Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
हेतुबिन्दुटीकालोक (subcommentary on अर्चट's हेतुबिन्दुटीका on धर्मकीर्ति's हेतुबिन्दु)
- Tác giả
- दुर्वेकमिश्र
- Thông tin
- GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji: Hetubinduṭika of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Misra. Baroda : Oriental Institute 1949, pp. 233-411. (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तदभावप्रमाण[59अ]व्यपदेशम् अश्नुत इत्य् आह भावांश (अभावांशे) [167.14] जनयद् इति [167.15] हेतावयं शतृप्रत्ययः प्रत्येयः । तद् इत्य् अन्यविषयज्ञानम् । तदिन्द्रियजन्मनि ज्ञाने यदवभासते स तस्य विषयस् तत्प्रतिपत्तिजनकत्वेन लभत इत्य् अभिसंबन्धाद् द्वितीया साधन[167.18]पदसंस्कारवेलायाम् अनुपलब्धिर् नापेक्षितेति तथा निर्देशः । कथं तर्हि स सिध्यतीत्य् आशंकायाम् आचार्यदेशीयस्यैवाभिप्रायं वर्णयन्न् आह अनुपलब्धेर् इ[167.18]ति । यदि विमृश्यमानम् "अघटम् एतद्भूतलम्" इति प्रतीतिर् नातिशेते "तद्घटो नास्ति" इति ज्ञानम् प्रतियोगिस्मरणसहायेनेन्द्रियेण जन्यमानत्वात् तज्ज्ञाना[न]न्तरभावि संयुक्तविशेषभावलक्षणात् इन्द्रियार्थसन्निकर्षाट् जायमानं प्रत्यक्षं सद् एव प्रमाणान्तरम् अनुमानादेः प्रमाणाद् अन्यत् प्रमाणम् । यद् वा विशेषवचनो ऽयम् अन्तरशब्दः । किं भूतं सद् एतत् प्रत्यक्षं प्रमाणम् इत्य् आह अभावस्य [167.21] इति । तुच्छरूपस्य [167.21] इति भावरूपशून्यस्येति बोद्धव्यम् न त्व् अवस्था(त्व् अस्त्व् आ)त्मन इति तन्मतेनाभावस्यापि वस्तुत्वात् ।
ननु च नेदं प्रत्यक्षं प्रमाणं, अपि तु सन्निकर्षस्य प्रत्यक्षप्रमाणस्य प्रमाणरूपं फलम् एतत् तत् कथम् एवम् उक्तम् इति चेत्, सत्यम् एतत् । केवलं हानादिबुद्धिरूपं फलं प्रधानम् इदं प्रमाणम् अभिप्रेतम् । परिच्छेदात्मकम् इ[167.21]ति च परिच्छिद्यते ऽनेनेति परिच्छेदस् तदात्मकम् । परिच्छित्तिस् तूपादानादिधीरेवेति । यदि वा प्रमाणशब्देनोपचारात् फलम् एवाभिप्रेतम् इह एवंभूतं प्रत्यक्षप्रमाणफलान्तरम् आचक्षाणैश् च सामर्थ्यात् यत एतद् भवति तत् प्रत्यक्षं प्रमाणम् इति दर्शितम् इति सर्वथावदातम् । तेषाम् एव बौद्धं प्रति वक्रोक्तिं दर्शयन्न् आह -- तद् एव [167.21] इति तद् एव प्रमाणम् अनन्तरोक्तं यत् । प्रतिवादिनां तीर्थकानाम् आचार्यदेशीयानां च तन्निरासार्थं [167.24] बुद्धिभेदनिरासार्थं, विप्रतिपत्तिनिरासार्थम् इति यावत् । उपलब्धिलक्षणप्राप्तिर् यस्यास्ति स खलूपलब्धिलक्षणप्राप्त उच्यते । सैव तु कीदृशी यत्प्राप्तो ऽर्थस् तथोक्तो वार्तिककृतेत्य् आशङ्क्योपलब्धिलक्षणप्राप्तिम् अभिप्रेतां दर्शयन्न् आह उपलब्धी[167.25]ति । उपलब्धिलक्षणप्राप्तिर् एवंरूपा शास्त्रकृता अन्यत्र व्याख्याता [167.29] इति सम्बन्धः कार्यः । प्रत्यय[167.26]शब्दः प्रत्येकम् अभिसम्बध्यते ।[177]हेतुप्रत्यय आलोकादिः, समननतरप्रत्ययः प्राक्तनं विज्ञानम्, अधिपतिप्रत्ययश् च चक्षुरादिः, आलम्ब्यत इति कृत्वा आलम्बनप्रत्ययो नीलादिः स । किम् अर्थम् सा तथारूपा शास्त्रकृता [167.28] {प्. 382} अन्यत्र व्याख्यातेत्य् आशङ्कायाम् आह -- नैयायिक [168.1] इति । विप्रतिपत्तिम् एव दर्शयन्न् आह -- ते हि [168.1] इति । द्र[178]व्याणाम् उ[168.2]पलम्भकानीति वदता च यत्रैतानि सन्ति
तदुपलम्भे निमित्तं द्रव्य एव च सन्तीति द्रव्यस्यैवोलम्भे निमित्तम् अमूनि नोपलम्भमात्र इति दर्शितम्, अन्यथा अभावसमवाययोर् उपलब्धिर् न स्यात् । न च नास्ति संयुक्तसमर्थतया विशेषणभावेन तयोर् उपलम्भस्यनैयायिकैर् इष्टत्वात् । [59अ]एवं गुणादीनाम् अपि तथा तथोपलब्धेर् इष्टत्वाद् इति । एवम् एषां अभिधानं कुतो ज्ञायत इति आह महती[168.2]ति । एतच् च प्रतितन्त्रसिद्धान्ताश्रयणेन एवं वचनादि[168.3]त्य् आचष्ट इति द्रष्टव्यम् अन्यथा असंगतम् उक्तं स्यात्वैशेषिकसूत्रत्वाद् अस्येति । अस्यायम् अर्थो महत्त्वयुक्ते महत्युपलब्धिर् भवति न द्वयणुकादौ । यदि महत्त्वाद् उपलब्धिस् तर्हि परममहत्त्वेप्य् अवकाशादौ सा किं न भवतीति पर्यनुयोगाशंकायां तद्व्यवच्छेदार्थम् उक्तम् अनेकद्रव्यत्वाद् इति । अथवा अनेकद्रव्यावयवास् तद्वत्त्वम् अवयविनो महत एव न द्वयणुकस्येत्य् उत्पत्त्यान्यनिरपेक्षत्वं महत्त्वानेकद्रव्यत्वयोर् इति लक्षणविकल्प एवायं विवक्षितं बोद्धव्यम् । अनेकं द्रव्यम् आरम्भकतया विद्यते यस्य तद्भावस् तस्मात् । अनेकद्रव्यवत्त्वाद् इति पाठे सर्वधनादेर् आकृतिगणत्वेन गणपाठाद् अस्य बहुव्रीहिप्रतिषेधेन शतुर् विधे द्रष्टव्यः (मतुविधिः दृष्टः) अन्यथा कर्मधारयमत्त्वर्थीयात् बहुव्रीहिर् लाघवेनेष्ट इत्य् अनेकं द्रव्यं [यस्य] स तथा तद्भावस् तस्माद् इति निर्देशः प्राप्नोति अनेकद्रव्यवत्त्वा(व्यत्वा)द् इति पाठे तु न कश्चिद् आयासः । यदि महत्त्वाद् अनेकद्रव्यवत्त्वाद् अन्यत[र]स्माद् वा उपलब्धिर् वायाव् अपि सा स्यात् । तन्निवृत्त्यर्थम् उक्तं रूपाद् इ[168.3]ति ।
__________नोतेस्__________
[177] दुर्वेकानुरोधेन "हेतुसमनन्तरे"त्यादि पाठः सम्यग् भाति । [178] दुर्वेकानुरोधेन "द्रव्याणाम् उपलम्भकान्य् आह" इति पाठः स्यात् ।
ननु चानयोपलब्धिलक्षणप्राप्त्या युक्तस्यानुपलम्भतो ऽभावसिद्धेर् अनुपलब्धिस् तावल् लिङ्गत्वेन तैर् इष्टैवेत्य् आह -- एवं च [168.3] इति । अनैकान्तिकीत्य् आचक्षते [168.5] त एवनैयायिकाः। कुतो ऽनैकान्तिकीत्य् आशङ्क्य तन्मत एव स्थित्वा आह -- सत्य् अपि [168.4] इति । एतद् एव तन्मत्यैव निदर्शनेनोपपादयन्न् आह -- नहि [168.5] इति ।[179]न भवन्ति न सन्ति ।भाष्यकारःप्रकरणात्न्यायभाष्यकारःपक्षीलस्वामी । अनुमानत उपलब्धिम् एव तदीयां दर्शयितुम् आह -- इन्द्रियत्वात् [168.8] इति । प्राप्यकारी [168.9] विषयं प्राप्य तेन सह संयुज्य तत्र ज्ञानं जनयतीत्य् अर्थः । एतच् चार्थकथनम् अवसेयम् न तु अनुगमानप्रयोग एष । पञ्चावयवस्य वाक्यस्यानुपदर्शनात् । भवबैकान्तिकत्वं कीतन(तदनैकान्तिकत्वकीर्तन)म् एवोपसंहरन्न् आह -- तद् एवम् इ[168.11]ति । {प्. 373} अनैकान्तिकत्वाभिधानं च तेषां वैशेषिकसूत्रे यथाश्रुति द्रष्टव्यम् । न तु तैर् यथा व्याख्यायते । ते हि रूपाद् इत्य् उद्भूतसमाख्याताद् इति विशेष्य नायनरश्म्यवयविन उपलब्धिं निवर्तयन्तीति ।[180]तन्निरासार्थम् उ[168.12]पलब्धिलक्षणप्राप्तानुपलब्धेर् अनैकान्तिकत्वनिरासार्थम् । कथं तन्निरासार्थम् इत्य् आह -- उपलब्धी[168.12]ति । अभ्यधाद् [168.13] अन्यत्रेति सामर्थ्यात् । तदुपदर्शनेति[पि] यदि व्यभिचारसंभवः कथं तन्निराकृतं भवतीत्य् आह यदाही[168.13]ति । कुतो व्यभिचारावकाश [168.15] इति तयोपलब्धिलक्षणप्राप्त्या वर्तमानस्यानुपलब्धिर् इति च प्रकरणात् । तस्या [168.15] इत्य् उपलब्धिलक्षणप्राप्तानुपलब्धेः ।
__________नोतेस्__________
[179] मूले "भवन्ति" इत्य् एव मुद्रितं किंतु "न भवन्ति" इत्य् एव पाठो ऽनुटीकागतः साधुः । [180] तन्निरासं स् ।
ननुनैयैकैर् यदुपलब्धिलक्षणप्राप्तिशब्देन महत्त्वादिकम् उच्यते तस्याप्य् अनवद्यत्वात् सैवोपलब्धिलक्षणप्राप्तिर् भवतापि कस्मान् नोच्यते किं पुनर् आहोपुरुषिकयान्याभिधीयत इत्य् आशंक्याह महत्त्वादिकं त्व् इ[168.16]ति । तम् एवा[60अ]संभवम् आश्रयाभावद्वारेण प्रतिपादयितुम् आह नही[168.17]ति । हिर् यस्मात् । न रूपादिव्यतिरिक्तं द्रव्यं स्वज्ञाने प्रतिभासते । कथं न प्रतीभातीत्य् आह आकारान्तरेणे[168.18]ति । रूपाद्यात्मनो ऽन्येनात्मना । किं भूतेनेति आह तत्प्रतिभासे[168.18]ति तस्य रूपादेः प्रतिभासः प्रतिभासत इति कृत्वा स्वरूपम् एव तस्य विवेकः प्रच्युतिस् तद्वता । अनेनानुपलम्भस् तद्भावव्यवहारसाधको दर्शितः । प(घ)टप्रतिभासने ऽपि पटप्रतिभासव्यवस्था स्याद् इत्य् अतिप्रसङ्ग[168.19]स् तस्मात् । इदानीं द्रव्यम् अभ्युपगम्य महत्त्वादेः तदुपलम्भकत्वम् अपाकर्तृकाम आह न चे[168.20]ति । तत्सम्बन्धेपि महत्त्वसंबन्धेपि । स्वहेतुसमुद्भूते ऽपि तत्रामहति द्रव्यात्मनि तस्याकिञ्चित्करत्वाद् इति भावः । स्वरूपेण महतस् तु किम् अर्थान्तरेण महत्त्वेन तद्बुद्धेर् अपि तत एवोत्पत्तेर् इति चाभिप्रेत्य न च स्वरूपेणामहत [168.20] इति । एकस्मिन्न् एव पक्षे स दोषो दर्शितो ऽनेनेति द्रष्टव्यम् ।
अथ तत्संबन्धे मा भूद् अस्य स्वतो महत्ता किं नश् छिन्नम् अर्थान्तरभूतमहत्त्वरूपेणास्य ग्रहणं भविष्यतीत्य् आह -- [168.21] -- पर[181]रूपेणेति । परस्य ततो ऽन्यस्य महत्त्वस्य रूपेण । कथम् अभ्रान्तं [168.21] भ्रान्तम् एव । अतस्मिंस् तद्ग्रहरूपत्वाद् भ्रान्तेर् इति भावः । उपलम्भयतीत्य् उपलंभकम् । एतच् च महत्त्वम् उपेत्योक्तं दूषणम् । न तु च महत्वा(त्व)न् नाम किञ्चित् न चात्र स(तत्) कस्याचिद् उपलंभकं नामेत्य् अपि वक्तव्यम् । रूपं वा द्रव्यस्योपलम्भकम् इति वर्तते । कुतस् तस्यानुपलम्भकत्वम् इत्य् आह -- तस्यापी[168.23]ति । तस्य रूपस्य न तथा ग्राहकत्वम् इ[168.24]ति सम्बन्धनीयम् । ग्राहयतीति {प्. 384} ग्राहकं तस्य भावस् तत्त्वम् इति चार्थो द्रष्तव्यः । अपि [168.23] न्यायतः संभावनाम् आह । तुल्योपकत्त्वं(पपत्तिं) वा समुच्चिन्नोति । परेणाकांक्षितहेतुं दर्शयितुम् आह स्वरूपेणे[168.23]ति । स्वरूपेण प्रातिस्विकेन आत्मना ग्रहणे सत्य् अन्यस्योपलब्धौ तस्येति प्रत्यासत्तेः । नान्यस्यापरोक्षीभाव इति द्रव्यात्मनो ऽत्यन्तपरोक्षत्वात् । अयम् अस्याशयो रूपं हि गृह्यमाणम् एवोपलम्भकं युक्तं, नान्यथा । न तच् च द्रव्यरूपेण गृह्यते तद्ग्राहिणो ज्ञानस्य भ्रान्तत्वप्रसंगात् । ततः कथं द्रव्यस्योपलंभ इति । तथाप्य् अस्य तथात्वम् उपगच्छामो यदि ततो भेदेन तत्प्रतिभासः स्यान् न चैतद् अस्तीति प्रतिपादयन्न् आह द्रव्यरूपस्ये[168.23]ति । द्रव्यरूपस्य द्रव्यस्वरूपस्य । तद्विवेकेन रूपस्वभावविवेकेन अनुपलक्षणाद् अनुपलब्धेः । एतच् च दूषणं महत्त्वेप्य् उपलंभे द्रष्तव्यम् । अत्रैव वक्तव्यान्तरं समुच्चिन्वन्न् आह -- न चे[168.24]ति । हेतुम् आह यत [168.25] इति । प्रतिलब्धात्मकम् एवोत्पन्नम् एव सत् । तथातां [168.25] समवायिकारणताम् । उत्पत्तिक्षणे निर्गुणम् अपि द्वितीये क्षणे सगुणं भविष्यतीत्य् आह न चे[168.27]ति ।[182]स्वस्य द्रव्यस्य । प्राक्तनरूपयोगेपि पूर्वस्वरूपनाशो ऽक्षणिकत्वाद् अस्येत्य् आशयः । यतः [168.28] पूर्वरूपनाशरूपान्तराविर्भावात् ।
__________नोतेस्__________
[181] अपररूपेण स् । [182] अस्य स्
ननु च पूर्वरूपनाशे तस्यैव नाशाद् रूपान्तराविर्भावे चान्यस्यैव भावात् कथं यद् एव महत्त्वादिकं प्रति प्रागप्रतिपन्नाधारभावं तद् एवाधा[60ब्]रतां यायाद् इति चेद् अयम् अपरो ऽस्तु दोषो ऽस्येत्य् अभिप्रायाद् अदोष एषः । इहापि महत्त्वादिकं प्रति द्रव्यम् आधारो नोपपद्यत इति दर्शयन्न् आह -- न चे[169.1]ति । प्रजनकस्यापि तथात्वे ऽतिप्रसंगात् । स्थापकत्वादिना प्रकारान्तरेणाधारभावस्यान्यत्र निषिद्धत्वाच् चेति भावः । अर्थाक्रियाविरोधाद् अ[169.2]र्थक्रियाया अनुपपत्तेः । यथा चाक्षणिकः क्रमेणाक्रमेण वार्थक्रियाम् उपकल्पयितुं न कल्प्यते तथोदितं पुरस्तात् । समवायिकारणस्येति प्रकरणात् महत्त्वादिकं प्रति समवायिकारणस्यास्योपलम्भस्य द्रव्यस्येत्य् अर्थो ऽवसेयः । स्याद् एतद् यदि नामानन्तरोदितया नीत्या तं प्रति तस्याधारभावो नोपपद्यते तथापि तदनाधार एव तत्समवयिकारणं किं न भवतीत्य् आह यत [169.3] इति । स्वोत्कलितं स्वाश्रितं स्वारूढम् इति यावत् । जनयतु तर्हि स्वोत्कलितं कार्यम् । यतस् तथा व्यपदेशम् अश्नत इत्य् आह -- न चे[169.4]ति । एतद् इति स्वोत्कलितकार्यजननम् । अयम् अस्याशयो लब्धात्मसत्त्वेनैव हि तथा जनयितव्यं न त्व् आगृहीतमहत्त्वादिरूपेण तेनोत्पत्तव्यम् सहभुवोः कार्यकारणभावाभावेनातद्धेतुकत्वप्रसंगात् क्षणिक[त]या तु द्वितीयेक्षणे ऽसत्त्वात् न स्वोत्कलितकार्यजननम् इति -- पश्चाद् आधार [183]भावो [169.5] न चेत्य् अनुवर्तते, स्वहेत्वागतस्य तदाधाररूपस्याविनाशाद् इति भावः ।
__________नोतेस्__________
[183] आधाराभावः स्
{प्. 385} तदभावेपि कथम् असंभवीत्य् आह -- यस्माद् इ[169.6]ति । एवम् अनेकद्रव्यवद् इति व्यपदिश्यते । द्रव्याभावश् च न हि रूपादिव्यतिरिक्तम् इत्यादिना अनन्तरम् एवोपपादितः । तयोपलब्धिलक्षणप्राप्त्या [169.10] उपलब्धिलक्षणप्राप्तस्येति तथाभूतोपलब्धिलक्षणप्राप्तिमत इत्य् अर्थः । इति[169.11]र् हेतौ शास्त्रकारः प्रकरणात्वार्तिककारः। अभावशब्देन अभावो अभावव्यवहारश् चाभिप्रेत्य(त) इत्य् अभिप्रायेण आह -- अभावव्यवहारहेतुश् चे[169.13]ति । या त्व् इ[169.13]त्यादि ब्रुवतश् चायम् अभिप्रायो -- यदि व्यापकाद्यनुपलब्ध्यभिप्रायेणाभावव्यवहारयेतुर् वेति वक्तुम् अध्यवस्याह -- नैतद् रूपात् अभावशब्देनाप्य् अभावव्यवहारस्य विषयेण विषयिणो निर्देशसम्भवेन वक्तुं शक्यत्वात् ब्रुवन् विशिष्टाम् एवानुपलब्धिम् अबिप्रैतीति उपलब्धिलक्षणप्राप्तानुपलब्धेर् व्यापारम् इमं कथयता च वार्तिककृता सामर्थ्याद् यद् अत्रोपदर्शितं अन्यत्र तु साक्षाद् अभिहितम् तद् अपि दर्शयन्न् आह -- या त्व् अनुपलब्धी[169.15]त्यादि सद्व्यवहारप्रतिषेधहेतुर् इत्य् अवगन्तव्यम् [169.17] । कुतः पुनस् तद् अन्यवस्तुविज्ञानम् एवेच्छन्तीति ज्ञायत इत्य् अपेक्षायां योज्यम् -- विज्ञानं वान्यवस्तुनीति वचनाद् इ[169.21]ति । यदा कर्तृस्थतया विवक्ष्यत [169.24] इत्य् अर्थः ।
ननु भवन्मते किम् उपधी(म् उपलब्धा) कश्चिद् आत्मास्ति, येनैवम् उच्यते इत्य् आह -- उपलभमानश् चे[169.26]ति । चो व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे यस्माद् अर्थे वा । अत्रैवाहंकारस्योपपत्तेर् इति भावः ।
ननु उपलब्धिक्रियायाः कर्ता उपलभमान उच्यते । तत् किम् उपलब्धिजनकस् तथाविध-उपलभमान उच्यत इत्य् आशंक्याह तथाही[169.28]ति । कामम् एवम् उच(च्य)ताम् [61अ]तथापीन्द्रियादेः कथं तत्त्वम् इत्य् आह न चे[169.28]ति । अन्यस्ये[170.1]त्य् आत्मनः । जनकत्वम् इति प्रकरणात् उपलब्धिजनकत्वम् इत्य् अर्थः । आत्मन [170.7] आत्माख्यस्य नित्यद्रव्यस्य । तदुत्पत्ताव् उपलब्ध्युत्पत्तौ हेतूनां अव(न)स्थितिः इयन्त एव हेतव इति व्यवस्थाभावः । हेत्वनवस्थितौ च कार्यार्थिनो नियतकारणोपादानं न स्याद् इति भावः ।
आश्रयत्वात् तर्ह्य् असौ कर्ता भविष्यतीत्य् आह -- आश्रयत्वम् अपी[170.11]ति । तस्य नित्यस्यात्मनो जनकत्वानुपपत्तेर् इति भावः । क्षणिकत्वे उत्पत्तिक्षणमात्रसत्त्वे सति स्थितेर् उपादातिरेकिण्या अभावात् [170.12] । न पाताभावस् तस्याः [170.14] पतनस्यैवासंभवाद् इति भावः । कुतो न पतनं तस्या यतो न पाताभावः स्थितिर् इत्य् आह -- तस्याः [170.14] इति । तस्या उपलब्धेर् गुरुत्वाभावात् [170.15] {प्. 386} गुरुत्वसंज्ञकगुणाभावात् । तदभावश् च बुद्धेर् गुणरूपत्वे निर्गुणत्वात्, निर्गुणत्वञ् च गुणानां "अगुणत्वं द्रव्याश्रितत्वं चे"ति वचनात्, गुरुत्वं च गुणः "गुरुत्वं जलभूम्योः पतनकारणम्" इति वचनाच् च गुरुत्वाभावः । मा भूद् गुरुत्वं तस्याः पतनं तु किं न भवतीत्य् आह -- सं[184]योगाभाव [170.15] इति । यदि गुरुत्वाद् एव पतनं भवेत् न तर्हि शाखादौ फलान्यवतिष्ठेतेति संयोगाभावे सतीत्य् उक्तम् संयोगाभावे [170.15] शाखावृन्तादिसंयोगाभावे ।
__________नोतेस्__________
[184] संयोगाभावेन स् ।
कृतान्तः [170.16] सिद्धान्तः समवायात् उपलब्धेस् तत्र समवायाद् इत्य् अर्थः । सो ऽपि [170.16] समवायो ऽपि । कार्यकारणा(ण)भावविशेषः आधार्याधारभावः स चात्मनो नित्यस्य स संभवतीति भावः । यद्य् अप्य् उपलब्धेर् न पातः सम्भवी तथाप्य् असौ किम् आधारो न भवतीत्य् आशङ्क्य पूर्वस्मिन् पक्ष एव प्रतिवचनं दर्शयति । न चापतनधर्मिकाया [170.17] इति । अपतनधर्मकत्वं च तस्या गुरुत्वाभावाद् अनन्तरम् एव प्रतिपादितम् । अनेनैतद् दर्शयति -- पतनधर्मणो जलादेः पातप्रतिबन्धकः कश्चिद् आधारो भवतु यावद् यदि तत्रापि कश्चित् को ऽयं प्रतिबन्धो नामेति न पर्यनुयुञ्जीत । न त्व् अपतनधर्मण इति तद् आहप्रामाणिकचक्रचूडामणिः--
"स्याद् आधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किम् आधारो गुणसामान्यकर्मणाम् ॥" [प्रमाणवा. 1.70] इति । अन्यस्याप्य् आ[170.18]त्मनोपि । तद्भावप्रसङ्गस् तदाधारत्वप्रसङ्गः । कुत एतद् इत्य् आह तस्ये[170.19]ति । तस्य समवायस्य । समानत्वात् [170.19] एकत्वात् । अत एवाह -- एकत्वेन [170.19] इति । अस्य [170.19] समवायस्य ।
प्रकरणे [170.25] चिंतायां प्रस्तावे इति यावत् । विवक्षितात् [170.25] शास्त्रविहिताद् । भक्ष्यात् [170.25] भक्षणार्हात् । अन्यत्वेन ग्राम्यकुक्कुटः [170.26] तदन्यस्य [170.26] ब्राह्मणादेर् अन्यस्य । भक्ष्यो ऽपि सन्नभक्ष्य उच्यत [170.26] इति सम्ब[न्ध]नीयम् । अनेकेन निदर्शनेनोपपद्यमानो ऽर्थः सुज्ञातो भवतीत्य् निदर्शनान्तरम् आह यथा च [170.27] इति । अधिकारे [170.27] प्रस्तावे । तद्वद् [171.1] उपदर्शितद्वयवद् विशिष्ट [171.3] उत्तरपदार्थाभावविशिष्टे अर्थे [171.3] तत्सदृश इति यावत् । तया नञो भावविषयता [171.3] इति {प्. 387} योज्यम् । तया [171.3] इतीत्थम्भूतलक्षना चेयं तृतीया प्रत्येया । भावविषयभानप्रतिषेधमात्रविषयतेत्य् अर्थात् । किंभूतस्य नञ [61ब्] इत्य् अपेक्षायां योज्यम् आगृहीते[171.3]ति । तथा विधिसामानयेन समन्तात् स्वीकृऋतोत्तरपदार्थप्रतिषेधस्य कथं पुनर् एतत् ज्ञातव्यम् इत्य् अत्रायं न ...त्तरपदार्थप्रतिषेधमात्रवृत्तिः प्रसह्यवृत्तिर् अत्र तु उत्तरपदार्थाभावविशिष्टसदृशवस्तुवृत्तिः पर्युदासवृत्तिः इत्य् आशङ्कायाम् आह यत्र [171.4] इति । यत्रैवम् एवं तत्र पर्युदासवृत्तिता [171.6] इति सम्बन्धः । विधेः प्राधान्यम् अ[171.4]भिधेयतया भावरूपं प्रतिपाद्यत इत्य् अर्थः । प्रतिषेधः [171.5] तथाभूतोत्तरपदार्थनिषेधः अर्थगृहीतः सदृशवस्तुविधानसामर्थ्याक्षिप्तः विधिभाग्विधे[171.5]र् यो ऽर्थः क्षत्रियादिः स्वपदेनात्मवाचकेन नोच्यते पर्युदासम् अर्थप्रतिपादके वाक्ये इति बोद्धव्यम् न तु "समासनिमित्ते अन्वाख्यानवाक्य" इति नित्यसमासत्वाद् अस्य तदसंभवात् इतरथा "रज्ञाः पुरुषमानय" इत्यादिवत् क्षत्रियानयने विवक्षिते
न ब्राह्मणमानयेत्यादिर् अपि प्रयोगः प्रसज्येत । यत् तु [न] ब्राह्मणो ऽब्राह्मण इत्य् उच्यते तद् ब्राह्मणो न भवति प्रसज्यप्रतिषेधेन मात्रया अर्थः कथ्यते । पर्युदासे प्रसज्यप्रतिषेधोप्य् अस्तीति कृत्वा, न पुनः समासार्थमन्वाखानवाक्यं तत्, कुम्भं करोतीति कुम्भकारः कुम्भस्य समीपम् उपकुंभम् इत्यादिवद् इति । यदि स्वपदेन नोच्यते कथं नामासव् उच्येत इति चेत् । अन्यशब्देनेति ब्रूमः । अन्यशब्दस्यैव तत्र प्रयोगात् एकवाक्यता च तथार्थकथने वाक्ये नञर्थवाचकस्यान्यशब्दस्य सुवन्तेनैअ पदान्तरेणाभिसम्बन्धात् । एतद् एव सामान्योपदर्शितं लक्षणं प्रकृते योजयन्न् आह वि[185]धिश् चे[171.6]ति । वाक्येन [171.7] तथाविधेनेति द्रष्टव्यम् । एवं तत्प्रतिषेधः प्रतीयत इत्य् आह -- विवक्षितोपलब्धेर् अनिवर्तन [171.8] इति । कथं तर्ह्य् असाव् उच्यत इत्य् आह किं तर्ही[171.10]ति । कथम् अन्यशब्देनोच्यते न तु स्वशब्देनेत्य् आह अन्यशब्दस्यैवे[171.11]ति । वाक्य इति तत्त्वार्थकथने वाक्य [171.11] इति प्रत्येयम् । तत्रापि कथमन्यशब्दप्रयोग इत्य् अपेक्षायां योज्यं पर्युदासाश्रयेणे[171.10]ति । एतद् एव दर्शयति अन्योपलब्धिर् अनुपलब्धिर् इ[171.11]ति । इतिर् अ[171.12]शब्देनाभिधानस्याकारं दर्शयति । नञश् च सुबन्तेन समासैकदेशेन । सामर्थ्यं [171.12] व्यपेक्षालक्षणः सम्बन्धः । इति[171.12]र् हेतौ । एकवाक्यत्वं न वाक्यभेदं(दः) सामानाधिकरण्यम् इत्य् अर्थः । तद् एव दर्शयन्न् आह -- अन्या[186]उपलब्धिर् अनुपलब्धिर् इ[171.12]ति । इतिना एकवाक्यत्वस्याकारो दर्शितः । प्रसज्यप्रतिषेधः [171.13] कंचिद् अर्थं प्रसज्य यः प्रतिषेधः । कस्यचिद् अर्थस्य
प्रसङ्गम् उपदर्शनम् अधिकारं कृत्वा यो निषेध उत्तरपदार्थप्रतिषेधमात्रं यत्राभिधेयम् इत्य् अर्थः मयूरव्यंसकादित्वाच् च {प्. 388} समासः ।[187]तद्विपरीतः [171.13] उपदर्शितपर्युदासविपरीतः । वैपरित्यम् एव सुखप्रतिपत्त्यर्थम् उपदर्शयन्न् अह -- तत्र ही[171.14]त्यादि । तत्र ह्य् अत्तरपदार्थप्रतिषेधस्य समासार्थत्वात् प्राधान्यम् । विधिः कस्यचिद् अर्थस्य विधानं अर्थात् सामर्थ्यात् गम्यते [171.14] यदा विधिप्रतीतिस् तदार्थाद् इति च द्रष्टव्यम् । [62अ] तथाहि "अभिहिते न भवन्ति द्वितीयाद्याः विभक्तयः" इत्य् उक्तेर् विशेषप्रतिषेधस्य शेषधीनान्तरीयकत्वाद् इति लक्षणात् सामर्थ्याद् अनभिहिते भवतीति गम्यते । सूर्यं न पश्यन्तीति नात्र प्रदृ(नञो ऽत्रदृ)शिना तिञन्तेन संबद्धो न तु सुबन्तेनेति वाक्यभेदः । प्रतिषेधभाक् [171.15] सूर्यदर्शनादिः स्वपदेन [171.15] स्ववाचकेन सूर्यं न पश्यन्तीति अनेनोच्यते । अत्र तु समासनिमित्ते ऽन्वाख्यानवाक्य इति द्रष्टव्यम् । प्रसज्यवृत्तिनञ्समासे तत्संभवाद् इति सर्वञ् चैतत् प्रकरणादितो ज्ञातुं शक्यम् इति सर्वम् अवदातम् ।
__________नोतेस्__________
[185] विधेश् चेति स् [186] न उपलब्धि-स् [187] एतद्विपरीतः स्
प्रासंगिकं परिसमापय्य संप्रति प्रकृतम् अनुधुन्व(नुबन्ध्न)न्न् आह तद् एवम् इ[171.16]ति ।[188]भावतो [171.26] वस्तुनः परमार्थत इति यावत् । संबन्धकल्पनायाम् अ[171.27]न्यस्य वास्तवस्य संबन्धस्य कल्पनायाम् । सोप्य् अर्थान्तरभूतः सम्बन्धः कथं तयोर् इति पर्यनुयोगे तदन्यकल्पना, तत्राप्य् एवम् इत्य् अनवस्था प्रस्तुतवस्तुव्यवस्थापरिपंथिनी स्यात् । उक्तसदृशं उक्तप्रायम् [171.27] ।
__________नोतेस्__________
[188] सम्बन्धाभावतः स् इति तु न युक्तं, "सम्बन्धो भावतो" इति तु अनुटीकानुरोधेन सम्यक् पाठः ।
तत्र विज्ञाने किं भूतं सद्घटरूपम् तत्र स्वाकारम् अर्पयतीत्य् अपेक्षायां योज्यम् तथाविधम् इ[172.16]ति । यथाविधं प्रदेशरूपं तथाविधं सत् व्यवधानविप्रकर्षादिरहितम् इत्य् अर्थः । स्वाकारद्वारेण । [172.19] स्वाकारार्पणद्वारेण । एतद् एव स्फुटयन्न् आह तद् इ[172.20]ति । तयोः संसर्गस्वा(संसर्गमा)त्मनि [172.20] स्वात्मनि दर्शयति । अवधेयवचसः [172.28] आकर्णनीयवचनाः । लघुवृत्तित्वाद् [172.28] अतिशीघ्रप्रचारत्वात् ज्ञानस्य यौगपद्याभिमानो [172.29] युगपद्ग्र्हीतानीत्य् अध्यवसायः । एवं चाचक्षाणेन क्रमेणैव तानि पुरोवर्तीनि तुल्ययोग्यतारूपाणि वस्तूनि गृह्यन्ते ज्ञानेन तु युगपद् इति सामर्थ्याद् दर्शितम् । सर्वत्र तथाभावप्रसंगात् [173.5] भ्रान्तिकल्पनाप्रसंगात् । ज्ञानम् एवात्र क्रियेति मन्यते परः । कथम् इ[173.4]ति सिद्धान्ती सन्तमसावस्थितघटादिप्रतिपत्तौ कर्तव्यायां प्रदीपस्यापि करणरूपत्वम् अव्याहतम् इति भावः । कर्तृभेदाद् देवदत्तादिप्रतिपत्तृरूपकत्वनैक(कर्त्रनेक)त्वात् । कर्त्रेकत्वात् [173.5] तर्हि इति सिद्धान्तवादी । अयम् अस्याशयो यदि सत्य् अप्य् एकस्मिन्न् अस्मिन् करणे ऽनेकत्र घटादिके कर्मणि कर्त्रनेकत्वाद् अनेकक्रियोदयो वर्ण्यते तर्हि कर्त्रेकत्वात् क्रियैकत्वम् इति सामर्थ्याद् आयातम् {प्. 389} ततश् च न करणैकत्वानुविधानं क्रियैकत्वस्येति किम् अनेनोक्तेनापीति । स्याद् एतत् यथा तत्र कर्तारो बहवः प्रतिपत्तारस् तथा करणान्यपीन्द्रियाणि बहून्य् एव ततश् च करणबाहुल्याद् एवानेकत्र कर्मणि क्रियाबाहुल्यम् इति करणैकत्वात् क्रियैकत्वं व्यवस्थितम् इति । तद् एतद् अवद्यम् । यतो ज्वल्यमाने दीपे प्रत्येकम् एकस्मिन्न् एवेन्द्रिये प्रदीपे
वा करणे सर्वेषाम् एव प्रतिपतॄणाम् अनेकघटादिकर्मविषयज्ञानक्षणानेकक्रियोदयात् साधारणनैकान्तिकत्वम् अनिवारितम् एवेति । विशरारुषु [173.6] विशरणशीलेष्व् इत्य् अर्थः । अयम् अस्याभिप्रायो यः किल लब्धात्मसत्ताक एव पश्चात् स्वातन्त्र्येण कांचित् क्रियाम् अभिनिवेशयति स कर्ता, यश् च क्रियासिद्धौ साधकतमः स करणम् उच्यते । तथा सत एव कदाचित् क्रियायोगाद् अर्थान्तरभूता क्रिया जायते क्षणमात्रस्थायी च कृत्स्ना(स्नो) भाव [62ब्] इति कथं सत्त्वम् आसाद्य तथाकारी तथा प्रतिपत्स्यते क्रियास्वर्था(क्रियाम् अर्था)न्तरभूताम् इति । संप्रति क्षणिकाक्षणिकयोर् असाधारणदूषणम् आह -- न चे[173.8]ति । सर्वकारकान्वयव्यतिरेकानुविधायिनीति विशेषणं हेतुभावेन वेदितव्यम् । रूपरसादिवै(रसावि ववै)धर्म्योदाहरणम् ।
इदानीम् एकज्ञानसंसर्गाद् इत्य् अत्रैकशब्दार्थं निरूपयितुम् आह तत्रे[173.14]ति । एकायतनसंगृहीत एकरूपाद्यायतनस्ंगृहीतो ऽनेकत्रापि एकम् एवेन्द्रियज्ञानम् इ[173.15]ति । निराकारपक्षे द्व्यादिसंख्यानिरासार्थ एकः शब्दः साकारपक्षेपिचित्राद्वैतवादिमतेन तथैवैकशब्दः । प्रत्यर्थम् इ[173.16]ति स्थूलेनायं व्यपदेशः कृतः । परमार्थतस् त्व् एकस्मिन्न् एव द्रव्ये परमाणुसमूहात्मके प्रति परमाणु तदाकारधारीण्यर् वाग्दर्शनं संक्षेपान्य् एव(दर्शनप्रसंगे यान्य् एव) ज्ञानान्य् उत्पद्यन्त इति । अस्मिंश् च पक्षे यच् चोद्यम्, यश् च परिहारस् तद् द्वयम् अपि विशेषाख्याने ऽस्माभिर् अभिहितम् इति नेहोच्यते । योग्यताया [173.23] इति प्रकरणात् प्रतिषेध्यतद्विविक्तप्रदेशयोः स्वज्ञानोपजननयोग्यताया इत्य् अर्थः एकस्मिन् ज्ञाने संस्रष्टुं शीलं ययोस् तौ तथोक्तौ । व्याप्तिन्यायसमाश्रयाद् अ[173.23]शेषोपसंहारन्यायस्वीकारात् । प्रत्यासत्तेः [174.1] प्रत्यासत्तिन्यायसमाश्रयणाद् इत्य् अर्थः । का पुनर् अत्र तयोः प्रत्यासत्तिः सम्भविनीत्य् आह -- एकज्ञाने[174.1]ति ।
तस्माद् [174.8] घटात् । यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणानुपलब्धिर् यदा तत्स्वभावस् तदा ज्ञेयधर्मलक्षणा तद्विविक्तज्ञानम् एव पर्युदासवृत्त्यानुपलब्धिर् उच्यताम्, न तु तत्स्वभावो वेतिकुमारिलो [174.11] मीमांसावार्तिककारो मन्यत इति शेषः । कर्तृकर्मस्थत्वविवक्षयोपलब्धेर् द्वैताद् अनुपलब्धेर् अपि तथैव द्वैतम् आयातं न्यायत इति मन्यते । घटाभावव्यहारे तद्विविक्तप्रदेशज्ञानस्यैवोपयोगाद् अनुपलब्धित्वं युक्तं नान्यस्येत्य् {प्. 390} आशंक्य द्वयोर् अप्य् उपयोगाविशेषं प्रतिपादयन्न् आह यथे[174.12]ति । प्रतियोगी निषेध्या(ध्यो) विवक्षितस् तत्स्मरणापेक्षम् [174.13] । एतद् एव प्रतिपत्तृव्यवहारेणोपपादयन्न् आह तथाही[174.14]त्यादि । अथैकैकत्रैकैकं नास्तीति कथं द्वयोस् तत्त्वार्थम् इति चेत् । नैतद् अस्ति । एकैकस्मिन्न् एकैकस्य विशेषणत्वेनावश्यं भावात् । तथाहि यस्मात् केवलप्रदेशाकारं ज्ञानं मया संवेद्यते तस्माद्धटो नास्तीति व्यवहरमाणस्यापि प्रदेशो विज्ञानावच् छेदकत्वेनोपयुज्यत एव । तथा ग(य)तः केवलः प्रदेशोयं दृश्यते ततो नास्ति घट इति व्यवहरतोपि दर्शनं प्रदेशोपाधिभावेन व्याप्रियत एवेति ।
आहत्ये[174.2]ति निपातस् तत्क्षणम् इत्य् अस्यार्थे ।
तयो[174.16]र् भावाभावांशयोः । उद्भवाभिभवाभ्यां यथासंख्यग्रहणाग्रहणव्यवस्था [175.16] ।
धर्मभेदे धर्मिरूपेणाभेदे ऽपि धर्मयोर् भेद इष्टः [175.18] । नो ऽस्माकं स्थानं[189]स्थितं व्यवस्थानं मतम् इति यावत् तस्मिन् । उद्भवाभिभवात्मत्वात् [175.18] उद्भूतानुद्भूतरूपत्वात् । ग्रहणं [175.18] चशब्दाद् अग्रहणं चावतिष्ठते तयोर् इति प्रकर[63अ]णात् ।
__________नोतेस्__________
[189] स्थिते स् ।
एतस्मिन् व्याख्याने भावप्रधानः साधनशब्दोवार्तिककारस्य विवक्षित उन्नेतव्य इत्य् अभिप्रायेण साधनत्वम् इ[176.6]ति व्याचष्टे । सिद्धिहेतुत्वशब्दसामर्थ्याच् च कस्यचिद् इति लब्धम् । तदयोगात् सि[176.7]द्धिहेतुत्वायोगात् । दूषणान्तरम् अत्र समुच्चिन्वन्न् आह अभावस्ये[176.9]ति च । अभावस्य नास्तीति ज्ञानजनने [176.10] नित्यं तज्जननप्रसङ्ग [176.10] इति योजयित्वा कुत एतद् इत्य् अपेक्षायाम् अनपेक्षितसहकारिण [176.9] इति हेतुभावेन विशेषणपदं योज्यम् । तदनपेक्षत्वम् एव कथम् अस्येत्य् अपेक्षायाम् अनाधेयातिशयं [176.10] तत्प्रति (यतयेति) योज्यम् । साध[190]नत्वायोगात् त[176.11]स्य प्रतिषेधमात्रस्येति प्रक्र्तत्वात् प्रत्येयम् । तस्य साधनासिद्धेर् इत्य् अस्य एकं(एकां) विधाम् अभिधाय अपराम् उपदर्शयितुम् आह अथवे[176.11]ति । साधनम् एव [176.12] साधकम् एव निश्चायकम् एवेति यावत् तदुभ(द)यप्रसङ्गात् [176.15] नास्तीति ज्ञानोदयप्रसंगात् ।
__________नोतेस्__________
[190] साधकत्व- स् ।
अन्यथा [176.25] भावरूपसंसृष्टत्वप्रकारेण । तदयोगात् [176.26] तस्याभावांशस्यायोगात् । सा पररूपात् सं(पासं)सृष्टरूपता ।
{प्. 391} प्रकारान्तरेणाप्य् अभावव्यवहारसिद्धेर् अविबन्धात् किं तवैतत्पक्षाश्रयणप्रयत्नेनेति परपक्ष एवाशंक्यापरस्यैवाभिप्रायं वर्णयन्न् आह एवं मन्यत [177.9] इति । घटज्ञानाभावप्रतिपत्त्या [177.10] वा घटाभावं प्रतिपद्यत [177.11] इति वर्तते । ततो [177.11] घटाभावप्रतिपत्तेः । घटाभावव्यवहारम् इति प्रतिपद्यत इत्य् अस्यानुवर्तनाद् उक्तम् केवलप्रदेशाभिप्रायेण साक्षाद् ग्रहणम् [177.15] । तज्ज्ञानाभिप्रायेण पारंपर्यग्रहणम् । स च तथा हानतो(भावतो) घटाभावः । एवं हि लोकप्रतीतिर् अनुकूलिता भवतीति भावः । मध्ये घटाभावप्रतीतेर् भावात् पारंपर्येणापि [177.18] इत्य् आचष्टे परः । इति[177.19]ना मननीयस्याकारो दर्शितः । केवलप्रदेशज्ञानापेक्षया स्वसम्वेदन[178.2]प्रत्यक्षेण चेत्युक्तं द्रष्टव्यम् । पर एव विशेषम् आशंक्य परिहरन्न् आह नन्व् अस्त्य् एवे[178.8]ति । इतरया [178.9] प्रतिषेधमात्रया रूपयानुपलब्ध्या तदवगतया अन्यस्ये[178.12]ति व्यवधानाव्यवधानकृतस्य । एवं सति को गुण इत्य् आह --सांख्य(ख्यः) स्वमते गुणं दर्शयन्न् आह तथे[178.18]ति तथा सही(ती)ति योज्यम् । हिर् यस्माद् अर्थे द्रष्टव्यः ।
तस्य वस्तुनो लिङ्गं भवति । [179.1] तल्लिङ्गम् एवं सति भवतीत्य् अर्थो ऽवसेय इति ।
भावाभावयोर् विरोधा[179.10]द् एकात्मत्वानुपपत्तेः तुच्छरूपत्वं[179.15] न किञ्चिद् रूपत्वम् । तद् अपि पररूपेण न किञ्चिद् इत्य् अभिप्रायेणाह -- पररूपेण [179.16] तस्यापि तुच्छरूपत्वाद् इति शून्यविकल्पप्रतिभासी [179.17] तदभावमात्रविकल्पप्रतिभासी । तद्[191]रूप परिहारात् [179.18] प्रतिषेध्यरूपविरहात् । तथा तद्वत् । विरुध्येत [179.20] नोपपद्येत । अन्यथा [179.21] स्वरूपेणापि तुच्छरूपत्वप्रकारेण । कथं पुनस् तथात्वे परस्य तत्राभावो न स्याद् इत्य् आह -- यो ही[179.22]ति रूपान्तरन्तु सदृशरूपान्तरन्तु ।
__________नोतेस्__________
[191] तद्रूपविरहात् स्
कीदृशं पररूपशून्यं [179.28] निषेध्यरूपरहितम् । विषयेण वामुना विषयिणो विधानस्य विधीयमानधर्मस्य -- निर्देशो द्रष्टव्यः । पर्युदास इति [179.28] कथ्यत इति वर्तते । ततो विवक्षिताद् रूपात् तत्प्रतीतिः [180.2] रूपान्तराभावप्रतीतिः । नेति प्रकृतं निषेधयति । प्रतीताव् इत्य् अन्तर्भू[63ब्]तो ञिजर्थो द्रष्टव्यस् तेनाकारणस्य प्रत्यायकाजनकस्य प्रतीतौ प्रत्यायने सामर्थ्यासम्भवात् [180.2] प्रकरणात् तस्य [180.5] विवक्षितस्य रूपस्येति । अर्थान्तरस्य सतो {प्. 392} गमकत्वे हि तज्जनितत्वं सामर्थ्यं वाच्यम् । नचार्थान्तरप्रसज्यप्रतिषेधेन सकलशक्तिविकलेन तज्जनितं येनास्य तथाभावो भवेद् इति भावः । अवश्यं किं तेन तत्कारणेन भाव्यं येनाकारणस्येत्य् उच्यमानं शोभेतेत्य् आह तादात्म्ये[180.3]ति । अन्यस्य [180.9] अव्यभिचारनिबन्धनस्य भावाद् इति भावः । तेन[192]प्रत्यक्षेण अग्रहणात् [180.9] ।
__________नोतेस्__________
[192] तेन ग्रहणात् स्
स्याद् एतद् यदि तत्त्वव्यवस्थापकाद् एव प्रमाणाद् घटस्याधेयभूतस्याभावः सिद्ध्यति, तर्हि तस्य घटासंसृष्टरूपत्वसिध्यर्थम् अभावप्रमाणम् अभ्युपेयम् । घटासंसृष्टरूपत्वम् अस्य ततः सिद्ध्यति । एवं तर्हि घटं प्रत्याधारभावो ऽस्याभावप्रमाणप्रतिषेध्यः प्राप्त इत्य् आशंकायां यथा द्वयम् अप्य् एतत् तत एव प्रसिद्ध्यति तथा प्रदर्शयितुं द्विविधो ही[180.9]त्यादिनोपक्रमते । अयम् इ[180.10]ति । इदमात्रे(त्र) देशमात्रं विवक्षितम् । तद् व्यावृत्तरूपतया [180.10] घटव्यावृत्तस्वभावतया । घटसंसृस्तरूपो न घटेन सम्बन्धस्याहैकरूपम् । तद्व्यावृत्तरूपतयैव च घटवान् अपि घटसहितो ऽपि । ततो घटात् अन्य इति । सर्वथा घटाद् अन्यत्वं तस्यैका विधा । घटवान् इ[180.10]ति तु प्रमादपाठः । द्वितीयां बा(वि)धाम् आह केवलश् चे[180.11]ति । केवल इति, घटाद् अन्य एव सानु(सन्) -- तत्संयोगीति विवक्षितम् तद् एव कैवल्यं स्पष्टयन्न् आह -- घटं प्रती[180.11]ति । तस्य प्रदेशस्य तद्विवेकेन [180.12] घटरूपविवेकेन च प्रत्यक्षेण ग्रहणे सति । घटविरहश् च [180.12] संयोगिघटविरहश् च । इतिस् तस्मात् । वस्तूनाम् असङ्करो [180.13]साङ्कर्यम्, मत्सरशब्दवद्धर्मवचनस्यापि संकरशब्दस्या(स्य) भावात्, तत् सिद्ध्यर्थं तन्निश्चयार्थं, परानभ्युपगतापेक्ष(क्ष्य)ते [180.20][193]तदेति [180.20] इहैवच्छेदः स्वज्ञान एव । परानभ्युपगतत्वम् एव तस्याः प्रतिपादयति अन्यभावाद् इति । अन्यथा [180.21] यदि तस्य तद्भावरूपता परानभ्युपगतानपेक्षते(क्षिता) तेन प्रकारेण । प्रत्यक्षसिद्धता च [180.22] तदभावस्येति प्रकरणात् । तदैवे[180.23]ति
तयोस् तादात्म्योपगमकाले । यद् वा प्रत्यक्षसिद्धता तदैव नेति योज्यम् । यद् वा सा परानभ्युपगतापेक्ष्यते किं तदा प्रत्यक्षसिद्धतेत्य् आशंकायां ने[180.23]त्य् उत्तरम् । के(क्व) तर्हि साभिहितेत्य् अपेक्षायाम् उक्तं प[194]क्षान्तर [180.23] इति । तादात्म्योपगमपक्ष इत्य् अर्थः । संयोग एव समवायशब्देनोक्त इति व्याचक्षाणश् च धूमो हि संयोगी हेतुर् इत्य् अभिप्रैति । कुतः पुनः स्वशब्देनैव {प्. 393} गो नोक्त इत्य् आह -- संयोगे[181.2]ति । भेदेने[181.3]तरभिन्नेन रूपेण यो व्यपदेशो [180.3] व्यपदिश्यमानत्वं तत्रानादरात् । यद् वा भेदेन भिन्नेन वाचकेन यो व्यपदेशम् आ(श आ)ख्यानं तत्रानादराद् इति । किं पुनः समवाय एव नोच्यत इत्य् आह परेषां त्व् इ[180.3]ति । एवं तावद्भट्टार्चटोव्याचष्ट अन्ये पुनर् अस्थान एवास्य मतिविभ्रमो जात इत्य् आचक्षते । तथाहि धूमावयविधर्मिणि पर्वते वा धूमत्वे(मवत्त्वे)न धूमत्वेन च हेतुना साग्नि[64अ]त्वं साध्यत इत्य् एकार्थसमवाय्येव धूमो हेतुर् इति परे संसचते (संचक्षते) । पुरस्ताच् चायं तस्माद् धूम एवात्र धर्मी कर्तव्यः । साग्निर् अयं धूमो धूमत्वाद् इत्युद्योतकरमतम् अदर्शयद् इदानीं तु तद्विस्मृत्यैवं व्याचक्षाणोवार्तिककारम् अप्य् अवज्ञयात्र(ज्ञापात्र)म् आपादयतीति -- किम् अत्र ब्रूम इति । इतरस्य [181.6] धूमस्य ।
__________नोतेस्__________
[193] तद् इति स् । [194] पक्षान्तरेण स्
ननु चे[181.8]त्यादिना प्रकृतम् आक्षि[प]ता सत्यं [181.10] प्रसङ्गोरनित्या(ङ्गेनेत्या)दिना च परिहरता अनेन यदीश्वरसेनमतानुप्रवेशेन कश्चिद् अन्यभावतदभावयोर् अमीषाम् अन्यतमं सम्बन्धम् इच्छति तदभावोपदर्शनेन स तावत् कण्ठोक्तेनैव निरस्यते । सामर्थ्याच् च येपिनैयायिका-- "न वयम् अनयोर् गम्यगमकभावं वर्णयामो ऽपि तु संयुक्तविशेषणसन्निकर्षजन्मना प्रत्यक्षेण घटाभावः प्रतीयते" इत्य् अभिमन्यन्ते तेप्य् अन्यभावतदभावयोः सम्बन्धाभावेन विशेष्यविशेषणभावानुपपत्तेः कथं तज्जन्मनः प्रत्यक्षस्य वार्तापि येन तदवसेयो ऽसत्त्वाद् भवितुम् अर्हतीति निरस्ता भवन्तीत्य् अभिप्रायेणान्यभावतदभावयोः सम्बन्धाभावो विभावित इति वेदितव्यम् । अस्यैवार्थस्य पुनर् उक्ततां परिहर्तुम् आह पूर्वं हि [181.11] इति । तस्य तदन्यासंसृष्टरूपस्येत्यादिना प्रागभिहितत्वाद् उक्तम् । प्रत्यक्षान्तरम् इ[181.12]ति हानादिबुद्धिव्यपेक्षया बोद्धव्यम् । न च विशेषणविशेष्यभावलक्षण एव संबन्धः । सम्बन्धेन च संबन्धान्तरं मृगणीयम् इति तेन शक्यते वक्तुं षट्सु पदार्थेष्व् अस्यानन्तर्भावेन सप्तमपदार्थोपगमयन्विप्र(गमनप्र)सङ्गात् दण्डदण्डिनोर् जातितद्वतोश् च विशेषणविशेष्यभावोपपत्तेः संयोगसमवायसम्बन्धयोर् अस्तंगमनप्रस(सं)गाच् च किं कुर्वच् च तत् तस्य विशेषणम् इत्यादिविचारासहत्वाच् चेति । एवं चास्याक्षेपपरिहारापुनर् उक्तताप्रदर्शनं चानवगतवक्ष्यमाणग्रन्थार्थस्य त्वरया चोदितस्य चोद्ये सत्य् आदितो द्रष्टव्यम् इतरथा संबन्धाभावोपदर्शनग्रन्थव्याख्यानानन्तरम् इदं भ्राजेतेति ।[195]तेन प्रदेशावयवा द्रव्यात्मानो [181.25] द्रव्यस्वभावाः । नवैव [181.26] नवसंख्याव्यवच्छिन्नान्येव पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्ममनोलक्षणानि । तद् आहप्रशस्तकरः"तत्र द्रव्याणि -- {प्. 394} पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्ममनांसि सामान्यविशेषसंज्ञोक्तानि नवैवेति । "[प्रश. भा. प्. 3] आदि[181.17]शब्दाद् गुणवत्त्वसमवायिकारणत्वावबोधेः(धः) ।
__________नोतेस्__________
[195] तेहि स्
तत्र [181.17] अभावो[वे] गुणरूपेणैवाभावो द्रव्ये वर्तिष्यत इत्य् आह न चे[181.28]ति । तत्र द्रव्ये रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्[त्व]संयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दाश् चतुर्विशतिगुणाः । न चायम् अभावस् तेषां चतुर्विशतेर् गुणानां रूपादीनाम् अन्यतमः । कर्मरूपतया तर्हि तत्रासौ वर्तिष्यत इत्य् आह -- नापी[182.1]ति । कर्मरूपतया [182.1] वर्तत इत्य् अनुवर्तते । कस्मान् न वर्तत इत्य् आह पञ्चस्व् इ[181.1]ति । उत्क्षेपणापक्षेपणावकुञ्चनप्रसारणगमनलक्षणेषु पञ्चसु कर्मस्वनन्तर्भावात् । कथं तस्य तत्रान[64ब्]न्तर्भाव इत्य् आह तल्लक्षणविरहाद् इ[182.2]ति । किं पुनः कर्मणो लक्षणं यद्विरहस् तस्योच्यत इत्य् आह एकद्रव्यम् इ[182.2]ति । भावप्रधानत्वान् निर्देशस्यैकद्रव्यत्वम् इत्य् अर्थः । आदि[182.3]ग्रहणेन कर्मत्वसम्बन्धः क्षणिकत्वं मूर्तद्रव्यवृत्तित्वं गुरुत्वप्रयत्नसंयोगजत्वं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वम् असमवायिकारणत्वं स्वपराश्रयसमवेतकार्यारम्भकत्वं सगानजातीयानारम्भकत्वं द्रव्यारम्भकत्वं च परिगृहीतम् । सामान्यादिरूपेण तर्हि तत्रासौ वर्त्स्यतीत्य् आह -- नापी[182.3]ति । अपि शब्दाद् विशेषसमवायपरिग्रहः । कुतस् तथा न वर्तत इत्य् आह तद्रूपे[182.3]ति । एवं ब्रुवतो ऽस्यायम् आशयः -- स्वविषयसर्वगतम् अभेदात्मकम् अनेकवृत्त्यनुवृत्तिबुद्धिकारणं हि सामान्यस्य रूपं न चायं तथा । तथान्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वावि(त्वाद् वि)शेषा विनाशारम्भरहितेषु नित्यद्रव्येष्व् अण्वाकाशदिक्कालात्मनःस्व(त्मनःसु)
प्रतिद्रव्यम् एकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः, न चायं तथा । अयुतसिद्धानाम् आधार्याधारभूतानां च सम्बन्धः इहप्रत्ययहेतुः समवायो न चायं तद्रूप इति । तदभ्युपगमात् त[182.5]स्य संयोगस्याभ्युपगमात् । पञ्चानां [182.9] द्रव्यगुणकर्मसामान्यविशेषाणां समवायित्वं [182.9] समवायाश्रयत्वम् । प्रदेशाभावेपि [182.13] विशिष्टोद्देशाभावेपि घटाभावसंभवात् [182.13] । अनेन व्यतिरेकाननुविधानं दर्शितम् । न चास्य प्रतिविषयं भेद [182.18] इति अनेन चेतरकार्यधर्मातिक्रमो दर्शितः । सम्बन्धिभेदात् [182.19] । सम्बन्धिनां घटपटादीना भेदात् नानात्वात् अन्यादृशत्वाद् वा । भेदे [182.20] नानात्वे अन्यादृशत्वे वेष्यमाणे । तत्प्रसङ्गो भयप्र(भेदप्र)सङ्गः । समनन्तरम् एवोक्तं (?) ।
ननु च वाच्यवाचकभूताव् इह शब्दार्थौ प्रकृतौ तथा बुद्धिघटिते च शब्दार्थसामान्ये वाच्यवाचकरूपे न तु शब्दार्थस्वलक्षणे, न च तयोः शब्दार्थसामान्ययोर् जन्यजनकभावः {प्. 395} सम्भवी तत् कथम् एवम् उक्तम् इत्य् आशङ्क्य विशेषाभिधानार्थम् अभ्युपगच्छन्न् आह -- यद्य् अपि चे[183.4]ति । शब्दार्थयोर् इ[183.5]ति । वाच्यवाचकभूतयोर् इति विवक्षितम् । बुद्धिकल्पितसामान्यरूपते[183.5]ति प्रबुद्धसंकेताहितवासनस्य या बुद्धिः "स एवायं यो मया वाचकत्वेन प्रतिपन्नः स एवायं यो वाच्यत्वेन प्रतीत" इति संकेतकालोपलब्धशब्दार्थभेदेन स्वाकारं प्रतीयती जायते तया यद्रूपं कल्पितं सामान्यं तद्रूपतेति विशेषविवक्षया न । तथापी[183.5]ति उत्प्रेक्षा समाकलनमध्यवसाय इति यावत् तस्या निबन्धनस्य [183.6] बीजस्य । शब्दस्वलक्षणानुभावाद् एव हि वाचकशब्दसामान्या(न्यो)त्प्रेक्षा भवतीति भावः । तन्मुखेन [183.7] वाचकशब्दसामान्योत्प्रेक्षाबीजशब्दस्वलक्षणोत्थापनद्वारेण अन्यभावस्य [183.13] केवलप्रदेशादिभावस्य । अनेन च प्राग् अपि [183.15] इत्यादिना सत्य् अपि तदभिप्राय [183.16] इत्यादिना च तदन्वयव्यतिरेकानु(काननु)विधानं तस्य दर्शितम् । भेदे सत्य् असति कार्यकारणभावे अविनाभावानुपपत्तेस् तद्द्वारक [183.16] [65अ] इत्य् आह ।
ननु यदि यद्य् अस्य सिद्धेर् निबन्धनं तस्य तेन सह कार्यकारणभावादिकः सम्बन्धो ऽवश्यं भावीत्य् उच्यते । न तर्हि चक्षुरादीन्द्रियं स्वविषयस्य रूपादेः प्रतिपत्तिनिबन्धनं स्याद् इत्य् अभिप्रायवान् परः प्राह --[196]कथं तर्हि [183.28] इति । सिद्धान्त्य् आह -- परस्परे[183.28]ति । अनेन यदि नाम तयोः समकालिकयोः साक्षात् कार्यकारणभावो ऽस्तीति दर्शयति । अनयोर् अप्य् एवम् एव भविष्यतीत्य् आह -- नैवम् इ[184.1]ति । इह अन्यभावे तदभावसाधने । एवं [184.1] अनन्तरोक्तं नास्ति । कुत इत्य् आह -- अन्यभावे[184.1]ति । तदयोगाद् ए[184.1]कसामग्र्युत्पादायोगात् । अयोगश् चाभावस्य कुतश्चिद् उत्पादे भावरूपताप्राप्तेस् ताद्रूप्यहानिप्रसङ्गात् घटाभावेन च विना तत्प्रदेशक्षणसदृशस्य क्षणस्याभावप्रसङ्गाच् च द्रष्तव्यः । प्रौढवादितया तत् तद् उक्तं अयुक्तं प्रतिपाद्य सम्प्रत्यप्रस्तुताभिधानम् अस्य दर्शयन्न् आह -- लिङ्गलिङ्गिभावलक्षणस्य च [184.2] इति ।
__________नोतेस्__________
[196] कथम् इन्द्रिय स् ।
न तु केवलो [184.24] घटाभाव इति प्रकृतत्वात् । कैवल्यम् एव दर्शयति धर्मिणः कस्यचिद् गुणभावं [184.24] विशेषणत्वम् अनापन्न इति ।
तद[197]न्यस्य [185.23] धर्मिणो ऽभावाद् इति केवलप्रदेशरूपाद् अन्यस्य । धर्मिणो [185.24] लिङ्गाश्रयस्याभावाद् इति ।
__________नोतेस्__________
[197] ततश् चान्यस्य स् ।
{प्. 396} देशकालव[198]स्तुनियत [186.8] इति हेतुभावेन विशेषणम् । प्रतिज्ञा [186.10] साध्यनिर्देशस् तस्याः । कृतकत्वादिपरिजिहीर्षया विशिंसन्न् आह -- व्यावृत्तितो ऽपी[186.12]ति । प्रदेशमात्रम् इ[186.14]ति ब्रुवता परेण प्रदेशत्वसामान्यं हेतुः प्रदेशविशेषो धर्मीति दर्शितम् ।
__________नोतेस्__________
[198] देशकालाव् अस्यानियतो स् ।
यो ऽसौ केवल [186.23] इति । पुरो ऽवस्थितघटजातीय इति द्रष्टव्यम् तस्यैव प्रकृतत्वात् । लिङ्गवज् ज्ञापकत्वाद् अवश्यप्रत्येतव्यम् इत्य् अभिप्रायेणाह -- लिङ्गभूतस्य [186.25] केवलस्य प्रदेशस्य [186.26] प्रतिपत्ताव् इति पूर्ववत् प्रतिज्ञार्थैकदेशताप्य् अत्र द्रष्टव्या । ततः केवलप्रदेशाल् लिङ्गीभूतात् ।
विषयविषयिभावेने[187.10]तीत्थंभूतलक्षणा तृतीया । तथाविधा भिप्रायान् अभिज्ञा(ज्ञ)तयेति[199]पाठो ऽवदातो यथाभिधानाभिप्रायान् अभ्ज्ञा(ज्ञ)तयेति पाठे तु महान् क्लेशः ।
__________नोतेस्__________
[199] अभिप्रायान् अभिज्ञतया स् ।
प्रमेयत्वेन [187.19] साध्यत्वेन । आदिशब्दाद् अन्योन्याभावप्रध्वंसाभावयोर् न विरोधोमीमांसकमते ऽत्यन्ताभावस्य च ।
एते [188.3] प्रागभावादिरूपा भेदाः इतरप्रतीतेश् चा[188.6]भावांशप्रतीतेश् च । तत्संयोगे [188.6] तेनेन्द्रियेण प्रत्येतव्यस्य सम्बन्धे । इत्थं तु [188.5] यत् प्रतीयत [188.6] इति प्रकरणात् । तदसंयोगहेतुकम् इ[188.7]न्द्रियासम्बन्धहेतुकम् । ज्ञानम् इति प्रकृतत्वात् । यद् वा तत् तथाविधं ज्ञानं असंयोगहेतुकं प्रकरणाद् इन्द्रियासंयोगहेतुकं न भवतीति । ननु भावांशयोर् भेदात् कथं "तदन्यभाव एवे"त्य् उक्तमाचार्येण इत्य् आशङ्क्याह -- एवं मन्यत [188.15] इति । तद्रूपवैकल्यात् [188.17] घटरूपविरहितत्वात् । तद्रूपवैकल्यं [188.17] घटरूपवैकल्यम् । तदभावे [188.18] घटरूपवैकल्याभावे । तस्य घटाद् अन्यस्य भावस्य प्रदेशादेः । तथा च [188.20] तस्यापि घटरूपत्वप्रकारे सति । अभावांशे ऽपि घटाभावो ऽपि न[200]सिद्ध्यति घटात्मनिवेति भावः । तत्संयोग एव [188.24] अन्यभावसंयोग एव । विचारयता [189.2] मयेति बुद्धिस्थम् । अवधार्यो [189.3] ज्ञातव्यः ।
__________नोतेस्__________
[200] न सिद्ध्येत् स् ।
सकलत्रैलोक्यविलक्षणं [189.11] सर्वपदार्थव्यावृत्तम् । असांकर्येण [189.12] अभिश्रत्वेन । संप्र[201]मुग्धाकारं [189.5] संदिह्यमानसर्वाकारम् {प्. 397} अनिश्चिताकारम् इति । कामलो विद्यते ऽस्येति कामली [189.17] तस्य । तत्परिच्छदाभावः [189.20] तस्य पुरोवर्तिनो भूतलादेर् अप्य् अभावस्य परिच्छेदाभावः ।
__________नोतेस्__________
[201] सम्मुग्धाकारं स् ।
ननु च कस्यचिद् दर्शनाद्योयं क्वचित् प्राप्तिपरिहारार्थो व्यवहार इति प्रकृते अदृष्टस्य च परिहारार्थ [189.23] इति व्याख्यानं कथम् इव न साहसम् न ह्य् अदृष्टस्य दर्शनम् अस्ति । अथ दर्शनम् इत्य् उपलक्षणम् एतत्, ततो ऽदर्शना[65ब्]द् इत्य् अपि द्रष्टव्यम् इति चेत् । तद् अवद्यम्, दर्शनस्यैव संकीर्णासंकीर्णरूपावभासितया विचारयितुं प्रकांतत्वात्, यदि चादृष्टपरिहारार्थो व्यवहारो भवेत् तर्हि कण्टकादेः परिहारार्थो व्यवहारो न भवेत् किन्तु प्राप्त्यर्थो एव, सम्यक्ज्ञानपूर्विका च सर्वहानोपादानलक्षणा पुरुषार्थसिद्धिर् न स्याद् इति । स्थाने पराक्रान्तं भवता केवलं विवक्षिते दृष्टादृष्टशब्दार्थे समीचीनं मनो न प्रणिहितम्, दृष्टशब्देन हि सुखम् अत्रविवक्षितम् अदृष्टशब्देन च तद्विपर्ययेण दुःखम्, तते......... -- कस्यचिद् वस्तुनः सुखहेतोर् दर्शनाद्योयं क्वचिद् देशे संवित्सामर्थ्यमाववि(भावि)स्मरणादिना दृष्टस्य सुखस्य प्राप्त्यर्थो व्यवहारः प्रवृत्तिलक्षणो यश् च दुःखहेतोर् दर्शनाद् अदृष्टस्य दुःखस्य परिहारार्थो व्यवहारो निवृत्तिलक्षणः स न स्यात्; सर्वत्रैव सुखहेतुदुःखहेतुविषयत्वेन संप्रमुग्धाकारत्वात् सर्वस्यैव दर्शनस्येति । अतश् चैवं यद् विनिश्चयः"सुखदुःखसाधने हि ज्ञात्वा यथार्हं प्रतिपित्सवः" इत्य् अलं बहुना । किं भूतस् तदर्थो व्यवहार इत्य् आह प्रवृत्तिनिवृत्तिलक्षण [189.24] इति यथासंख्य सम्बन्धः कार्यः । अन्यथा [189.26] संकीर्णरूपाप्रतिभासनप्रकारेणास्य [189.26] प्रत्यक्षस्य ।
ज्ञानद्वयेन [190.6] प्रत्यक्षानुपलम्भरूपेण । पर[190.16]म् इतिमीमांसकम् इत्य् अवसेयम् । एवम् अभ्युपगमे कारिते ऽपि किं फलम् इत्य् आह तथा चे[190.17]ति । यथाश्रुति ज्ञापरिणामाख्येन धर्मेणे[190.18]त्य् उक्तं द्रष्टव्यम् । भावां[202]शस्यैवाभावत्वेनोपगतत्वाद् इ[190.20]ति । "भावान्तरविनिर्मुक्तो ऽभावोत्रानुपलंभवद्" इत्यादिवचनाद् उक्तं भावान्तरस्याप्य् अतुल्ययोग्यतारूपस्य तथात्वेनेष्टत्वात् । न त्वदुपगतानुपलब्धिरूपत्वम् अभावप्रमाणस्य भविष्यतीत्य् अत आह तुल्ययोग्यतारूप[203]स्यै[190.20]वेति । अन्यथा तस्य तदभावरूपत्वानुपपत्तेर् इति भावः । भवत्य् एवं तथाप्य् एकज्ञानसंसर्गित्वानपेक्षितया भेदो भविष्यतीत्य् आह तुल्ययोग्यतारूपस्य [190.20][204]एतज्ज्ञानसंसर्गिण एव चे[190.20]ति । अन्यथा तुल्ययोग्यतारूपतैव {प्. 398} न सिद्ध्येत् । असत्यां च तस्यां न प्रतियोग्यताभावनश्चयः स्याद् इत्य् आशयः । तथोपेयम् अ[190.21]भावप्रमाणतयोपगन्तव्यम् । तज्ज्ञानात् [190.21] तस्य तदतुल्ययोग्यतारूपस्य तदेकसंसर्गिणश् च वस्तुनो ज्ञानात् । एतद् एव साधयन्न् आह नही[190.22]ति । कथम् अभावः [190.28] प्रसज्यप्रतिषेधयोर् निरूपाख्यानत्वात् कस्यचित् परिच्छेदो [191.1] भवति । तद्धेतुभावः [191.2] प्ररिच्छेदहेतुत्वम् ।
__________नोतेस्__________
[202] भावान्तरस्यैव- स् [203] स्यैक- स् [204] एकज्ञान-
तदे[191.10]त्य् एवम् अभ्युपगमकाले । कस्यचिद् अपी[191.10]त्य् अनेन कस्यचिद् अपीति मूलग्रन्थम् अनुभासते । तद् एवाहेति कस्यचिद् इति ग्रहणकपदविवक्षितम् एवाहआचार्यः। तस्ये[191.10]त्य् अनेन तस्येति मूलपदमुल्लिङ्गार्थम् आह सलिलोपलम्भाभावस्ये[191.10]ति । तदन्यस्य वे[191.14]ति । मूल(लं) व्याचक्षाण आह --[205]ततो ऽपी[191.11]ति । कस्मात् पुनस् ततः सलिलाद् अन्यस्यानलादेर् इति व्याख्यायते न तु तत्प्रतिषेधमात्रपुरस्कारेणेत्य् आशंक्याचार्यस्यैतद् द्वयोपन्यासे ऽभिप्रायं वचनभङ्ग्या वर्णयितुम् आह वि[66अ]ज्ञान[206]ञ् चे[191.11]ति । तत्रापि [191.12] "विज्ञानं वान्यवस्तुनि" इति लक्षणे तदङ्गीकरणे ऽपरिणामशब्देनान्यवस्तुज्ञानाभ्युपगमं इति यावत् । तदात्मकत्वाद् अ[191.13]न्यवस्तुज्ञानात्मकत्वात् । तत आत्मनो यः परिणामो मा भूद् भेदेन व्यवस्थाप्येत "विज्ञानं वान्यवस्तुनि" इति लक्षणम् इति प्रकरणात् । कस्यचिद् अपीत्यादेर् मूलग्रन्थस्य समुदायार्थम् इदानीं ततश् च कस्यचिद् अपी[191.14]त्यादिना वक्तुम् उपक्रमते । स्थाप[191.15]शब्देन गाढस्वापो ऽभिप्रेतः । प्रगाढनिद्राक्रान्तस्य हि विषयग्रहणवैकल्यं भवति । यदि यत् तदपेक्षेणान्यस्यान्यत्वेन सर्वं सुस्थं स्यात् परस्य तदा व्यवधानाद्यवस्थैव प्रसङ्गार्थमाचार्येण नोपदर्शिता स्याद् इति भावो व्यवधानादिग्रहणेन च एतद् दर्शयती[191.16]ति ब्रुवतो द्रष्टव्यः । प्रकारान्तरेणास्मद् अभिमतात् प्रधानाद् अन्येन प्रकारेण । न तिष्ठेद् इति अस्यार्थकथनं प्रवर्तेते[191.25]ति । तर्हि प्रतिष्ठेतैवार्थक्रियावाप्तये प्रस्थानम् एव कुर्याद् इत्य् आह नापी[191.25]ति । न प्रतिष्ठेतेत्य् अस्यार्थं कथयति न प्रवर्तेतेति [191.25] एतद् एव प्रदर्शयितुम् उपक्रमते । तथाही[191.26]ति ।
__________नोतेस्__________
[205] ततो वे- स् । [206] इज्ञानं वे- स् ।
तत एकदशनाद् अन्या भावे ज्ञानम् उत्पद्यते तथोच्यते [192.19]न्यद् इत्य् उच्यते । तद्रूपतया [192.19] सकलासंकीर्णवस्तुरूपावभासितया । तदन्यद् वस्तु {प्. 399} प्रतियद् एवम् अन्याभावं प्रत्येतीति व्यपदिश्य [192.20] तदयोगाद् अ[192.20]न्यभावप्रतिपत्त्ययोगात् । यश् चान्यो विकल्पो पाश्चात् यो [193.8] विधिविकल्प इत्य् अर्थात् । अभावाख्यप्रमाणं [193.9] नेत्य् अनुवर्तनीयम् । वहनं वहित्रं तदारूढैः [193.17] ।
तदात्मनो [195.5] शेषपदार्थवृत्तात्मनः सकाशात् तत् [195.6] प्रत्यक्षम् । तत्प्रामाण्यसमाश्रिता [195.7] अभावप्रामाण्यसमाश्रिता ।
स्वभावत एव [195.10] स्वहेतुत एव । तस्या(स्य) [195.13] अभावाख्यस्य प्रमाणस्य ।
अध्यात्मनः [195.24] परात्मनः सकाशात् । तदन्येभ्यो निवर्तनं [196.1] व्यवच्छेदनं तस्य गृह्यमाणस्येत्य् अर्थात् तत्परिच्छेदप्रसङ्गात् [196.7] अन्यात्मपरिच्छेदप्रसङ्गात् ।
तदात्मनः [196.10] सकाशाद् अशेषमन्यन् निवर्तयतीति वर्तते । तदात्मनोपलभमानेति कथम् उच्यत इत्य् अपेक्षायां तथाविधस्वभावस्यैवानुकाराद् इ[196.13]ति योज्यम् । उपलभमाने[196.14]ति हेतौ शानयोर् विधानाद्धेतुपदम् इदम् अन(म् अव)वसेयम् । अन्यदेशे[196.15]त्यादि तथात्वप्रच्युते[196.14]र् व्याख्यानम् । तथाभूताद् इ[196.24]त्यादेर् मूलग्रन्थस्य अभावात् कार्यम् आह । अभावकल्पनया [196.28] इत्य् अभावप्रमाणकल्पनयेति प्रकरणात् । विषयम् एवा(विषयेणैव) विषयिणो निर्देशात् द्रष्टव्यम् ।
[207]अन्यच् चैवम् आत्मकं [197.1] न भवतीति वर्तते । ततो [197.3] निर्विकल्पकात् प्रत्यक्षात विधिप्रतिषेधविकल्पाव् इ[197.4]ति यथावासनाप्रबोधं विधिविकल्पञ्चेति बोद्धव्यम् । अथ वैकल्यस्य (?) साक्षाद् इतरस्य सामर्थ्याज् ज्ञानाद् विधिप्रतिषेधविकल्पद्वयोपजनन उक्तः ।[208]तदर्थाद् इति [197.21] तत्त्वान्यत्वाभ्याम् भिन्नतया विकल्पता(ना)द् इत्य् अर्थः । येन निमित्तेन विवक्षितस्य ततो ऽन्यत्वं न व्यवस्थाप्यते, तस्य निमित्तस्य समानत्वात् [197.27] । कथं प्रकारान्तराभावं सूचयतीत्य् अपेक्षायां योज्यम् [66ब्] तद्विरुद्धस्येति [197.27] तेन परिच्छिद्यमानेन विरुद्धस्यैतत्परिहारेण व्यवस्थितस्य तदसंकीर्णस्येति यावत् । तद्विरुद्धस्य सर्ववस्तुनो द्वैविध्यसाधनम् {प्. 400} एव कुत इत्य् अपेक्षायां सर्वस्यान्यतया व्याप्तिसाधनाद् इति [198.4] योज्यम् ।
__________नोतेस्__________
[207] अन्यथैतदात्मकम् स् इति तु न सम्यक् ।
[208] ततो ऽर्थात् स्
एकस्य प्रमाणस्य व्यापार एव [198.6] इति ब्रुवतो ऽयं भावः -- तस्यैवैकस्य प्रमाणस्य वृत्तं विमृष्यमान(ण)म् एवम् अवतिष्ठते । यत इति तद्रूपत्वात् [198.10] परासंकीर्णरूपत्वात् । वस्त्वनतिक्रमेण यथावस्तु [198.10] इति दृष्टतदन्यत्वेन सर्वस्य व्याप्तिसाधनाद् इत्य् अपि प्रमाणवृत्तविचारेणोच्यत इत्य् अवसातव्यम् ।
इतिना [198.27][न]न्तरोक्तस्य न्यायस्याकारो दर्शितः । अनन्यसहायत्वं [199.1] च कार्यस्य [199.1] एकजातीयकार्यापेक्षया द्रष्टव्यम् । द्वयोर् भावो द्वितैव द्वैतं तत्सिद्धेः [199.3] । ह(प्र)तीयत्य् एव [199.6] बुद्धिः व्यवस्था[209]पककाल एवा[199.6]तद्रूपं ततः पृथक् करोतीति अनुवर्तनीयम् । इतरथा शतृप्रत्ययस्यानुपपत्तिः प्रसज्येत । अत्र कथं प्रत्ययान्तराभावः सिद्ध्यतीत्य् अपेक्षायाम् आह -- तद्विपरीते[199.6]त्यादि ।
__________नोतेस्__________
[209] व्यवस्थापनाकाल एव स्
एकप्रमाणनिबन्धनां [199.9] इति प्रत्यक्षैकनिबन्धनाम् अनुमानैकनिबन्धनां वेति विवक्षितम् । न तु परोप्येनाम् अनेकप्रमाणनिबन्धनाम् इच्छति यद् अनेन व्यवच्छिद्येत । अभावप्रमाणमात्रनिबन्धनतया तेनोपगमाद् इति तस्योपलभ्यमानस्य [199.11] तदात्मनो [199.12] व्यवच्छेद [199.12] इति सम्बन्धः । "तदन्यात्मन" इति मूले निर्देशात् कथं त्वया तदन्यात्मताया [199.14] इति व्याख्यायत इत्य् अनुयोगम् आशङ्क्याह भावप्रधानत्वान् निर्देशस्य [199.14] इति ।
अवच्छिद्यते [199.18] व्यवच्छिद्यते । सा तदेकाकारनियता प्रतिपत्तिः ।
स च [200.3] तद्देशकालश् च स्यात् । तद्देशता च लोकप्रसिद्धदेशाभिप्रायेणोक्ता द्रष्टव्या । न तु वस्तुनो मूर्तं वस्तु वस्त्वन्तरेणैकदेशं नामेति । नो चेत् कथम् इति वर्तते । अभावसिद्धिर् इ[200.9]त्य् अभावव्यवहारसिद्धिर् मूढं प्रतीति च द्रष्टव्यम् । अमूढस्य प्रत्यक्षाद् एवाभावव्यवहारसिद्धेः । एतच् चानन्तरम् एव प्रतिपादयिष्यते । यथोक्तम् एवानुपलम्भं दर्शयितुम् आहोपलब्धिलक्षणप्राप्तस्य [200.9] इति । अनुपलम्भाद् इति चावर्तनीयम् । तेनायं वाक्यार्थः -- उपलब्धिलक्षणप्राप्तस्यानुपलम्भाद् इति । ननु उपलब्धिलक्षणप्राप्तानुपलम्भ एव कीदृशो यस्मात् तत्सिद्धिर् इत्य् आह तत्तुल्ये[200.10]ति । तेन निषेध्येन सह तुल्या स्वज्ञानोपजननं प्रति योग्यता सैव रूपं स्वभावो यस्य {प्. 401} स तथा तस्य यदुपलम्भ उपलभ्योपलभमानधर्मः स आत्मा यस्य [200.10] तस्मात् । चो [200.10] व्यक्तम् एतद् इत्य् अस्यार्थे । यद् वा उपलम्भशब्देन ज्ञानमात्रस्याभिधानं । तेन तु तत्तुल्ययोग्यतारूपोपलभ्यमानसेन इति समुच्चीयते इत्य् एवंरूपाद् अनुपलम्भात् । अन्यथा व्याख्याने तूपलब्धिलक्षणप्राप्तस्येत्य् असङ्गतं स्याद् इति । न तु सामान्येन [200.10] अनुपलम्भमात्राद् इत्य् अर्थः । किम् एवंवादिनो ऽपि सम्भवति येनैवम् उच्यत इत्य् आह -- यथाहुः पर [200.11] इति । वस्तुसत्तावबोधार्यं [200.13] यत्र वस्तुरूपेण प्रमाणपञ्चकं [67अ] न जायते तत्रेति [200.12] योज्यम् । पञ्चावयवा यस्येति पञ्चकम् । "संख्यायातिसदत्ताया कन्" इत्य् अनेन कन् । प्रमाणं च तत् पञ्चकं चेति पश्चात् कर्मधारयः कार्यः प्रमाणपञ्चकं [200.12] न जायत इति च पञ्चानां प्रमाणानां मध्ये यत्रैकम् अपि न जायत इत्य् अर्थः । सति वस्तुनि तदनुदय एव कथम् इत्य् आह सत्य् अपी[200.15]ति ।
तद्विषयाया उपलब्धे[200.19]र् लिङ्गत्वम् अपि प्रकरणात् । तदभावेन सह सम्बन्धाभावस्य तुल्यत्वाद् इ[200.25]ति योज्यम् ।[210]भावरूपाया उपलब्धिरूपभावरूपायाः ।
__________नोतेस्__________
[210] अन्यभावरूपायाः स्
कस्मात् सकाशात् प्रमाणान्तरं प्रत्यक्षादिकं नास्तीत्य् आह -- अन्यभावविषयोपलब्धेर् इ[201.27]ति । किम् इति [202.6] सामान्यतः पृच्छति । पुनर् इ[202.6]ति विशेषतः सो ऽन्यभावो [202.6] योसौ केवलप्रदेशलक्षणो ऽन्यभावः प्रत्यक्षलक्षणेने[202.7]न्द्रियजप्रत्यक्षलक्षनेन । एतच् च प्रायेण लोको यस्मात् केवलम् इदं भूतलं वेद्यते तस्माद् घटो ऽत्र नास्तीति प्रत्ययमुखेन प्रतिपद्यत इत्य् अभिप्रायेणोक्तं द्रष्टव्यम् । अनुपलम्भेन सिद्ध [202.8] इति च तस्यापि प्रत्यक्षस्य तदनुपलम्भरूपत्वात् वास्तवानुवादो बोद्धव्यो न तु तस्यानुपलम्भरूपताप्रतिपादनम् इदानीं प्रकृतं नाप्य् उपयुक्तम् इति । अभावव्यवहारं साधयेत् [202.8] नाभावम् इत्य् अर्थात्, तस्य केवलप्रदेशोपलब्धिकाल एव सिद्धत्वाद् इति भावः । ननु अनुपलब्ध्या अभावव्यवहारः साधनीयो न चासौ प्रदेशस् तथेत्य् आह कर्मस्थक्रियापेक्षये[211][202.8]ति । उपलब्धेः कर्मस्थत्वापेक्षया तत्पर्युदासेनान्यभावस्य तथात्वम् इत्य् अर्थः । प्रत्यक्षणाभावव्यवहारं प्रवर्तयितुम् अनीशानो ऽस्य मते मूढो वाच्यस् तस्य प्रतिपत्तौ [202.10] प्रतिपत्तिशब्देन चाभावव्यवहारैकदेशो ज्ञानलक्षणो अनुष्ठानलक्षणो वा वक्तव्यः । तस्यां साध्यायां व्यवहारश् च तद् इतरो द्रष्टव्यः । मूढं प्रतिपत्तारं प्रति तं साधयति नामूढम् इति च समुदायार्थः । अमूढस्य {प्. 402} तर्हि किं निबन्धनो ऽसद्व्यवहार इत्य् आह -- यस् त्व् इ[202.11]ति । प्रसङ्गेना[202.13]स्यैव प्रस्तावेनालं न किञ्चित् । अत्रधर्मोत्तरःप्राह -- "तदेकाकारनियतं पटीयो ऽपि प्रत्यक्षं नाभावव्यवहारं प्रवर्तयतुम् अलम् अदृष्टानाम् अपि सत्त्वान् नित्यं शंक्यमानानुपलम्भव्यभिचारो ह्य् अभावः" इति । दृश्यत्वविशेषणापेक्षायां चानुपलब्धिर् एवायातेति चाभिप्रैति । अत्र तु यथा प्रतिवक्तव्यं तथास्माभिःस्वयूथ्यविचारे विचारितं विस्तरेणेति तत एवापेक्षितव्यम् इति ।
__________नोतेस्__________
[211] -पेक्षायाम् स्
यद्य् अपि बहुप्रकारानुपलब्धिस् तथापि मूलभूतप्रकारप्रदर्शनार्थं त्रिविधे[202.21]त्य् उक्तं द्रष्तव्यम् । सविशेषणा [202.28] सह विशेषणेन उपलब्धिलक्षणप्राप्तत्वलक्षणेन वर्तत इति ।
तथा कारणव्यापकानुपलब्धिलक्षणस्ये[203.26]ति कारणव्यापकयोर् यानुपलब्धिः तद्विविक्तप्रदेशज्ञानात्मिका तल्लक्षणस्येति । सिद्धसम्बन्धयो[204.3]र् इति कारणव्यापकयोर् इति मूलग्रन्थस्यापेक्षणात् सङ्गतम् इदम् । तथाभावदर्शने[204.10]ति एकदर्शनेनान्यदर्शने तथैकादर्शनेनान्यदर्शने ऽपि भूयस् त्व् अविशेषणत्वे च क्रियमाणे लोहलेख्यत्वपार्थिवत्वादिना प्रत्ययवत् तल्लब्धी तद्विविक्तपदार्थज्ञानात्मिके तयोः संदेहरूपत्वात् । तदभावस्य च तयोः कारणव्यापकयोर् अभावस्यच संदिग्धलक्षणता वाच्या । एतद् एव विदर्भवचनेन मात्रया दर्शयन्न् आह -- [67ब्] पुरुषस्य त्व् इ[204.11]ति । यदृच्छासंवाद [204.12] इति ब्रुवतो यथामलककषायरसत्वादिना संस्कारादिना अन्यथाभावसम्भवे ऽपि साहचर्यादर्शनसंवादस् तथा विवक्षिते ऽपि भविष्यतीति भावः ।
प्रतिबन्धः [204.16] सम्बन्धो ऽभिधातव्यो न तत्प्रतिबद्धत्वं यथान्यत्र । साध्यसाधनयोर् इ[204.16]त्यादेर् अनुपपत्तिप्रसङ्गात् । प्रतिबन्धे चेष्टौ च सर्वेषां साधनवत्त्वेन च साध्यवतां साध्याभाववत्त्वेन च साधनाभाववताम् अर्थतां द्रष्टृम(?) पेक्षत्वेपि व्याप्तिमतोर् अन्वयव्यतिरेकयोर् निश्चयः सञ्जायते । सोयम् उपानटधर्ममात्र (?) पृथिव्याच्छादनं न्यायः प्रायः प्रकारो द्रष्टव्यः ।
जरन्नैयायिकाभिप्रायेण नैयायिक[205.23]ग्रहणम् अस्य बोद्धव्यम् । अधुनतनाः पुनर् अन्वयव्यतिरेकिणं पंचलक्षणम् अन्वयिनं व्यतिरेकिणं चतुर्लक्षणलक्षणम् आचक्षत इति सामान्येननैयायिकग्रहणे व्याख्यायमाने तन्मतावेदनमस्यावेदितं स्याद् इति । संख्याया गुणत्वेन द्रव्याश्रितत्वाद्धेतुद्रव्यस्ये[205.28]त्य् आह । एकसंख्यानवच्छिन्नायाम् इत्य् अस्यैवार्थकथनं {प्. 403} प्रतिहेतुरहितायाम् [206.3] इति । साध्यप्रतिपक्षसाधको हेतुः प्रतिहेतुः तद्रहितायाम् । सिषाधयिषितविरुद्धं न व्यभिचरतीति ।
तथा ज्ञातत्वं चा[206.6]परं रूपम् इति प्रागुक्तम् अनुवर्तते । यथोक्तबाधाप्रमाणेन साध्यधर्मनिराकरणं तस्मिन् [206.17] साध्ये ऽसति [246.17] ।
वतेति [207.2] निपातो ऽनुविषये । यंत्रद्वय[207.3]शब्देन प्रकरणादाकर्षकनिष्काषकलक्षणे यन्त्रे वक्तव्ये ।
यथा किल केनचित् कुतूहलिना कश्चित् तपस्वी स्त्रीरूपधारिणी तृतीयां प्रकृतिं परिचरणायोग्यां शब्दवाच्याम् उद्वाह्य पुत्रं तदर्थक्रियां वा व्यपदेशेन प्रार्थ्यते तेन तुल्यम् इदं यदविनाभावविकलं हेतुम् उपदर्श्य धर्मिणि साध्यकथनम् इति मन्वानः परोपहासपूर्वकमाहाचर्यःशण्ढम् उद्वाह्ये[207.15]ति मूलमनूद्यस्यात्वं(र्थं?) प्रकृते योजयन् दर्शयति -- तस्मिन्न् इ[207.15]ति । तस्मिन् साध्यधर्मिणि साध्यधर्मसाधनशक्तिविकलं [207.16] साध्यधर्मप्रकाशनशक्तिवियुक्तम् । तद्वैकल्यञ् च तस्य तत्र तदविनाभावितयानिष्टेः । शब्दार्थस्यैतद्व्याख्यानं प्रतिच्छायया द्रष्टव्यम् । उद्वाह्य [207.15] पदार्थं तथैव व्याचक्षाण आह -- परिणाय्ये[207.16]ति । परिणाय्यपदेन च तत्संबन्धत्वोपदर्शनं तल्लक्षितम् । तल्लक्षणं पुत्रं मृ[212]ग्यते [207.17] प्रार्थ्यते याच्यत इति यावत् । ननु चान्यत्राविनाभाव्यपि हेतुस् तत्र साध्यं विभावयेद् इति को ऽयम् उपहास इत्य् आह नही[207.20]ति । यदम्भस् तल्लवणरसं यथा सामुद्रम् । अम्भश् चेदं नादेयम् इति प्रयोगे चैतद् उच्यत इत्य् अवसेयम् । लवणतया [207.21] लवणरसतया ।
__________नोतेस्__________
[212] मृगयते स् ।
अम्भस् त्व् आदिषु [207.25] हेतुयोपनीतेषु तथा दर्शनात् । अबाधितधर्मा [207.27] अबाधितसाध्यधर्मा ।
तन्निपतस्य [208.13] बाधकप्रमाणवृत्तिनियतस्य । व्यापकाभावे व्याप्यस्याप्य् अवश्यम् अभाव इति भावः । तद्भावस्य [208.20] साध्यभावस्य । अत एवे[208.21]ति बाधकप्रमाणे सति साध्याभावाद् एव ।
तदभावेपि [208.23] बाधकप्रमाणवृत्त्यभावेपि वा भावात् साध्याभावस्येति प्रकरणात् ।
हेतोः सामर्थ्यं हेतुसामर्थ्यं तत्प्रतिपादयन्न् आह परः [209.2] । कथं [68अ] हेतुसामर्थ्यं प्रतिपादयतीत्य् अपेक्षायां योज्यम् -- तत्रान्यथात्वम्[213]इ[209.1]ति । {प्. 404} दर्शयन्न् इति [209.2] हेतौ शतुर्विधानात् तत्राबाधाया अन्यथात्वप्रदर्शनाद् इत्य् अर्थः । तत्सिद्धये [209.6] साध्यसिद्धये । यत्रासौ तदर्थम् अभिधानीयः स हेतुप्रयोगस्य विषयः [209.6] ।
__________नोतेस्__________
[213] तत्रान्यथार्थम् इति स्
वै[209.9]शब्दो ऽक्षमायां बाधानुपलब्धिर् अबाधेत्यादि यद् उच्यते तत्र क्षम्यत इत्य् अर्थः । किंत्व् इ[209.9]ति निपातानिपातसमुदायः प्रश्ने । तस्या [209.10] इतिर् मात्रार्थानां भयहेतुर् अपादानम् इत्य् अपादानत्वाद् अपादाने पञ्चमीयम् ।
काकु[209.16]शब्देनात्र वचनविन्यासो विवक्षितः । प्रश्नार्थस्य किं शब्दस्याप्रयोगेपि काकुर् एव शिरःकम्पसहिता प्रश्नं प्रकाशयतीत्य् अभिप्रायेण पृच्छती[209.16]ति व्याचष्टे । बाधानुपलब्धिर् अबाधेति अभिधानाद् उक्तम् एतद् इ[209.16-17]त्य् अभिप्रायवान् परः प्राहोक्तम् एवैतद् इति । किम् अर्थं प्रयुज्यते [209.18] स हेतुर् इति सामर्थ्यात् । अभावनिश्चयं [209.24] परमार्थतो ऽसद्भावनिश्चयं प्रति ।
संशयितस्य [210.6] बाधां प्रति जातसंदेहस्य । ज्ञान[नि]वृत्त्या[211.4] बाधकज्ञान[नि]वृत्त्यासौ साध्यबाधा ।
आदि[212.21]शब्दाद् अनुमानविरुद्धादेः संग्रहः तेषां [212.23] {15] प्रत्यक्षविरुद्धादीनाम् उपवर्णनं [212.23] स्वरूपप्रदर्शनम् ।
तद्भावायोगाद् विषयत्वायोगात् साधकप्रमाणस्यानुमानस्यावृत्तेर् यद् उक्तं "व्यस्तोहेतोर् अनाश्रय" इति भावः ।[214]किं यथा बाधाविनाभावयोर् इ[213.9]ति पाठो युक्तरूपः । किंशब्दवियुक्ते तु पाठे सशिरःकम्पयाकांक्षा एवंवदतः प्रश्नो ऽभिप्रायगतो द्रष्टव्यः ।
__________नोतेस्__________
[214] कथं -- यथा बाधाविनाभावयोः स्
तल्लक्षणं [213.14] तस्य हेतोः लक्षणम् । अन्वयव्यतिरेकात्माविनाभावः [213.14] । लक्षणशब्दस्य चासति बहुव्रीहावजहल्लिङ्गत्वात् स्वलिङ्गेन निर्देशः ।
विरुद्धस्यापि विपर्यये सम्यग्धेतुत्वात् तदभिप्रायेण विपर्ययस्य चे[213.23]त्य् उक्तम् ।
भावसिद्धि[214.14]स् तत्त्वसिद्धिस् तदयोगात् ।
विवक्षितैकसंख्यत्वप्रतिपादित[214.17]म् इति विवक्षितैकसंख्यत्वशब्देन प्रतिपादितम् इत्य् अर्थः । पूर्वकस्ये[214.21]त्यलक्षणम् एतद् इत्य् अस्य । अत्रापि बाधितत्वादिरूपान्तरयोगिन्य् अपि पूर्वयोजितुम् उपदर्शितम् ।
निष्प्रमाणिके[214.59]त्य् एतद्धेतुभावेन विशेषणम् । स इति [215.3] स एवेति विवक्षितं । निरस्तप्रतिपक्षत्वम् एव कुत इत्य् आह -- तथाविधे[215.12] तथा {प्. 405} भूतविशेषवति पटू तथाविधे साध्ये क्वचिद् धर्मिणि [215.13] संभवति सति । तदव्यभिचारिणः [216.7] साध्याव्यभिचारिणः ।
वेदप्रामाण्यनिराकर्तृष्व् इ[217.14]ति प्रत्यक्षाद्यधिकारोपि तेनासंवादादीत्यादिष्व् इत्य् अभिप्रेतं -- यद् आह --वार्तिके कुमारिलः--
"स्वर्गयागादिसम्बन्धविषयाश् चोदना मृषा ।
प्रत्यक्षाद्यधिकारोपि तैर् अर्थांसंगतिर् यत[215]" [श्लोकवा. 2.26] इत्यादि ।
__________नोतेस्__________
[215] श्लोकवार्तिके तु -- "प्रत्यक्षाद्यगताथत्वादीदृग्बुद्धादिवाक्यवत्" इति उत्तराधर्म
सौगतैर् इ[217.14]तिवार्तिककारात् पूर्वैर् इति विवक्षितम् । प्रतिहेतव [217.16] इत्य् अदुष्टकारणजन्यत्वाद् इत्यादयः । यथाहकुमारिलः--
"चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर् जन्यमानत्वाल् लिङ्गाप्तोक्त्यक्षबुद्धिवद् ॥" [श्लोकवा. 2.184] इत्यादि । तन्निमित्तसंभवाद् अ(द् आ)[217.20]शंकानिमित्तसंभवात् । आक्रोशमात्रेण [217.20] विपूर्वपक्षे भाषिकामात्रेण । केषां न कश्चिद्धेतुः स्याद् इत्याह एकसंख्यावादिनाम् इ[218.1]ति ।
सम्यग्ज्ञानविपर्ययहेतुर् इष्ट [218.6] इति प्राक्तनेनआचार्यग्रन्थेन । अ[68ब्]थाप्रदर्शितहेतुर् इ[218.6]त्य् अस्याचार्यग्रन्थस्य सम्बन्धः कार्य इति । न कथञ्चिद् व्यवच्छेदहेतुकं[216][218.9] केनापि प्रकारेण नित्यानित्यव्यवच्छेदहेतुत्वम् । ताभ्याम् अस्यान्वयव्यतरेकासिद्धेर् अभिप्रायेणैवोक्ते ।
__________नोतेस्__________
[216] -हेतुत्वम् -- स्
भुजम् उत्क्षिप्य [218.16] बाहुमूद्ध्...वीर्कृत्य फूत्कुर्वन् [218.17] फूत्कारं मुञ्चन्न् इत्य् अर्थः । कैश्चिद् [218.18]ईश्वरसेनजिनेन्द्रबुद्धिप्रभृतिभिः । अप्रच्छादनीयं [218.20] अनावरणीयम् ।
मीमांसकमतेन निरंतरा प्रीतिः स्वर्गे(र्गो) वाच्यः । अपवर्गस् तु मोक्षः । स च दर्शनभेदाद् अनेकविध इष्टः । स्वर्गापवर्गयोजनम् एववैयाकरणमताश्रयेण दर्शयन्न् आह -- तथाही[219.1]ति ।मीमांसकमताश्रयेणाथवेत्य् अनेन पक्षान्तरम् आह -- वेदान्तनिषेवणात् [219.5] आत्मतत्त्वनिषेवणात् । प्रज्ञाजातीयेन [219.5] प्रशस्तप्रज्ञेन । उपहासेप्य् अयं प्रयोगः प्रकरणात् ज्ञातव्यः । यद् अस्य सामर्थ्यम् आसीत् तत् तदुपदर्शनेनोत्कीलितं {प्. 406} अपनीतं [219.8] इति व्याचक्षाणश् चोत्कीलितम् अपनीतं साधनसामर्थ्यं यस्य श्रावणत्वलक्षणस्य हेतोः स तथोक्तो मूलग्रन्थ इति दर्शयति । ननु तानि वस्तूनि ते च पुरुषाः प्रतिहेतुनैतद्विपरीतरूपोपदर्शनद्वारा तथाभूतायाः संपदः प्रच्याव्यन्ते, न तु तेन हेतुनेति किम् उच्यते तानि वस्तूनि नित्यत्वसंपदः प्रच्याव्य तांश् च पुरुषाण् स्वर्गापवरसम्पद [219.8] इति चेत्, सत्यम् एतत् केवलं यस्माद् असौ विद्यमान एव स्वयं प्रापितायास् तथाभूतायाः संपदः प्रच्याव्यमाना न समानजातीयेन परेण तानि वस्तूनि तांश् च पुरुषांस् त्रायस्व त्रायस्वेति फूत्कारं विप्लवम् आभाषमाणानीव स्वजीवितम् अपेक्षमाण इवोपेक्षते । तस्मात् प्रच्याव्या वयं तं परं प्रयुक्तं इवेत्य् अभिप्रायाद् अदोषत्रय (?) इति चेत्, सर्वञ्चैतत् किं यो वस्तुतो असंभवात् प्रतिहेतुर् इत्यादिदूषणम् अवाधितविषयत्वे ऽपि लक्षणे प्रतिहेतुपदम् अपोद्धृत्याबाधपदं प्रक्षिप्य वक्तव्यं । अत एवस्माभिर् एतन्न् इदानम् एव किं वस्तुतो ऽसंभवद्बाधत्वम् अबाधितविषयत्वम् अभिप्रेतमुताप्रतिभासमानबाधत्वम् अपि किं तदैव किं वा अन्येषाम् अपि । तत्रापि किं तदैवाहोस्विद् उभयं वदापि (?) । अन्येषाम् अपि किं तदैवाथ कालान्तरे ऽपीत्यादि विकल्प्य सर्वत्र यथा योगं दूषणम् उपनयद्भिर् आत्मनिराकरणे ऽ...आधि[त]त्वम् आत्मसाधनस्य प्रतिसंधानलक्षणस्य हेतोर् विशेषणम् अपहस्तितम् । ततो ऽन्यैर् अपि जिगीषुभिर् अबाधि[त]त्वे विशेषणे सर्वत्रैवानयैव दिशा प्रत्यवस्थेयम् इति ।
तल्लक्षणं [220.23] लिङ्गलक्षणम् । ज्ञानस्यैव भावप्रत्ययेन [220.24] त्वत्प्रत्ययेन । एतद् एव साधयन्न् आह तथाही[220.24]ति । स्वतन्त्र एव [220.29] वाच्य्वस्तुनिरपेक्ष एव । अनर्थप्रतिलम्भ एव स्यात् [221.1] अर्थप्रतिलम्भो न स्याद् एवेत्य् अर्थः । अस्य [221.2] विकल्पप्रतिभासिनः सामान्याकारस्य । यद्य् एवं बाह्यस्यैव हेतुत्वम् अस्तु तत्किम् अनेन प्रयासेनेत्य् आह -- साध्ये[221.3]ति । कथं तर्हि विकल्पारूढानां सामान्याकाराणां परमार्थतो बाह्याङ्गासंस्पर्शिनां संपादकत्वं साध्यसाधनभावः [69अ]कार्यादिरूपत्वं चेत्य् आशङ्क्याह -- तद्धर्मताम् एवे[221.4]ति । तस्यैव तद्धर्मतां बाह्यवस्तुधर्मताम् । बाह्यगतं(तां) तद्व्यावृत्तिरूपतां इति यावत् । अनु[217]सरंतो [221.4] भेदाप्रतिपत्त्या अविद्यमाननिबन्धनयाध्यवस्यन्तो नानैकव्यतिरेकान् [221.4] एकस्मिन्न् अप्य् अर्थे नानारूपं कृतकत्वानित्यत्वादि, एकत्वं सामान्यम् अनुगामिरूपं, व्यतिरेकं तयोः परस्पर(रं) धर्मिणश् च भेदं हेतौ शतुर्विधानात् प्रदर्शनाद् इत्य् अर्थः । साध्यसाधनभावसमर्थनार्थम् एतद् उक्तं द्रष्टव्यम् । {प्. 407} संवादकत्वसमर्थनार्थम् आह -- वस्तुनि [221.5] इति । वस्तुनि -- साध्ये ऽर्थे । परम्परया [221.5] संबद्धसंबद्धतया । कार्यादिव्यपदेशसमर्थन(ना)याह कार्यादी[221.5]ति । कार्यादिदर्शनद्वारायातत्वात् तत्त्वेनाध्यवसायाच् च कार्यादि[218]व्यपदेशनिबन्धनं [221.5] त एव इति प्रकरणात् । तेन व्यपदेशनिबन्धनम् इति च व्यपदेश "इन्द्रियम् अस्थानम् एतद् राजन (?)" इति निर्देशवद् द्रष्तव्यः ।
__________नोतेस्__________
[217] अनुस्मरंतो स् ।
[218] कार्यादिलिङ्गव्यपदेशनिबन्धनं स् ।
ज्ञानस्य बाह्यलिङ्गरूपत्वं निराकृत्य सामान्याकाररूपत्वम् अपि निराकुर्वन्न् आह विकल्पावभासी च [221.7] इति । तस्य [221.8] विकल्पावभासिनः । सामान्याकारस्य निरूपस्ये[221.8]ति च व्याचक्षाणो ऽलीकरूपताम् अपोहस्याभिप्रैति । तद्रूपस्य [221.9] अवृक्षव्यावृत्तिरूपस्य विचारतो ऽसद्रूपस्य विकल्प[219]प्रतिबिम्बकस्य [221.9] इति । विकल्पाकाराद् भेदेन प्रत्येतुम् अशक्यत्वात् प्रतिबिम्बस्येव प्रतिबिम्बकस्यापोहस्य अथवा अनया वचनभङ्ग्या बुद्धयाकारो ऽपि तथाध्यस्तो ऽपोहो वाच्य इति दर्शितम् अनेन । कथं तस्य सामान्यात्मत्वव्य्वस्थेत्य् आह -- यस्माद् इ[221.10]ति । अनुयायितया [221.11]ध्य[220]वसितस्येत्य् अन्तरोक्तम् अनुवर्तते । एवंविधस्यापि किं न विकल्पात्मता । तथा च ज्ञानं किं न रूपं लिङ्गस्येत्य् आह -- तथात्वे च [221.11] इति । तथात्वे [221.11] अनुयायित्वे । विकल्परूपा[221]त्मता [221.12] विकल्पस्वलक्षणात्मता । प्रकृतायां [221.17] प्रस्तुतायाम् । रूप[222]म् अभिधीयते [221.17] एवंविधं लिङ्गस्य रूपम् इत्य् अभिधीयते । प्रत्ययात्[223][221.21] संप्रत्ययात् ।
__________नोतेस्__________
[219] विकल्पप्रतिबिम्बचक्रस्य स् । [220] व्यवसितस्य स् । [221] विकल्परूपता स् । [222] स्वरूपम् अभि- स् । [223] संप्रत्ययात् स्
परमतापेक्षया प्रमातुर् इ[221.28]त्य् उक्तम् । तथा संयोगसमवायादीनाम् [222.1] इति, आलोकमनस्कारादीनाम् [222.2] इति, वस्तुवृत्त्यपेक्षयोक्तम् । न हि तेष्व् असत्स्व् इ[222.2]ति ब्रुवतो ऽयं भावो यदि तत्र साध्यं न भवेत् तदा तदव्यभिचारिवस्तुदर्शनप्रनाडिकया तत्र ज्ञानम् एव न भवेत् । यदि च लिङ्गे धूमादौ महत्त्वादिसमवायो न स्यात्, यदि च तस्येन्द्रियेण संयोगो न भवेत्, तदा तद्विषयं प्रत्यक्षम् एव न भवेत् । असति च तस्मिन् न लिङ्गिनि विज्ञानम् उत्पद्येत तथालोका भावे ऽपि तथैव लिङ्गिज्ञानानुत्पत्तिर् ज्ञातव्या । तथासति मनस्कारे ऽसति । मनस्कारसाद्गुण्य इति बोद्धव्यम् । पूर्ववाल्लिङ्गिज्ञानानुत्पत्तिश् च । निश्चयो ऽपीत्य् एव पाठः यत्र पुस्तके {प्. 408} निश्चयो ही[222.9]ति पाठः । तत्र हिशब्दो ऽपिशब्दस्य वार्थे द्रष्तव्यः । तद्विशेषत्वात् [222.10] ज्ञानविशेषत्वात् । अस्य [222.11] निश्चयस्य ।
"सपक्षे भावेन" [222.19] किं भूतेनेत्य् आह -- विपक्षे [222.19] इति । सर्वत्र विपक्षे यो ऽभावः तद्विशिष्टेन [222.21] किं भूतेन सर्वत्र विपक्षे यो ऽभावेनेत्य् आह -- सपक्ष [222.20] इति । तादात्म्यतदुत्पत्ती लक्षणे निमित्ते यस्य भावस्य स तथा तद्विशिष्टेन [222.21] । ननु च दर्शनादर्शननिबन्धनौ सपक्षासपक्षयो[69अ]र् भावाभावाव् अप्य् अन्योन्यविशिष्टाव् एव तत् को ऽतिशयो ऽनेनोक्त इत्य् आशङ्क्याह -- एतद् उक्तं भवती[222.22]ति । प्रतिबन्धसाधकप्रमाणवृत्त्या नि[224]श्चितो (तौ) [222.23] न तु दर्शनादर्शनाभ्याम् इत्य् अर्थात् । तथाविधाव् इ[223.6]ति व्याप्तिमान्ताव् इत्य् अर्थः ।
__________नोतेस्__________
[224] निश्चितौ स्
तादात्म्यतदुत्पत्तिसाधनविषयं [223.10] तादात्म्यतदुत्पत्तिसिद्धिविषयम् । तयोर् एव [223.19] भावाभावयोर् एव । आक्षिप्यते [223.20] प्रकाश्यते । उत्पत्त्यतिरेकिण्याः सत्ताया अनुत्पत्तेर् या सत्ता उत्पत्ति[223.19]र् इति व्याचष्टे । अभावलक्षणस्य [223.29] प्रतियोग्यपेक्षया तद्विविक्तपदार्थलक्षणस्य परमताश्रयणेन चैवम् अभिधानम् सिद्ध्यन्ति [224.1] व्यवहारयोग्यताम् उपयान्ति । सर्वस्य [224.1] इति पुंसः । तथा च अयत्नसिद्धः सर्वः सर्वदर्शीत्य् आशयः । नैवम् इ[228.1]तीदम् इति सम्बन्ध्यते । लिङ्गस्य प्रकृतत्वात् ज्ञापकस्य [224.13] इत्य् आह । आचार्येण [224.21] इतिआचार्यदिग्नागेन ।सूत्रकारीयनिश्चितग्रहणसाफल्यम् उपवर्णयतावार्तिककृतास्वानुमतिर् अत्र दर्शितैवेत्य् अभिप्रायेण आचार्यवचनम् इव कृत्वा इह अस्माभिश् च [224.21] इत्यादि ।
तथाभावो [225.3] व्याप्त्यान्वयः । सर्वत्र तदभावे अवश्यम् अभावो नेति पूर्वकम् अनुवर्तनीयम् । तस्माद् यत [225.9] इत्यादिकवस्तु(-कस् तु) मूलस्यादिग्रन्थो अनेन सुबोधत्वान् न व्याख्यातः । अयं त्व् अस्यार्थो ऽवसेयो यत एवं तस्माद् [224.20] यतः प्रमाणाद् अनयोर् भावाभावयोर् भवति निश्चयस् तदधीनता तयोर् भावाभावयोः सत्ता व्यवस्थेत्य् अस्यार्थस्य ज्ञापनार्थं निश्चितवचनं कृतम् इति ।आचार्यदिग्नागकृतनिश्चितग्रहणार्थे भूयः संह्रियमाणेवर्तिककारेण कथम् अस्माभिर् इत्य् उच्यत इत्य् आशंक्याह -- अस्माभिर् इ[225.9]ति । आचार्यकृते [225.9] सूत्रकाराचार्यकृते । निश्चितग्रहणे [225.9] अस्माकम् अभिमतत्वाद् इ[225.10]ति वचनेन चैवंआचार्यस्याभिप्रायं दर्शयति । तच् चेद् अस्माकम् अभिमतम् एव तदास्माभिर् एवोक्तम् इति । एवं तावद् अनेन व्याख्यातं लक्ष्यते पुनर् अयम् अस्यार्थः -- {प्. 409} एतद् अर्थं सूत्रकारेणप्रमाणसमुच्चये -- मया च विनिश्चयादौ निश्चितग्रहणं कृतम् इत्य् अभिप्रेत्याचार्यवार्तिककारेणावाभ्याम् इत्य् अस्मिन्न् अर्थे ऽस्माभिर् इत्य् अभिधायीति । द्वयोर् अर्थयोर् बहुवचनं केन वचनेनेति "अस्मदोर्द्वयोश् च" इत्य् अनेनेति ब्रूम इति ।
अतो ऽपि न्यायात् इति पाठोः अत एव न्यायात् [225.12] इति तु प्रमादपाठः । प्रतिपन्नत्वात् [225.15] ज्ञानस्येति प्रकरणात् । त्रैरूप्यात् ज्ञानं [225.1...] "रूपान्तरं न भवती"त्य् अनुवर्तते ।
सपक्षे भाव उच्यत [226. ] इत्य् अनेन च साध्ये सत्य् एव भावो लक्षितस् तथा अभावो ऽसपक्ष [226.1] इत्य् अनेन असति साध्ये अभाव एव विवक्षितः । व्यावृत्तिकृतं भेदम् उपादाय [226.9] इति तत्राभावव्यावृत्त्या भावो व्यवस्थाप्यते । तत्र भावयावृत्त्याभाव इति । परमार्थतो भेदो नास्ति [226.10] इति ब्रुवतोयं भावः तस्मिन् सत्य् एव भावो भवितृत्वं तदभावो चाभाव एवाभवितृत्वं एवम् एव हेतोः स्वगत एवायं धर्मो ऽत एव यत्रान्वयस् तत्र व्यतिरेक इति स्वभावहेतुसाध्यम् एतद् अवतिष्ठते । न तत्त्वा(त्व् अर्था)पत्तिगम्यम् इति । ननु च यद्य् अनयोः परस्परान्तर्भावो न भवेत् तर्हि कथम् एकं वाक्यम् उभयं गमयेत् । तथा चैतत् पूर्वोक्तं [70अ] किं ...... र्हीति ।
भिन्नलक्षणम् एव [226.15] व्यावृत्तितो भिन्नस्वभावम् एव सन्तं ततश् च भिन्नत्वात् अनयोर् लिङ्गरूपत्वाच् च पृथगवयवान्तरत्वं युक्तम् इति भावः । यद्य् एकः स्वभा...............यदुक्तपूर्वं तदवस्थम् एवेत्य् आह परस्पर [226.16] इत्यादि । एकवाक्यात् [226.16] एकवाक्यार्थरूपत्वात् एकवाक्यप्रकाश्यरू......सपक्षविपक्षयोर् भावाभावयोर् अपरस्पराक्षेपाद् इति सिद्धान्तवादिनाभिहितं किम् अनेन तदप्रतिविधायकेन न त्व् इ[226.17]त्यादिनोक्तेन इत्य् आशङ्क्य पूर्वपक्षवादिमत एव ...............दर्शयितुम् आह -- अयम् अभिप्राय [226.17] इति । तदभावो ऽभावो गम्यते अन्यथा तदर्थैवास्या वाक्यस्य न स्याद् इत्या.........त इति वर्तते । प्रतिबन्धश् च [226.22] प्रतिबद्धत्वञ् च हेतोर् इत्य् अर्थात् । तादात्म्यतदुत्पत्तिभ्यां [225.22] तादात्म्येन तदुत्पत्त्या वा । तद्भावे भावरूप एवे[226.23]ति विचारत एतद् अवतिष्ठते । यत इत्य् अभिप्रायेणोक्तं एकवाक्येनेति पीनो देवदत्त इत्यादिना तत एवैकवाक्या[225]न्तरभावाद् इ[227.17]ति
__________नोतेस्__________
[225] -वाक्यार्थान्तर-स्
{प्. 410} कदाचित् .........पादनकाले दृष्टाद् इत्य् अभिप्रायेणोक्तम् -- एकवाक्यार्थानपेक्षावे[227.18]कवाक्यार्थावतवन्ता(?)व् इत्य् अर्थः । तदन्तर्भावमात्रेण [227.18] एकवाक्यार्थान्तर्भावमात्रेण नियमवद्वाक्यव्यपक्षेया कदाचिद् दृष्टेन तदन्तर्भावात् । एकरूपान्तरर् भावात् तु द्वितीयगति[227.27]र् नेति वर्तते । भिन्नरूपाव् एवे[228.6]ति यथा तया क......त तथा भिन्नरूपाव् एवेति ।
ततः [228.19] शास्त्रात् । सर्वदा चात्र ज्ञान[228.15]ग्रहणं ज्ञातत्वोपलक्षणं ज्ञातव्यम् । ज्ञात(न)शब्देन अस्यैव विवक्षित्वात् । एतच् च पुरस्ताद् उपदर्शितम् एव । स्याद् एतत् ये तावत् ज्ञातत्वशब्देन ज्ञानम् एवाभिदधते ते सन्तूक्तया नीत्या निराकृताः । ये तु ज्ञानकर्मत्वं ज्ञातत्वं .........निराक्रियन्ते इत्य् आशङ्कायाम् आह तद् अयम् अत्र [228.20] इत्यादि । तदपेक्षो ऽपि [228.25] ज्ञानापेक्षो ऽपि । प्रकरणम् उपसंहरन्न् आह -- तद् एवम् इ[228.28]ति । त्रीणि पक्षधर्मान्वयव्यतिरेकात्मकानि लक्षणानि यस्य स तथोक्त इति सर्वम् अवदातम् ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
