Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

एकोत्तरागम, fragments

Thông tin
GRETIL — Chandra Bhal Tripathi: Ekottarāgama-Fragmente der Gilgit-Handschrift, Reinbek 1995 (Studien zur Indologie und Iranistik, Monographie 2).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

(एआ.त्रिप् 32.801) द्वौ धर्मौ न मातृज्ञतायै संवर्तेते अधर्मचर्या विषमचर्या च / अधर्मचर्या विषमचर्या च मातृज्ञतायै संवर्तेते / द्वौ धर्मौ मातृज्ञतायै संवर्तेते धर्मचर्या समचर्या च / धर्मचर्या समचर्या च मातृज्ञतायै संवर्तेते / इदम् अवोचत् //

यथा न मातृज्ञतायै मातृज्ञातायै एवम् न पितृज्ञतायै पितृज्ञतायै न श्रामण्याय श्रामण्याय न ब्राह्मण्याय ब्राह्मण्याय न कुले ज्येष्ठपचायितायै कुले ज्येष्ठपचायितायै महेच्छतायै अल्पेच्छतायै + + ... + + तायै दुर्भरतायै सुभरतायै लाभी भवति महेच्छतायै लाभी भवति अल्पेच्छतायै असंतुष्टो विहरति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः / संतुष्टो विहरति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः / // //

(एआ.त्रिप् 32.9) अन्तरोद्दानं //

द्वे चतुर्दशिके ज्ञेये दश पंचदशैव च / सप्तादश ///

(एआ.त्रिप् 33.0) उद्दान निछ्त् एर्हल्तेन् (एआ.त्रिप् 33.101) द्वे दाने आमिषदानं धर्मदानं च द्वौ योगौ द्वौ त्यागौ द्वौ संग्रहौ द्वाव् अनुग्रहौ द्वौ संस्तरौ द्वौ प्रतिसंस्तरौ द्वौ भोगौ द्वौ संभोगौ द्वौ भागौ द्वौ संविभागौ द्वौ निचयौ द्वौ संनिचयौ द्वौ निधी द्वौ संनिधी द्वे बले द्वौ पुगौ द्वौ राशी द्वौ पुंजौ द्वौ कोशौ द्वौ कोष्ठागारौ द्वाव् अभिषेकौ द्वाव् अभिष्यन्दौ द्वे संपदे द्वे संपत्ती /// द्वे भक्ती / आमिषभक्तिर् धर्मभक्तिश् च //

(एआ.त्रिप् 33.2) एष एव वर्गः सगीयकः / (एआ.त्रिप् 33.21) अन्नं पानं खाद्यं भोज्यं वस्त्रं शय्यासनानि च / एवंरूपाणि दानानि ये प्रयच्छन्ति + + + / + + + + + + + + + + + + + + + शिम्* //

यद् धर्मदानम् अददत् तथागतो ह्य् अनुत्तरः सर्वभूतानुकंपी / तं तायिनं देवमनुष्यशासकं सन्तो नमस्यन्ति भवस्य पारगं // //

(एआ.त्रिप् 33.31) द्वे दाने आमिषदानं धर्मदानं च / एतद् + + + दं दानानां यदुतामिषदानम् / एतद् अग्रं दानानां यदुत धर्मदानं //

(एआ.त्रिप् 33.32) यथा द्वे दाने एवं यावद् द्वे भक्ती अमिषभक्तिर् धर्मभक्तिश् च //

(एआ.त्रिप् 33.4) /// विभज्य सगीयकं // //

(एआ.त्रिप् 34.) पिण्डोद्दानं / अत्ययः कायकौकृत्यं संघस्य च व्यवहारकः / तथागतस्य विनयः एष वर्गः समुद्दितः // (एआ.त्रिप् 35.0) उद्दानं अत्ययेन त्रयं कुर्याद् / गाढा गुरुका सावशेषा च प्रतिच्छन्ना च उत्ताना आविष्कृता देशिता प्रतिकृता च संवरकरणीयेन कृत्वा वर्गो भवति समुद्दितः // (एआ.त्रिप् 35.11) द्वौ बलौ / यश् चात्ययम् अत्ययतो न जानाति यश् चात्ययम् अत्ययतो ज्ञात्वा न यथाधर्मं प्रतिकरोति //

(एआ.त्रिप् 35.12) द्वौ पण्डितौ / यश् चात्ययम् अत्ययतो जानाति यश् चात्ययम् अत्ययतो ज्ञात्वा यथाधर्मं प्रतिकरोति // (एआ.त्रिप् 35.13) द्वौ संक्लिश्येते द्वयोर् आश्रवा वर्धन्ते / द्वौ न संक्लिश्येते द्वयोर् आश्रवा न वर्धन्ते //

(एआ.त्रिप् 35.2) द्वे आपत्ती गाढा अगाढा च / गुर्वी लघ्वी च / सावशेषा निरवशेषा च / प्रतिच्छन्ना अप्रतिच्छन्ना च / उत्ताना गंभीरा च / आविष्कृता अनाविष्कृता / देसिता अदेशिता च / प्रतिकृता अप्रतिकृता च / संवरकरणीया देशनाकरणीया च //

(एआ.त्रिप् 36.0) उद्दानं कायिकी + + + + + + + + + + + + + + + + + व्युत्थानं //

कौशल्येन द्वयं कुर्यात् परिशुद्ध्यापि च द्वयं / अलज्जिना द्वयं कृत्वा वर्गो भवति समुद्दितः //

(एआ.त्रिप् 36.11) द्वे आपत्ती कायिकी वाचिकी च / /// च / विनयातिसारिणी दुर्भाषितगामिनी च //

(एआ.त्रिप् 36.2) द्वाव् आपत्तिव्यतिक्रमौ / संचिन्त्यव्यतिक्रमश् चासंचिन्त्यव्यतिक्रमश् च //

(एआ.त्रिप् 36.3) द्वे आपत्तिव्युत्थाने / ///

(एआ.त्रिप् 36.41) द्वे कौशल्ये / आपत्तिकौशल्यम् आपत्तिव्युत्थानकौशल्यं च //

(एआ.त्रिप् 36.42) द्वे कौशल्ये / अनापन्नस्य च अनापत्तिकौशल्यम् आपन्नस्य च आपत्तिव्युत्थानकौशल्यं च // //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.