यथा कुलपुत्र एकमाग्नेयं नाम महामणिरत्नं सर्वतमोन्धकारं विधमति, एवमेव एकसर्वज्ञताचित्तोत्पादाग्नेयमहामणिरत्नं विपश्यनासंप्रयुक्तं योनिशो मनसिकारतः सर्वमज्ञानतमोन्धकारं विधमति / तद्यथा कुलपुत्र महासमुद्रे पोतारोपितमनर्ध्येयमणिरत्नं वणिग्घस्तगतं नगरप्रतिष्ठानि काचमणिशतसहस्राण्यभिभवति वर्णतश्च आयतश्च, एवमेव संसारमहासमुद्रगतमपि सर्वज्ञताचित्तोत्पादानर्घमहामणिरत्नं प्रणिधिपोतारोपितं प्रथमचित्तोत्पादिकबोधिसत्त्वाध्याशयसंतानगतमप्राप्तमेव सर्वज्ञतानगरं विमुक्तिनगरं प्रविष्टान् सर्वश्रावकप्रत्येकबुद्धकाचमणिकानभिभवति /
तद्यथास्ति वशिराजं नाम मणिरत्नं यज्जम्बुद्वीपगतमेव चत्वारिंशद्योजनसहस्रस्थितानां चन्द्रसूर्यमण्डलानां भवनविमानप्रतिभासव्यूहान् संदर्शयति, एवमेव सर्वगुणपरिशोधितं सर्वज्ञताचित्तोत्पादवशिराजमणिरत्नं संसारगतमेव धर्मधातुगगनगोचराणां तथागतमहाज्ञानसूर्यचन्द्रमसां सर्वबुद्धविषयमण्डलप्रतिभासव्यूहान् संदर्शयति / तद्यथा कुलपुत्र यावच्चन्द्रसूर्यमण्डलानि प्रभयावभासयन्ति, अत्रान्तरे ये केचिद्धनधान्यरत्नजातरूपरजतपुष्पगन्धमाल्यवस्त्रपरिभोगाः, सर्वे ते वशिराजमणिरत्नस्य मूल्यं न क्षमन्ते, एवमेव यावत् त्र्यध्वसु सर्वज्ञज्ञानं धर्मधातुविषयमवभासयति, अत्रान्तरे यानि कानिचिद्देवमनुष्यसर्वश्रावकप्रत्येकबुद्धकुशलानि सास्रवाण्यनास्रवाणि वा, सर्वाणि तानि बोधिचित्तोत्पादवशिराजमहामणिरत्नस्य मूल्यं न क्षमन्ते / तद्यथा कुलपुत्र अस्ति सागरव्यूहगर्भं नाम महामणिरत्नं यत्सर्वमहासागरव्यूहान् संदर्शयति, एवमेव बोधिचित्तोत्पादसागरव्यूहगर्भमहामणिरत्नं सर्वज्ञज्ञानविषयसागरव्यूहं संदर्शयति / तद्यथा कुलपुत्र चिन्ताराजमणिरत्नं स्थापयित्वा नास्ति किंचित्प्रतिविशिष्टतरं दिव्येन जाम्बूनदसुवर्णेन, एवमेव सर्वज्ञज्ञानचिन्ताराजमहामणिरत्नं (gv 401) स्थापयित्वा नास्ति किंचित्प्रतिविशिष्टतरं बोधिचित्तोत्पाददिव्यजाम्बूनदसुवर्णेन / तद्यथा कुलपुत्र नागमण्डलसिद्ध आहितुण्डिकः सर्वनागोरगान् वशे स्थापयति, एवमेव सर्वज्ञताचित्तोत्पादप्रतिपत्तिनागमण्डलसिद्धो बोधिसत्त्वाहितुण्डिकः सर्वक्लेशनागोरगान् वशे स्थापयति /
तद्यथा कुलपुत्र प्रहरणगृहीतः शूरो दुर्घर्षो भवति शत्रुमण्डलेन, एवमेव सर्वज्ञताचित्तोत्पादप्रहरणगृहीतो बोधिसत्त्वो दुर्घर्षो भवति सर्वक्लेशशत्रुमण्डलेन /
तद्यथा कुलपुत्र दिव्योरगसारचन्दनस्य एकचूर्णधारणं साहस्रं लोकधातुं गन्धेन स्फरति, कर्षप्रमाणं सर्वत्रिसाहस्रे लोकधातुरत्नपरिपूर्णेन मूल्यं न क्षमते, एवमेव सर्वज्ञताचित्तोत्पाददिव्योरगसारचन्दनस्यैकाध्याशयधातुः सर्वधर्मधातुं गुणगन्धेन स्फरति, सर्वशैक्षाशैक्षप्रत्येकबुद्धचित्तानि चाभिभवति / तद्यथा कुलपुत्र हिमवच्चन्दनं नाम महाचन्दनरत्नं सर्वदाहं प्रशमयति, सर्वं चाश्रयं शीतलीकरोति, एवमेव सर्वज्ञताचित्तोत्पादहिमवच्चन्दनरत्नं सर्वक्लेशसंकल्परागदोषमोहदाहं प्रशमयति, ज्ञानाश्रयं च प्रह्लादयति / तद्यथा कुलपुत्र ये सुमेरुं पर्वतराजमुपसंक्रामन्ति, सर्वे ते एकवर्णा भवन्ति यदुत सुवर्णवर्णाः, एवमेव ये सर्वज्ञताचित्तोत्पादसमान् बोधिसत्त्वानुपसंक्रामन्ति, सर्वे ते एकवर्णा भवन्ति यदुत सर्वज्ञतावर्णाः / तद्यथा कुलपुत्र यः पारियात्रकस्य कोविदारस्य च्छविगन्धः प्रवाति, स सर्वजम्बुद्वीपे सर्ववार्षिकाजातिसुमनादीनां पुष्पजातीनां न संविद्यते, एवमेव यो बोधिसत्त्वस्य सर्वज्ञताचित्तोत्पादबीजप्रणिधिवृक्षगुणज्ञानत्वचो गन्धः प्रवाति, स सर्वप्रत्यवरकुशलमूलानां सर्वश्रावकप्रत्येकबुद्धवार्षिकाजातिसुमनानामनास्रवशीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानां न संविद्यते / तद्यथा कुलपुत्र पारियात्रकस्य कोविदारस्य शुङ्गीभूतस्य वेदितव्यं बहूनां पुष्पशतसहस्राणामायद्वारं भविष्यतीति, एवमेव सर्वज्ञताचित्तोत्पादपारियात्रकवृक्षस्य कुशलमूलशुङ्गीभूतस्य वेदितव्यमसंख्येयानां देवमनुष्याणां सास्रवनास्रवबोधिकुसुमायद्वारं भविष्यतीति / तद्यथा कुलपुत्र यः एकदिवसपरिभावितस्य पारियात्रकुसुमैर्वस्त्रस्य तैलस्य वा गन्धः प्रवाति, स दिवसतसहस्रपरिभावितस्य चम्पकवार्षिकासुमनाभिवस्त्रस्य वा तैलस्य वा न संविद्यते /
एवमेव य एकजन्मपरिभावितस्य सर्वज्ञताचित्तसंतानस्य बोधिसत्त्वगुणज्ञानगन्धो दशसु दिक्षु सर्वबुद्धपादमूलेषु प्रवाति, स कल्पशतसहस्रपरिभावितानां सर्वश्रावकप्रत्येकबुद्धचित्तानामनास्रवकुशलधर्मज्ञानगन्धो न संविद्यते / तद्यथा कुलपुत्र अस्ति नालीकेरी नाम वृक्षजातिः उद्यतके समुद्रे संभूता / सा मूलत उपादाय यावत्पुष्पफलपर्यन्तात्सर्वकालं सर्वसत्त्वानां न कदाचिन्नोपजीव्या भवति / एवमेव महाकरुणाप्रणिधिमूलसंजातो बोधिसत्त्वस्य प्रथमसर्वज्ञताचित्तोत्पादो यावत्सद्धर्मस्थितिपर्यवसानात् सदेवकस्य लोकस्य न कदाचिन्नोपजीव्यो भवति / तद्यथा कुलपुत्र अस्ति हाटकप्रभासं नाम रसजातम् / तस्य एकपलं लोहपलसहस्रं स्वर्णीकरोति / न च तद्रसपलं शक्यं तेन लोहपलसहस्रेण पर्यादातुं न लोहीकर्तुम् / एवमेव एकसर्वज्ञताचित्तोत्पादरसधातुः कुशलमूलपरिणामनाज्ञानसंगृहीतः सर्वकर्मक्लेशावरणलोहानि (gv 402) पर्यादाय सर्वधर्मान् सर्वज्ञतावर्णान् करोति / न च सर्वज्ञताचित्तोत्पादरसधातुः शक्यं सर्वकर्मक्लेशलोहैः संक्लेशयितुं पर्यादातुं वा / तद्यथा कुलपुत्र कियत्परीत्तो ऽप्यग्निर्यावदुपादानं लभते तावतीं ज्वालां प्रमुञ्चति, एवमेव कियत्परीत्तो ऽपि सर्वज्ञताचित्तोत्पादाग्निरारम्बणव्यवकीर्णतया यावत् संभारोपादानं लभते, तावद्विवर्धते ज्ञानार्चिःप्रमोचनतया /
तद्यथा कुलपुत्र एकस्मात्प्रदीपादनेकानि प्रदीपकोटीशतसहस्राण्यादीप्यन्ते, अक्षय एव प्रदीपो भवत्यपर्यादत्तः सर्वप्रदीपनिर्याणैः एवमेव एकस्मात्सर्वज्ञताचित्तोत्पादप्रदीपादतीतानागतप्रत्युत्पन्नानां सर्वतथागतानां सर्वज्ञताचित्तोत्पादप्रदीपानां दीप्यमानानामक्षय एव स एकः सर्वज्ञताचित्तोत्पादप्रदीपो ऽवभाति अपर्यादत्तः सर्वज्ञताचित्तोत्पादप्रदीपनिर्याणैः / तद्यथा कुलपुत्र एकः प्रदीपो यादृशे गृहे वातायने वा प्रवेश्यते, सहप्रवेशितो वर्षसहस्रसंचितमपि तमोन्धकारं विधमति अवभासं च करोति, एवमेव एकसर्वज्ञताचित्तोत्पादप्रदीपो यादृशे सत्त्वाशयगृहगहने ऽविद्यातमोन्धकारानुगते प्रवेश्यते, स सहप्रवेशितो ऽनभिलाप्यकल्पशतसहस्रसंचितमपि क्लेशावरणतमोन्धकारं विधमति, ज्ञानालोकं च संजनयति / तद्यथा कुलपुत्र यादृशी प्रदीपवर्तिर्भवति तादृशं प्रदीपो ऽवभासं करोति, यावांश्च स्नेहसंचयो भवति तावद्दीप्यते / एवमेव यस्य बोधिसत्त्वस्य यादृशी प्रणिधानवर्तिविशेषता भवति, तादृशं सर्वज्ञताचित्तोत्पादप्रदीपो धर्मधात्ववभासं करोति / यावच्च महाकरुणाचर्यास्नेहसंचयो भवति, तावत्सत्त्वविनयक्षेत्रविशुद्धिबुद्धकार्यप्रभावना भवति / तद्यथा कुलपुत्र दिव्यजाम्बूनदसुवर्णालंकारो वशवर्तिनो देवराजस्य मूर्ध्नावबद्धो ऽसंहार्यो भवति सर्वकामावचरैर्देवपुत्रैः, एवमेव प्रतिपत्तिगुणप्रतिष्ठितः सर्वज्ञताचित्तोत्पाददिव्यजाम्बूनदसुवर्णालंकारो ऽविनिवर्तनीयानां बोधिसत्त्वानां महाप्रणिधानमूर्ध्नावबद्धो ऽसंहार्यो भवति सर्वबालपृथग्जनशैक्षाशैक्षप्रत्येकबुद्धैः /
तद्यथा कुलपुत्र सिंहस्य मृगराजस्य नादेन अचिरजाताः सिंहपोताः पुष्यन्ति, सर्वमृगाश्च विलयं गच्छन्ति, एवमेव तथागतपुरुषसिंहस्य बोधिचित्तसंवर्णनसर्वज्ञतानादेन प्रयुक्तेन सर्वादिकर्मिकबोधिसत्त्वसिंहपोताः पुष्यन्ति बुद्धधर्मैः, सर्वोपलम्भसंनिश्रिताश्च सत्त्वा विलयं गच्छन्ति / तद्यथा कुलपुत्र सिंहस्नायुकृतवीणातन्त्रीशब्देन सर्ववीणातन्त्र्यः संछिद्यन्ते, एवमेव पारमिताशरीरतथागतसिंहबोधिचित्तोत्पादस्नायुतन्त्रीगुणवर्णशब्देन सर्वकामगुणरतिवीणातन्त्र्यः संछिद्यन्ते, सर्वश्रावकप्रत्येकबुद्धचर्यागुणकथाश्च संनिरूध्यन्ते / तद्यथा कुलपुत्र गोमहिष्यजाक्षीरपूर्णमहासमुद्रे एकसिंहदुग्धबिन्दुप्रक्षेपेण सर्वक्षीराण्यपक्रामन्ति, न संधयति, एवमेव कल्पशतसहस्रसंचितः कर्मक्लेशक्षीरमहासमुद्रः तथागतमहापुरुषसिंहसर्वज्ञताचित्तोत्पाददुग्धैकबिन्दुप्रक्षेपेण सर्वो ऽनवशेषः क्षयं गच्छन्ति, सर्वश्रावकप्रत्येकबुद्धविमुक्तयश्च न संतिष्ठन्ते, न संवसति / तद्यथा कुलपुत्र अण्डकोशादनिर्गतस्य कलविङ्कपोतस्य यो नादबलविशेषः सर्वबलवेगसंपन्नानां हिमवन्निवासिनां सर्वपक्षिगणानां न संविद्यते, एवमेव यः संसाराण्डकोशगतस्यादिकर्मिकबोधिसत्त्वकलविङ्कपोतस्य महाकरुणाबोधिचित्तनादबलविशेषः सर्वश्रावकप्रत्येकबुद्धानां न संविद्यते /
तद्यथा कुलपुत्र यो ऽचिरजातस्य महागरुडेन्द्रपोतस्य पक्षवातबलपराक्रमो नयनपरिशुद्धिगुणश्च, (gv 403) स सर्वशरीरप्रवृद्धानां तदन्येषां पक्षिणां न संविद्यते, एवमेव यः प्रथमचित्तोत्पादिकस्य तथागतमहागरुडेन्द्रस्य कुलगोत्रसंभवस्य बोधिसत्त्वमहागरुडेन्द्रपोतस्य सर्वज्ञताचित्तोत्पादबलपराक्रमो महाकरुणाध्याशयनयनपरिशुद्धिगुणश्च, स कल्पशतसहस्रनिर्यातानां सर्वश्रावकप्रत्येकबुद्धानां न संविद्यते / तद्यथा कुलपुत्र महापुरुषहस्तगतो नाराचः कियद्दृढमपि वर्म निर्भिनत्ति, एवमेव दृढवीर्यबोधिसत्त्वहस्तगतः सर्वज्ञताचित्तोत्पादनाराचः सर्वदृष्ट्यनुशयवर्माणि निर्भिनत्ति / तद्यथा कुलपुत्र क्रोधाविष्टस्य महानग्नस्य यावल्ललाटे पिटकास्तिष्ठन्ति, तावदघृष्यो भवति सर्वजम्बुद्वीपकैर्मनुष्यैः, एवमेव महामैत्रीमहाकरूणाविष्टस्य बोधिसत्त्वमहानग्नस्य यावदध्याशयवदने सर्वज्ञताचित्तोत्पादपिटका न विगच्छन्ति, तावदघृष्यो भवति सर्वलोकधातुपर्यापन्नैः सर्वमारैः सर्वकर्मभिश्च / तद्यथा कुलपुत्र यः शिक्षितस्येष्वस्त्रान्तेवासिन इष्वस्त्रज्ञाने कृताभ्यासस्य शिल्पस्थानयोगबलविशेषः, स सर्वशिक्षितस्य इष्वस्त्राचार्यस्य न संविद्यते, एवमेव यः सर्वादिकर्मिकस्य सर्वज्ञताभूम्या कृताभ्यासस्य बोधिसत्त्वाजानेयस्य प्रणिधिज्ञानाधिमुक्तिचर्याबलविशेषः, सो ऽनुत्पादितबोधिचित्तानां सर्वशैक्षाशैक्षप्रत्येकबुद्धानां च न संविद्यते /
तद्यथा कुलपुत्र इष्वस्त्रं शिक्षमाणस्य प्रथमः पदबन्धयोग्याभ्यासः पूर्वंगमो भवति सर्वेष्वस्त्रज्ञानस्य, एवमेव बोधिसत्त्वस्य सर्वज्ञभूमौ शिक्षमाणस्य प्रथमं सर्वज्ञताचित्ताध्याशयसंप्रस्थानं पूर्वगमं भवति सर्वबुद्धधर्माधिगमाय / तद्यथा कुलपुत्र मायाकारस्य मायागतविषयं संदर्शयमानस्य प्रथममन्त्रपदसिद्ध्यभिनिर्हारमेव मनसिकुर्वाणस्य सर्वक्रियासिद्धिर्भवति, एवमेव बोधिसत्त्वस्य सर्वबुद्धबोधिसत्त्वविषयविकुर्वाः संदर्शयतः प्रथमचित्तोत्पादप्रणिधानाभिनिर्हार एवोत्थापको भवति सर्वबुद्धबोधिसत्त्वविषयस्य / तद्यथा कुलपुत्र सर्वमायाविद्यामन्त्राश्चारूपिणो ऽनिदर्शनाः सर्वमायानिर्माणरूपगतानि संदर्शयन्ति चित्तोत्पादेन, एवमेव सर्वज्ञताचित्तोत्पादश्चारूप्यानिदर्शनः सर्वधर्मधातुं विठपयति सर्वगुणालंकारव्यूहैश्चित्तोत्पादवशितामात्रेण / तद्यथा कुलपुत्र मार्जारस्य सहदृष्टविचारमात्रेण सर्वमूषिका विलयमापद्यन्ते, एवमेव बोधिसत्त्वस्य सर्वज्ञताचित्तोत्पादाध्याशयप्रयोगविचारमात्रेण सर्वकर्मक्लेशा विलयमापद्यन्ते / तद्यथा कुलपुत्र जाम्बूनदसुवर्णालंकार आबद्धः सर्वाभरणानि जिह्मीकरोति, एवमेव बोधिचित्तजाम्बूनदसुवर्णालंकाराध्याशयावबद्धो बोधिसत्त्वः सर्वश्रावकप्रत्येकबुद्धगुणालंकारानभिभवति जिह्मीकरोति / तद्यथा कुलपुत्र अयस्कान्तराजस्य कियत्परीत्तो ऽपि धातुः सर्वदृढमायसं बन्धनं स्फोटयति, एवमेव कियत्परीत्तो ऽप्यध्याशयोत्पादितः सर्वज्ञताचित्तोत्पादधातुः सर्वदृष्टिकृताविद्यातृष्णाबन्धनानि स्फोटयति /
तद्यथा कुलपुत्र यत्र यत्रैव अयस्कान्तधातुर्विचार्यते, तत्र तत्रैव सर्वाणीतराण्ययांसि पलायन्ते, न तिष्ठन्ते न संदधति / एवमेव यत्र यत्रैव सर्वज्ञताचित्तोत्पादधातुर्विचार्यते कार्मेषु वा क्लेशेषु वा श्रावकप्रत्येकबुद्धविमुक्तौ वा, ततस्तत एव कर्मक्लेशाः सर्वश्रावकप्रत्येकबुद्धविमुक्तयश्च पलायन्ते न तिष्ठन्ति, न संदधति / तद्यथा कुलपुत्र मकरविद्धाश्रितः कैवर्तः सर्वोदकप्राणिभयविनिर्वृतो भवत्यनुपघातशरीरो मकरमुखगतो ऽपि, एवमेव अध्याशयबोधिचित्तविद्धाश्रितो (gv 404) बोधिसत्त्वः सर्वसंसारकर्मक्लेशभयविनिवृत्तो भवति सर्वश्रावकप्रत्येकबुद्धाभिसमयान्तरप्राप्त्यनुघात्यो भूतकोटीसाक्षात्क्रियाप्रणाशपथापतनतया / तद्यथा कुलपुत्र अमृतपानपीतः पुरुषः सर्वपरोपक्रमैर्न म्रियते, एवमेव सर्वज्ञताचित्तोत्पादामृतपानपीतो बोधिसत्त्वः सर्वश्रावकभूमिषु न म्रियते, न चोपरमति बोधिसत्त्वमहाकरुणाप्रणिधानात् / तद्यथा कुलपुत्र अञ्जनसिद्धः पुरुषः सर्वमनुष्यभवनेषु चानुविचरति न च सर्वमनुष्यैर्दृश्यते, एवमेव बोधिचित्तोत्पादप्रज्ञाप्रणिध्युपस्तब्धो बोधिसत्त्वः सर्वमारविषयेषु चानुविचरति, सर्वमारैश्च न दृश्यते / तद्यथा कुलपुत्र महाराजसंनिश्रितः पुरुषः सर्वप्राकृतजनात् न बिभेति, एवमेव सर्वज्ञताचित्तोत्पादमहाधर्मराजसंनिश्रितो बोधिसत्त्वः सर्वावरणनिवरणदुर्गतिभ्यो न बिभेति / तद्यथा कुलपुत्र पर्वतगृहेषु सर्वभूम्यन्तर्गतपानीयभयान्नास्त्यग्निभयम्, एवमेव बोधिचित्तकुशलमूलाभिष्यन्दितसंतानस्य बोधिसत्त्वस्य नास्ति श्रावकप्रत्येकबुद्धविमुक्तिज्ञानाग्निभयम् /
तद्यथा कुलपुत्र शूरसंनिश्रितः पुरुषः सर्वशत्रुभ्यो न बिभेति, एवमेव सर्वज्ञताचित्तोत्पादशूरसंनिश्रितो बोधिसत्त्वः सर्वदुश्चरितशत्रुभ्यो न बिभेति /
तद्यथा कुलपुत्र वज्रप्रहरणगृहीतः शक्रो देवेन्द्रः सर्वासुरगणं प्रमर्दयति, एवमेव सर्वज्ञताचित्तोत्पाददृढाध्याशयवज्रप्रहरणगृहीतो बोधिसत्त्वः सर्वमारपरप्रवाद्यसुरगणं प्रमर्दयति / तद्यथा कुलपुत्र रसायनोपयुक्तः पुरुषो दीर्घमायुः पालयति न च दुर्बलीभवति, एवमेव सर्वज्ञताचित्तोत्पादरसायनसंभारप्रयुक्तो बोधिसत्त्वो ऽसंख्येयान् कल्पान् संसारे संसरन्न परिखिद्यते, न च संसारदोषैर्लिप्यते / तद्यथा कुलपुत्र सर्वभैषज्यरससंप्रयोगेषु पानीयं पूर्वंगमं न क्वचिद्दुष्यति, एवमेव सर्वबोधिसत्त्वचर्याप्रणिधानसंभारयोगेषु सर्वज्ञताचित्तोत्पादः पूर्वंगमो भवति, न क्वचिद्दुष्यति / तद्यथा कुलपुत्र पुरुषस्य सर्वकार्येषु जीवितेन्द्रियं पूर्वंगमम्, एवमेव बोधिसत्त्वस्य सर्वबुद्धधर्मादानेषु बोधिचित्तं पूर्वंगमम् / तद्यथा कुलपुत्र जीवितेन्द्रियविमुक्तः पुरुषो निरुपजीव्यो भवति मातापितृज्ञातिवर्गस्य सर्वकर्मासमर्थत्वात्, एवमेव सर्वज्ञताचित्तोत्पादवियुक्तो बोधिसत्त्वः सर्वज्ञतागुणनिरुपजीव्यो भवति सर्वसत्त्वानां बुद्धज्ञानप्रतिलम्भासमर्थत्वात् / तद्यथा कुलपुत्र महासमुद्रः सर्वविषैरदूष्यो भवति, एवमेव सर्वज्ञताचित्तोत्पादमहासमुद्रो ऽदूष्यो भवति सर्वकर्मक्लेशश्रावकप्रत्येकबुद्धचित्तोत्पादविषैः / तद्यथा कुलपुत्र सूर्यमण्डलमपर्यन्तः सर्वतारावभासैः, एवमेव सर्वज्ञताचित्तोत्पादसूर्यमण्डलमपर्यापन्नं भवति, सर्वश्रावकप्रत्येकबुद्धतारानास्रवगुणानभिभवति /
तद्यथा कुलपुत्र अचिरजातो राजपुत्रो मूर्धप्राप्तान् सर्ववृद्धामात्यानभिभवति कुलाभिजात्याधिपत्येन, एवमेव अचिरोत्पादितबोधिचित्तस्तथागतधर्मराजकुलप्रत्याजात आदिकर्मिको बोधिसत्त्वश्चिरचरितब्रह्मचर्यान् वृद्धश्रावकानभिभवति बोधिचित्तमहाकरुणाधिपत्येन / तद्यथा कुलपुत्र कियद्वृद्धेनाप्यमात्येन कियद्बालस्यापि राजकुमारस्य प्रणिपतितव्यम्, न च राजपुत्रेण वृद्धामात्यस्य गौरवं न करणीयम्, एवमेव कियद्वृद्धैरपि चिरचरितब्रह्मचर्यैः श्रावकप्रत्येकबुद्धैरादिकर्मिकस्य बोधिसत्त्वस्य अवनमितव्यम्, न च बोधिसत्त्वेन प्रत्येकबुद्धेषु गौरवं न करणीयम् / तद्यथा कुलपुत्र (gv 405) सर्वापरिभूतो राजपुत्रो ऽविरहितो राजलक्षणेन सर्वाग्रताप्राप्तैरपि राजामात्यैर्न समो जात्यध्यक्षत्वात्, एवमेव कियत्कर्मक्लेशोपादानपरिभूत आदिकर्मिको बोधिसत्त्वः सर्वज्ञताचित्तोत्पादलक्षणेनाविरहितः सर्वाग्रप्राप्तैरपि सर्वश्रावकप्रत्येकबुद्धैर्न समो बुद्धकुलाधिपत्याध्यक्षत्वात् / तद्यथा कुलपुत्र परिशुद्धमणिरत्नं चक्षुस्तिमिरदोषेणापरिशुद्धमित्याभासमागच्छति, एवमेव प्रकृतिपरिशुद्धं सर्वज्ञताचित्तोत्पादरत्नं सत्त्वा अश्रद्धानयनाज्ञानतिमिरदोषेणापरिशुद्धमिति संजानन्ति / तद्यथा कुलपुत्र सर्वविद्यौषधिसंग्रहसंप्रयुक्तो भैषज्यविग्रहो दर्शनस्पर्शनसंवासनैः सत्त्वानां व्याधीन् शमयति, एवमेव सर्वकुशलमूलोपचयप्रज्ञोपायविद्यौषधिसंगृहीतं बोधिचित्तसंप्रयुक्तं बोधिसत्त्वप्रणिधिज्ञानशरीरं श्रवणदर्शनसंवासनानुस्मृतिप्रयोगेन सत्त्वानां क्लेशव्याधीन् प्रशमति /
तद्यथा कुलपुत्र हंसलक्षणं वस्त्रं सर्वकर्दमदोषैर्न क्लिश्यते, एवमेव बोधिचित्तोत्पादहंसलक्षणवस्त्रं संसारक्लेशकर्दमदोषैर्न क्लिश्यते / तद्यथा कुलपुत्र मूर्धशल्यसंगृहीतो दारुविग्रहो न विकीर्यते, सर्वक्रियाश्चानुभवति, एवमेव बोधिचित्तोत्पादप्रणिधिमूर्धशल्यसंगृहीतं सर्वज्ञताप्रणिधिज्ञानशरीरं बोधिसत्त्वक्रियासमर्थं भवति, न च विकीर्यते सर्वज्ञताप्रणिधिशरीरत्वात् / तद्यथा कुलपुत्र शल्यविमुक्तं यन्त्रमकार्यसमर्थं भवति तान्येव दारुप्रत्यङ्गानि, एवमेव सर्वज्ञताचित्तोत्पादाध्याशयवियुक्तो बोधिसत्त्वो बुद्धधर्मपरिनिष्पादनासमर्थो भवति, एवं च ते बोध्यङ्गसंभाराः / तद्यथा कुलपुत्र राज्ञश्चक्रवर्तिनो हस्तिगर्भं नाम कालागरुरत्नम् /
तेन सह धूपितमात्रः सर्वराज्ञश्चतुरङ्गबलकायो विहायसे तिष्ठति / एवमेव सर्वज्ञताचित्तोत्पादागरुधूपितानि बोधिसत्त्वस्य कुशलमूलानि सर्वत्रैधातुकव्यतिवृत्तानि भवन्ति असंस्कृतसर्वतथागतज्ञानगगनगोचरपर्यवसानानि / तद्यथा कुलपुत्र वज्रं नेतराद्रत्नाकरादुत्पद्यते ऽन्यत्र वज्राकरात्सुवर्णाकराद्वा, एवमेव वज्रोपमः सर्वज्ञताचित्तोत्पादः / स नेतरात्सत्त्वाशयकुशलमूलरत्नाकरादुत्पद्यते ऽन्यत्र सत्त्वपरित्राणमहाकरुणावज्राकरात् सर्वज्ञज्ञानाध्यालम्बनमहासुवर्णाकराद्वा / तद्यथा कुलपुत्र अस्त्यमूला नाम वृक्षजातिः / तस्य मूलप्रतिष्ठानं नोपलभ्यते सर्वशाखापत्रपलाशसंकुसुमिता च वृक्षेषु जालीभूता च संदृश्यते, एवमेव सर्वज्ञताचित्तोत्पादस्य मूलप्रतिष्ठानं नोपलभ्यते, सर्वपुण्यज्ञानाभिज्ञासंकुसुमितश्चस सर्वलोकोपपत्तिषु महाप्रणिधानजालीभूतः संदृश्यते / तद्यथा कुलपुत्र वज्रं नेतरे भाजने तिष्ठच्छोभते, नापि च्छिद्रशुषिरभाजनेन शक्यं संधारयितुमन्यत्र अच्छिद्रभाज ऽनेन, एवमेव सर्वज्ञताचित्तोत्पादवज्रं न हीनाधिमुक्तिकेषु सत्त्वभाजनेषु मत्सरिषु दुःशीलेषु व्यापन्नचित्तेषु कुसीदेषु मुषितस्मृतिषु दुःप्रज्ञेषु शोभते, नाध्याशयविपन्नचलाचलबुद्धिसर्वभाजनेन शक्यं संधारयितुमन्यत्र बोधिसत्त्वाध्याशयरत्नभाजनेन / तद्यथा कुलपुत्र वज्रं सर्वरत्नानि निर्विध्याति, एवमेव सर्वज्ञताचित्तोत्पादवज्रं सर्वधर्मरत्नानि निर्विध्यति / तद्यथा वज्रं सर्वशैलानि भिनत्ति, एवमेव सर्वज्ञताचित्तोत्पादवज्रं सर्वदृष्टिगतशैलानि भिनत्ति /
तद्यथा कुलपुत्र भिन्नमपि वज्ररत्नं सर्वरत्नप्रतिविशिष्टं सुवर्णालंकारमभिभवति, एवमेव आशयविपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालंकारानभिभवति / (gv 406) तद्यथा कुलपुत्र भिन्नमपि वज्ररत्नं सर्वदारिद्र्यं विनिवर्तयति, एवमेव प्रतिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वसंसारदारिद्र्यं विनिवर्तयति / तद्यथा कुलपुत्र कियत्परीत्तो ऽपि वज्रधातुः सर्वमणिपाषाणभेदलक्षणः, एवमेव कियत्परीत्तारम्बणप्रसृतो ऽपि सर्वज्ञताचित्तोत्पादवज्रधातुः सर्वाज्ञानभेदलक्षणः / तद्यथा कुलपुत्र वज्ररत्नं न प्राकृतजनहस्तगतं भवति, एवमेव सर्वज्ञताचित्तोत्पादवज्ररत्नं न प्राकृताध्याशयानामित्वरकुशलमूलानां देवमनुष्याणां हस्तगतं भवति / तद्यथा कुलपुत्र रत्नपरीक्षानभिज्ञः पुरुषो वज्रमणिरत्नगुणानजानन् नास्य गुणविशेषमनुभवति, एवमेव दुष्प्रज्ञजातीयः पुरुषपुद्गलो बोधिसत्त्वचित्तमहाप्रज्ञावज्ररत्नगुणानभिज्ञो नास्य गुणविशेषमनुभवति / तद्यथा कुलपुत्र वज्रं न शक्यं जरयितुम्, एवमेव सर्वज्ञताहेतुभूतं बोधिचित्तोत्पादवज्रं न शक्यं जरयितुम् / तद्यथा कुलपुत्र वज्रं महाप्रहरणं न शक्यं महानग्नेनापि संधारयितुमन्यत्र महानारायणस्थामबलवेगेन, एवमेव सर्वज्ञताचित्तोत्पादमहावज्रप्रहरणं न शक्यं सर्वश्रावकप्रत्येकबुद्धमहानग्नैरपि संधारयितुमन्यत्र सर्वज्ञताहेतुबलोपस्तब्धाप्रमाणकुशलमूलमहानारायणस्थामप्रतिविशिष्टैर्महावभासप्राप्तैर्महाबोधिसत्त्वैः /
तद्यथा कुलपुत्र यत्र सर्वप्रहरणानि न प्रसहन्ते तत्र वज्रं प्रसहते, न प्रतिहन्यते, एवमेव यत्र सर्वश्रावकप्रत्येकबुद्धप्रणिधिज्ञानप्रहरणानि न प्रसहन्ते सत्त्वपरिपाकविनये वा त्र्यध्वकल्पचर्यादुःखसंवासे वा, तत्र सर्वज्ञताचित्तोत्पादमहावज्रप्रहरणगृहीतो बोधिसत्त्वो ऽपरिखिन्नमानसः प्रसहते, न प्रतिहन्यते / तद्यथा कुलपुत्र वज्रं न शक्यं केनचित्पृथिवी प्रदेशेन संधारयितुमन्यत्र वज्रतलेन, एवमेव सर्वश्रावकप्रत्येकबुद्धैर्बोधिसत्त्वनिर्याणप्रणिधानसंभारवज्रं न शक्यं संधारयितुमन्यत्राध्याशयबोधिचित्तोत्पादवज्रदृढपृथिवीतलेन / तद्यथा कुलपुत्र दृढवज्रतलाच्छिद्रभाजनत्वान्महासमुद्रे पानीयं न विसरति, एवमेव बोधिसत्त्ववज्राच्छिद्रदृढतलपरिणामनाप्रतिष्ठितानि बोधिसत्त्वस्य कुशलमूलानि न क्षीयन्ते सर्वभवोपपत्तिषु / तद्यथा कुलपुत्र वज्रतलप्रतिष्ठिता महापृथिवी न विदीर्यते न संसीदति, एवमेव बोधिचित्तोत्पादवज्रदृढतलप्रतिष्ठितानि बोधिसत्त्वप्रणिधानानि सर्वत्रैधातुके न विदीर्यन्ते न संसीदन्ति / तद्यथा कुलपुत्र वज्रमुदकेन न क्लिद्यते, एवमेव बोधिचित्तोत्पादवज्रं सर्वकर्मक्लेशोदकेन सर्वकर्मसंवासैर्न क्लिद्यते न स्विद्यते / तद्यथा कुलपुत्र वज्रं सर्वाग्निदाहैर्न दह्यते न संतप्यते, एवमेव सर्वज्ञताचित्तोत्पादवज्रं सर्वसंसारदुःखाग्निदाहैर्न दह्यते, सर्वक्लेशाग्नितापैर्न संतप्यते /
तद्यथा कुलपुत्र तथागतानामर्हतां सम्यक्संबुद्धानां बोधिमण्डे निषीदतां मारं योधयतां सर्वज्ञताभिसंबुद्धमानानां नान्येन पृथिवीप्रदेशेन शक्यमासनं संधारयितुमन्यत्र त्रिसाहस्रमहासाहस्रवज्रनाभिधरणितलेन, एवमेव बोधिसत्त्वानामनुत्तरायां सम्यक्संबोधौ प्रणिदधतां चर्यां चरतां पारमिताः परिपूरयतां क्षान्तिमवक्रामतां भूमिं प्रतिलभमानानां कुशलमूलानि परिणामयतां व्याकरणं संप्रतीच्छतां सर्वबोधिसत्त्वमार्गसंभारमुपस्तम्भयतां सर्वतथागतानां महाधर्ममेघान् संधारयतां ते महाकुशलमूलबलाधानवेगा नान्येन चित्तेन शक्याः संधारयितुमन्यत्र सर्वप्रणिधानज्ञानवज्रदृढनाभिना सर्वज्ञताचित्तोत्पादेन / इति हि (gv 407) कुलपुत्र एभिश्च अन्यैश्च अप्रमाणैर्यावदनभिलाप्यानभिलाप्यैर्गुणविशेषैः समन्वागतः सर्वज्ञताचित्तोत्पादः / ते ऽपि सत्त्वा एवंगुणधर्मसमन्वागता भूताश्च भविष्यन्ति च, यैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि / तस्मात्तर्हि कुलपुत्र सुलब्धास्ते लाभाः, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिमार्गसि एषां गुणानां प्रतिलाभाय //
अपि च कुलपुत्र यद्वदसि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यमिति / गच्छ कुलपुत्र, अस्य वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य अभ्यन्तरं प्रविश्य व्यवलोकय / अत्र ज्ञास्यसि यथा बोधिसत्त्वचर्यायां शिक्षितव्यम्, शिक्षमाणस्य च यादृशी गुणपरिनिष्पत्तिर्भवति //
अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयं बोधिसत्त्वं प्रदक्षिणीकृत्वा एवमाह - विवृणु आर्य अस्य कूटागारस्य द्वारम् / प्रवेक्ष्यामि / अथ खलु मैत्रेयो बोधिसत्त्वो वैरोचनव्यूहालंकारगर्भस्य कूटागारस्य द्वारमूलमुपसंक्रम्य दक्षिणेन पाणिना अच्छटाशब्दमकार्षीत् / तस्य द्वारं विवृतमभूत् / स आह - प्रविश कुलपुत्र एतत्कूटागारम् / अथ खलु सुधनः श्रेष्ठिदारकः परमाश्चर्यप्राप्तस्तत्कूटागारं प्राविशत् / तस्य समनन्तरप्रविष्टस्य तद्द्वारं संवृतमभूत् / सो ऽद्राक्षीत् तं कूटागारं विपुलविस्तीर्णं बहुयोजनशतसहस्रविस्तीर्णं गगनतलाप्रमाणं समन्तादाकाशधातुविपुलम् असंख्येयच्छत्रध्वजपताकालंकारम् असंख्येयरत्नालंकारम् /
असंख्येयमुक्ताहारप्रलम्बितालंकारम् असंख्येयरत्नहारप्रलम्बितालंकारम् असंख्येयलोहितमुक्ताहारप्रलम्बितालंकारम् असंख्येयसिंहमुक्ताहारप्रलम्बितालंकारम् असंख्येयसिंहध्वजालंकारम् असंख्येयचन्द्रार्धचन्द्रालंकारम् असंख्येयविचित्रपट्टदामाभिप्रलम्बितालंकारम् असंख्येयविविधपट्टपट्टालंकारम् असंख्येयमणिजालप्रभालंकारम् असंख्येयहेमजालालंकारम् असंख्येयरत्नपट्टालंकारम् असंख्येयरत्नसुवर्णसूत्रप्रत्युप्तालंकारम् असंख्येयघण्टामधुरनिर्घोषालंकारम् असंख्येयरत्नकिङ्किणीजालसमीरितमनोज्ञशब्दालंकारम् असंख्येयदिव्यपुष्पौघाभिप्रवर्षणालंकारम् असंख्येयदिव्यमाल्यदामाभिप्रलम्बितालंकारम् असंख्येयगन्धघटिकानिर्धूपितोपचारालंकारम् असंख्येयसुवर्णचूर्णसंप्रवर्षणालंकारम् असंख्येयहर्म्यजालालंकारम् असंख्येयगवाक्षालंकारम् असंख्येयतोरणालंकारम् असंख्येयनिर्यूहालंकारम् असंख्येयादर्शमण्डलंकारम् असंख्येयरत्नेष्टकानिचितालंकारम् असंख्येयरत्नभित्त्यलंकारम् असंख्येयस्थूणालंकारम् असंख्येयरत्नवस्त्रमेघालंकारम् असंख्येयरत्नवृक्षालंकारम् असंख्येयरत्नवेदिकालंकारम् असंख्येयरत्नपथालंकारम् असंख्येयरत्नच्छदनसर्वव्यूहालंकारम् असंख्येयभूमितलप्रतिष्ठानविचित्रव्यूहालंकारम् असंख्येयरत्ननिचितप्रासादालंकारम् असंख्येयरत्नासनालंकारम् असंख्येयमणिकन्यालंकारम् असंख्येयरत्नपट्टसंस्तृतचंक्रमालंकारम् असंख्येयजाम्बूनदसुवर्णवर्णकदलीस्तम्भसुविभक्तालंकारम् असंख्येयसर्वरत्नविग्रहालंकारम् असंख्येयबोधिसत्त्वात्मभावालंकारम् असंख्येयपक्षिगणविचित्रमनोज्ञरुतानुरवितालंकारम्
असंख्येयरत्नपद्मालंकारम् असंख्येयरत्नयष्टिसंधारणालंकारम् असंख्येयपुष्करिण्यलंकारम् असंख्येयपुण्डरीकालंकारम् (gv 408) असंख्येयरत्नसोपानालंकारम् असंख्येयरत्नवामकविरचनालंकारम् असंख्येयविचित्ररत्ननिचितभूम्यलंकारम् असंख्येयमहामणिरत्नप्रभाप्रमुक्तालंकारम् असंख्येयसर्वरत्नव्यूहालंकारम् असंख्येयगुणवर्णसमुदितालंकारम् /
तस्य च महाकूटागारस्य अभ्यन्तरे तदन्यानि कूटागारशतसहस्राण्येवंरूपव्यूहालंकृतान्येवापश्यत् असंख्येयरत्नच्छत्रध्वजपताकालंकाराणि यावदसंख्येयगुणवर्णसमुदितालंकाराणि च / तानि कूटागाराणि विपुलविस्तीर्णान्यप्रमाणाकाशकोशभूतान्यपश्यत् समन्तात् सुविभक्तानि / ते चास्य कूटागारव्यूहा अन्योन्यासंभिन्ना अन्योन्यामैत्रीभूता अन्योन्यासंकीर्णाः प्रतिभासयोगेन आभासमगमन् एकस्मिन्नारम्बणे / यथा च एकस्मिन्नारम्बणे, तथा शेषसर्वारम्बणेषु //
अथ खलु सुधनः श्रेष्ठिदारको वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य इदमेवंरूपमचिन्त्यविषयविकुर्वितं दृष्ट्वा अतुलप्रीतिवेगविवर्धितेन महाहर्षप्रामोद्येन अभिष्यन्दितकायचित्तः सर्वसंज्ञागतविधूतमानसः सर्वावरणविवर्तितचित्तः सर्वमोहविगतो ऽसंप्रमोषदिव्यनयनः सर्वशब्दासङ्गस्मृतिविज्ञप्तिश्रोत्रः सर्वमनसिकारविक्षेपविगतो ऽनावरणविमोक्षनयनानुसरणबुद्धिः सर्वदिक्स्रोतोभिमुखेन कायप्रशमेन सर्वारम्बणानावरणसंप्रेषितचक्षुः सर्वत्रानुगतेन अभिनिर्हारबलेन सर्वशरीरेण प्रणिपतितः //
समनन्तरप्रणिपतितमात्रश्च सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्य अधिष्ठानबलेन सर्वेषु तेषु कूटागारेष्वभ्यन्तरप्रविष्टमात्मानं संजानीते स्म / तेषु च सर्वकूटागारेषु विविधवैमात्र्यगतान्यचिन्त्यविषयविकुर्वितान्यद्राक्षीत् / क्वचित्कूटागारे यत्र मैत्रेयेण बोधिसत्त्वेन प्रथमं प्रणिधानचित्तमुत्पादितमनुत्तरायां सम्यक्संबोधौ, यन्नामगोत्रोपपन्नेन येन कुशलमूलेन यया समादापनया येन कल्याणमित्रसंचोदनेन यदायुःप्रमाणेन यन्नामके कल्पे यत्रतथागते यद्व्यूहे यादृश्यां पर्षदि यादृशेन प्रणिधानविशेषाभिनिर्हारेण, तत्सर्वमद्राक्षीत्, संजानीते अनुसरति / यावच्च तेषां सत्त्वानां तस्य च तथागतस्य तेन समयेनायुःप्रमाणमभूत्, तावत्काले तस्य तथागतस्य पादमुलगतमात्मानं संजानीते स्म / तां च सर्वां क्रियामपश्यत् //
क्वचित्कूटागारे यत्र मैत्रेयेण बोधिसत्त्वेन प्रथमो मैत्रसमाधिः प्रतिलब्धः, यत उपादाय अस्य मैत्रेय इति संज्ञोदपादि तदद्राक्षीत् / क्वचिद्यत्र चर्याः चीर्णाः, क्वचिद्यत्र पारमिताः परिपूरिताः, क्वचिद्यत्र क्षान्तिरवतीर्णा, क्वचिद्यत्र भूमिरवक्रान्ता, क्वचिद्यत्र बुद्धक्षेत्रव्यूहाः परिगृहीताः, क्वचिद्यत्र तथागतशासनं संधारितम्, क्वचिद्यत्र अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, क्वचिद्यत्र व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, यथा व्याकृतो येन व्याकृतो यावच्चिरेण च व्याकृतस्तत्सर्वमद्राक्षीत् / स क्वचित्कूटागारे मैत्रेयं बोधिसत्त्वं चक्रवर्तिराजभूतं सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयमानमपश्यत् / क्वचिल्लोकपालभूतं सर्वलोकहितसुखं सत्त्वानामुपसंहरमाणम्, क्वचिच्छक्रभूतं कामगुणरतिं सत्त्वानां विनिवर्तयमानम्, क्वचिद्ब्रह्मभूतं ध्यानाप्रमाणरतिं सत्त्वानां संवर्णयमानम्, क्वचित्सुयामदेवाधिपतिभूतमप्रमाणगुणान् सत्त्वानां संवर्णयमानम्, क्वचित् संतुषितदेवेश्वरभूतमेकजातिप्रतिबद्धबोधिसत्त्वगुणानुद्भावयमानम्, (gv 409) क्वचित्सुनिर्मितदेवराजभूतं सर्वबोधिसत्त्वनिर्माणव्यूहं देवपर्षदि संदर्शयमानम्, क्वचिद्वशवर्तिदेवराजभूतं सर्वधर्मवशवर्तितां देवानां संप्रकाशयमानम्, क्वचिन्मारत्वं कारयमाणम्, सर्वसंपत्त्यनित्यतां देवानां देशयमानम्, क्वचिदसुरेन्द्रभवनोपपन्नं सर्वमानमददर्पप्रहाणाय महाज्ञानसागरविगाहनाय धर्मज्ञानसागरविगाहनाय धर्मज्ञानमायाप्रतिलम्भाय असुरपर्षदि धर्मं देशयमानमपश्यत् / क्वचित्कूटागारे यमलोकमद्राक्षीत् /
तत्र मैत्रेयं बोधिसत्त्वं प्रभया महानरकानवभास्य नरकोपपन्नानां सत्त्वानां सर्वनिरयदुःखं प्रशमयमानमद्राक्षीत् / क्वचित्कूटागारे प्रेतभवनमद्राक्षीत् / तत्र मैत्रेयं बोधिसत्त्वं प्रेतभवनोपपन्नानां सत्त्वानां विपुलमन्नपानमुपसंहृत्य क्षुत्पिपासां प्रशमयमानमद्राक्षीत् / क्वचित्कूटागारे तिर्यग्योनौ विविधोपपत्यायतनविमात्रतया तिर्यग्योनिगतान् सत्त्वान् विनयन्तमद्राक्षीत् / क्वचित्कूटागारे महाराजिकदेवपर्षदि लोकपालानां धर्मं देशयमानमपश्यत् / कचिच्छक्रदेवराजपर्षदि क्वचित्सुयामदेवराजपर्षदि क्वचित्संतुषितदेवराजपर्षदि क्वचित्सुनिर्मितदेवराजपर्षदि क्वचिद्वशवर्तिदेवराजपर्षदि क्वचित्कूटागारे ब्रह्मेन्द्रपर्षदि मैत्रेयं बोधिसत्त्व महाब्रह्मभूतं धर्मं देशयमानपश्यत् / क्वचिन्नागमहोरगपर्षदि क्वचिद्यक्षराक्षसपर्षदि क्वचिद्गन्धर्वकिन्नरपर्षदि क्वचिदसुरदानवेन्द्रपर्षदि क्वचिन्महोरगेन्द्रपर्षदि क्वचिन्मनुष्येन्द्रपर्षदि क्वचित्कूटागारे देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यपर्षदि मैत्रेयं बोधिसत्त्वं धर्मं देशयमानमपश्यत् / क्वचिच्छ्रावकपर्षदि क्वचित्प्रत्येकबुद्धपर्षदि क्वचिद्बोधिसत्त्वपर्षदि क्वचित्कूटागारे प्रथमचित्तोत्पादिकानामादिकर्मिकाणां बोधिसत्त्वानां मैत्रेयं बोधिसत्त्वं धर्मं देशयमानमपश्यत् / क्वचिच्चर्याप्रतिपन्नानां क्वचित्क्षान्तिप्रतिलब्धानामविनिवर्तनीयानां क्वचिदेकजातिप्रतिबद्धानामभिषेकप्राप्तानां क्वचित्कूटागारे प्रथमभूमिस्थितानां बोधिसत्त्वानां भूमिवैशेषिकतां संवर्णयमानमपश्यत् /
क्वचिद्यावद्दशभूमिस्थितैर्बोधिसत्त्वैः सह मैत्रेयं बोधिसत्त्वं सर्वभूमिवैशेषिकतां संगायन्तमपश्यत् / क्वचित्सर्वपारमितापरिपूरये ऽप्रमाणतां क्वचित्सर्वशिक्षाभिमुखावतारसमतां क्वचित्समाधिमुखप्रवेशविस्तीर्णतां क्वचिद्विमोक्षनयगम्भीरतां क्वचिच्छान्तध्यानसमाधिसमापत्त्यभिज्ञाविषयस्फरणतां क्वचिद्बोधिसत्त्वचर्याविनयोपायमुखप्रवेशतां क्वचित्प्रणिधानाभिनिर्हारविस्तीर्णतां क्वचित्कूटागारे मैत्रेयं बोधिसत्त्वं चंक्रमाभियुक्तं सभागचरितैर्बोधिसत्त्वैः सार्धं लोकहितक्रियार्थं विविधशिल्पशानशास्त्रविशेषां सर्वसत्त्वहितसुखाधानोपसंहिततां संगायमानमपश्यत् / क्वचिदेकजातिप्रतिबद्धैर्बोधिसत्त्वैः सार्धं सर्वबुद्धज्ञानाभिषेकमुखं संगायन्तमपश्यत् / क्वचित्कूटागारे मैत्रेयं बोधिसत्त्वं चंक्रमाभियुक्तं वर्षशतसहस्रैरनिक्षिप्तधुरमपश्यत् / क्वचिदुद्देशस्वाध्यायप्रयुक्तं क्वचिद्धर्ममुखप्रत्यवेक्षणप्रयुक्तं क्वचिद्धर्मसंगायनप्रयुक्तं क्वचिद्धर्मलेखनप्रयुक्तं क्वचिन्मैत्रीसमाधिसमापन्नं क्वचित्सर्वध्यानाप्रमाणानि समापन्नं क्वचिसर्वकृत्स्नायतनविमोक्षसमापन्नं क्वचित्कूटागारे बोधिसत्त्वाभिज्ञाभिनिर्हारप्रयोगसमाधिसमापन्नं मैत्रेयं बोधिसत्त्वमपश्यत् //
क्वचित्कूटागारे निर्माणवतीं बोधिसत्त्वसमाधिं समापन्नान् बोधिसत्त्वानपश्यत् / तेषां च सर्वशरीररोममुखेभ्यः सर्वनिर्माणमेघान्निश्चरतो ऽपश्यत् / केषांचित्सर्वरोममुखेभ्यो देवनिकायमेघान्निश्चरतो ऽपश्यत् / केषांचिन्नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालचक्रवर्तिमेघान् केषांचित्कोट्टराजमेघान् केषांचिद्राजकुमारमेघान् केषांचिच्छ्रेष्ठ्यमात्यगृहपतिमेघान् केषांचिच्छ्रावकप्रत्येकबुद्धबोधिसत्त्वमेघान् केषांचित्तथागतकायमेघान् केषांचित्सर्वशरीररोममुखेभ्यो ऽप्रमाणान् सर्वसत्त्वनिर्माणमेघान्निश्चरतो ऽपश्यत् / केषांचित्सर्वरोममुखेभ्यो विविधानि धर्ममुखानि निश्चरमाणान्यश्रौषीत् - यदुत बोधिसत्त्वगुणवर्णमुखानि दानपारमितामुखानि शीलक्षान्तिवीर्यध्यानप्रज्ञोपायप्रणिधानबलज्ञानपारमितामुखानि संग्रहवस्तुध्यानाप्रमाणसमाधिसमापत्त्यभिज्ञाविद्याधारणीप्रतिभानसत्यप्रतिसंविच्छमथविपश्यनाविमोक्षमुखप्रतीत्यसमुत्पादप्रतिशरणधर्मोद्दानस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गश्रावकयानकथाप्रत्येकबुद्धयानकथामहायानकथाभूमिक्षान्तिचर्याप्रणिधानमुखानि एवं सर्वधर्ममुखप्रवेशशब्दान्निश्चरतो ऽश्रौषीत् / क्वचित्कूटागारे तथागतपर्षन्मण्डलसंनिपातानद्राक्षीत् / तेषां च तथागतानां नानाविमात्रतां जन्मकुलविमात्रतां कायव्यूहाप्रमाणविमात्रतामायुर्विमात्रतां क्षेत्रविमात्रतां कल्पविमात्रतां धर्मदेशनाविमात्रतां निर्माणमुखविमात्रतां सद्धर्मस्थितिविमात्रतां यावदशेषसर्वाकारपर्षन्मण्डलविमात्रतामद्राक्षीत् //
मध्ये च वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य एकमुदारतरं विस्तीर्णतरं च तदन्यसर्वकूटागाराशेषसर्वव्यूहातिरिक्ततरव्यूहसमलंकृतं कूटागारमद्राक्षीत् / स तस्य कूटागारस्याभ्यन्तरे त्रिसाहस्रमहासाहस्रं लोकधातुमद्राक्षीत् / तस्मिंश्च त्रिसाहस्रमहासाहस्रे लोकधातौ कोटीशतं चातुर्द्वीपिकानां कोटीशतं जम्बुद्वीपकानां कोटीशतं तुषितभवनानामद्राक्षीत् / स तत्र जम्बुद्वीपेषु मैत्रेयं बोधिसत्त्वं पद्मगर्भगतं जायमानमपश्यत् / शक्रब्रह्माभ्यां प्रतीक्ष्यमाणं सप्तपदानि प्रक्रान्तं दश दिशो व्यवलोकयमानं महासिंहनादं नदन्तं सर्वकुमारभूमिं संदर्शयमानं अन्तःपुरमध्ये गतमुद्यानभूमिं निष्क्रान्तं सर्वज्ञताभिमुखमभिनिष्क्रम्य प्रव्रजन्तं दुष्करचर्यां संदर्शयन्तमाहारं परिभुञ्जानं बोधिमण्डमुपसंक्रान्तं मारं धर्षयमाणं बोधिं विबुध्यमानं बोधिवृक्षमनिमिषं निरीक्षमाणं महाब्रह्मणाध्येष्यमाणं धर्मचक्रं प्रवर्तयमानं देवभवनेषु प्रविशन्तमद्राक्षीत् / नानाभिसंबोधिधर्मचक्रप्रवर्तनविषयसंदर्शनविमात्रताभिर्नानाकल्पनामप्रवर्तनविमात्रताभिर्नानायुःप्रमाणविमात्रताभिर्नानापर्षन्मण्डलव्यूहविमात्रताभिर्नानाक्षेत्रविशुद्धिनयसंदर्शनविमात्रताभिः नानाचर्याप्रणिधानप्रभावनाविमात्रताभिः नानाधर्मदेशनाव्यवस्थानसर्वपरिपाचनोपायविमात्रताभिः नानाधातुविभङ्गशासनस्थित्यधिष्ठानसंदर्शन विमात्रताभिः / सर्वत्र च तत्र सुधनः श्रेष्ठिदारकः पादमूलगतमात्मानं संजानीते स्म //
स सर्वपर्षन्मण्डलेषु सर्वक्रियासंदर्शनेषु सर्वायुःप्रमाणविमात्रतासु असंप्रमुषितेन स्मृत्यधिष्ठानज्ञानेन सर्वसंज्ञागतव्यवसितायां ज्ञानभूमौ स्थितो यावन्ति तेषु सर्वकूटागारेषु (gv 411) घण्टाकिङ्किणीजालतूर्यसंगीतिप्रभृतीन्यारम्बणानि सत्त्वेभ्यस्तेभ्यो ऽचिन्त्यमेघनिगर्जितनिर्घोषशब्दं निश्चरन्तमश्रौषीत् / क्वचिद्बोधिचित्तविमात्रतां क्वचित्पारमिताचर्याप्रणिधानविमात्रतां क्वचिद्भूम्यप्रमाणविमात्रतां क्वचिदभिज्ञाचिन्त्यविकुर्वितविमात्रतां क्वचित्तथागतपूजाविमात्र्यविमात्रतां क्वचिद्बुद्धक्षेत्रव्यूहविमात्रतां क्वचिदप्रमाणतथागतधर्ममेघविमात्रताम् एवं सर्वधर्मनिर्घोषान् यथापूर्वपरिकीर्तितानश्रौषीत् / क्वचित्सर्वज्ञताप्रस्थानशब्दमश्रौषीत् - अमुष्मिन् लोकधातावमुको नाम बोधिसत्त्वो बोधिचित्तमुत्पादयति अमुकं धर्ममुखं श्रुत्वा अमुकेन कल्याणमित्रेण समादापितो ऽमुकस्य तथागतस्य पादमूले एवंनाम्नि कल्पे ईदृशे बुद्धक्षेत्रे ईदृक्पर्षन्मध्यगते ईदृशं कुशलमूलमूलमवरोप्य ईदृशांस्तथागतगुणान् श्रुत्वा ईदृशेनाध्याशयेन ईदृश्या प्रणिधानविमात्रतया / इयतः कल्पान् बोधिसत्त्वचर्यां चरित्वा इयद्भिः कल्पैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते / ईदृग्नामधेयः ईदृशेन आयुःप्रमाणेन ईदृश्या बुद्धक्षेत्रगुणव्यूहासंपदा / ईदृशेन प्रणिधानविशेषेण ईदृशेन सत्त्वविनयेन ईदृशेन श्रावकप्रत्येकबुद्धबोधिसत्त्वसंनिपातेन / तस्य परिनिर्वृतस्य इयतः कल्पान् सद्धर्मः स्थास्यति, इयान् समर्थो भविष्यति / क्वचिन्निर्घोषमश्रौषीत् - अमुष्मिंल्लोकधातावमुको नाम बोधिसत्त्वो दानपारमितायां चरन्नीदृशानि दुष्करपरित्यागशतानि करोति /
अमुको बोधिसत्त्वः शीलं रक्षति, क्षान्तिं भावयति, वीर्यमालभते, ध्यानानि समापद्यते प्रज्ञाविचयप्रयुक्तः / अमुको बोधिसत्त्वः सद्धर्मपर्येष्टिहेतो राजपरित्यागं करोति, रत्नपरित्यागं पुत्रपरित्यागं भार्यापरित्यागं हस्तपादनयनोत्तमाङ्गपरित्यागं करोति, अग्निप्रपतनं करोति / अमुको नाम बोधिसत्त्वः तथागतशासनमभ्युद्गतो धर्मभाणकत्वं करोति, धर्मदानं ददाति, धर्मयज्ञं यजति, धर्मध्वजमुच्छ्रयति, धर्मभेरीं पराहन्ति, धर्मशङ्खमापूरयति, धर्मवर्षं प्रवर्षति, तथागतशासनं धारयति, तथागतचैत्यान्यलंकरोति, तथागतविग्रहान् कारयति, सत्त्वसुखोपधानमुपसंहरति, सद्धर्मकोशमारक्षति / क्वचिन्निर्घोषमश्रौषीत् - अमुष्मिंल्लोकधातावमुको नाम तथागत एतर्हि तिष्ठति ध्रियते यापयति, धर्मं च देशयति एवंनाम्नाभिषेकेण ईदृश्यां पर्षदि ईदृशे बुद्धक्षेत्रे ईदृशे कल्पे ईदृशेनायुःप्रमाणेन ईदृश्या धर्मदेशनया ईदृशेन सत्त्वविनयेन ईदृक्प्रणिध्यभिसंबोधेन / एवमेकैकस्माद् घण्टाकिङ्किणीजालतूर्यादिकादारम्बणादप्रमाणधर्ममुखविमात्रतानिर्घोषानश्रौषीत् / सर्वेषां च तेषां निर्घोषाणां श्रवेण सुधनः श्रेष्ठिदारको विपुलप्रीतिवेगाभिष्यन्दित चित्तस्तानि धर्ममुखानि शृणोति / क्वचिद्धारणीमुखानि प्रत्यलभत, क्वचित्प्रणिधानमुखानि, क्वचित्क्षान्तिमुखानि, क्वचिच्चर्यामुखानि, क्वचित्प्रणिधानमुखानि, क्वचित्पारमितामुखानि, क्वचिदभिज्ञामुखानि, क्वचिद्विद्याज्ञानालोकमुखानि, क्वचिद्विमोक्षमुखानि, क्वचित्समाधिप्रवेशमुखानि प्रत्यलभत //
तेभ्यश्च आदर्शमण्डलेभ्यो ऽपरिमाणप्रतिभासव्यूहविज्ञप्तिमपश्यत् / क्वचित्तथागतपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचिद्बोधिसत्त्वपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचिच्छ्रावकपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचित्प्रत्येकबुद्धपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचित्तथागतपर्षन्मण्डलप्रतिभासविज्ञप्तिं (gv 412) क्वचित्संक्लिष्टक्षेत्रप्रतिभासविज्ञप्तिं क्वचिद्विशुद्धक्षेत्रप्रतिभासविज्ञप्तिं क्वचित्संक्लेष्टविशुद्धक्षेत्रप्रतिभासविज्ञप्तिं क्वचित्सर्वबुद्धैकलोकधातुप्रतिभासविज्ञप्तिं क्वचिद्बुद्धलोकधातुप्रतिभासविज्ञप्तिं क्वचित्परीत्तलोकधातुप्रविभासविज्ञप्तिं क्वचिन्महद्गतलोकधातुप्रतिभासविज्ञप्तिं क्वचित्सूक्ष्मलोकधातुप्रतिभासविज्ञप्तिं क्वचिदुदारलोकधातुप्रतिभासविज्ञप्तिं क्वचिदिन्द्रजालप्रवेशलोकधातुप्रतिभासविज्ञप्तिं क्वचिद्व्यत्यस्तलोकधातुप्रतिभासविज्ञप्तिं क्वचिदधमूर्ध्वंलोकधातुप्रतिभासविज्ञप्तिं क्वचित्समधरणीतलप्रवेशलोकधातुप्रतिभासविज्ञप्तिं क्वचिन्नरकतिर्यक्प्रेतावभासलोकधातुप्रतिभासविज्ञप्तिं क्वचिद्देवमनुष्याकीर्णलोकधातुप्रतिभासविज्ञप्तिमद्राक्षीत् / तेषु च चंक्रमेषु निषद्य स्वासनेषु च असंख्येयान् बोधिसत्त्वान् नानाकार्यप्रयुक्तानपश्यत् / कांश्चिच्चंक्रम्यमाणान् कांश्चिद्व्यायच्छतः कांश्चिद्विपश्यतः कांश्चिन्महाकरुणया स्फरमाणान् कांश्चिद्विविधान् शास्त्रनयान् लोकार्थसंप्रयुक्तानभिनिर्हरमाणान् कांश्चिदुद्दिशतः कांश्चित्स्वाध्यायमानान् कांश्चिल्लिखितः कांश्चित्परिप्रश्नयतः कांश्चित्र्त्रिस्कन्धदेशनापरिणमनाभियुक्तान् कांश्चित्प्रणिधानान्यभिनिर्हरमाणान् //
तेभ्यश्च स्तम्भेभ्यः सर्वमणिराजप्रभाजालानि निश्चरन्ति व्यपश्यत् / क्वचिन्नीलवर्णानि क्वचित्पीतवर्णानि क्वचिल्लोहितवर्णानि क्वचिदवदातवर्णानि क्वचित्स्फटिकवर्णानि क्वचित्तपनीयवर्णानि क्वचिदिन्द्रनीलवर्णानि क्वचिदिन्द्रायुधवर्णानि क्वचिज्जाम्बूनदसुवर्णवर्णानि क्वचित्सर्वप्रभासवर्णानि कायचित्तप्रीतिसंजननपरमनयनाभिरामाणि / तांश्च जाम्बूनदसुवर्णवर्णकदलीस्तम्भान् सर्वरत्नविग्रहांश्च पुष्पमेघावलम्बितापाणीनद्राक्षीत् / माल्यदामपाणीन् छत्रध्वजपताकापाणीन् गन्धधूपविलेपनपाणीन् विविधरत्नविचित्रसुवर्णसूत्रपाणीन् विविधमुक्ताहारपाणीन् नानारत्नहारपाणीन् सर्वव्यूहपरिगृहीतपाणीन् / कांश्चिदवनतचूडामणिमकुटान् अनिमिषनयनान् कृताञ्जलिपुटान् नमस्यतो ऽपश्यत् / तेभ्यश्च मुक्ताहारेभ्यः सर्वगन्धपरिभाविताष्टाङ्गोपेतसूक्ष्मजलधरान् प्रस्रवमाणानपश्यत् / तेभ्यश्च वैडूर्यमणिहारजालेभ्यो दीर्घपङ्क्तीन् क्षरन्तीनपश्यत् / तानि च रत्नच्छत्राणि सर्वालंकारव्यूहोपशोभितान्यपश्यत् / तां च रत्नघण्टाकिङ्किणीजालपट्टदामकलापमणिशलाकाविचित्रमणिरत्नकोशसमलंकृतगर्भामपश्यत् / ताभ्यश्च पुष्किरिणीभ्यो ऽसंख्येयानि रत्नपद्मोत्पलकुमुदपुण्डरीकान्यभ्युद्गतान्यपश्यत् / कानिचिद्वितस्तिप्रमाणमात्राणि कानिचिद्व्यामप्रमाणमात्राणि कानिचिच्छकटचक्रप्रमाणमात्राणि / तेषु च नानारूपान् व्यूहानपश्यत् / यदुत स्त्रीरूपान् पुरुषरूपान् दारकरूपान् दारिकारूपान् शक्ररूपान् ब्रह्मरूपान् लोकपालरूपान् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरूपान् श्रावकप्रत्येकबुद्धबोधिसत्त्वरूपान् सर्वजगद्रूपसंस्थानशरीरान् विचित्रनानावर्णान् कृताञ्जलिपुटानवनतकायान्नमस्यतो ऽपश्यत् / द्वात्रिंशन्महापुरुषलक्षणसमलंकृतकायांश्च तथागतविग्रहान् पर्यङ्कनिषण्णानपश्यत् //
या च सा वैडूर्यतलाष्टापदमहापृथिवी, तत्र एकैकतो ऽष्टापदादचिन्त्याः प्रतिभासविज्ञप्तीरपश्यत् / क्वचित्क्षेत्रप्रतिभासविज्ञप्तिं क्वचिद्बुद्धप्रतिभासविज्ञप्तिम् / यावन्तश्च तेषु (gv 413) कूटागारेष्वलंकारव्यूहाः, तान् सर्वानेकैकस्मिन्नष्टापदे प्रतिभासप्राप्तानपश्यत् / तेषां च रत्नवृक्षाणां सर्वत्र पुष्पफलकोशेभ्यो नानासंस्थानविचित्रसुवर्णरूपार्धकायानपश्यत् / क्वचिद्बुद्धार्धकायान् क्वचिद्बोधिसत्त्वार्धकायान् क्वचिद्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगार्धकायान् क्वचिच्छक्रब्रह्मलोकपालार्धकायान् क्वचिच्चक्रवर्तिमनुष्येन्द्रार्धकायान् क्वचिद्राजकुमारश्रेष्ठिगृहपत्यमात्यस्त्रीपुरुषदारकदारिकाभिक्षुभिक्षुण्युपासकोपासिकार्धकायान् कांश्चित्पुष्पदामावलम्बितपाणीन् कांश्चिद्रत्नहाराभिप्रलम्बितपाणीन् कांश्चित्सर्वव्यूहपरिगृहीतपाणीन् कांश्चिदवनतकायान् कृताञ्जलिपुटाननिमिषनयनान् नमस्यतः कांश्चिदभिष्टुवतः कांश्चित्समापन्नान् कांश्चित्सुवर्णवर्णावभासान् कांश्चिद्रूप्यवर्णावभासान् कांश्चित्तुषारसुकुमारवर्णावभासान् कांश्चिदिन्द्रनीलमणिवर्णावभासान् कांश्चिद्विरोचनमणिरत्नावभासान् कांश्चित्सर्वरत्नवर्णावभासान् कांश्चिच्चम्पकपुष्पवर्णावभासान् कांश्चित्प्रभाकायावभासान् कांश्चिल्लक्षणविचित्रात्मभावानपश्यत् / तेभ्यश्च अर्धचन्द्रेभ्यो ऽसंख्येयांश्चन्द्रसूर्यग्रहनताराप्रतिभासान् निश्चर्य दशदिशो ऽवभासयमानानपश्यत् //
ताश्च प्रासादविमानकूटागारभित्तीः सर्वरत्नाष्टापदविचित्रा अपश्यत् / तेषु च सर्वरत्नाष्टापदेषु मैत्रेयस्य बोधिसत्त्वस्य सर्वबोधिसत्त्वचर्याक्रममपश्यत् यथा पूर्वं बोधिसत्त्वाश्चर्यामचरन् / क्वचिदष्टापदे मैत्रेयस्य बोधिसत्त्वस्य शिरःप्रदानमपश्यत् /
क्वचिन्नेत्रप्रदानं क्वचिद्वस्त्रप्रदानं क्वचिच्चूडामणिरत्नप्रदानं क्वचित्सद्धर्मचूडामणिप्रदानं क्वचिद्दन्तप्रदानं क्वचिज्जिह्वाप्रदानं कचित्कर्णनासाप्रदानं क्वचिद्धृदयप्रदानं क्वचिन्मज्जमांसप्रदानं क्वचिद्रुधिरप्रदानं क्वचिच्छविचर्मप्रदानं क्वचिन्मांसनखप्रदानं क्वचित्सजालाङ्गुलिप्रदानं क्वचित्सर्वशरीरप्रदानं क्वचित्पुत्रदुहितृभार्याप्रदानं क्वचिद्रत्नराशिप्रदानं क्वचिद्ग्रामनगरनिगमजनपदराष्ट्रराजधानीप्रदानं क्वचिज्जम्बुद्वीपप्रदानं क्वचिच्चतुर्द्वीपप्रदानं क्वचित्सर्वराज्यैश्वर्यप्रदानं क्वचिद्भद्रराजासनप्रदानं क्वचिद्दासदासीप्रदानं क्वचिदन्तःपुरप्रदानं क्वचिदुद्यानतपोवनप्रदानं क्वचिच्छत्रध्वजपताकाप्रदानं क्वचित्पुष्पमाल्यगन्धानुलेपनप्रदानं क्वचिद् ग्लानप्रत्ययभैषज्यप्रदानं क्वचित्सर्वान्नपानविधिप्रदानं क्वचित्सर्वोपकरणप्रदानं क्वचित्सर्वोपाश्रयप्रदानं क्वचिद्रत्नकांस्यपात्रीप्रदानं क्वचिद्वररथप्रदानं क्वचिद्बन्धनागारगतान् विमोक्षयन्तं क्वचिद्वध्यान् निर्मोक्षयन्तं क्वचिद्बालांश्चिकित्समानं क्वचित्प्रनष्टमार्गाणां मार्गमुपदर्शयन्तं क्वचिद्दाशभूतं नदीपथे नावं वाहयमानं क्वचिद्बालाहाश्वराजभूतं महासमुद्रे राक्षसीद्वीपगतान् सत्त्वान् परित्रायमाणं क्वचिन्महर्षिभूतं शास्त्राण्यभिनिर्हरमाणं क्वचिच्चक्रवर्तिभूतं दशकुशलेषु कर्मपथेषु सत्त्वान् प्रतिष्ठापयमानं क्वचिद्वैद्यभूतमातुराणां चिकित्सां प्रयोजयमानं क्वचिन्मातापितरमुपतिष्ठन्तं क्वचित्कल्याणमित्राणि शुश्रूषन्तं क्वचिच्छ्रावकवर्णरूपेण सत्त्वविनयेन प्रयुक्तं क्वचित्प्रत्येकबुद्धवर्णरूपेण क्वचिद्बोधिसत्त्ववर्णरूपेण
क्वचिद्बुद्धवर्णरूपेण क्वचित्सत्त्वविनयप्रयुक्तं क्वचित्सत्त्वजातकविशेषैरुपपत्तिं संदर्श्य सत्त्वान् परिपाचयमानं क्वचिद्धर्मभाणकरूपेण तथागतशासनोपगतमुद्दिशन्तं स्वाध्यायमानं योनिशोमीमांसाप्रयुक्तं तथागतचैत्यान्यलंकुर्वाणं तथागतविग्रहान् (gv 414) कारयमाणं बुद्धपूजायां सत्त्वान् समादापयमानं गन्धानुलेपनप्रदानं सुगन्धतैलाभ्यञ्जनपुष्पमाल्यारोपणादिसर्वाकारबुद्धपूजाप्रयुक्तं दशसु कुशलमूलेषु कर्मपथेषु सत्त्वान् प्रतिष्ठापयमानं पञ्चसु शिक्षापदेषु अष्टाङ्गपोषधेषु बुद्धधर्मसंघशरणगमनेषु प्रव्रज्यायां धर्मश्रवणे उद्देशस्वाध्याययोनिशोमनसिकारेषु सत्त्वान्नियोजयमानं धर्मसांकथ्याय सिंहासनसंनिषण्णं बुद्धबोधिंविवृण्वन्तम् /
इति हि यावन्मैत्रेयो बोधिसत्त्वो ऽसंख्येयैः कल्पकोटीनियुतशतसहस्रैः षट्सु पारमितासु चीर्णचरितः, तत्सर्वं सुधनः श्रेष्ठिदारकस्तत एकैकस्मादष्टापदादपरापरैराकारैरद्राक्षीत् / स क्वचित्कूटागारे यावन्ति मैत्रेयेण बोधिसत्त्वेन कल्याणमित्राणि पर्युपासितानि तेषां विकुर्वितव्यूहानद्राक्षीत् / सर्वेषु च तेषु कल्याणमित्रेषु उपसंक्रान्तमाभाष्यमाणमात्मानं संजानीते स्म - एहि सुधन स्वागतम् / मासि क्लान्तः / पश्येमां बोधिसत्त्वाचिन्त्यताम् //
इति हि सुधनः श्रेष्ठिदारकस्तत एकैकस्मात्कूटागारादेकैकस्मादारम्बणादिमानि च अन्यानि च अविचिन्त्यव्यूहविषयविकुर्वितान्यद्राक्षीत् / असंप्रमुषितेन स्मृतिबलाधानेन समन्तदिग्व्यवचारितया चक्षुःपरिशुद्ध्या अनावरणेन विपश्यनाकौशल्यज्ञानेन बोधिसत्त्वज्ञानाधिष्ठानवशिताप्रतिलम्भेन बोधिसत्त्वसंज्ञागतप्रसृतायां ज्ञानभूमौ स्थितः, तत्सर्वमनन्तव्यूहविषयविकुर्वितमद्राक्षीत् / तद्यथा पुरुषः सुप्तः स्वप्नान्तरगतो विविधान् रूपारम्बणविशेषान् पश्येत् यदुत गृहविमानरमणीयानि वा ग्रामनगरनिगमजनपदरमणीयानि वा वस्त्रान्नपानपरिभोगरमणीयानि वा गीतवाद्यतूर्यसंगीतिविविधरतिक्रीडारमणीयानि वा पश्येत् / उद्यानारामतपोवनरमणीयानि वा वृक्षनदीपुष्किरिणीपर्वतरमणीयानि वा मातापितृमित्रज्ञातिसालोहितसमवधानगतं वा आत्मानं संजानीते / महासमुद्रं वा पश्येत् सुमेरुं वा पर्वतराजानं सर्वदेवभवनानि वा जम्बुद्वीपं वा, अनेनकयोजनशतस्थितं वा आत्मानं संजानीते / तच्च गृहं वा अवचरकं वा विपुलं पश्येत् / सर्वगुणालंकारसमवसृतं दिवसमेव संजानीते / न रात्रिदीर्घं च संजानीते न ह्रस्वम्, न स्वप्न इति संजानीते / सुखोपस्थानं चात्मनः पश्येत् / स प्रस्रब्धकायसंस्कारो विगतस्त्यानमिद्धः सर्वरत्यपकर्षितो विपुलप्रीतिसुखसंवेदी दीर्घं च विपुलं च संजानीते / दिवसं वा सप्ताहं वा अर्धमासं वा संवत्सरं वा वर्षशतं वा ततो वा उत्तरि संजानीते / प्रतिविबुद्धश्च तत्सर्वमनुस्मरेत् /
एवमेव सुधनः श्रेष्ठिदारकः बोधिसत्त्वाधिष्ठानेन सर्वत्रैधातुकस्वप्नसमवसरणज्ञानेन परीत्तसंज्ञागतनिरुद्धचेता विपुलमहद्गतानावरणबोधिसत्त्वसंज्ञागतविहारी बोधिसत्त्वविषयानुगतो ऽचिन्त्यबोधिसत्त्वनयप्रवेशानुसृतबुद्धिस्तत्सर्वव्यूहविकुर्वितमपश्यत् संजानीते ऽनुभवति विचारयति निमित्तीकरोति आलक्षयति, तत्र च स्थितमात्मानं संजानीते / तद्यथा ग्लानः पुरुषश्चरमे चित्तोत्पादे वर्तमान उपपत्यानन्तर्यचित्ते प्रत्युपस्थिते कर्मभवे आमुखीभूते यथाकृतकर्मोपचयविपाकेन अशुभकर्मप्रत्ययेन नरकं वा पश्येत्, तिर्यग्योनिं वा प्रेतविषयं वा यमपुरुषान् वा दृढप्रहरणगृहीतान् रुषितानाक्रोशतो रुदिताक्रोशितशब्दं च नारकाणां श्रुणुयात् / तां च क्षारनदीं पश्येत्, तांश्च क्षुरधारापर्वतान्, तां च कूटाशाल्मलीम्, तच्च असिपत्रवनं पश्येत् / तांश्च महानरकानादीप्तान् (gv 415) संप्रज्वलितानेकज्वालीभूतान्, ताश्च लोहकुम्भीः पश्येत्, ताः कारणाः कार्यमाणान्, तांश्च वेदनामनुभूयमानान् संजानीत् / तानि च नैरयिकान्यग्निसंतापदुःखानि पश्येदनुभवेत् / शुभकर्मोपचयेन वा देवभवनं पश्येत् / देवपर्षदप्सरोगणं सर्वव्यूहालंकारांश्च पश्येत्, उद्यानविमाननदीपुष्करिणीरत्नपर्वतकल्पवृक्षपरिभोगान् वा पश्येदनुभवेत्, तदायुःकालं च संजानीयात् - इतश्च्युतस्तत्र वोपपन्नो ऽनन्तर्हित एव कर्मविषयाचिन्त्यतया एतां क्रियां पश्येत् संजानीत अनुभवेत् / एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वकर्मविषयाचिन्त्यतया तत्सर्वव्यूहविकुर्वितमद्राक्षीत् / तद्यथा भूतग्रहाविष्टः पुरुषो विविधानि रुपगतानि पश्यति / यच्च परिपृच्छते, तद्व्याकरोति /
एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वज्ञानाधिष्ठानबलेन तान् सर्वव्यूहानद्राक्षीत् / तद्यथा नागभवनप्रविष्टः पुरुषो नागसंज्ञागतप्रवेशेन दिवसं वा सप्ताहं वा अर्धमासं वा मासं वा संवत्सरं वा वर्षशतं वा संज्ञामात्रं संजानीते, नागसंज्ञागतोत्सृष्टो मनुष्यसंज्ञागतेन मुहूर्तमात्रं पश्येत् / एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वसंज्ञागतानुस्मृतबुद्धिस्तन्मैत्रेयस्य बोधिसत्त्वस्य अधिष्ठानवशेन तन्मुहूर्तं बहूनि कल्पकोटीनियुतशतसहस्राणि संजानीते स्म / तद्यथास्ति सर्वजगद्वरव्यूहगर्भं नाम महाब्रह्मणो विमानम् / तत्र सर्वत्रिसाहस्रमहासाहस्रो लोकधातुराभासमागच्छति प्रतिभासयोगेन सर्वारम्बणामिश्रीभूतः / एवमेव सुधनः श्रेष्ठिदारकः तान् सर्वान् व्यूहानन्योन्यासंकीर्णान् सर्वारम्बणेषु प्रतिभासप्राप्तः तद्यथा कृत्स्नायतनसमापत्तिविहारी भिक्षुरेको ऽद्वितीयः शयने वा चंक्रमे वा निषद्यायां वा उत्थितो वा निषण्णो वा यथाकृत्स्नसमापत्तिविषयावतारेण सर्वलोकं संजानीते पश्यत्यनुभवति ध्यायिविशेषाचिन्त्यतायै / एवमेव सुधनः श्रेष्ठिदारकः तान् सर्वान् व्यूहान् यथाविषयावतारेण पश्यति संजानीते / तद्यथा गन्धर्वनगराणां सर्वव्यूहालंकारा गगनतले संदृश्यन्ते, न च कस्यचिदावरणत्वाय कल्पन्ते / तद्यथा यक्षविमानप्रविष्टानि मनुष्यविमानानि यक्षविमानान्तर्गतान्यन्योन्यासंभिन्नानि यथाकामविषयपरिशुद्ध्या संदृश्यन्ते / तद्यथा महासमुद्रे सर्वस्य त्रिसाहस्रमहासाहस्रस्य लोकधातोः प्रतिभाससमुद्राः संदृश्यन्ते / तद्यथा मायाकारो मन्त्रविद्यौषधिबलाधिष्ठानेन सर्वरूपगतानि सर्वक्रियाश्च संपश्यति /
एवमेव सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्याधिष्ठानज्ञानमायाचिन्त्यप्रदेशेन तानि सर्वव्यूहविकुर्वितान्यद्राक्षीत् धर्मज्ञानमायाबलाभिनिर्हृतेन बोधिसत्त्ववशिताधिष्ठानज्ञानमायागतेन //
अथ खलु मैत्रेयो बोधिसत्त्वस्तत्कूटागारं प्रविश्य तदधिष्ठानमवसृज्य सुधनं श्रेष्ठिदारकमच्छटाशब्दं कृत्वा एतदवोचत - उत्तिष्ठ कुलपुत्र / एषा धर्माणां धर्मता / अविष्ठपनप्रत्युपस्थानलक्षणाः कुलपुत्र सर्वधर्मा बोधिसत्त्वज्ञानाधिष्ठिताः / एवं स्वभावापरिनिष्पन्ना मायास्वप्नप्रतिभासोपमाः / अथ खलु सुधनः श्रेष्ठिदारकः तेनाच्छटाशब्देन ततः समाधेर्व्युत्थितः / तं मैत्रेयो बोधिसत्त्व आह - दृष्टा ते कुलपुत्र बोधिसत्त्वाधिष्ठानविकुर्वाः? दृष्टास्ते बोधिसत्त्वसंभारबलनिष्यन्दाः? दृष्टा ते बोधिसत्त्वप्रणिधिज्ञानविठपना? दृष्टास्ते बोधिसत्त्वचर्यासमुदागमाः? श्रुतं ते बोधिसत्त्वनिर्याणमुखम्? दृष्टा ते बुद्धक्षेत्रव्यूहाप्रमाणता? दृष्टा (gv 416) ते तथागतप्रणिधिवैशारद्यवैशेषिकता? अनुगता ते बोधिसत्त्वविमोक्षाचिन्त्यता? अनुभूतं ते बोधिसत्त्वसमाधिप्रीतिमुखम्? सुधन आह - दृष्टमार्य कल्याणमित्राधिष्ठानेन कल्याणमित्रप्रभावेण / अपि तु खलु आर्य को नामैष विमोक्षः? मैत्रेय आह - सर्वत्र्यध्वारम्बणज्ञानप्रवेशासंमोषस्मृतिव्यूहगर्भो नाम कुलपुत्र एष विमोक्षः / ईदृशानां च कुलपुत्र विमोक्षाणामनभिलाप्यानभिलाप्यानामेकजातिप्रतिबद्धो बोधिसत्त्वो लाभी / सुधन आह - क्व असौ आर्य व्यूहो गतः? मैत्रेयो बोधिसत्त्व आह - यत एवागतः / सुधन आह - कुत आगतः? मैत्रेयो बोधिसत्त्व आह - बोधिसत्त्वज्ञानाधिष्ठानाभिनिर्हारादागतः / तत्रैवाधिष्ठानेन तिष्ठति / न क्वचिद्गतो नागतो न राशीभूतो न संचयभूतो न कूटस्थो न भावस्थो न भावस्थितो न देशस्थो न प्रदेशस्थः /
तद्यथा कुलपुत्र नागानां मेघजालं न कायेन चित्तेन अभ्यन्तरीभूतं न संचयस्थितं न संदृश्यते / नागचेतनावशेन अप्रमाणा वारिघाराः प्रमुञ्चति नागविषयाचिन्त्यतया / एवमेव कुलपुत्र ते व्यूहा नाध्यात्मगता न बहिर्धागता न च न संदृश्यन्ते, बोधिसत्त्वाधिष्ठानवशेन, तव च सुभाजनतया / तद्यथा कुलपुत्र मायाकारस्य सर्वमायागतविषयं संदर्शयमानस्य माया न कुतश्चिदागच्छन्ति न विगच्छन्ति न क्वचित्संक्रान्तिम्, संदृश्यते च मन्त्रौषधिबलेन / एवमेव कुलपुत्रते व्यूहा न क्वचिद्गता न कुतश्चिदागता न क्वचिद्राशीभूताः / संदृश्यन्ते च अचिन्त्यबोधिसत्त्वज्ञानमायासुशिक्षित्वात् पूर्वप्रणिधानाधिष्ठानज्ञानवशितया / सुधन आहं-कियद्दूरादार्य आगच्छसि? आह - अनागतगतिंगतः / कुलपुत्र बोधिसत्त्वानां गतिः अचलनास्थानगतिः / अनालयानिकेतगतिः / अच्युत्युपपत्तिगतिः / अस्थानसंक्रान्तिगतिः / अचलनानुत्थानगतिः / अनवेक्षानिकेतगतिः / अकर्मविपाकगतिः / अनुत्पादानिरोधगतिः / अनुच्छेदाशाश्वतगतिः / अपि तु कुलपुत्र महाकरुणागतिर्बोधिसत्त्वानां विनेयसत्त्वावेक्षणतया, महामैत्रीगतिर्बोधिसत्त्वानां दुःखितसत्त्वपरित्राणतया, शीलगतिर्बोधिसत्त्वानां यथाशयोपपत्तितया, प्रणिधानगतिर्बोधिसत्त्वानां पूर्वाधिष्ठानेन, अभिज्ञागतिर्बोधिसत्त्वानां सर्वसुखसंदर्शनतया, अनभिसंस्कारगतिर्बोधिसत्त्वानां सर्वतथागतपादमूलानुच्चलनतया, अनायूहवियूहगतिर्बोधिसत्त्वानां कायचित्तासंप्रवणतया, प्रज्ञोपायगतिर्बोधिसत्त्वानां सत्त्वानुवर्तनतया, निर्माणसंदर्शनगतिर्बोधिसत्त्वानां प्रतिभासप्रतिबिम्बनिर्मितशरीरसमतया //
अपि च कुलपुत्र यद्वदसि - कियद्दूरात्त्वमागच्छसीति / अहमस्मिन् कुलपुत्र आगच्छामि जन्मभूमेर्मालदेभ्यो जनपदेभ्यः कुटिग्रामकात् / तत्र गोपालको नाम श्रेष्ठी / तं बुद्धधर्मेषु प्रतिष्ठाप्य जन्मभूमकानां च मनुष्याणां यथाभाजनतया धर्मं देशयित्वा मातापितृज्ञातिसंबन्धिनश्च ब्राह्मणगृहपतीन् महायाने समादाप्य / सुधन आह - कतमा आर्य बोधिसत्त्वानां जन्मभूमिः? आह - दशेमाः कुलपुत्र बोधिसत्त्वानां जन्मभूमयः / कतमा दश? यदुत बोधिचित्तोत्पादो बोधिसत्त्वानां जन्मभूमिः / बोधिसत्त्वकुलजनक अध्याशयो बोधिसत्त्वानां जन्मभूमिः / कल्याणमित्रकुले जनयिताः.......भूमिप्रतिष्ठानं बोधिसत्त्वानां जन्मभूमिः / पारमिताकुले जनकं........ प्रणिधानाभिनिर्हारो बोधिसत्त्वानां जन्मभूमिः / अनुत्पत्तिकधर्मक्षान्तिकुले (gv 417) जनकौ....... / सर्वधर्मप्रतिपत्तिः कुलपुत्र बोधिसत्त्वानां जन्मभूमिः / अतीतानागतप्रत्युत्पन्नसर्वतथागतकुले जनयित्री जन्मभूमिः / इमाः कुलपुत्र बोधिसत्त्वानां दश जन्मभूमयः //
प्रज्ञापारमिता कुलपुत्र बोधिसत्त्वानां माता, उपायकौशल्यं पिता, दानपारमिता स्तन्यम्, शीलपारमिता धात्री, क्षान्तीपारमिता भूषणालंकारः, वीर्यपारमिता संवर्धिका, ध्यानपारमिता चर्याविशुद्धिः कल्याणमित्राणि शिक्षाचर्यः, सर्वबोध्यङ्गानि सहायाः, सर्वबोधिसत्त्वा भ्रातरः बोधिचित्तं कुलम्, प्रतिपत्तिः कुलधर्माः, भूम्यवस्थानं क्षान्तिप्रतिलम्भः, कुलाभिजातिः प्रणिधानाभिनिर्हारः, कुलविद्यालाभः, चर्याविशुद्धिः, कुलधर्मानुवर्तनता महायानसमादापना, कुलवंशाव्यवच्छेदः अभिषेकैकजातिप्रतिबद्धता, धर्मराजेषु पुत्रत्वम्, सर्वतथागतसमुदागमः कुलवंशपरिशुद्धिः / एवं हि कुलपुत्र बोधिसत्त्वो ऽतिक्रान्तो भवति बालपृथग्जनभूमिम् / अवक्रान्तो भवति बोधिसत्त्वनियामम् / संभूतो भवति तथागतकूले / प्रतिष्ठितो भवति तथागतवंशे / अव्यवच्छेदाय प्रतिपन्नो भवति त्रिरत्नवंशस्य / परिपालनाभियुक्तो भवति बोधिसत्त्वकुलस्य / परिशुद्धो भवति जातिगोत्रेण / अनुपक्रुष्टो भवति वर्णजात्योः / अनवद्यो भवति सर्वजातः / अदोषः सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायाम् / कुलीनो भवति उत्तमबुद्धकुलसंभूतो महाप्रणिधिगर्भशरीरः //
एवं कुलजातिसमृद्धाश्च कुलपुत्र बोधिसत्त्वाः प्रतिभासायतनसर्वधर्मपरिज्ञातत्वान्न विजुगुप्सन्ते सर्वलोकोपपत्तिषु / निर्मितोपमसर्वभवोपपत्तिपरिज्ञातत्वान्न संक्लिश्यन्ते सर्वभवगत्युपपत्तिसंवासेषु / निरात्मसर्वबुद्धत्वान्न परिखिद्यन्ते सर्वसत्त्वपरिपाकविनयेषु / महामैत्रीमहाकरुणाशरीरत्वान्न श्राम्यन्ति सर्वसत्त्वानुग्रहेषु / स्वप्नोपमसंसाराधिमुक्तत्वान्न परित्रसन्ति सर्वकल्पसंवासेषु / मायामयं च स्कन्धपरिज्ञातत्वान्न क्राम्यन्ति सर्वजन्मच्युतिमरणसंदर्शनेन / धर्मधातुप्रकृतिकत्वायतनमुचित्वान्न क्षण्यन्ते सर्वविषयेषु / मरीच्युपमसर्वसंज्ञागतसुभावितत्वान्न मुह्यन्ति सर्वसंसारगतिषु / मायोपमसर्वधर्मविक्रीडितत्वादनुपलिप्ता भवन्ति सर्वमारविषयैः / सर्वकायप्रभावितत्वादवञ्चनीया भवन्ति सर्वक्लेशैः / उपपत्तिवशितालब्धत्वाद्गतिंगता भवन्ति सर्वगतिषु /
सो ऽहं कुलपुत्र सर्वलोकधातूपपत्त्यन्तर्गतेन कायेन सर्वजगद्रूपसमैर्बलविशेषैः सर्वसत्त्वोपमैर्निरुक्तिसंभेदैः सर्वजगदुपमाभिर्नामधेयविमात्रताभिः सर्वसत्त्वाधिमुक्तिसमैरीर्यापथैः, सर्वजगद्विनयप्रमाणैर्लोकानुवर्तनैः, सर्वविशुद्धिसमैर्जन्मकुलोपपत्तिसंदर्शनैः, क्रियावतारमुखैः सर्वसत्त्वसंज्ञानुप्रवेशैः सर्वबोधिसत्त्वप्रणिधिनिर्माणसमैरात्मभावसंदर्शनप्रभावनैः सर्वधर्मधातुं स्फरित्वा पूर्वसभागचरितानां सत्त्वानां प्रनष्टबोधिचित्तानां परिपाचनार्थं जम्बुद्वीपे च जन्मोपपत्तिसंदर्शनार्थमिह दक्षिणापथे मालदेषु जनपदेषु कूटाग्रामके ब्राह्मणकुलेषूपपन्नानां मातृपितृज्ञातिसंबन्धिनां विनयार्थं ब्राह्मणकुलजातिविशेषेण चैषां जात्यभिमानिकानिरभिमानतायै तथागतकुले संजननार्थमिहोपपन्नः / सो ऽहं कुलपुत्र इह दक्षिणापथे अनेनोपायेन यथाशयानां सत्त्वानां यथाविनेयानां परिपाकविनयं कुर्वन् इहैव वैरोचनव्यूहालंकारगर्भे कूटागारे (gv 418) प्रतिवसामि / इतश्चाहं च्युतः तुषितभवने उपपत्तिं संदर्शयिष्यामि यथाशये सत्त्वानुवर्तनतायै, तुषितकायिकानां च सभागचरितानां देवपुत्राणां परिपाकाय, सर्वकामधातुसमतिक्रान्तानां बोधिसत्त्वपुण्यज्ञाननिर्माणव्यूहसंदर्शनतायै, कामरतितृष्णाविनिवर्तनतायै, सर्वसंसारानित्यत्वपरिदीपनतायै, विपत्तिपर्यवसानसर्वदेवोपपत्तिसंदर्शनतायै, च्यवनाकारं नाम महाज्ञानधर्ममुखमेकजातिबद्धैर्बोधिसत्त्वैः सार्धं संगायनाय, सहपरिपाचितानां च तत्रोपपत्तिसंग्रहणतायै, शाक्यमुनिसंप्रेषितानां च विनेयकलानां प्रबोधनतायै /
काले परिपूर्णाभिप्रायसर्वज्ञतामधिगमिष्यामि / बोधिप्राप्तं च मां कुलपुत्र त्वं पुनरपि द्रक्ष्यसि सार्धं मञ्जुश्रिया कल्याणमित्रेण //
अपि तु खलु पुनः कुलपुत्र - गच्छ त्वं तमेव मञ्जुश्रियं कुमारभूतम् / उपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, कथं समन्तभद्रचर्यामण्डलमवतरितव्यम्, कथमभिनिर्हर्तव्यम्, कथं प्रणिधातव्यम्, कथं विपुलीकर्तव्यम्, कथमनुसर्तव्यम्, कथं पर्यदातव्यम्, कथं प्रवेष्टव्यम्, कथं परिपूरयितव्यम्, स ते कुलपुत्र कल्याणमित्र संदर्शयिष्यति / तत्कस्य हेतोः? स कुलपुत्र बोधिसत्त्वकोटीनियुतशतसहस्राणां प्रणिधानविशेषः संविद्यते यो मञ्जुश्रियः कुमारभूतस्य / विस्तीर्णः कुलपुत्र मञ्जुश्रियः कुमारभूतस्य चर्यानिहारं / अप्रमाणो मञ्जुश्रियः कुमारभूतस्य प्रणिधानाभिनिर्हारः अप्रतिप्रस्रब्धो मञ्जुश्रियः कुमारभूतस्य सर्वबोधिसत्त्वगुणविशेषाभिनिर्हारः / माता मञ्जुश्रीः कुमारभूतो बुद्धकोटीनियुतशतसहस्राणाम् / अववादको मञ्जुश्रीः कुमारभूतो बोधिसत्त्वकोटीनियुतशतसहस्राणाम् / उद्युक्तो मञ्जुश्रीः कुमारभूतः सर्वसत्त्वधातुपरिपाकविनयाय / विस्तीर्णनामचक्रो मञ्जुश्रीः कुमारभूतो दशदिक्सर्वलोकधातुषु / कथापुरुषो मञ्जुश्रीः कुमारभूतो ऽनभिलाप्येषु तथागतपर्षन्मडलेषु / संवर्णितो मञ्जुश्रीः कुमारभूतः सर्वतथागतैः / गम्भीरधर्मज्ञानविहारी मञ्जुश्रीः कुमारभूतः सर्वधर्मयथार्थदर्शी / दुरागतगोचरो मञ्जुश्रीः कुमारभूतः सर्वविमोक्षनयेषु / अवतीर्णः समन्तभद्रबोधिसत्त्वचर्यायाम् / स ते कुलपुत्र कल्याणमित्राजनकः, तथागतकुले संवर्धकः, सर्वकुशलमूलानुत्थापकः, बोधिसंभाराणां दर्शकः, भूतकल्याणमित्राणां समादापकः सर्वगुणेषु
अवतारकः, महाप्रणिधानजाले प्रतिष्ठापकः, सर्वप्रणिधानाभिनिर्हारेषु श्रावयिता, सर्वबोधिसत्त्वगुह्यानां संदर्शकः, सर्वबोधिसत्त्वचिन्त्यतायाः, सभागचरितः पूर्वजन्मसंवासेषु / तस्मात्तर्हि त्वं कुलपुत्र मञ्जुश्रीपादमूलगतः एव मा परीत्तमनमुत्पादय, मा परिखेदं जनय सर्वगुणानुशासनीप्रतिलम्भेषु / तत्कस्य हेतोः? यावन्ति त्वया सुधन कल्याणमित्राणि दृष्टानि, यावन्ति चर्यामुखानि श्रुतानि, यावन्तो विमोक्षनया अवतीर्णाः, यावन्तः प्रणिधानविशेषा अवगाढाः, सर्वं मञ्जुश्रियः कुमारभूतस्यानुभावो ऽधिष्ठानं च द्रष्टव्यम् / स च मञ्जुश्रीः कुमारभूतः परमपारमिताप्राप्तः //
अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्य पादौ शिरासाभिवन्द्य मैत्रेयं बोधिसत्त्वं महासत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मैत्रेयस्य बोधिसत्त्वस्यान्तिकात् प्रक्रान्तः // 52 // 55 मञ्जुश्रीः /
अथ खलु सुधनः श्रेष्ठिदारको दशोत्तरं नगरशतमटित्वा सुमनामुखदिक्प्रत्युद्देशं गत्वा अतिष्ठत् मञ्जुश्रियं कुमारभूतं चिन्तयन् अनुविलोकयन् मञ्जुश्रियः कुमारभूतस्य दर्शनमभिलषन् प्रार्थयमानः समवधानमाकाङ्क्षमाणः / अथ खलु मञ्जुश्रीः कुमारभूतो दशोत्तराद्योजनशतात्पाणिं प्रसार्य सुमनामुखनगरस्थितस्यैव सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठाप्य एवमाह - साधु साधु कुलपुत्र न शक्यं श्रद्धेन्द्रियविरहितैः खिन्नचित्तैः लीनचित्तैरनभ्यस्तप्रयोगैः प्रत्युदावर्त्यवीर्यैरित्वरगुणसंतुष्टैरेककुशलमूलतन्मयैश्चर्याप्रणिधानाभिनिर्हाराकुशलैः कल्याणमित्रापरिगृष्टीतैर्बुद्धासमन्वाहृतैरियं धर्मता ज्ञातुम्, एष नयः एष गोचरः एष विहारो ज्ञातुं वा अवगाहयितुं वा अवतरितुं वा अधिमोक्तुं वा कल्पयितुं वा प्रत्यवगन्तुं वा प्रतिलब्धुं वा इति // स तं धर्मकथया संदर्शयित्वा समादाप्य समुत्तेज्य संप्रहर्षयित्वा असंख्येयधर्ममुखसमन्वागतं कृत्वा अनन्तज्ञानमहावभासप्राप्तं कृत्वा अपर्यन्तबोधिसत्त्वधारणीप्रतिभानसमाध्यभिज्ञज्ञानवेशाविष्टं कृत्वा समन्तभद्रचर्यामण्डले ऽवतारयित्वा स्वदेशे च प्रतिष्ठाप्य सुधनस्य श्रेष्ठिदारकस्यान्तिकात् प्रक्रान्तः // 53 // 56 समन्तभद्रचर्याप्रणिधानम् /
अथ खलु सुधनः श्रेष्ठिदारकः त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमकल्याणमित्रपर्युपासितः सर्वज्ञतासंभारोपचितचेताः सर्वकल्याणमित्राववादानुशासनीषु प्रदक्षिणग्राहितया प्रतिपन्नः सर्वकल्याणमित्राशयसमताप्रसृतः सर्वकल्याणमित्रारागणाविरागणबुद्धिः सर्वकल्याणमित्राववादानुशासनीनयसमुद्रानुगतः महाकरुणाशयसागरसंभूतगर्भो महामैत्रीनयमेघसर्वजगद्विरोचनः महाप्रीतिवेगसंवर्धितशरीरः विपुलबोधिसत्त्वविमोक्षप्रशान्तविहारी समन्तसुखप्रसृतत्यागचक्षुः सर्वतथागतगुणसमुद्रप्रतिपत्तिसुपरिपूर्णः सर्वतथागताधिमुक्तिपथप्रसृतः सर्वज्ञतासंभारवीर्यवेगविवर्धितः सर्वबोधिसत्त्वचित्ताशयसुपरिणामितबुद्धिः सर्वत्र्यध्वतथागतपरंपरावतीर्णः सर्वबुद्धधर्मनयसागरानुबुद्धः सर्वतथागतधर्मचक्रनयसागरानुगतः सर्वलोकोपपत्तिप्रतिभाससंदर्शनगोचरः सर्वबोधिसत्त्वप्रणिधाननयसागरावतीर्णः सर्वकल्पबोधिसत्त्वचर्यासंप्रस्थितः सर्वज्ञताविषयावभासप्रतिलब्धः सर्वबोधिसत्त्वेन्द्रियविवर्धितः सर्वज्ञतामार्गावभासप्रतिलब्धः सर्वदिग्वितिमिरालोकप्राप्तः सर्वधर्मधातुनयप्रसृतबुद्धिः सर्वक्षेत्रनयावभाससंजातः सर्वसत्त्वप्रसारार्थक्रियाप्रतिस्रोतोनुगतः सर्वावरणप्रपातपर्वतविकिरणो ऽनावरणधर्मतानुगतः समन्ततलभूमिधर्मधातुगर्भबोधिसत्त्वविमोक्षप्रशान्तविहारी सर्वतथागतगोचरमन्वेषमाणः सर्वतथागताधिष्ठितः समन्तभद्रस्य बोधिसत्त्वस्य गोचरं विचारयमाणः स्थितो ऽभूत् /
समन्तभद्रस्य बोधिसत्त्वस्य नामधेयं श्रुत्वा बोधिचर्यां श्रुत्वा प्रणिधानविशेषं च श्रुत्वा संभारसंभवप्रस्थानप्रतिष्ठितविशेषं च श्रुत्वा अभिनिर्हारनिर्याणपथविशेषं च श्रुत्वा समन्तभद्रभूम्याचारविचारं च श्रुत्वा भूमिसंभारं च श्रुत्वा लम्भविशेषं च श्रुत्वा भूमिप्रतिलम्भवेगं च श्रुत्वा भूम्याक्रमणं च श्रुत्वा भूमिप्रतिष्ठानं च श्रुत्वा भूमिपराक्रमविक्रमं च श्रुत्वा भूमिगौरवं च श्रुत्वा भूम्यधिष्ठानं च श्रुत्वा भूमिसंवासं च श्रुत्वा समन्तभद्रबोधिसत्त्वदर्शनपरितृषितस्तस्मिन्नेव वज्रसागरगर्भबोधिमण्डे तथागतसिंहासनाभिमुखः सर्वरत्नगर्भपद्मासननिषण्णः आकाशधातुविपुलेन चित्तेन सर्वाभिनिवेशोच्चलितेन, सुभावितया सर्वक्षेत्रसंज्ञया, सर्वसङ्गसमतिक्रान्तेन चित्तेन, सर्वधर्मानावरणगोचरेण अप्रतिहतेन चित्तेन, सर्वदिक्समुद्रस्फरणेन अनावरणेन चित्तेन, सर्वज्ञताविषयाक्रमणेन शुद्धेन चित्तेन, बोधिमण्डालंकारविपश्यनापरिशुद्धेन सुविभक्तेन चित्तेन, सर्वबुद्धधर्मसमुद्रावतीर्णेन विपुलेन चित्तेन, सर्वसत्त्वधातुपरिपाकविनयस्फरणेन महद्गतेन चित्तेन, सर्वबुद्धक्षेत्रपरिशोधनेन अपरिमाणेन चित्तेन, सर्वबुद्धपर्षन्मण्डलप्रतिभासप्राप्तेन सर्वकल्पसंवासापर्यादत्तेन अनन्तेन चित्तेन सर्वतथागतबलवैशारद्यावेणिकबुद्धधर्मपर्यवसानेन /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
