Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
हेतुबिन्दुटीकालोक (subcommentary on अर्चट's हेतुबिन्दुटीका on धर्मकीर्ति's हेतुबिन्दु)
- Tác giả
- दुर्वेकमिश्र
- Thông tin
- GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji: Hetubinduṭika of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Misra. Baroda : Oriental Institute 1949, pp. 233-411. (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
आचार्यश्रीधर्मकीर्तिविरचितस्यास्यहेतुबिन्दुसं...............थ तत्त्वप्रकाशिकां टीकां पटीयसीम् ईदृशीं परार्थम् उद्दिश्य प्रणयता नियतं मयापि किम् अपि पुण्यं उपार्जितं तद् अप्य् अहं परार्थम् उपनयाम् इति मन्वानो ऽनेकजन्माभ्यस्तकृपायोगात् सात्मीभूतपरार्थकरणो ऽयं भदन्तधर्माकरदत्त इमम् [229.1] इत्यादि परिणामनाश्लोकेनाह । अस्यायं समुदाया[र्थः मुनीशराद्द्धा]न्तनयप्रदीपम् [229.2] विवृ[226]त्य यत् पुण्यम् उपार्जितं तत् जगतो विशुद्धिं विधेयात् [229.3] इति । कायवाङ्मनोमौनयोगान् मुनयः प्रत्येकबुद्धादयस् तेषां ईशः शास्ता बुद्धो भगवान् सवासनक्लेशपरिहाणियोगेनात(?)भ्यस् तस्य प्रकर्षप्राप्तया तायित्वात् तस्य नयो नीतिः प्रवचनं तस्य राद्धान्तः सिद्धान्तस् तस्य [70ब्] ............क्षणिकाः सर्वसंस्कारा इत्यादि प्रवचनार्थस्यानेन यथावत्प्रकाशनात् कुत्सितः प्रमाणानुपपन्नार्थप्रकाशनात् तर्को न्यायदर्शनादि[र् इ]ति तथा । अशेषश् चासौ स चेति तथा । तस्य मार्गः [229.1] पन्थाः सिद्धान्त इत्य् अर्थः । क्षतः खण्डितः तद्वैरूप्यापादनाद् अशेषः कुतर्कमार्गो येन स तथा । तं विवृ[227]त्य व्याख्याय ...............र्थात् । तत् पुण्यं [229.3] कर्तृ विशुद्धिं [229.3] विमलचित्तसंतति परां [229.4] प्रकृष्टां सर्वावरणप्रहाणाद् इति सर्वम् अनवद्यम् इति ।
__________नोतेस्__________
[226] वितत्य स् [227] वितत्य स्
{प्. 411} दारिद्र्यदुःखाद् अभियोगमात्राद् विशुद्धबुद्धेर् विरहाद् अबोधात् ।
नास्तीह सूक्तं मम यत् पुनः स्यात् गुरोर्जितारेःस खलु प्रसादः ॥
कुतूहलेनैव यदृच्छया वा मात्सर्यतो दोषजिघृक्ष[या वा]
......स्वत एव रूपं विज्ञास्यते ऽस्येति न वर्णयामः ॥
कृतो ऽयमर्चटालोको निबन्धो बालबान्धवः ।
यत्र मूर्तिर् इवादर्शे दृश्यते स्वपरस्थितिः ॥
परार्थम् उद्दिश्य यथार्थमर्चटंविवृण्य पुण्यं यदुपार्जितं मया ।
निहन्तु तेनावरणानि विद्विषो जनोन्तरायेण विनैव सर्वथा ॥
समाप्तश् चा ............... निबन्धः ॥
कृतिर् इयं पण्डितदुर्वेकमिश्रस्येति ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
