Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
हेतुबिन्दुटीकालोक (subcommentary on अर्चट's हेतुबिन्दुटीका on धर्मकीर्ति's हेतुबिन्दु)
- Tác giả
- दुर्वेकमिश्र
- Thông tin
- GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji: Hetubinduṭika of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Misra. Baroda : Oriental Institute 1949, pp. 233-411. (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
एवं तर्हि शब्दप्रत्ययगोचर एव किञ्चिद् एकं तावद् आस्ताम् । ततो न सर्वथैकस्याभावः सिध्यतीत्य् आह अस्पष्ते[107.1]ति । त एव [107.1] भागा एवं । विजातीयव्यावृत्त्या केवलया प्रतीयमानास्पष्टरूपाः [107.1] । अयम् अर्थस् तत्रापि ज्ञाने त एव भागा अ[वि]वेचितभेदाः प्रतीयन्ते न तु तदतिरिक्तं किञ्चिद् एकम् अपि । अध्यवसायानुरोधेन च त एवेत्य् उक्तं द्रष्टव्यम् । यतौ भागातिरिक्तं निर्भागदृश्यम् अनुपलभ्यमानम् असद्व्यवहारगोचरः तत[107.2]स् तस्मात् ।[129]तेषां भागानां पर्यायशब्दाभिलाप्यानाम् ।
__________नोतेस्__________
[129] एषां स्
पुनर् अपि निर्भागमङ्गीकृत्य सिंहावलोकितन्यायेन दूषणान्तरम् आह ।
नि[130]र्भागस्य चे[106.3]ति । भिन्नो देषो यस्य स चासाव् अंशश् चेति पदसंस्कारं कृत्वा पश्चाद् अनेकशब्देन सह कर्मधारयः कार्यः । तद्योगिता [107.3] तद्व्यापिता । अयम् आशयो यदि तत् सांशं स्यात्, तदेकेनांशेनैकं भिन्नदेशम् अंशं व्याप्यापरेणापरं व्याप्नुयात् । न तु निरंशं सत् तथा कर्तुम् उत्सहत इति । ननु प्रतीयते तावद् एकस्यानेकभिन्नदेशांशयोगिता तत्र किं कथम् एतद् इति विमृष्टेन । तथा चोक्तम
__________नोतेस्__________
[130] निर्विभागस्य स्
[131]"तत् तथैवाभ्युपैतव्यम् यद् यथैव प्रतीयत ।"
__________नोतेस्__________
[131] तुलनाश्लोकवा. अनु. 186 ।
इत्य् अभिप्रायवतः परस्य वचनम् आशङ्कमान आह प्रतीतेश् चेदि[107.4]ति यद्य् अप्य् अत्रोक्तम् एव दूषणं न निर्विकल्पे नापि विकल्पे ज्ञाने तदेकमनुभासत इत्यदि । {प्. 353} तथापि तदुपेक्ष्यैव दूषणान्तरम् आह[132]ध्वंसे[107.4]ति ।
__________नोतेस्__________
[132] क्षणध्वंसानु-स् ।
ये पर्यायाः स्थेमानं [107.5] स्थैर्यं दधतः प्रतीयन्ते [107.5] यत् तदोर्नित्यम् अभिसंबन्धात्ते क्षणध्वंसानुभाविनः कुतः कस्मान् मता [107.5] इति योज्यम् । अनेनैतद् आह प्रतीतिशरणाश् चेद् भवन्तस् तदा कथम् अन्यथा प्रतीयमाना अन्यथा अनुगम्यन्त इति । पुनः परस्य वचनम् आशंकमान आह -- अन्यत [107.6] इति । अन्यतो बाधकात् प्रमाणात् तन्मता इत्य् अभिसम्बन्धव्यम् । इह प्रकृते तद् बाधकं पमाणं समं [107.6] तुल्यम् अत्रापि तद्धित इत्य् अर्थः ।
उक्तेपि दृश्यानुपलम्भादौ बाधके ऽन्यद् अपि बाधकं दर्श्यन्न् आह -- ऐकान्तिकाव् इ[107.7]ति । अनन्यत्वाद् एकात्मकत्वात् । तयोर् अन्योन्यानुप्रवेशमुखेन भेद एवाभेद एव वेति नियमवन्ताव् ऐकान्तिकाउ स्याताम् । ध्रुवं [107.7] निश्चितम् । अथैकात्म्येत्पि पर्याया एव भिद्यन्ते न धर्मी धर्मे (?) च न भिद्यते न तु पर्याया इत्य् आशंक्याह -- अन्योन्यं वे[107.8]ति । विरुद्धधर्माध्यासस्य एकत्वबाधकस्य भावाद् भेद एव नियतो [107.8]वश्यंभावीत्य् अभिप्रायः ।
अनन्यत्वेपि नायं दोषो भिन्नरूपस्यापि भावाद् इति परस्य वचनम् आशंकमान आह तयोर् अपी[107.9]ति । अपिशब्दो भिन्नकमो भेद इत्य् अस्मात् परो द्रष्टव्यः । न केवलम् अभेद इति चार्थः । अत्राप्य् आह येनात्मने[107.10]ति । अपिशब्ददर्शितम् अभेदम् अपि दूषयन्न् आह द्रव्ये[107.12]ति ।
स्वभाव [107.13] इत्य् अभिन्नस्वभाव इत्य् अभिप्रेतम् । यन्निमित्ता [107.13] यदभिन्नरूपनिमित्ता । कथं नास्तीत्य् आह तत [107.14] इति । तत एकस्मात् स्वभावात्, अभेदे स्वभावानुप्रवेशे तयोः स्वात्महानिः [107.14] द्रव्यरूपता पर्यायरूपता च हीयेत, तदात्मवद् इति भावः ।
त[48अ]स्या[107.15]भिन्नस्य स्वभावस्य ताभ्यां [107.15] द्रव्यपर्यायाभ्याम् । त [107.15] इत्य् अनेनोक्तं बहुत्वम् एवाह धर्मी[107.16]त्यादि ।
तेभ्यो [107.17] द्रयपर्यायतदन्यस्वभावेभ्यो ऽन्यो ऽभिन्नः स्वभावस् तेषाम् एव त्रयाणाम् अभेदसिद्ध्यर्थं कल्प्यते यदि तत्रापि स एव दोष इति पुनः स्वभावान्तरकल्पने च पूर्व [107.18] इव प्रसङ्गो ऽनवस्थाप्रसङ्गह् स्यात् ।
अत्रैव दोषान्तरं समुच्चिन्वन्न् आह धर्मीत्वम् इ[107.19]ति । कुत एवं स्याद् इत्य् आह तत्तन्त्रत्वाद् इ[107.19]ति । तस्मिन् पारतन्त्र्यं तस्मात् । कयोस् तत्तन्त्रत्वम् इत्य् अपेक्षायाम् {प्. 354} आह -- तद् अन्ययोर् इ[107.19]ति । तस्माद् एकस्वभावाद् अन्ययोर् द्रव्यपर्याययोर् भेदस्याभेदस्य च तन्मूलत्वात् तत्तन्त्रत्वं प्रत्येयम् । अस्तु तर्हि तस्य तथात्वम् अनेकात्मकत्वं च वस्तुनः । न च दृष्टस्यानवस्थया अपलापः कर्तुं शक्य इत्य् आह -- न चैवम् इ[107.20]ति । चो यस्मान् नैवं प्रमाणेन गम्यते । प्रकरणम् उपसंहरन्न् आह तेने[107.20]ति । तेना[न]न्तरोक्तेन कारणकलापेन अयमनेकान्तवादो जाल्मकल्पित उत्पथप्रस्थितकल्पितः ।
इति[107.21]र् हेतौ । बहुभाषितया अलं [107.21] न किञ्चित् । एतावतैव सर्वस्य समाहितत्वाद् इति भावः ।
अवश्यमो भाव आवश्यकम् इत्य् अस्य भावप्रत्ययान्तत्वाद् अपृक्करणस्यावश्यकम् इति प्राप्ते योयम् आवश्यकम् अपृथक्करणम् इ[108.1]ति प्रयोगे सामानाधिकरण्येन निर्देशः सः कथम् इति तु न जाने महान्त एव प्रष्टव्याः । संयोगविभागेषु [108.11] कर्तव्येषु अनपेक्षो [108.11] न कारणम् इति रूपादिवर्गाभिप्रायेणानपेक्षस्य तत् कारणमात्रं विवक्षितम् । न तु विशेषप्रतिषेधात् सापेक्षस्य कारणत्वम् । अगुणत्वेन च द्रव्यकर्मणोर् व्यवच्छेदः । सामान्यवत्त्वेन च सामान्यविशेषसमवायानाम् । संयोगविभागापेक्षया त्व् अनपेक्षो न कारणं किन्तु सापेक्ष एव कारणम् इति विवक्षितम् । सापेक्षत्वं न चरमभाव्यपेक्षया द्रष्टव्यम् । न तु कस्यचिद् अन्यानपेक्षस्यैव कारणत्वम् अस्ति येनानपेक्षो ऽकारणम् इत्य् उच्यमानं शोभेत । तदात्वगुणत्वेन द्रव्यस्य व्यवच्छेदो द्रष्टव्यः । तद् यथा तन्तुतुरीसंयोगलक्षणो गुणः पटतुरीसंयोगे कर्तव्ये पटं पश्चाद्भाविनम् अपेक्षते । यथा च वंशादौ पाटनाख्यावयवकर्मजो ऽवयवान्तराद् विभागः पश्चाद्भाविनं द्रव्यविनाशम् अपेक्ष्य सक्रियस्यावयवस्याकाशादिदेशाद् विभागम् आरभते, यथा चासौ न क्रियाजो विभागः किन्तु विभागज एवेति विभागजं विभागम् अभ्युपगच्छद्भिर्वैशेषिकैर् इष्यते तथा नेहाप्रकृतत्वाद् उच्यते । गुणवद् इत्य् अत्रादि[108.15]ग्रहणात् समवायिकारणत्वस्य संग्रहः ।
चोद्य[108.28]शब्देन प्रकरणाद्बौद्धकृतंचोद्यं द्रष्टव्यम् । तस्य परिहार [108.28] इति विग्रहः ।
अस्माकम् अयम् आस्माकीनः [109.16] । "[133]युष्मद् अस्मद्भ्याम् अन्यतरस्याम् खञ्" इत्य् अनेन खञ कर्तव्यः । प्राग्व[109.6] प्रागुक्तसंस्कारपक्ष इव । निर्बन्धग्रहणेन [109.21] चेत्य् आचष्ट [109.25] इति सम्बन्धः ।
__________नोतेस्__________
[133] पाणिनीयं सूत्रं (4.3.1) तु भिन्नम् ।
सहकरणशीला [110.6] एककरणशीलाः ।
प्रत्ययान्तरं [111.2] वासनाप्रबोधकं रसादिकञ् च [48ब्] यथायोग्यं वाच्यम्, तत्सापेक्षा [111.2], ततः [111.3] सामग्र्यास् तथाभूताया । इतरस्ये[111.3]ति {प्. 355} निर्विकल्पकस्य रसाद्यालम्बनस्य । तदुपादेयत्वेन [111.3] विज्ञानलक्षणोपादानोपादेयत्वेन । ननु च मनस्कारादिसमुदायजन्यम् इदम् एकम् उपदर्शितम् एतत्सामग्रीमध्यप्रविष्टैकजन्यं तु किं न दर्शितम् इत्य् आह तदन्यद् इ[111.13]ति । एकजन्यम् इति तत्सामग्र्यन्तःपतितकारणानपेक्षैकजन्यम् इत्य् अवसेयम्, न त्व् एकजन्यं नाम किञ्चित् संभवति । तत्र चक्षुरादिनिरपेक्षमनस्कारजन्यो मनोराज्यादिविकल्पः, विषयादिनिरपेक्षचक्षुर्मनस्कारात्मकद्वयजन्यं द्विचन्द्रादिविज्ञानम्, समनन्तरप्रत्ययाद् विज्ञानाच् चक्षुर्विज्ञानस्योपलम्भामहे(?)त्याद्यभिधानाद् एवैतद् ऊहितुं शक्यम् इत्य् अहिप्रायेण च स्व[134]यम् ऊह्यम् इ[111.13]त्य् आह । ननु किं भागतो विशेषवृत्तिर् येन बहुवचनेन निर्देश इत्य् आह[135]तज्जन्यापेक्षया चे[111.17]ति । सामग्र्यन्तरस्य स्वभावभेदवतो भावाद् भिन्नकार्यप्रसूतिः ।
__________नोतेस्__________
[134] स्वयम् अभ्यूह्यम् स् [135] अतज्जन्यापेक्षया स्
कुतः स्वभावभेदवत्त्वं तस्येत्य् अपेक्षायां योज्यम् कार्यान्तरे[112.1]त्यादि । पृथिव्यादीन्य् उपादाय वर्तन्त इत्य् उपादाय रूपं [112.5] परस्परादि मयूरव्यंसकादित्वात् समासः । आगमापेक्षया वक्तुम् उद्यतेन च परेणागमभाषैवानूदिता । स्वभावस्थितं तेनाश्रयः(स्थितेर् आश्रयः) स्वभावस्थित्याश्रयः [112.18] । अवश्यं हि प्रतिबन्धकेन किञ्चित्करेण भाव्यम् । किञ्चित्शब्दवाच्येनार्थान्तरेणेत्य् अभिप्रायेणाह स्वभावान्तरोत्पादने यावद् इ[112.19]ति ।
ननूपकारक आधारो न तु जनकस् तत् कथम् एवम् उच्यत इत्य् आह नही[112.27]ति । भूतानां [113.2] पृथिव्यादीनाम् । उच्यत इति [113.2]वैभाषिकमते कथ्यत इति द्रष्टव्यम् । न तुसौत्रान्तिकनये भूतभौतिकविभागोस्ति ।
कालक्षेपेण [113.9] कालविलंबने । तत्सहभाविने[113.14]त्य् अनुग्राह्यसहचारिणेत्य् अवसेयम् । अनन्तरं [113.14] तदुत्पादनात् । तस्य विशेषस्योत्पादनात् । तस्य [113.15] क्रियमाणविशेषस्य । कथं तत्राकिञ्चित्करत्वं तस्य सहकारिणो ज्ञापितं भवतीत्य् आह -- शक्तिप्रतिबन्धकापनयनेने[113.19]ति ।
यस्माद् अर्थे ऽयं निपातः "न वै"[नै]वेति व्याचक्षाणो वै[113.25]शब्दम् अवधारणे दर्शयति । संभावनायां [114.2] न्यायबलायातायाम् इत्य् अवसेयम् । अत एव व्यनक्ति न्याये[114.3]ति ।
{प्. 356} अनेन सहकारीत्य् अत्रैकार्थः सहशब्दोवार्तिककारेण दर्शितः । कथं तर्हि सह युगपत् कुर्वन्त [114.12] इत्य् अयं व्याचष्टेति चेत्, उक्तम् अत्र पूर्वम् इति न पुनर् उच्यते । एवंविध [114.13] इत्य् एकार्थकारी । वह्न्यादिसहकारीशीतक्षणादिलक्षणे कार्याभिसन्धिनापचीयमान[114.17]ग्रहणम् ।
यावते[115.8]ति तृतीयान्तप्रतिरूपको ऽयं निपातो यस्माद् इत्य् अस्मिन्न् अर्थे, किंत्व् एतस्मिन्न् अर्थे वा अनुवर्तते । सहिता अन्येन युक्ताः क्षणमात्रविलम्बिनः [115.9] क्षणमात्रस्थायिनः । तदवस्थाया प्राक् पूर्वं पश्चाद् उत्तरकालं[136]पृथक् तद्विकलावस्थायां भावः [115.10] सद्भावः ।
__________नोतेस्__________
[136] पृथक्त्व स्
ननु यदि स्वहेतोः समर्थस्योत्पत्तिस् तर्हि कथम् अनन्तरम् उक्तम् -- "ते समर्थाः स्वभावतः [115.6]" इत्य् अत आह परमते[115.16]ति । भवत्यस्मात् कार्यम् इति भावो हेतुस् तस्माद् इति । तद् अपि त्वया कस्मान् न व्याख्यातम् इति चेत् । न, स[49अ]मर्थः कुत उत्पन्न इत्य् अस्य व्याघातप्रसंगात् । सहकारिभ्यः सामर्थ्यम्[137]इच्छन्ती[115.17]ति चमीमांसकमताश्रयणेनाह न तुनैयायिकाएवम् इच्छन्ति येन तन्मतोपग्रहेणाप्य् एतत् संगच्छेत, सहकारिसाकल्यस्यैव तैः सामर्थ्यरूपत्वेनेष्टेः । तथा चाह --जल्पमहोदघिः"सहकारिसाकल्यं तद्वतः सामर्थ्यं वैकल्यं त्व् असामर्थ्यम्" इति ।
__________नोतेस्__________
[137] मिच्छति स्
समर्थं [115.25] विवक्षितकार्यकरणे शक्तम् । आवश्यकं[138]जननम् इ[116.11]त्य् अस्य शब्दस्य तु सिद्धिः[139]पूर्वं न जाने ।
__________नोतेस्__________
[138] अवश्यंजनकत्वम् स् [139] द्रष्टव्यम् -- पृ. 354 पं. 8 -- "अवश्यमो भावः इत्यादिना न जाने इत्यन्तेन कृता", एतदर्थकः पाठस्त्रुटितोत्र भाति ।
कुशूलञ् च तदपनेतृपुरुषप्रयत्नश् च क्षेत्रनयनं च प्रकिरणं [116.14] च प्रकरणात् क्षेत्रे प्रकिरणं चेति द्वन्द्वं कृत्वा पश्चाद् आदिशब्दे[न] बहुव्रीहिः कार्यः । प्रकिरणम् इत्य् अयम् औणादिकः शब्दो न तु किरतिर्ल्युडन्तो द्रष्टव्यस् तदा गुणस्याप्रतिषेधेन प्रकरणम् इति प्राप्तेर् असाधुत्वप्रसंगात् ।
समेत्य [116.19] योग्यदेशे स्थित्वा सम्भूय आद्येन सह मिलित्वा प्रत्ययैः सहकार्युपादानरूपैः ।
ननु च "अत एव तयोर् अवस्थयोर्" इत्यादिना प्रत्यभिज्ञायाः प्रामाण्यम् अपोदितम् एव तत् कथं न पुनर् उक्ते(क्तम् इ)त्य् आह -- पूर्वञ् चे[117.9]ति । एतद् अपि [117.11] {प्. 357} सारूप्यविषयप्रत्यभिज्ञाप्रामाण्यनिराकरणम् इति । उक्तम् एव सामर्थ्याद् दर्शितम् एव । तर्हि किम् अर्थं पुनर् उक्तम् इत्य् आह -- विपञ्चनार्थं त्व् इ[117.12]ति तुः पूर्वस्माद् अस्य कथनस्य विशेषं दर्शयति ।
आध्यात्मिकेषु [117.15] आन्तरेषु । पश्चाद् बाह्येपि दर्शयितव्यत्वात् क्रमे तावच् शब्दम् आह । शक्यपरिच्छेदं [117.15] विशिष्टकार्यकारणतया परिच्छेत्तुं शक्यम् ।
[140]साक्षाद् अव्यवधानेन विज्ञानकार्यकारिणः प्रत्ययाद्धेतोः । तस्य जनने -- व्यवधानादिप्रतिपत्तौ व्यवधानादिस्वीकारे, कथं तादृशो न भवतीत्य् आह अन्यादृशाद् इति । अन्यादृशाद्धि भवन्नन्यादृशस्यापि हेतोर् हेतुव्यपदेशसंभवाज् जननहेतुर् इत्य् आह । कथं तद्धेतुर् इत्य् आह तद् इति तत्सहकारिभिः परस्परोपसर्पणाद्याश्रयहेतुसहकारिभिर् इन्द्रियादिभिः । समर्थञ् च तद्विज्ञानजनने स्वस्वक्षणान्तरं चेति तथा तस्यारम्भात् । अनेन परस्परोपसर्पणाद्याश्रयप्रत्ययविशेषेन्द्रियादिकलापस्य साक्षाद् विज्ञानहेतोर् हेतुत्वं दर्शितम् । एतच् चानन्तरम् एव स्पष्टयिष्यते । इदं चाक्षेपवतीं सामग्रीम् अभिप्रेत्योक्तं द्रष्टव्यम् । कथम् अन्यथाभावस्यासंभव इति आह परस्परेति । विज्ञाननिर्माणसमर्थाश् च ते हेतवश् च ते च ते इन्द्रियादयश् च तेषाम् उपादानैः । समर्थहेत्विन्द्रियादेर् जननं तस्मात् । अनन्तरोक्तस्पष्टीकरणं चैतद् द्रष्टव्यम् ।
__________नोतेस्__________
[140] स् प्रतिर् अत्र त्रुटिता ।
सुखसंवर्दितत्वाद् इति व्याचक्षाणो मूले सुखैधित इत्य् अस्यानभियोगनिमित्तस्यापि सामर्थ्यात् क्रीडन[119.12]शील इत्य् अस्य हेतुभावेन विशेषणत्वं दर्शयति । ननु कृतं निष्पादितम् उच्यते ऽत्र च किमाचार्येण निष्पादितम् इत्य् आशंकां निराकुर्वन्न् आह कृतम् इ[119.14]ति । न पुनर् ए[119.15]वम् आचक्षाणेन द्विर् उक्ताभावो दर्शित इति बोद्धव्यम् । अस्यार्थस्यासकृदुक्तत्वात् एकवारं प्रतिविहिते पुनः प्रतिविधापयितरि अवज्ञासंभवेनोपहासांयोगाच् च कृतं कृतम् इति निर्देशस्य न्या[49ब्]यप्राप्तत्वाद् अतिप्रसिद्धत्वाच् चेति । ननु किं कुर्वन्तं कर्तुं प्रयुङ्क्ते पुनः पूर्वपक्षवादी येन पुनः पूर्वपक्षवादी कारयतीत्य् उच्यत इत्य् आह -- पुनर् इत्यादि । निर्लोठितं [119.17] निरूपितं निर्णीतम् इति यावत् ।
पूर्ववन् मीमांसकाभिप्रायेण सामर्थ्यं सहकारिभ्यो जायत [119.25] इत्य् आचष्टे । सामर्थ्यस्यो[120.6]त्पत्तिः तद्वतो ऽनुत्पत्तिः [120.7] ।
{प्. 358} सम्प्रति प्रकारान्तरेणापि प्रत्यभिज्ञाया अप्रामाण्यं परमभ्युपगमयितुं भूमिकां रचयन्न् आह -- व्यावस्थितस्यैवे[120.12]ति । अयं चात्राभिप्रायः -- भवतु यावद् बीजादावुच्छूनोच्चूनतरादिविशेषस्य दर्शनात् सामर्थ्योत्पादादिकल्पना न पुनर् इह तथा अदर्शनाद् इति । व्यवस्थितस्यान्यत्वमनापन्नस्य । सामर्थ्यं [120.13] विज्ञानोत्पादादिसामर्थ्यम् ।
अप्रतिभासमानो विवेको [120.14] यस्य पुंसः स तथा ।
यद्य् अपि विवेको ऽस्य प्रत्यक्षतो नावगम्यते तथाप्य् एतस्मात् प्रमाणात् तत्स्वभावस्य सामर्थ्यस्योत्पत्तिः कल्प्यत इति दर्शयन्न् आह विज्ञानादी[120.15]ति । अनुत्पत्तिप्रसंगात् प्रागसत्सामर्थ्यं चक्षुरादिसन्निधाव् उत्पद्यत इति निश्चयः । क्रमिणां विज्ञानादिकार्याणां यौगपद्योदयप्रसङ्गात् [120.15] । तच् च क्रमवद् इति निश्चयः । यद्य् एवम् इ[120.17]ति सिद्धान्ती । अविकृतम् ए[120.17]करूपम् । अपूर्वसामर्थ्यस्य यः प्रतिभास आकारस् तेन विविक्तो रहितो य उपलादिस् तद्ग्राहि । यत एवैवं तत एवाविकृतम् इति च द्रष्टव्यम् । अनवक्लृप्तिख्यापनार्थो वा[120.19]शब्दः ।
अभ्युपगम्यताम् एवं का क्षतिर् इत्य् आह तथेति तद्वत् । सामर्थ्यम् इ[120.25]त्य् आगन्तुकं सामर्थ्यम् इत्य् अवसातव्यम् । द्विविधं हि सामर्थ्यं प्रातिस्विकम् आगन्तुकञ् च । प्रातिस्विकी च शक्तिर् अवश्यैषितव्या । अन्यथा शिलाशकलम् अपि क्षित्यादिसान्निध्ये बीजवदंकुरं कस्मान् न निव(र्व)र्तयतीति पर्यनुयोगे किम् उत्तरं वाच्यम् इति हि तेषां मतम् ।
ननु सामर्थ्यम् अतिशयलक्षणं सहकार्याधेयं ततो ऽन्यद् एव तत् कथं "सहकारिप्रत्यय[सान्निध्य]लक्षणस्ये"त्य् उच्यत इत्य् आह अत[141]एवे[121.3]ति । प्रत्यासत्तिलक्षणस्य सान्निधस्य तेभ्यः सन्निहितेभ्यो ऽन्यस्यानपपत्तेः । सान्निध्यशब्दपरित्यागेन सहकारिप्रत्ययलक्षणस्येति ते एवेत्याद्य् अप्य् उक्तं द्रष्टव्यम् । अत एवाभ्युपगमाद् इ[121.3]ति उपागताभ्युपगमाद् इति प्रत्येतव्यम् । एवम् इच्छ[142]ता [121.6] क्षणि[143]कतैवेत्य् अभिसंबन्धनीयम् ।
__________नोतेस्__________
[141] तत एव स् [142] इच्छतो स् [143] क्षणिकतेवै-स्
यच् छब्देस्यैतद् व्याख्यानं यस्माद् इ[121.21]ति । इदं शब्दस्य चैतद् इति एतद् दर्शनम् [121.21] । अनुत्तरस्यैवोत्तरीकरणाद् उत्तरीकृतम् इ[121.24]त्य् उक्तम् । एवं नियुञ्जानमहो महासामर्थ्यम् अस्तु का तवाक्षमेत्य् आशंक्य यदि नामेत्य् अवतारयितुं न चात्रे[121.25]त्याद्य् आह । न चात्र मे काचिद् अक्षमा [121.25] किंत्व् इतीयम् अस्माकं चिन्ता चित्तं दुनोती[122.3]ति सम्बन्धः । न चात्र मे [121.25] इत्य् अनेन टीकाकारवचनेनैकवाक्यीकरणपक्षेत्य् अ(प्य)स्माकं इति "अस्मदो द्वयोश् च" (पा. 1-2-59) {प्. 359} इत्य् अनेनैकस्मिन्न् एवार्थे बहुवचनेन द्रष्तव्यम् । एवम् असंबद्धवादिन्य् अपूज्य एव पूजावचनम् उपसंहारपरं द्रष्टव्यम् । दैन्योद्भावनम् इ[122.1]त्य् अर्थात् संबोध्यमानस्य दैन्यप्रकाशनम् इति । निकृष्टसम्बोधने ऽयं हन्तः [122.1] शब्द इति यावत् । ततो ऽप्र[50अ]सवधर्मकत्वात् । अपेतो ऽपगतः संतानः [122.2] प्रसूतिः परंपरा यस्य तथोक्तम् । इतिना [122.3] चिन्तारूपम् उपदर्शितम् ।
शिरःकम्पे चास्य सत्यम् इदम् अस्ती[122.10]त्य् अस्य शब्दस्य प्रयोगम् आकलय्य प्रयोक्तुर् अभिप्रायं वर्णयन् पृच्छती[122.13]त्य् आचष्टे । अत एव चेदम् आह -- किं त्वयास्तित्वेन पृच्छ्यत इति पार्श्वस्थं प्रश्नयन्न् आह किं तद् इ[122.13]ति । इति हेतोर् आहार्य इति प्रकरणात् । औदासीन्यापत्तिर् इत्य् अत्रेति शब्देन इदम् आस्तित्वेनाभिप्रेतस्य न्याय्यवचन[122.17]स्याकारो दर्शितः । अत एव न्याय्यवचनस्यास्तित्वेन दर्श्यमानस्य रूपं दर्शयन् सत्य्म् इदम् अप्य् अस्ती[122.16]ति पुनर् आह । यद्य् एवम् अस्य न्याय्यवचनस्य सद्भावादनवद्यम् एवास्मन्मतम् इत्य् आशंक्याह किंत्व् इ[122.17]ति । केवलम् इदं [122.17] वक्षमाणं प्रष्टव्योसि ।
प्रच्युतम् अजनकं रूपम् उत्पन्नं जनकं रूपं द्वन्द्वैकवद्भावम् अभिप्रेत्य प्रच्युतोत्पन्नम् इत्य् आह -- अप्रच्युतो(ता)नुत्पन्नत्वेनैव च स्थिरैकस्वभाव[123.8]त्वं ज्ञेयम् ।
तद्भेदे ऽपि [123.19] जनकाजनकभेदेपि । तस्य [123.20] भावभेदस्य । अपरापेक्षस्वभावभेदलक्षणत्वाद् इ[123.20]ति परापेक्षो यः स्वभावभेदो न भवति स्वत एव यो भावभेदलक्षणत्वाद् इति । भवत इदं भावत्कम् [123.21] । आधीयते [123.26] अधिक्रियते नियुज्यते वा । स्वरूपेण कर्तृत्वे विवक्षितस्यापि ताद्रूप्य प्रसज्येतेत्य् अभिप्रायेणाह ए[144]षाम् अपि पररूपेण कर्तृत्व [124.1] इति । पररूपेण कर्तृत्वे इति पर एव कर्ता स्यात् । तस्य तु तथात्वं हरीतकीं प्राप्य देवता रेचयन्तीत्य् अनेन तुल्यं स्याद् इत्य् अभिप्रेत्याह -- पररूपेणाप्य् अकारकत्वाद् इ[124.3]ति । अस्योत्तरस्य [124.5] "सहितस् तत्स्वभावो न केवल" इत्य् अस्य । प्रकृतम् उपसंहरन्न् आह -- तस्माद् इ[124.10]ति । कथञ्चित् के[124.10]नापि प्रकारेण न कार्यक्रियाया विरामः । पुरस्ताद् अपि तस्य स्वरूपस्य भावाद् इति भावः ।
__________नोतेस्__________
[144] तेषाम् अपि-स्
स्याद् एतज् जनकम् अस्य रूपम् अवस्थितं जनकञ् च तद् उच्यते यस्मिन् सत्य् एव कार्यम् अस्ति न तु यस्मिन् सति कार्यं भवत्य् एव, सति भावस्याक(का)रणसाधारण्णत्वात् । कार्यम् अपि तद्भा(तदभा)वे {प्. 360} नोपपद्येत इत्य् एव तस्य कार्यं, तद्भावे तु भवत्य् अवश्यम् इति को(क्वो)पयोगो ऽस्य । तस्मात् कथं तद्रूपभावेपि कार्यक्रिया प्रसंजनं ज्याय इति ।
अत्रोच्यते अक्षणिकत्वेनाप्रच्युतानुत्पन्नरूपान्तरे सर्वावस्थासमाने ऽपि कारणं यदि कार्यं नोपजायते तर्हि तत्स्वतन्त्रम् आपद्येत । तथा च न तत् तस्य कार्यं स्यात् । तदवादि वार्तिकालंकारे प्रज्ञाकरगुप्तेन --
"सर्वावस्थासमाने ऽपि कारणे यद्य् अकार्यता ॥
स्वतन्त्रं कार्यम् एव स्यान् न [तत्]कार्यं तथा सति ॥" इति ।
कारणपारतन्त्र्ये च तत्कारणं तत्कार्यं हठाद् एव जनयेत् । तथाप्य् अभावे न तस्य कार्यं स्यात् । तस्माद् अ[कारणात्] कारणस्य विशेषः कार्यस्यावश्यंभाव एवावश्यञ् च वक्तव्यः ।
ननु "तद्भा(तदभा)वे न भवति कार्यम्" इत्य् अकारणाद् अस्य विशेषः । न हि तस्याकारणस्याभावे तत्कार्यं न भवतीति, हन्त कुत एतद् अवगम्यते तद[50ब्]भावप्रयुक्तो ऽस्याभाव इति । यदि हि तद्भा(तदभा)वस्याभावे तद्भावलक्षणे कार्याभावस्याभावः कार्यभावलक्षणः स्यात् तदा तदभावप्रयुक्तो ऽस्याभावः सिद्ध्येद् इतरथाकारणाभिमताभावप्रयुक्तो ऽपि तदभावः किं न कल्प्यते?[145]तदभावेपि कार्याभावस्य भावान् न तदभावप्रयुक्ततास्येति चेत्, समानम् इदं कारणाभिमतेपि । तस्माद् यथा तदवस्थ एव कारणे स्वयम् एव कार्यं न भवति स्वातन्त्र्यात्, तथा तदभावो ऽपि स्वयम् एव न भविष्यतीति स्वातन्त्र्याद् एव । यश् च स्वयम् एव न भवति नासौ नियम्यत तेन परतन्त्रत्वे तस्य कारणस्य भावे ऽवश्यम् एव भवेत् । तदाहअलङ्कारकारः
__________नोतेस्__________
[145] अकारणाभिमताभावाभावे ऽपि इत्य् अर्थः ।
"[146]तद्भावेपि न भावश् चेद् अभावे भाविता कुतः ।
__________नोतेस्__________
[146] प्रमाणवा. आलं. पृ. 74.
तदभावप्रयुक्तो ऽस्य सो ऽभाव इति तत् कुतः ॥" इति ।
तस्मात् तद्भावे भावस् तदभावे चाभाव इति विशेषितः कार्यकारणभावो ऽवश्यं भवतीति ज्ञापयति । तथा च कारणे सत्य् अवश्यंभावि कार्यम् आयातम् इति कथं कदाचित् क्रियाविरामः ।
किञ् च तथाविधो हि कार्याभावो निर्हेतुकत्वात् स्वयम् एव भवतीति युक्तम् अपि । भावस् तु हेतुपरतन्त्रत्वात् समर्थे हेतौ न भवतीति न युक्तम् । तद् उक्तम्
"अभावो हि पदार्थानां स्वयम् एव भवेद् अपि ।
भावस् तु परतन्त्रत्वात् कथं हेतोर् भवेन् न सः ॥" इति ।
{प्. 361} ननु कार्याभावस्य स्वतन्त्रत्वात् "कारणे सत्य् एव न भवती"ति युक्तम् एवैतत् । एवं तर्हि न कारणाभाव प्रयुक्तो ऽभाव कथं भवेत् कार्यस्य(कार्यम्[147]अस्य) ततः स्वयम् एव न भवति, यश् च स्वयम् एव न भवति नासौ तेन नियन्तुं शक्यः । ततो यथा स्वयं न भवति तथा भवेद् अपि । ततो न तस्य कार्यम् । यदा तु कारणे सति भवेद् एव तदा स्वरसनिरोधेप्य् अपरापरक्षणोत्पत्तेस् तदभाव एव संतानोच्छेदस् तदभाव एव च संतानाक्षेपक्षणानारम्भो वा सुज्ञात(न) इति कारणप्रतिबद्धत्वं सिद्ध्यति ।
__________नोतेस्__________ [147] "कार्यम् अस्य" प्रमाणवा. अलं.पृ. 74.
एतेन तद् अपि निरस्तम्यदाहुर् एके यथोभयाधीननिरूपणा व्याप्तिर् अयोगव्यवच्छेदेन व्यापके निरूप्यते व्याप्ये सति भाव एव व्यापकस्य नाभाव इति; व्याप्यस्य पुनर् अन्ययोगव्यवच्छेदेन व्यापक एव भावो व्याप्यस्य नान्यत्रेति । एवं कार्यकारणभावो ऽप्य् उभयाधीननिरूपणोपि कारणे ऽयोगव्यवच्छेदेन निरूप्यते, कार्योत्पादस्य पुरस्ताद् भाव एव कारणस्य नाभाव इति; कार्ये पुनर् अन्ययोगव्यवच्छेदेन कारण एव सति भावो नान्यस्मिन्न् इत्य् अनुभवानुसारान्निश्चीयत इति । उक्तया नीत्या तद्भावे ऽभवतस् तत्कार्यताया एवाभावप्रसङ्गात् स्वभावे ऽभावमत(?)श् चातत कार्यः का(तत्कार्यका)रणतायाः स तु या (?) अभिसंबन्धयत एव चात्र भवतः (?) कारणस्य मुख्यस्यानुभवो ऽन्यस् तु तादर्थ्याद् उपचरितकारणभावस्यानुभव इति स्वयम् उपचरितकारणानुभवरूपत्व एवेति । अपि च यथा कारणे सत्य् अवश्यं भावम् अनिच्छता कार्यस्य कादाचित् कादन्वयात् तत्कार[51अ]णम् इष्यते । तथा कादाचित् कादव्यतिरेकाद् अपि किन् न कारणम् इष्यते युज्यते वा । तस्मात् कार्यकारणभावं नियतम् इच्छता यथा व्याप्तिमान् व्यतिरेक एष्टव्यस् तथा व्याप्तिमान्न् अन्व(मान् अन्व)योप्य् अवश्यैषितव्यो ऽन्यथा तद्यो(तदयो)गाद् इति ।
किं च सहितावस्थायां तावद् असौ भावः कार्यं जनयतीतीष्यते । जनयतीति च को ऽर्थः ? किं कार्यं सत्तयाभिसम्बध्यते किं वाभिसंत्स्यते? किञ्चातः ? यद्य् उतरः पक्षस् तदा तस्मिञ् जनयति न कदाचित् कार्यं सत्प्रत्ययविषयः स्यात् सत्तया अभिसम्बन्धस्य भावितत्वा(वित्वा)त् । अथान्य(द्य) एवोपगमस् तदा विकल्पद्वयम्, किम् अनेनैव स्वभावेन पूर्वम् अयम् अवस्थितो ऽथान्येन । न तावद् अन्येन, एकस्य रूपद्वयायोगात् । अनेनैव स्वभावेनावस्थाने च संप्रतीव तदापि कार्यं सत्तयाभिसम्बध्यत इत्य् उपेतं स्यात् । तथा च प्रकृतकृ(क्ष)तिर् इति किम् अस्थानाभिनिवेशेनेति । अथ भवतो ऽपि किम् इदं कारणत्वं? किं प्राग्भाव एव किं वा प्राग् एव भावः? यदि प्राग्भाव एव, तदा स्थिरस्यापि एवम् एव कारणत्वे सु[148]साधितस्य निराकरणं प्रसज्येत । अथ प्राग् एव भावः, तद् एतत्क्षणिकत्वे सिद्धे सिद्ध्यति । तद् एव तु न सिद्धम् इति {प्. 362} कथम् इदम् उच्यमानं शोभेतेति । आस्तां प्राग्भाव एव कारणत्वं को बाधः? ननूक्तम् एवाक्षणिकस्यापि कारणत्वे साधयितुं शक्ये तदनिराकृतिर् एव महती बाधेति चेति । हन्त किं हेतुरूपस्य लक्षणेनाक्षणिकस्य सत्त्वंतथागतैर् निराक्रियते येनेदम् अपि वक्तुम् अध्यवसितास् तर्कविदः कथं नामेति चेत् । उच्यते । प्राग्भाव एवासौ स्थिररूपात् क्रमाक्रमाख्यस्य व्यापकस्य निवृत्त्या निवर्तते । यथा च तस्य ताभ्यां व्याप्तिर् यथा च ततस् तयोर् निवृत्तिस् तथान्यत्र निऋणीतम् इति नेह हेतुलक्षणकाले ऽप्रकृतत्वाद् उच्यते । अथ तद् एव न संगच्छते । तर्हि तद् एवोच्यताम् । न तु हेतुलक्षणेन तस्या निराकृतिर् इति । अलम् अतार्किकवचनेनातिनिर्बन्धेनेति ।
__________नोतेस्__________
[148] अत्र स्वसाधितस्य इत्य् अपि दृश्यते ।
न हि स सामी(ही)[त्य]इत्य् ए[123.21]केन प्रकारेण व्याख्यायापरेणापि प्रकारेण व्याख्यातुम् अथवे[124.10]त्यादिनोपक्रमते ।[149]अस्या [124.10] अपेक्षायाः ।
__________नोतेस्__________
[149] अस्य स्
ननूक्तम् एव प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावो भावस् तत् कथं प्रत्ययान्तरसाहित्यदशायाः पूर्वं कुर्याद् इत्य् आह प्रत्ययान्तरे[124.19]ति । तदतत्कालयोः [124.23] सहकारिसाहित्यासाहित्यकालयोः । केचित् पुनः "स्वहेतुभिर् एवायं प्रत्ययान्तरसापेक्षकार्यजननस्वभावो जनित [124.11]" इत्य् अत्रैव विपञ्च्यते । यद्य् एवंधर्मो ऽयं स्वहेतुभिर् एव जनितः स्यात् तदा न कदाचिज् जनयेत् । तथा हि यावत् सहकारिप्रत्ययसन्निधिकालस् तावद् अकरणधर्मासौ भावो ऽन्यथास्या पूर्वम् अपि कर्तृत्वं प्रसज्येत । प्रत्ययान्तरसन्निधिकाले च स एव कियत्कालाकरणस्वभावो यः प्रथमे क्षण आसीत् । ततो नैव कुर्यात् कि[51ब्]यत्कालाकरणधर्मत्वात् तस्य क्रियायात् (क्रियायांतु) स एव स्वभावो न भवेत् । यद्वा तावत्कालापेक्षजनकस्य स्वभावस्यानुवृत्तेस् तादात्म्यः(म्ये) तावत्कालम् अक्रिय एव । पुनर् अन्ते तथैवेति कथम् इवाक्षणिकः कदाचिद् अपि जनयेत् । तस्मान् न प्रत्ययान्तरापेक्षजनकस्वभावो भावः स्वहेतुभिर् जन्यत इति । तथा चाह --
"तत्सहकारिसापेक्षजनको यदि हेतुभिः ।
भावः स्याज् जनितो नासौ किंचिज् जनयेत् तदा ॥
तथाहि सन्निधीयन्ते यावत् ते सहकारिणः ।
तावन् नूनम् अकर्तासौ स्वभावस् तस्य वस्तुनः ॥
एषितव्यो ऽन्यथा पूर्वं तत्कर्तृत्वप्रसङ्गतः । तत्सन्निधानकाले च स्वभावो ऽस्य (?) वर्तते ॥
तन् न कुर्यात् क्रियायाम् वा स्वभावोस्य नो भवेत् (?) ।
यद्वा
{प्. 363} तावत् समयसापेक्षजनकस्यानुवृ...त्ततः ॥
स्वभावस्य तथाप्य् एष तावत् कालम् असत्क्रियः ।
पुनर् अन्ते तथैवेति कुर्याद् अक्षणिकः कथम्? ॥" इति ।
उपगतो ऽन्त्यो [125.9] यस्य स तथोक्तः । प्रस[150]ज्येत् [126.22] यस्य निपातस्यार्थकथनं हठाद् इ[126.22]ति ।
__________नोतेस्__________
[150] प्रसह्य स् ।
सुतराम[127.15]तिशयेन ।
सन्तानम् अप्य् आश्रित्य कथम् उच्यत इत्य् आह -- पूर्वोत्तरेति [128.8] । किं लक्षणं नाम वस्तुतस् तत्र सहकारित्वम् इत्य् आह -- पूर्व[151]क्षणेभ्यस् त्व् इ[128.10]ति । तस्य [128.14] विशेष्य ।
__________नोतेस्__________
[151] पूर्वपूर्वक्षणे-स् ।
तत्समानकाल[152]कारणक्षणः [130.4] । प्र[153]यातुर(?)समानकालकारणक्षणः । एकत्वेनाधिम् उक्तस्य [130.6] तद् एवेदम् इति निश्चितस्य ।
__________नोतेस्__________ [152] तत्समानकालः स् [153] प्रदातुर- इत्य् अपि पठ्यते ।
उपनिपतन्तीति उपनिपातास् ते च क्षणाः [130.13] तथा क्षणो यतो ऽन्यो नास्ति कालः सोवच्छेदकत्वेनैषां विद्यत इति "[154]अर्ष आदि"त्य् एनद् विधातव्यः । तेनैकक्षणिकस्थायीनि वस्तुरूपाणीत्य् अर्थः । एवम् अन्यत्राप्य् एवंविधे प्रयोगे ज्ञेयम् । स्वरसतः [130.10] स्वानुरागान्नाशो(न्)मुखत्वाद् इति यावत् । प्रकरणात् कार्योत्पादं प्रत्यनुगुणत्वं [130.15] प्रत्येयम् । क्षेपवती [130.19] कालविलम्बवती ।
__________नोतेस्__________
[154] पाणिनीयसूत्रं तु "अर्ष आदिभ्यो ऽच् (5.2.127) इति वर्तते । किंतु दुर्वेकेन अन्यद् एव किञ्चिद् उद्धत भाति । तथा च अत्र "अर्ष आदिभ्यो ऽदित्यनेनाद् विधातव्यः" इति पाठः सम्यक् सम्भाव्यते ।
तदनासादनम् एव कथम् इत्य् आह -- क्षणानाम् इ[130.27]ति । अयं निरतिशयो ऽयं च सातिशय इति विवेकस्याभावात् । कार्योत्पादानुगुणमा[130.28]द्यम् इत्य् अर्थात् ।
यद् उक्तम् अक्षणिके तत्सर्वं क्षणिकेष्व् अपि ममं यत [131.10] इति । तेषां [131.12] क्षणिकानाम् । यद् वा क्षणानाम् इ[131.13]तीदम् उभयत्रापि सम्बन्धनीयम् । पूर्वं स्वदेशस्थित्या ता(ते) एव परस्परतः समुत्पन्नविशेषाः सन्निधीयन्ते [131.15] प्रत्यासीदन्ति । दूरदेशवर्तिनां कथं हेतुफलभावप्रतिनियम इत्य् आशंकायां न्यायम् उपदर्शयन्न् आह येन यस्याभी[131.16]ति येन दूरस्थितसहकारिकृतेन विशेषेण सविशेषा एव संनिधीयन्त इतीष्यते । तस्य विशेषस्योत्पत्ताव् अपि [131.22] ।
{प्. 364} नैव कार्योत्पादने योग्यास् ते ऽस्माभिर् इष्यन्ते किं तर्हि कार्योत्पादानुगुणस्योत्पादने तत् कथं तदुपायेत्याद्य् उच्यमानं शोभेतेत्य् आशंक्याह यदि हि [132.5] इति ।
भङ्ग्या [132.20] वक्त्रोक्त्या । किं पुन[132.22]र् हि द्विस्त्रिर् वा ब्रूमः । किं तर्हि शतश एव ब्रूम इत्य् अर्थः । संप्रत्येवम् एव व्याख्यानस्य निरवद्यतयापूर्वटीकाकृतःकटाक्षयन्न् आह -- एवम् इ[132.23]ति । ये [132.25]टीकाकृतः। न विशेषोत्पादनाद् एवेत्यादिग्रन्थस्य पुनर् उक्ततापरि[52अ]हारार्थं यतन्ते यत्नं कुर्वन्ति । हन्ते[132.26]ति निपातो नामन्त्रणमात्रे । तदभावा[133.2]द् विशेषोत्पादाभावात् ।
न सर्वदापरापरयोगोस्य संभवति येनास्य तन्निबन्धनो विशेषः कल्प्यत इत्य् आह नही[133.22]ति । एकम् एवा[133.22]सहायम् एव । छायापि शीताद्यर्थक्रियाकारिणी वस्त्व् एव त्व् अना(न त्व् आ)लोकाभावमात्रमितिच्छा[155]योद्वता (?) । न तु प्रतिक्षणम् इत्यादिना एकदैवार्थस्योक्तत्वात् कथं द्विः पुनर् ग्रहणं कृतम् इत्य् आह क्षणिकेष्व् इ[133.29]ति । द्वि[134.2]र् द्वौ वारौ "द्वित्रिचतुर्भ्यः सुज्" इति । (पा. 5-4-18) सुचकेनोक्तम् इत्य् आह तत्र स्वरसत [134.2] इति । तज्जन्मनिमित्तम् इत्य् आचक्षाणो मूले निमित्तसप्तमीं दर्शयति ।
__________नोतेस्__________
[155] योद्धता (?) इत्य् अपि पठ्यते ।
परस्परोपसर्पणाद्याश्रयाद् एव प्रत्ययविशेषाद् इ[136.23]ति जन्मन्यपरस्परसंपृक्तलक्षणव्यवधानेनेति द्रष्टव्यम् । अन्यथा वक्ष्यमाणविरोधः स्यात् । यस्मिन् कार्ये कर्तव्ये ऽनुकूलो ऽनुगुणः स चासौ विशेषश् चेति तथा आसाद् इतस् तदनुकूलो विशेषो यैस् ते तथा तैः [136.28] ।
अथ केन ग्रन्थेन पूर्वम् अनवस्थोक्ता कथं च स्याद् इति पार्श्वस्थवचनम् आशंक्य तं प्रागुक्तं ग्रन्थं तस्य चार्थं दर्शयन्न् आह अथे[137.1]त्यादि । कथं सा न भवतीत्य् आह तस्ये[137.4]ति । कुशूलाद्यवस्थम् अपि बीजं क्षित्यादिना कृतविशेषं क्षित्यादिकम् अपि तेन कृतविशेषम् एवोपतिष्ठत इत्य् अस्य प्रक[156]रण(कार)स्यानुभ्युपगमात् [137.4] किं नामाभ्युपेतामत्य् आह पुरुष[137.5]त्यादि । पुर्ववत्प्रकिरण[137.5]शब्दो द्रष्तव्यः । कार्योत्पादानुगुणो ऽयम् आद्यो विशेषः संपर्कक्षणानन्तरक्षणरूपस् तज्जनकस्य धर्मशब्दाद् अनिचं विधातुं व्युत्पत्तिं दर्शयन्न् आह अक्षेपेणे[137.14]ति । कार्यताम् अननुभवत [137.27] इति तत्कार्यतां चेति द्रष्टव्यम् इतरथा अन्त्यावस्थाप्राप्तेर् अबी(प्राप्तेन बी)जादिना अनेकान्तः स्यात् ।
__________नोतेस्__________
[156] प्रकारस्यानुभ्युपगमात् स्
{प्. 365} बाहुल्येनेति विवृण्वन् प्रायः[137.28]शब्दं निपातं दर्शयति बाहुल्येनेत्य् अस्यार्थे वर्तमानम् । अथ येन न्यायेन क्षणिकस्यैकार्थक्रियया सहकारित्वसंभवस् तेनाक्षणिकस्यापि भविष्यति तत् कथम् एवं विभज्यत इति आह तत्सम्भविन [138.2] इति ।
स्वभावान्तरोत्पत्तिर् अपि विरुद्धा कस्मात् कल्प्यत इत्य् आह प्रागकारकस्ये[138.3]ति । कथं न विरुध्यत इत्य् आह तस्यैव ही[128.4]ति । तर्हि पूर्वस्वभावस्य कथम् उ(म)पनय इत्य् आह -- तत्रे[138.6]ति ।
[157]तत्सभावतैव ।
__________नोतेस्__________
[157] इदं "असौ" (138.15) इत्य् अस्य अर्थकथनं भाति ।
किम् इती[138.15]ति निपातानिपातसमुदायः कस्माद् इत्य् अस्यार्थे वर्तते । मुघे[138.15]त्य् अयम् अपि निपातो वृथेत्य् अस्यार्थे ।
तानि [138.15] प्रत्ययान्तराणि ।
सम्प्रति व्याख्यातप्रबन्धस्य संभवप्रस्तुताभिधानसंगतिं दर्शयन्न् आह तद् एवम् इ[138.17]ति । अनेकान्तपरिहारायोक्तम् अस्ये(क्तस्ये)[138.20]ति "तत्स्वभावस्य जननाद्" इत्य् अस्य प्रसंगात् प्रस्तावाद् आगतं प्रासंगिकं [138.23] कार्यं यथेष्टम् अविनाशं हेतु(ष्टम् विनाशहेतु)नैव निवृत्तिः क्रियत इत्य् आह विनाशहेतो[139.27]र् इति । मुद्गरादेः [139.28] सकाशात्, वस्त्वन्तरस्य [139.29] प्रध्वंसलक्षणस्य भावे ।
व्यवस्थितरूपस्य [140.5] प्राच्येनैव रूपेण वर्तमानस्य ।
ननु यदि स्वरसनिरुद्धात् ताम्रादेर् उपादानकारणाद् वह्न्यादेश् च सहकारि[52ब्]कारणाद् अन्यस्यैव द्रव्यादिरूपस्य ताम्रादेर् उत्पत्तिर् इहाचार्येणोपगम्यते -- तर्हिप्रमाणवार्तिके ऽनेनैव यदवादि --
"सहकारात् सहस्थानाशंका अग्निताम्र(स्थानम् अग्निताम्र)द्रवत्ववत्" (प्रमाणवा. 1.6.4) इति तद्विरुध्येत । शक्यते हि तत्रापीदं वक्तुम् उपादानात् तस्मात् तस्माच् च सहकारिकारणाद् अन्यद् एव तत् तथोत्पन्नम् । न त्व् अग्निस् ताम्रद्रवत्वं सह तिष्ठत इति चेत् । सत्यम्, यथाश्रुति स्याद् विरोधो यथा त्व् अविरोधस् तथास्माभिर्विशेषाख्याने ख्यापितम् इति तत एवानुगन्तव्यम् इति ।
{प्. 366} अस्थितिस्वभावो ऽ[140.19]स्थितिस्वरूपो धर्मः पराश्रितत्वात् । तस्योत्पत्तिः । ततो [140.12]स्थिररूपाद् धर्माद् विनाशहेतुसमुद्भूतात् । इति[140.19]र् उच्यमानस्याकारं दर्शयति । पर एव प्रश्नयन्न् आह -- कथं ज्ञायत [140.22] इति । अवस्थानात् [140.24] तस्य विनाशस्य काष्ठादेर् इति प्रकरणात् । तथापि तस्य तथात्वम् कथम् इत्य् आशंक्य पर एवाह यदी[140.24]ति । तदसंभवेपि [140.25] विनाशहेत्वग्न्याद्यभावेपि । तर्हि न निवर्तेतैवेत्य् आशंक्य स एवाह तस्य स्वभावेने[140.25]त्यादि । यद् उत [140.26] यद् एतत् । यत् तस्मात् तस्य विनाशो भवतीति ब्रुवता परकार्यत्वं तस्य कथितं भवतीत्य् आशंक्य स एवाह परस्माद् इ[140.27]ति । उक्तम् एवार्थम् उपसंहारव्याजेन स्फुटयन्न् आह स्वहेतुभिर् एवायम् इ[140.28]ति । अत्रमीमांसकस्य सहायकं दर्शयन्न् आह -- तद् उक्तम् इ[141.2]ति । येन स्वभावेन विरोधिनं [141.4] अपेक्ष्य निवर्तत [141.3] इति योज्यम् । अन्येषां क्षणिकवादिनां मुद्गरादिकम् अ[141.4]पेक्ष्य निवर्तत इति सम्बन्द्धव्यम् ।
भावच्युति[141.8]र् भावस्याभावः प्रसज्यप्रतिषेध इत्य् अर्थः, अवधारणेनान्यस्य विरामः । सापि कथम् अहेतुर् इत्य् आह -- तस्याश् चे[141.9]ति । यदि सा भवित्री कथम् अहेतुका भवेद् इत्य् आशंक्य स एवाह -- नही[141.9]ति । को नामास्य भाषितस्यार्थ इत्य् आह केवलम् इ[141.10]ति ।
इदम् अनन्तरोक्तम् उत्तरं कर्तृ विकल्पद्वयं कर्म नातिक्रामति [141.12] । नित्यविकल्पस्यावकाशो [141.14] नास्तीति ब्रुवतो ऽयम् आशयः । स हि नित्य उच्यते यो नैव विनश्यति न चायं तथोपगत इति । ने[141.15]ति सिद्धान्ती । तदुपगमेपि [141.15] कालान्तरस्थितिधर्मतोपगमेपि । संवत्सर [141.16] इति "कालाध्वनोर् अत्यन्तसंयोग" (पा. 2-3-5) इति द्वितीया । सम्वत्सरं व्याप्य स्थित [141.18] इत्य् अर्थः । यद्य् एकदिवसाव् अति(से ऽति)क्रान्ते सत्य् एकदिवसा(स)न्यूनसम्वत्सरे स्थितिधर्मा स्यात् तदानयोः स्वभावयोर् विरुद्धधर्माध्यासेन भेद एव भवेद् इत्य् अभिप्रायेण स एव तद् अन्तेपी[141.18]त्य् आह । ये(ते)नैव न्यायेन द्वित्रिक्षणस्थितिधर्मोत्पादावगमेपि नित्यतोपगमो ऽवगन्तव्यः । अनेन [141.27] अक्षणिकवादिना । पूर्वोक्तेन [142.3] "तदन्तेपि स एवास्य स्वभाव" इत्य् अनेन न्यायेन युक्त्या तदयोगा[142.5]न् नाशायोगात् । ने[142.9]ति सिद्धान्तवादी । अत एव [142.9] विरोधिसन्निधानापेक्षत्वाद् एव विनाशस्य तन्निबन्धनत्वप्रसंगात् [142.8] अपेक्षणीयविरोधिकारणत्वप्रसक्तेः । {प्. 367} हेतुभावस्य [142.10] [53अ]हेतुत्वस्यापेक्षा कार्येणापेक्ष्यमाणधर्मस्यैवापेक्षा सा विवक्षितत्वात् सा लक्षणं [142.11] यस्य तद्भावस् तत्त्वं तस्मात् । कः पुनर् इ[142.12]ति सिद्धान्ती । अयं चास्याशयो यदि विनाशो ऽन्यथा नोपपद्यते परतश् च न भवति तं चापेक्षत इति प्रमाणसिद्धं स्यात् कल्प्येत वैतत्, यदि परम् एतद् एव नास्तिईति । पूर्वम् अकिण्चित्करत्वेन विरोधित्वम् उपेत्य तदपेक्षायां उक्तम् । संप्रति तु विरोधित्वे ऽकिञ्चित्करत्वम् एव नास्तीति दर्शयन्न् आह कथञ् चे[142.15]ति । नाम[142.16]शब्दो ऽसंभावनायाम् इह ।
समयः [142.20] सिद्धान्तः । तद्भाव एव [142.27] मुद्गरादिभाव एव । तेषां [142.27] कपालादीनां भावात् उत्पादात् । यथा तद्भावभावित्वं तेषां तथा दर्शयन्न् आह -- वेगवद् इ[142.28]ति । कस्मात् संजातातिशय इत्य् अपेक्षायां योज्यम् परस्परे[142.28]त्यादि । कार्यमुखेनोक्त्वा कारणमुखेनाप्य् आह तस्य चे[143.2]ति । तस्य वेगवन्मुद्गरादिसहकारिणो घटक्षणस्य ।
परस्परपरिहाररूपत्वात् [143.10] परस्परपरिहारस्थितरूपत्वात् । विनाशः कथं तस्य स्वभावो भवितुम् अर्हति येन एवम् उच्यत इत्य् आह -- विनश्यती[143.14]ति । भावे विहितो घञ् अ(कु)तो वचनात् कर्तरि भवतीत्य् आशंक्याह -- बहुलम् इ[143.14]ति । "कुत्यल्युटो बहुलम्" (पा. 3-3-113) इत्य् अस्माद् वचनाद् इत्य् अर्थः ।
विनाशं प्रत्यनपेक्षां [143.23] प्रतिपाद्ये[143.24]ति योज्यम् । अनपेक्षां विनंष्टुर् इत्य् अर्थात् । कथं प्रतिपाद्येत्य् आह -- तद् इ[143.23]ति । तद्धेत्वयोगेन विनाशहेत्वयोगेन । अयोग एव कुत इत्य् आह -- असामर्थ्ये[143.24]ति । पूर्वाचार्यशब्देनाचार्यदिग्नागो ऽभिप्रेतः ।
स्याद् एतत् तत्र खलु विपर्यये बाधकं प्रमाणम् उच्यते यत् साध्यविपर्यये हेतोर् वृत्ति(त्तिं) बाधमानं साध्यसाधनयोः प्रतिबन्धं साधयति । न तु यत् साक्षाद् एव साध्यं साधयति । इयं चानपेक्षा साक्षाद् एव क्षणक्षयितां कृतकानां सतां साधयितुं शक्तेति । तथाहि ये यद्भावं प्रत्यनपेक्षास् ते तद्भावनियता यथान्त्या कारणसामग्री स्वकार्योत्पादने । विनाशं प्रत्यनपेक्षाश् चोदयान् अन्तरम् इमे कृतका भावा इति -- प्रयोगे कृते कृतकानाम् एषां क्षणिकता किं न प्रतीयते येन कृतकत्वाद्धेतोस् तत्सिद्धिः प्रार्थ्यते । तस्माद् अयं मौलो हेतुर् वैयर्थ्यम् आत्मनः पश्यन् नै(श्यन् ने)वं विपर्यये बाधकं प्रमाणं साध्यसिद्धौ सहायम् अपेक्षयितुं क्षणम् अपि न क्षमत इति । न वयंभट्टार्चटेन कृतकत्वस्य हेतोर् एवंरूपे वुपर्यये बाधकप्रमाणे प्रदर्शिते सति {प्. 368} चैवं गडुप्रवेशे ऽक्षितारानिर्गमकल्पिते यथाश्रुति सुश्लिष्टं किञ्चिद् वक्तुमीश्महे, केवलंवार्तिककारस्य कृतकत्वहेतोर् व्याप्तिं समर्थयितुं पूर्वाचार्यैः कामनपेक्षां ब्रुवतोयम् अभिप्रायं (?) प्रकाशयितुं सहामहे । अनपेक्षशब्देन ह्य् अनपेक्षासूचितं बाधकम् अभिप्रेतम् । न त्व् एतदै(द् ए)व बाधकं प्रमाणम् । तथाहि कृतकत्वस्योदयानन्तरम् अविनाशित्वे सति विनाशं प्रति सापेक्षत्वं स्यात् । अन्यथा विनाशयोगात् । विनाशं [53ब्] प्रत्यनपेक्षत्वं तद्धेतुयोगाद् अवगतं तस्य व्यापकम् ततस् तद्व्यापकं स्वविरुद्धविधिना विपक्षात् तद्भावानियतत्वाद् उदयानन्तरम् अविनाशित्वलक्षणात् निर्वतमानं स्वयम् अपि व्याप्यं कृतकत्वम् आदाय निवर्तत इति व्याप्तिसिद्धिः । ततश् च व्यापकविरुधोपलम्भात् कृतकस्य हेतोर् निवृत्तिर् इति व्यापकोपलब्धिवुपर्यये बाधकं प्रमाणम् -- एतत् सुचनार्थम् अनपेक्षां (?) बाधकं प्रमाणम् अस्याभिमतम् । ये यद्भावं प्रत्यनपेक्षा इत्य् एतद् अपि यद्य् अनन्तरोक्तसूचनाद् बाधकं प्रमाणम् उच्यते, कामम् उच्यतां कः प्रतिकूलो ऽनुकूलम् आचरति । न तु जातु तद् एव बाधकं प्रमाणं वक्तुं युक्तम् स्वातन्त्र्येण क्षणिकत्वस्य तेन साधनात् । तद् उक्यमाचार्यशान्तरक्षितेन --
"तत्र ये कृतका भावाः सर्वे ते क्षणभङ्गिनः ।
विनाशं प्रति सर्वेषाम् अनपेक्षतयास्थितेः ॥
यद्भावं प्रति यन् नैव हेत्वन्तरम् अपेक्षते ।
तत् तत्र नियतं ज्ञेयं स्वहेतुभ्यस् तथोदयात् ।
निर्विबन्धा हि सामग्री स्वकार्योत्पादने यथा । विनाशं प्रति सर्वेपि निरपेक्षाश् च जन्मिनः ॥" (तत्त्वसं. 353-355) इत्यादि । ये पुनर् इमं दोषम् उपदर्शितं प्रतिवद[158]न्तो यथाश्रुति बाधकं प्रमाणम् इदं समर्थयितुम् ईशते न तान् वयं[159]विद्मः प्रत्युतोपकारिण एव मन्यामह इति । तर्हि पूर्वाचार्यैर् अकृतकसतां क्षणिकत्वम् उक्तम्, तथा च नित्यत्वम् उर्पक्षेत(?)म् इत्य् आशंक्योपसंहारव्याजेनाह -- तद् एवम् इ[144.9]त्यादि । अहेतोः स्वभावादिनियमायोगाद् इत्य् अभिप्रायेणाह कृ[160]तकत्वस्य सतो ऽभावाद् इ[144.9]ति ।
__________नोतेस्__________
[158] "बहन्तो" इत्य् अपि पठ्यते । [159] अत्र यदि "द्विष्मः" इति पाठः स्यात् तदा बाढं संगच्छेत् । [160] अकृतकस्य स् ।
सामान्येनेत्य् अस्य स्पष्टीकरणं कृतके[144.25]ति तत्स्वभावसापेक्षत्वाद्धि[144.23]नाशिस्वभावसापेक्षत्वात् । विनाशिस्वभावसापेक्ष[161]णाद् इ[144.24]ति हेतुभावेन विशेषणम् । इति[144.25]र् हेतौ । {प्. 369} अ[162]नपेक्षाया [144.25] हेतुभूतायाः स्वतो नस्वतः स्व(नश्वरस्व)भावता तस्या प्र(अ)सिद्धेः हेत्वन्तरव्यापारनिषेधमात्राभिप्रायेण स्व[163]तो [144.25] ग्रहणं द्रष्टव्यम् । अभिधानीयम् अभिधातुम् उचितम् इति मन्यमान [144.27] आचार्य इति प्रकरणात् । संभावनायां [145.4] न्यायबलायातायाम् इति द्रष्टव्यम् ।
__________नोतेस्__________
[161] सापेक्षाणाम् स् । [162] अनपेक्षया स् । [163] सतो स् ।
ननु सत्तायोगादितः सत्वम् अक्षणिकस्योपपत्स्यते तत् कथं शक्तिर् हि [145.18] -- इत्याद्य् उच्यमानं शोभत इत्य् आशंक्याह एवं मन्यत [145.20] इति । त्रिपदार्थसत्करीति सत्ता तैर् इष्यत इत्य् अभिप्रायेणाह -- सामान्यादी[145.22]ति । आदिशब्दात् विशेषसमवायपरिग्रहः । स्वरूपसत्त्वे च तेषाम् इष्यमाणे तद्वद् अन्येषाम् अपि किं [न] भवेत्? इतरेतराश्रयत्वे चैकासिद्धौ द्वयासिद्धिर् दोषः । तेषां [145.24] वन्ध्यासुतादीनाम् । तस्यैव सत्तायोग इत्य् अर्थसामर्थ्यम् एव भावलक्षणम् आयातम् इ[146.3]त्य् एष एव पाठः इति[146.2]शब्देन हेत्वभिधाने अर्थ्यत इत्य् अर्थो दाहपाकादिस् तत्र सामर्थ्यं तद् एव भावलक्षणम् आयातम् इति संगतत्वात् । तस्यैव सत्तायोग इत्य् अर्थ इति प्रमादपाठः । एवं हि सामर्थ्यम् एव भावलक्षणम् इत्य् अकारणम् उक्तं स्यात् के च(क्व च) तत्सामर्थ्यम् इति च नोक्तं भवेत् तस्मा[54अ]द् इत्य् अध्याहृत्य व्याख्याने च क्लिष्टम् इष्टं स्याद् इति । अत्रैवोपपत्त्यन्तरं समुच्चिन्वन्न् आह -- इत्थं चे[146.3]ति अनेन वक्ष्यमाणेन प्रकारेण । एवम् अ[146.3]र्थसामर्थ्यभावलक्षणम् इति । तम् एव प्रकारं दर्शयन्न् आह अन्यथे[146.3]ति । अर्थसामर्थ्याद् अन्येन प्रकारेण ।
मीमांसकादीनां सत्त्वलक्षणम् अपास्यदिगम्बरस्यापि दूषयितुम् आह । उत्पादे[146.6]ति । यद्य् एवम् आहुः:-
"घटमौलिसुवर्नार्थीं नाशोत्पादस्थितिष्व् अयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥" [आप्तमी. 59] "न नाशेन विना शोको नोत्पादेन विना धृतिः ।
स्थित्या विना न माध्यस्थ्यं तस्माद् वस्तु त्रयात्मकम् ॥" इति ।
तथा
"प्रयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥" [आप्तमी. 60] इति । कथम् अयुक्तम् इत्य् आह घ्रौव्येणे[146.7]ति । विरोधाद्धेतोर् एकस्मिन् धर्मिण्ययोगात् [146.7] । एषाम् इत्य् अर्थात् । अनेनासंभवितां लक्षणदोषम् आह -- यथोक्तं [146.10] यादृशम् उक्तं उत्पाद्व्ययघ्रौव्यात्मकं लक्षणं यस्य तत् तथोक्तम् । उत्पादव्ययघ्रौव्याणाम् {प्. 370} असत्त्वप्रसङ्गेनाव्यापितालक्षणदोषो द्रष्टव्यः न चासद्धिस् तैर् अन्यस्य योगो युक्त इति । अन्यथा [146.12] स्वज्ञानजननम् अप्य् अयोग्यशक्तत्वोपगमे(म?)प्रकारेण(?) यदि हि सामान्याद् इति स्वज्ञानं जनयेत् तदार्थत्वेन व्यवस्थाप्येत नान्यथेति भावः । आदि[146.12]शब्देन द्रव्याव्यवस्थादिसंग्रहः ।
क्षणि[164]कत्व [146.27] इति सत् सप्तमीयम् । क्रमयौगपद्याभ्याम् इ[146.28]ति क्रमयौगपद्यकारित्वाभ्याम् इति द्रष्टव्यम् इतरथा कार्यधर्माभ्यामाभ्यां कारणधर्मः कार्यकारित्वं कथम् इव व्याप्येत । यथाचामू कार्यधर्मौ तथोपरिष्टाद्भट्टार्चटेन एव स्फुटयिष्यते ।
__________नोतेस्__________
[164] अक्षणिकत्वे स् ।
अर्थक्रियाकारित्वमात्रक्रमाक्रमकारित्वात्मकार्थक्रियाकारित्वविशेषयोश् चोभयव्याप्तिकत्वात्मकं सत्त्वं क्रमाक्रमकारित्वाभ्यां व्याप्तम् इत्य् उच्यते । अन्यथा सामान्येन विशेषो व्याप्यते । वृक्षत्वेनेव शिंशपात्वम् । न तु विशेषेण सामान्यं व्याप्यते । वृक्षत्वम् इव शिंशपात्वेनेति । कथम् इदम् उच्यमानं शोभेतेति । ततो [146.29] व्याप्यव्यापकभावात् कार्यकारणशक्तरूपव्यापकयोः क्रमाक्रमकारित्वयोर् निवृत्ते[147.1]र् निवृत्तत्वात् । त(क)दा निवृत्तिर् इत्य् अपेक्षायाम् आह अक्षणिकत्व [147.2] इति अक्षणिकत्वे सति । तत्र एवाक्षणिकत्वाद् विपक्षान् निवृत्तेर् इति च सामर्थ्याद् अपादानं द्रष्टव्यम् । कथं तयोस् ततो निवृत्तिर् इत्य् आह -- विरोधाद् इ[147.1]ति । विरोधाद् इत्य् अनुपपत्तेर् इत्य् अर्थ, न तु शास्त्रनिर्दिष्टलक्षणयोर् विरोधयोर् अन्यतरविरोधवशाद् इति । "विरोधशब्देनायोगस्य विवक्षितत्वात् ततश् चाक्षणिकस्य क्रमयौगपद्याभ्याम् अर्थ्क्रियासिद्धिम् अनुसरतासौगतेन[165]विरोध्य् अप्य् अक्षणिकः[166]प्रत्येतव्यो विरोधिप्रतिपत्तिनान्तरीयकत्वाद् विरोधसिद्धिर्[167]इति यदीरितंशङ्कराचार्येण तदपहस्तितम् । अयोगपक्षे ऽपि यावत् सम्भवं दूषणं प्रतिविधानं चास्माभिर्विशेषाख्यान एव विस्तरेणाभिहितम् इति तत एवापेक्षितव्यम् इति. अनेन च यस्य [न] क्रमाक्रमयोगो न त[54ब्]स्य क्वचित् सामर्थ्यम्, यथाकाशकुशेशयस्य. अस्ति चाक्षणिके सति व्यापकानुपलम्भः सत्त्वहेतोः साध्यविपर्यये बाधकं प्रमाणं दर्शितं वेदितयम् । यथा चास्याश्रयासिद्धत्वदोषो न संभवति । अ(त)थास्माभिश्चतुःस(श)त्यांक्षणभङ्गसिद्धौविशेषाख्याने चाख्यातम् इति तत एवावगन्तव्यम् इति. विरुद्धयोः [147.3] सत्त्वासत्त्वयोः । ततो ऽक्षणिकत्वात् ।
__________नोतेस्__________
[165] saugatenaem.(cf. steinkellner 1963: 8 frag. 6) : saugate hbṭā [166] virodhy apy akṣaṇikaḥem.(cf. steinkellner 1963: 8 frag. 6) : virodhyasya kṣaṇikaḥ hbtā [167] virodhasiddherem.(cf. steinkellner 1963: 8 frag. 6) : virodhasiddhir hbtā
क्रमयौगपद्याभ्याम् एवे[147.6]त्य् अत्र क्रमयौगपद्ये कार्यधर्माव् एव विवक्षिते । तेनायम् अर्थः -- कार्यम् अङ्कुरादिकं बीजादिना [147.6] केवलं वा क्रियेतान्यसहितं {प्. 371} चेति । कार्यजन्मनः[168][147.8] कार्योत्पत्तेः । विप्रकर्षिणां [147.10] स्वभावादिविप्रकर्षयुक्तानां ने[147.14]ति सिद्धान्ती । उभयथा [147.15] तस्य प्रकारान्तरस्य दृश्यत्वादृश्यत्वप्रकारेण । कार्यान्तरसाहित्यासाहित्यरूपे क्रमयौगपद्ये विवृण्वता चानेन कार्यधर्मत्वं क्रमयौगपद्वयोर् व्यक्तम् उपदर्शितम् । अत एव क्रमयौगपद्याभ्यां कार्यक्रियाव्याप्तेत्य् अस्माभिर् व्याख्यातं तथा । तदुभयावस्थाविरहेपि [147.17] कार्यान्तरसहितासहितावस्थाभावेप्य् अङ्कुरादेर् इति प्रकरणात् । अन्यथाभवनं [147.18] प्रकारान्तरम् । भवत्व् एवं, ततः किम् आयातम् इत्य् आह -- तस्य चे[147.18]ति । अनेन दृश्यात्मत्वं तस्य समर्थितम् । अस्तुं दृश्यानुपलम्भात् कस्मिंश्चिद् देशे काले च तस्याभावव्यवहारो ऽन्यस्मिन् पुनर् देशे काले चाप्रतिषेधात् कथं तत्र प्रकारान्तरस्याभावः सिद्ध्यतीति आशंक्याह । तस्य चे[147.23]त्यादि । अङ्कुरादिभावस्य अङ्कुराद्युत्पादस्य अवस्थाद्वयबहिर्भावनिषेधे कार्यान्तरसहितासहितावस्थाबहिर्भावस् ताभ्यां प्रकारान्तरं तस्य निषेधे दृश्यानुपलम्भकृते सति ह्य् अनि(सति नि)षेध इत्य् आह -- कयोश्चिद् इ[147.24]ति । देशान्तरादौ (147.24) भावेपी[147.25]ति तस्याङ्कुरादेर् इति प्रकरणात् न काचित् क्षतिः [147.25] । किं भूते देशान्तरादाव् इत्य् आह क्रमेणेत्या[147.24]दि । इतरस्मिन् वा [147.24] युगपदङ्कुरादिभाववति वा । एतच् च हेतुभावेन विशेषणम् । अयं चाशयो देशान्तरादिर् अप्य् एतद् देशान्तरवत् क्रमेन वा तद्भाववान् युगपद् वा भवितुम् अर्हति, तदुभयावस्थाबहिर्भावस्य निषिद्धत्वात् । सति चैवम् अदोष एवेति । न काचित् क्षतिर् इ[147.25]ति ब्रुवतश् चायम् अभिप्रायः -- कार्यस्य चैकत्रैकदावस्थाद्वयबहिर्भावो निषिद्धो ऽन्यदापि तेन भवता प्रमाणपरिदृष्टात्मनैव भवितव्यम् अन्यथा तत् कथं देशान्तरादौ प्रकारान्तरम् आशंक्येति(क्येतेति) । प्रकरणम् उपसंहरन्न् आह त[त] [147.25] इति ।
__________नोतेस्__________
[168] कार्यात्मनः स्
ननु संप्रत्येवोक्तः स्वभावानुपलम्भ एवेत्यादि तत् कथम् इदानीम् उच्यते प्रत्यक्ष [147.25] इत्यादीति चेत् । नैष दोषः पूर्वं हि मूढं प्रतिपत्तारं प्रति तथोक्तम् अधुना पुनर् अमूढं प्रतीति को व्याघातः ।
क्रमयौगपद्ययोर् इ[148.1]ति क्रमाक्रमयोर् इत्य् अर्थः सकृतप्रत्युपलक्षणेन यौगपद्यशब्देनाक्रमस्यैव विवक्षितत्वात् अन्यथान्यो ऽन्यव्यवच्छेदरूपता दुरुपपादापद्यते ततः सर्वत्रैवाक्रमार्थी(र्थो) यौगपाद्यार्थः । अत एवास्माभिर् अक्रमशब्देन यौगपद्यमनूदितम् इति । तस्य [148.3] प्रकारान्तरस्य प्रतिषेधः । [55अ]उभयनिषेधात्मकम् एव प्रकारान्तरं किं {प्. 372} न भवति येनैकनिषेधनापरविधानात् तस्य निषेधो भवतीत्य् आह -- विधिप्रतिषेधयोर् इ[148.4]ति । अयम् अभिप्रायः -- क्रमो न भवतीति अयम् एवाक्रमविधिः । सोपि न भवतीति तदैव तस्य निषेधः अनयोश् चैकाधिकरणयोर् एककालिकयोर् विरोधस् तस्मात् तथाभूतस्या...ं...व इति । तस्याप्रतिषेध [148.3] इति त्व् अपाठ एअ । कारणम् अपि कारणापेक्षया कार्यम् एवेति कारणग्रहणम्, न तु कारणत्वेनास्योपयोगो ऽत्र कश्चित् । कर्य एव प्रकारान्तरासंभवस्य चिन्त्यत्वात्; यद् वा कारणेन क्रियमाणे कार्य इति ज्ञापनार्थं कारणग्रहणं वास्तवं रूप(वरू)पानुबादकं प्रतिषेधस्य यद्विरुद्धं तस्योपलब्धिर् इत्य् आशंका एतद् एवोपपादयन्न् आह व्यवच्छिद्यमाने[148.10]ति । इतरस्य व्यवस्थानम् इ[148.10]ति तथव्यवच्छिद्यमानप्रकाराद् इतरव्यवस्थानम् इति तथा ।[169]सम्भवं हेतोः [148.15] सद्भावम् इति प्रकरणात् । संभवग्रहनं चोपलक्षणं तेन पूर्वसिद्धां च व्याप्तिं प्रदर्श्येत्य् अपि द्रष्टव्यम् । विरोधसाधनम् एवा[148.15]र्थात् प्राक्प्रवृत्तम् इत्य् अवसेयम् । बाधकम् इत्य् अस्याविरुद्धोपलब्धेः साध्यविपर्यये बाधकं [148.15] प्रमाणम् उच्यत इति चाध्याहार्या(र्य)क्रियापेक्षयायं क्त्वाप्रत्ययः कार्यो ऽन्यथा कां क्रियाम् अपेक्ष्येयं पूर्वकाला प्रदर्शनक्रिया प्रदर्शयितव्या यत्रायं भवेत्, यथाश्रुति भिन्नकर्तृकायां च क्रियायाम् अयं प्रसज्येत पुरुषसम्बधित्वात् प्रदर्शनस्येति । विरुद्धमात्राभिप्रायेण शीतोष्णस्पर्शयोर् इ[148.16]त्य् उदाहरति ।
__________नोतेस्__________
[169] सद्भावं स्
ननु क्रमाक्रमाभ्यां कार्यं कामं व्याप्यतां तथाप्य् अक्षणिकः क्रमेणाक्रमेण वा कार्यं करिष्यति । सति चैवं व्यापकानुपलम्भो ऽसिद्ध इत्य् आशंक्याह -- तत्रेति [148.18] । अविशेषात् [148.18] पूर्वरूपाविशेषात् । एतद् एव दृष्टान्तव्याजेन व्यनक्ति अकारकावस्थायाम् इवे[148.18]ति । अपेक्षितसहकारिप्रत्ययः सन्करोति नान्यदेत्य् आह -- सहकार्यपेक्षा चे[148.19]ति । अनुपन्यसनीये[148.20]ति च सम्बन्धः; कुत इत्य् आह द्विविधस्यापी[148.19]ति । अथ यथा भिन्नदेशानेककार्यकारित्वम् एकस्य स्वहेतु(तो)स् तथोत्पादाद् उपपद्यते तद्धि(तद्वद्भि)न्नकालानेककार्यकरणम् उपपत्स्यते तत् कुतः क्रमकारित्वानुपपत्तिर् अक्षणिकस्येति चेति(चेत्) । तद् एतच्चतुःस(श)त्यां क्षणभङ्गसिद्धाव् अस्माभिः सूक्तं प्रत्युक्तम् इति तत एवानुगन्तव्यम् ।
ननु कारणलक्षणस्य क्रमस्य क्षणिकपक्षेप्य् अनुपपत्तेः समानो दोष इति चेद् एतद् अपि तत्रैव निर्णितम् इति नेहोच्यत इति । सर्वेषां [148.20] चेति द्वितीयादिक्षणभाविनाम् इत्य् अवसेयम् । एकक्रियाकाल एव [148.20] प्रथम क्षणक्रियाकाल {प्. 373} एव । तत्कारण[क]स्य [148.21] द्वितीयादिक्षणभावित्वेनाभिमतकार्यकारकस्य तदैकक्रियाकले, एव[148.20]कारो भावाद् इत्य् अस्मात् परो द्रष्टव्यः । अनेन च यद् यदा यज्जनसमर्थं तत् तदा जनयत्य् एव यथा अन्त्या कारणसामग्री । द्वितीयादिक्षणभावित्वेनाभिमतकार्यजनस्वरूपश् चाक्षणिकः प्रथमक्षण इति स्वभावहेतुप्रसङ्गं सूचयति । नापि युगपत् [148.21] । "[55ब्]अक्षणिकः कार्याणि करोती"[148.18]त्य् अभिसम्बध्यते । येन स्वभावेन तत्कार्यमजीजनत् तस्य स्वरूपस्यानुवृत्तेर् इत्य् अभिप्रेत्य पुनस्[170]तत्करणप्रसङ्गाच् चे[148.22]त्य् आह । अनेनापि समुदाये यज्जननसमर्थं तत् तदा त तज्जनयत्य् एव यथान्त्यः कारणकलापः । कृतकत्वेनाभिमतकार्यकरणरूपश् चाक्षणिको द्वितीयादिक्षण इति स्वभावहेतुप्रसङ्गम् एव दर्शयति । अनयोश् च प्रसङ्गहेत्वोर् उपदर्शितयोर् अर्थादुन्नीयमानयोश् च प्रसङ्गविपर्यययोर् यावत् संभवं दूषणं तदुद्धरणं चास्माभिर्विशेषख्याने समीचीनं निरूपितम् इति तत एवावगन्तव्यम् इति । अकारकरूपाविशेषाद् [148.23] इदानीं यद् अकारकरूपम् अस्य तस्माद् अविशेषाद् इत्य् अर्थो ऽवसातव्यः । भेदप्रसङ्गः [148.25] शक्ताशक्तयोरूपयोर् इत्य् अर्थात् । अत्रैवोपपत्त्यन्तरम् उपचिन्वन्न् आह नित्यश् चे[148.25]ति ।[171](पूर्वोत्तरकालभावा च उपपत्त्योर् भेदो ऽवसेयः पूर्वकालहेतुर् अकाले च) एकदा [128.28] एकस्मिन्न् एव क्षणात्मनि काले सर्वस्य कर्तव्यस्यैकदा [148.29] एव कृतत्वाद् अर्थक्रियाकारित्वाभावाद् असत्त्वं स्यात् । इति[149.1]र् हेतौ । प्रकरणम् उपसंहरन्न् आह एव[149.2]म् इति ।
__________नोतेस्__________
[170] पुनस् तत्क्रियाप्रसङ्गात् स् । [171] कोष्ठकान्तर्गतः पाठः असम्बद्धो भाति ।
आर्यज्ञानं तन्वंतीति आयतनानि । चक्षुरादीनि [149.3] च तान्य् आयतनानि चेति तथा । अन्तर्व्याप्तिवादिनोप्य् अस्य मते प्रमाणसिद्धस्यैव धर्मित्वं वाच्यम् अन्यथान्तर्व्याप्तिर् असमर्थिता स्यात् । ततश् चक्षुराद्यायतनानाम् अमीषां प्रमाणसिद्धानाम् इति द्रष्टव्यम् ।
स्याद् एतद् यत् सत् तत्क्षणिकम् एवेति नियतं क्षणिकत्वं साधयितुं किल सत्त्वाख्यो हेतुर् उपदीयते । अयं चाखिलं वस्तु नाक्षणिकं नापि क्षणिकम् इति साधयन् साध्यविपर्ययसाधानाद् विरुद्ध एव । तथा चावादीद्वादन्याये स्याद् वादकेशरी-- "अखिलस्य वस्तुनो ऽनेकान्तिकत्वं सत्त्वात् । अन्यथार्थक्रिया कुतः" -- इति । एतच् च व्याचक्षाणेन कुलभूषणेन टीकाकृता एवं व्याख्यातम् उपपादितञ् च -- "अखिलं चराचरं सूक्ष्मव्यवहितविप्रकृष्टं वस्तु धर्मित्वेनोपात्तम् । अन्तो धर्मो नैको ऽनेको ऽन्त आत्मा स्वरूपं यस्य तद्भावस् तत्त्वम् -- अयं साध्यो धर्मः सत्त्वाद् इति हेतुः । अन्यथानेकात्मकत्वाभावप्रकारेण -- {प्. 374} अर्थक्रिया कार्यं सं(र्यसं)पादनं कुतो न कुतश्चित् । अनेनान्यथानुपपत्तेर् विपर्यये बाधकं प्रमाणं समर्थकं दर्शितम् --
"अन्यथानुपपन्नत्वं यस्यासौ हेतुर् इष्यते ।
दृष्टान्तौ द्वावपिस्तां वा (?) याचातौ हि न कारणम् ॥" इति न्यायात् ।
तन् न तावद् अक्षणिको भावः कार्यं कऋतुं शक्नोति । तस्य क्रमयौगपद्याभ्याम् अर्थक्रियाविरोतचत(राधात्) नापि क्षणिको भावः कार्यं कर्तुं प्रभवति । तथाहि किं क्षणिको भावः स्वसत्ताकाले कार्यकरणस्वभावो ऽथान्यदा । यदि प्रथमविकल्पस् तदा तदैव कुर्यात् । स्वसत्ताक्षणे च कार्यकृतौ सर्वं जगदेकक्षणवर्ति प्राप्नोति । तथाहि कारणं स्वसत्ताक्षण एव यत् कार्यम् अकृत तद् अप्य् अन्यस्य कारणम् इति तद् अपि तदैव स्वकार्यं कुर्यात् । तद् अपि कारणम् अन्यस्येति तद् अपि तदैव कुर्याद् एवम् उत्तरेष्व् अप्य् अयम् एव न्याय इति । सत्यम्, का[56अ]रणं स्वसत्ताक्षण एव कार्यङ्करोति, तत्करणस्वभावत्वात्, केवलं कार्यम् अन्यदोत्पद्यत इति चेत् । तर्हि कार्यम् अपि तदैवोत्पद्येतान्यद तत्कालं परिहृत्य कार्योत्पत्तिर् विरुध्येत[172]उत्पत्ताविष्यमाणां(णायां) वा समनन्तरोत्पादविरोधः । तथाहि तत्करणसमर्थस्यापि कालम् उज्जित्वा जायमानस्य कार्यस्य कारणकृतोपकारपराङ्मुखस्य यो ऽयं समनन्तरनियम एतद्विनाशानन्तरम् एवेदम् अस्य कार्यम् इति तस्यानुपपत्तिः । सोयं कारणविनाशो विरूपाख्यो ऽकिङ्चित्करस् तथापि यदि तत्समनन्तरनियमः कार्यस्य स्यात् तदा नित्यस्यापि कारणत्वम् अप्रतिहतं स्यात् । तथाहि यथा स्वसत्तालक्षण एव कार्यकरणस्वभावे क्षणिके भावे सत्य् अपि न तदैव कार्याण्य् उत्पद्यन्ते अपि तु कालान्तरे, तथा नित्येपि भावे सर्वदा तत्करणसमर्थे ऽपि कार्याण्य् एव विलम्ब्य विलम्ब्योत्पद्यन्त इति किं न समानम् । न च द्वितीये क्षणे निर्व्यापारतया सदसतोर् अक्षणिकक्षनिकयोः कश्चिद् विशेष इति ।"
__________नोतेस्__________
[172] अत्र प्राक्तनं "अन्यदा" पदं समाकृष्य अन्यदोत्पत्तौ इष्यमाणायाम् इत्य् अर्थः कर्तव्यः ।
यदिनामाह्रीकोक्तिर् उपेक्षणीया प्रेक्षावतां तथापि किञ्चिद् उच्यते । इह खलु कार्यकारित्वं वस्तूनां न व्यापारसमावेशात् उत्पादातिरोकिणो व्यापारस्यानुपपत्तेः, नापि कार्येण सहोत्पादः, सव्येतरविषाणयोर् इव सहभुवोर् अन्यतरकारित्वानुपपत्तेः ।
"असतः प्रागसामर्थ्यात् पश्चाच् चानुपयोगतः ।"
इति न्यायात् । किं तर्हि किञ्चिद् अनन्तरं सत्तयाभिसम्बध्यमानं प्रति नियतप्राग्भावित्वम् एव, कार्यस्यापि नियमेन तदनन्तरभावित्वम् एव तज्जन्यत्वम् । सति चैवं स्वसत्ताकाले कार्यकरणस्वभावो भाव इति को ऽर्थः? तत्सत्ताकालं पूर्वं कृत्वा कार्यं सत्तयाभिसंबध्यत इति । तथा स्वलक्षण(स्वक्षण) एव करोतीत्य् अस्यापि को ऽर्थः? अनन्तरभाविकार्यात् पूर्वं सद्भवति {प्. 375} कारणम् इति । तद् उक्तं "भूतिर्यैव क्रिया सैव" इत्यादि । इत्थं चैकप्रहारनिय(ह)तम् एव तत्सर्वंदिगम्बरेरितम् । ततश् च क्षणिकस्यैवार्थक्रियोत्पत्तेः सत्त्वं क्षणिकत्वम् एव साधयद् विरुद्धम् आचक्षाणाःक्षपणाअनेकान्तत्वे च साध्ये साधनम् इदम् उपनयन्तः स्फुटमहीकावेति(महीका एवेति) उपेक्षाम् एव प्रे...वितामर्हन्तीति ।
स्वभावहेतुं व्याख्याय कार्यहेतुं व्याख्यातुकामोवार्तिककारस्य कार्यहेत्वभिधानस्य निमित्तम् दर्शयन् पूर्वापरयोः संगतिं तद् एवम् इ[150.3]त्यादिना करोति । तद्गतं [150.5] कार्यहेत्वाश्रितम् । कस्मात् पुनः स्वभावहेतुवद् अप्य् अस्यान्वयव्यतिरेकाव् एव न प्रतिपाद्येते, येन तद्गता परभ्रान्तिकारणोपादानर्थम् एव कार्यहेतुविषयो[प]दर्शनं वर्ण्येत इति आशंक्य कार्यहेताव् इ[150.4]त्यादि योज्यम् । तयोर् अ[150.4]न्वयव्यतिरेकयोः । तर्हि कार्यकारणभावसिद्धिर् एतद्दर्शनीया ततश् च तां दर्शयितुम् इति किं नोच्यत इत्य् अपेक्षायां तस्याश् चे[150.5]ति योज्यम् । तस्याः कार्यकारणभावसिद्धेः । हेतोः प्रत्यासन्नत्वात् [56ब्] हेतोर् व्यतिरिक्त [150.7] इत्य् आचष्टे । कार्यं [150.7] कार्यम् एवेति विवक्षितं । "त्रिधैव स" इति नियमस्य पूर्वं प्रतिपादितत्वात् अत एव कस्मात् कार्यम् एवे[150.8]ति पश्चाच् चोदयिष्यते । अनर्थान्तरे व्यावृत्तिभेदात् परिकल्पितव्यावृत्त्यन्तररूपं धर्मान्तरे । असाधारणं कार्यं [150.9] ।
दिङ्[173]नागेन[174](सर्वव्यक्तिष्व् अनुपग(ष्व् अनुग)तप्रत्ययप्रसूतिः?) ।
__________नोतेस्__________
[173] "आचार्येण" [150.13] इत्य् अस्य विवरणं दिग्नागेन इति भाति । [174] "सर्वव्यक्तिष्व् अनुगतप्रत्ययप्रसूति?" इदं शंकाचिह्ञितं पदं नात्रत्यं किंतु अग्रेतनं भाति । तच् च "अग्नेर् इति" इत्य् अस्य अनन्तरं यदि स्यात् तदा संगच्चेतापि । तत्रापि सामान्यपदं गच्छितं भाति । तथा च सर्वव्यक्तिष्व् अनुगतप्रत्ययप्रसूतिः सामान्यं इत्य् अर्थः स्यात् ।
सर्वथा तद्भावम् एव प्रतिपादयन्न् आह -- अग्नेर् इ[150.17]ति । अस्याश्रितत्वाद् अग्नेः अग्नित्वं सर्वाग्निव्यापनाद् अनुगतप्रत्ययहेतुत्वविवक्षयैव सामान्यधर्मा अपि गमकाभिप्रेतास् त इव । तार्णत्वादेः सर्वाग्न्यव्यापनाद् व्यावृत्तप्रत्ययहेतुत्वा(त्व)विवक्षया विशेषधर्मत्वं विवक्षितम्, न तु सर्वथा सामान्यरूपत्वम् अस्य निराचिकीर्षितम् सर्वतार्णादिवह्निष्व् अनुगतप्रत्ययप्रसूतिहेतुत्वात्, सामान्यरूपस्य चात्राव्याघातात्, अन्यथा तार्णवह्न्यादिजन्यरूपतयावधारितात् धूमान्वयता(मान् न वह्निता)र्णाद्यनुमानं स्यात् विशेषरूपस्याव्यापकतया अननुमेयत्वात् । तेपि विशेषधर्मा गम्याः स्युः, इष्यन्ते चाग्नेः सामान्यधर्मा एवाग्नित्वद्रव्यत्वसत्त्वज्ञेयत्वादयो गम्या इति भावः । धूमस्यापि विशेषधर्मवत्सामान्यधर्मा गमकाः स्युः न चेष्यन्ते सत्त्वज्ञेयत्वापार्थिवत्वादयो गमका इति भावः । को ऽसौ धूमाश्रितो विशेषधर्मो {प्. 376} दृष्टान्तीकृत इति चेद् एवं धूमत्वपाण्डुत्वादिभिर् इ[150.23]त्य् अत्र धूमत्वादि निरूपयिष्यंतो निर्देक्ष्यामः ।
ननु कार्यत्वस्य तद्भावाख्यैकसम्बन्धवशाद् गमकत्वं तत् कथं "सर्वथा जन्यजनकभावाद्" इत्य् उच्यत इत्य् आशंक्याह जन्ये[150.20]ति । सर्वथा जन्यजनकभावम् एव प्रतिपादयन्न् आह तथाही[150.21]ति । पूर्वोक्तेन प्रकारेणाग्नित्वादीनां सामान्यधर्मत्वं ज्ञेयम् । सर्वं चैतद्धर्मभेदपरिकल्पनयोच्यते । तृणे भवो वह्निस् तार्णः [150.22] । पर्णे भवः पार्णः [150.23] । भावप्रधानश् चैव निर्देशस् तेन तार्णत्वादिभिर् इत्य् अर्थः ।
ननु यथाग्नित्वं सकलाग्निव्यापनेनानुगतप्रत्ययहेतुत्वात् सामान्यधर्म उच्यते तथा धूमत्वम् अपि सामान्यधर्म एव । यथा च द्रव्यत्वादयो ऽग्न्यनग्निसाधारणत्वाद् अनुगतबुद्धिनिबन्धनत्वेन सामान्यधर्मास् तथा पाण्डुत्वम् अपि धूमनीहारादिगमनाद् अनुगतज्ञानकारणत्वाच् च सामान्यधर्म एव तत् कथममू विशेषणे धर्मित्वेनोदाहरणीकृते इति । साधूक्तं भवति(ता) केवलं बोधे यत्नः करणीयः । इह खलु सर्वधूमव्यक्तिव्याप्यनुगतप्रत्ययहेतुधूमत्वम् एव सामान्यविशेषो विजातीयाद् व्यावृत्तप्रत्ययपुरस्कारेण विशेषधर्मो विवक्षित इत्यादिचोद्यम् अपोदितम् । एवं सत्य् अग्नित्वम् अपि विशेषधर्म इत्य् अग्नेर् विशेषधर्मस्यापि गम्यत्वम् आयातम् इति चेत् । तथाविधस्य विशेषधर्मस्य गम्यत्वेनेष्टत्वान् न कश्चिद् दोष इति । अवान्तरविशेषस्य तु तार्णत्वादेर् गम्यत्वम् दूममात्रस्य तदप्रतिबन्धान् निषिध्यत इति किम् अवद्यम् । धूमस्य विजातीयासाधारणधर्मवाचकश् च पाण्डुशब्दो ऽस्ति योनेनोपात्त इति द्वितीयम् अपि चोद्यम् अपोद्यते । स [57अ]चैतच्छब्दाभिलाप्यो धर्मो दुर्ज्ञान इत्य् अग्निर् अत्र पाण्डुत्वाद् इति नोच्यत इति सर्वम् अवदातम् ।
स्वभावैवध[151.8](वैर् ध)र्मैर् इत्य् अर्थः । अपरोर्थ [151.13] इति । यावद्भिर् अविनाभाविकारणस्य बाह्यैकदेशस्यान्यो ऽर्थो न तु समुदायग्रन्थस्यामुमर्थम् अन्तरेण पूर्वार्थमात्रेण वाक्यस्यासंगतत्वात् । संबध्यत [151.11] इति तत्कार्यं तेषां हेतुर् इ[151.15]ति सम्बन्धः कार्य इत्य् अर्थो न तु पूर्वव्याख्यानोक्तम् अत्रापि व्याख्याने ऽभिसम्बध्यत इति बोद्धव्यम् । पूर्वव्याख्याने तेषां स्वगतानां धूमत्वादीनां हेतुर् इति प्राप्ताव् अर्थां सं(व् अर्थासं)गतेर् एव संबन्धनीयत्वाद् इति । तेषां इति कारणगतानां धर्माणां हेतुस् तत्कार्यम् इति पूर्वोक्तम् अभिसंबध्यते । कैः स्वभावैर् हेतुर् इत्य् अत्र गजनिमीलिकैव कृता एतद् एनुसन्धानेन न त्व् अनन्तरं वाक्यं भविष्यति । केचित् पुनर् अत्रैवम् आहुः -- उक्ते सति नियतम् एतद् व्याख्येयं नान्यथा । सति चैवं पूर्वव्याख्यानस्य क्वोपयोगः । तस्माद् यतस् तदुत्पत्तिनियमाभावे सर्वथा जन्यजनका(क)भावो व्यवस्थापयितुम् अयुक्तस् तस्माद् यावद्भिः कारणे {प्. 377} व्यवस्थितैर् धर्मैर् विना तत्कार्यं न भवति तावतां हेतुर् नान्येषां तत्कार्यत्वनियमाद् इत्य् एवं व्याख्यातुम् उचितम् इति । अत्र तु समाधानम् अत्राभियुक्तैर् एव दातव्यम् इति ।
पूर्वव्याख्यानस्य पश्चाद्व्याख्याततया पश्चाद्भवेन पाश्चात् येनार्थेन [151.20] कारणाश्रितानां तावतां हेतुर् इत्य् अनेन कारणगतम् अंशम् इ[151.20]वांशं धर्मं निरूप्य साध्यत्वेन निश्चित्य पश्चाद्व्याख्याताद् अर्थात् प्राग्व्याख्यातत्वेन प्राग्भवेन प्राक्तनेनार्थेन "यावद्भिर् धूमत्वादिभिः स्वगतैर्" इत्य् अनेन कार्यगतमशं धर्मं निरूपय[151.20]न् प्रकरणाद् गमकतया निश्चिन्वन् । पूर्ववत् पाण्डुत्व[151.23]म् अनयोः विशेषरूपत्वं च प्रत्येयम् । परेषाम् उ[152.8]भयत्राविशिष्टरूपसंयोगवशाद् गम्यगमकभावम् इच्छताम् इत्य् अभिप्रायः । ग्रहीतुं [152.20] निश्चेतुम् । धूमत्वं विशेषणं यस्य तेन धूमत्वाद् इति विशेषणे तु द्रव्यत्वादौ हेतुतयोपनीयमाने समर्थविशेषत्वेनासाधनाङ्गवचनात् कथम् एव क्ष्मादीनि गृह्यत इतिभट्टार्चटेणापि शङ्कितम् न च परिहृतम् इति किम् अस्माकम् अत्र परिश्रमेणधर्मोत्तरादेर् एव तु तदवसेयम् इति ।
यथाइव जन्यजनकभावस् तथैव किं न गम्यगमकभाव इत्य् आह नही[152.25]ति । वस्तुवृत्त्यपेक्षयैव कस्मान् न तथात्वम् किं पुनर् निश्चयापेक्ष इत्य् आह -- तथाही[152.26]ति ।
ननु भवो भवतो यस्माद् भावशंकायां नान्वयव्यतिरेकाव् इत्य् उक्ते ततो ऽभाव उच्यमानः कथं शोभत इत्य् आशंक्याह एवं मन्यत [154.12] इति । शक्रमूर्द्धा [154.28] वल्मीकः इति ।
मन्यमान आह -- सर्वः [155.13] तथाविधजन्मे[155.15]ति कुत [155.17] इति द्रष्टव्यम् ।
ननु उक्तम् एव तदुत्पन्नम् एव कार्यं कारणम् अपेक्षते न तु तादृशातादृशतायां ततस् तयोर् हेतुनिरपेक्षयोर् इष्टत्वाद् एव किम् अनेनोक्तेनेत्य् आशंक्याहेतुकत्वे सर्वत्रैवोत्पत्तरितयो (?) विशेषेणभावः स्याद् इति इत्यादिदूषणम् उत्पत्स्येव (?) कारणनिरपेक्षत्व[57ब्]म् एव तयोर् असहमान आह नही[159.4]ति । तदपेक्षा इत्य् अपेक्षा ।
अपराजितशब्देन यो लताविशेष उच्यते स सूर्यशब्दाभिधेयो ऽवसेयः । इतर [161.24] शब्देन लताचम्पको वृक्षचम्पकसमानाकारो देशविशेषभवो वक्तव्यो न तु भूमिचम्पक इति यस्य रूढिः तस्य वृक्षचम्पकेन सहाकारसाम्यस्यैवाभात् ।
क्षणभेदा(धानं[175]कुतश्चिद् रूपात् कथंचित् तेन सहैकप्रत्यवमर्शजनना)श्रयत्वेनैव सूक्ष्मावान्तरजातिभेदे [162.18] । जातिभेदे कथम् एकसंतानव्यवस्थेत्य् आह -- {प्. 378} सर्वे[162.20]ति । यद्य् एकाकारप्रत्ययनैवनुनैव्यप्रत्यय(निबन्धनै)कसन्तानव्यवस्था तदान्यस्य सो(स्वो)पादानेन सहैकसंतानव्यवस्था न स्यात् सा चावश्यवाच्यान्यथा स्वसन्ततिपतितकार्यजनकत्वेन या तस्योपादनत्वेनाभिमतस्योपादानव्यवस्था सा न स्याद् इत्य् अभिप्रायवान् परश् चोदयति आद्यस्ये[162.22]ति । जात्यनुविधानं कुतचि(श्चि)द् रूपात् कथञ्चित् तेन सहैकप्रत्यवमर्षजननम् । तथाही[162.23]त्यादिनैतद् एव समर्थयते । अगुरुजातिभेदानुकरणं तद्धूमस्यागुरुगन्धसहचारितया प्रत्यवमर्षजनकत्वम् । अनुकुर्वन्त्येवेति वर्तते तद्धूमाः [162.24] तद्वर्तिंधूमाः । तद्भेदानुकरणम् एषां कुतो ज्ञायते इत्य् आह -- तद्रू[176]पे[162.25]ति । यस्माद् इन्धनेन सह धूमस्य केनचिद् रूपेण एकाकारपरामर्शजनकतयैकसंतति [व्यवस्थानाद् येन (?)] तस्मात् इन्धनम् एवेति स्थूलेनायं व्यपदेशो वस्तुतस् तु तद्गतार्द्रसन्तानविशेषस् तस्योपादानकारणं ज्ञेयं सन्तानस् तु तस्याङ्गारादेः । यथा चैतत् तथाधर्मोत्तरेण विनिश्चयटीकायां निर्णीतम् इति तत एवापेक्षितव्यम् । प्रसज्यते प्रतिपाद्यत इति प्रसङ्गो ऽतिशयितः प्रसङ्गो ऽतिप्रसङ्गस् तेनालम् अ[163.4]तिविस्तरेणेत्य् अर्थो ऽत्र द्रष्टव्यः ।
__________नोतेस्__________
[175] कोष्ठकगतः पाठः प्रत्यन्तरे दृश्यते स च न सम्यग् भाति । [176] दुर्वेकानुरोधेन "तद्रूपरसवीर्य" इत्यादि पाठः स्यात् ।
तस्य [163.6] कार्यभेदस्यातादृशत्वलक्षणस्याभावात् । तस्येति भेदस्य तस्मिन् सत्य् अजायमानस्यापि कथम् अहेतुत्वम् इति पार्श्वस्थवचनम् आशंक्याह नही[163.9]ति । असत्य् अभेदे [163.11] प्रकरणाद् असति सामग्र्यभेद इत्य् अर्थः । कुतः पुनर् असत्य् अभेदे जात इत्य् अपेक्षायां योज्यं सामग्र्योर् इ[163.11]ति । हेतौ [163.12] सामग्र्योर् भेदे ऽन्यादृशत्वलक्षणे सत्य् अभवतो भेदस्य तथा तद्वत् हेतौ [163.12] सामग्र्यभेदलक्षणे ऽसत्य् अपि भवतो भेदस्येति प्रकरणात् । अभेदस् तादृशत्वम् एकजातीयत्वम् इति यावत् तस्य निबन्धनत्वात् [163.14] शालिकोद्रवादौ भेदस्य भावात् कथं न क्वचित् पदानुबन्ध इत्य् आह शाली[163.15]ति । तद्धेत्वोर् अभेदहतुत्वात् तयोर् अप्य् अभेदेनैव भवितव्यम् इति तद् अपि पक्षीकृतम् एवेति भावः । हेतुभेदे ऽपि शालिकोद्रवादेर् न तत्कु(कृ)तो भेदो ऽन्यादृशत्वम् अपि त्व् एवम् एवेत्य् आह -- निमित्तम् अन्तरेणे[163.13]ति । कल्पनायां भेदकल्पनायां विशेषाभावान् निर्मित्तत्वेन विशेषाभावात् [163.16] शाल्यन्तरे ऽपि किं न कल्प्यत इति शेषः प्रकरण लंभ्यम् वा । यद् वा न हेत्वभेदो ऽभेदस्य निबन्धनम् । नापि हेतुभेदः कित्व् एवम् एवाभेदो भविष्यतीत्य् आ[58अ]ह -- निमित्तम् इ[163.16]ति । कल्पनायाम् अभेदकल्पनायाम् । विशेषाभावाच् छालिकोद्रवयोर् अपि भे(अभे)दः किं न कल्प्यत इति पूर्ववत् ।
स्याद् एतत् प्रतिभासनियमनिबन्धनोयम् अभेदो नान्यनिबन्धनस् तत् किम् एवम् उच्यते इत्य् आह प्रतिभासे[163.16]ति । प्रतिभासस्य भेदस् तादृशत्वम् । तस्य स(भ्रा)न्तिनिमित्ताद् {प्. 369} आ[163.17]कारसाम्यादेः परमार्थतो भेदे ऽप्य् अतादृशत्वेप्य् उपलक्षणाद् दर्शनानैवम् इति द्रष्तव्यम् । एवम् उपलक्षणत्वाद् अस्य भेदविचारावसरे ऽपि प्रतिभासभेदाद् भेद इति पूर्वपक्षे प्रतिभासभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो ऽभेदेप्य् उपलक्षणाद् इति वक्तव्यम् । उभयत्रापि तु यदि प्रतिभासभेदाभेदाव् अप्य् अपरप्रतिभासभेदाभेदनिबन्धनौ तत्रापि तत्प्रत्यनवस्था तस्माद् आद्ययोर् अपि तथात्वं व्यवस्थापयितुं न शक्यत इति दोषो दर्शयितव्यः तयोः [163.21] भेदाभेदयोः । तस्य [163.22] स्वंभावस्य । ताभ्यां [163.22] भेदाभेदाभ्याम् । तेभ्यां भावस्वभावभेदाभेदेभ्यो ऽन्यः स चासौ सम्बन्धश् चेति तथा तस्य कल्पना [163.23] तस्याम् । सोपि तेषां कुत इत्य् आकांक्षायां सम्बन्धाङ्गीकरणं तत्रापि तत्पर्यनुयोगे तद् एवोत्तरम् इत्य् अनवस्था । स्वात्मन्य् एवावस्थानाद् इ[163.24]ति ब्रुवतो ऽयं भावो यदि भावस्वभावे तयोर् अनुप्रवेशस् तदा स एवावतिष्ठेत न तु तौ । अथ तयोस् तस्यानुप्रवेशस् तर्हि ताव् अवतिष्ठेयातां न त्व् असाव् इति । पुनर् भेदपक्ष एव दोषान्तरं समुच्चिन्वन्न् आह अनुपकाराच् चे[163.25]ति । यौ भेदाभेदौ तादृशत्वातादृशत्वलक्षणाव् असौ प्रतिपद्यते ताव् अपि यदि भिन्नौ [164.1] ततो व्यतिरिक्तौ । तादवस्था (तदबस्थः) [164.2] न भिन्नं नाप्य् अभिन्नं यत् तदवस्थम्, यदवस्थं भेदाभेदप्रतिपत्तिकाले । तस्य [164.2] भावस्वभावस्य । तस्य [164.6]
स्वरूपान्तरेण क्रियमाणस्य । तत एव हेतुबलायातात् कुतश्चिद् भिन्नाभिन्नाद् रूपाद् विशेषसामान्यात्मनो[164.11]र् इत्य् अत्र विशेषशब्देन स्वलक्षणं न वाच्यम् । तस्य भिद्यत इति व्युत्पत्त्या भेदरूपत्वापत्तेर् अयोगासिद्धिप्रसङ्गान् नापि विशेष्पदार्थस् तस्य विनाशारम्भरहितेश्वे वाणवाकाशादिषु प्रवृत्तेः परेण भेदशब्देनाभिप्रेतत्वात् । किंत्व् एकसामान्ययोगेप्यवान्तरसामान्यविशेषः । तयो[164.13]र् भेदाभेदयोः । अपेक्षया ही[164.18]त्य् अत्रस्थस्य हिशब्दस्य मौलस्य व्याख्यानम् एतत् यस्माद् इ[164.18]ति । टीकाकृतस् तु "अपेक्षयाहि" इत्य् अत्रस्थहिशब्दो ऽवधारणे, यद् वा हिर् यस्माद् अपेक्षया तस्येति योज्यम् । द्वाव् एतौ शतृप्रत्ययौ हेतौ द्रष्टव्यौ ।
साधनानां कारणानां साधनाय [165.2] निष्पादनाय कथं नेष्यत इत्य् आह । विलक्षणाद् अपी[165.10]ति । यादृशं दृष्टं यथा दृष्टम् । यथादृष्टं कार्यं यथादृष्टाद् एव कारणाद् उत्पद्येतेति वर्तते । विलक्षणयापि विवक्षितसामग्र्या अन्यादृशापि तल्लक्षणं विवक्षितसामग्र्या जायमानकार्यसरूपम् । तत्सामग्रीवैलक्षण्याविशेषाद्यस्याः कस्याश्चित् सामग्र्या जायमानं किं तल्लक्षणं न भवतीति ।
तथा च स एव दोष इत्य् आशंक्य पर एवाह कस्याश्चिद् एवे[165.23]ति । अत्रास्मि[58ब्]न् पूर्वपक्षे [165.25] यादृशी शक्ति[165.28]र् इति योज्यम् । नामान्तरेण [166.3] संज्ञान्तरेण । कथं तद् एव नामान्तरेणोक्तं {p.380} स्याद् इत्य् आह तद्विलक्षणस्ये[166.3]ति । तद्विलक्षणस्याग्न्यादिसामग्रीविलक्षणस्य । याग्न्यादिसामग्र्यान्यादृशी सामग्री सा तच्छब्देन प्रत्यवम्रष्टव्या । तस्याविलक्षणस्याग्न्यादिकारणकलापस्य य आत्मातिशयः शक्तिशब्दवाच्यस् तस्यासंभवाद् अ[166.4]योगात् । अनग्न्यादिरूपस्य कारणकलापस्याग्न्यादिसामग्रीशक्तियोगासंभवाद् इति समुदायार्थः । तदात्मातिशययोगे ऽपि कथम् अग्न्यादिरूपत्वं तस्येत्य् आह स एव ही[166.4]ति धूमं जनयति सहकारिकारणत्वेन । स्वजातिम् अनुकारयत्य् उ[166.5]पादानभावेन जनयतीत्य् अर्थः । यदि चे[166.7]त्य् अत्र चशब्दस् तुशब्दस्यर्थे । तां सामग्रीम् अग्न्यादिसंज्ञया वयं व्यवहरामो भवन्तस् तु शक्रमूर्धादिसंज्ञया व्यवहरन्ते अतो नाग्नि संज्ञायाम् एव विवादः स्यात् । [166.7] कथं पुनर् नाग्न्य् एव विवादो नान्यत्रेत्य् आह अर्थाभेदम् इ[166.7]ति । अर्थाभेदं तथा धूमजननशक्तिलक्षणम् अभ्युपगम्य तथाभिधानात् [166.7] शक्रमूर्धादीत्य् अभिधानात् । धूमादिकं कार्यं कर्तृ कथं निश्चितम् इत्य् आह -- अतद्रूपे[166.9]ति । कारणम् इन्धनादिकं कर्म न व्यभिचरति । क्षणापेक्षापक्षे तु कारणम् इन्धनादि क्षणरूपम् इत्य् अवसेयम् । अव्यभिचारस्याकारं दर्शयति -- तद्विलक्षणाद् इति । इतिर् हेतौ सिद्ध्यति [166.12] निष्पद्यत इति ।
कार्यं हेतुं व्याख्यायाधुनानुपलब्धिं व्याचिख्यासुर्यतस् ततस् तदुत्थानं तदुपदर्शयितुं तद् एवम् इ[167.3]त्यादिनोपक्रमते । भवद् उत्पद्यमानं दृष्टं निश्चितं सकृद् इ[167.3]ति सकृद् अपीति ज्ञेयम् । प्रत्यक्षानुपलम्भाभ्यां [167.3] यथा व्याख्याताभ्याम् । तथाविधाद् एवे[167.4]त्य् अवधारयतो ऽनन्तरोक्तैवोपपत्तिः बुद्धिस्था । अवधारणेन प्रतीयमानम् अप्य् अतथाविधाज् जन्मनिषेधं कण्ठोक्तं कुर्वन्न् आह -- ने[167.4]ति । व्याप्त्या [167.5] सर्वदेशकालपरिग्रहेण । तुर् अनुपलब्धिं भेदवतीं दर्शयति । यादृश्युक्ता यथोक्ता [167.7] तस्यां दृश्यत्वविशेषणायाम् इत्य् अर्थः । निमित्तान्तराभावोपदर्शनं प्राग् उक्तम् इति भावः । स्वरूप[167.8]ग्रहणम् उपलक्षणं तेन व्यापारेपीत्य् अपि प्रत्येयम् । अत एव व्यापारस्य पश्चाद् दर्शयितव्यत्वात् । क्रमे तावच् छब्दं प्रयुञ्जानो ऽनुपलब्धिस्वरूपं तावद् दर्शयतीति वक्ष्यति । ए[व]का[167.8]रस् त्व् अन्वयव्यतिरेकविषयविप्रतिपत्तिमात्रनिरासार्थः । यथाश्रुति व्याख्याने तु तथेत्यादि वक्ष्यमाणम् असंगतं स्यात् । तथाही[167.8]त्यादिना स्वरूपविषयविप्रतिपत्तिं प्रतिपादयति । तथा चेश्वरसेनश्वरकव्याख्याने प्रमाणान्तरत्वेनेमाम् उपदर्शयां बभूव । प्रतिषेध्यविषयज्ञानविषयरूपेणापरिणाम[167.11]स् तद्विषयज्ञानानाधारत्वं तद्ग्राहकत्वेनानवस्थानम् आत्मनो मन्तव्यम् । तज्ज्ञानाधारत्वप्रतिषेधमात्रविवक्षया च पक्षान्तरम् इति प्रमाणान्तरत्वम् एव तदन्यविज्ञानाश्रयेणोपपादयन्न् {प्. 381} आह नही[167.13]ति । प्रत्यक्षम् एकम् अनुमानात्मकं यद् वा । तस्य [167.13] प्रत्यक्षस्यानुमानस्य वा । ततो भावांशात् । किं कुर्वत् तर्हि
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
