Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 14/16

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

गण्डव्यूहसूत्र

Thông tin
GRETIL — P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अप्रमाणा इन्द्रियवंशा अवभासयितव्याः / अप्रमाणाः क्लेशव्याधयः परिशोधयितव्याः / अप्रमाणानि धर्मभैषज्यानि समुदानेतव्यानि / अप्रमाणः क्लेशव्याध्यातुरः सत्त्वधातुः चिकित्सितव्यः / अप्रमाणा अमृतसंभाराः समुदानेतव्याः / अप्रमाणानि बुद्धक्षेत्राण्याक्रमितव्यानि / अप्रमाणास्तथागताः पूजयितव्याः / अप्रमाणानि बोधिसत्त्वपर्षन्मण्डलान्यवगाहयितव्यानि / अप्रमाणानि तथागतशासनानि संधारयितव्यानि / अप्रमाणानि सत्त्वद्रोहिण्यानि सोढव्यानि / अप्रमाणा अक्षणापायपथाः समुच्छेत्तव्याः / अप्रमाणानि सत्त्वसुखान्युपसंहर्तव्यानि / अप्रमाणाः सत्त्वसंग्रहाः कर्तव्याः / अप्रमाणानि धारणीमुखानि परिशोधयितव्यानि / अप्रमाणानि प्रणिधानमुखान्यभिनिर्हर्तव्यानि / अप्रमाणानि महामैत्रीमहाकरुणाबलानि परिभावयितव्यानि / अप्रमाणानि धर्मपर्येष्ट्यभियोगानि न प्रतिप्रस्रम्भयितव्यानि / अप्रमाणानि निध्यप्तिबलान्यनुसर्तव्यानि / अप्रमाणा अभिज्ञाभिनिर्हारा उत्पादयितव्याः / अप्रमाणा विद्याज्ञानालोका विशोधयितव्याः / अप्रमाणा सत्त्वगतिरनुगन्तव्या / अप्रमाणा भवोत्पत्तिः (gv 363) परिग्रहीतव्याः / अप्रमाणा कायविभक्तिः संदर्शयितव्या / अप्रमाणा मन्त्रविभक्तिः परिज्ञातव्या / अप्रमाणाः सत्त्वचित्तविमात्रता अनुप्रवेष्टव्याः / विस्तीर्णो बोधिसत्त्वगोचरो ऽनुप्रवेष्टव्यः / विपुलं बोधिसत्त्वभवनमनुविचरितव्यम् / गम्भीरो बोधिसत्त्वविहारो व्यवलोकयितव्यः / दुरनुबोधो बोधिसत्त्वविषयो ऽनुबोद्धव्यः / दुर्गमा बोधिसत्त्वगतिर्गन्तव्या / दुरासदा बोधिसत्त्ववेगाः संधारयितव्याः / दुरवक्रामो बोधिसत्त्वनियामो ऽवक्रमितव्यः / विचित्रा बोधिसत्त्वचर्या अनुबोद्धव्या /

सर्वत्रानुगतं बोधिसत्त्वविकुर्वणं संदर्शयितव्यम् / अभिसंभिन्ना बोधिसत्त्वेन धर्ममेघाः संप्रत्येष्टव्याः / अनन्तमध्यं बोधिसत्त्वचर्याजालं प्रविस्तरितव्यम् / अपर्यन्ता बोधिसत्त्वेन पारमिताः परिपूरयितव्याः / अप्रमेयाणि बोधिसत्त्वेन व्याकरणानि संप्रत्येष्टव्यानि / असंख्येयानि बोधिसत्त्वेन क्षान्तिमुखान्यवतर्तव्यानि / असंख्येया बोधिसत्त्वेन भूमयः परिशोधयितव्याः / असमन्तानि बोधिसत्त्वेन धर्ममुखानि पर्यवदापयितव्यानि / अनभिलाप्यानि बोधिसत्त्वेन बुद्धक्षेत्राणि परिशोधयितव्यानि / अपर्यन्तान् बोधिसत्त्वेन कल्पान् संनाहः संनद्धव्यः / अमाप्या बोधिसत्त्वेन तथागताः पूजयितव्याः / अचिन्त्या बोधिसत्त्वेन प्रणिधानाभिनिर्हारा अभिनिर्हर्तव्याः / संक्षिप्तेन कुलपुत्र सर्वसत्त्वसमोक्ता बोधिसत्त्वानां चर्या सत्त्वपरिपाचनतया / सर्वकल्पसमोक्ता सर्वकल्पसंवसनतया / सर्वोपपत्तिसमोक्ता सर्वत्रजन्मसंदर्शनेन / सर्वाध्वसमोक्ता त्र्यध्वज्ञानानुबोधाय / सर्वधर्मसमोक्ता तत्प्रतिपत्त्या / सर्वक्षेत्रसमोक्ता तत्परिशोधनेन / सर्वप्रणिधानसमोक्ता तत्परिपूरणतया / सर्वबुद्धसमोक्ता तत्पूजाभिनिर्हारेण / सर्वबोधिसत्त्वसमोक्ता तत्प्रणिधानैकत्वेन / सर्वकल्याणमित्रसमोक्ता बोधिसत्त्वानां चर्या तदारागणतया //

तस्मात्तर्हि कुलपुत्र न ते परिखेद उत्पादयितव्यः कल्याणमित्रपरिमार्गणासु / न परितृप्तिरुत्पादयितव्या कल्याणमित्रसंदर्शनेषु / न परितुष्टिरापत्तव्या कल्याणमित्रपरिपृच्छासु / नाशयो विनिवर्तयितव्यः कल्याणमित्रसंसर्गेषु / न प्रयोगः प्रतिप्रस्रम्भयितव्यः कल्याणमित्रगौरवोपस्थानेषु / न विलोमग्राहिणा भवितव्यं कल्याणमित्राववादानुशासनीषु / न संशय उत्पादयितव्यः कल्याणमित्रगुणप्रतिलाभेषु / न विचिकित्सा करणीया कल्याणमित्रनिर्याणमुखसंदर्शनेषु / न दोषोत्पादनं करणीयं कल्याणमित्रोपायसंधिलोकानुवर्तनप्रतिचारेषु / न कायचित्तविनिवर्तनं करणीयं कल्याणमित्रप्रसादविवर्धनेषु / तत्कस्य हेतोः? कल्याणमित्राधीनाः कुलपुत्र बोधिसत्त्वानां सर्वबोधिसत्त्वचर्याःश्रवाः / कल्याणमित्रप्रभवाः सर्वबोधिसत्त्वगुणपरिनिष्पत्तयः / कल्याणमित्रप्रभवाणि सर्वबोधिसत्त्वप्रणिधानस्रोतांसि / कल्याणमित्रजनितानि सर्वबोधिसत्त्वकुशलमूलानि / कल्याणमित्रोत्थापिताः सर्वबोधिसत्त्वसंभाराः / कल्याणमित्रनिर्याताः सर्वबोधिसत्त्वधर्ममुखालोकाः / कल्याणमित्रसंभूताः सर्वबोधिनिर्याणमुखविशुद्धयः / कल्याणमित्रप्रतिबद्धाः सर्वबोधिसत्त्वशिक्षाप्रतिपत्तयः / कल्याणमित्रप्रतिष्ठिताः सर्वबोधिसत्त्वगुणधर्माः / कल्याणमित्रमूलाः सर्वबोधिसत्त्वाध्याशयपरिशुद्धयः / (gv 364) कल्याणमित्रसंजाता सर्वबोधिसत्त्वचित्तोत्पाददृढता / कल्याणमित्रनेत्रिकाः सर्वबोधिसत्त्वसमुद्रधारणीप्रतीभानमुखालोकाः / कल्याणमित्रसंधारिताः सर्वबोधिसत्त्वविशुद्धिमुखकोशाः / कल्याणमित्रसंजनिताः सर्वबोधिसत्त्वज्ञानालोकाः /

कल्याणमित्रहस्तगता सर्वबोधिसत्त्वप्रणिधानवैशेषिकता / कल्याणमित्रप्रधान एकोतीभावः / कल्याणमित्रगोत्राः सर्वबोधिसत्त्वसमुदागमवैशेषिकश्रद्धाः / कल्याणमित्रकोशगतानि सर्वबोधिसत्त्वगुह्यस्थानानि / कल्याणमित्राकराः सर्वबोधिसत्त्वधर्माकराः / कल्याणमित्रविवर्धिताः सर्वबोधिसत्त्वेन्द्रियवेगाङ्कुराः / कल्याणमित्रविवर्धिताः सर्वबोधिसत्त्वज्ञानसागराः / कल्याणमित्रप्रतिपालिताः सर्वबोधिसत्त्वनिधानकोशाः / कल्याणमित्ररक्षिताः सर्वबोधिसत्त्वपुण्योपचयाः / कल्याणमित्रजनिताः सर्वबोधिसत्त्वजन्मविशुद्धयः / कल्याणमित्रमुखागताः सर्वबोधिसत्त्वधर्ममेघाः / कल्याणमित्रकोष्ठगताः सर्वबोधिसत्त्वनिर्याणपथप्रवेशाः / कल्याणमित्राराधनप्रतिलब्धा सर्वबुद्धबोधिः / कल्याणमित्रसंगृहीताः सर्वबोधिसत्त्वचर्याः / कल्याणमित्रोद्द्योतिताः सर्वबोधिसत्त्वगुणोद्भावनाः / कल्याणमित्रसंदर्शिताः सर्वबोधिसत्त्वदिगनुगमाः / कल्याणमित्रसंवर्णिता सर्वबोधिसत्त्वचित्ताध्याशयमहात्मता / कल्याणमित्रसंभूतं बोधिसत्त्वानां महामैत्रीबलम् / कल्याणमित्रसंजनितं बोधिसत्त्वानां महाकरुणाबलम् / कल्याणमित्रसंगृहीतानि सर्वबोधिसत्त्वाधिपत्यानि / कल्याणमित्रसंजनितानि सर्वबोध्यङ्गानि / कल्याणमित्रसंभवाः सर्वबोधिसत्त्वहितोपसंहाराः / कल्याणमित्रसंधारिताः कुलपुत्र बोधिसत्त्वा न पतन्ति दुर्गतिषु / कल्याणमित्रपरिगृहीता बोधिसत्त्वा न निवर्तन्ते महायानात् / कल्याणमित्रसमन्वाहृता बोधिसत्त्वा नातिक्रामन्ति बोधिसत्त्वशिक्षाम् / कल्याणमित्रस्वारक्षिता बोधिसत्त्वा न गच्छन्ति पापमित्रवशम् /

कल्याणमित्रपरिपालिता बोधिसत्त्वा न परिहीयन्ते बोधिसत्त्वधर्मेभ्यः / कल्याणमित्रसंगृहीता बोधिसत्त्वा अतिक्रामन्ति पृथग्जनभूमिम् / कल्याणमित्रानुशिक्षिता बोधिसत्त्वा नावक्रामन्ति श्रावकप्रत्येकबुद्धनिपातम् / कल्याणमित्रप्रतिच्छन्ना बोधिसत्त्वा अभ्युद्गता भवन्ति लोकात् / कल्याणमित्रसंवर्धिता बोधिसत्त्वा अनुपलिप्ता भवन्ति लोकधर्मैः / कल्याणमित्रपर्युपासिता बोधिसत्त्वा असंप्रमोषचारिणो भवन्ति सर्वचर्यासु / कल्याणमित्रोत्थापिता बोधिसत्त्वा न निवर्तन्ते सर्वारम्भेभ्यः / कल्याणमित्रपरिगृहीता बोधिसत्त्वा दुर्धर्षा भवन्ति कर्मक्लेशैः / कल्याणमित्रबलोपस्तब्धा बोधिसत्त्वा अनवमर्द्या भवन्ति सर्वमारैः / कल्याणमित्रोपनिश्रयविहारिणो बोधिसत्त्वा विवर्धन्ते सर्वबोध्यङ्गैः / तत्कस्य हेतोः? विशोधकानि कुलपुत्र कल्याणमित्राण्यावरणीयानां विनिवर्तकानि / कल्याणमित्राण्यपायेभ्यः संबोधनानि / कल्याणमित्राण्यकरणीयानां संनिवारकानि प्रमादस्थानेभ्यः / विधमितारो ऽविद्यान्धकारस्य / निर्दारयितारो दृष्टिबन्धनानाम् / निष्क्रामयितारः संसारात् / उत्खाटयितारो लोकनिकेतात् / निर्मोचयितारो मारपशेभ्यः / समाबृंहयितारो दुःशल्यानाम् / परिमोचयितारः अज्ञानगहनात् / समतिक्रामयितारो दृष्टिकान्तारात् / उत्तारयितारो भवौघेभ्यः / उद्धर्तारः कामपङ्कात् / विनिवर्तयितारः (gv 365) कुमार्गात् / संदर्शयितारो बोधिसत्त्वमार्गस्य / नियोजयितारो बोधिसत्त्वसमादानेन / प्रतिष्ठापयितारः प्रतिपत्तिषु / प्रणेतारः सर्वज्ञतागमनदिशम् / विशोधयितारः प्रज्ञाचक्षुषः / विवर्धयितारो बोधिचित्तस्य / संजनयितारो महाकरुणायाः / आख्यातारः चर्यायाः /

अववादितारः पारमितासु / प्रतियापयितारः भूमिषु / विभजितारः क्षान्तीनाम् / संभावयितारः सर्वकुशलमूलानाम् / उत्थापयितारः सर्वसंभाराणाम् / दातारः सर्वबोधिसत्त्वगुणानाम् / संप्रापयितारः सर्वबुद्धपादमूलेषु / संदर्शयितारः सर्वगुणेषु / समादापयितारः अर्थेषु / समुत्तेजयितारः प्रतिपत्तिषु / निदर्शयितारो निर्याणमुखानाम् / आरक्षितारः प्रणाशपथेभ्यः / अवभासयितारो धर्मालोकमुखानाम् / अभिप्रवर्षयितारो धर्मश्रवणमेघानाम् / नाशयितारः सर्वक्लेशानाम् / विनिवर्तयितारः सर्वदृष्टिकृतानाम् / निवेशयितारः सर्वबुद्धधर्मेषु //

अपि च कुलपुत्र मातृभूतानि कल्याणमित्राणि बुद्धकुलेषु जनयित्रीणि / पितृभूतानि कल्याणमित्राणि विपुलहितोपसंहरणतया / धात्रीभूतानि कल्याणमित्राणि सर्वपापारक्षणतया / आचार्यभूतानि कल्याणमित्राणि बोधिसत्त्वशिक्षानुबोधनतया / दैशिकभूतानि कल्याणमित्राणि पारमितामार्गावतरणतया / वैद्यभूतानि कल्याणमित्राणि क्लेशव्याधिपरिमोचनतया / हिमवत्पर्वतभूतानि कल्याणमित्राणि ज्ञानौषधिविवर्धनतया / शूरभूतानि कल्याणमित्राणि सर्वभयारक्षणतया / दाशभूतानि कल्याणमित्राणि संभारमहौघोत्तरणतया / कर्णधारभूतानि कल्याणमित्राणि सर्वज्ञज्ञानरत्नद्वीपसंप्रापणतया //

तस्मात्तर्हि कुलपुत्र एवं मनसिकारात् प्रतिप्रस्रब्धेन कल्याणमित्राण्युपसंक्रमितव्यानि पृथिवीसमचित्तेन सर्वभारवहनापरिणमनतया / वज्रसमचित्तेनाभेद्याशयतया / चक्रवालसमचित्तेन सर्वदुःखासंप्रवेधनतया / समचित्तेन यथेष्टाज्ञाकरणतया / शिष्यसमचित्तेन सर्वाज्ञाविलोमनतया / लोकदाससमचित्तेन सर्वकर्मसमादानाविजुगुप्सनतया / धात्रीसमचित्तेन सर्वक्लेशापरितमनतया / भृत्यसमचित्तेन किंकरणीप्रदक्षिणग्राहतया / रजोपहरणसमचित्तेन मानातिमानविवर्जनतया / पूर्णचन्द्रसमचित्तेन कालाकालानामावमनतया / आजानेयाश्वसमचित्तेन सर्वखटुकताविवर्जनतया / यानसमचित्तेन गुरुभारवहनतया / नागसमचित्तेन दान्ताजानेयचित्ततया / शैलसमचित्तेन अचलाकम्प्यतया / श्वसमचित्तेन अक्रोधनतया / चण्डालकुमारकसमचित्तेन निर्माननिरहंकारतया / छिन्नविषाणर्षभसमचित्तेन सर्वदर्पविगतेन / अन्तेवासिसमचित्तेनानतिमानतया / नौसमचित्तेन गमनागमनापरिखिन्नतया / सेतुसंक्रमचित्तेन कल्याणमित्राज्ञोत्तरणतया / सुपुत्रसमचित्तेन कल्याणमित्रमुखोदीक्षणतया / राजकुमारसमचित्तेन धर्मराजाज्ञाप्रतिवहनतया //

आत्मनि च ते कुलपुत्र आतुरसंज्ञोत्पादयितव्या, कल्याणमित्रेषु वैद्यसंज्ञा, अनुशासनीषु भैषज्यसंज्ञा, प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा / आत्मनि च ते कुलपुत्र अध्वगतसंज्ञोत्पादयितव्या, कल्याणमित्रेषु दैशिकसंज्ञोत्पादयितव्या, अनुशासनीषु मार्गसंज्ञा, प्रतिपत्तिषु (gv 366) क्षेत्रदिग्गमनसंज्ञोत्पादयितव्या / आत्मनि च ते कुलपुत्र पारगसंज्ञोत्पादयितव्या, कल्याणमित्रेषु नाविकसंज्ञा, अनुशासनीषु तीर्थसंज्ञा, प्रतिपत्तिषु नौसंज्ञोत्पादयितव्या / आत्मनि च ते कुलपुत्र कर्षकसंज्ञोत्पादयितव्या, कल्याणमित्रेषु भुजगेन्द्रसंज्ञा, अनुशासनीषु वर्षसंज्ञा, प्रतिपत्तिषु शस्यनिष्पत्तिसंज्ञोत्पादयितव्या / आत्मनि च ते कुलपुत्र दरिद्रसंज्ञोत्पादयितव्या, कल्याणमित्रेषु वैश्रवणसंज्ञा, अनुशासनीषु धनसंज्ञा, प्रतिपत्तिषु दारिद्र्यापनयनसंज्ञोत्पादयितव्या / आत्मनि च ते कुलपुत्र अन्तेवासिकसंज्ञोत्पादयितव्या, कल्याणमित्रेष्वाचार्यसंज्ञा, अनुशासनीषु शिल्पसंज्ञा, प्रतिपत्तिष्वधिगमनसंज्ञोत्पादयितव्या / आत्मनि च ते कुलपुत्र अभीरुसंज्ञोत्पादयितव्या, कल्याणमित्रेषु शूरसंज्ञा, अनुशासनीषु प्रहरणसंज्ञा, प्रतिपत्तिषु शत्रुनिर्घातनसंज्ञोत्पादयितव्या / आत्मनि च ते कुलपुत्र वणिक्संज्ञोत्पादयितव्या, कल्याणमित्रेषु कर्णधारसंज्ञा, अनुशासनीषु रत्नसंज्ञा, प्रतिपत्तिषु रत्नग्रहणसंज्ञोत्पादयितव्या / आत्मनि च ते कुलपुत्र सत्पुत्रसंज्ञोत्पादयितव्या, कल्याणमित्रेषु मातापितृसंज्ञा, अनुशासनीषु कुलवृत्तिसंज्ञा, प्रतिपत्तिषु वृत्त्यविप्रणाशसंज्ञोत्पादयितव्या /

आत्मनि च ते कुलपुत्र राजकुमारसंज्ञोत्पादयितव्या, कल्याणमित्रेषु धर्मराजाग्रामात्यसंज्ञा, अनुशासनीषु राजशिक्षा, प्रतिपत्तिषु ज्ञानराजमकुटालंकारधर्मपट्टशिरोबन्धनधर्मराजनगरव्यवलोकनसंज्ञोत्पादयितव्या / एवं चित्तसंज्ञामनसिकारपरिभावितेन कुलपुत्र कल्याणमित्राण्युपसंक्रमितव्यानि / तत्कस्य हेतोः? एवं कल्याणमित्राध्याशयपरिशुद्धा हि कुलपुत्र बोधिसत्त्वाः कल्याणमित्राज्ञासु प्रतिपद्यमाना विवर्धन्ते सर्वकुशलमूलैः हिमवत्संनिश्रिता इव तृणगुल्मौषधिवनस्पतयः / भाजनीभवन्ति सर्वबुद्धधर्माणां महासागर इव जलस्य / आकरीभवन्ति सर्वगुणानां महासमुद्र इव रत्नानाम् / उत्तापयन्ति बोधिचित्तं सुवर्णमिवाग्निसंतापे / अभ्युद्गता भवन्ति लोकात्, सुमेरुरिव सागरात् / अनुपलिप्ता भवन्ति लोकधर्मैः, पद्ममिव जलेन् / संवसन्ति सर्वदुश्चरितैः, महासागर इव पूतिकुणपेन / विवर्धन्ते शुक्लधर्मैः, चन्द्र इव शुक्लपक्षे / अवभासयन्ति धर्मधातुं सूर्य इव जम्बुद्वीपम् / प्रवर्धयन्ति बोधिसत्त्वप्रणिधानशरीराणि कुमारका इव मातृपितृनिश्रिताः / संक्षिप्तेन कुलपुत्र कल्याणमित्रानुशासनीषु प्रतिपन्ना बोधिसत्त्वा दशानभिलाप्यगुणकोटीनियुतशतसहस्राणि प्रतिगृह्णन्ति / दशाध्याशयकोटीनियुतशतसहस्राणि परिशोधयन्ति / दश बोधिसत्त्वेन्द्रियकोटीनियुतशतसहस्राणि विवर्धयन्ति / दशाधिष्ठानकोटीनियुतशतसहस्राणि विशोधयन्ति / चरणीयधर्मासंख्येयशतसहस्राणि परिशोधयन्ति / दश मारासंख्येयशतसहस्राणि समतिक्रामन्ति / दश धर्ममुखद्वारासंख्येयशतसहस्राणि प्रतिवसन्ति /

दशसंभारविशुद्धिमुखासंख्येयकोटीनियुतशतसहस्राणि परिपूरयन्ति / दश चर्यासंख्येयशतसहस्राणि परिपूरयन्ति / दश चर्यासंख्येयशतसहस्राणि पर्यवदापयन्ति / दश महाप्रणिधानासंख्येयशतसहस्राण्यभिनिर्हरन्ति / संक्षिप्तेन कुलपुत्र सर्वबोधिसत्त्वचर्याः सर्वबोधिसत्त्वपारमिताः सर्वबोधिसत्त्वभूमयः सर्वबोधिसत्त्वसमाधिमुखानि सर्वबोधिसत्त्वाभिज्ञाज्ञानविकुर्वितानि सर्वबोधिसत्त्वधारणीप्रतिभानालोकाः, (gv 367) सर्वबोधिसत्त्वपरिणमनाज्ञानाभिज्ञाप्रमाणताः, सर्वबोधिसत्त्वप्रणिधानाभिनिर्हाराः, सर्वबुद्धधर्मप्रतिलम्भपरिनिष्पत्तयः कल्याणमित्राधीनाः कल्याणमित्रमूलाः कल्याणमित्रप्रभवाः कल्याणमित्रयोनिकाः कल्याणमित्रायद्वाराः कल्याणमित्रसंजाताः कल्याणमित्रसंवर्धिताः कल्याणमित्रप्रतिष्ठानाः कल्याणमित्रहेतुकाः कल्याणमित्रप्रभूताः //

अथ खलु सुधनः श्रेष्ठिदारकः इमामेवंरूपां कल्याणमित्रागुणवर्णानुशासनीं बोधिसत्त्वचर्याप्रमाणतां बुद्धधर्मविस्तीर्णतां च श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः श्रीसंभवस्य दारकस्य श्रीमत्याश्च दारिकायाः पादौ शिरसाभिवन्द्य श्रीसंभवं दारकं श्रीमतीं दारिकां च अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य श्रीसंभवस्य दारकस्य श्रीमत्याश्च दारिकाया अन्तिकात्प्रक्रान्तः // 51 // // 52 //

54 मैत्रेयः /

अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रानुशासन्यभिष्यन्दितचित्तो येन समुद्रकच्छो जनपदस्तेनोपसंक्रान्तः तामेव बोधिसत्त्वचर्यानुशासनीमनुविचिन्तयन्, सम्यक्चर्यानिःसमर्थपूर्वान्तकोटीगतकायप्रणामसमन्वाहारेण कायबलं दृढीकुर्वाणः, पूर्वान्तकोटीगतकायचित्तपरिशुद्धिनिष्कारणसंसारिकचित्तप्रचारसमन्वाहारेण चित्तमनसिकारं गृह्णन्, पूर्वान्तकोट्यसत्कर्मलौकिककार्यप्रयुक्तः निष्प्रयोजनपरिष्यन्दसमन्वाहारेण प्रत्युत्पन्नप्रयोजनमहासामर्थ्यं विचिन्तयन्, पूर्वान्तभूतपरिकल्पसमुत्थितवितथसंकल्पसंदर्शितमनसिकारसमन्वाहारेण सर्वबोधिसत्त्वचर्यासम्यक्संकल्पाभिसंस्कारबलं समुत्थापयन्, अतीतात्मभावात्मार्थप्रयोगारम्भविषमतासमन्वाहारेण सर्वसत्त्वार्थारम्भवैशेषिकतया अध्याशयबलं दृढीकुर्वाणः, अतीतकायपर्येष्टिसमुदाचारस्वादतासमन्वाहारेण सर्वबुद्धधर्माप्रतिलम्भप्रयोगमहाश्वासप्रतिलम्भेन इन्द्रियवेगान् विवर्धयमानः, अतीताध्वविपर्याससंप्रयुक्तमिथ्यामययोगप्रयोगसमन्वाहारेण प्रत्युत्पन्नाध्वसम्यक्संदर्शनाविपर्याससंप्रयुक्तेन बोधिसत्त्वप्रणिधानेन संततिं परिशोधयन्, पूर्वान्तगतवीर्यारम्भकार्यापरिनिष्पन्नसमन्वाहारेण प्रत्युत्पन्नसर्वबुद्धधर्मसमुदागमप्रत्युपस्थानेन महावीर्यारम्भविक्रमेण कायचित्तसंप्रग्रहं जनयन्, पूर्वान्तकोटीपञ्चगत्यपायनिक्षिप्तात्मभावनिरुपणाख्यनिरुपजीव्यसमुच्छ्रायमपरान्तकोटीगतकल्पपरिग्रहप्रयुक्तस्य समन्वाहारेण सर्वबुद्धधर्मोत्थापकसर्वजगदुपजीव्यसर्वकल्याणसमर्थात्मभावपरिग्रहेण विपुलप्रीतिप्रामोद्यवेगान् विवर्धयमानः

प्रत्युत्पन्नजन्माभिनिवृत्तं जराव्याधिमरणशोककरभूतं संयोगवियोगनिधानभूतं समुच्छ्रयमपरान्तकोटीगतकल्पबोधिसत्त्वचर्याचरणप्रयुक्तस्य सत्त्वपरिपाचनबुद्धधर्मपरिग्रहप्रयुक्तस्य तथागतदर्शनसर्वक्षेत्रानुचरणसर्वधर्मभाणकोपस्थानसर्वतथागतशासनसंधारणप्रयुक्तस्यसर्वधर्मपर्येष्टिसहायभूतस्य सर्वकल्याणमित्रदर्शनसर्वबुद्धधर्मसमुदानयनप्रयुक्तस्य बोधिसत्त्वप्रणिधानशरीरस्य हेतुप्रत्ययभूतमवलोक्य अचिन्त्यकुशलमूलेन्द्रियवेगान् विवर्धयमानः /

एवंचित्तः एवंमनसिकारः एवंयोनिशःप्रयुक्तः सर्वबोधिसत्त्वप्रसादसमारोपितया श्रद्धया सर्वबोधिसत्त्वाशयसमारोपितेन प्रेम्णा सर्वबोधिसत्त्वाशयसमारोपितेन गौरवेण सर्वबोधिसत्त्वेन्द्रियप्रसादसमारोपितेन चित्रीकारेण सर्वबोधिसत्त्वशास्त्र्यधिमुक्तिसमुत्थितैरिन्द्रियप्रसादवेगैः सर्वबोधिसत्त्वगौरवनिर्यातेन चित्तप्रसादेन सर्वबोधिसत्त्वश्रद्धासमुत्थितैः कुशलमूलसंभारैः, सर्वबोधिसत्त्वाभिसंस्कारसमुत्थिताभिः पूजाविमात्रताभिः, सर्वबोधिसत्त्वसमैराश्रयैः कृताञ्जलिपुटैः सर्वजगच्छरीरसंभवाभिश्चक्षुर्विमात्रतावलोकनताभिः, सर्वजगत्संज्ञाजगत्समारोपिताभिः सर्वबोधिसत्त्वस्वराङ्गविशुद्धिसमुत्थितवर्णोदाहारव्यूहाभिनिर्हारैः, पूर्वान्तप्रत्युत्पन्नकोटीगतसर्वबोधिसत्त्वाधिष्ठानपरिपूर्णेन तथागतविहाराभिमुखीभावगतेन संज्ञागतेन सर्वत्रानुगतेन तथागतबोधिसत्त्वविकुर्वणासंबोधेन एकवालपथाव्यतिरिक्तेन सर्वबुद्धबोधिसत्त्वकायस्फरणानुगतेन सर्वबोधिसत्त्वचक्षुष्पथपरिशुद्धिसमारोपिताभिज्ञाज्ञानालोकविज्ञप्तिभिः, सर्वदिग्जालसंभेदानुगतेन मनआयतनेन धर्मधातुतलभेदस्फरणेन प्रणिध्यभिनिर्हारबलेन आकाशधातुपरमपर्यवसानेन सर्वत्रानुगतेन त्र्यध्वासंभिन्नेन (gv 369) अप्रतिप्रस्रब्धेन सर्वधर्मावतारमुखेन सर्वकल्याणमित्रानुशासन्यवभासदिक्प्रसृतेन श्रद्धाधिमुक्तिप्रवेशबलेन /

इति हि सुधनः श्रेष्ठिदारकः एवं गौरवचित्रीकारपूजास्तवप्रणिपातोदीक्षमाणाधिष्ठानप्रणिधानसंज्ञानुगतमानसः एवमप्रमाणज्ञानगोचरभूमिप्रसृतेन ज्ञानचक्षुषा वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य पुरस्ताद्द्वारमूले सर्वशरीरेण प्रणिपतितः / स इममेवंरूपमभिनिर्हारप्रयोगं मुहूर्तं विचार्य अधिमुक्तिश्रद्धासमुत्थितेन अध्याशयप्रणिध्यभिनिर्हारबलेन अप्रतिप्रस्रब्धमात्मानमध्यतिष्ठत् सर्वतथागतपादमूलेषु, एवं सर्वबोधिसंमुखीभावेषु सर्वकल्याणमित्रभवनेषु सर्वतथागतचैत्येषु सर्वतथागतविग्रहेषु सर्वबोधिसत्त्वेषु सर्वबुद्धावासेषु सर्वधर्मरत्नस्थानेषु सर्वश्रावकप्रत्येकबुद्धाश्रयचैत्यसंमुखीभावेषु सर्वार्यगणदक्षिणीयगुरुमातापितृपर्यन्तेषु अप्रतिप्रस्रब्धमात्मानमध्यतिष्ठत् सर्वजगत्कायसंमुखीभावेषु सर्वत्रानुगतेन ज्ञानशरीरासंभेदनयप्रवेशानुगतेन संज्ञाधिष्ठानज्ञानमनसिकारेण / यथा च वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य पुरस्तात्, एवं पूर्वपरिकीर्तितेषु सर्वारम्बणेषु सर्वधर्मधातुस्फरणं प्रणिपातमध्यतिष्ठत् /

एवमपरान्तकोटीगतान् कल्पानप्रतिप्रस्रब्धमधिष्ठाय आकाशधातुपर्यन्तप्रमाणसमतया धर्मधात्वनावरणसमतया सर्वत्रानुगतभूतकोटीसमतया तथागताविकल्पसमतया छायागतज्ञानसंज्ञास्फरणतया स्वप्नसमविचारसमतया प्रतिभाससमसर्वलोकजगद्विज्ञप्तिसमतया प्रतिश्रुत्कासमहेतुप्रत्ययसमुत्थानसमतया अनुत्पादसमतया संभवविभवसमतया अभावसमप्रत्ययप्रतीत्यावर्तनसमतया यथाकर्मसमुत्थितं विपाकमधिमुच्यमानो यथाहेतुसमुत्थितं फलमधिमुच्यमानो यथोपचयसमुत्थितां सर्वक्रियामधिमुच्यमानः श्रद्धासमुत्थितं सर्वतथागतोत्पादमधिमुच्यमानो यथाधिमुक्तिसमुत्थितानि सर्वबुद्धपूजानिर्माणान्यधिमुच्यमानो गौरवसमुत्थितानि सर्वतथागतनिर्माणान्यधिमुच्यमानः कुशलमूलोपचयसमुत्थितां सर्वबुद्धधर्मतामधिमुच्यमानः प्रज्ञोपायसमुत्थितान् सर्वमनोमयव्यूहोपचयानधिमुच्यमानः प्रणिधिसमुत्थितान् सर्वबुद्धधर्मानधिमुच्यमानः परिणामनासमुत्थितान् सर्वबोधिसत्त्वचर्यासर्वज्ञताविषयधर्मधातुविठपनस्फरणालंकारव्यूहानधिमुच्यमानः उच्छेदसंज्ञाविगतेन परिणामनाज्ञानेन शाश्वतसंज्ञाविभूतेन अनुत्पादज्ञानेन हेतुक्रियादृष्टिविगतेन सम्यक्क्रियादृष्टिविगतेन समक्रियादृष्टिविगतेन समक्रियावतारहेतूपचयज्ञानेन, विपर्यासदृष्टिविगतेन अपरप्रत्ययज्ञानेन, आत्मपरसंज्ञादृष्टिविगतेन प्रतीत्यावतारज्ञानेन, अन्तग्राहदृष्टिविगतेन अनन्तमध्यधर्मधातुप्रवेशज्ञानेन, संक्रान्तिदृष्टिविगतेन प्रतिष्ठासमताभिनिर्वृत्तिज्ञानेन भवविभवदृष्टिविगतेन अनुत्पादनिरोधज्ञानेन, सर्वदृष्टिविगतेन शून्यतानुत्पादज्ञानेन,

अनैश्वर्यधर्मताप्रतिबद्धेन प्रणिध्यभिनिर्हारज्ञानबलेन सर्वनिमित्तसंज्ञापनीतेन अनिमित्तकोटीमुखज्ञानेन बीजाङ्कुरविनाशधर्मतया मुद्राप्रतिमुद्रासमुत्थानसमधर्मतया प्रतिबिम्बदर्शनसमधर्मतया प्रतिश्रुत्कासमरुतघोषविज्ञप्तिधर्मतया स्वप्नसमविचारविज्ञप्तिधर्मतया प्रतिभासदर्शनसमधर्मतया मायागतसमकर्मसमुत्थानधर्मतया चित्तारूपिलोकोत्थापनधर्मतया यथाप्रत्ययहेतूपचयफलधर्मतया, यथाकर्मोपचयविपाकसमधर्मतया उपायकौशल्यविठपनधर्मतया धर्माधर्मसमतिसमताभिष्यन्दितधर्मतया /

एवं ज्ञानप्रवेशाभिनिर्हृतेन संज्ञामनसिकारेण सुधनः श्रेष्ठिदारको (gv 370) वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य पुरस्तात् प्रणिपातितः / सुचिरमतिनमय्य अचिन्त्यकुशलमूलवेगाभिष्यन्दितसंतानः प्रह्लादितकायचित्तः ततः कूटागारद्वारमूलादुत्थाय मुहूर्तमनिमिषाभ्यां नेत्राभ्यां वैरोचनव्यूहालंकारगर्भं महाकूटागारं संप्रेक्ष्य कृताञ्जलिपुटो ऽनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य एवंसंज्ञामनसिकारसंप्रेषितचित्तो वाचमभाषत - अयं स शून्यतानिमित्ताप्रणिहितविहारविहारिणामावासः / अयं स सर्वधर्माविकल्पविहारविहारिणामावासः / धर्मधात्वसंभेदविहारविहारिणां सत्त्वधात्त्वनुपलम्भविहारविहारिणां सर्वधर्मानुत्पादविहारविहारिणां सर्वलोकानिकेतविहारविहारिणां सर्वजगदालयानिलयविहारविहारिणां सर्वावसिञ्चितविहारविहारिणां सर्वापाश्रयानिश्रितविहारविहारिणां सर्वसमुच्छ्रयानिश्रितविहारविहारिणां सर्वक्लेशसंज्ञागतविधूतविहारविहारिणां सर्वधर्मास्वभावविहारविहारिणां सर्वकल्पविकल्पाविकल्पविहारविहारिणां सर्वसंज्ञाचित्तमनोविविक्तविहारविहारिणां सर्वसंज्ञानायूहनिर्यूहविहारविहारिणां गम्भीरप्रज्ञापारमिताप्रवेशविहारविहारिणां समन्तमुखधर्मधातुस्फरणोपायविहारविहारिणां समन्तक्लेशशान्तोपायविहारविहारिणां सर्वदृष्टितृष्णामानप्रहीणप्रज्ञोत्तरविहारिणां सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाविद्योत्पादविक्रीडितविहारविहारिणां सर्वबोधिसत्त्वसमाधिगोचरभावनाविहारविहारिणामयं सर्वबुद्धपादमूलोपनिश्रितविहारविहारिणामावासः / ये ते एककल्पसर्वकल्पसर्वकल्पैककल्पानुप्रवेशविहारविहारिणः /

ये ते एकक्षेत्रसर्वक्षेत्रैकक्षेत्रासंभेदविहारविहारिणः / ये ते एकधर्मसर्वधर्मसर्वधर्मैकधर्माविरोधविहारविहारिणः / ये ते एकसत्त्वसर्वसत्त्वैकसत्त्वानानात्वविहारविहारिणः / ये ते एकबुद्धसर्वबुद्धसर्वबुद्धैकबुद्धाद्वयविहारविहारिणः / ये ते सर्वार्थैकक्षणप्रवेशविहारविहारिणः / ये ते सर्वक्षेत्रैकचित्तोत्पादगमनविहारविहारिणः / ये ते सर्वसत्त्वभवनप्रतिभासविहारविहारिणः / ये ते सर्वलोकहितसुखचित्तविहारविहारिणः / ये ते सर्वस्वाधीनप्रतिलम्भविहारविहारिणः, तेषामयं विहारः / ये ते लोकनिकेतोच्चलिताश्च सर्वजगद्भवनेषु संदृश्यन्ते सर्वसत्त्वपरिपाचनाय / ये ते सर्वक्षेत्रानिश्रिताश्च सर्वक्षेत्रेषु च अनुविचरन्ति तथागतपूजाकर्मणे / ये ते सर्वक्षेत्राणि च अनुविचरन्ति सर्वबुद्धक्षेत्रव्यूहपरिग्रहणतायै, न च स्थानाद्विचरन्ति / ये ते सर्वतथागतपादमूलगताश्च बुद्धसंज्ञाभिनिवेशविगताश्च / ये ते सर्वकल्याणमित्रोपनिश्रयविहारविहारिणश्च, न चैषां सर्वजगति समसमो ऽस्ति ज्ञानेन / ये ते सर्वमारभवनविहारविहारिणश्च कामगुणरतिविप्रयुक्ताश्च / ये ते सर्वसंज्ञागतप्रवेशविहारविहारिणश्च सर्वसंज्ञागतविधूतमानसाश्च / ये ते सर्वजगच्छरीरानुगतकायाश्च न चात्मसत्त्वद्वयविहारिणः / ये ते सर्वलोकधात्वन्तर्गतकाया न च धर्मधातुसंभेदविहारिणः / ये ते सर्वानागतकल्पसंवासप्रणिधानाश्च, न च दीर्घह्रस्वकल्पसंज्ञागतविहारविहारिणः /

ये ते एकवालपथाश्च न चलन्ति, सर्वलोकधातुषु च संदृश्यन्ते, तेषामयं दूरासदधर्मदिगनुप्रवेशविहारविहारिणां दुराज्ञेयविहारविहारिणां गम्भीरविहारविहारिणाम् अद्वयविहारविहारिणाम् अलक्षणविहारविहारिणां निःप्रतिपक्षविहारविहारिणाम् अनुपलम्भविहारविहारिणां (gv 371) निष्प्रपञ्चविहारविहारिणां महामैत्रीमहाकरुणाविहारविहारिणां सर्वश्रावकप्रत्येकबुद्धदुरवगाहविहारविहारिणां सर्वमारविषयसमतिक्रान्तविहारविहारिणां सर्वलोकविषयानुपलिप्तविहारविहारिणां सर्वबोधिसत्त्वपारमिताविहारविहारिणां सर्वबुद्धविहारानुकूलविहारविहारिणामयं विहारः / ये ते सर्वनिमित्तापगतविहारिणश्च, न च श्रावकनियाममवक्रामन्ति / ये ते सर्वधर्मानुत्पादविहारविहारिणश्च, न च अनुत्पादधर्मतायां पतन्ति / ये ते ऽशुभाविहारविहारिणश्च, न च रागविरागधर्मतां साक्षात्कुर्वन्ति, न च रागधर्मैः सार्धं संवसन्ति / ये ते मैत्रीविहारविहारिणश्च, न च दोषमलोपगतचित्ताः / प्रतीत्यसमुत्पादविहारविहारिणश्च अत्यन्तासंमूढाश्च सर्वधर्मेषु / ये ते चतुर्ध्यानविहारिणश्च, न च ध्यानवशेनोपपद्यन्ते / ये ते चतुरप्रमाणविहारविहारिणश्च, न च रूपधातुगतिं गच्छन्ति सर्वसत्त्वपरिपाचनार्थम् / ये ते चतुरारूप्यसमापत्तिविहारविहारिणश्च, न चारूप्यधातुगतिं गच्छन्ति महाकरुणापरिगृहीतत्वात् / ये ते शमथविपश्यनाविहारविहारिणश्च, न चात्मना विद्याविमुक्तिं साक्षात्कुर्वन्ति सर्वसत्त्वपरिपाकाय / ये ते महोपेक्षाविहारविहारिणश्च, न च सत्त्वधातुं परित्यजन्ति / ये ते शून्यताविहारविहारिणश्च, न च दृष्टिगतसंनिश्रिताः /

ये ते आनिमित्तगोचराश्च निमित्तचरितसत्त्वनयाभिमुक्ताश्च / ये ते सर्वप्रणिधानविगताश्च बोधिसत्त्वप्रणिधानव्यवच्छिन्नाश्च / ये ते सर्वकर्मक्लेशवशवर्तिनश्च, सत्त्वपरिपाकाय च कर्मक्लेशवशानुगाः संदृश्यन्ते / ये ते च्युत्युपपत्तिपरिज्ञाताविनश्च, जन्मच्युतिमरणं च संदर्शयन्ति / ये ते सर्वगतिव्यतिवृत्ताश्च, सर्वगतिषु च गच्छन्ति सर्वविनयवशेन / ये ते मैत्रीविहारिणश्च, न क्वचिदनुनयविहारिणः / ये ते करुणाविहारिणश्च, न क्वचिदनुसंशयदर्शनविहारिणः / ये ते मुदिताविहारिणश्च नित्योद्विग्नाश्च दुःखितसर्वव्यवलोकनतया / ये ते उपेक्षाविहारिणश्च परकार्येषु / ये ते नवानुपूर्वविहारसमापत्तिविहारिणश्च, न कामधातूपपत्तिविजुगुप्सकाः / ये ते सर्वोपपत्त्यनिश्रितविहारिणश्च, न च भूतकोटीसाक्षात्करणविहारिणः / ये ते त्रिविमोक्षविहारिणश्च, न च श्रावकविमुक्तिस्पर्शविहारिणः / ये ते चतुरार्यसत्यव्यवलोकनविहारिणश्च, न च फलसाक्षात्करणविहारिणः / ये ते गम्भीरप्रतीत्यसमुत्पादव्युपपरीक्षणविहारिणश्च, न चात्यन्तनिपतनविहारिणः / ये ते आर्याष्टाङ्गमार्गभावनाविहारिणश्च, न चात्यन्तनिर्याणविहारिणः / ये ते पृथग्जनभूमिसमतिक्रान्तविहारिणश्च, न च श्रावकप्रत्येकबुद्धभूमिपतनविहारिणः / ये ते पञ्चोपादानस्कन्धपरिज्ञानविहारिणश्च, न चात्यन्तस्कन्धनिरोधविहारिणः / ये ते चतुर्मारपथसमतिक्रान्तविहारिणश्च, न च मारकल्पनविहारिणः / ये ते षडायतनसमतिक्रान्तविहारिणश्च, न चात्यन्तानभिनिर्वृत्तिविहारिणः / ये ते तथताविहारिणश्च, न च भूतकोट्यायतनविहारिणः /

ये ते सर्वयाननिर्याणसंदर्शनविहारिणश्च, न च महायानच्यवनविहारिणः तेषामयं सर्वगुणविहारिणां विहारः //

अथ खलु सुधनः श्रेष्ठिदारकस्तस्यां वेलायामिमा गाथा अभाषत -

इह सो महाकरुण लाभि विशुद्धबुद्धिर्मैत्रेय मैत्रशिरि लोकहिताभियुक्तः / अभिषेकभूमिस्थित ज्येष्ठसुतो जिनानां विहराति बुद्धविषयं अनुचिन्तयन्तः // 1 //

सर्वेष यो जिनसुतान महायशानां महाज्ञानगोचर विमोक्षप्रतिष्ठितानाम् / ये धर्मधातु विचरन्ति असज्जमाना आवासु तेषमयमप्रतिपुद्गलानाम् // 2 //

दमदानशीलक्षमवीर्यबलोद्गतानां ध्यानैरभिज्ञबलपारगतिंगतानाम् / प्रज्ञाउपायप्रणिधानबलस्थितानां महायानपारमिगतानमयं विहारः // 3 //

एषो असङ्गमतिनां विपुलाशयानां आकाशगोचररतानमनिश्रितानाम् / सर्वत्रियध्वस्फरणानमनावृतानां आवासु सर्वभवभावविभावितानाम् // 4 //

ये सर्वधर्मअनुत्पादनयप्रविष्टा विमृशन्ति धर्मप्रकृतिं गगनस्वभावाम् / न करोन्ति निश्रयु क्वचिद्गगने व पक्षी तेषां विहारु अयु ज्ञानविशारदानाम् // 5 //

ये रागदोषमथ मोहस्वभाव ज्ञात्वा संकल्पहेतुजनितां वितथप्रवृत्तिम् / निर्विकल्पयन्ति च विरागमयीह तेषां शान्तप्रशान्त्युमगतानमयं विहारः // 6 //

ये ते विमोक्षमुखसत्यनयार्थमार्गस्कन्धांस्तथायतनसत्त्वप्रतीत्यतां च / प्रपरीक्षमाण न पतन्ति विदू प्रशान्तिप्रज्ञाउपायकुशलानमयं विहारः // 7 //

ये ते अनावरणज्ञानदिशं प्रविष्टा जिनक्षेत्र सत्त्वपरिकल्पविकल्पशान्ता / भावस्वभावरहिता न विमृषन्ति धर्मान् आवासु तेषमय शान्तिपरायणानाम् // 8 //

ये ते असङ्गचरिता इम धर्मधातुं विचरन्ति भावविगता खगवायुभूताः / सर्वं निकेतविगता अनिकेतचारी तेषामनिश्रितमतीनमयं विहारः // 9 //

ये दृष्टिदुर्गतिगतां जनतामखिन्नां दुःखान्तरां कटुक वेदन वेदयन्तीम् / मैत्रप्रभाय शमयन्ति अपाय सर्वान् आवासु तेषमय मैत्रकृपाशयानाम् // 10 //

संसारसंकटगतार्यपथप्रनष्टं जात्यन्धसार्थमिव दैशिकविप्रहीणम् / ये प्रेक्ष्य लोकमिह मोक्षपथे प्रणेन्ति सार्थातिवाहसदृशानमयं विहारः // 11 //

ये जातिशोकजरमृत्युवशोपनीतं दृष्ट्वा जगन्नमुचिस्कन्धवपाशबद्धम् / संप्रापयत्यभयक्षेमदिशं विमोच्य शूराण तेषमयमा(वा)सु सुदुर्जयानाम् // 12 //

क्लेशातुरं जनमिमं व्यवलोकयित्वा समुदानयन्त्यमृतज्ञानमहौषधानि / परिमोचयन्ति विपुलां करुणां जनित्वा महवैद्यराजदृशानमयं विहारः // 13 //

ये ते निशाम्य जनतां दुखितामत्राणां शोकाकरे पतित मृत्युसमुद्रगामि / तारेन्ति कृव महतीं शुभधर्मनावं तेषां विहारमय दाशसुतोपमानाम् // 14 //

ये क्लेशसागरचरां जनतां निशाम्य सर्वज्ञचित्तरतनाशयशुद्धसत्त्वा / अभ्युद्धरन्ति भवसागरमोतरित्वा कैवर्तपुत्रसदृशानमयं विहारः // 15 //

प्रणिधानआलयगता कृपमैत्र्यदृष्ट्या ये सर्वसत्त्वभवनान्यवलोकयित्वा / अभ्युद्धरन्ति जनतां भवसागरस्थां गरुडेन्द्रपोतसदृशानमयं विहारः // 16 //

ये धर्मधातुगगने शशिसूर्यभूता विचरन्ति सत्त्वभवनप्रतिभासप्राप्ताः / प्रणिधानमण्डल* * * * ज्ञानरश्मी लोकप्रभासकरणानमयं विहारः // 17 //

ये एकसत्त्वपरिपाचनताय धीरा तिष्ठन्ति कल्पनयुतानपरान्तनिष्ठा / यथ एकि सत्त्वि तथ सर्वजगत्यशेषम् आवासु तेषमय लोकपरायणानाम् // 18 //

ये एकक्षेत्रप्रसरे अपरान्तकल्पान् विचरन्ति चारिक जगार्थमखिन्नवीर्याः / यथ एकक्षेत्रि तथ सर्वदशद्दिशासु आवासु तेषमय वज्रदृढाशयानाम् // 19 //

ये धर्ममेघ सुगतान दशद्दिशासु एकासने स्थित पिबन्ति असंप्रमूढाः / अपरान्तकल्पनियुतान्यवितृप्तचित्ता सहबुद्धिसागरसमानमयं विहारः // 20 //

ये क्षेत्रसागर व्रजन्ति अनाभिलाप्यान् प्रविशन्ति चो परिषसागर नायकानाम् / ये पूजसागर विचित्र जिने करोन्ति तेषामसङ्गचरणानमयं विहारः // 21 //

ये चार्यसागरप्रविष्टमनन्तमध्यात् प्रणिधानसागर विगाहयमान धीराः / बहुकल्पसागर चरन्ति जगद्धितार्था तेषां विहारु अयु सर्वगुणाकराणाम् // 22 //

ये एकि वालपथि उत्तरमान क्षेत्रात् बुद्धांश्च सत्त्व तथ कल्प अनन्तमध्यान् / प्रविशन्ति एन्त न पुना च उपेन्ति सीमां तेषामसङ्गनयनानमयं विहारः // 23 //

ये एकचित्तक्षणि कल्पमहासमुद्रान् प्रविशन्ति क्षेत्र तथ बुद्धजगत्प्रचारान् / तेषामनावरणज्ञानमतिस्थितानाम् एषो विहार गुणपारमितोद्गतानाम् // 24 //

ये सर्वक्षेत्रपरमाणुरजान् गणित्वा बिन्दुप्रमाण तुलयित्व जलौघ सर्वम् / तावत्प्रमाणप्रणिधीनभिनिर्हरन्ति तेषामसङ्गतगतानमयं विहारः // 25 //

प्रणिधानधारणिसमाधिमुखप्रवेशान् ध्याना विमोक्ष प्रणिधानमुखानि चैव / अभिनिर्हरन्ति विचरन्ति अनन्तकल्पान् इह ते प्रविष्ट सुगतान सुताः स्मृतीमाः // 26 //

इह ते स्थिता जिनसुता विविधा विचित्रा अभिनिर्हरन्ति बहुशास्त्रकथार्थयुक्ताः / सौख्यावहानि जगतामिह शिल्पस्थानान्यनुचिन्तयन्त विहरन्ति सतां विहारः // 27 //

इह ते स्थिता महअभिज्ञौपायज्ञाने यावन्त सत्त्वगतिभेद दशद्दिशासु / सर्वत्र जन्मच्युतिभेद विदर्शयन्ति मायागते स्थित विमोक्ष असङ्गचर्याः // 28 //

इह ते स्थिता प्रथमचित्तसमुद्भवाद्यां दर्शेन्ति धर्मचर्यां वसुधर्मनिष्ठाम् / आपूर्य निर्मितघनैरपि धर्मधातुम् एवं विकुर्वितशतान्युपदर्शयन्ति // 29 //

ये एकचित्तप्रसरेण विबुद्ध बोधिं प्रविशन्ति ज्ञानमतिकर्म अनन्तमध्या / संमोहकेत्वव्रजि लोकु य चिन्तयान एवं दुरासदगतानमयं विहारः // 30 //

एषो असङ्गमतिनामनावरणधर्मधातुचरणानाम् / अनिलम्भगोचराणां विहारु विमलाशयमतीनाम् // 31 //

ये ते असङ्गचारी अनिकेतविहारि सर्वक्षेत्रेषु / अद्वयज्ञानविहारी अयु तेष विहारु असमानाम् // 32 //

खप्रकृतिसमान् य एते धर्माननालयान् शान्तान् / विहरन्ति गगनगोचर तेषयमावासु विरजानाम् // 33 //

इह ते कृपाशयमती स्थित्वा जगदीक्ष्य दुःखशोकहतम् / लोकहितचिन्तनपरा विहरन्ति महकरुणलाभी // 34 //

इह ते अनन्तरहिता दृश्यन्ते सर्वसत्त्वभवनेषु / शशिसूर्यमण्डलसमाधि मुक्त संसारपाशेभ्यः // 35 //

इह ते स्थिता जिनसुताः सर्वजिनानां च पादमूलेषु / दृश्यन्ति सर्वक्षेत्रेष्वनन्तकल्पान् क्षपयमाणाः // 36 //

इह ते जगदण्डसमैः सर्वजिनसुताश्रयप्रमाणैश्च / सर्वदिशो ऽनवशेषाः स्फरन्ति निर्माणमेघेभिः // 37 //

इह ते प्रविष्ट शूराः सर्वं जिनगोचरं तुलयमाना / विहरन्ति कल्पनयुतान्न चापि तृप्तिं समुपयान्ति // 38 //

इह ते समाधिनयुतानभिलाप्यानि प्रतिक्षणं बुद्ध्या / दर्शेन्ति बुद्धविषयं यथा समाधिप्रवेशेन // 39 //

इह ते क्षणावलम्बा कल्पक्षेत्राणि बुद्धनामानि / प्रविशन्ति विपुलबुद्धी कल्पान् क्षपयन्त्यपरिमाणान् // 40 //

इह ते स्थिताप्रमेयाकल्पान् प्रविशन्ति एकचित्तेन / परिकल्पसंज्ञविगता जगतः संज्ञावशगतेन // 41 //

इह ते समाधिभवनप्रतिष्ठ पश्यन्ति त्रयो ऽध्वानः / एकक्षणकोटिप्राप्ता विमोक्षभवने विचरमाणाः // 42 //

इह ते स्थिता विहारे पर्यङ्कनिषण्णानुच्चलितकायाः / सर्वेषु क्षेत्रेषु युगपद्दृश्यन्ति सर्वगताः // 43 //

इह विहरन्तो वृषभी धर्मसमुद्रात्पिबन्ति सुगतानाम् / अवतीर्ण ज्ञानसागरमक्षयगुणपारमिताप्राप्ताः // 44 //

इह सर्वक्षेत्रसंख्यां कल्पानां चैव धर्मसंख्यां च / सर्वजिनानां संख्यां चिन्तेन्ति अनावरणचिन्ती // 45 //

इह ते स्थिता जिनसुता यावत् क्षेत्रास्त्रियध्वसंख्याताः / एकक्षणेन तेषां संभवविभवं विचिन्वन्ति // 46 //

इह ते स्थिता जिनानां चर्यां प्रणिधिं च इन्द्रियं जगताम् / पश्यन्तसमतायो जिनसुतभवने विचरमाणाः // 47 //

एकरजाग्रगतान् ये सर्वरजसमाननावरण अस्याम् / पश्यन्ति पर्षसागरक्षेत्रान् सत्त्वानि कल्पांश्च // 48 //

सर्वरजाग्रेषु एवं परिषक्षेत्राणि सत्त्वकल्पांश्च / प्रतिभासगतान् सर्वान् सुविभक्तान् संप्रपश्यन्ति // 49 //

इह ते धर्मस्वभावं सर्वक्षेत्राध्वकल्पसंबुद्धान् / भावस्वभावविगतानसंभवनयैर्विचिन्वन्ति // 50 //

स्थित्वेह सत्त्वसमतां धर्मेषु बुद्धसमतां च प्रेक्ष्य / त्र्यध्वनि क्षेत्रसमतां प्रणिधानसमतां च प्रविशन्ति // 51 //

विनयन्ति सत्त्वनयुतानन्ये महयन्ति बुद्धनयुतानि / विमृषन्त्यपरे धर्मानिह ते भवनवरे स्थिता धीराः // 52 //

कल्पनयुतैर्न येषां प्रणिधानज्ञानविषयमतिकल्पाः / शक्या मया हि वक्तुं विस्तीर्णो ऽनन्तु बुद्धीनाम् // 53 //

तेषामनिन्दितानां अनावरणगोचरं च निरतानाम् / आवासं वन्दे ऽहं कृतकरणकोशः प्रणतकायः // 54 //

तमपि जिनज्येष्ठसुतं निरावरणचर्यमार्यमैत्रेयन् / निरुपमविशुद्धबुद्धिं तदनु स्मृतिमां प्रणिपतामि // 55 //

इति हि सुधनः श्रेष्ठिदारको वैरोचनव्यूहालंकारगर्भमहाकूटागारनिवासिनो बोधिसत्त्वानेवं च अप्रमाणैर्बोधिसत्त्वस्तवैरभिष्टुत्य वन्दित्वा नमस्कृत्य प्रणिपत्य उद्वीक्ष चित्रीकृत्य आमुखीभूय अभिसंपूज्य वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य मूले ऽतिष्ठन्मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्य दर्शनमभिलषमाणो मैत्रेयस्य बोधिसत्त्वस्य समवधानमाकाङ्क्षमाणः / सो ऽद्राक्षीन्मैत्रेयं बोधिसत्त्वं बहिर्धा कूटागारस्य अन्यतमस्मात्प्रदेशादागच्छन्तमनेकप्राणिशतसहस्रपरिवारमनेकदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रपुरस्कृतं वामदक्षिणाभ्यां शक्रब्रह्मलोकपालैर्नमस्यमानं जन्मभूमिकैश्च बहुभिर्ज्ञातिसंबन्धिभिर्ब्राह्मणशतसहस्रैः परिवृतं पुरस्कृतं वैरोचनव्यूहालंकारगर्भकूटागाराभिमुखमागच्छन्तम् / दृष्ट्वा च तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन मैत्रेयो बोधिसत्त्वस्तेनाभिमुखो भूत्वा दूरत एव मैत्रेयस्य बोधिसत्त्वस्य सर्वशरीरेण प्रणिपतितः //

अथ खलु मैत्रेयो बोधिसत्त्वः सुधनं श्रेष्ठिदारकं व्यवलोक्य सर्वपर्षदो दक्षिणेन हस्तेनोपदर्श्य भूतैर्गुणैः संवर्णयन् गाथाभिरध्यभाषत -

पश्यथेमु सुविशुद्धआशयं सूधनं दृढधनान आत्मजम् / एषमाणु वरबोधिचारिकामागतो मम समीपि पण्डितः // 56 //

स्वागतं ति कृपमैत्रसंभव स्वागतं विपुलमैत्रमण्डला / स्वागतं प्रशमशान्तिलोचन मा किलाम्यसि चरन्तु चारिकाम् // 57 //

एहि स्वागतु विशुद्धआशया एहि स्वागतमखिन्नमानसा / एहि स्वागतमलीनैन्द्रिया मा किलाम्यासि चरन्तु सूरत // 58 //

सर्वधर्मविचराय उत्थिता सर्वसत्त्वविनयाय उत्सुका / सर्वमित्रभजनाय प्रस्थिता स्वागतं ति अचला दृढव्रता // 59 //

स्वागतं शुभपथेन आगता स्वागतं गुणपथे प्रतिष्ठिता / स्वागतं जिनपथेन प्रस्थिता मा श्रमं किल समर्थस्व क्वचित् // 60 //

एहि स्वागतु गुणेषु तन्मया स्वागतं ति कुशलानि(भि)स्यन्दित(?) / साधु स्वागतमनन्तगोचरा दर्शनं तव सुदुर्लभं जगे // 61 //

लाभालाभसमतुल्यमानसा निन्ददुःखअयशोविवर्जिता / लोकधर्मिकमलोत्पलोपमा साधु स्वागतमभ्रान्तमानसा // 62 //

मायशाठ्यविगता शुभाशय मानदर्पविगता सुभाजन / क्रोधरोषविगता अनुन्नत साधु ते दर्शनं सुदर्शनम् // 63 //

एहि सर्वदिशगोचरामुखा एहि सर्वदिशकोशसंभवा / एहि सर्वजिनकोशवर्धना स्वागतं ति अकिलान्तमानसा // 64 //

एहि स्वागतु त्रियध्वगोचरा धर्मधातुअधिमुक्तिमण्डला / सर्वबुद्धगुणगर्भसंभवा स्वागतं ति अकिलान्त सूरत // 65 //

एहि मञ्जुशिरिज्ञानपङ्कज एहि मेघशिरितोयवर्धित / एहि सर्वजिनपुत्रप्रेषित दर्शयामि ति अनावृतां दिशम् // 66 //

पश्यथ प्रणिधिजालु कीदृशं धर्मधातुस्फरणं अचिन्तियम् / बोधिसत्त्वचरिमार्गकर्षणं विस्तरन्तु सुधनो इहागतः // 67 //

एषमाणु सुगतान गोचरं मार्गमाणु विरजान चारिकाम् / पृच्छमान प्रणिधानसागरं आगतो अयमखिन्नमानसः // 68 //

यत्र शिक्षित अतीत नायकाः शिक्षिषेन्ति तथ ये अनागताः / तिष्ठतां च सुगतान या चरी पृच्छमाणु अयु तामिहागतः // 69 //

एति मित्र मम धर्मभाणकाः सर्वधर्मप्रतिपत्तिदेशकाः / बोधिसत्त्वचरिमार्गदेशका एवचित्त अयमागतो इह // 70 //

बोधिसत्त्व मम बुद्धिवर्धिका बुद्धपुत्र मम बोधिदायकाः / एति मित्र मम बुद्धवर्णिता एवचित्तकुशलो इहागतः // 71 //

मातृभूत जनकायिमे मम धात्रिभूत गुणस्तन्यदायकाः / बोधिअङ्गपरिपालकाः सदा एति मित्र अहितान्निवारकाः // 72 //

वैद्यभूत जरमृत्युमोचकाः शक्रभूत अमृताभिवर्षिकाः / चन्द्रभूत शुभपूर्णमण्डलाः सूर्यभूत शिवमार्गदर्शकाः // 73 //

मेरुभूत सम मित्रशत्रुषु सागरोपम अक्षोभ्यचेतसः / कर्णधारपरिपालकोपमा एवचिन्ति सुधनो इहागतः // 74 //

शूरभूत अभयप्रदायकाः सार्थवाह शरणं परायणम् / नायका मम सुखंददा इमे एवचित्त अयु मित्र सेवते // 75 //

सर्वधर्मदिशसुदर्शकाः सदा सर्वबुद्धगुणज्ञानदर्शकाः / सर्वदुर्गतिअपायशोधका एति मित्र मम साधु दर्शकाः // 76 //

एति सर्वजिनकोशदायका एति सर्वजिनगञ्जरक्षकाः / एति सर्वजिनगुह्यधारका एव मित्र भजतेष पण्डितः // 77 //

ज्ञानसंपद अतो विशुध्यते रूपभोगकुलजन्मसंपदः / * * * *अतो न दुर्लभा एवमाशय अयमिहागतः // 78 //

पश्यथा अयमुदारआशयः सेवमान इम मित्र पण्डितः / यादृशीं प्रतिजनेति सूरत एव यूयमनुशिक्षथो सदा // 79 //

एष पूर्वशुभपुण्यहेतुना दृष्टमञ्जुशिरि बोधिप्रस्थितः / अनुशास्ति अयु तस्य कुर्वतो पश्यथा कथमटत्यखेदवान् // 80 //

एष सर्वसुखसौख्य उज्झिय उत्सृजित्व अमरोपमं गृहम् / धात्रिमातृपितृभोगविस्तरं दासभूत इम मित्र सेवते // 81 //

एष आशय विशोध्य पण्डितः स्वाश्रयं जहिय मानुषं इमम् / सर्वबुद्धभवनं प्रवेक्ष्यते ईदृशं फलमतो भविष्यति // 82 //

एष दृष्ट्व जनव्याधिपीडितान् प्राणिनो दुखशतैरुपद्रुतान् / जन्ममृत्युभयशोकतापिनः तेषु अर्थि चरते कृपाशयः // 83 //

दुःखयन्त्रपरिपीडितं जगद् दृष्ट्व पञ्चगतिचक्रमण्डले / ज्ञानवज्रमयमेषते दृढं दुःखयन्त्रगतिचक्रभेदनम् // 84 //

रागदोषतृणथाणुकण्टकं दृष्टिसङ्गबहुकं क्षताङ्कुरम् / सत्त्वक्षेत्रपरिशोधनार्थिकः प्रज्ञलाङ्गल दृढं गवेषते // 85 //

मोहविद्यगहनाशयं जगत् प्रज्ञचक्षुहत नष्टदैशिकम् / तस्य क्षेमदिशदर्शनप्रभुः सार्थवाहु जगतो भविष्यति // 86 //

क्षान्तिधर्मत्रिविमोक्षवाहनो ज्ञानखङ्ग रिपुक्लेशधर्षकः / शूरभूत अभयस्य दायको देशिको हि जगतां भविष्यति // 87 //

धर्मनाव समुदानयत्ययं ज्ञानसागरपथे सुशिक्षितः / शाण्तिरत्नवरद्वीपनायकः कर्णधार त्रिभवार्णवे अयम् // 88 //

ज्ञानरश्मिप्रणिधानमण्डलः सर्वसत्त्वभुवनावभासनः / धर्मधातुगगने महाप्रभो बुद्धसूर्य समुदेष्यते अयम् // 89 //

मैत्रचन्दनसमानशीतलः सर्वसत्त्वसमचित्त सुप्रभः / शुक्लधर्मपरिपूर्णमण्डलो बुद्धचन्द्र समुदेष्यते अयम् // 90 //

आशये दृढतलप्रतिष्ठितो बोधिचर्य अनुपूर्व उद्गतः / सर्वधर्मरतनाकरो ह्ययं ज्ञानसागरवरो भविष्यति // 91 //

बोधिचित्तभुजगेन्द्रसंभवो धर्मधातुगगने समुद्गतः / धर्ममेघयुगपत्प्रवर्षणे सर्वशुक्लफलसस्यवर्धनम् // 92 //

शुद्धवर्ति त्रिमलं तमोहरं मैत्रस्नेहस्मृतिभाजनं दृढम् / बोधिचित्तविमलाग्निसुप्रभं धर्मदीपमयु जालयिष्यति // 93 //

बोधिचित्तकललः कृपार्बुदो मैत्रपेशि रण्वनाशयो घनः / बोधिअङ्गअनुपूर्वसंभवो बुद्धगर्भु अयु संप्रवर्धते // 94 //

पून्यगर्भमभिवर्धयिष्यति ज्ञानगर्भमपि शोधयिष्यति ज्ञानगर्भु समुद्दिश्यते अयं यादृशः प्रणिधिगर्भसंभवः // 95 //

ईदृशः करुणमैत्रवर्मितः सत्त्वमोचनमती हिताशयः / दुर्लभो जगि सदेवमानुषे यादृशो अयु विशुद्धमानसः // 96 //

ईदृशाशयसुमूलसंस्थितो ईदृशो दृढप्रयोगवर्धितः / ईदृशस्त्रिभवछादनप्रभो ज्ञानवृक्ष फलदः सुदुर्लभः // 96 //

एषा गुणसंभवनार्थिकः सर्वधर्मपरिपृच्छनार्थिकः / सर्वसंशयविदारणार्थिकः सर्व मित्र भजते अतन्द्रितः // 97 //

एष मारकलिक्लेशसूदनो एष दृष्टिमलतृष्णशोधनः / एष सर्वजगमोक्षणोद्यतः एष ते सदविशेषपण्डितः // 98 //

एष दुर्गति विशोधयिष्यति एष स्वर्गमुपदर्शयिष्यति / मोक्षमार्गमुपनेष्यते जगत् यादृशे गुणपथे प्रतिष्ठितः // 99 //

एष सर्वगतिदुःखमोचको एष सर्वगतिसौख्यदायकः / एष सर्वभवपाशछेदनो भेष्यते भवगतीनिषूदनः // 100 //

दृष्टिसंकट विमोचयिष्यति तृष्णजाललत छेदयिष्यति / नन्दिरागमुपशोधयिष्यति भेष्यते तृभवमार्गदर्शकः // 101 //

एष लोकशरणं परायणं एष सर्वजगति प्रभाकरः / नायकस्त्रिभुवने भविष्यति सर्वतो भवविभावकोविदः // 102 //

क्लेशसुप्तजनताविशोधकः कामपङ्कतरुतारको विदुः / संज्ञसक्तपरिमोचको अयं बन्धमोक्षकरणो भविष्यति // 103 //

धर्मधातुतलभेदभासनो लोकधातुतलभेदशोधनः / सर्वधर्मतलभेदपारगो भेष्यसे सुधन प्रीतिमान् भव // 104 //

यादृशं तव प्रयोग सूरतः श्रद्ध यादृश तवा अनिन्दितः / यादृशश्च गुणवांस्तवाशयः सर्व आप परिपूरयिष्यति // 105 //

सर्वबुद्ध नचिरेण द्रक्ष्यसि सर्वक्षेत्र नचिरेण यास्यसि / सर्वधर्म नचिरेण ज्ञास्यसि तादृशं ति शुभमात्मना कृतम् // 106 //

क्षेत्रसागर विशोधयिष्यसे सत्त्वसागर विमोचयिष्यसि / चर्यसागर प्रपूरयिष्यसि तादृशो* * प्रतिपत्तिसागरः // 107 //

त्वं भविष्यसि गुणान् भाजनं त्वं भविष्यसि शुभान संभवः / त्वं भविष्यसि जिनौरसैः समो यादृशं ति अधिमुक्तिमण्डलम् // 108 //

मारमण्डल पराजितं त्वया कर्ममण्डल विशोधितं च ते / क्लेशमण्डल विशोधितं त्वया यादृशं ति प्रणिधानमण्डलम् // 109 //

ज्ञानवर्तनि विशोधयिष्यसे धर्मवर्तनि प्रभावयिष्यसि / कर्मक्लेशदुखयन्त्रवर्तनिं नोचिरेण विनिवर्तयिष्यसि // 110 //

लोकचक्रभवचक्रमाश्रितं पञ्चगण्डगतिचक्रमोहितम् / सर्वसत्त्वदुखचक्रच्छेदनं धर्मचक्रतरु वर्तयिष्यसि // 111 //

बुद्धवंशमनुधारयिष्यसि धर्मवंश परिशोधयिष्यसि / संघवंश परिकर्षयिष्यसे रत्नसंभवकरो भविष्यसि // 112 //

तृष्णजाल विनिवर्तयिष्यसे दृष्टिजालगहनं तथैव च / दुःखजाल जगु मोचयिष्यसे तादृशः प्रणिधिजालु शोधितः // 113 //

सत्त्वधातु परिपाचयिष्यसे लोकधातु परिशोधयिष्यसि / ज्ञानधातुमुत्थापयिष्यसे आशयस्य तव धातु तादृशः // 114 //

सर्वसत्त्वहितप्रीतिनन्दनो बोधिसत्त्वकुलवंशनन्दनः / सर्वबुद्धप्रणिधाननन्दनो भेष्यसे सुधन नन्दिवर्धनः // 115 //

सर्वसत्त्वगतिवासदर्शनः सर्वक्षेत्रप्रतिभासदर्शनः / सर्वधर्मअवभासदर्शनस्त्वं भविष्यसि जिनः सुदर्शनः // 116 //

धर्मधातुअवभासनप्रभः सर्वदुर्गतिशमंकरप्रभः / भेष्यसे त्रिभवदुःखशंकरः * * * * * // 117 //

स्वर्गद्वारमुपदर्शयिष्यसे बुद्धद्वारु विवरिष्यसे जगे / मोक्षद्वारमुपनेष्यसे जगत् द्वारु तादृशु विशोधितं त्वया // 118 //

मिथ्यमार्ग विनिवर्तयिष्यसे आर्यमार्ग जनतां विनेष्यसि / बोधिमार्ग तथ त्वं अनुद्धतो मार्गसे दृढमते अतन्द्रितः // 119 //

त्वं भवार्णवगतान देहिनां दुःखपारगमनाय उत्सुकम् / तारयिष्यसि जगद्भवार्णवात्तादृशं भव महागुणार्णवः // 120 //

क्लेशसागर विशोष्य देहिनां ज्ञानसूर्यवररश्मिसागरैः / तान्निवेश्य प्रतिपत्तिसागरे ज्ञानसागर प्रतिष्ठपेष्यसि // 121 //

बुद्धिसागर विवर्धयिष्यसि चर्यसागर विशोधयिष्यसि / सर्वबुद्धप्रणिधानसागरं नोचिरेण अवगाहयिष्यसि // 122 //

क्षेत्रसागर बहु प्रवेक्ष्यसि द्रक्ष्यसे परिषसागरान् बहून् / बुद्धिसागरबलेन पण्डितः * * * * // 123 //

बुद्धमेघनयुतानि द्रक्ष्यसे पूजमेघ विपुलां करिष्यसि / धर्ममेघनयुतानि श्रोष्यसि तादृशा प्रणिधिमेघ कुर्वसि // 124 //

सर्वसत्त्वभवना स्फरिष्यसे सर्वक्षेत्रभवनानि यास्यसि / सर्वबुद्धभवनं प्रवेक्ष्यसे तादृशाय दिशाय प्रस्थितः // 125 //

त्वं समाधिभवनं प्रवेक्ष्यसे त्वं विमोक्षभवनानि लप्स्यसे / * * * * * धर्मधातुभवनप्रतिष्ठितः // 126 //

सर्वसत्त्वभवने उदेष्यसे चन्द्रसूर्यप्रतिभाससादृशः / उद्गमिष्यसि जिनान संमुखं तादृशस्तव महापथोद्गमः // 127 //

त्वं चरिष्यसि नतः सुगोचरे सर्वलोकअनिकेतगोचरे / त्वं भविष्यसि प्रशान्तगोचरः तादृशस्तव अभिज्ञगोचरः // 128 //

इन्द्रजालतलभेदने विदुः क्षेत्रजालतलभेद यावतः / नोचिरेण स्फरमाणु पश्यसे मारुतो व गगने असङ्गवान् // 129 //

धर्मधातुप्रसरं प्रवेक्ष्यसे लोकधातुप्रसरान् गमिष्यसे / सर्वबुद्धप्रसरांस्त्रियध्वगान् द्रक्ष्यसे सुधन प्रीति विन्दहि // 130 //

मैव खेद जनयाहि सूरता तुष्टि विन्दि विपुलां निरामिषम् / येन ते इमु विमोक्षु ईदृशो दृष्टु पश्यसि च भूयु द्रक्ष्यसे // 131 //

त्वं सुभाजन गुणान् सूधना * * * * जिनानुशास्तिषु / त्वं समर्थ इमु धारितुं नयं तेन पश्यसि इदं विकुर्वितम् // 132 //

येष कल्पनयुतैः सुदुर्लभं दर्शनं कुतु गुणप्रभावन / तेहि दृष्ट चरतो सुचारिकां बुद्धपुत्र अनिकेतगोचराः // 133 //

लाभ भूय विपुला अचिन्तिया स्वागतं च तव मानुषो भव / येन मञ्जुशिरि दृष्ट संमुखमीदृशं कृतु गुणान् भाजनम् // 134 //

सर्वदुर्गतिपथा विवर्धिताः सर्वअक्षणअपायशोधकाः / दुःखधर्म त्वयि सर्व उज्झिताः सर्वखेद च विवर्जिता भव // 135 //

बालभूमि विनिवर्तिता त्वया बोधिसत्त्वगुणभूमिसुस्थितः / ज्ञानभूमि परिपूर्य उत्तमा बुद्धभूमि नचिरेण लप्स्यसे // 136 //

बोधिसत्त्वचरि सागरोपमा बुद्धज्ञानविधि आकाशसादृशम् / तत्प्रमाणप्रणिधानसागरा एष तानि भव तुष्टमानसः // 137 //

ईदृशो अपरिखिन्नैन्द्रिया आशयदृढप्रयोगनिश्चिताः / ये भजन्ति इम मित्र ईदृशाः ते भवन्ति नचिरेण नायकाः // 138 //

दृष्ट्व सत्त्व विनयंगता बहु बोधिसत्त्वचरि चित्र यावत् / मा तु जातु विमतिं करिष्यसे सर्वधर्ममुख बोधिचारिकम् // 139 //

पुण्यसंपद अचिन्तिया तव अर्थधर्मगुणश्रद्धसंपदः / येन संपद इमा त्वमीदृशी बुद्धपुत्र इह अद्य पश्यसि // 140 //

पश्य लाभ तव कीदृशो महान् पश्यतो जिनसुता निरन्तरम् / दर्शयन्ति प्रणिधी स्वकस्वकांस्त्वं च तानखिलतो ऽनुगच्छसि // 141 //

दुर्लभा भवशतैरपीदृशा बोधिसत्त्वचरितेषु भाजना / तेन चो जिनसुता निरन्तरं ते विमोक्षनय दर्शयन्ति माम् // 142 //

कल्पकोटिनयुतानि ते जना संवसन्ति सुगतात्मजैः सह / ते ऽपि तेषु न विदन्ति गोचरं नात्म तैर्हि गुणभाजनं कृतम् // 143 //

त्वं शृणोषि इम ईदृशं नयं पश्यसे च सुदुर्लभं जगे / बोधिसत्त्वमहतां विकुर्वितं सूधना भव अग्रमानसः // 144 //

सर्वबुद्ध समन्वाहरन्ति ते बोधिसत्त्व तव संग्रहस्थिताः / त्वं च तेष अनुशासनिस्थितः साधु सूधन सुजीवितं तव // 145 //

बोधिसत्त्वकुलधर्मि वर्तसे शिक्षसे जिनसुतान त्वं गुणैः / भेष्यसे सुगतवंशवर्धनः प्रीति विन्दहि उदार सुधना // 146 //

सर्वबुद्ध पितरस्तवासमा बोधिसत्त्व तव सर्वि भ्रातरः / बोधिअङ्ग तव सर्वि ज्ञातयः त्वं सुजातु सुगतान ओरसः // 147 //

धर्मराजकुलवंशधारिणो बोधिसत्त्वकुलवंशवर्धनः / धर्मराजमचिरेण लप्स्यसे सूधना तुष्ट भव प्रीणितेन्द्रियः // 148 //

सर्वबुद्धमभिषेकमुत्तमं नोचिरेण* * * लप्स्यसे ऽद्भुतम् / भेष्यसे ऽसमसमैर्जिनौरसैः तादृशो भव सभागतो भव // 149 //

यादृशं वपति बीज यो नरो तादृशं लभति तस्य सो फलम् / प्रीति विन्द विपुलामचिन्तियां एष ते ऽद्य समन्वासयाम्यहम् // 150 //

चीर्ण कल्पनयुतान ये चरी बोधिसत्त्वनयुता अचिन्तिया / त ऽपि संपद लभन्ति नेदृशीमेकजन्मि प्रतिलब्ध या त्वया // 151 //

सर्वमेतदिह मुक्तितः फलं आशयस्य दृढवीर्यताय च / यस्य चारिक भवेदियं प्रिया सो धरेय सुधनस्य या चरी // 152 //

सर्वचर्य प्रणिधानसंभवा सर्वधर्म अधिमुक्तिसंभवा / सुधन एव समुदानितास्त्वया नित्यमेष हि विशेषचारिका // 153 //

यातुका भुजगचेतनोद्भवास्तातुको भवति वारिसंभवः / यातुका प्रणिधिज्ञानगोचरस्तातुका स्फरति बोधिचारिका // 154 //

एष भोतु तव दर्शितो तया भद्रनामचरियाय सूधन / एत ज्ञात्व स कदाचि भेष्यते सेवमान इह मित्र तन्मयः // 155 //

कायकोटि स्मर पूर्विका त्वया कामहेतु क्षयिता निरर्थकम् / अद्य बोधिय मार्गणो ह्ययं काय तर्जतु व्रतेन सुव्रतः // 156 //

कल्पकोटि अतिनामितास्त्वया सर्वदुःखमनुभूतु संस्कृते / गङ्गवालिकसमता विरागिता बुद्ध नो च श्रुत ईदृशो नयः // 157 //

सो इदानि क्षण लब्ध मानुषो बुद्धपादु इमु मित्रु ईदृशाः / श्रूयते च वरबोधिचारिका विशुद्धि न भविष्यते कथम् // 158 //

भोति भूय सुगतान संभवो मित्रधर्मश्रवणं च श्रूयते / नो च श्रूयति अयं पुनर्नयो आशयो यदि न भोति शोधितः // 159 //

तेन श्रद्धमधिमुक्तिआशयं संजनित्व गुरुगौरवं परम् / काङ्क्षदृष्टिपरिखेदवर्जितो भूय भूय नयमीदृशं शृणु // 160 //

तेष लाभ परमा अचिन्तियास्तेष मानुषभवः सुआगतः / यैरियं चरि प्रवेशमीदृशं श्रुत्व एव प्रणिधी भिर्निर्हृता // 161 //

तस्य सर्वि सुगता न दुर्लभा तस्य सर्वि जिनपुत्र नारतः / तस्य बोधयि न भूयु संशयो येन एव अधिमुक्ति शोधिता // 162 //

तेन सर्वि विनया न वर्जिताः तेन सर्वदुखधर्म उज्झिताः / तेन सर्वगुणसंग्रहः कृतः यो इमं नयु प्रविष्ट ईदृशम् // 163 //

नोचिरेण इमु कायु उज्झिया बुद्धक्षेत्र परिशुद्ध यास्यसि / बोधिसत्त्वभवनं प्रवेक्ष्यसि द्रक्ष्यसे दशदिशे तथागतान् // 164 //

पूर्वहेतुघन तुभ्य सूधन प्रत्युत्पन्न अधिमुक्ति निश्चिता / मित्र सेवसि विशेषअर्थिकः तेन वर्धयि जले यथोत्पलम् // 165 //

सर्वमित्रअभिराधनाशया सर्वबुद्धआरागणाशयाः / सर्वधर्मपरिपृच्छनाशया उत्थिहो किलमथो न सुव्रता // 166 //

सर्वधर्मप्रतिपत्तिमुत्थितः सर्वमार्गअनुमार्गसुस्थितः / बुद्धपुत्र प्रणिधानसुस्थित उत्थि सर्वगुणधर्मभाजन // 167 //

यादृशाय अधिमुक्तिसंपदा वन्दनं कृतमिदं त्वया मम / सर्वबुद्धपरिषासु संमुखं नोचिरेण हि समुद्गमिष्यसि // 168 //

साधु सूधन अखिन्नमानसः सर्वबुद्धप्रणिधानचेतनः / त्वं भविष्यसि दृढव्रताचिरं सर्वबुद्धगुणपारमिंगतः //

169 // सत्त्व मञ्जुशिरि पृच्छ सूधन ज्ञानगोचरविमोक्षपारगम् / भद्रनाम वर चर्य उत्तमां तनुमन्तिमे प्रवेशयिष्यति // 170 //

एव मैत्रकु असङ्गगोचरो दृष्ट सूधन गुणैः समुद्गतम् / दर्शयित्व परिषाय संमुखं वर्णकोशमिमु तस्य व्याहरि // 171 //

श्रुत्व सूधन तदानुशासनीमीदृशीं च अनुशास्ति उत्तमाम् / प्रीतिवेग अभिष्यन्दितेन्द्रिया अश्रुवेग विपुलान् प्रमुञ्चति // 172 //

सर्वरोमहरिषोद्गताश्रयो निश्वसन्तु परिप्रीणितेन्द्रियः / उत्थिहित्व सुधनः कृताञ्जलिः मैत्र नाम कुरुते प्रदक्षिणम् // 173 //

तस्य मञ्जुशिरि तेन तेजसा पुष्पहाररतना च पाणिषु / संस्थिता सुरुचिरा मनोरमा बोधिसत्त्वप्रणिधानसंभवाः // 174 //

सूधनो वरप्रहृष्टमानसो मैत्रकस्य क्षिपि तानि हर्षितः / तस्य शीर्षु परिमार्जते तदा मैत्रनाथ सुधनं च भाषते // 175 //

साधु साधु जिनपुत्र सूधन यस्य ते अपरिखेद ईदृशः / त्वं भविष्यसि गुणान भाजनं मञ्जुघोषु यथ यादृशो व हम् // 176 //

श्रुत्व सूधन उदानुदानयि दुर्लभा भवशतेषु ईदृशाः / मित्र येभिरिह मे समागमः सादु आगमनमद्य मे इह // 177 //

साधु सत्त्वगुणपारमिंगतो मञ्जुघोष भवतो ऽनुभावतः / मित्र लब्ध मय दुर्लभा इमे भोतु मे लघु समागमस्वयि // 178 //

अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - अहमार्य अनुत्तरायां सम्यक्संबोधावभिसंप्रस्थितः / न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / आर्यमैत्रेयो व्याकृतः सर्वतथागतैरेकजातिप्रतिबद्धतया अनुत्तरायां सम्यक्संबोधौ / यश्चैकजतिप्रतिबद्धो ऽनुत्तरायां सम्यक्संबोधौ, स समतिक्रान्तः सर्वबोधिसत्त्वव्यवस्थानानि, सो ऽवक्रान्तो बोधिसत्त्वनियामम् / तेन परिपूरिताः सर्वपारमिताः / सो ऽवतीर्णः सर्वाशाक्षान्तिमुखाणि / तेन प्रतिलब्धाः सर्वबोधिसत्त्वभूमयः / स विक्रीडितः सर्वविमोक्षमुखेषु / तेन परिनिष्पादिताः सर्वसमाधयः / स गतिंगतः सर्वबोधिसत्त्वगतिषु / तेन प्रतिलब्धाः सर्वधारणीप्रतिभाना आलोकनयाः / स वशिप्राप्तः सर्वबोधिसत्त्ववशितासु / तेन समुपार्जिताः सर्वबोधिसत्त्वसंभाराः / स विक्रीडितः प्रज्ञोपायकौशल्यनयेषु / तेनोत्पादिता महाभिज्ञाविद्याज्ञानालोकनयाः / स निर्यातः सर्वशिक्षासु / तेन परिशोधिताः सर्वबोधिसत्त्वचर्याः / तेनाभिनिर्हृतानि सर्वप्रणिधाननिर्याणमुखानि / तेन प्रतीष्टानि सर्वतथागतव्याकरणानि / सो ऽभिज्ञः सर्वयाननिर्याणमुखानाम् / तेन संधारितानि सर्वतथाधिष्ठानानि / तेन संगृहीता सर्वबुद्धबोधिः / तेनाधारिताः सर्वतथागतकोशाः / स गञ्जधरः सर्वतथागतगुह्यानाम् / स मूर्धप्राप्तः सर्वबोधिसत्त्वगुह्यमण्डलस्य / स शूरः सर्वक्लेशवंशविक्षोभितासु / स दैशिकः संसाराटवीप्राप्तानाम् / स वैद्यः क्लेशातुराणाम् / सो ऽग्रः सर्वसत्त्वानाम् / स इन्द्रः, स ज्येष्ठः सर्वार्यपुद्गलानाम् /

स उत्तमः सर्वार्यश्रावकप्रत्येकबुद्धानाम् / (gv 394) स कर्णधारः संसारसागरप्राप्तानाम् / तेनाकर्षितं महत्त्वसत्त्वविनयोपायजालम् / तेन व्यवलोकितानि परिपक्वजगदिन्द्रियाणि / स संप्रयुक्तः सर्वसत्त्वानाम्, परिपालनयुक्तः सर्वबोधिसत्त्वानाम् / स संगायनप्रयुक्तः सर्वबोधिसत्त्वक्रियासु / स संस्थितः सर्वतथागतपर्षन्मण्डलेषु / स प्रतिभासप्राप्तः सर्वजगद्भवनेषु / सो ऽनुपलिप्तः सर्वलोकधर्मैः / स समतिक्रान्तः सर्वमारविषयेभ्यः / सो ऽनुगतः सर्वबुद्धविषयम् / सो ऽनावरणप्राप्तः सर्वबोधिसत्त्वविषये / स पूजाप्रयुक्तः सर्वतथागतानाम् / स एकोतीभावगतः सर्वबुद्धधर्मेषु / तस्यावबद्धो ऽभिषेकपट्टः / तेनाध्यासितं महाधर्मराज्यम् / सो ऽभिषिक्तः सर्वज्ञज्ञानविषये / ततः प्रभवः सर्वबुद्धधर्माणाम् / तस्य बोधिप्राप्तं सर्वज्ञज्ञानाधिपत्यम् / तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, यथा प्रतिपद्यमानो बोधिसत्त्वो बोधिमधिगच्छति, सर्वबुद्धधर्मान् प्रतिमानयति, यथानिमन्त्रितं सत्त्वधातुमुत्तारयति, यथाभिरूढां प्रतिज्ञां निस्तारयति, महाबोधिचर्यारम्भं समाश्वासयति सदेवकं लोकं न विसंवदति, आत्मना सर्वबुद्धधर्मसंघान् व्यवच्छिनत्ति / बुद्धावंशमशून्यीकरोति बोधिसत्त्वकुलम् / संधारयति तथागतनेत्रीम् //

अथ खलु मैत्रेयो बोधिसत्त्वः सर्वं तत्पर्षन्मण्डलमवलोक्य सुधनं श्रेष्ठिदारकमुपदर्शयन्नेवमाह - पश्यथ कुलपुत्रा इमं श्रेष्ठिपुत्रम्, यो ऽयं मां बोधिसत्त्वचर्यागुणपरिनिष्पत्तिं परिपृच्छति / एष मार्षाः श्रेष्ठिदारकः अनेन वीर्यारम्भेण, अनया अर्थिकतया, एतेन च्छन्दसमादानेन, एतया दृढाशयतया, अनिवर्त्यवीर्यतया, एतया बुद्धधर्मातृप्ततया, एतया विशेषपरिमार्गणतया, एतया दीप्तशिरश्चैलोपमतया, एतया कल्याणमित्रदर्शनकामतया, एतया कल्याणमित्रपर्युपासनापरिखेदतया सर्वकल्याणमित्राणि परिमार्गमाणः परिपृच्छन् पर्युपासीनो मञ्जुश्रिया कुमारभूतेन संप्रेषितो धन्याकरान्नगरादुपादाय सर्वदक्षिणापथमटन् दशोत्तरं कल्याणमित्रशतं परिपृच्छन् यावन्ममान्तिकमनुप्राप्तः सर्वपरिखेदविगतेनाध्याशयेन / दुर्लभं कुलपुत्रा एवंरूपाणां महायानसंप्रस्थितानां महाप्रतिज्ञासमारूढानां महारम्भव्यवसितमानसानां महाकरुणासंनद्धगात्राणां महामैत्रीसत्त्वपरित्राणमतीनां महावीर्यपारमितोद्युक्तानां महासत्त्वसार्थपरिपालनाभियुक्तानां महासंसारसागरसत्त्वतारणप्रतिपन्नानां सर्वज्ञतामार्गसंप्रस्थितानां महाधर्मनौसमुदानयनोद्युक्तानां महाधर्मरत्नपुण्यसमुदानयनकृतव्यवसायानां महाधर्मयज्ञसंभारोपचयोद्युक्तानां नामधेयश्रवणं वा रूपकायदर्शनं वा गोचरसंवासो वा चर्यासभागता वा /

तत्कस्य हेतोः? एष हि कुलपुत्राः सत्पुरुषः सर्वजगत्परित्राणाय अभ्युत्थितः, सर्वदुःखसत्त्वपरिमोचनतायै सर्वदुर्गतिसमुच्छोषणाय सर्वाक्षणविनिवर्तनाय सर्वविषममार्गपरिवर्तनतायै सर्वाज्ञानतमोन्धकारविधमनतायै सर्वसंसारकान्तारसमतिक्रमणतायै सर्वगतिचक्रविनिवर्तनतायै सर्वमारविषयसमतिक्रमणतायै सर्वनिकेतस्थानोच्चलनतायै सर्वालयनिलयोन्नोदनतायै कामपङ्कसमुद्धरणतायै नन्दीरागप्रहाणाय दृष्टिबन्धननिर्हारणाय सत्कायाभिष्वङ्गविनिवर्तनतायै संज्ञापाशसमुच्छेदनतायै (gv 395) विपर्यासपथविनिवर्तनतायै अनुशल्यसमाबृंहणतायै निवरणकवाटनिर्भेदनतायै आवरणपर्वतविकिरणतायै तृष्णाजालोद्धरणतायै अविद्यासंयोजनविश्लेषकरणतायै भवोद्द्योतकरणतायै मायाशाठ्यप्रहाणाय चित्तकालुष्यप्रसादनाय संशयविमतिविलेखनसमुद्धरणतायै अज्ञानमहौघोत्तरणतायै सर्वसंसारदोषविजुगुप्सनतायै प्रतिपन्नः //

एष हि कुलपुत्राः सत्पुरुषः सत्त्वानां चतुरोघोत्तरणतायै महादानं महाधर्मनावं समुदानेतुकामो दृष्टिपङ्कनिमग्नानां महाधर्मसेतुं स्थापयितुकामो मोहान्धकारप्राप्तानां ज्ञानालोकं कर्तुकामः संसारकान्तारप्रनष्टानामार्यमार्गं संदर्शयितुकामः महाक्लेशव्याधिप्रपीडितानां धर्मभैषज्यं प्रदातुकामो जातिजरामरणोपद्रुतानाममृतधातुं दातुकामः त्रिविधाग्निसंप्रदीप्तानां शमथसलिलेन प्रह्लादयितुकामः शोकपरिदेवदुःखदौर्मनस्योपायाससंतप्तानां महाश्वासं दातुकामो भवचारकावरुद्धानां ज्ञानप्रहाणं दातुकामो दृष्टिबन्धनबद्धानां प्रज्ञाशस्त्रमुपसंहर्तुकामः त्रैधातुकनगरावरुद्धानां मोक्षद्वारं दर्शयितुकामः त्रैधातुकनगरावरुद्धानां मुक्तिद्वारं दर्शयितुकामः अक्षेमदिगभिमुखानां क्षेमां दिशमुपदर्शयितुकामः क्लेशसंस्कारोपद्रुतानां महाश्वासं दातुकामो दुर्गतिप्रपातभयभीतानां हस्तालम्बं दातुकामः स्कन्धवधकप्रघातितानां निर्वाणनगरमुपदर्शयितुकामो धातूरगपरिवृतानां निःसरणमाख्यातुकामः आयतनशून्यग्रामसंनिश्रितानां प्रज्ञालोकेन निष्काशयितुकामः कुतीर्थप्रतिपन्नान् सम्यक्तीर्थमवतारयितुकामः अमित्रहस्तगतानां भूतकल्याणमित्राणि दर्शयितुकामो बालधर्मगोचराभिरतानामार्यधर्मेषु प्रतिष्ठापयितुकामः संसारपुराभिरतानुच्चाल्य सर्वज्ञतापुरं प्रवेशयितुकामः //

स एष कुलपुत्राः सत्पुरुषः एवं सत्त्वपरित्राणाय अप्रतिप्रस्रब्धो बोधिचित्तोत्पादविशुद्धिं परिमार्गमाणो ऽयमपरिखिन्नो महायानसमुदानयाय, अपरितृप्तः, सर्वधर्ममेघयानैः, नित्योद्युक्तः सर्वसंभारपरिपूरणाय, अनिक्षिप्तधुरः सर्वधर्ममुखपर्यवदापनाय, असंश्रितवीर्यः सर्वबोधिसत्त्वचरणतायै, अनिवर्तप्रयोगः सर्वप्रणिधानाभिनिर्हाराय, अवितृप्तः सर्वकल्याणमित्रदर्शनेन, अक्लान्तकायः सर्वकल्याणमित्रपर्युपासनेन, प्रदक्षिणग्राही सर्वकल्याणमित्राववादानुशासनीषु //

दुर्लभाः कुलपुत्रास्ते सत्त्वाः सर्वलोके, ये ऽनुत्तरायां सम्यक्संबोधौ प्रणिदधति / अतस्ते दुर्लभतराः सत्त्वाः, ये ऽनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः / ईदृशेन वीर्यारम्भप्रयोगेन बुद्धधर्मान् समुदानयन्ति / ईदृश्या तीव्रच्छन्दिकतया बोधिसत्त्वमार्गं पर्येषन्ते / ईदृश्या अर्थिकतया बोधिसत्त्वचर्यां परिशोधयन्ति / ईदृशेन श्रमेण कल्यानमित्राणि पर्युपासते / ईदृश्या दीप्तशिरश्चैलोपमतया कल्याणमित्रज्ञानं न विलोमयन्ति / ईदृश्या दृढाध्याशयप्रतिपत्त्या कल्याणमित्रानुशासनीषु प्रतिपद्यन्ते / ईदृश्या प्रदक्षिणग्राहितया सर्वबोध्यङ्गानि समार्जयन्ति / ईदृश्या सर्वलाभसत्कारश्लोकानर्थिकतया बोधिसत्त्वाध्याशयधातुमविकोपक्रियया (gv 396) ईदृश्या गृहभोगकामरतिसुखमातापितृज्ञातिसर्ववस्त्वनपेक्षपरित्यागतया बोधिसत्त्वमहायानान् पर्येषन्ते / ईदृश्या कायजीवितनिरपेक्षतया सर्वज्ञतामभिलषन्ते / न हि कुलपुत्रस्तामन्ये बोधिसत्त्वाः कल्पकोटीनियुतशतसहस्रैर्बोधिसत्त्वचर्याप्रणिधिपरिपूरिमधिगमिष्यन्ते बुद्धबोधौ वसन्तो भविष्यन्ति बुद्धक्षेत्रपरिशुद्धौ वा, सत्त्वपरिपाकविनये वा, धर्मधातुज्ञानप्रवेशे वा, पारमितासमुदागमे वा, चर्याजालप्रविस्तारे वा, प्रणिधानाभिनिर्हारपरिपूर्यां वा, मारकर्मसमतिक्रमणे वा, कल्याणमित्रारागणे वा, सर्वबोधिसत्त्वचर्यासमुदानयपरिशोधने वा, समन्तभद्रबोधिसत्त्वचर्याभिनिर्हारबलपरिनिष्पत्तौ वा समुदागमिष्यन्ति, यदेषो ऽनेन एकजन्मप्रतिलम्भेन अधिगमिष्यति //

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वः सुधनस्य श्रेष्ठिदारकस्य भूतगुणवर्णकीर्तनं कृत्वा तदारम्बणं च प्राणिशतसहस्राणां बोध्यङ्गाशयं दृढीकृत्य सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, येन ते सर्वलोकहितसुखाय सर्वसत्त्वधातुपरित्राणाय सर्वबुद्धधर्मप्रतिलम्भाय अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / सुलब्धास्ते कुलपुत्र लाभाः, स्वागतश्च त्वं मनुष्यप्रतिलम्भः / सुजीवितं ते जीवलोकेषु / आराधितश्च ते बुद्धोत्पादः / सुदृष्टश्च ते मञ्जुश्रीः कल्याणमित्रम् / सुभाजनता च ते संतानस्य / स्वभिष्यन्दितश्च त्वं कुशलमूलैः / सूपस्तब्धश्च शुक्लधर्मैः / सुविशोधिता च ते उदाराधिमुक्तिकल्याणाध्याशयता / समन्वाहृतश्चासि सर्वबुद्धैः / सुपरिगृहीतश्च त्वं कुलपुत्र कल्याणमित्रैः, येन ते ऽध्याशयेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / तत्कस्य हेतोः? बोधिचित्तं हि कुलपुत्र बीजभूतं सर्वबुद्धधर्माणाम् /

क्षेत्रभूतं सर्वजगच्छुक्लधर्मविरोहणतया, धरणिभूतं सर्वलोकप्रतिशरणतया, वारिभूतं सर्वक्लेशमलनिर्धावनतया, वायुभूतं सर्वलोकानिकेततया, अग्निभूतं सर्वदृष्ट्युपादानकक्षनिर्दहनतया, सूर्यभूतं सर्वसत्त्वभवनावभासनतया, चन्द्रभूतं शुक्लधर्ममण्डलपरिपूरणतया, प्रदीपभूतं धर्मालोककरणतया, चक्षुर्भूतं समविषमसंदर्शनतया, मार्गभूतं सर्वज्ञतानगरप्रवेशनतया, तीर्थभूतं कुतीर्थविवर्जनतया, यानभूतं सर्वबोधिसत्त्वाभिरोहणतया, द्वारभूतं सर्वबोधिसत्त्वचर्यामुखप्रवेशनतया, विमानभूतं समाधिभावनाध्याशनतया, उद्यानभूतं धर्मरत्यनुभावनतया, लयनभूतं सर्वजगत्परित्राणतया, प्रतिशरणभूतं सर्वलोकहितवहनतया, निश्रयभूतं सर्वबोधिसत्त्वचरणतया, पितृभूतं सर्वबोधिसत्त्वारक्षणतया, जनयित्रीभूतं सर्वसत्त्वानाम्, धात्रीभूतं सर्वतः परिपालनतया, राजभूतं सर्वशैक्षाशैक्षप्रत्येकबुद्धचित्ताभिभवनतया, अधिपतिभूतं सर्वप्रणिधानविशिष्टतया, महासागरभूतं सर्वगुणरत्नसमवसरणतया, महामेरुभूतं सर्वसत्त्वसमचित्ततया, चक्रवालभूतं सर्वलोकप्रतिशरणतया, हिमवद्भूतं ज्ञानौषधिविवर्धनतया, गन्धमादनभूतं सर्वगुणगन्धाश्रयतया, गगनभूतं महागुणविस्तीर्णतया, पद्मभूतं सर्वलोकधर्मानुपलिप्ततया, नागभूतं दान्ताजानेयतया, आजानेयाश्वभूतं सर्वखटुङ्कताविगततया, सारथिभूतं महायानप्रतिलयनपूर्वंगमनतया, भैषज्यभूतं (gv 397) क्लेशव्याधिचिकित्सनतया, पातालभूतं सर्वाकुशलधर्मपर्यवदानकरणतया,

वज्रभूतं सर्वधर्मनिर्वेधनतया, गन्धकरण्डकभूतं गुणगन्धकरणतया, महापुष्पभूतं सर्वलोकाभिरुचितदर्शनतया, हिमचन्दनभूतं रागसंतापप्रह्लादनतया, कलापभूतं सर्वधर्मधातुस्फरणतया, सुदर्शनमहाभैषज्यराजभूतं सर्वक्लेशव्याधिनिर्घातनतया, विगमभैषज्यभूतं सर्वानुशयशल्यसमुद्धातनतया, इन्द्रभूतं सर्वेन्द्रियाधिपतेयतया, वैश्रवणभूतं सर्वदारिद्र्यसमुच्छेदनतया, श्रीभूतं सर्वगुणालंकारतया, विभूषणभूतं सर्वबोधिसत्त्वोपशोभनतया, कल्पोद्दाहाग्निभूतं सर्वदुष्कृतनिर्दहनतया, अनिर्वृत्तमूलमहाभैषज्यराजभूतं सर्वबुद्धधर्मविवर्धनतया, नागमणिभूतं सर्वक्लेशविषनिवर्तनतया, उदकप्रसादमणिरत्नभूतं सर्वकालुष्यापनयनतया, चिन्तामणिराजभूतं सर्वार्थसंसाधनतया, भद्रघटभूतं सर्वाभिप्रायपरिपूरणतया, कामंददवृक्षभूतं सर्वगुणालंकाराभिप्रवर्षणतया, हंसलक्षणवस्त्रभूतं सर्वसंसारदोषासंसृष्टतया, कर्पासतन्तुभूतं प्रकृतिप्रभास्वरतया, लाङ्गलभूतं सत्त्वाशयक्षेत्रविशोधनतया, नाराचभूतं सत्कायधर्मनिस्ताडनतया, बाणभूतं दुःखलक्ष्यनिर्वेधनतया, शक्तिभूतं क्लेशशत्रुविजयाय, वर्मभूतमयोनिशोमनस्कारसंछादनतया, खङ्गभूतं क्लेशशिरःप्रपातनतया, असिपत्रभूतं मानमददर्पसंनाहच्छेदनतया, क्षुरप्रभूतमनुशयधर्मनिर्वेधनतया, शूरध्वजभूतं मानध्वजप्रपातनतया, शस्त्रभूतमज्ञानतरुप्रपातनतया, कुठारभूतं दुःखवृक्षसंछेदनतया, प्रहरणभूतं सर्वोपद्रवपरित्राणतया, हस्तभूतं पारमिताशरीरपरिपालनतया,

चरणभूतं सर्वगुणज्ञानप्रतिष्ठानतया, शलाकीभूतमविद्याकोशपटलपरिशोधनतया, आबृंहणभूतं सत्कायशल्यसमाबृंहणतया, एषणीभूतमनुशयकण्टककर्षणतया, मित्रभूतं संसारबन्धनपरिमोक्षणतया, द्रव्यभूतं सर्वानर्थप्रतिबाधनतया, शास्तृभूतं सर्वबोधिसत्त्वचर्यानिर्याणपथाभिज्ञतया, निधानभूतमक्षयपुण्यतया, उत्सभूतमक्षयज्ञानतया, आदर्शमण्डलभूतं सर्वधर्ममुखप्रतिभाससंदर्शनतया, पुण्डरीकभूतमनाविलतया, महानदीभूतं पारमितासंग्रहवस्तुस्रोतःप्रवहनतया, महाभूजगेन्द्रभूतं धर्ममेघाभिप्रवर्षणतया, जीवितेन्द्रियभूतं सर्वबोधिसत्त्वमहाकरुणासंधारणतया, अमृतभूतममरधातुसंप्रापणतया, समन्तपाशजालभूतं सर्वविनेयसत्त्वसंग्रहाकर्षणतया, गन्धकरण्डभूतं सर्वगुणगन्धाधारणतया, अगदभूतमत्यन्तारोग्यकरणतया, प्रतिविषभूतं कामरतिविषनिर्विषीकरणतया, मन्त्रधारणीभूतं सर्वायोनिशोविषपर्यादानतया, वातमण्डलीभूतं सर्वावरणनिवरणबृंहणतया, रत्नद्वीपभूतं सर्वबोधिपक्ष्यधर्मरत्नाकरतया, गोत्रभूतं सर्वशुक्लधर्मसंभावनतया, आकरभूतं सर्वगुणधर्मायद्वारतया, पत्तनभूतं सर्वबोधिसत्त्ववणिक्संसेवनतया, रसधातुभूतं सर्वकर्मक्लेशावरणसंशोधनतया, मधुकल्पभूतं सर्वज्ञतासंभारपरिपूरणतया, मार्गभूतं सर्वबोधिसत्त्वसर्वज्ञतापुरोपगमनतया, भाजनभूतं सर्वशुक्लधर्मसंधारणतया, वृष्टिभूतं क्लेशरजःप्रशमनतया, प्रतिष्ठानभूतं सर्वबोधिसत्त्वव्यवस्थाननिर्देशनतया, अयस्कान्तभूतं श्रावकविमुक्त्यसंश्लेषणतया,

वैडूर्यभूतं स्वभावविमलतया, इन्द्रनीलभूतं सर्वश्रावकप्रत्येकबुद्धसर्वलोकज्ञानपर्यादानाभिभवनतया, यामभेरीभूतं क्लेशप्रसुप्तसत्त्वप्रबोधनतया, (gv 398) प्रसन्नोदकभूतमनाविलतया, जाम्बूनदसुवर्णालंकारभूतं सर्वसंस्कृतावचरकुशलमूलोपचयजिह्मीकरणतया, महाशैलेन्द्रराजभूतं सर्वत्रैलोक्याच्युततया, त्राणभूतं शरणगतापरित्यागितया, अर्थभूतमर्थप्रतिवहनतया, चित्तभूतं हृदयसंतुष्टिकरणतया, यज्ञोपकरणभूतं सर्वजगत्संतर्पणतया, बुद्धिभूतं सर्वजगच्चित्तज्येष्ठश्रेष्ठतया, निधानभूतं सर्वबुद्धधर्मोद्ग्रहणतया, उद्दानभूतं सर्वबोधिसत्त्वचर्याप्रणिधानसंग्रहणतया, पालकभूतं सर्वलोकानुपालनतया, आरक्षकभूतं सर्वपापविनिवर्तनतया, इन्द्रजालभूतं क्लेशासुराकर्षणतया, वरुणपाशभूतं विनेयाकर्षणतया, इन्द्राग्निभूतं सर्ववासनानुशयक्लेशनिर्दहनतया, चैत्यभूतं सदेवमानुषासुरस्य लोकस्य /

इति हि कुलपुत्र बोधिसत्त्वश्चान्यैश्चाप्रमाणैर्गुणविशेषैः समन्वागतः / संक्षिप्तेन कुलपुत्र यावन्तः सर्वबुद्धधर्माः सर्वबुद्धगुणाश्च, तावन्तो बोधिचित्तगुणाश्च तावन्तो बोधिचित्तगुणानुशंसा अनुगन्तव्याः / तत्कस्य हेतोः? अतः प्रभवति सर्वबोधिसत्त्वचर्यामण्डलम् / अतो निर्यान्ति अतीतानागतप्रत्युत्पन्नाः सर्वतथागताः / तस्मात्तर्हि कुलपुत्र येन अनुत्तरायां समक्संबोधौ चित्तमुत्पादितम्, सो ऽप्रमाणगुणसमुदितो भवति सर्वज्ञताचित्ताध्याशयसुसंगृहीतत्वात् //

तद्यथापि नाम कुलपुत्र, अस्त्यभया नामौषधिः / तया पञ्च भयानि न भवन्ति / तद्यथा - अग्निना न दह्यते, विषस्य न आक्रमति, शस्त्रेण न क्षण्यते, उदकेन नोह्यते, धूमेन न म्रियते / एवमेव कुलपुत्र सर्वज्ञताचित्तौषधिपरिगृहीतो बोधिसत्त्वो रागाग्निना न दह्यते, विषयविषमस्य नाक्रमति, क्लेशशस्त्रेण न क्षण्यते, भवौघेन नोह्यते, संकल्पधूमेन न म्रियते / तद्यथा कुलपुत्र अस्त्यनिर्मुक्ता नामौषधिः / तया गृहीतया सर्वपरोपक्रमभयानि न भवन्ति / एवमेव बोधिचित्तज्ञानौषधिपरिगृहीतस्य बोधिसत्त्वस्य सर्वसंसारोपक्रमभयानि न भवन्ति / तद्यथा कुलपुत्र, अस्ति मघी नामौषधिः / तया गृहीतया गन्धेनैव सर्वाशीविषाः पलायन्ते / एवमेव बोधिचित्तगन्धेनैव सर्वक्लेशाशीविषाः पलायन्ते / तद्यथा कुलपुत्र अपराजितभैषज्यगृहीतः पुरुषो ऽजयो भवति सर्वशत्रुमण्डलेन, एवमेव सर्वज्ञताचित्तापराजितभैषज्यगृहीतो बोधिसत्त्वो दुर्घर्षो भवति सर्वमारप्रत्यर्थिकमण्डलेन / तद्यथा कुलपुत्र अस्ति विगमो नाम भैषज्यम् / तेन सर्वशल्याः पतन्ति / एवमेव बोधिचित्तविगमभैषज्यपरिगृहीतस्य बोधिसत्त्वस्य सर्वरागदोषमोहदृष्टिशल्याः पतन्ति /

तद्यथा कुलपुत्र अस्ति सुदर्शनो नाम महाभैषज्यराजः / तद्गृहीतः सर्वव्याधीन्निर्घातयति / एवमेव बोधिचित्तसुदर्शनमहाभैषज्यराजगृहीतो बोधिसत्त्वः सर्वक्लेशाज्ञानव्याधीन्निर्घातयति / तद्यथा कुलपुत्र अस्ति संतानो नाम महाभैषज्यवृक्षः / तस्य सहनिपातिता त्वक् सर्वव्रणान् संरोहयति, यथोत्पाटितास्य त्वक् संभवति / एवमेव बोधिसत्त्वबीजसंभूतः सर्वज्ञतासंतानवृक्षः सहदर्शनेन श्राद्धानां कुलपुत्राणां कर्मक्लेशव्रणान् संरोहयति / स च सर्वज्ञतावृक्षः सर्वलोकेन अक्षतो ऽनुपहतः / तद्यथा कुलपुत्र अस्त्यनिर्वृत्तमूला नाम महाभैषज्यजातिः, यस्याः प्रभावेन सर्वजम्बुद्वीपका (gv 399) वृक्षा सर्वा विवर्धन्ते, एवमेव बोधिचित्तनिर्वृत्तमूलमहाभैषज्यप्रभावेन सर्वशैक्षाशैक्षप्रत्येकबुद्धबोधिसत्त्वधर्मतरवो विवर्धन्ते / तद्यथा कुलपुत्र अस्ति रतिलम्भा नामौषधिः / सा यस्य शरीरगता भवति, तस्य कायचित्तकल्यता जायते / एवमेव सर्वज्ञताचित्तोत्पादरतिलम्भौषधिः सर्वबोधिसत्त्वानां कायचित्तकल्यतां संजनयति / तद्यथा कुलपुत्र अस्ति स्मृतिलब्धा नामौषधिः / तया चित्तस्मृतिर्विशुध्यति / एवमेव सर्वज्ञताचित्तोत्पादस्मृतिलम्भौषधिर्बोधिसत्त्वानां सर्वबुद्धधर्मानावरणस्मृतिविशुद्धये संवर्तते / तद्यथा कुलपुत्र अस्ति महापद्मा नामौषधिः / तया कल्पमायुःप्रमाणं भवति / एवमेव बोधिचित्तमहाधर्मौषधिप्रसितो बोधिसत्त्वो ऽसंख्येयकल्पायुर्वशिताप्राप्तो भवति / तद्यथा कुलपुत्र अस्ति अदृश्या नामौषधिः / तया गृहीतया सर्वमनुष्यामनुष्यैर्न दृश्यते /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.