Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

एकोत्तरागम, fragments

Thông tin
GRETIL — Chandra Bhal Tripathi: Ekottarāgama-Fragmente der Gilgit-Handschrift, Reinbek 1995 (Studien zur Indologie und Iranistik, Monographie 2).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

एकोत्तरागम, fragments

(एआ.त्रिप् 2.1) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् अभावितम् अमृदु भवति अकर्मण्यं यथेदं चित्तम् / चित्तं हि भिक्षवः अभावितम् अमृदु भवति अकर्मण्यम् / तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् नश् चित्तम् अभावितम् अमृदु भविष्यति अकर्मण्यम् एवं वो भिक्षवः शिक्षितव्यम् // (एआ.त्रिप् 2.2) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवं सुभावितं मृदु भवति कर्मण्यं यथेदं चित्तं / चित्तं हि भिक्षवः सुभावितं मृदु भवति कर्मण्यम् / तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नः सुभावितं मृदु भविष्यति कर्मण्यम् एवं वो भिक्षवः शिक्षितव्यम् //

(एआ.त्रि 2.3) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् सुभावितं मृदु भवति कर्मण्यं यथेदं चित्तम् / चित्तं हि भिक्षवः सुभावितं मृदु भवति कर्मण्यं / तद्यथा यानि कानिचिद् दारुजातानि स्युः चन्दनं तेषाम् अग्रम् आख्यायते मृदुतायां कर्मण्यतायां / एवम् एव नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् सुभावितं मृदु भवति कर्मण्यं यथेदं चित्तम् / चित्तं हि भिक्षवः सुभावितं मृदु भवति कर्मण्यम् / तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नः सुभावितं मृदु भविष्यति कर्मण्यम् एवं वो भिक्षवः शिक्षितव्यम् // //

(एआ.त्रिप् 3.11) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितम् आयत्यां दुःखविपाकं भवति यथेदं चित्तम् / चित्तं हि भिक्षवः अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितम् आयत्यां दुःखविपाकं भवति / तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितम् आयत्यां दुःखविपाकं भविष्यति एवं वो भिक्षवः शिक्षितव्यं //

(एआ.त्रिप् 3.12) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् आयत्यां सुखविपाकं भवति यथेदं चित्तम् / चित्तं हि भिक्षवः सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् आयत्यां सुखविपाकं भवति / तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नः सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् आयत्यां सुखविपाकं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं //

(एआ.त्रिप् 3.13) यथा दुःखविपाकं सुखविपाकम् एव अनर्थाय अर्थाय अहिताय हिताय दुःखाय सुखाय व्यसनाय संपदे विपत्तये संपत्तये असमृद्धये समृद्धये अपारिपूरये पारिपूरये पारिहाणाय अपारिहाणाय // // (एआ.त्रिप् 3.21) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितं संरागाय संवर्तते यथेदं चित्तम् / चित्तं हि भिक्षवः अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितं संरागाय संवर्तते / तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितं संरागाय संवर्त्स्यति एवं वो भिक्षवः शिक्षितव्यं // (एआ.त्रिप् 3.22) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् असंरागाय संवर्तते यथेदं चित्तं / चित्तं हि भिक्षवः सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् असंरागाय संवर्तते / तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नः सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् असंरागाय संवर्त्स्यति एवं वो भिक्षवः शिक्षितव्यं // (एआ.त्रिप् 3.23) यथा संरागाय असंरागाय एवं सद्वेषाय असद्वेषाय संमोहाय असंमोहाय संयोगाय विसंयोगाय संक्लेशाय व्यवदानाय आचयाय अपचयाय उपादानाय अनुपादानाय उच्छेदाय अनुच्छेदाय संश्रेणनाय विश्रेणनाय संधूपनाय विधूपनाय बाहुल्याय संलेखाय संसर्गाय असंसर्गाय प्रपञ्चाय निष्प्रपञ्चाय आलयाय अनालयाय अव्युपशमाय व्युपशमाय // //

(एआ.त्रिप् 4.11) तद्यथा शालिशूको वा यवशूको वा मिथ्यादुष्प्रणिहितः स्यात् / तं शूकं स्त्री वा पुरुषो वा सुकुमारः सुखैषी पद्भ्याम् अन्वाक्रमेत / स तस्य अभव्यस् त्वचं भित्वा रुधिरम् उत्पादयितुं / तत् कस्य हेतोर् / मिथ्यादुष्प्रणिहितत्वाच् छूकस्य / (एआ.त्रिप् 4.12) एवम् एव स बत मिथ्यादुष्प्रणिहितेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते / तत् कस्य हेतोर् / मिथ्यादुष्प्रणिहितत्वाच् चित्तस्य / (एआ.त्रिप् 4.13) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नः चित्तं मिथ्यादुष्प्रणिहितं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं //

(एआ.त्रिप् 4.21) तद्यथा शालिशूको वा यवशूको वा सम्यक्सुप्रणिहितः स्यात् / तं शूकं स्त्री वा पुरुषो वा सुकुमारः सुखैषी पद्भ्याम् अन्वाक्रमेत / स तस्य भव्यस् त्वचं भित्वा रुधिरम् उत्पादयितुं / तत् कस्य हेतोः / सम्यक्सुप्रणिहितत्वाच् छूकस्य / (एआ.त्रिप् 4.22) एवम् एव स बत सम्यक्सुप्रणिहितेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते / तत् कस्य हेतोर् / ऋजु सम्यक्सुप्रणिहितत्वाच् चित्तस्य / (एआ.त्रिप् 4.23) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् नश् चित्तं सम्यक्सुप्रणिहितं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं // //

(एआ.त्रिप् 5.11) तद्यथा उदकपात्री हरिद्रया वा मषिणा वा संसृष्टा स्याद् आविलीकृता / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् / तत् कस्य हेतोर् / आविलत्वाद् उदकपात्र्याः / (एआ.त्रिप् 5.12) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते / तत् कस्य हेतोर् / आविलत्वाच् चित्तस्य / (एआ.त्रिप् 5.13) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नः चित्तं मिथ्यादुष्प्रणिहितं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं // (एआ.त्रिप् 5.21) तद्यथा उदकपात्री हरिद्रया वा मषिणा वा असंसृष्टा स्याद् अनाविलीकृता / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणः पश्येत् / तत् कस्य हेतोर् / अनाविलत्वाद् उदकपात्र्याः / (एआ.त्रिप् 5.22) एवम् एव स बत अनाविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते / तत् कस्य हेतोर् / अनाविलत्वाच् चित्तस्य / (एआ.त्रिप् 5.23) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं // //

(एआ.त्रिप् 6.11) तद्यथा उदकपात्री अग्निना तप्ता संतप्ता क्वथिता उत्सदकजाता स्यात् / तत्र चक्षुष्मान् पुरुषः स्वकं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् / तत् कस्य हेतोर् / आविलत्वाद् उदकपात्र्याः / (एआ.त्रिप् 6.12) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते / तत् कस्य हेतोर् / आविलत्वाच् चित्तस्य / (एआ.त्रिप् 6.13) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् आविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं //

(एआ.त्रिप् 6.21) तद्यथा उदकपात्री अग्निना अतप्ता असंतप्ता अमृषिता अनुत्सदकजाता स्यात् / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् / तत् कस्य हेतोर् / अनाविलत्वाद् उदकपात्र्याः / (एआ.त्रिप् 6.22) एवम् एव स बत अनाविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते / तत् कस्य हेतोर् / अनाविलत्वाच् चित्तस्य / (एआ.त्रिप् 6.23) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं // //

(एआ.त्रिप् 7.11) तद्यथा उदकपात्री शेवालपणवपर्यवनद्धा स्यात् / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् / तत् कस्य हेतोर् / आविलत्वाद् उदकपात्र्याः / (एआ.त्रिप् 7.12) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते / तत् कस्य हेतोर् / आविलत्वाच् चित्तस्य / (एआ.त्रिप् 7.13) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् आविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं // (एआ.त्रिप् 7.21) तद्यथा उदकपात्री न शेवालपणवपर्यवनद्धा स्यात् / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो पश्येत् / तत् कस्य हेतोर् / अनाविलत्वाद् उदकपात्र्याः / (एआ.त्रिप् 7.22) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते / तत् कस्य हेतोर् / अनाविलत्वाच् चित्तस्य / (एआ.त्रिप् 7.23) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं // //

(एआ.त्रिप् 8.11) तद्यथा उदकपात्री वायुना ईरिता प्रेरिता भ्रामिता /// स्यात् / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् / तत् कस्य हेतोर् / आविलत्वाद् उदकपात्र्याः / (एआ.त्रिप् 8.12) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते / तत् कस्य हेतोर् / आविलत्वाच् चित्तस्य / (एआ.त्रिप् 8.13) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् आविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं //

(एआ.त्रिप् 8.21) तद्यथा उदकपात्री वायुना अनीरिता स्याद् अप्रेरिता अभ्रामिता अचालिता /// स्यात् / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणः पश्येत् / तत् कस्य हेतोर् / अनाविलत्वाद् उदकपात्र्याः / (एआ.त्रिप् 8.22) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते / तत् कस्य हेतोर् / अनाविलत्वाच् चित्तस्य / (एआ.त्रिप् 8.23) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं // //

(एआ.त्रिप् 9.11) तद्यथा उदकपात्री अन्धकारे प्रदेशे उपनिक्षिप्ता स्यात् /// चक्षुष्पथे / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् / तत् कस्य हेतोर् / अन्धकारोपनिक्षिप्तत्वाद् उदकपात्र्याः / (एआ.त्रिप् 9.12) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते / तत् कस्य हेतोर् / अन्धकारायितत्वाच् चित्तस्य / (एआ.त्रिप् 9.13) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् अन्धकारं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं //

(एआ.त्रिप् 9.21) तद्यथा उदकपात्री अनन्धकारे प्रदेशे उपनिक्षिप्ता स्यात् /// दमे स चक्षुष्पथे / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणः पश्येत् / तत् कस्य हेतोर् / अनन्धकारोपनिक्षिप्तत्वाद् उदकपात्र्याः / (एआ.त्रिप् 9.22) एवम् एव स बत अनन्धकारायितेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते / तत् कस्य हेतोर् / अनन्धकारयितत्वाच् चित्तस्य / (एआ.त्रिप् 9.23) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनन्धकारं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं // //

(एआ.त्रिप् 10.11) तद्यथा आदर्शः अपरिशुद्धः स्याद् अपर्यवदातः अपरिकर्मीकृतः / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् / तत् कस्य हेतोर् / अपरिशुद्धत्वाद् आदर्शस्य / (एआ.त्रिप् 10.12) एवम् एव स बत अपरिशुद्धेन चित्तेन अपर्यवदातेन अपरिकर्मीकृतेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते / तत् कस्य हेतोर् / अपरिशुद्धत्वाच् चित्तस्य / (एआ.त्रिप् 10.13) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् अपरिशुद्धं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं //

(एआ.त्रिप् 10.21) तद्यथा आदर्शः परिशुद्धः स्यात् पर्यवदातः सुपरिकर्मीकृतः / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणः पश्येत् / तत् कस्य हेतोर् / सुपरिशुद्धत्वाद् आदर्शस्य / (एआ.त्रिप् 10.22) एवम् एव स बत परिशुद्धेन चित्तेन पर्यवदातेन सुपरिकर्मीकृतेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते / तत् कस्य हेतोर् / सुपरिशुद्धत्वाच् चित्तस्य / (एआ.त्रिप् 10.23) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नः सुपरिशुद्धं भविष्यति पर्यवदातं एवं वो भिक्षवः शिक्षितव्यं // //

(एआ.त्रिप् 11.11) तद्यथा उदकह्रदः क्षुभितो लुठितः कललीभूतः स्यात् / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् / तत् कस्य हेतोर् / आविलत्वाद् उदकह्रदस्य / (एआ.त्रिप् 11.12) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते / तत् कस्य हेतोर् / आविलत्वाच् चित्तस्य / (एआ.त्रिप् 11.13) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् आविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं //

(एआ.त्रिप् 11.21) तद्यथा उदकह्रदः अच्छो विप्रसन्नः अनाविलः स्यात् / तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणः पश्येत् / तत् कस्य हेतोर् / अनाविलत्वाद् उदकह्रदस्य / (एआ.त्रिप् 11.22) एवम् एव स बत अनाविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते / तत् कस्य हेतोर् / अनाविलत्वाच् चित्तस्य / (एआ.त्रिप् 11.23) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं // //

+ + + गप्

(एआ.त्रिप् 13.11) दुराख्याते धर्मविनय (अ) यः समादापयति बहुशः पापं प्रसवति, एवम् एतद् भवति यथापि तद् दुराख्यातो धर्मविनयः / स्वाख्याते धर्मविनये (अ) यः समादापयति बहुशः पुण्यं प्रसवति, एवम् एतद् भवति यथापि तद् स्वाख्यातो धर्मविनयः // (एआ.त्रिप् 13.12) दुराख्याते धर्मविनय (ब्) यः समादापयति बहुशः पापं प्रसवति, एवम् एतद् भवति यथापि तद् दुराख्यातो धर्मविनयः / स्वाख्याते धर्मविनये (ब्) यः समादापयति बहुशः पुण्यं प्रसवति, एवम् एतद् भवति यथापि तद् स्वाख्यातो धर्मविनयः //

(एआ.त्रिप् 13.13) दुराख्याते धर्मविनय (अ) यः समादापयति (ब्) यश् च समादाप्यते उभाव् अपि बहुशः पापं प्रसवतः, एवम् एतद् भवति यथापि तद् दुराख्यातो धर्मविनयः / स्वाख्याते धर्मविनये (अ) यः समादापयति (ब्) यश् च समादाप्यते उभाव् अपि बहुशः पुण्यं प्रसवतः, एवम् एतद् भवति यथापि तद् स्वाख्यातो धर्मविनयः //

(एआ.त्रिप् 13.14) दुराख्याते धर्मविनय (अ) यश् च समादापयति (ब्) यश् च समादाप्यते (च्) यश् च समादापितस् तथतां प्रतिपद्यते सर्वे ते बहुशः पापं प्रसवन्ति, एवम् एतद् भवति यथापि तद् दुराख्यातो धर्मविनयः / स्वाख्याते धर्मविनये (अ) यश् च समादापयति (ब्) यश् च समादाप्यते (च्) यश् च समादापितस् तथतां प्रतिपद्यते सर्वे ते बहुशः पुण्यं प्रसवन्ति, एवम् एतद् भवति यथापि तद् स्वाख्यातो धर्मविनयः // (एआ.त्रिप् 13.15) यथा समादापनेन चत्वारि सूत्राणि एवं प्रतिग्राहेण चत्वारि सूत्राणि // // (एआ.त्रिप् 13.21) दुराख्याते धर्मविनये यथायथा आरब्धवीर्यस् तथातथा पापं / स्वाख्याते धर्मविनये यथायथा कुसीदस् तथातथा पापं / दुराख्याते धर्मविनये यथायथा कुसीदस् तथातथा श्रेयः / स्वाख्याते धर्मविनये यथायथा आरब्धवीर्यस् तथातथा श्रेयः //

(एआ.त्रिप् 13.22) यथा पापं श्रेय एवं दुःखं सुखं, न स्पर्शं स्पर्शो दुःख ///

(एआ.त्रिप् 13.31) दुराख्याते धर्मविनये यथायथा आरब्धवीर्यस् तथातथा अनर्थः / स्वाख्याते धर्मविनये यथायथा कुसीदस् तथातथा अनर्थः / दुराख्याते धर्मविनये यथायथा कुसीदस् तथातथा अर्थः / स्वाख्याते धर्मविनये यथायथा आरब्धवीर्यस् तथातथा अर्थः //

(एआ.त्रिप् 13.31) यथा अनर्थो ऽर्थः एवम् (एआ.त्रिप् 13.32-38) अहितं हितं दुःखं सुखं व्यसनं संपद् विपत्तिः संपत्तिः असमृद्धिः समृद्धिः अपारिपूरिः पारिपूरिः परिहाणिह् अपरिहाणिः //

(एआ.त्रिप् 13.41) नाहम् एकधर्मम् अपि समनुपश्यामि य एवम् अनर्थाय संवर्तते यथा दुराख्यातो धर्मविनयः / दुराख्यातो धर्मविनयः अनर्थाय संवर्तते / नाहम् एकधर्मम् अपि समनुपश्यामि य एवम् अर्थाय संवर्तते यथा स्वाख्यातो धर्मविनयः / स्वाख्यातो धर्मविनयः अर्थाय संवर्तते / (एआ.त्रिप् 13.42) यथा अनर्थायार्थाय पूर्ववत् //

(एआ.त्रिप् 13.51) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतो बालो मूढ अव्यक्त असत्पुरुषो वेदितव्यः यथा दुराख्यातेन धर्मविनयेन / दुराख्यातेन धर्मविनयेन समन्वागतो बालो मूढ अव्यक्तो असत्पुरुषो वेदितव्यः //

(एआ.त्रिप् 13.52) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतो पण्डितो व्यक्तः सत्पुरुषो वेदितव्यः यथा स्वाख्यातेन धर्मविनयेन / स्वाख्यातेन धर्मविनयेन समन्वागतो पण्डितो व्यक्तः सत्पुरुषो वेदितव्यः / बालः क्षतो भल्ल उपपद्यते पूर्ववत् // // पूर्ववत् = अपायदुर्गतिविनिपातेषु गच्छति पतति उपपद्यते दीर्घम् अध्वानं सन्धावति संसरति: स्. 15.61 (एआ.त्रिप् 14.00) उद्दानं पापका अकुशला अष्टौ अष्टौ संयोजनैस् तथा / सत्वसंशब्दिता अष्टौ पुद्गलैर् अपि चाष्टिका //

(एआ.त्रिप् 14.01) श्रावस्त्यां निदानं / (एआ.त्रिप् 14.11) (अ) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन / (ब्) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय //

(एआ.त्रिप् 14.12) (अ) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन / (ब्) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय / (च्) अविद्यानिवरणे समवहते एवं तेषां समुद्घातो भवति //

(एआ.त्रिप् 14.21) (अ) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन / (ब्) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय / (एआ.त्रिप् 14.22) तद्यथा (अ) याः काश्चित् कूटागारे सोपानस्य सर्वास् ताः कूटंगमाः कूटनिश्रिताः कूटप्रतिबद्धाः कूटावसरणाः / (ब्) कूटास् तासाम् अग्र आख्यातो यदुत संग्रहाय //

(एआ.त्रिप् 14.23) एवम् एव (अ) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन / (ब्) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय //

(एआ.त्रिप् 14.31) (अ) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन / (ब्) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय / (च्) अविद्यानिवरणे समवहते एवं तेषां समुद्घातो भवति //

(एआ.त्रिप् 14.32) तद्यथा (अ) याः काश्चित् कूटागारे सोपानस्य सर्वास् ताः कूटंगमाः कूटनिश्रिताः कूटप्रतिबद्धाः कूटावसरणाः / (ब्) कूटास् तासाम् अग्र आख्यातो यदुत संग्रहाय / (च्) कूटे समवहते एवं तासां समुद्घातो भवति //

(एआ.त्रिप् 14.33) एवम् एव (अ) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन / (ब्) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय / (च्) अविद्यानिवरणे समवहते एवं तासां समुद्घातो भवति //

(एआ.त्रिप् 14.41) नान्यत्र एकधर्मेण येनेयं निवृता प्रजा / सन्धावति अहोरात्रं सदा मोहेन आवृता //

(एआ.त्रिप् 14.42) तां त्व् अविद्यां प्रहायेह तमःस्कन्धं प्रदाल्य च / नासौ पुनः संसरते हेतुर् यस्य न विद्यते // (एआ.त्रिप् 14.51) यथा अविद्यानिवरणेन चत्वारि सूत्राणि एवं तृष्णासंयोजनेन चत्वारि सूत्राणि // अत्र त्व् इमे गाथे वक्तव्ये / (एआ.त्रिप् 14.52) तृष्णया ग्रथिताः सत्वा रक्तचित्ता भवाभवे / ते योगयुक्ता मारस्य अयोगक्षेमिनो जनाः / जरामरणम् आयान्ति वत्सः क्षीरपक इव मातरं //

(एआ.त्रिप् 14.53) तां तु तृष्णां प्रहायेह वीततृष्णो भवाभवे / तृष्णयाभिभवद् भिक्षुर् अनिच्छुः परिनिर्वृतः //

(एआ.त्रिप् 14.6) यथा ये केचिद् अनेकविधाः पापका अकुशला धर्मा इति अष्टौ सूत्राणि एवं ये केचिद् अनेकविधाः संयोजनीया धर्मा इति अष्टौ सूत्राणि //

(एआ.त्रिप् 14.71) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागताः सत्वा दीर्घम् अध्वानं सन्धावन्ति संसरन्ति यदुत अविद्यानिवरणेन / अविद्यानिवरणेन समन्वागताः सत्वा दीर्घम् अध्वानं सन्धावन्ति संसरन्ति / एतद् एव सूत्रम् उक्त्वा गाथा अतिरिक्ता / (एआ.त्रिप् 14.72) नान्यत्र एकधर्मेण येनेयं निवृता प्रजा / सन्धावति अहोरात्रं सदा मोहतमोवृता //

(एआ.त्रिप् 14.73) तां त्व् अविद्यां प्रहायेह तमःस्कन्धं प्रदाल्य च / नासौ पुनः संसरते हेतुर् यस्य न विद्यते //

(एआ.त्रिप् 14.81) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतानां सत्वानां दीर्घम् अध्वानं सन्धावतां संसरतां पूर्वा कोटिर् न प्रज्ञायते दुःखस्य यदुत अविद्यानिवरणेन / अविद्यानिवरणेन समन्वागतानां सत्वानां दीर्घम् अध्वानं सन्धावतां संसरतां पूर्वा कोटिर् न प्रज्ञायते दुःखस्य / एतद् एव सूत्रम् उक्त्वा पुनर् गाथा वाच्या / (एआ.त्रिप् 14.82) नान्यत्र एकधर्मेण येनेयं निवृता प्रजा / सन्धावति अहोरात्रं सदा मोहतमोवृता //

(एआ.त्रिप् 14.83) तां त्व् अविद्यां प्रहायेह तमःस्कन्धं प्रदाल्य च / नासौ पुनः संसरते हेतुर् यस्य न विद्यते //

(एआ.त्रिप् 14.91) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागताः सत्वा दीर्घम् अध्वानं सन्धावन्ति संसरन्ति यदुत तृष्णासंयोजनेन / तृष्णासंयोजनेन समन्वागताः सत्वा दीर्घम् अध्वानं सन्धावन्ति संसरन्ति / एतद् एव सूत्रम् उक्त्वा पुनर् गाथा वाच्या / (एआ.त्रिप् 14.92) तृष्णाद्वितीयः पुरुषः सुदीर्घे ऽध्वनि संसरन् / पुनःपुनर् उपादत्ते गर्भम् एति पुनःपुनः / इत्थंभावान्यथीभावं सत्वानाम् आगतिं गतिं //

(एआ.त्रिप् 14.93) तां तु तृष्णां प्रहायेह च्छित्वा स्रोतो दुरत्ययं / नासौ पुनः संसरति तृष्णा ह्य् अस्य न विद्यते //

(एआ.त्रिप् 14.101) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतानां सत्वानां दीर्घम् अध्वानं सन्धावतां संसरतां पूर्वा कोटिर् न प्रज्ञायते दुःखस्य / तृष्णासमन्वागतानां सत्वानां दीर्घम् अध्वानं सन्धावतां संसरतां पूर्वा कोटिर् न प्रज्ञायते दुःखस्य / एतद् एव सूत्रम् उक्त्वा पुनर् गाथा वाच्या / (एआ.त्रिप् 14.102) तृष्णाद्वितीयः पुरुषः सुदीर्घे ऽध्वनि संसरन् / पुनःपुनर् उपादत्ते गर्भम् एति पुनःपुनः / इत्थंभावान्यथीभावं सत्वानाम् आगतिं गतिं //

(एआ.त्रिप् 14.103) तां तु तृष्णां प्रहायेह च्छित्वा स्रोतो दुरत्ययं / नासौ पुनः संसरति तृष्णा ह्य् अस्य न विद्यते //

(एआ.त्रिप् 14.111) यथा सत्वैर् अष्टौ सूत्राणि एवं पुद्गलैर् अष्टौ सूत्राणि // //

(एआ.त्रिप् 15.0) उद्दानं / हेतुः पूर्वंगमश् चैव मूलं तच् च सगीयकं / द्वे अष्टिके द्वे क्षतिके कृष्णपक्षेण योजयेत् //

(एआ.त्रिप् 15.1) अविद्या भिक्षवो हेतुः संरागाय हेतुः सद्वेषाय हेतुः संमोहाय / विद्या हेतुर् असंरागाय हेतुर् असद्वेषाय हेतुर् असंमोहाय / इति हि भिक्षवः कर्म हेतुर् उपपत्तेस् तृष्णा हेतुर् अभिनिवृत्तेः इह क्ष्त्स्नस्य कर्मणः कुशलस्य सास्रवस्य भावनामयस्य / तत्रोपपन्नाः सत्वा विपाकं प्रतिसंवेदयन्ते / तस्माद् अहं सत्वान् यथाकर्मोपगान् वदामि //

(एआ.त्रिप् 15.21) अविद्या पूर्वंगमं पूर्वनिमित्तम् अनेकविधानां पापकानाम् अकुशलानां धर्माणां समुत्पत्तये अन्वाचयः आह्रीक्यम् अनपत्राप्यं च / तत् कस्य हेतोर् / अह्रीमान् हि भिक्षुर् अनपत्रापी अविद्यागतो भवति / (एआ.त्रिप् 15.22) विद्या पूर्वंगमं पूर्वनिमित्तम् अनेकविधानां कुशलानां धर्माणां समुत्पत्तये अन्वाचयः ह्रीश् च व्यपत्राप्यं च / तत् कस्य हेतोर् / ह्रीमान् हि भिक्षुर् अपत्रापी विद्यागतो भवति // (एआ.त्रिप् 15.31) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यामूलका अविद्यासमुदया अविद्याजातीया अविद्याप्रभवाः / अविद्यामूलका हि भिक्षवो ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति / तत् कस्य हेतोर् / अविद्यागतो हि भिक्षुर् अजानन् कुशलाकुशलान् धर्मान् यथाभूतं न प्रजानाति सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं न प्रजानाति / स कुशलाकुशलान् धर्मान् यथाभूतं अप्रजानन् सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं अप्रजानन्न् अविद्यागतो भवति / (एआ.त्रिप् 15.32) ये केचिद् अनेकविधाः कुशला धर्माः संभवन्ति सर्वे ते विद्यामूलका विद्यासमुदया विद्याजातीया विद्याप्रभवाः / विद्यामूलका हि भिक्षवो ये केचिद् अनेकविधाः कुशला धर्माः संभवन्ति / तत् कस्य हेतोर् / विद्यागतो हि भिक्षुर् जानन् कुशलाकुशलान् धर्मान् यथाभूतं प्रजानाति सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं प्रजानाति / स कुशलाकुशलान् धर्मान् यथाभूतं प्रजानन् सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं प्रजानन् विद्यागतो भवति / (एआ.त्रिप् 15.4) एवम् एव सूत्रम् उक्त्वा गाथा वाच्याः / (एआ.त्रिप् 15.41) याह् काश्चन दुर्गतयः अस्मिन् लोके परत्र च / अविद्यामूलकाः सर्वाः इच्छालोभसमर्पिताः //

(एआ.त्रिप् 15.42) यतश् च भवति पापेच्छुः पापैर् आचारगोचरे / अथासौ प्रसवते पापं अपायान् येन गच्छति //

(एआ.त्रिप् 15.43) तस्माल् लोभम् अथो द्वेषम् अविद्यां च विरागयन् / विद्याम् उत्पादयन् भिक्षुर् दुःखक्षयम् अवाप्नुयात् //

(एआ.त्रिप् 15.51) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् अनर्थाय संवर्तते यदुत अविद्यानिवरणम् / अविद्यानिवरणम् अनर्थाय संवर्तते / यथा अनर्थाय एवम् अहिताय दुःखाय व्यसनाय विपत्तये असमृद्धये अपरिपूरये परिहाणाय //

(एआ.त्रिप् 15.51) यथा अविद्यानिवरणेन कृष्णपक्ष एवं तृष्णासंयोजनेन क्षृणपक्षः / (एआ.त्रिप् 15.61) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतो बालो मूढो ऽव्यक्त असत्पुरुषो वेदितव्यः यथा अविद्यानिवरणेन / अविद्यानिवरणेन समन्वागतो बालो मूढ अव्यक्त असत्पुरुषो वेदितव्यः / बालः क्षतो भल्ल उपपद्यते अपायदुर्गतिविनिपातेषु गच्छति पतति उपपद्यते दीर्घम् अध्वानं सन्धावति संसरति / (एआ.त्रिप् 15.62) यथा अविद्यानिवरणेन कृष्णपक्ष एवं तृष्णासंयोजनेन क्षृणपक्षः // //

(एआ.त्रिप् 16.0) उद्दानं / पंच निवरणोत्पादाः पुरुषस्त्रीविपर्ययः / तथोभयेन कृत्वेह वर्गो भवति समुद्दितः //

(एआ.त्रिप् 16.101) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च कामच्छन्दनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति यथा अशुभया अनासेवितया अभावितया अबहुलीकृतया / अशुभया अनासेवितया अभावितया अबहुलीकृतया अनुत्पन्नं च कामच्छन्दनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति / (एआ.त्रिप् 16.102) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च व्यापादनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति यथा मैत्र्या अनासेवितया अभावितया अबहुलीकृतया / मैत्र्या अनासेवितया अभावितया अबहुलीकृतया अनुत्पन्नं च वापादनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति / (एआ.त्रिप् 16.103) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च स्त्यानमिद्धनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति यथा + + + अनासेवितया अभावितया अबहुलीकृतया / + + + अनासेवितया अभावितया अबहुलीकृतया (sht 974av5) अनुत्पन्नं च स्त्यानमिद्धनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति / (एआ.त्रिप् 16.104) नाहम् एकधर्मम् अपि (sht 974av6) समनुपश्यामि येनानुत्पन्नं च औद्धत्यकौकृत्यनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति यथा शमथेन / शमथेन अनासेवितेन अभावितेन अबहुलीकृतेन / अनुत्पन्नं च स्त्यानमिद्धनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति / (एआ.त्रिप् 16.105) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च विचिकित्सानिवरणम् उत्पद्यते (sht 974ar2) उत्पन्नं च भूयोभाववृद्धिविपुलतां

गच्छति यथा इदंप्रत्ययताप्रतीत्यसमुत्पादपरीक्षया अनासेवितया अभावितया अबहुलीकृतया / इदंप्रत्ययताप्रतीत्यसमुत्पादपरीक्षया अनासेवितया अभावितया अबहुलीकृतया अनुत्पन्नं च विचिकित्सानिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति / (एआ.त्रिप् 16.106) नाहम् एकधर्मम् अपि समनुपश्यामि (sht 974ar5) येनानुत्पन्नं च कामच्छन्दनिवरणम् नोत्पद्यते उत्पन्नं च प्रहीयते यथा शुभया आसेवितया भावितया बहुलीकृतया / शुभया आसेवितया भावितया बहुलीकृतया कामच्छन्दनिवरणम् नोत्पद्यते उत्पन्नं च प्रहीयते / (एआ.त्रिप् 16.107) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च व्यापादनिवरणम् नोत्पद्यते उत्पन्नं च प्रहीयते यथा मैत्र्या आसेवितया भावितया बहुलीकृतया / मैत्र्या आसेवितया भावितया बहुलीकृतया व्यापादनिवरणम् नोत्पद्यते उत्पन्नं च प्रहीयते / (एआ.त्रिप् 16.108) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च स्त्यानमिद्धनिवरणम् नोत्पद्यते उत्पन्नं च प्रहीयते यथा + + + आसेवितया भावितया बहुलीकृतया / + + + आसेवितया भावितया बहुलीकृतया स्त्यानमिद्धनिवरणम् नोत्पद्यते उत्पन्नं च प्रहीयते / (एआ.त्रिप् 16.109) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च औद्धत्यकौकृत्यनिवरणम् नोत्पद्यते उत्पन्नं च प्रहीयते यथा शमथेन आसेवितेन भावितेन बहुलीकृतेन / शमथेन आसेवितेन भावितेन बहुलीकृतेन औद्धत्यकौकृत्यनिवरणम् नोत्पद्यते उत्पन्नं च प्रहीयते / (एआ.त्रिप् 16.110) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च विचिकित्सानिवरणम् नोत्पद्यते उत्पन्नं च प्रहीयते यथा

इदंप्रत्ययताप्रतीत्यसमुत्पादपरीक्षया आसेवितया भावितया बहुलीकृतया / इदंप्रत्ययताप्रतीत्यसमुत्पादपरीक्षया आसेवितया भावितया बहुलीकृतया विचिकित्सानिवरणम् नोत्पद्यते उत्पन्नं च प्रहीयते //

(एआ.त्रिप् 16.111) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् नो न्वरणं नोत्पद्यते उत्पन्नं चा प्रहीयते एवं वो भिक्षवः शिक्षितव्यम् // //

(एआ.त्रिप् 16.2-17.3) निछ्त् एर्हल्तेन्

(एआ.त्रिप् 17.41) नाहम् एकधर्मम् अपि समनुपश्यामि येन अनुत्पन्नाश् च कुशला धर्मा नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते अनुत्पन्ना अकुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति यथा पापमित्रतया पापसहायतया पापसंपर्कतया / तत् कस्य हेतोः / पापमित्रस्य हि भिक्षोर् विहरतः पापसहायस्य पापसंपर्कस्य अनुत्पन्नाश् च कुशला धर्मा नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते अनुत्पन्नाः पापका अकुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति // (एआ.त्रिप् 17.42) नाहम् एकधर्मम् अपि समनुपश्यामि येन अनुत्पन्नाश् च पापका अकुशला धर्मा नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते अनुत्पन्नाः कुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति यथा कल्याणमित्रतया कल्याणसहायतया कल्याणसंपर्कतया / तत् कस्य हेतोः / कल्याणमित्रस्य हि भिक्षोर् विहरतः कल्याणसहायस्य कल्याणसंपर्कस्य अनुत्पन्नाश् च पापका अकुशला धर्मा नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते अनुत्पन्नाः कुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति //

(एआ.त्रिप् 17.43) यथा पापमित्रतया कल्याणमित्रतया एवं अयोनिशो मनसीकारेण योनिशो मनसीकारेण एवं कौशीद्येन वीर्यारंबेन प्रमादेन अप्रमादेन मिथ्यादृष्ट्या सम्यग्दृष्ट्या //

(एआ.त्रिप् 17.511) मिथ्यादृष्टिः परम् अवद्यानां / तत् कस्य हेतोर् / मिथ्यादृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वाक्कर्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा अनिष्टत्वाय संवर्तन्ते अकान्तत्वाय अप्रियत्वाय अमनापत्वाय अमनोज्ञत्वाय अनभिप्रेतत्वाय संवर्तन्ते / तत् कस्य हेतोर् / दृष्टिर् हि पापिका यदुत मिथ्यादृष्टिः / (एआ.त्रिप् 17.512) तद्यथा भिक्षवस् तिक्तान्य् अलाबुबीजानि वा निम्बबीजानि वा काशातकीबीजानि वा सुक्षेत्रे रोपितानि स्युः सुस्निग्धे वा पृथिवीप्रदेशे उपनिक्षिप्तानि तानि यं यम् एव पृथिव्याः पृथिवीरसम् आददते अद्भ्य अब्रसं तेजसस् तेजोरसं वायोर् वायुरसं सर्वे ऽस्य ते रसास् तिक्तत्वाय संवर्तन्ते कटुकत्वाय अस्वादुत्वाय / तत् कस्य हेतोर् / बीजानि हि तिक्तानि कटून्य् अस्वादूनि / (एआ.त्रिप् 17.513) एवम् एव मिथ्यादृष्टिर् भिक्षवः परम् अवद्यानां / मिथ्यादृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वाक्कर्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा अनिष्टत्वाय संवर्तन्ते अकान्तत्वाय अप्रियत्वाय अमनापत्वाय अमनोज्ञत्वाय अनभिप्रेतत्वाय संवर्तन्ते / तत् कस्य हेतोर् / दृष्टिर् हि भिक्षवः पापिका यदुत मिथ्यादृष्टिः / (एआ.त्रिप् 17.521) सम्यग्दृष्टिः भिक्षवः परम् अनवद्यानां / तत् कस्य हेतोः / सम्यग्दृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वाक्कर्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा इष्टत्वाय संवर्तन्ते कान्तत्वाय प्रियत्वाय मनापत्वाय मनोज्ञत्वाय अभिप्रेतत्वाय संवर्तन्ते /

तत् कस्य हेतोर् / दृष्टिर् हि भिक्षवो भद्रिका यदुत सम्यग्दृष्टिः / (एआ.त्रिप् 17.522) तद्यथा इक्षुबीजानि वा शालिबीजानि वा मृद्विकाब्जानि वा सुक्षेत्रे रोपितानि स्युः सुस्निग्धे वा पृथिवीप्रदेशे उपनिक्षिप्तानि तानि यं यम् एव पृथिव्याः पृथिवीरसम् आददते अद्भ्यः अब्रसं तेजसस् तेजोरसं वायोर् वायुरसं सर्वे ऽस्य ते रसा अतिक्तत्वाय संवर्तन्ते अकटुकत्वाय स्वादुत्वाय / तत् कस्य हेतोर् / बीजानि हि अतिक्तान्य् अकटूनि स्वादूनि / (एआ.त्रिप् 17.523) एवम् एव सम्यग्दृष्टिः परम् अनवद्यानां / तत् कस्य हेतोः / सम्यग्दृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वाक्कर्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा इष्टत्वाय संवर्तन्ते कान्तत्वाय प्रियत्वाय मनापत्वाय मनोज्ञत्वाय अभिप्रेतत्वाय संवर्तन्ते / तत् कस्य हेतोर् / दृष्टिर् हि भिक्षवो भद्रिका यदुत सम्यग्दृष्टिः / (एआ.त्रिप् 17.531) हीनान् धर्मान् न सेवेत प्रमादेन न संवसेत् / मिथ्यादृष्टिन् न रोचेत न भवेल् लोकवर्धनः //

(एआ.त्रिप् 17.532) सम्यग्दृष्टिर् अधीमात्रा लौकिकी यस्य विद्यते / ॥अधिमात्रा अपि जातिसहस्राणि नासौ गच्छति दुर्गतिं // //

(एआ.त्रिप् 18.) उद्दानं / अहितं दानदौःशील्यं शीलं मनोमयद्वयं / पुण्यं तथाष्टिकां कृत्वा क्षतिकाभिश् चतुर्दश //

(एआ.त्रिप् 18.11) एको धर्मो लोक उत्पद्यते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःखाय देवमनुष्याणां यदुत मात्सर्यं / मात्सर्यं लोक उत्पद्यते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःखाय देवमनुष्याणां / (एआ.त्रिप् 18.12) एको धर्मो लोक उत्पद्यते बहुजनहिताय बहुजनसुखाय लोकानुकंपायै अर्थाय हिताय सुखाय देवमनुष्याणां यदुत विगतमलमात्सर्यं / विगतमलमात्सर्यं लोक उत्पद्यते बहुजनहिताय बहुजनसुखाय लोकानुकंपायै अर्थाय हिताय सुखाय देवमनुष्याणां / (एआ.त्रिप् 18.2) दानसूत्र (एआ.त्रिप् 18.21) एवं हि सत्वा जानीयुर् दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपकाम् / अपीदानीं यो ऽसौ भवत्य् अपश्चिमकः कवटश् ॥कवडश्॥ चरम आलोपस् ततो ऽपि नादत्वा नासंविभज्य परिभुंजीरन् सचेल् लभेरन् दक्षिणीयं प्रतिग्राहकं न चैषाम् उत्पन्नो मात्सर्यमलश् च चित्तं पर्यादाय तिष्ठेद् / (एआ.त्रिप् 18.22) यस्मात् तर्हि सत्वा न जानन्ति दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकं, तस्माद् अदत्वा असंविभज्य परिभुंजते आगृहीतेन चेतसा, उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति / (एआ.त्रिप् 18.231) एवं हि सत्वा जानीयुर् यथा प्रोक्तं महर्षिणा / विपाकः संविभागस्य यथा भवति महार्थिकः //

(एआ.त्रिप् 18.232) नादत्वा परिभुंजीरन् न स्युर् मत्सरिणस् तथा / न चैषाम् आग्रहे चित्तम् उत्पद्येत कथंचन //

(एआ.त्रिप् 18.233) यस्मात् त्व् एते न जानन्ति बाला मोहतमोवृताः / अदत्वा भुंजते तस्माद् आगृहीतेन चेतसा / उत्पन्नं चैषां मात्सर्यं चित्तम् आदाय तिष्ठति // //

(एआ.त्रिप् 18.31) एवं हि सत्वा जानीयुर् दुःशीला पापधर्माण आत्मनो गतिं चोपपत्तिं चाभिसंपरायं च यथाहं जानामि सत्वानां दुःशीलानां पापधर्माणां गतिं चोपपत्तिं चाभिसंपरायं च / अपीदानीं म्लायेयुः शुष्येयुर् लूता वा हरिता नडा आम्. + + + + + + च्छन्न / (एआ.त्रिप् 18.32) यस्मात् तर्हि सत्वा न जानन्ति दुःशीलाः पापधर्माण आत्मनो गतिं चोपपत्तिं चाभिसंपरायं च य्तस्मात् कायेन दुश्चरितं चरन्ति वाचा मनसा दुश्चरितं चरन्ति / ते कायेन दुश्चरितं चरित्वा वाचा मनसा दुश्चरितं चरित्वा तद्धेतुस् तत्प्रत्ययं कायस्य भेदात् परंमरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते //

(एआ.त्रिप् 18.331) एवं हि सत्वा जानीयुर् यथा प्रोक्तं महर्षिणा / या गतिः पापकर्माणां दुःशीलानाम् इतश् च्युते //

(एआ.त्रिप् 18.332) म्लायेयुर् अथ शुष्येयुर् लूता वा हरिता नडाः / यस्मात् तु न प्रजानन्ति बाला मोहतमोवृताः //

(एआ.त्रिप् 18.333) तस्मात् कायेन वाचा च मनसा चाप्य् असंवृताः / कुर्वन्ति पापकं कर्म यद् भवति कटुकोदयं //

(एआ.त्रिप् 18.334) न तत् कर्म कृतं साधु कृत्वा यद् अनुतप्यते / रुदन्न् अश्रुमुखो यस्य विपाकं प्रतिसेवते //

(एआ.त्रिप् 18.335) तत्र कर्म कृतं साधु कृत्वा यन् नानुतप्यते / यस्य प्रतीतः सुमना विपाकं प्रतिसेवते // //

(एआ.त्रिप् 18.41) एवं हि सत्वा जानीयुः शीलवन्तो गुणवन्तः पेशलाः कल्याणधर्माणः आत्मनो गतिं चोपपत्तिं चाभिसंपरायं च यथाहं जानामि सत्वानां शीलवतां गुणवतां पेशलानां कल्याणधर्माणां गतिं चोपपत्तिं चाभिसंपरायं च / (एआ.त्रिप् 18.42) अपीदानीं अनेन पूतिकायेन जातीयन्तो जिह्रीयन्तो वितरन्तो विजुगुप्समानाः शस्त्रम् अप्य् आधारयेयुर् विषम् अपि भक्षयेयुर् रज्वावनद्धा म्रियेरन् प्रपाताद् वा प्रपतेयुः //

(एआ.त्रिप् 18.431) एवं हि सत्वा जानीयुर् यथा प्रोक्तं महर्षिणा / या गतिः शीलयुक्तानां या गतिर् धर्मजीविनः //

(एआ.त्रिप् 18.432) अनेन पूतिकायेन जातीयन्तः पुनःपुनः / शस्त्रम् आधारयेयुस् ते देवलोकाभिनन्दिनः //

(एआ.त्रिप् 18.51) यो ऽसौ भवति स्त्री वा पुरुषो वा दुःशीलः पापधर्माः कायदुश्चरितेन समन्वागतो वाङ्मनोदुश्चरितेन समन्वागतस् तस्य कायस्य भेदाद् अयम् एवंरूपो मनोमयः कायो ऽभिनिर्वर्तते तद्यथा कृष्णस्य कुतपस्य निर्भासः अन्धकारतमिस्रया वा रात्र्या येषां दिव्यं चक्षुः सुविशुद्धं त एनं पश्यन्ति //

(एआ.त्रिप् 18.52) यो ऽसौ भवति स्त्री वा पुरुषो वा शीलवान् कल्याणअधर्माः कायदुश्चरितेन समन्वागतो वाङ्मनह्सुचरितेन समन्वागतस् तस्य कायस्य भेदाद् अयम् एवंरूपो मनोमयः कायो ऽभिनिर्वर्तते तद्यथा शुक्लस्य पटस्य निर्भासः ज्योत्स्नाया वा रात्र्या येषां दिव्यं चक्षुः सुविशुद्धं त एनं पश्यन्ति //

(एआ.त्रिप् 18.61) मा यूयं भिक्षवः पुण्येभ्यो भैष्ट / तत् कस्य हेतोः / सुखस्यैतद् अधिवचनम् इष्टस्य कान्तस्य प्रियस्य मनापस्य यदुत पुण्यानीति / अपुण्यात् तु यूयं भिक्षवः विरमत / तत् कस्य हेतोर् / दुःखस्यैतद् अधिवचनम् अनिष्टस्याकान्तस्याप्रियस्यामनआपस्य यदुतापुण्यानीति //

(एआ.त्रिप् 18.621) अभिजानाम्य् अहं भिक्षवो दीर्गरात्रकृतानां पुण्यानां दीर्घरात्रम् इष्तं प्रियं मनआपं विपाकं प्रत्यनुभवितुं / (एआ.त्रिप् 18.622) सप्ताहं वर्षाणि मैत्रं चित्तं भावयित्वा सप्त संवर्तविवर्तकल्पान् नेमं लोकम् उपागमम् / (एआ.त्रिप् 18.623) संवर्तमाने ऽहं लोके आभास्वरे देवनिकाये उपपद्ये / विवर्तमाने लोके शून्ये ब्राह्मे विमाने उपपद्ये / तत्राहं भवामि ब्रह्मा महाब्रह्मा अभिभूर् अनभिभूतो ऽन्यतरदशशतवशवर्ती महाब्रह्मा तेषां सत्वानाम् अग्र आख्यातः / (एआ.त्रिप् 18.624) षड्विंशत्कृत्वश् चाहं शक्रो ऽभूवन् देवानाम् इन्द्रो (एआ.त्रिप् 18.625) ऽनेकशतकृत्वश् च राजाभूवं चक्रवर्ती चतुरन्तो विजेता धार्मिको धर्मराजः सप्तरत्नसमन्वागतः तस्य मम इमान्य् एवंरूपाणि सप्त रत्नानि अभूवंस् तद्यथा चक्ररत्नं हस्तिरत्नम् अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् एव सप्तमं पूर्णं च मे ऽभूत् सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां / सो ऽहम् इमाम् एव समुद्रपर्यन्तां महापृथिवीम् अखिलाम् अकण्टकाम् अनुत्पीडाम् अदण्डेनाशस्त्रेण धर्मेण समेनाभिनिर्जित्याध्यवसितवान् / (एआ.त्रिप् 18.626) तस्य ममैतद् अभवत् / कस्यैतत् कर्मणः फलं कस्यैष कर्मणः फलविपाको येनास्म्य् एतर्ह्य् एवं महर्द्धिक एवं महानुभाव इति / (एआ.त्रिप् 18.627) तस्य ममैतद् अभवत् / त्रयाणाम् एतत् कर्मणां फलं त्रयाणाम् एष कर्मणां फलविपाको येनास्म्य् एतर्ह्य् एवंमहर्द्धिक एवं महानुभावः / (एआ.त्रिप् 18.628) कतमेषां त्रयाणां / यदुत दानस्य दमस्य संयमस्य //

(एआ.त्रिप् 18.631) विपाकं पश्य पुण्यानां कुशलानां सुखैषिणां / मैत्रं चित्तं भावयित्वा सप्त वर्षाणि भिक्षवः // 1 (एआ.त्रिप् 18.632) सप्त संवर्तवैवर्तान् नेमं लोकम् उपागमम् / ॥उपगमत् संवर्तमाने लोके ऽस्मिन् भवाम्य् आभास्वरोपगः // 2 (एआ.त्रिप् 18.633) विवर्तमाने च भवाम्य् एष ब्रह्मोपगो ह्य् अहं / सप्तकृत्वो महाब्रह्मा वशवर्त्य् अभवत् पुरा // 3 (एआ.त्रिप् 18.634) षट्त्रिंशद्गुणकृत्वश् च देवराज्यम् अकारयत् / अनेकशतकृत्वश् च राजाभूवन् प्रतापवान् // 4 (एआ.त्रिप् 18.635) मूर्ध्नाभिषिक्तः क्षत्रियो जाम्बूषण्डेश्वरस् तदा / अदण्डेनाशस्त्रेण विजित्य पृथिवीम् इमां // 5 (एआ.त्रिप् 18.636) असाहसेन धर्मेण सम्यग् एवानुशिष्टवान् / धर्मचक्रं वर्तयित्वा अस्मिन् पृथिवीमण्डले // 6 (एआ.त्रिप् 18.637) महाधनो महाभोगे जातो ऽहं तादृशे कुले / सर्वद्रव्योपसंपन्नो रत्नैः सप्तभिर् एव च // 7 (एआ.त्रिप् 18.638) प्रभूतवित्तोपकरणो राजाभूवन् प्रतापवान् / एष हेतुर् हि माहात्म्ये प्रभूत्वं येन जायते // 8 (एआ.त्रिप् 18.639) बुद्धाः संग्राहका लोके एतत् तेषां सुदेशितम् / कः श्रुत्वा न प्रसीदेत अपि कृष्णाभिजातिकः // 9 (एआ.त्रिप् 18.640) तस्माद् इहात्मकामेन माहात्म्यम् अभिकाङ्क्षता / सद्धर्मो गुरुकर्तव्यः स्मरता बुद्धशासनम् // 10 //

+ + + ..... + + + गप्

(एआ.त्रिप् 22.51) रागाय प्रतिपन्ना द्वेषाय मोहाय प्रतिपन्ना / न रागाय प्रतिपन्ना न द्वेषाय न मोहाय प्रतिपन्ना // (एआ.त्रिप् 22.52) न रागक्षयाय प्रतिपन्ना न द्वेषक्षयाय न मोहक्षयाय प्रतिपन्ना / रागक्षयाय प्रतिपन्ना द्वेषक्षयाय मोहक्षयाय प्रतिपन्ना // (एआ.त्रिप् 22.53) न रागप्रहाणाय प्रतिपन्ना न द्वेषप्रहाणाय न मोहप्रहाणाय प्रतिपन्ना / रागप्रहाणाय प्रतिपन्ना द्वेषप्रहाणाय मोहप्रहाणाय प्रतिपन्ना // (एआ.त्रिप् 22.54) न रागविनयपर्यवसानाय प्रतिपन्ना न द्वेषविनयपर्यवसानाय न मोहविनयपर्यवसानाय प्रतिपन्ना / रागविनयपर्यवसानाय प्रतिपन्ना द्वेषविनयपर्यवसानाय मोहविनयपर्यवसान्य प्रतिपन्ना //

(एआ.त्रिप् 22.55) न शीलसंपन्ना न समाधिसंपन्ना न प्रज्ञासंपन्ना / शीलसंपन्ना समाधिसंपन्ना प्रज्ञासंपन्ना //

(एआ.त्रिप् 22.56) अनत्रोद्दानं / रागक्षयप्रहाणेन विनयपर्यवसानेन च / तथोभयेन कृत्वेह वर्गो भवति समुद्दिता // // (एआ.त्रिप् 23.0) उद्दानं / /// च्छन्दश् चाप्य् अनुयुंजाना / द्वौ व्यवहारौ द्वे मार्गाङ्गे नवमा शीलसंपदा //

(एआ.त्रिप् 23.1अ) अधार्मिकीं च वो भिषवः पर्षदं देशयिष्यामि धार्मिकीं च / तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये / (एआ.त्रिप् 23.1ब्) अधार्मिकी पर्षत् कतमा / येयं पर्षत् प्राणातिपातिका अदत्तादायिका काममिथ्याचारिका सुरामैरेयमद्यप्रमादस्थानिका / इयम् उच्यते अधार्मिकी पर्षत् / (एआ.त्रिप् 23.1च्) धार्मिकी पर्षत् कतमा / येयं पर्षत् प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरता / इयम् उच्यते धार्मिकी पर्षत् / (एआ.त्रिप् 23.1द्) अधार्मिकीं च वः पर्षदं देशयिष्यामि धार्मिकीं चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् //

(एआ.त्रिप् 23.2-7) एवं (एआ.त्रिप् 23.2) मृषावादिका पिशुनवाचिका परुष्यवाचिका संभिन्नप्रलापिनी / मृषावादात् प्रतिविरता पैशुन्यात् परुष्यात् संभिन्नप्रलापात् प्रतिविरता / (एआ.त्रिप् 23.3) छन्दाद् अगतिं गच्छन्ति द्वेषान् मोहाद् भायाद् अगतिं गच्छति / न छन्दाद् अगतिं गच्छन्ति न द्वेषान् न मोहान् न भायाद् गच्छति // (एआ.त्रिप् 23.4) अननुयुज्य अपर्यवगाह्यावर्णार्हस्य वर्णं भाषते वर्णार्हस्यावर्णं भाषते अप्रसादनीये स्थाने प्रसीदति प्रसादनीये स्थाने न प्रसीदति / अनुयुज्य पर्यवगाह्यावर्णार्हस्यावर्णं भाषते वर्णार्हस्य वर्णं भाषते अप्रसादनीये स्थाने न प्रसीदति प्रसादनीये स्थाने प्रसीदति // (एआ.त्रिप् 23.5) अद्र्ष्टे दृष्टवादिनी अश्रुते अमते अविज्ञाते विज्ञातवादिनी / अदृष्टे अदृष्टवादिनी अश्रुते अमते अविज्ञाते अविज्ञातवादिनी //

(एआ.त्रिप् 23.6) द्र्ष्टे अदृष्टवादिनी श्रुते मते विज्ञाते अविज्ञातवादिनी / द्र्ष्टे दृष्टवादिनी श्रुते मते विज्ञाते विज्ञातवादिनी // (एआ.त्रिप् 23.7) मिथ्यादृष्टिका मिथ्यासंकल्पा मिथ्यावाग् मिथ्याकर्मान्ता / सम्यग्दृष्टिका सम्यक्संकल्पा सम्यग्वाक् सम्यक्कर्मान्ता // (एआ.त्रिप् 23.8) मिथ्याजीवा मिथ्याव्यायामा मिथ्यास्मृतिः मिथ्यासमाधिः / सम्यगाजीवा सम्यग्व्यायामा सम्यग्स्मृता सम्यक्समाहिता //

(एआ.त्रिप् 23.9) न शीलसंपन्ना न समाधिसंपन्ना न प्रज्ञासंपन्ना न विमुक्तिसंपन्ना / शीलसंपन्ना समाधिसंपन्ना प्रज्ञासंपन्ना विमुक्तिसंपन्ना // //

(एआ.त्रिप् 24.0) उद्दानं शिक्षापदैः पंच तथेन्द्रियाणि बलश्रद्धाशीलासंपदा //

(एआ.त्रिप् 24.1अ) अधार्मिकीं च वः पर्षदं देशयिष्यामि धार्मिकीं च / तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये / (एआ.त्रिप् 24.1ब्) अधार्मिकी पर्षत् कतमा / येयं पर्षत् प्राणातिपातिका अदत्तादायिका काममिथ्याचारिका मृषावादिका सुरामैरेयमद्यप्रमादस्थानिका / इयम् उच्यते अधार्मिकी पर्षत् / (एआ.त्रिप् 24.1च्) धार्मिकी पर्षत् कतमा / येयं पर्षत् प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानात् प्रत्विरता / इयम् उच्यते धार्मिकी पर्षत् / (एआ.त्रिप् 24.1द्) अधार्मिकीं च वः पर्षदं देशयिष्यामि धार्मिकीं चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् // (एआ.त्रिप् 24.2-5) एवं (एआ.त्रिप् 24.2) न श्रद्धेन्द्रियेण समन्वागता न वीर्येन्द्रियेण न स्मृतीन्द्रियेण न समाधीन्द्रियेण न प्रज्ञेन्द्रियेण समन्वागता / श्रद्धेन्द्रियेण समन्वागता वीर्येन्द्रियेण स्मृतीन्द्रियेण समाधीन्द्रियेण प्रज्ञेन्द्रियेण समन्वागता //

(एआ.त्रिप् 24.3) न श्रद्धाबलेन समन्वागता न वीर्य्बलेन न स्मृतिबलेन न समाधिबलेन न प्रज्ञाबलेन समन्वागता / श्रद्धाबलेन समन्वागता वीर्य्बलेन स्मृतिबलेन समाधिबलेन प्रज्ञाबलेन समन्वागता / (एआ.त्रिप् 24.4) न श्रद्धासंपन्ना न शीलसंपन्ना न श्रुतसंपन्ना न त्यागसंपन्ना न प्रज्ञासंपन्ना / श्रद्धासंपन्ना शीलसंपन्नान श्रुतसंपन्ना त्यागसंपन्ना प्रज्ञासंपन्ना // (एआ.त्रिप् 24.5) न शीलसंपन्ना न समाधिसंपन्ना न प्रज्ञासंपन्ना न विमुक्तिसंपन्ना न विमुक्तिज्ञानदर्शनसंपन्ना / शीलसंपन्ना समाधिसंपन्ना प्रज्ञासंपन्ना विमुक्तिसंपन्ना विमुक्तिज्ञानदर्शनसंपन्ना // // (एआ.त्रिप् 25.0) उद्दानं / शीलं धनं बलं श्राद्धा धर्मभोग्यङ्गदृष्टिका / शिक्षा व्यवहारा मार्गाङ्गा पथाङ्गा धर्मदीपना //

(एआ.त्रिप् 25.1अ) अधार्मिकीं च वः पर्षदं देशयिष्यामि धार्मिकीं च / तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये / (एआ.त्रिप् 25.1ब्) अधार्मिकी पर्षत् कतमा / येयं पर्षत् प्राणातिपातिका अदत्तादायिका काममिथ्याचारिका मृषावादिका सुरामैरेयमद्यप्रमादस्थानिका / इयम् उच्यते अधार्मिकी पर्षत् / (एआ.त्रिप् 25.1च्) धार्मिकी पर्षत् कतमा / येयं पर्षत् प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानात् प्रत्विरता / इयम् उच्यते धार्मिकी पर्षत् / (एआ.त्रिप् 25.1द्) अधार्मिकीं च वः पर्षदं देशयिष्यामि धार्मिकीं चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् //

(एआ.त्रिप् 25.2-13) एवं (एआ.त्रिप् 25.2) न श्रद्धाधनेन समन्वागता न शीलधनेन न ह्रीधनेन न अपत्राप्यधनेन न श्रुतधनेन न त्यागधनेन न प्रज्ञाधनेन समन्वागता / श्रद्धाधनेन समन्वागता शीलधनेन ह्रीधनेनापत्राप्यधनेन श्रुतधनेन त्यागधनेन प्रज्ञाधनेन समन्वागता // (एआ.त्रिप् 25.3) न श्रद्धाबलेन समन्वागता न वीर्य्बलेन न ह्रीबलेन न अपत्राप्यबलेन न स्मृतिबलेन न समाधिबलेन न प्रज्ञाबलेन समन्वागता / श्रद्धाबलेन समन्वागता वीर्य्बलेन ह्रीबलेन अपत्राप्यबलेन स्मृतिबलेन समाधिबलेन प्रज्ञाबलेन समन्वागता //

(एआ.त्रिप् 25.4) अश्रद्धा अह्रीमती अनपत्रापिणी कुसीदा मुषीतस्मृतिर् असमाहिता दुष्प्रज्ञा / श्रद्धा ह्रीमती अपत्रापिणी आरब्धवीर्या उपस्थितस्मृतिः समाहिता प्रज्ञावती / (एआ.त्रिप् 25.5) न धर्मज्ञा न अर्थज्ञा न कालज्ञा न मात्रज्ञा नात्मज्ञा न पर्षज्ज्ञा न पुद्गलपरापरज्ञा / धर्मज्ञा अर्थज्ञा कालज्ञा मात्रज्ञा आत्मज्ञा पर्षज्ज्ञा पुद्गलपरापरज्ञा //

(एआ.त्रिप् 25.6) न स्मृतिसंबोध्यङ्गेन समन्वागता न धर्मप्रविचयसंबोध्यङ्गेन न वीर्यसंबोध्यङ्गेन न प्रीतिसंबोध्यङ्गेन न प्रश्रब्धिसंबोध्यङ्गेन न समाधिसंबोध्यङ्गेन न उपेक्षासंबोध्यङ्गेन समन्वागता / स्मृतिसंबोध्यङ्गेन समन्वागता धर्मप्रविचयसंबोध्यङ्गेन वीर्यसंबोध्यङ्गेन प्रीतिसंबोध्यङ्गेन प्रश्रब्धिसंबोध्यङ्गेन समाधिसंबोध्यङ्गेन उपेक्षासंबोध्यङ्गेन समन्वागता // (एआ.त्रिप् 25.7) मिथ्यादृष्टिका मिथ्यासंकल्पा मिथ्यावाग् मिथ्याकर्मान्ता मिथ्याजीवा मिथ्याव्यायामा मिथ्यास्मृता / सम्यग्दृष्टिका सम्यक्संकल्पा सम्यग्वाक् सम्यक्कर्मान्ता सम्यगाजीवा सम्यग्व्यायामा सम्यक्स्मृता // (एआ.त्रिप् 25.8) प्राणातिपातिका अदत्तादायिका काममिथ्याचारिका सुरामैरेयमद्यप्रमादस्थानिका मृषावादिका पिशुनवाचिका परुषवाचिका संभिन्नप्रलापिनी / प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानान् मृषावादात् पैशून्यात् पारुष्यात् संभिन्नप्रलापात् प्रतिविरता //

(एआ.त्रिप् 25.9) अद्र्ष्टे दृष्टवादिनी अश्रुते अमते अविज्ञाते विज्ञातवादिनी / दृष्टे अदृष्टवादिनी श्रुते मते विज्ञाते अविज्ञातवादिनी / अद्र्ष्टे अदृष्टवादिनी अश्रुते अमते अविज्ञाते अविज्ञातवादिनी / द्र्ष्टे दृष्टवादिनी श्रुते मते विज्ञाते विज्ञातवादिनी // (एआ.त्रिप् 25.10) मिथ्यादृष्टिका मिथ्यासंकल्पा मिथ्यावाग् मिथ्याकर्मान्ता मिथ्याजीवा मिथ्याव्यायामा मिथ्यास्मृता मिथ्यासमाहिता / सम्यग्दृष्टिका सम्यक्संकल्पा सम्यग्वाक् सम्यक्कर्मान्ता सम्यगाजीवा सम्यग्व्यायामा सम्यक्स्मृता सम्यक्समाहिता // (एआ.त्रिप् 25.11) प्राणातिपातिका अदत्तादायिका काममिथ्याचारिका सुरामैरेयमद्यप्रमादस्थानिका मृषावादिका पिशुनवाचिका परुषवाचिका संभिन्नप्रलापिका अभिध्यालुर् व्यापन्नचित्ता मिथ्यादृष्टिका / प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानान् मृषावादात् पैशून्यात् पारुष्यात् संभिन्नप्रलापाद् अनभिध्यालुका अव्यापन्नचित्ता सम्यग्दृष्टिका //

(एआ.त्रिप् 25.12) मिथ्यादृष्टिका मिथ्यासंकल्पा मिथ्यावाग् मिथ्याकर्मान्ता मिथ्याजीवा मिथ्याव्यायामा मिथ्यास्मृता मिथ्यासमाहिता मिथ्याविमुक्तिका मिथ्याज्ञानिका / सम्यग्दृष्टिका सम्यक्संकल्पा सम्यग्वाक् सम्यक्कर्मान्ता सम्यगाजीवा सम्यग्व्यायामा सम्यक्स्मृता सम्यक्समाहिता सम्यग्विमुक्तिका सम्यग्ज्ञानिका //

(एआ.त्रिप् 25.13) अधर्मं धर्मतो दीपयति धर्मं चाधर्मतः अविनयं विनयतो विनयं चाविनयतः आपत्तिम् अनापत्तितः अनापत्तिम् आपत्तितः गुर्वीं लघुतः लघ्वीं गुरुतः सावशेषां निरवशेषतः निरवशेषां सावशेषतः आचीर्णाम् अनाचीर्णतः अनाचीर्णाम् आचीर्णतः अभाषितां भाषिततः भाषिताम् अभाषिततः अप्रणिहितां प्रणिहिततः प्रणिहिताम् अप्रणिहिततः अप्रज्ञप्तां प्रज्ञप्ततः प्रज्ञप्ताम् अप्रज्ञप्ततः असमवहतां समवहततः समवहताम् असमवहततः अधर्मम् अधर्मतो दीपयति धर्मं च धर्मतः अविनयम् अविनयतो विनयं च विनयतः आपत्तिम् आपत्तितः अनापत्तिम् अनापत्तितः गुर्वीं गुरुतः लघ्वीं लघुतः सावसेषां सावशेषतः निरवशेषां निरवशेषतः आचीर्णाम् आचीर्णतः अनाचीर्णाम् अनाचीर्णतः अभाषिताम् अभाषिततः भाषितां च भाषिततः अप्रणिहिताम् अप्रणिहिततः प्रणिहितां प्रणिहिततः अप्रज्ञप्ताम् अप्रज्ञप्ततः प्रज्ञप्तां प्रज्ञप्ततः असमवहताम् असमवहततः समवहतां च समवहततः // //

(एआ.त्रिप् 26.0) उद्दानं / कषायो ऽग्रवती व्यग्रा उत्तान आमिषगुरुका च / विषमानार्या सप्तैता धर्माधर्मेण योजयेत् //

(एआ.त्रिप् 26.11) पर्षत् कषायं च वो भिक्षवो देशयिष्यामि पर्षन्मण्डं च तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये / (एआ.त्रिप् 26.12) पर्षत्कषायः कतमः / यस्यां पर्षदि अधर्मो दीप्यते धर्मः प्रत्युह्यते अविनयो दीप्यते विनयः प्रत्युह्यते अधर्मे खलु दीप्यमाने धर्मे प्रत्युह्यमाने अविनये दीप्यमाने विनये प्रत्युह्यमाने अधर्मवादिनः अविनयवादिनः पुद्गला बलवन्तो भवन्ति धर्मवादिनो विनयवादिनः पुद्गलाः दुर्बला भवन्ति अधर्मवादिषु अविनयवादिषु पुद्गलेषु बलवत्सु धर्मवादिनो विनयवादिनः पुद्गलास् तूष्णीं वासं वसन्ति उत्थाय वा विप्रक्रामन्ति / अयम् उच्यते पर्षत् कषायः / (एआ.त्रिप् 26.13) पर्षन्मण्डः कतमः / यस्यां पर्षदि धर्मो दीप्यते अधर्मः प्रत्युह्यते विनयो दीप्यते अविनयः प्रत्युह्यते धर्मे खलु दीप्यमाने अधर्मे प्रत्युह्यमाने विनये दीप्यमाने अविनये प्रत्युह्यमाने धर्मवादिनो विनयवादिनः पुद्गला बलवन्तो भवन्ति अधर्मवादिन अविनयवादिनः पुद्गला दुर्बला भवन्ति धर्मवादिषु विनयवादिषु पुद्गलेषु बलवत्सु अधर्मवादिन अविनयवादिनः पुद्गलाः प्रत्यन्तान् वा भजन्ते सर्वेण वा सर्वं न भवन्ति / अयम् उच्यते पर्षन्मण्डः / (एआ.त्रिप् 26.14) पर्षत्कषायं च वो देशयिष्यामि पर्षन्मण्डं चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् //

(एआ.त्रिप् 26.21) अनग्रवतीं च वः पर्षदं देशयिष्यामि अग्रवतीं च / तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये / (एआ.त्रिप् 26.22) अनग्रवती पर्षत् कतमा / यस्यां पर्षदि नवका भिक्षवः स्थविरेषु भिक्षुषु अगौरवा विहरन्त्य् अप्रतीशा अभयवशवर्तिनः स्थविराश् च भिक्षवः शैथिलिका भवन्ति बाहुलिका अवक्रमणीये पूर्वंगमाः प्रविवेके निक्षिप्तधुराः शिक्षायां मन्दगौरवाः / इयम् उच्यते अनग्रवती पर्षत् / (एआ.त्रिप् 26.23) अग्रवती पर्षत् कतमा / यस्यां पर्षदि नवका भिक्षवः स्थविरेषु भिक्षुषु सगौरवा विहरन्ति सप्रतीशाः सभयवशवर्तिनः स्थविराश् च भिक्षवः न शैथिलिका भवन्ति अबाहुलिकाः अवक्रमणीये निक्षिप्तधुराः प्रविवेके पूर्वंगमाः शिक्षायां तीव्रगौरवाः / इयम् उच्यते अग्रवती पर्षत् / (एआ.त्रिप् 26.24) अनग्रवतीं च वः पर्षदं देशयिष्यांइ अग्रवतीं चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् //

(एआ.त्रिप् 26.31) व्यग्रां च वः पर्षदं देशयिष्यामि समग्रां च, तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये / (एआ.त्रिप् 26.32) व्यग्रा पर्षत् कतमा / येयं पर्षत् कलहजाता विहरति भण्डनजाता विगृहिता विवादमापन्ना / इयम् उच्यते व्यग्रा पर्षत् / (एआ.त्रिप् 26.33) समग्रा पर्षत् कतमा / येयं पर्षत् कलहजाता विहरति न भण्डनजाता न विगृहिता न विवादमापन्ना / इयम् उच्यते समग्रा पर्षत् / (एआ.त्रिप् 26.34) व्यग्रां च वः पर्षदं देशयिष्यामि समग्रां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् //

(एआ.त्रिप् 26.41) उत्तानां च वः पर्षदं देशयिष्यामि गंभीरां च, तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये / (एआ.त्रिप् 26.42) उत्ताना पर्षत् कतमा / येयं पर्षत् उद्धता उन्नता चपला मुखरा प्रगल्भा घर्षितस्मृतिर् असमाहिता /// / इयम् उच्यते उत्ताना पर्षत् / (एआ.त्रिप् 26.43) गंभीरा पर्षत् कतमा / येयं पर्षद् अनुद्धता अनुन्नता अचपला अमुखरा अप्रगल्भा उपस्थितस्मृतिः समाहिता /// / इयम् उच्यते गंभीरा पर्षत् / (एआ.त्रिप् 26.44) उत्तानां च वः पर्षदं देशयिष्यामि गंभीरां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् //

(एआ.त्रिप् 26.51) आमिषगुरुकां च वः पर्षदं देशयिष्यामि धर्मगुरुकां च, तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये / (एआ.त्रिप् 26.52) आमिषगुरुका पर्षत् कतमा / यथापीहैकत्या आमिषहेतोर् अन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति ते आमिषम् एवान्तराकृत्वा अन्योन्यं तक्षन्ति संतक्षन्ति संपरितक्षन्ति अपीदानीं कुलान्य् उद्दायादानि कुर्वन्ति / इयम् उच्यते आमिषगुरुका पर्षत् / (एआ.त्रिप् 26.53) धर्मगुरुका पर्षत् कतमा / यथापीहैकत्या धर्महेतोर् अन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति ते धर्मम् एवान्तराकृत्वा नान्योन्यं तक्षन्ति संतक्षन्ति संपरितक्षन्ति न च कुलान्य् उद्दायादानि कुर्वन्ति / इयम् उच्यते धर्मगुरुका पर्षत् / (एआ.त्रिप् 26.54) अमिषगुरुकां च वः पर्षदं देशयिष्यामि धर्मगुरुकां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् //

(एआ.त्रिप् 26.61) विषमां च वः पर्षदं देशयिष्यामि समां च, तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये / (एआ.त्रिप् 26.62) विषमा पर्षत् कतमा / यथापीहैकत्यः अधार्मिको भवत्य् अधर्मवादी / तस्य पर्षद् अप्य् अधार्मिकी अधर्मवादिनी / स स्वस्याः पर्षदः पुरस्तात् स्वं वादम् अभूतेनातत्वेनानर्थोपसंहितेनाचष्टे प्रज्ञपयति प्रस्थापयति विभजति विवृणोत्य् उत्तनीकरोति देशयति संप्रकाशयत्य् अनुसन्धिम् अपि भाषते / परवादानां रन्ध्राणि च्छिद्राणि शवलानि कल्माषाण्य् अभूतेनातत्वेनानर्थोपसंहितेनाचष्टे प्रज्ञपयति प्रस्थापयति विभजति विवृणोत्य् उत्तनीकरोति देशयति संप्रकाशयत्य् अनुसन्धिम् अपि भाषते / इयम् उच्यते विषमा पर्षत् / (एआ.त्रिप् 26.63) समा पर्षत् कतमा / यथापीहैकत्यो धार्मिको भवति धर्मवादी / तस्य पर्षद् अपि धार्मिकी धर्मवादिनी / स स्वस्याः पर्षदः पुरस्तात् स्वं वादम् भूतेन तत्वेनार्थोपसंहितेनाचष्टे प्रज्ञपयति प्रस्थापयति विभजति विवृणोत्य् उत्तनीकरोति देशयति संप्रकाशयत्य् अनुसन्धिम् अपि भाषते / परवादानां रन्ध्राणि च्छिद्राणि शवलानि कल्माषाणि भूतेन तत्वेनार्थोपसंहितेनाचष्टे प्रज्ञपयति प्रस्थापयति विभजति विवृणोत्य् उत्तनीकरोति देशयति संप्रकाशयत्य् अनुसन्धिम् अपि भाषते / इयम् उच्यते समा पर्षत् / (एआ.त्रिप् 26.64) विषमां च वः पर्षदं देशयिष्यामि समां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् //

(एआ.त्रिप् 26.71) अनार्यां च वः पर्षदं देशयिष्यामि आर्यां च, तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये / (एआ.त्रिप् 26.72) अनार्या पर्षत् कतमा / येयं पर्षद् इदं दुःखम् आर्यसत्यम् इति यथाभूतं न प्रजानात्य् अयं दुःखसमुदयो ऽयं दुःखनिरोध इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभूतं न प्रजानाति / इयम् उच्यते अनार्या पर्षत् / (एआ.त्रिप् 26.73) आर्या पर्षत् कतमा / येयं पर्षद् इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानात्य् अयं दुःखसमुदयो ऽयं दुःखनिरोध इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभूतं प्रजानाति / इयम् उच्यते आर्या पर्षत् / (एआ.त्रिप् 26.74) अनार्यां च वः पर्षदं देशयिष्यामि आर्यां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् // (एआ.त्रिप् 26.8) एतान्य् एव सप्त सूत्राणि /// (एआ.त्रिप् 26.9) अन्तरोद्दानं धर्मो विनय आपत्तिर् गुरुका सावशेषा आचीर्णा अभाषिता अप्रणिहिता अप्रज्ञप्ता असमवहता //

(एआ.त्रिप् 27.0) पिण्डोद्दानं सप्ताविंशत्* /// यः / शिक्षा व्याख्यानतः कार्या धर्माधर्मेण पश्चिमं //

(एआ.त्रिप् 28.0) उद्दानं सप्तविंशद् धर्मेभिर् नव ज्ञानेन कारयेत् / दृष्टिः संवृतिर् आरक्षा किंपुरुषः पोषधेन च // /// त्त्रं पिण्डपात आयाचनवस्तुना //

(एआ.त्रिप् 28.01) एवं मया श्रुतम् एकस्मिन् समये भगवां च्छ्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे / तत्र भगवान् भिक्षून् आमन्त्रयति स्म // (एआ.त्रिप् 28.1अ) द्वौ धर्मौ नाम च रूपं च / अविद्या च भवतृष्णा च / भवदृष्टिर् विभवदृष्टिश् च / आह्रीक्यम् अनपत्राप्यं च / ह्रीश् चापत्रापं च / दुर्वचत्वं पापमित्रता च / सुवचत्वं कल्याणमित्रता च / आपत्तिकौशलम् आपत्तिव्युत्थानकौशलं च / समापत्तिकौशलम् समापत्तिव्युत्थानकौशलं च / धातुकौशलं मनसिकारकौशलं च / आर्जवता मार्दवं च / क्षान्तिः सौरत्यं च / साखिल्यं च प्रतिसंस्तरश् च / स्मृतिश् च संप्रजन्यं च / प्रतिसंख्यानबलं भावनाबलं च / इन्द्रियैर् अगुप्तद्वारता भोजने अमात्रज्ञता च / इन्द्रियैर् गुप्तद्वारता भोजने मात्रज्ञता च / शीलविपत्तिर् दृष्टिविपत्तिश् च / शीलव्यसनं दृष्टिव्यसनं च / शीलसंपद् दृष्टिसंपच् च / शीलविशुद्धिर् दृष्टिविशुद्धिश् च / दृष्टिविशुद्धिस् तथादृष्टस्य च योनिशः प्रधानम् / संवेजनीयेषु धर्मेषु संवेगः तथासंविग्नस्य च योनिशः प्रधानं / असंतुष्टिः कुशलेषु धर्मेषु अप्रतिवाणिश् च प्रहाणे / शमथश् च विपश्यना च / विद्या च विमुक्तिष् च // (एआ.त्रिप् 28.1ब्1) अन्तरोद्दानं / द्वौ धर्मौ नाम रूपं च अविद्या द्वितीयं पदं / भवदृष्टिश् चाह्रीक्यं ह्रीश् चापि दुर्वचत्वं च //

(एआ.त्रिप् 28.1ब्2) सुवचत्वं तथापत्तिः समापत्तिश् च धातवः / आर्जवक्षान्तिसाखिल्यं स्मृतिर् बलेन्द्रियैः शीलं // (एआ.त्रिप् 28.1ब्3) संपत्तिर् व्यसनं संपद् विशुद्धौ चापरद्वयं / संवेगश् चाप्य् असंतुष्टिः शमथो विद्य जानता //

(एआ.त्रिप् 28.2) द्वे ज्ञाने (एआ.त्रिप् 28.21) धर्मज्ञानम् अन्वयज्ञानं च / एवं (एआ.त्रिप् 28.22) परचित्तज्ञानं संवृतिज्ञानं च / (एआ.त्रिप् 28.23) दुःखज्ञानं समुदयज्ञानं च / (एआ.त्रिप् 28.24) निरोधज्ञानं मार्गज्ञानं च / (एआ.त्रिप् 28.25) दुःखे धर्मज्ञानं दुःखे ऽन्वयज्ञानं च / (एआ.त्रिप् 28.26) समुदये धर्मज्ञानं समुदय ऽन्वयज्ञानं च / (एआ.त्रिप् 28.27) निरोधे धर्मज्ञानं निरोधे ऽन्वयज्ञानं च / (एआ.त्रिप् 28.28) मार्गे धर्मज्ञानं मार्गे ऽन्वयज्ञानं च / (एआ.त्रिप् 28.29) क्षयज्ञानम् अनुत्पादज्ञानं च //

(एआ.त्रिप् 28.3) द्वे हेतू द्वौ प्रत्ययौ सम्यग्दृष्टेर् उत्पादाय / परतश् च घोष अध्यात्मं च योनिशो मनसिकारः //

(एआ.त्रिप् 28.4) द्वे सत्ये / संवृतिसत्यं परमार्थसत्यं च / (एआ.त्रिप् 28.5) द्वयोर् धर्मयोस् तीव्रश् चेतसः आरक्षास्मृत्यप्रमादे योगः करणीयः सत्ये चाकोप्ये च //

(एआ.त्रिप् 28.61) द्वाव् अर्थवशौ संपश्यन् किंपुरुषः किंपुरुषीं वाचं न भाषते / मा च मृषावादं करिष्यामि मा च परेषाम् असतां दुःखदौर्मनस्यम् उत्पादयिष्यामि / (एआ.त्रिप् 28.62) एताव् एव द्वाव् अर्थवशौ संपश्यन् सत्पुरुषः किंपुरुषीं वाचं न भाषते / मा च मृषावादं करिष्यामि मा च परेषाम् असतां दुःखदौर्मनस्यम् उत्पादयिष्यामि / (एआ.त्रिप् 28.7) द्वौ पोषथौ / चातुर्मासिकः पंचदशिकश् च //

(एआ.त्रिप् 28.8) द्वे वर्षोपनायिके / पूर्विका च पश्चिमिका च // //

+ + + 1 blatt fehlt (eā.trip 28.y) dvau piṇḍakau samasamau vipākato yaṃ ca piṇḍakaṃ paribhujya bodhisatvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddho yaṃ ca piṇḍakaṃ paribhujya tathāgato nirupadhiśeṣe nirvāṇadhātau parinirvṛtaś ca //

(eā.trip 28.z1) dve bhikṣor āyācanavastunī / bhikṣur evaṃ samyagāyācamāna āyāced aho batāham evaṃrūpaḥ syāṃ tadyathā śāriputramaudgalyāyanau bhikṣū / tat kasya hetor / eṣā hi bhikṣavas tulā etat pramāṇaṃ bhikṣūṇāṃ mama śrāvakāṇāṃ yaduta śāriputramaudgalyāyanau bhikṣū / (eā.trip 28.z2) dve bhikṣuṇyā āyācanavastuni / bhikṣuṇī evaṃ samyagāyācamāna āyāced aho batāham evaṃrūpā syāṃ tadyathā mahāprajāpatī gautamī utpalavarṇā vā bhikṣuṇī / tat kasya hetor / eṣā hi bhikṣavas tulā etat pramāṇaṃ bhikṣuṇīnāṃ mama śrāvikāṇāṃ yaduta mahāprajāpatī gautamī utpalavarṇā vā bhikṣuṇī / (eā.trip 28.z3) dve upāsakasyāyācanavastunī / upāsaka evaṃ samyagāyācamāna āyāced aho batāham evaṃrūpaḥ syāṃ tadyathā anāthapiṇḍado gṛhapatiḥ śrāvastyāṃ hastako vā ālavakaḥ kauśāmbyāṃ / tat kasya hetor / eṣā hi bhikṣavas tulā etat pramāṇaṃ upāsakānāṃ mama śrāvakāṇāṃ yaduta anāthapiṇḍado gṛhapatiḥ śrāvastyāṃ hastako vā ālavakaḥ kauśāmbyāṃ / (eā.trip 28.z4) dve upāsikāyā āyācanavastunī / upāsikā evaṃ samyagāyācamāna āyāced aho batāham evaṃrūpaḥ syāṃ tadyathā viśākā mṛgāramātā śrāvastyāṃ kubjottarā vā kauśāmbyāṃ / tat kasya hetor / eṣā hi bhikṣavas tulā etat pramāṇaṃ upāsikānāṃ mama śrāvikāṇāṃ yaduta viśākā mṛgāramātā śrāvastyāṃ kubjottarā vā kauśāmbyāṃ // //

(एआ.त्रिप् 29.0) उद्दानं /// मुखानि पंच लाभेन / चत्वारि शमथो लोभः प्रज्ञा शैक्षवर्गो ऽयं //

(एआ.त्रिप् 29.1) द्वौ धर्मौ शैक्षस्य बहुकरौ भवतः / (एआ.त्रिप् 29.101) ह्रीर् व्यपत्राप्यं च / एवम् सुवचत्वं कल्याणमित्रता च / आपत्तिकौशल्यम् आपत्तिव्युत्थानकौशल्यं च / समापत्तिकौशल्यम् समापत्तिव्युत्थानकौशल्यं च / धातुकौशल्यं मनसिकारकौशल्यं च / आर्जवता मार्दवं च / क्षान्तिः सौरत्यं च / साखिल्यं च प्रतिसंस्तरश् च / स्मृतिश् च संप्रजन्यं च / प्रतिसंख्यानबलं भावनाबलं च / इन्द्रियैर् गुप्तद्वारता भोजने मात्रज्ञता च / शीलसंपत्तिर् दृष्टिसंपत्तिश् च / शीलविशुद्धिर् दृष्टिविशुद्धिश् च / दृष्टिविशुद्धिस् तथादृष्टेश् च योनिशः प्रधानम् / संवेजनीयेषु धर्मेषु संवेगः तथासंविग्नस्य च योनिशः प्रधानं / असंतुष्टिः कुशलेषु धर्मेषु अप्रतिवाणिश् च प्रहाणे / शमथश् च विपश्यना च / विद्या च विमुक्तिश् च //

(एआ.त्रिप् 29.2) द्वे ज्ञाने शैक्षस्य बहुकरे भवतः / धर्मज्ञानम् अन्वयज्ञानं च / एवं परचित्तज्ञानं संवृतिज्ञानं च / दुःखज्ञानं समुदयज्ञानं च / निरोधज्ञानं मार्गज्ञानं च / दुःखे धर्मज्ञानं दुःखे ऽन्वयज्ञानं च / निरोधे धर्मज्ञानं निरोधे ऽन्वयज्ञानं च / मार्गे धर्मज्ञानं मार्गे ऽन्वयज्ञानं च //

(एआ.त्रिप् 29.3) द्वौ हेतू द्वौ प्रत्ययौ शैक्षस्य सम्यग्दृष्टेर् उत्पादाय / परतश् च घोष अध्यात्मं च योनिशो मनसिकारः //

(एआ.त्रिप् 29.4) द्वे सत्ये शैक्षस्य बहुकरे भवतः / संवृतिसत्यं परमार्थसत्यं च //

(एआ.त्रिप् 29.5) द्वयोर् धर्मयोः शैक्षेण तीव्रश् चेतसः आरक्षास्मृत्यप्रमादे योगः करणीयः / सत्ये चाकोप्ये च //

(एआ.त्रिप् 29.6) द्वौ धर्मौ शैक्षस्य बहुकरौ भवतः / उपस्थितस्मृतिता च काये नोत्क्षिप्तचक्षुष्कता च अन्तर्गृहे / (एआ.त्रिप् 29.7) द्वौ धर्मौ शैक्षस्य बहुकरौ भवतः / /// अनगारे चाभिरतिः //

(एआ.त्रिप् 29.81) द्वौ धर्मौ शैक्षस्य परिहाणाय संवर्तते / लभेनानुनीयते अलाभेन प्रतिहन्यते / (एआ.त्रिप् 29.82) द्वौ धर्मौ शैक्षस्य अपरिहाणाय संवर्तते / लभेन नानुनीयते अलाभेन न प्रतिहन्यते / यथा लाभ अलाभ एवं यश अयशो निन्दा प्रशंसा सुखं दुःखं //

(एआ.त्रिप् 29.91) द्वौ धर्मौ शैक्षस्य रागपरिहाणाय संवर्तते / शमथश् च विपश्यना च / (एआ.त्रिप् 29.92) द्वौ धर्मौ शैक्षस्य लोभपरिहाणाय संवर्तते / शमथश् च विपश्यना च / यथा लोभ एवं द्वेषो मोहः पूर्ववद् यथा लिखितं / (एआ.त्रिप् 29.101) द्वौ धर्मौ शैक्षस्य प्रज्ञाप्रतिलंभाय संवर्तते / शमथश् च विपश्यना च / (एआ.त्रिप् 29.102) यथा प्रज्ञाप्रतिलंभाय एवं पूर्ववद् यथोक्तः प्रज्ञामार्गः // //

(एआ.त्रिप् 30.0) उद्दानं //

अहितं मूलम् अनर्थाय ///

इन्द्रियबलबोध्यङ्गा दश अङ्गिकैश् च कारयेत् //

(एआ.त्रिप् 30.11) द्वौ धर्मौ लोक उत्पद्येते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःखाय देवमनुष्याणां यदुत अधर्मचर्या विषमचर्या च / अधर्मचर्या विषमचर्या च लोक उत्पद्येते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःखाय देवमनुष्याणां / (एआ.त्रिप् 30.12) द्वौ धर्मौ लोक उत्पद्येते बहुजनहिताय बहुजनसुखाय अर्थाय हिताय सुखाय देवमनुष्याणां यदुत धर्मचर्या समचर्या च / धर्मचर्या समचर्या च लोक उत्पद्येते बहुजनहिताय बहुजनसुखाय अर्थाय हिताय सुखाय देवमनुष्याणां //

(एआ.त्रिप् 30.21) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अधर्मचर्याविषमचर्यामूलका अधर्मचर्याविषमचर्यासमुदया अधर्मचर्याविषमचर्याजातीया अधर्मचर्याविषमचर्याप्रभवाः / अधर्मचर्याविषमचर्यामूलका हि ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति / (एआ.त्रिप् 30.22) ये केचिद् अनेकविधाः कुशला धर्माः संभवन्ति सर्वे ते धर्मचर्यासमचर्यामूलकाधर्मचर्यासमचर्यासमुदयाधर्मचर्यासमचर्याजातीयाधर्मचर्यासमचर्याप्रभवाः / धर्मचर्यासमचर्यामूलका हि भिक्षवो ये केचिद् अनेकविधाः कुशला धर्माः संभवन्ति // (एआ.त्रिप् 30.301) द्वौ धर्माव् अनर्थाय संवर्तेते अधर्मचर्या विषमचर्या च / द्वौ धर्माव् अर्थाय संवर्तेते धर्मचर्या समचर्या च //

यथा अनर्थाय अर्थाय एवम् अहिताय हिताय दुःखाय सुखाय व्यसनाय संपदे विपत्तये संपत्तये असमृद्धये समृद्धये अपारिपूरये पारिपूरये पारिहाणाय अपारिहाणाय ॥ह्स्. परिहाणाय॥ दृष्टधार्मिकस्यार्थस्यानर्थाय दृष्टधार्मिकस्यार्थस्यार्थाय साम्परायिकस्यार्थस्यानर्थाय साम्परायिकस्यार्थस्यार्थाय /// (एआ.त्रिप् 30.41) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः पापका अकुशला धर्माः उत्पद्यन्ते यदुत अधर्मचर्यया विषमचर्यया च / अधर्मचर्यया विषमचर्यया च अनुत्पन्नाः पापका अकुशला धर्माः उत्पद्यन्ते / (एआ.त्रिप् 30.42) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः पापका अकुशला धर्मा नोत्पद्यन्ते यदुत धर्मचर्यया समचर्यया च / धर्मचर्यया समचर्यया च अनुत्पन्नाः पापका अकुशला धर्मा नोत्पद्यन्ते / (एआ.त्रिप् 30.43) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः कुशला धर्माः नोत्पद्यन्ते यदुत अधर्मचर्यया विषमचर्यया च / अधर्मचर्यया विषमचर्यया च अनुत्पन्नाः कुशला धर्माः नोत्पद्यन्ते / (एआ.त्रिप् 30.44) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः कुशला धर्माः उत्पद्यन्ते यदुत धर्मचर्यया समचर्यया च / धर्मचर्यया समचर्यया च अनुत्पन्नाः कुशला धर्माः उत्पद्यन्ते / (एआ.त्रिप् 30.45) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः पापका अकुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति यदुत अधर्मचर्यया विषमचर्यया च / अधर्मचर्यया विषमचर्यया च अनुत्पन्नाः पापका अकुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति (एआ.त्रिप् 30.46) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः पापका अकुशला धर्माः नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते यदुत धर्मचर्यया

समचर्यया च / धर्मचर्यया समचर्यया च अनुत्पन्नाः पापका अकुशला धर्माः नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते / (एआ.त्रिप् 30.47) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः कुशला धर्मा नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते यदुत अधर्मचर्यया विषमचर्यया च / अधर्मचर्यया विषमचर्यया च अनुत्पन्नाः कुशला धर्मा नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते / (एआ.त्रिप् 30.48) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः कुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति यदुत धर्मचर्यया समचर्यया च / धर्मचर्यया समचर्यया च अनुत्पन्नाः कुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति //

//

+ + + गप्

(एआ.त्रिप् 32.201) द्वौ धर्मौ संरागाय संवर्तेते अधर्मचर्या विषमचर्या च / अधर्मचर्या विषमचर्या च संरागाय संवर्तेते / द्वौ धर्माव् असंरागाय संवर्तेते धर्मचर्या समचर्या च / धर्मचर्या समचर्या च असंरागाय संवर्तेते / इदम् अवोचत् // यथा संरागाय असंरागाय संवर्तेते एवं सद्वेषाय असद्वेषाय संमोहाय असंमोहाय संयोगाय विसंयोगाय संक्लेशाय व्यवदानाय आचयाय अपचयाय उपादानाय अनुपादानाय उच्छेदाय अनुच्छेदाय संश्रेणनाय विश्रेणनाय संधूपनाय विधूपनाय बाहुल्याय संलेखाय संसर्गाय असंसर्गाय प्रपञ्चाय निष्प्रपञ्चाय आलयाय अनालयाय अव्युपशमाय व्युपशमाय संवर्तेते / इदम् अवोचत् // (एआ.त्रिप् 32.301) द्वौ धर्मौ विरागणाय संवर्तेते एते एव अधर्मचर्या विषमचर्या च / अधर्मचर्या विषमचर्या च विरागणाय संवर्तेते / द्वौ धर्माव् आरागणाय संवर्तेते धर्मचर्या समचर्या च / धर्मचर्या च समचर्या च आरागणाय संवर्तेते / इदम् अवोचत् // यथा विरागणायारागणाय एवं संतोषाय असंतोषाय अन्धकरणाय अनन्धकरणाय अचक्षुष्करणाय चक्षुष्करणाय अज्ञानकरणाय ज्ञानकरणाय प्रज्ञादौर्बल्याय प्रज्ञावृद्धये विघातपक्षाय अविघातपक्षाय नाभिज्ञाय अभिज्ञाय न संबोधये संबोधये + + + / इदम् अवोचत् //

(एआ.त्रिप् 32.401) द्वौ धर्मौ दुश्चरिताय संवर्तेते अधर्मचर्या विषमचर्या च / अधर्मचर्या विषमचर्या च दुश्चरिताय संवर्तेते / द्वौ धर्मौ सुचरिताय संवर्तेते धर्मचर्या समचर्या च / धर्मचर्या समचर्या च सुचरिताय संवर्तेते / इदम् अवोचत् //

यथा दुश्चरिताय सुचरिताय एवम् अकुशलाय कुशलाय सावद्याय निरवद्याय + + ... + + य सोपवादाय अनुपवादाय सोपघाताय अनुपघाताय सानुताप्याय अनुताप्याय सानुभाषिकाय अननुभाषिकाय + + ... + + प्रतिलोमिकाय अनुलोमिकाय अननुच्छविकाय अनुच्छविकाय अनौपयिकाय औपयिकाय अप्रतिरूपाय प्रतिरूपाय + + ... + + इदन्म् अवोचत् //

(एआ.त्रिप् 32.501) द्वौ धर्मौ हीनाय संवर्तेते अधर्मचर्या विषमचर्या च / अधर्मचर्या विषमचर्या च हीनाय संवर्तेते / द्वौ धर्मौ प्रणीताय संवर्तेते धर्मचर्या समचर्या च / धर्मचर्या समचर्या च प्रणीताय संवर्तेते / इदम् अवोचत् //

यथा हीनाय प्रणीताय एवं कृष्णाय शुक्लाय + + ... + + य ऊर्ध्वंभागगमनीयाय मिथ्यादृष्टये सम्यग्दृष्टये मिथ्याप्रतिपत्तये सम्यक्प्रैपत्तये मिथ्याप्रणिधानाय सम्यक्प्रणिधानाय + + ... + + विपदे संपदे दुष्प्रज्ञाय प्रज्ञासंपदे मुषितस्मृतितायै उपस्थितस्मृतितायै असमाधिसंवर्तन्यै समाधिसंवर्तन्यै अज्ञानाय ज्ञानाय् + + ... + + अनभिसमयाय अभिसमयाय अनालोकाय आलोकाय अविपश्यनाय विपश्यनाय // //

(एआ.त्रिप् 32.601) द्वौ धर्माव् असत्पुरुषसंसेवायै संवर्तेते अधर्मचर्या विषमचर्या च / अधर्मचर्या विषमचर्या च असत्पुरुषसंसेवायै संवर्तेते / द्वौ धर्मौ सत्पुरुषसंसेवायै संवर्तेते धर्मचर्या समचर्या च / धर्मचर्या समचर्या च सत्पुरुषसंसेवायै संवर्तेते / इदम् अवोचत् //

यथा असत्पुरुषसंसेवायै सत्पुरुषसंसेवायै एवम् असद्धर्मश्रवणाय सद्धर्मश्रवणाय / + + ... + + पापमित्रतायै कल्याणमित्रतायै पापसहायतायै कल्याणसहायतायै पापसंपर्कतायै कल्याण्संपर्कतायै + + ... + +अनपत्रापितायै अपत्रापितायै प्रमादाय अप्रमादाय विवादाय अविवादाय संघभेदाय संघसामग्र्यै // //

(एआ.त्रिप् 32.701) द्वौ धर्मौ बुद्धे अगौरवाय संवर्तेते अधर्मचर्या विषमचर्या च / अधर्मचर्या विषमचर्या च बुद्धे अगौरवाय संवर्तेते / द्वौ धर्मौ बुद्धे गौरवाय संवर्तेते धर्मचर्या समचर्या च / धर्मचर्या समचर्या च बुद्धे गौरवाय संवर्तेते / इदम् अवोचत् //

यथा अगौरवाय गौरवाय एवम् अप्रतिशतायै सुप्रतिशतायै / यथा बुद्धे एवं धर्मे संघे शिक्षायां अनुशासने अप्रमादे प्रतिसंस्तरे समाधौ // //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.