Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
हेतुबिन्दुटीकालोक (subcommentary on अर्चट's हेतुबिन्दुटीका on धर्मकीर्ति's हेतुबिन्दु)
- Tác giả
- दुर्वेकमिश्र
- Thông tin
- GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji: Hetubinduṭika of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Misra. Baroda : Oriental Institute 1949, pp. 233-411. (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यस्य स तथा तदात्मकः [72.21] सामस्त्य् अनिषेधश् चैष द्रष्टव्यः । हेतुर् इ[72.25]त्य् अभिधानाभिधेययोर् अभेदविवक्षया साक्षात् पारम्पर्येण एकविषयत्वाद् वा पक्षधर्मत्वाभिधायी शब्दो द्रष्टव्यः । हेतुश् चैवानुवाद्येनात्मना प्रतिपाद्यमानो व्याप्यरूपः प्रतिपादिनो भवतीति प्रथमान्तेन तदभिधायिना शब्देन प्रतिपाद्यते । अतः प्रथमान्त एव तदभिधायी शब्दो न्याय्यः । हेत्वभिधायिशब्दमात्रापेक्षया तु पूर्वापरनियमखन्डनम् आचार्यस्य द्रष्टव्यम् ।
__________नोतेस्__________
[103] यत्र च प्रतिज्ञाया स् ।
{प्. 324} साधनधर्मस्य साध्यस्वभावताया एवे[73.12]ति स्वभावहेत्वधिकारेण विवृतम् ।
कार्यहेतुना व्यभिचारम् आशंक्य कार्यस्ये[74.6]त्य् आह । तेन [74.7] प्रतिबन्धेन । तयो[74.7]र् अन्वयव्यतिरेकयोः ।[104]तदभावख्यातिः [75.7] तदभावज्ञानम्, नियतं ख्यापयतश् चायम् अभिसन्धिः । तत्तुल्य एवास्तीत्य् अभिधाने ऽतत्तुल्ये सर्वत्रान्यस्मिन् विरुद्धे ऽसति च नास्तित्वं लक्षणान्तरम् इति प्रसङ्गे नियमार्थम् इत्य् एव नास्तित्वं रूपं तृतीयं न पुनर् विरुद्धे अन्यत्र [75.8] चेति दर्शयितुम् असत्य् एवेत्य् उक्तं सूत्रकारेणेति । विरुद्धत [75.8] इति सहस्थितलक्षणेनैव विरोधेन विरुद्ध्यत इति । कथं नानुष्नाशीताद् अपी[75.16]त्य् आह अन्यतो [75.16] विपक्षाद् व्यवच्छेदस्याभावस्य प्रसङ्गाद् इ[75.16]ति । इति [75. 16] दोषस्याकारं दर्शयति । तस्य [75.19] तदभावस्य । अन्यम् इच्छताम् इ[75.21]त्य् अभिसम्बध्यते । तथा परस्परपरिहारस्थितलक्षणेनापि[105][75.13] विरोधेन विरुद्धम् इत्य् अपि द्रष्टव्यम् ।
__________नोतेस्__________
[104] हेतोर् अभावख्यातिः स् [105] -लक्षणतयापि स्
अभिधातो [73.15] वेगवद्द्रव्यसंयोगविशेषोभिमतः । अभिधाताग्निसंयोगाद् एव नाशप्रत्ययौ [76.15] तयोः सन्निधिः [76.16] तं विना विनाशो न घटादिभिः संसर्गतां [76.16] याति ।
तदनपेक्षालक्षणं बाधकम् [76.26] । प्रसङ्गमुखेन [76.26] परोपगमसिद्ध [36अ] पक्षधर्मताद्वारेण । विपञ्चयितुम् इ[77.1]ति ब्रुवाणेन चाधिकप्रतिपादनार्थम् उक्तम् एवोच्यमानम् अनुवाद एव न तु पुनर् उक्तम् इति दर्शितम् । आकाशादिनित्यद्रव्यापेक्षया देशकाल[77.2]ग्रहणं दृष्टान्तार्थं द्रष्टव्यम् । तेनायम् अर्थो यथा नित्यानाम् अमीषां देशकालनियमो नास्ति तथा शब्दगुणत्वादिस्वभावनियमोपि न युज्यत इति दृष्टान्तार्थम् । देशस्वभावनियमायोग[77.5]स् तु दार्ष्टान्तिकः । एकाङ्गवैकल्यात् [77.3] सत्त्वलक्षणैकाङ्गहीनत्वात् । तदात्मतां [77.5] क्षणिकत्वस्य प्रकृतस्याकृतकसदात्मतां प्रति [77.5] । शास्त्रकार[77.5]शब्दः प्रकरणात्कीर्तिपादेषु द्रष्टव्यः । सत्त्वस्य क्षणिकस्वभावतां प्रतिपादयिष्यती [77.9]ति सम्बन्धः । वस्तुस्थित्यैव [77.7] वस्तुवृत्त्यै न परोपगमबलेनेत्य् अर्थात् । अभावप्रसङ्गेन [77.9] प्रकरणाद् विनाशसद्भावप्रसङ्गेनेत्य् अवसेयम् ।
{प्. 325} पूर्वाचार्योक्तं [77.11]दिङ्नागपादोक्तं तं प्रत्यनपेक्षत्वं ख्यापयितुम् उपक्रमत [77.12] इति सम्बन्धनीयम् । तं [77.12] परेष्टं प्रति ।
वस्तुगतौ [77.25] वस्तुप्रकारे तदात्मा [78.1] निर्वृत्तस्थिर् आत्मा । तस्य [78.1] अन्यथाभावस्य । प्रसङ्गात् [78.2] हेतोः । तस्यैव [78.2] स्वहेतुतः स्थिररूपतया निर्वृत्तस्यैव अन्यथात्वायोगात् हेतोः । तत्र [78.3] हेत्वगते स्थिररूपे हेतुव्यापारस्य [78.3] कल्पयितुम् अशक्यत्वाच् च [78.3] नान्यथाभावस् तदात्मा शक्यते कर्तुम् [78.1] ।
तस्य विनाशस्य स्वभावस् तत्स्वभावस्[78.5]तम् एव । लक्षण[78.11]शब्दो रूपनिबन्धनः । स्वलिङ्गेन चस्यावस्थानं कृतम् । तस्य [78.16] भावान्तरशून्यभावान्तररूपस्य । सर्वरूपशून्यस्य ह्य् अभावस्य हेतुस(म)त्ता विरुध्यते न त्वस्येति भावः ।
यदीदं भवताम् अपीष्टं तर्हि कस्माद् अस्मन्मतं नाभ्युपेयत इत्य् आह -- किंत्व् इ[78.19]ति ।
तदुत्पत्तौ [78.24] प्रध्वंसरूपभावान्तरोत्पत्तौ । एतस्मिन् पराभिप्रायेप्य् एवं ब्रुवाणो नियतम् एवं [78.26] वक्ष्यमाणकं मन्यते [78.23]वार्तिककार इति चार्थात् सर्वस्येन्धनादेः [78.26] तथाभावः प्रध्वस्तत्वं गवादेस् तथाभावः [78.27] प्रध्वंसरूपत्वम् इति द्रष्टव्यम् । द्वयम् अप्य् एतद् यत्रकुर्वन् (?) परः प्राह । तस्मिन् सती[79.1]ति । अनेन दृश्यमानाङ्गारादिभावेन सर्वम् इन्धनादि निवर्तत इति न सर्वस्य प्रध्वस्तत्वं नापि गवादौ सतीन्धनादि निवर्तत इति न गवादेः प्रध्वंसरूपतेति परेण दर्शितम् । अस्य [79.7] अङ्गारादेः । ध्वंसंते [79.13] ध्वंसम् उपयान्ति विनश्यन्तीति यावत् । दीपापेक्षयाव्यक्तता द्रव्या(बुद्ध्य)पेक्षया आत्मभावः । भावरूपाव्यक्तताभाव [79.15] इति ब्रुवाणस् तथात्मकाभावरूपता यावद् व्यवस्थाप्यताम् अभावैकरसत्वात् प्रतिपत्तेः । न तु भावरूपाव्यक्ततापत्तौ प्रमाणम् अस्तीति दर्शयति । एतद् एव दर्शयन्न् आह यदि ही[79.16]त्यादि । अत्रापि [79.19] उपलब्धियोग्यताविकलरूपतापत्तौ ।
पर्युदासेने[80.3]त्य् अस्य विवरणं विवक्षिताद् इ[80.3]ति ।
सन् बोधगोचरप्राप्तो ऽवधिज्ञानविषयतापन्नः तद्भावे [80.12] वह्न्यादिभावे नश्यन्न् इति । "लक्षणहेत्वो[ः] क्रियायाः" (पा. 3.2.126) इति हेतौ शतु(?)र् विधानाद्धेतुपदम् एतत् ।
{प्. 326} ननूक्तया नीत्या नाशस्य तत्कार्यतोपपत्तेः कथम् एतद् आचार्येणोक्तम् इत्य् आशंक्याह अयम् अभिप्राय [80.16] इति । स्यान् मतम् प्र[36ब्]तीतिविषयोपि न च तत्र प्रतीतिलक्षणार्थक्रियाकारी । यथा साध्याभावे हेत्वभावरूपो व्यतिरेको विकल्पेन प्रतीयमानः न विकल्पस्य । कारकश् च कथम् उच्यते? न ह्य् अकारणं विषयो अतिप्रसङ्गाद् इति । नैतद् अस्ति साक्षात् कारप्रवृत्तज्ञानाभिप्रायेण तद् उक्तेर् न तत्र व्यभिचारो ऽस्ति । अनेनापि च तथाविधज्ञानविषयेणावश्यभाव्य[म् अ]न्यथा प्रत्यक्षानुपलम्भनिबन्धनः कार्यकारणभावः कथं व्ययस्थाप्येत अत एवाह[106]तद्विषयस्य [80.24] वा कथं हेतुमत्तावगतिर् इति वा सामर्थ्य[107]समंगिता सामर्थ्ययोगिता भावता [80.27] वस्तुता, अत्यन्तपरोक्षाणम् [81.7] असर्वज्ञापेक्षया सर्वदा परोक्षाणाम् । तर्हिशब्दार्थश् चात्र प्रकरणाद् द्रष्टव्यः । ज्ञानहेतुरूपतया [81.8] अनुमानसिद्धयेति विवक्षितम् । अनेन ज्ञातहेतुरूपतया प्रतिभासनये चामीषां प्रतिष्ठितेन रूपेण प्रतिभासनम् इति परेण दर्शितम् । ने[81.8]त्य् अनेन [अ]भावस्य प्रतिष्ठितरूपावभासनाभावं परेणेष्टं निवर्तयति । भवितृरूपत्वेन प्रतिभासनम् एव शशविषाणाद्यपेक्षयास्यापि [81.8] प्रतिष्ठितरूपावभासनम् इति सिद्दान्तिनापि दर्शितम् । सर्वसामर्थ्य्शून्यतालक्षणेनाभावे दोषान्तरम् अन्वाचिन्वन्न् आह सर्वरूपविवेकस्य चेति [71.9] । उन्मज्जनं [81.10] प्रकाश्यं यच् च चक्षुरादीनां प्रतिष्ठितरूपावभासनसद्भावावबोधार्थम् तेषां ज्ञानहेतुरूपतया प्रतिभासनाद् इति परेणेरितं तदभावेपि शक्यं वक्तुम् इति दर्शयन्न् आह ज्ञानविषयतयेति [81.11] । पूर्वं त्व् अत्र
गजनिमीलिकां कृत्व अन्यद् उक्तम् । अस्याप्य् अ[81.11]भावस्यापि तद्धेतुरूपतयावभासनस्य तुल्यत्वात् [81.11] । चक्षुरादि(दे)र् इति प्रकरणात् । यदि नामास्य ज्ञानविषयता तथापि न तद्धेतुता तत् कथं तद्धेतुरूपतयावभासनं तुल्यम् उच्यत इत्य् आह अहेतोश् चे[81.12]ति । एतच् च पूर्ववद्बोद्धव्यम् । यद्य् अभावो नाम नास्त्य् एव भवन्मते तर्हि अमूरभावबुद्धयः कमालम्बेरन्न् इत्य् आह -- अस्माकं त्व् इ[81.12]ति स्ववासनापरिपाकान्वया [81.12] इति हेतुभावेन विशेषणम् । तद्व्यतिरेकि [81.19] ततो निवृत्तं तदभाववद् इति यावत् । संस्पृश्येत [81.19] गृह्येत तत्पर्युदासेन [81.19] निवृत्त्यवधिव्युदासेन । सद् इति प्रत्ययाविषयस्य न भावतेति ब्रुवता यद् असदात्मकत्वम् अस्योपगतं तत्र किं स्वरूपेणासन् किं वा पररूपेणेति पक्षयोर् एकं भावं दूषयितुम् आह -- न चास्ये[81.24]ति स्वरूपेणा[81.24]नपेक्षितभावान्तरसंसर्गेण तुच्छरूपेणाप्य् असतो [81.24]किञ्चिद् रूपस्य । न च {प्. 327} भावाभावयोर् यौगपद्यम् उपपद्यते कदाचित् । न हि जीवत एव मरणम् इति घतामण्चतीति भावः । ध्वंसेन विनाशश् च क्रियमाणः किं तदात्मा ततो ऽन्यो मृषा भावान्तररूपो वा तुच्छरूपो वेति तत्र ये विकल्पाः तत्र तृतीयस्मिन् विकय्यं भवतु[108]चायं [81.26] ततस् तद्भावेपि निमित्तीस्यादि(किम् इतीत्यादि)दूषणपरिहारयोर् आभीक्षण्ये चानवस्थाव् अभि(स्थाभि)प्रायवान् आह ततश् चानवस्थेति [82.6] । अत इन्धनादेर् निवृत्तेः । कथम् इति सिद्धान्ती । तद्भेदा[82.8][37अ]द्धेतुभेदात् । दृष्टं चैतत् सर्वत्र सहेतुके ऽन्यत्रैति दर्शयन्न् आह शाली[82.9]त्यादि ।[109]एकरसस्यै[82.13]कस्य भावस्य ।
संक्षेपेणैतद् अत्रानेन विचारितम् ।क्षणभङ्गसिद्धौ तु विस्तरेण ततश् च विस्तररुचिन तत एवावगन्तव्यम् । साप्य् अस्मदीयाक्षणभङ्गसिद्धिर् अपेक्षितव्येति अभिप्रायवान् आह विस्तरतश् चे[82.14]ति । स्याद् एतत् "न भवत्य् एव केवलम्" इत्य् अनेन किम् अग्न्यादिसंयोगकाले तस्य स्वरूपाभावः प्रतिपाद्यते किम् वा तदनुवृत्तिः । न तावत् तदनुवृत्तिर् अक्षणिकत्वप्रसङ्गाद् अशब्दार्थत्वाच् च । अभावप्रतिपादने च पूर्वोक्ता दोषाः प्रसज्येरन्न् इति । नैष दोषः, अनया हि वचनभङ्ग्या परसंकुचितकालस्थाप्युत्पत्तिकाल एव स द्वितीये क्षणे न किञ्चिद् इति यद्रूपं भावस्य तत्प्रतिपाद्यते । न तु किञ्चिद् विधीयते । अत एवाह नास्याभवनम् अन्यद् वा भवतीति [82.18] । मा भूद् अग्निसंयोगादिर् नाशस्य कर्ता किं नश्च्छिनं यदि परहेतुर् अस्ति -- इत्य् आह [अ]कर्तुर् अहेतुत्वम् इ[82.22]ति । स खलु तस्य कर्त्ता व्ययते(पठ्यते) यः प्राग्भावी सन्नर्थान्तरं स्वान्वयव्यतिरेकाव् अनुविधापयति यथा चक्षुरादि विज्ञानस्य । तथाभूतस्यान्वयव्यतिरेकानुविधापनम् एव हेतुत्वम्, तद्भावे भावस्य तदभावे चाभावस्य हेतुलक्षणत्वात् । अग्न्यादिभावे च भवनधर्मणः कस्यचिद् भा(चिद् अभा)वात् कर्तृत्वाभावे कथम् इव तल्लक्षणम् हेतुत्वम् एव संगम्यत इति चैवांवदितुर् अभिप्रायः । [106] तदविषय स् [107] सम्बन्धिता [108] वायं स् [109] एकरूपस्य स्
सू[110]च्यग्रेषु स्थातुम् अशक्तः सर्षप [82.26] इति योज्यम् । यथायोगं सम्बन्धः हेत्वन्तरापेक्षितत्वं तद्विरुद्धं चानपेक्षित्वम् । तेन च प्राप्तं(व्याप्तं) स्/तत्स्वाभाव्यम् इति ।
__________नोतेस्__________
[110] सूभ्यग्रे-स्था स्
अवकाश[83.15]शब्देनावकाशवद् वचनं विवक्षितम् । तेनावसरप्राप्तं वचनम् आशङ्क्येत्य् अर्थो बोद्धव्यः । एवम् अन्यत्राप्य् एवंविधे प्रयोगे ज्ञेयं । दृष्टान्ताद् आगतो दार्ष्टान्तिकः[111][83.21] । कुशूलशब्देन घटादिरचित आधारविशेष उच्यते । तदादाव् अवस्था[83.23]वस्थानं यस्य स तथोक्तः ।
__________नोतेस्__________
[111] कं स्
{प्. 328} अवस्थानाम् इव [84.18] आत्मनः प्रातिस्विकरूपस्य तद्भेदे[84.19]वस्थाभेदे । कथंचित् [84.24] केनापि प्रकारेणाभेद इत्य् अर्थस्य रखलद्गतिपदम् एवैतत् । तनोर् भेदाद् एव भेदप्रसङ्गो [84.26] भिन्नरूपताप्रसङ्गः । तद्वद् अ[84.26]भिन्नरूपावस्थातृवत् । अभेदस्य वा [84.26] प्रसङ्ग इति प्रकृतत्वाद् योज्यम् ।
ननु यदि भेदाभेदौ चैकान्तिकौ स्यातां स्याद् अ[न]न्तरोक्तो दोषः । यावता तयोर् अपि केनचिद् रूपेण भेदः केनचिद् अभेद इत्य् आशंकमान आह -- तयोर् अपी[84.26]ति । तयोर् भेदाभेदयोः, अवस्था च तद्वानवस्थावांश् च तयोर् आत्मानौ तयोश् च । तस्याप्य् अ[85.1]भेदनिमित्ततयेष्टस्यापि रूपान्तरस्य । ताभ्याम् अ[85.1]वस्थातद्वद्भ्याम् । [85.1] अन्यथा यदि ताभ्यां तस्याभेदनिमित्तस्य रूपान्तरस्य कथञ्चिद् भेदो न स्याद् ऐकात्म्यं यदि स्याद् इत्य् अर्थः । स चासाव् अभेदनिमित्तैकस्वभावश् चेति तथा तस्मात् [85.1] । भेदाभेदाव् इ[85.2]ति वदितुश् चायम् आशयः -- एकात्म्यपक्षे अभेदनिमित्ते रूपान्तरे वा ताभ्याम् अवस्थातद्वद्भ्याम् अनुप्रवेष्टव्यं तयोर् वा [37ब्] तेनाभेदनिमित्तेन रूपान्तरेण । तत्र यदि तयोर् अभेदनिमित्ते रूपान्तरे अनुप्रवेशस् तदाभिन्नरूपमात्रस्य भावाद् अवस्थातद्वतोर् अभेद एवेति भेदस्य वार्तापि न स्यात् । अथ तस्याभेदनिमित्तस्य रूपान्तरस्य तयोर् अनुप्रवेशस् तदावस्थातद्वन्ताव् एवावस्थिताव् इत्य् अपगतम् अभेदेनेति । एवं तर्हि तस्यास्तु ताभ्यां कथञ्चिद् भेद इत्य् आह -- रूपान्तरस्ये[85.3]ति । कथञ्चित् त[85.3]द् एताभ्याम् इति तु प्रकरणात् । तन्निबन्धनं [85.3] रूपान्तरस्य ताभ्यां किञ्चिद् भेदनिबन्धनम् । यथा पूर्वं तथास्याप्य् अ[85.4]पररूपस्य । तदन्यत् [85.4] कथञ्चिद् भेदनिबन्धनम् । अयम् अस्य भावः -- तस्यापरस्य रूपस्य तेभ्यो ऽवस्थातद्वद्भेदनिमित्तरूपान्तरेभ्यः कथञ्चिद् भेदोन्यथा तदपरैकस्वभावाद् अत्यन्तम् अभेदाद् अवस्थावस्थात्रभेदनिमित्तरूपान्तराणां प्राक्तनेन न्यायेनत्यंतं भेदाभेदौ प्रसज्येयाताम् । अतस् तेभ्यस् तस्य कथञ्चिद्भेदे ऽवश्यैषितव्ये तन्निबन्धनम् अपरस्यापि रूपस्यापरं रूपम् उपैतव्यम् इति । तथा तदन्यत्राप्य् एवम् एवेत्य् अपरिमितरूपतैवैकस्य [85.4] स्यात् । तस्माद् इ[85.6]त्यादिना प्रकृतम् उपसंहरति । तद्बाधां [85.10] प्रत्यक्षबाधाम् । अनेनैतद् दर्शयति । न प्रत्यक्षा सती प्रत्यभिज्ञा बाध्यते किंतु बाध्यमाना प्रत्यक्षाभासा सेति । एतच् चोपरिष्टाद् अभिधास्यते ।[112]अनेकान्तो ऽनिश्चयो भवेत् [85.12] । अनिश्चयफलत्वं संशयहेतुत्वं स्याद् इति यावत् ।
__________नोतेस्__________
[112] अनैकान्तिकता भवेत् स् ।
एतद् एव [85.14] जनकाजनकत्वम् एव ।[113]धर्म(र्मि)लक्षणस्या[85.17]वस्थातुर् इत्य् अर्थः ।
__________नोतेस्__________
[113] धर्मिलक्षणस्य । स्
{प्. 329} न चा(चे)यम् अवस्था कार्यविज्ञानातिरिक्तं ज्ञानं जनयति येन ज्ञानलक्षणायाम् अर्थक्रियायाम् अस्योपयोगात् सामर्थ्यं कल्प्येत्य् अभिप्रायेण सर्वसामर्थ्यविरहलक्षणस्ये[85.22]त्य् अवोचद् इति । अनुभावाद् इ[85.24]ति, हेतौ शतुर्विद्यानाद् बाधानुभवाद् इत्य् अर्थः । बाधासद्भावाद् "बाधवर्जितम्" इति सामान्यप्रमाणलक्षणस्याभावं प्रतिपाद्य विशेषलक्षणस्याप्य् अभावं प्रतिपादयितुं तत्प्रतिभासिनिश् चे[85.25]त्यादिनोपक्रमते । एकरूपाभावे कथं तत्त्वाध्यवसायः स्यात् सर्वेषाम् इत्य् आशङ्क्यान्यथैवास्योपपत्तिम् उपसंहारव्याजेन दर्शयन् आह -- तस्माद् इ[86.3]त्यादि । सदृश[86.3]शब्देन निरन्तरसदृशं विवक्षितम् । तेन निरन्तरस्य सदृशस्यापरस्य भाव[86.3]स् तन्निरन्तरनिबन्धनेत्य् अर्थः । केशादिषु लूनपुनारूढेष्व् इत्य् अर्थाद् अवसेयम् । आकारसाम्यमात्रेणापहृतं प्रकरणात् यथात्वनिश्चयायोग्यीकृतं हृदयं [86.4] चेतो येषां तेषाम् ।
ननु यदि आकारस्य साम्यं सादृश्यं नाम त्वन्मते किञ्चित् स्यात् तन्मात्रापहृतहृदयाः प्रत्यभिजानीयुः । न चैतद् अस्ति, तत् कथम् एवम् उक्तम् इत्य् आह न चे[86.8]ति ।
"एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने । भेदे ऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ॥" [प्रमाणवा. 3.72] इत्यादिना विपञ्चितत्वाद् एवम् उक्तम् ।
तेषु [86.17] भावेषु ।
त्रयाणाम् अपि रूपाणां प्रमाणसिद्धत्वात् [38अ] स्वतंत्रहेतुर् इयं व्यापकानुपलब्धिः [87.7] ।
अनेन [87.9] प्रत्यभिज्ञानेन प्रत्यक्षरूपेण अनिश्चिते[87.10]त्यादि प्रतिविधानम् । तावद् अस्य बाधकत्वं न भवति यावत् प्रत्यभिज्ञानस्याप्रामाण्यं न सिद्ध्यति, अन्यथा अनेनैव बाध्यमानविषयत्वाद् अस्य कथं प्रामाण्यं येन बाधकत्वं स्यात्? तावच् च तस्याप्रामाण्यं नोपपद्यते यावद् अनुमानस्यास्य प्रामाण्यसिद्ध्याबोधकत्वं न सिद्ध्यति । इतरथा बाधवर्जितत्वादिलक्षणसम्भवे प्रामाण्याप्रच्युतिर् इतीतरेतराश्रयत्वं दोष इत्य् आशङ्क्यमानम् आह नापी[87.10]ति ।
अनुमान[87.11]शब्देनोपचाराल् लिङ्गम् अभिप्रेत्य स्वसाध्यप्रतिबन्धाद् इ[87.12]त्याद्य् उक्तम् । यदि वा लिङ्गस्येत्य् अध्याहार्यम् अवचने च प्रमाणलक्षणयुक्ते बाधसम्भवे तल्लक्षणम् एव दूषितं स्याद् इति सर्वत्रानाश्वास इत्य् आभिप्रायः ।
{प्. 330} नैवं ब्रूमहे [87.17] किन्तु प्रत्यक्षाभासा सती चार्थाद् अवतिष्ठते । अनुमानस्य विरोधो बाधस् तम् अश्रुवाना [87.20] व्याप्नुवती भजमानेति यावत् । आकारस्य [87.20] रूपस्य सामान्याद्[114][87.20] एकतां [87.20] तत्त्वं[115]प्रतीयती [87.21] निश्चिन्वती । आदि[87.21]शब्दात् फलस्य सङ्ग्रहः । सूर्योपराजितशब्देन यस्य रूढिः । आदि[87.22]शब्दाद्वन्येतरकर्कोटादिपरिग्रहः । तथाभावम् एतद् अनुभवति [87.23] ।
__________नोतेस्__________
[114] साम्यात् स् । [115] प्रतियती स्
अथ किं "न च स पक्षे क्वचिद् वर्तत [88.19]" इत्य् असिद्धत्वे कारणम् इदम् उक्तम्? एवञ् चेत् न तर्हीयन्तं कालं भवान् बुद्धवान् असिद्धलक्षणम्, पक्षवृत्त्यादिना प्रकारेण हेतोस् तथाभावाद् इति । युक्तम् अवादीद् इदं भवान् यदि परं तदायम् असिद्धो हेतुर् इ[88.18]ति वदितुर् अभिप्रायं नाज्ञासीत् । अयं खल्व् अस्याभिप्रायः प्रत्यभिज्ञा नाम विकल्पविशेष एषः । स च विकल्पस्य विषयो यः शब्दस्य विषयः, शब्दसंसृष्टार्थप्रतिभासित्वाद् विकल्पस्य । स च शब्दस्य विषयो यः संकेतस्य विषयः, वाच्यवाचकभावसम्बन्धस्य वास्तवस्य व्युदस्तत्वात् । न चासामार्थ्यवैयर्थ्याभ्यां स्वलक्षणात्मनि संकेतः कर्तुम् शक्यत इति कथं वस्तुतो भावाः केचिद् अभि(पि) प्रत्यभिज्ञानविषयात्म(त्मा)नः । तत्र(तन् न) प्रत्यभिज्ञापनत्वं(ज्ञायमानत्वं) सिद्धिम् अध्यासीत । यद् यत् प्रत्यभिज्ञायते तत् तत् पूर्वापरयोः कालयोर् एकस्वभावं यथेदम् इतितथागतान् प्रतिपादयितुम् अशक्यत्वात् व्याप्त्यसिद्ध्यानैकान्तिकश् चायम् इति । प्रौढवादितया सिद्धिम् अभ्युपगम्यापि दूषणान्तराभिधित्सया प्रवृत्तस्य सिद्धान्तवादिनो न चे[88.19]त्यादिवाक्यम् । यद् वा दूषणान्तरम् अन्वाचिन्वन्न् आह -- न चे[88.19]ति ।
[116]ज्ञानजनकस्वभावताविरहाद् इ[88.27]ति ब्रुवता चेदं दर्शितम् । यदि सर्वेषां जनकस्वभावता तस्यां चान्यापेक्षिता स्यात् स्याद् अदनैकान्तिकत्वम्, न चेद[म् अ]स्तीति । भेद[88.28]शब्दो विशेषवचनः ।
__________नोतेस्__________
[116] "ज्ञान" इतिपदं नास्ति -- स्
प्रकृते तव किम् आयातम् इत्य् आह -- तद्वद् इ[89.10]ति । तैः [89.12] बीजादिभिः अनेकान्त इति मौलस्य हेतोर् इति द्रष्टव्यम् ।
सामान्येना[89.14]विशेषेण ।
{प्. 331} न सह[89.22]शब्दो युगपदर्थवृत्तिराचार्येणेष्टो ऽपि तु सहोदरवद् एकार्थवृत्तिः । अपि तु एकार्थकरणम् अपि [114.19] यद्वर्णम् इति किं सहकारिलक्षणपर्वणि प्रतिपादयिष्यते । न च युगपत्कारित्वाद् एव भावानां परस्परसहकारित्वं घटते । घटपटादीनाम् अपि कदा स्वां स्वा[38ब्]म् अर्थक्रियां कुर्वताम् अपि तथाभावप्रसङ्गात् । तत् कथं "सहकारिषु युगपत्करणशीलेषु" [89.22] इत्य् एतद्भट्टार्चटो व्याचष्ट इति चेत्, नायं दोषः । न हि सहशब्दस्य एतद् व्याख्यानं युगपद् इत्य् अपि तु भाविकारणानभ्युपगमे अवश्यम् एकार्थकारिणाम् एकदा करणम् इत्य् एकार्थं बुद्धावारोप्य वास्तवं रूपम् इदम् अनूदितम् । तेन युगपद् एकार्थकरणशीलेष्व् इत्य् अवसेयम् । एकार्थकारित्वम् एव तु लक्षणं न तु युगपत्करणम् अवश्यंभाव्यपि व्यभिचारात् । प्राज्ञाः पुनर् एतद् यथाश्रुति समर्थयन्ति ।
ननु लाभो महानयम् इति, न च काचिद् अक्षमा । नैवे[89.25]ति व्याचक्षाणो वैशब्दम् अवधारणे दर्शयति । कः पुनस् तत्रेतरेषां व्यापार इत्य् आह -- भवनेति[90.3] ।
व्यापारोपयोगस्यास्य पारमार्थिकत्वं कारकत्वं हीयेते[90.8,9]ति संबन्धनीयम् । कुत एतद् इत्य् अपेक्षायां कार्येत्यादियोज्यम् । उपचारात् [90.8] कारकत्वस्येति प्रकृतत्वात् । तथा [90.17] तद्वत् । तत एव [90.17] स्वसन्निधिमात्रत एव ।
स्वत एव [91.1] कारणव्यापारनिरपेक्षाद् रूपाद् एव । आत्मन [91.2] इति कार्यात्मनः । प्राग् अपि [91.2] जन्मनः पूर्वम् अपि । रूपरूपिणोर् अनन्यत्वाद् इत्य् अभिप्रेत्य रूपभेदलक्षणात्वाद् इत्य् उ[91.4]क्तम् । तत् कुतो ऽसत्त्वात् ।
यत्र स्थितेन कार्यं जनयितव्यं स कार्यदेशो [91.12]भिप्रेतः । यश् चासाव् अभिप्रायश् चेति तथा तद्वता [92.3] ।
ननु सर्वेषां अङ्कुरोत्पादे सामर्थ्याप्रच्युतेरनेकाङ्कुरेण नियतम् उत्पत्तव्यम् एवेति यत् परेण प्रकटितम् तत् कथम् एवंब्रुवतापहस्तितम् इत्य् आशंक्याह अयम् अभिप्राय [92.4] इति ।
युगपत् कर्तृभ्य [92.16] इति पूर्ववद्बोद्धव्यम् । उक्ते सति किम् नाम प्रतीयताम् इति तत्स्वभावस्य जननाद् इत्य् अस्यानैकान्तिकत्वे मौलस्यापि तथात्वमनिवार्यम् इति परस्याशयः ।
न कारणभेदात् कार्यभेदः स्याद् इ[92.18]ति प्रसङ्गे कार्याभेदस्य बाधके परेणोक्ते कथम् एतत् तद्बाधकं भवतीत्य् आशंक्याह एवं मन्यत [92.29] इति । सामग्रीजन्यस्वभावत्वात् [93.1] तदवस्थाप्राप्तानेकसमर्थजन्यस्वभावत्वात् । कार्यस्या[93.1]भिन्नात्मन इति प्रकरणात् । नन्व् इ[93.2]त्यादि परः । यद्य् एवम् इ[93.4]ति {प्. 332} सिद्धान्ती । यद् अनेकस्माद् भवतानेकेन भवितव्यम् इ[93.4]ति एकजातीयापेक्षयोक्तम् न तु कार्यमात्रापेक्षया, भिन्नजातीयस्यानेकस्योत्पादाभ्युपगमात् । एकं कर्तृतत्कार्यम् इ[93.6]त्य् अभिन्नरूपकार्यम् । एतत् त[93.8]द्भावे भवनम् । भवताम् इ[93.10]तिसांख्यानभिसंधायाह ।
धर्मवचनस्य संकरशब्दस्य भावाद् असंकराद् अ[93.23]सांकर्याद् इत्य् अर्थः । अत एवाह परस्परेति [93.24] । परोदाहृतकार्यापेक्षया सामग्रीभेदाद् भेदं प्रतिपादयितुं तथाही[93.25]त्यादिनोपक्रमते । साद्गुण्यम् आभिमुख्यम् । आदि[93.26]शब्दात् वासनाप्रबोधादिसंग्रहः । इन्द्रिय[93.27]शब्देन तिमिरादिविकृतम् इन्द्रियं विवक्षितमन्यतो भ्रान्तिज्ञानानुदयात् । मात्रग्रहणेन चालम्बनस्यैव निरासो विवक्षितः । न त्व् आलोकादेः तदभावे तदनुत्पत्तेः । तदन्ये[93.28]त्य् अत्राप्य् आलोकादि द्रष्टव्यं ।
उपयोगविषय[94.4]स् तद् एकं जन्यं विज्ञानं तथाविधस्यै[94.4]कात्मतालक्षणस्य । न भिद्यते [94.6] नानात्वं न भव(ज)ति । किं न्व् इ[94.8]ति नि[39अ]पातानिपातसमुदायः प्रश्ने । यदि वा वितर्के नुशब्दः किंशब्दस् तु प्रश्ने । वै[94.8]शब्दो निपातो ऽत्र संबोधने ।
अनेकस्य भावे तेषाम् अनेन(क)जनकत्वम् इत्य् उपगते हृदयनिहितशङ्करस्वामिचोद्यः कश्चिन् नन्व् इ[94.12]त्यादिना चोदयति । स एव स्वातन्त्र्यपरिजिहीर्षयानैयायिकप्रवरवचनेन संस्पन्दयन्न् आह आह चे[94.18]ति ।शङ्करस्वामीच बुद्धिस्थम् अस्य । तत् तस्मात् किं [94.19] कस्मात् । विज्ञानाभिन्नहेतुक(ज)म् इ[94.19]ति हेतुभावेन विशेषणम् ।
तेषाम् अवान्तरसामग्रीभेदाद् भेद इति प्रतिपादयितुं तेषाम् इ[94.20]त्यादिनोपक्रमते । विज्ञानोत्पत्तौ विज्ञानम् उपादानकारणम् । चक्षुरादिसहकारिकारणम् । चक्षुःक्षणोत्पत्तौ तु चक्षुर् उपादानकारणम्, विज्ञानादि सहकारिकारणम् एवम् अन्यत्रापीत्य् एकम् उपादानकारणम् इतरत् सहकारि कारणं कृत्वा सामग्रीणां वैलक्षण्यम् ईक्षितव्यम् । कार्याणां [94.25] विज्ञानचक्षुःक्षणादिरूपाणाम् ।
बोधरूपतादेर् इ[94.28]त्यादि सिद्धान्ती । अनुकार इति करोतेः णिजन्ताद्ध द्रष्टव्यः । अनुकार[94.28]णञ्च स्वसंततिपतितकार्यकर्तृकत्वं वाच्यम् । {प्. 333} एतच् चास्यैवोपसंहारे व्यक्तीकरिष्यते । तस्यानुकारणम् एवानुकर्तृमुखेन दर्शयन्न् आह तथाही[95.1]ति । द्वितीयलक्षणं विवृण्वन्न् आह नियमेन चे[95.3]ति । समनन्तरशब्दः समश् चासौ बोधरूपत्वेनानन्तरश् चाव्यवहितेनेति व्युत्पत्त्यापि प्रकृतत्वान्मनस्कार एव द्रष्टव्यो न त्व् आगमसिद्ध्याश्रयणेनोपादानमात्रे, उपादानलक्षणस्यैवाभिधानात् शकन्ध्वादिपाठाच् च दीर्घत्वाभावोवसेयः । न चक्षुरादेर् नियमेन व्यापार [95.4] इत्य् अर्थात् । चक्षुषो [95.5] नियमेन व्यापार इति प्रकृतत्वात् । जन्यतया यत् स्वविज्ञानं तस्य योग्यतार्थाद् उत्पत्तुर् या योग्यता तद्धेतोह् [95.5] । ज्ञानोत्पादहेतोर् इत्य् अर्थः । चक्षुर्विशेषणत्वे ऽपीत्थम् एवास्यायम् एवार्थः । अत्रापि समनन्तरशब्देपिनमन(ब्देनमन)स्कारो ऽभिप्रेतः । उक्तयोर् लक्षणयोर् आद्यं लक्षणं दुर्बोधत्वाद् उपसंहारव्याजेन स्पष्टयन्न् आह -- तस्माद् इ[95.6]ति । स्वसंततिव्यवस्थैव कुतो येन तत्पतितकार्यप्रसूतिनिमित्तं [95.7] ज्ञातव्यम् इत्य् अपेक्षायां योज्यम् । यद् एकाकारे[95.7]ति । इतिः [95.11] हेतौ । आ(अवा)न्तरविशेषकृतत्वात् त[95.12]स्या एवोक्तलक्षणावान्तरविशेषकृतत्वाद् इत्य् अर्थः । तस्माद् इ[95.15]त्यादिना प्रकृतम् उपसंहरति ।
कार्यस्यै[95.15]कजातीयस्येति विवक्षितम् । कार्यमात्रापेक्षयानेकत्वस्येष्टत्वात् प्रसङ्गानुपपत्तेः । अन्ये(अथ) तदभुपगमात् सिद्धं भवताम् । ततो नैवं वक्तुम् उचितम् इत्य् आशंक्याह न चे[95.16]ति ।
एवं तावद्भट्टार्चटेनोपादानसहकारिलक्षणं प्रणीतम् । केचित् पुनर् अत्रैवं ब्रुवते, नैवेदं लक्षणद्वयम् उपपद्यते अव्याप्तेः । तथाहि यदि यद् एकाकारपरामर्षप्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यपसूतिनिमित्तं तदुपादानकारणम् इत्य् उच्यते, तदा चन्द्रकान्तादपां प्रसवे ज्योत्स्ना न स्याद् उपादानकारणम् । यदि चन्द्रकान्त[39ब्]ः 1ःमणेरुपयतीनामपां चन्द्रिकया समम् एकाकारपरामर्शप्रत्ययहेतुत्वम् अस्ति येन तथा तया तासां तदेकसांतानव्यवस्थासिद्धौ स्वसन्ततिपतितकार्यजनकत्वेन शशाङ्कवदुपादानकारणं कल्पेरन् । न च तत्रान्यस्य तदुपादानकारणत्वम् उपपद्यते । एवम् वनस्पतिभ्यः फलप्रसूतौ त्वग्भावा[117]विशेषस्य न स्यात् तदुपादानत्वम् । कियद् वा शक्यते निदर्शयितुं दिङ्मात्रं तावद् उपदर्शितम् । द्वितीये ऽपि लक्षणे ऽनेनैवाव्याप्तित्वम् उन्नेयम्, न हि चन्द्रिकादेर् अवादिमात्रोत्पत्तौ नियमेन व्यापारः शक्रेणाषि शक्यते दर्शयितुम् । तादृशोत्पादो विद्यत इति चेत् । चक्षुरादेर् अपि तादृग्विज्ञानोत्पादे नियमेन व्यापार इति तस्यापि तथात्वप्रसक्तिर् इति यत् किञ्चिद् एतत् । सहकारिलक्षणम् अप्य् अवद्यम् । सिद्धसंतान एव हि वस्तुनि प्रागवस्थापेक्षविशेषहेतुत्वं कस्यचित् कल्प्येत । {प्. 334} सन्तानापेक्षकस्य तु प्रथमक्षणस्योत्पादे कथम् एवम् अभिधानं [न] साहसम् इत्य् अलं बहुनेति । अत्र तु समाधानमतद्भि(नं महद्भि)र् एव विधेयम् ।
__________नोतेस्__________
[117] "भावविशेषस्य" इत्य् अपि दृश्यते ।
उभय[95.23]म् इत्य् एकसामग्रीमध्यप्रविष्टकारणस्य भेदाद् अनेकत्वात् कार्यस्य एकजातीयस्याभेद एकत्वं कारणभेदा[95.20]त् सामग्रीलक्षणस्य कारणस्य सामग्र्यन्तरापेक्षया वैलक्षाण्यात् । कार्यस्यापि भेदः [95.20] सामग्र्यन्तरकार्याद्वैलक्षण्यम् इति । ताव[95.26]च्छशब्दः क्रमे । कुलालः [95.27] कुम्भकारः व्यग्रस्वभावानि [96.1] अन्योन्यासहितस्वभावानि कारणान्तरसहितानि [96.1] सन्ति यानि कार्याणीष्टकादिरूपाणि [96.1] साधयन्ति निर्वर्तयन्ति । मृत्पिण्डस्य चर्मकारादिकारणप्रतिलम्भे सतीष्टकादिकार्यं, कुलालस्य दात्रादिप्रत्ययान्तरप्राप्तौ लवण(ना)दिकार्यम् । सूत्रस्य कुविन्दादिहेत्वन्तरसाहित्ये घ(प)टादिकार्यम् । तान्य् अपि किं भूतानि साधयन्तीत्य् आह तदन्ये[96.1]ति । मृत्पिण्डापेक्षया बीजादिजन्येभ्यो ऽकुरादिभ्यो भिन्नस्वभावानि, तेभ्यो [96.3] व्यग्रावस्थाप्राप्तकारणान्तरसाध्येभ्यो विलक्षणम् एव घटात्मकं कार्यं समग्राणि सन्ति जनयन्ति [96.3] मृत्पिण्डकुलालसूत्राणीति सामग्र्युपलक्षणम् उक्तं न पुनर् इयन्ति एव घटस्य कारणानि । एवं वक्ष्यमाणेप्य् उपदर्शने द्रष्टव्यम् । उपदर्शितम् एवोपपादयन्न् आह तथाही[96.4]ति ।
नन्य् यदि कुलालादिसहितो मृत्पिण्डस् तदन्यसमाग्रीमध्यप्रविष्टमृत्पिण्डकार्याद् अविशिष्टं कार्यं जनयन्ति, न तर्हि सामग्रिवैलक्षण्यात् कार्यवैलक्षण्ये निदर्शनम् इदम् उपपद्यत इत्य् आशंक्याह कुलालादीति [96.4] । तदात्मकम् एव [96.6] मृदात्मकम् एव घटादिलक्षणम् एव करोति । मृत्पिण्ड [96.4] इति प्रागुक्तो ऽभिम्सम्बध्यते कर्ता । कुतो विलक्षणं करोतीत्य् आह तत्कार्याद् अपीष्टकादेर् इति [96.7] । केन कारणेणेत्य् आह केवले[96.7]ति । केवलमृत्पिण्डाद् भिन्नः स्वभावो यस्य मृत्पिण्डस्य स तथा तस्य भावस् तत्ता तया [96.7] । केवलशब्देन च कुलालादिरहि[त]तामात्रं विवक्षितम् । न तु कारणान्तरसाहित्यव्यवच्छेदस् तेन तत्कार्याद् इ[96.7]ति कारणान्तरसहितमृत्पिण्डकार्याद् इत्य् अर्थः । कुतस्त्यस्तस्या [40अ] सौ बिन्नः स्वभाव इत्य् आह -- तत्कारेणे[96.6]ति । तस्य कुलालस्यार्थात् कुलाल[क्षण]लक्षणस्य प्रत्यासीदतो यत्कारणं प्राक्तनक्षणस् तेनाहित उत्पादितो विशेषो [96.6] विशिष्टं रूपं यस्य स तथोक्तः । अनेनैकसामग्र्यधीनाविशिष्तोत्पत्तिः सूचिता । हेतुभावेन चैतद् विशेषणम् । चो [96.6] व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे । एवम् उपादानभावे चोभयत्र व्याप्रियमाणस्यापि मृत्पिण्डस्य सहकार्या(र्य)न्तरप्रतिलम्भादात्मनोपि सतः कार्यस्य तदन्यसहकारिसहितकार्यात् विलक्षणस्यैव {प्. 335} जनकत्वं प्रतिपाद्य सहकारणस्याप्य् उभयत्र सहकारिभावेनैव व्याप्रियमाणस्य कुलालादेर् उपादानान्तरप्राप्तौ तदन्यसहितकार्याद् विलक्षणकार्यजनकत्वम् अतिदिशन्न् आह -- एवम् इ[96.8]ति तदन्योपादानसहितं [96.8] मृत्पिण्डलक्षणाद् उपादानाद् यद् अन्यद् उपादानं तेन सहितम् । मृत्पिण्डसहितं [96.8]
तद्विलक्षणम् एव [96.9] । तस्मात् तदन्योपादानसहितकार्याद् विसदृशम् एव घटादिकं कार्यं जनयति [96.10] । इति[96.10]र् यथा मृत्पिण्डादीत्यादेर् आचार्यीयवाक्यस्य यः समुदायार्थस् तस्याकारं दर्शयति । तत्रे[96.11]त्यादिनेदानीम् अवयवार्थं व्याचष्टे । वुघ्न[96.15]शब्देन मृषय(मृण्मय)पिधानविशेष उच्यते । तस्य पृथु[96.15]शब्देन विशेषणसमासं कृत्वा तस्योदरा[96.15]दीति तत्पुरुषं विधाय तद् इव तस्येव वाकारो [96.15] यस्येति बहुवृईहिः कार्यः । आदिशब्दात् तदवयवान्तरविशेषस्य भिन्नजातीयस्य कम्बुग्रीवादेर् वा संग्रहः । सूत्रात् त[96.17]स्यैव घटस्य [96.18] चक्रादेर् विभक्तः स्वभावो भ्वतीति [96.21] सम्बन्धः । मृत्संस्थानविशेषात्मतयाइव(तैव) घटस्य कुतस्त्येत्य् आह मृत्पिण्डे[96.17]ति । तज्जननस्वभावत्वात् [96.19] मृत्संस्थानात्मताजननस्वभावत्वात् कारणात् । घटस्य तद्रूपयोगात् [96.19] मृत्संस्थानरूपयोगात् । अन्यद् एव सूत्रसाहित्येपि तयोः कथं तज्जननस्वभाव[त्व]म् इत्य् आह तन्निरपेक्षे[96.20]ति । तच्छब्देन सूत्रं परामृष्यते,[118]भिन्नस्वभावत्वाद् विलक्षणस्वभावत्वात् तन्निरपेक्षावस्थातो भिन्नस्वभावतैव तयोः कथम् इत्य् अपेक्षायां सूत्रकारणोपहितविशेषयोर् इ[96.20]ति हेतुभावेन विशेषणपदम् इदं योज्यम् । निर्दिष्टकारणाभिप्रायेण कारणत्रय[96.24]ग्रहणं न तु घटस्य त्रीण्य् एव कारणानि । तदुपयोगैर् भिन्नसामग्रीव्यापारैः कार्यापेक्षस्व(ये स्व)भावविशेषाः कार्याणां विशिष्टाः स्वभावास् तेषाम् असंकरो ऽ[96.24]साङ्कर्यम् । तत्र यदि ते कुलालादयह् प्रत्येकं जनकाः स्युस् तदानुक्रान्तकारणत्रयजन्य [96.21] इत्य् उच्येत । तथापि कथं
सर्वतः समुत्पद्यमानस्याखण्डात्मनः कार्यस्यायं विशेषो ऽस्माद् अयञ् चास्माद् इति व्यवस्थाप्यत इत्य् आशंक्याह् तस्य चैकैके[96.25]त्यादि । इतो ऽस्तु कार्यस्य तत्सामग्रीभूतसकलजन्यत्वं तद्गतस्य तु ततद्विशेषस्य कथं तज्जन्यत्वव्यवस्थेत्य् आह तदेकैकस[जा]तीति [96.27] मृत्पिण्डाद्यपेक्षया मृत्पिण्डादेर् अपरस्य तज्जातीयत्वं प्रत्येयम् । [40ब्] अनेनैतद् दर्शयति -- नैकस्याम् एव सामग्र्यां तस्मिन्न् एवाखण्डात्मनि कार्ये तत्तद्विशेषस्य तत्तज्जन्यत्वम् अवधार्यते अपि तु तत्तदुपचये तत् तद् उपचयत्य तत्तदपोधारे तत्तदु(द)पचयस्य दर्शणादेकत्वाध्यवसायतश् चैकाधिकरणत्वेन {प्. 336} व्यवस्थापिताद् इति । व्यवहर्तारश् चैवं न विपञ्चि(श्चि)त इति तत्त्वचिन्तकै[96.29]र् इत्य् उक्तम् । तेषाम् अप्य् एवं विवेचनेन किं प्रयोजनम् इत्य् आह यत [96.29] इति । यतो ऽनन्तरोक्तविवेचनात् । अनेकम् अपि कारणं कस्मात् स्वीकुर्वन्तीत्य् आह परस्परे[97.1]ति । क्षेपवत्यां हि सामग्र्याम् अन्योन्योत्पादितातिशयकार्यप्रणालिकया वाञ्च्छिताङ्कुरादिकार्योपजननयोग्यकारणसामग्र्यसद्भावार्थम् । एतच् चोपरिष्तात् प्रदर्शयिष्यते ।
__________नोतेस्__________
[118] भिन्नात्मकतया स् ।
"यत्र यद्योग्यं रूपम् उपपद्यते स तस्य विषय" इति तद्विषयस्य [97.14] घटस्येत्य् अर्थः । तदन्यावस्थाविषयात् [97.15] प्राप्तसहकार्यन्तरावस्थाकार्यात् । अस्ये[97.19]ति कार्यस्य । अनेन "तज्जनितविशेषभेदस्ये"ति मूलस्य कार्य[97.17]पदविशेषणस्य बहुव्रीहौ कर्तव्ये विग्रहो दर्शितः ।
ज्ञानं [97.27] तद्रूपम् अनुकर्तुं युक्तम् [97.28] । ने[97.26]त्य् अनुवर्तते न युक्तं [97.28] नार्हतीति चार्थः । हेतौ शानचो विधानात् तद्रूपविकलार्थसामर्थ्येनो[97.28]त्पादाद् इति तद्रूपानुकारी(रा)युक्ततायां हेतुर् उक्तो द्रष्टव्यः । तथापि कस्मान् न युक्तम् इत्य् अपेक्षायाम् आह -- भ्रान्तते[98.1]ति । ऐकान्तिकी [98.3] या परेणाइकान्तिकत्वेनाभिमता सा नास्ति, एकत्वाद् एव प्रमाणसिद्धाद् इत्य् अभिप्रायः । यदि वा नैकान्तिकी न निश्चयवती । अथवानेकात्मतैवैकान्तिकी नेतिपूर्वेणाभिसंबध्यते ।
अथ विज्ञानोपजनने किम् इन्द्रियादीनि स्वलक्षणान्तरान्तराप्रसवधर्माण्यपेतसंतानान्य् एव येनैकस्यैव कार्यस्य करणम् एषाम् उपवर्ण्यते । इत्य् आह एतच् चे[98.6]ति ।
ननु एकसामग्री[98.6]शब्देन यदि विज्ञानस्य जनकः कारणकलापो ऽभिप्रेतः, तदोक्तम् एव किम् अपेतं(त)संतानता तेषाम् इति ।
अथैकम् उपादानम् इतरत्सहकारिकारणम् अभिसन्धाय एकसामग्रीत्य् उक्तं न तद् अपि चतुरस्रम्, तस्या अप्य् अवान्तरसामग्र्याः किं तदुपादानोपादेयस्याइव क्षणस्य प्रसवः । अथोपादेयम् अनेकं न भवतीत्य् अभिप्रेयते । हंत तद् अपि सर्वं स्वं स्वम् उपादानम् अपेक्ष्योपादेयम् एवेति तद् अवस्थो दोष इति । उत्तर(उक्त) एव एकसामग्रीशब्दार्थः कैवलं बोधे यत्रः करणीयः । एकम् उपादानं सद् एवेतरत्सहकारिकारणसद् एव व्याप्रियते यदा तदा एकस्यैव विज्ञानस्य मनस्कारोपादानस्य चक्षुरादिसहकारिकारणस्यैव सत उत्पत्तिर् न तु चक्षुःक्षणस्यैवंभूतस्य स[त] उत्पत्तिर् अपि तु चक्षुर् उपादानस्य मनस्कारादिसहकारिकारणस्य सत इति । एवं रूपादिक्षणस्याप्य् उत्पादे द्रष्टव्यम् स्वयम् । अत्र समुदायार्थो मनस्कारोपादानकारणचक्षुरादिसहकारिकारणात्मिका सती सामग्र्येकम् एव कार्यं जनयति । तदैवान्यज्जनयन्ती तु नैवम् आत्मिका सती ज[41अ]नयति । किं तर्हि चक्षुर् उपादानकारणमनस्कारादिसहकारिकारणात्मिका । {प्. 337} एवं रूपादिक्षणजन्मि(न्म)न्य् अपि प्रत्येयम् । अत एवैषाम् आन्तरसामग्रीभेदः कृतः परस्परतो भेद इत्य् उक्तं पुरस्ताद् इति सर्वम् अवदातम् । कस्मात् पुनर् इष्टैकसामग्र्यपेक्षयैवैतद् उच्यते, न च सामग्रीमात्रापेक्षयापीत्य् आह परमार्थतस् त्व् इ[98.6]ति । तत्सामर्थ्यन्तर्गतानाम् इ[98.7]ति सा च सा चक्षुरादिसहकारिकारणात्मिका सामग्री चेति तथा यत्रोपादानभावेनान्तर्गतानाम् अन्तर्भूतानां यत्र सामग्र्यां सहकारित्वेन तेषां व्यापारस् तत्र । तत्सामग्र्यन्तरं तदवयवत्वेन । कार्यान्तरस्ये[98.8]ति सोपादेयक्षणापेक्षया तद्विज्ञानं चक्षुषः कार्यान्तरम् एवम् अन्यस्याप्य्
अन्यत् तस्य कार्यान्तरस्यापि प्रारम्भाद् इत्य् अनुवर्तते अनेककार्यकर्तृत्वम् इति र(च) शेषः कार्यः अन्यथा कस्मिन् साध्ये पञ्चमीयं हेतुभावम् अभिदध्यात् । अस्यैवार्थस्य दृढीकरणार्थं दृष्टान्तयन्न् आह यथे[98.9]ति । तदा [98.10] तद्वद् अनेकप्रत्ययजनितम् अपी[98.9]त्य् एकम् इत्य् अस्यानुवृत्तेस् तथानेकप्रत्ययजनितम् एकम् अपि नास्तीत्य् अर्थः । इति [98.9] हेतौ । अपि [98.10] न्यायतः सम्भावनाम् आह । यदि वा परमार्थतः कारणानेकत्वात् कार्यानेकत्वोपगमे ऽपि न काचित् क्षतिर् इ[98.9]ति सम्बन्धः कार्यः । कस्मान् न क्षतिर् इत्य् आह -- तत्सामग्र्यन्तर्गतानाम् इ[98.7]ति । यथेत्यादि च पूर्ववद् व्याख्येयम् । इतिस् त्व् अनन्तरोक्तान्योपादानकारणानि सहकारिकारणानि प्रत्यवमृषति, ततोयम् अर्थ उक्तलक्षणकारणानेकत्वाद् इति । संप्रति प्रकृतम् उपसंहरन्न् आह तत [98.10] इति । सामान्येन [98.11] कार्यमात्राश्रयणेन । अथ सिद्धसाधनत्वं हेतोः को दोष इति चेत् । तद् एतद्धर्मोत्तरप्रदीपे ऽस्माभिर् विवेचितं विस्तरतश् च स्वयूथ्यविचार इत्य् आस्तां तावद् इह ।
द्रव्य[98.16]शब्देन द्रवति पर्यायान् गच्छतीति व्युत्पात्त्या धर्मो परिणामिनित्यो विवक्षितः पर्यायशब्देन च परि समन्तादेत्येति द्रव्यम् इति व्युत्पत्त्या धर्माः । आदि[98.18]शब्दात् स्पर्शादिसंग्रहः । घटो द्रव्यं रूपादयः [98.19] पर्याया इति द्रव्यपर्याययोर् एतद् उदाहरणम् इतिः संख्याभेद[98.19]स्याकारं दर्शयति द्वितीयस् तु संज्ञाभेदस्य । इति[98.22]ना लक्षणभेदस्याकारो दर्शितः । वस्तुराग [98.23] इत्य् उपलक्षणम् एतत् । इतिना [98.23] कार्यभेदस्य स्वरूपम् आह इतिर् अ[98.24]नन्तरोक्तभेदाभेदं प्रत्यवमृषति । चक्षुरादीनाम् अभिन्नो य आत्मा एककार्यजनकः सामान्यभूतस् तज्जन्यता तस्य [98.26] । एतद् एव द्वयम् इत्यादिनोपसंहरति परः ।
सामान्येन पररूपाणां आत्माभेदस्य बो(स्याबा)धकत्वं प्रतिज्ञाय विशेषेणेदानीं दर्शयितुम् आह -- संख्याभेदस् तावद् इ[99.7]ति । बहुत्वेन व्यवहारो बहुवचनान्तस्य प्रयोगः । बहुवचनं च "युष्मदि गुराव् एकपाम्" इत्य् अनेन । अनेन संख्याभेदादित्य् अस्य {प्. 338} साधारणानैकान्तिकत्वं दर्शितम् । धर्मधर्मिसमुदायात्मकस्य कार्त्स्न्यस्याप्रतीतिः [99.12] प्रसज्येत । तत्प्रतीतौ वावस्थात्रवस्थाविषयपूज्यताप्रत्ययगोचरत्वस्य गौरवस्याप्रतीतिः प्रसज्येत । अत्रैव वक्तव्या[41ब्]न्तरम् उच्चिन्वन्न् आह व्रीहय [99.12] इति चेत् यत्र बहुवचनं "जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्" [पा.1.2.58] इत्य् अनेन । न च पर्यायरूपेण भिद्यन्त [99.16] इति ब्रुवता च यदि संख्याभेदो ऽनेकत्वस्य साधकः स्यात् तदा तदभेदोप्य् एकत्वस्य साधकः स्यात् । अन्यथा तस्यायोगात् । न चैवं तस्मात् संख्याभेदो न समर्थो ऽनेकत्वं साधयितुम् इति दर्शितं द्रष्टव्यम् ।
ततः [99.19] संज्ञाभेदात् । अनेन संज्ञाभेदाद् इत्य् अस्य संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं दर्शितम् । संप्रति साधारणानैकान्तिकत्वम् अपि दर्शयन्न् आह एकस्मिन्न् अपि चेति[99.19] अत्र गजनिमीलिकया पूर्वदोषो द्रष्टव्यः । समस्तस्य [99.21] शक्तिशक्तिमदात्मकस्य धर्मधर्मिसमुदायस्य । तयो[99.23]र् द्धर्मधर्मिणोस् तद्वाधिनां [99.24] धर्मवाचिनाम् । मात्रा [99.26] लेशः ।
सर्वदैकरूपेणावस्थानं कूटस्थनित्यता तया [99.28] तत्तदवस्थारूपेण परिणमतो ऽवस्थानं परिणामनित्यता तदुपगमात् [100.1] सा च [100.1] परिणामनित्यता । अस्य [100.2] परिणामनित्यस्य सुवर्णादेर् द्रव्यस्य । तद्रूपेण [100.2] पर्यायरूपेण च्छेदो विनाशः । पर्यायाणाम् इवेति वैधर्म्यदृष्टान्तः । इयं परिणामनित्यता ।[119]कूटस्थनित्यता द्रव्ये पर्यायातिरिक्ते न संभवति [100.4] । कुत इत्य् आह पर्याये[100.5]ति ।
__________नोतेस्__________
[119] अत्र "कूटस्थनित्यतावत्" इति पाठः टिबेटनानुसारी सम्यग्भाति ।
विभक्तपरिणामेष्व् इ[100.12]ति पाठे विभक्तः परिणामो येषाम् इति विग्रहः । विभक्तो विशिष्तकार्यकारित्वेन नियुक्त इति चार्थ इति पूर्वे निबन्धकृतो व्याचख्युः । इदानीम् अपि केचित् पण्डितांमन्या अनेनैव पाठेन कथम् अपि व्याचक्षते । तद् एतत् पापीयः विभक्ति[क्त]शब्दस्यान्यार्थत्वात्, न ह्य् अयं विभक्तशब्दो विशिष्टकार्यकारित्वेन नियुक्तं वक्ति । अपि तु विभागेन व्यवस्थापितम् । किञ् च किम् अस्य शब्ददारिद्यं येन विशिष्टकार्यकारिपरिणामेष्व् इति वक्तव्यं विहाय इदम् ईदृशम् अवाचकम् आचक्षीत । सर्व एव च परिणामस् तदन्यकार्यापेक्षया विशिष्टकार्यकारीति को ऽन्यस्माद् अस्य पटादिपरिणामस्य विशेषः, कश्चास्य नियोक्तेति किम् अस्थानपराक्रमेण । तस्मात् क्वचित् पुस्तके प्रमादपाठ एषः । विभक्तपरिमाणेष्व् इति तु पाठो युक्तरूपः । तत्र परिंआणं मानव्यवहारकारणं {प्. 339} गुणविशेषः । परप्रसिद्ध्या चेदम् उच्यते तच् च दीर्घत्वाख्यम् उत्पाद्यम् अत्र विवक्षितम् । तत्र विभक्तं विभागेन व्यवस्थापितम् परिमाणम् येषां पटादीनां तेषु विस्तारितेषु दीर्घीकृतेष्व् इति यावत् । विभक्तायाम् आदिकर्पटादयः किञ्चिद् आवृण्वते किञ्चिच् च धारयन्ति किञ्चिद् उपबध्नन्तीति । प्रागविद्यमानं कस्यचिद्(द्)भावे भवदुत्पद्यमानं कार्यम् [140.18] । हेतौ च शतुर्विधानात् पूर्वम् अभावा(भव)त् कस्यचिद् भावे भावा(भव)द् इत्य् अर्थः । भवेत् कार्यम् इति तु पापीयान् पाठः ।
यदि परस्परोपादानाहितरूपविशेषस् तत्सामग्र्यन्तर्गतः सर्व एव क्षणः प्रत्येकं समर्थ उत्पद्यते । यतो विज्ञानादिप्रसूतिस् तेन तावद् अवश्यं ज्ञानजननस्वभावेनैव भाव्यम्, अविज्ञानजननस्वभावेनैव वा, न तु परस्परविरुद्धतदतज्जननस्वभावेन भेदप्रसङ्गादित्य् अभिप्रायवान् परश्चोदयन्न् आह नन्व् इ[100.24]त्यादि । कथं तदन्यकार्य[42अ]संभव [100.26] इति ब्रुवतश् चायम् अभिप्रायः --
"तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः ।
तद्रूपादि किम् अज्ञानं विज्ञानाभिन्नहेतुजम् ॥" (प्रमाणवा. 2.251) इति ।
अनेककार्यक्रियास्वभावत्वाद् वि[101.3]ज्ञानात्मकानेककार्यकारिरूपत्वात् । तेषां [101.4] सजातीयेतरक्षणानाम् । तेषां चक्षुरादीनां सत्ता तदा[न]न्तर्येण दर्शनं [101.5] तस्मात् । ननु तत्सन्निधौ विज्ञानलक्षणकार्यदर्शनात् विज्ञानस्यैव जनक इत्य् अवधारणात् तदवस्थे दोष कस्माद् इदम् उच्यत इत्य् आह तत्रे[101.5]ति । अनैनैतद् आह धर्ममात्रस्य संदेहाद् अयोगव्यवच्छेद एवात्र न्यायप्राप्तो नान्ययोगव्यवच्छेद इति ।
ननु च येन रूपेण विज्ञानं विज्ञानं जनयति यदि तेनैकरूपेणैव रूपं जनयति तदा तेनावश्यं तद्विज्ञानवद्बोधात्मना भाव्यम् । अथ तदन्येन रूपेण जनयति तर्हि विरुद्धरूपद्वयानुषङ्ग इत्य् आशङ्क्याह न चात [101.7] इति । अतो विज्ञानाविज्ञानजननस्वभावत्वात् । कस्मान् न स्याद् इत्य् आह -- एकस्यैवे[101.7]ति । आत्मातिशयस्य [101.7] स्वहेतुप्रत्ययसामर्थ्यायातविज्ञानाविज्ञानोपजननयोग्यस्वभावविशेषस्य । अनेनैतद् दर्शयति एकेनैव रूपेण तत्तज्जनयति केवलं तद् एकं रूपमीदृग्विज्ञानाविज्ञानजननम् इति । एतद् उक्तं भवति तत्सामग्र्यन्तर्गतानां सर्वेषाम् एव क्षणानां स्वहेतुभिर् इदं रूपम् उपनीतं यदुत यूष्मत्प्राग्भावे ऽनेकेनैव बोधाबोधात्मकेन कार्येण जनितव्यम् इति । एवं तर्हि विज्नानाभिन्नहेतुजत्वेन {प्. 340} सुखादीनां बोधात्मकत्वं दुःखसाध[कत्व]मापनीय(प)न्नम् । तत्रापि हीदं शक्यते वक्तुं प्रोषितागतप्रियपुत्रादिक्षणस्य स्वहेतुसमूहाद् एव तथाभूतं रूपम् उप(द)पादि येन विज्ञानम् अविज्ञानात्मकं च सुखम् अन्यच् च जनयतीति शुद्धाद् रूपे(?) यदिमे(?)तद्विशेषवद्विशेषाख्याने ऽस्माभिह् परिहृतम् इति तत एवनुगन्तव्यम् इति । पूर्वम् अवधीरितावधारणनिरूपेणाक्ताव् उक्तम् अधुना पुरस्कृतावधारणोक्ताव् इति भेदो द्रष्टव्यः । इदंतया व्यपदेशयोग्यं सनिदर्शनम् । स्वदेशे परोत्पत्तिनि(वि)बन्धकं सप्रतिघम् [101.11] । इयं चागमभाषा । भिन्नप्रवृत्तिनिमित्तयोर् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् तेषां तन्निमित्तानां तदयोगाद् एकत्रैव वृत्त्यनुपपत्तेः । अपेक्षायां [101.14] तदेकोपकारापेक्षायाम्, उपकारस्योपकार्याभेदान् न्यायप्राप्ताद् इति । उक्तम्
एवाधिकाभिधानार्थम् अवतारयन्न् आह -- नापी[101.17]त्यादि । प्रतिबन्धाभाव एव कुत इत्य् आह -- तद्ग्राहकेति तदभावम् एव प्रतिपादयितुम् आह प्रत्यक्षत [101.18] इति । एकात्मतयैव [101.20] ज्योतीरूपाद्यात्मतयैव । प्रत्यक्षेणैवम् उपलम्भान् न तावत् प्रत्यक्षं तत्प्रतिबन्धसाधकम् इत्य् अर्थाद् दर्शितम् । येनानुमानेन कार्यभेदस्य कारणानेकत्वप्रतिबन्धः साध्यते तत्रापि [101.20] एतच् चैकसामग्र्यन्तर्गतविशिष्टैकैककारणापेक्षया द्रष्टव्यम् न तु कारणमात्रापेक्षया कलापात् कलापोत्पत्तेर् इति । अत्रैव दोषान्तरं समुच्चिन्वन्न् आह एकस्ये[101.21]ति । सहकार्य्युपादानभावेनानेकक्रियानभ्युपगमे [101.21] यदि [42ब्] एकस्यानेकरूपत्वम् अस्माभिर् अभ्युपेतं स्यात् प्रमाणोपपन्नं तदा धर्मिस्वभावतयैव तदुच्येतेत्य् अभिप्रायेणोक्तम् एकस्यानेकस्वभावताया एव चिन्त्यत्वाद् इ[101.25]ति । तद्वद[101.27]नेकवत् । अन्यथेति यदि येनानेकेनैव(क)स्वभावताम् अनुभवति तद् एव परं भिद्यते । न त्व् असौ धर्मीति इति[102.3]र् हेतौ ।
एकं कार्यं यस्यानेकस्य तद् एककार्यं तस्य भावस् तत्ता [102.4] एककार्यकारित्वं न स्याद् इत्य् अर्थः । तस्यैव कार्यस्य यदात्मपुरस्कारेण धर्मिपर्यायव्यवस्था तेन भेदाद् एवैकरूपत्वाभावाद् इति समुदायार्थः ।
ननु नैवास्माभिर् एकम् अनेकं करोतीत्य् उच्यते येन त्वयैवम् उच्येत, किन्तु समग्रावस्थायां तदेकैकम् एव तदेकैकम् उपकल्पयतीत्य् आशंक्य न चैके[102.6]त्यादि प्रथमतो योज्यम् । कस्मान् न जनयतीत्य् अपेक्षायां तु पश्चाद्योज्यम् । नही[102.4]त्यादि । सहैव[120]युगपद् एव । एतद्दोषभयात् परस्परोपादानकृतोपकारापेक्षत्वे चेष्यमाणे तेषाम् एकैकेन भावतस्तावतः क्षणस्योपकारात् । कथम् एकम् अनेककार्यकृन् न् स्याद् इति चानेन दर्शितम् । ततश् चे [102.6]त्य् {प्. 341} एकस्यानेककार्यकारित्वासंभवात् । गतार्थम् अप्य् एतत् कण्ठोक्तं कुर्वन्न् आह । अनेकस्ये[102.7]त्यादि । यथायोगम् एकानेकशब्दौ सम्बन्धव्यौ । अनभ्युपगमाद् एवैकस्यानेकक्रियाविरहाद् उक्तया नीत्यानेकस्याप्य् एकक्रियाविरहाद् इति चार्थो द्रष्टव्यः ।
__________नोतेस्__________
[120] सहैक स्
ननु च एकस्यानेककारित्वप्रकाराद् अनेकस्यैवैककारित्वप्रकारात् किलान्यः प्रकारो नास्तीत्य् अभिमतम् । अस्ति खल्व् अनेकम् एवानेकं करोतीति प्रक्रान्तं तत् कथम् एतत् संगस्यत इति चेन् न । अनेकैकसामग्र्या(य)न्तःपतितेनानेकक्रियोपगमे सर्व्वस्यैवोपादानसहकारिभावेन सजातीजविजातीयविशिष्टक्षणारम्भस्य न्यायप्राप्तस्योपगमाद् एकस्यानेकक्रियोपगमप्राप्तेर् इत्य् अभिप्रायात् सर्वम् अवदातम् । अहेतुकत्वे च तन्नियमायोगाद् इति भावः । द्रव्यपर्याययोस् तावद् भिन्नं कार्यम् इष्टम् । तौ चैकस्वभावाव् एकं वस्त्व् इति कथम् एकस्यानेककार्यकारित्वम् अनुन्मत्तेन प्रतिक्षिप्यत इत्य् अभिप्रायवान् आह द्रव्ये[102.13]त्यादि । एकस्वभावत्वे ऽपि नैकवस्तुतेत्य् अह -- स्वभावस्यैवे[102.15]ति । अन्यथा यदि वस्तुनो ऽन्यः स्वभावः स्यात् तस्य [102.15] वस्तुनः एवं स्वभावस्याप्य् अवस्तुताप्रसङ्गादित्य् अपि द्रष्टव्यम् येनाभिप्रायेण कथं नोन्मत्तः [102.14] इत्य् अवादीत् तम् इदानीं स्फुटयन्न् आह एकस्वभावत्वे चे[102.16]ति । यदा हि तूलपिण्डादिद्रव्यं द्विपिण्डकद्रव्यनिर्माणसमय एव काकतालीयन्यायेन पवनावधूततूलांशुप्रभृतिना स्वल्पपरिमाणेन द्रव्यान्तरेण संयुज्यते द्रव्यारम्भकसंयोगाप्रतिद्वंद्वी(द्वि)विभा[ग]ज(भागज)नकक्रियाहेतुं च सहकारिकारणं प्रतिलभते । तदतद्द्रव्यं द्विपिण्डकं तूलद्रव्यम् । गुणं च तथाभूतसंयोगाख्यम् । कर्म च तथाभूतां क्रियाम् एकदैव करोतीति द्रव्यगुणकर्मणां समवायिकारणंवैशेषिकैर् अव्श्यैपितव्यम् इत्य् अभिप्रायो ऽस्यैवं वदितुर् अवसातव्यः । [43अ] अन्यथा कार्यद्रव्योदयसमकालं कार्ये [न] शुक्लादिरूपम् उत्पद्यते । किन्तूत्पन्ने कार्ये पश्चात्
कारणाद् उत्पद्यते अत एवैकस्मिन् क्षणे द्रव्यम् अरूपम् अस्पर्शम् अरसम् अगन्धम् उपगम्यतेयोगैः। तस्य तु गुणस्योत्पद्यमानस्य समवायिकारणं तद् एवानन्तरोत्पन्नं द्रव्यं न तु तत्कारणं द्रव्यम् । एवं तावद् इदम् अस्माभिर् यथा कथञ्चिद् उपपादितम्, कर्मणश् चैकस्येति तु संयोगसंस्कारापेक्षयोपपादयितुं शक्यते न पुनः संयोगविभागापेक्षया । न हि कुतश्चिद् अपि कर्मणो युगपत् संयोगविभागाव् उत्पद्येते किन्तु प्रथमं विभागस् ततः प्राच्यसंयोगविनाशस् तदनन्तरम् उ?अरसयोग इति पदार्थविदः प्रजानते । न च युक्त्याया(पा)द्यैतद् वक्तव्यम् ।वैशेषिकप्रक्रियायां स्थित्वैवैतद् अभिधानस्य प्रकान्तत्वात् । अन्यथा किम् अस्ति कर्म किम् अस्ति संयोगादिर् येनैवम् उच्येत । अतश् चैवं यत्क्र्तान्तकोपेने[102.17]त्याह । अभिन्नकालं च कार्यं विचारयितुं प्रकृतं न तु भिन्नकालम् इति किं बहुना । एतच् चवैशेषिकशैलीमनुपालयन्तो यदि केचन निपुणा मनीषिणो यथाश्रुति समर्थयन्ति कामं समर्थयन्तु न नो हानिः काचिद् अपि तु महानेव लाभ इति ।
{प्. 342} अनवय[121]वत्वेन [102.24] कार्त्स्न्येन । न तु सजातीया विजातीयाः समस्ता व्यक्रीर्व्यश्नुवीरन्न् इ[102.25]त्य् अर्थः । कथया [103.1] विचारेण ।
__________नोतेस्__________
[121] अनवयवेन स्
देशकालस्वभावभेदानां मध्ये देशकालाभेदस्याभेदसाधने साधारणानैकान्तिकत्वं प्रतिपादयन्न् आह तथाही[103.4]त्यादि । स्वभावाभेदपि निरूपयन्न् आह -- स्वभावोपी[103.5]ति । अपिर् उपगमप्रदर्शने । द्वितीयः पुनर् अपि [103.6] अवधारणे रूपतेत्य् अस्मात् परो द्रष्टव्यः । अनुवृत्तिव्यावृत्तिरूपते[103.6]ति द्रव्यस्यानुवृत्तिरूपता पर्यायाणां व्यावृत्तिरूपतेति यथाक्रमं योज्यम् । प्रत्येकम् इति प्रतिवस्त्वत्य् अर्थो द्रष्टव्यः न तु प्रत्यात्मेति । नहि द्रव्यस्य व्यावृत्तिरूपतापि नापि पर्यायाणाम् अनुवृत्तिरूपतापि । तद् अयम् अर्थो यदि प्रतिवस्तु द्रव्यपर्याययोर् अनुवृत्तिव्यावृत्तिरूपतैवोपगम्यत इत्य् अन्योन्यव्यावृत्तिस्वभावद्वयाविष्टं घटपटवत्पदार्थद्वयं स्यान् न त्व् एकं द्विरूपम् । इति[103.8]र् हेतौ । तस्मात् [103.8] स्वभावाभेदात् । पदार्थद्वयस्यैव न्यायप्राप्तत्वात् स्वभावाभेदस्यैवं सिद्धत्वाद् इति भावः । अनुवृत्तिव्यावृत्त्योस् तत्स्वभावत्वम् उपेत्यैतद् उक्तम् एतद् एव तु नास्तीति दर्शयन्न् आह -- न चे[103.8]त्यादि अनुवर्तमानव्यावर्तमानाधानत्व[122][103.9] च भावत्वं निमित्तम् इहाभिप्रेतम् यद् अनन्तरं व्यक्तीकरिष्यते ततस् तयोस् तत्स्वभावत्वायोगात् । तत्स्वाभावत्वम् एवानयोः कथं न युज्यते यनैवम् उच्यत इत्य् आह -- भावत्वेने[103.11]ति भावत्वेन क्रियात्वेन । भवित्रधीनत्वात् [103.11] कर्त्रधीनत्वात् । भावयद्वा(यन् वा) उत्पत्तिमान् धर्मस् तत्त्वेन भविता धर्मी तदधीनत्वात् न तु तत्त्वाद् इति । यद्य् एककार्यकर्तृत्वाद् एकत्वं तर्हि अनेककार्यकर्तृत्वाद् अनेकत्वं स्यात् । अन्यथा तद्यो(तदयो)गात् न चैवम् इष्टं युक्तं वा तस्माद् एतद् अपि विपर्यये बाध[43ब्]काभावान्
न वक्तुम् उचितम् इत्य् अभिप्रायवान् आह एकस्यापीति [103.22] । एकस्याप्य् अनेके[103.24]त्यादि ब्रुवतः पूर्ववद् अभिप्रायो बोद्धव्यः । कृताकृतानां [103.22] संकेतितासंकेतितानाम् । एकाभिधानाभिधेयत्वासंभवे विश्वस्य तद्योग्यत्वं हेतुः । विषयभेदं प्रकृतत्वात् शब्दानाम् अभिधेयलक्षणविषयभेदं [103.26] ब्रुवाणं [103.26] प्रत्यभिहितम् अ[103.26]नन्तरम् एव । एकत्रापी[103.27]ति ब्रुवतश् च पूर्ववदभिप्रायो ज्ञेयः । अनन्तरोक्तया वचनभङ्ग्या संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं सूचयित्वा सम्प्रत्येकविज्ञानविषयत्वाद् इत्य् अस्य साधारणानैकान्तिकत्वं ख्यापयितुम् आह बहूनाञ् चेति [104.1] । ननु यद्य् एकं द्विरूपन्नेष्यते कथं तर्हि तद् एकं विज्ञानं बोधरूपं नीलाकारं चोत्पद्यत इत्य् उच्यत इति परस्य वचनम् आशंक्याह[123]किंत्व् इति । नीलप्रतिच्छायतया [104.3] नीलसरूपतया भावतो[104.5] वस्तुतः । अनेन व्यावृत्तिभेदम् उपादाय तथोच्यते न तु वास्तवं द्वैरुप्यम् इति दर्शितम् । {प्. 343} संमूर्च्छितत्वाद् [104.6] भूयोन्योन्यावयवाप्रविष्टत्वात् । शबलरूपत्वे चायं हेतुह् । दृष्टान्तम् एव विघटयन्न् आह स ही[104.8]त्यादि । स हिरण्यकशिपुवधार्थनिर्मितनरसिंहात्मकः । अवयविनः प्रमाणबाधितत्वाद् इत्य् अभिप्रेत्य परमाणुसंहा(घा)तरूप [104.8] इत्य् उक्तम् । प्रत्येकं नरसिंहरूपा न भवन्ति [104.9] । सर्वत्र नरसिंहद्रव्य(बुद्ध्य)भावाद् इति भावः । अनेनैव संमूर्च्छितत्वाभावेन शबलरूपत्वासिद्धेः साधनशून्यो दृष्टान्त इति दर्शितम् । तथा चाव्यवस्थितपरमाणुप्रचयाभिप्रयेण भागशब्दप्रवृत्तिर् न तु परप्रसिद्धा तस्यावयवाभिप्रायेण
अवयव्यारम्भस्यानभ्युपगमात् । संप्रति भवतु नरसिंहभागाभ्यां नरसिंहावयविनो निर्माणं तथापि तस्य शबलरूपत्वासिद्धेः साधनशून्य एव दृष्टान्त इति दर्शनाद् दर्शयितुम् आह जात्यन्तरं चे[104.10]ति । तासु तासु ह्य् अवस्थासु स एवायं नर इत्य् अनुवृत्तिप्रत्ययहेतोर् नरत्वजातेर् ऊर्ध्वतासामान्यशब्दाभिलाप्यायास् तासु चावस्थासु सिंहः सिंह इत्य् अनुगाभिप्रत्ययहेतोः सिंहत्वजातेस् तथाभूताया अन्या तासु तास्ववस्थासु स एवायं नरसिंह इत्य् अनुवृत्तप्रत्ययहेतुभूता तथाभूतैव जातिर् जात्यन्तरम् अवसेयम् । स [104.10] इति सामानाधिकरण्येन निर्देशश् च तस्य तद्वतश् चाभेदविवक्षया समुदायविवक्षया वा द्रष्टव्यः ।दिगम्बरमतस्य च प्रकृतत्वात् एवं व्याख्यायते तेन हि तिर्यक्सामान्यम् नेष्टम् उपरिष्टाच् च एतद्भट्टार्चटेनापि स्फुटयिष्यते । नापि तिर्यक्सामान्यम् अत्र कल्पयितुं युक्तम्, नरसिंहस्य तथाभूतस्यैकत्वात् अनेकवृत्तित्वाच् च सामान्यस्येति । शबलरूपत्वाभावम् एव विचित्रं ही[104.11]त्यादिनाप्रतिपादयति । अयम् अस्याशयो यदि संमूर्च्छितत्वं त्यक्त्वा यथा कथञ्चिद् अनेकरूपत्वेनापि शबलरूपतोच्यते तथाप्य् एकत्वाभावस्य न्यायप्राप्तत्वान् नैकस्य (शबलरूपतोच्यते) । तथाप्य् एकत्वाभावस्य न्यायप्राप्तत्वान् नैकस्य[124]) शबलरुपत्वं इति [44अ] प्रकृतम् एव हीयेतेति । अवश्यं हि शाबल्यम् इच्छता वैचित्र्यं नानारूपत्वम् एष्तव्यम् इत्य् अभिप्रायेणाह (वैचित्र्यं नानारूपत्वम् एष्तव्यम् इत्य् अभिप्रायेणाह[125]) विचित्र्यं ही[104.11]ति । यद्य् एकं शबलरूपं चो(नो)पपद्यते कथं तर्हि लोकः शबलम् इदम् इति मन्यत इत्य् आशंक्याह केवलम् इ[104.13]त्यादि ।
एकप्रत्ययवमर्षाद्येकं कार्यं तस्य दर्शनात् [104.13] । एकव्यवहारे चायं हेतुः ।
__________नोतेस्__________
[122] "त्वेन" इत्य् अपि पठितुं शक्यम् । [123] विज्ञानं तु स् [124] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः । [125] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः ।
इह खलु वास्तवधर्मापेक्षो वास्तवो धर्मी । धर्मश् च पूर्वं कृतकविचारेण पारमार्थिको निरस्तस् तदपेक्षो धर्म्य् अपि वास्तवो व्युदस्त इत्य् अभिप्रायेण धर्मधर्मीणोर् निषेधाद् इ[104.18]त्य् उक्तम् ।
{प्. 344} अनन्तरोक्तम् अर्थजातं सातिरेकं स्वक्र्ताभिः कारिकाभिः प्रतिपादयितुं परमुखेणाह -- आह चे [104.20]ति ।
वस्तुन [104.21] एकस्येति प्रकरणात् । किल[104.21]शब्दो वक्तुररुचिं ख्यापयति । तयो[104.22]र् द्रव्यपर्याययोः ।
तत्र संज्ञाभेदस्य तावद् भेदकत्वं प्रतिबध्नन्न् आह इन्द्रिये[104.23]ति । वस्तुरूपं शब्दानां नैव [104.24] गोचरो विषयः । अपोहस्यापि वस्तुत्वेनाध्यावसायात् विशेषयन्न् आह इन्द्रियज्ञाननिर्भासी[104.24]ति । बहुवचनेन व्याप्तिम् आह तत् तस्मात् केन [104.23] हेतुना । लोकोक्तिश् चैषा द्रष्तव्या । संज्ञा सांकेतिकः शब्दस् तद्भेदात् [104.24] । अत एव सामान्येन शब्दाविषयत्वं प्रतिपादितम् । शब्दानां वस्तुगोचरत्वनिषेधद्वारा च संज्ञाभेदस्याभेदकत्वं प्रतिपादयतो ऽयम् आशयो यदि पुनः शब्दा वस्तुवृत्त्या इन्द्रियज्ञानानीव बाह्यविषया अभविष्यन् नियतम् इमे अन्योन्यभिन्नरूपाः सन्तो लोचनादिचेतांसीव रूपादीन्य् अर्थान् स्वस्वविषयान् अभेत्स्यन्त इति ।
वस्तूनां तद्गो(तदगो)चरत्वे कारणम् आह -- परमे[104.25]त्यादि । अभिधानाभिधेययोर् अभेदविवक्षायाम् इत्यादिवचनाद् इ[104.25]त्यादिवचनप्रतिपादिताद् अर्थाद् इत्य् अर्थो ऽवसातव्यः ।
तत् त[104.27]स्मात् कल्पितगोचराः [104.27] कल्पनारूढरूपविषयाः । तत् त[104.28]स्माद् यदि संज्ञाभेदाद् भेदः [104.28] कल्पितस्यैव भेदो भवेद् इति योज्यम् ।
कल्पितभेदे किं वस्तुभेदो न भवतीत्य् आह व्यावृत्तिभेद [105.1] इति । अर्थाक्षिप्तम् एव कंठोक्तं कुर्वन्न् आह न वस्तुन [105.1] इति ।
ननु किम् एकद्विवचनबहुवचनान्य् एव संख्या येन तद्भेदः संख्याभेदः (संख्याभे[126]द) उच्येत । न चैतत् । किंन्त्व् अद्यै(?)वैकत्वादिरूपा संख्या तदभिधायकं तु वचनम् अत एव पाणिनिः "बहुषु बहुवचनाम"(पा. 1.4.21)त्याद्याचख्याव् इति । स्याद् एवैतत् यद्य् एकादिव्यवहारहेतुः संख्या एकद्रव्यानेकद्रव्या वा प्रमाणबाधिता न स्यात् । केवलम् इति एव नास्ति । अस्ति तु तथाभूतसङ्केतानुरोधाद् एकादिवचनम् एवैकादिव्यवहारनिबन्धहम् इत्य् अनेनाभिप्रायेणोक्तम् नैवान्यो मतो वचनभेद [105.2] इति ।
__________नोतेस्__________
[126] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः ।
ततो [105.3] वचनभेदात्मकात् संख्याभेदात् कल्पितस्य [105.3] कल्पनाविपरिवर्तिनो रूपस्य न तु वस्तुन [105.4] इति दूरस्थम् इह संबन्धनीयम् । कथञ्चिद् {प्. 345} [105.4] द्रव्यपर्यायरुपेणान्यथा वा । अभिन्नते[127][105.3]ति भेदाध्यवसायो ऽवसयः । कुतः पुनः सिद्धम् एतद् वचनभेदात्मकः संख्याभेदः, स चाभेदक इत्य् आह -- येषाम् इ[105.4]ति । अत्रापि वाच्यवाचकयोर् अभेदविवक्षया इत्यादि प्रतिपादि[44ब्]त एवेत्यादिशब्देनोक्तो द्रष्टव्यः ।
__________नोतेस्__________
[127] विभिन्नता स्
अधुना लक्षणभेदम् अधिकृत्याह अविनाश [105.5] इति । किं [105.6] कस्मात् । तदात्मका [105.6] नैव, विरुद्धधर्माध्यासाद् इति भावः । यदि वा तदात्मका इति हेतुभावेन विशेषणं तेन तदात्मकत्वात् किं कस्माद् द्रव्याविनाशे नाशिन [105.6] इत्य् अर्थः । अनेनैकस्य एतल् लक्षणद्वयायोगाल् लक्षणभेदो ऽसिद्ध उक्तः ।
उक्तदोष(षं) निराचिकीर्षोः परस्य वचनमा[शङ्कमा]न आह नष्टा [105.7] इति । ते [105.7] पर्यायाः । चेदि[105.7]ति पराभ्युपगमं दर्शयति । पर्यायरूपेण [105.7] न धर्मिरूपेणेत्य् अर्थाद् अवस्थितम् । एतन् निराकुर्वन्न् आह -- द्रव्येति । द्रव्यस्वभावतो ऽन्यस्वभावता तेषां किम् अस्ति? पृच्छतश् चायम् अभिप्रायो यश्.अन्यस्वभावता तेषां भवेत् स्वभावभेदेन स्वभावाभेद एव न भवेद् इति । अत एवायं वैदर्भपरस्य प्रश्नः । सिद्धान्तवाद्येवैतद् दोषदर्शिनो ऽन्यस्वभावतानिषेधम् आशंकमान आह न चेद् इति [105.8] । अत्राप्य् आह नाश [105.8] इति । तथा [105.8] तेन प्रकारेण । पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेणेत्य् एवम् आत्मना कथं नाशः [105.8] । नो चेद् इति तु क्वचित् पाठः । तत्रापि नष्टाः पर्यायरूपेण द्रव्यस्वभावेन नो चेत् [105.8] न यदि प्रकृताश् च पर्यायाः कर्तृकत्वेनाभिसंबध्यन्ते । एतद् आशंक्य सिद्धान्त्य् एवाह किम् अन्यरूपता तेषां इ[105.8]ति । द्रव्यस्वभावस्य श्रुतत्वात्, द्रव्यस्वभावाद् अन्यस्वरूपता तेषां किम् अस्तीत्य् अर्थः । शेषम् समानं पूर्वेण । अनुगामिरूपं द्रव्यम् उदयव्यययोगिनस् तु पर्याया ऐकात्म्यञ् च द्रव्यपर्यायाणाम् अह्रीकैः किं नेष्तं?
तत्र व्ययिनः पर्यायानधिकृत्योक्तम् । इदानीम् उदयिनो ऽधिकृत्याह -- द्रव्यात्मनी[105.9]ति । पर्याया इत्य् अनुवर्तते । द्रव्यस्यात्रैव श्रुतत्वात् तत्[105.9]शब्देन तस्य परामर्शः । तद् अयं वाक्यार्थो विरुद्धधर्माध्यास(से) भेदनिबन्धनेपि केन कारणेन ते [105.10] पर्यायाः द्रव्यात्मका इति । विरुद्ध्धर्माध्यास एव कुत इत्य् आह -- द्रव्यात्मनि स्थिते पश्चाद्भवन्त [105.9] इति । हेतौ शतुर्विधानाच् च पश्चाद् भावाद् इत्य् अर्थः । तन्निष्पत्तावनिष्पत्तिर् एव विरुद्धधर्माध्यास इति भावः ।
{प्. 346} अनेन च प्रकारद्वयेन तादात्म्यहापनेन भिन्नरूपाणां एषां तेन सह सम्बन्धाभावात् तद्धर्मत्वम् एव च न स्यात् । ततश् च प्रकृतकृतिदर्शितम् अत्रैव वक्तव्यान्तरं समुञ्चिन्वन्न् आह भूत... किम् इति [105.10] तत्र द्रव्ये भूतं जातं किं? द्रव्यपर्याययोर् ऐकात्म्येन द्रव्यस्थितौ पर्यायाणाम् अपि नियता स्थितिर् इति न किञ्चिद् भूतम् इत्य् अभिसन्धिः । यतः [105.10] कस्यचित् तदतिरिक्तस्याभावात् ।
अभिप्रायम् अविदुषः परस्य वचनम् आशंकमान आह भेदे[105.11]ति । भिद्यन्त इति भेदाः पर्याया एव तद्रूपं भूतं यदाष्यते [105.11] । एतन्निराचिकीर्षन्न् आह भिन्नम् इ[105.12]ति । हिरवधारणे भिन्नम् इत्य् अस्मात् परो द्रष्टव्यः ।
अभेदे [105.13] तयोर् ऐकात्म्ये । एतद् इ[105.14]ति द्रव्याविनाश(शे) पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेण, स्थिते च तस्मिन् भेदरूपं भूतम् इति चेति । असंबद्धत्वम् एवास्य पूर्वसामर्थ्योक्तं कण्ठोक्तं कुर्वन्न् आह[128]एवम् इ[105.14]ति नष्टं च तद् अन्[45अ]ष्टं चेति तथा । [128] एकम् इति स्
तदैतत् प्रसज्यत इति पार्श्वस्थस्याविदितप्रस्तावस्य प्रश्नम् आशंक्याह -- द्रव्ये[105.15]त्यादि । यस्माद् उक्तया नीत्या लक्षणभेद एव सिद्धस् ततः [105.16] तस्मात् ।
सम्प्रति कार्यभेदं प्रस्तुवन्न् आह -- कार्ये[105.17]ति । कार्यभेदात् तयोः स्वभावस्य भेदो यदि भवेत् [105.17] । तथा सति [105.17] स्वभावभेदे सति अवश्यं हि भेदम् इच्छता स्वभावभेद एवैष्टव्यो ऽन्यथा भेदासिद्धेः ।
सति चैवं किम् अकिञ्चित्करः कार्यभेदो भेदसिद्ध्यर्थम् उच्यत इति परं शिक्षयन्न् आह स्वभावस्यैवे[105.19]ति । ननु कार्यभेदो ऽभिन्नस्य स्वभावस्य भेदक इति किञ्चित्कर एवापि(एवोप)न्यासार्हो ऽपि च तत् किम् एवम् उच्यत इत्यासंक्याह न हि [105.20] इति । हिर् यस्मात् कार्याणां भेदः पश्चात् प्रकरणात् स्वहेत्वागतस्याभिन्नस्वभावस्य पश्चाद्भवनस्वभावस्य तस्यैव स्वहेतुबलायातस्याभिन्नस्य न भेदकः [105.20] हेतौ शतुर्विधानात् पश्चाद् भावाद् इत्य् अर्थः । प्राग्भावी हि कारणं तद्भिन्नं स्वभावं कुर्याद् अपि, न तु पश्चाद् भावीत्य् अभिप्रायः ।
पश्चाद् भवन्न् अपि कस्मान् न भेदक इति? आह स्वभावस्येति [105.21] । ननु कार्यभेदः स्वहेतुसमुत्थं स्वभावं मा नाम विकार्षित् तदवस्थे विकारायोगात्, तम् एव तु विनाशयिष्यतीत्य् आह नाशेति [105.21] । यदि चायं कार्यभेदस् तयोः स्वभावस्य भेदकः स्यात् तद् अयं दोषः स्याद् इति दर्शयन्न् आह -- एकान्तेने[105.22]ति । {प्. 347} ते द्रव्यपर्यायात्मके वस्तुनी [105.22] । स्याद् एतत् -- स्याद् अयं दोषो यदि भेदः पश्चात् प्रकरणात् स्वहेत्वावगे(त्वाग)तस्याभिन्नस्वभावस्य पश्चाद् भवन्स्वभावस्य तस्यैव स्वहेतुबलाया तस्याभिन्नस्य न भेदकस् तयोर् अभिन्नोय(यं) स्वभावो न भवेत् । यावतास्त्य् अभिन्नोपि स्वभावस् ततस् तयोर् अभेदोपीत्य् आह स चेति [105.22] । सो ऽभिन्नः स्वभावः ।
तयोः [105.23] द्रव्यपर्याययोः, केन कारणेन । कुतः पुनर् असौ तयोर् न स्याद् इत्य् आह -- विभिन्नाभ्याम् इ[105.23]ति परस्परभिन्नाभ्यां द्रव्यपर्यायाभ्यां अभिन्नस्याभिन्नस्वभावस्य कल्पितस्य तस्य । विभेदतो [105.23] भेदाद् व्यतिरेकात् । भेदे हि कार्यकारणभावः संबन्धः । स चात्र नास्तीति च बुद्धिस्थम् । तेषां [105.23] द्रव्यपर्यायकल्पिताभिन्नस्वभावानाम् ।
तस्यापि [105.25] तृतीयस्यापि स्वभावस्य तदभेदप्रसिद्ध्ये [105.25] द्रव्यपर्यायाभिन्नस्वभावाभेदप्रसिद्ध्यर्थम् परश्चतुर्थः कल्पनीयो [105.26]न्यथायः -- शलाकाकल्पास्तूयेव(स् त्रय एवा)संबद्धाः प्रसज्येरन्न् इति भावः । एवं पञ्चमादाव् अपि सैव वार्तेत्यादिना भिन्नस्वभावस्यासम्बन्धनिश्चयपरिपन्थिन्य[न]वस्था स्यात् ।
ननु किम् अ[न]वस्थाभयाद् दृष्टानेकस्वभावापलापः कर्तव्यः इत्य् आह -- न चेति [105.27] ।
स्याद् एतत् स्याद् अयं दोषो यद्य् अभिन्नस्य स्वभावस्य द्रव्यपर्यायाभ्यां भेदो ऽप्य् उपगम्येत । किन्त्व् अभेद एवेत्य् आह ऐकान्तिकस् त्व् इ[105.29]ति । भिन्नयोर् द्रव्यपर्याययोर् अभिन्नास्वभावाद् अभेद ऐकान्तिको यदि भवेद् इति योज्यम्, भेद एव तयोर् विशीर्येत [105.30] विलीयेत । कुत इत्य् आह तदेके[105.30]ति । तस्माद् एकस्मात् स्वभावाद् अव्यतिरेकस् तयोर् इत्य् अर्थात् ।
अथवा विभिन्नाभ्याम् इत्याद्य् अन्यथा व्याख्येयम् । विभिन्नाभ्यां [105.23] द्रव्यपर्यायाभ्याम् अभिन्नस्या[105.23]व्यतिरिक्तस्य [45ब्] विभेदस् तदात्मवद्भेदात् । अयं चाभिप्रायो द्र्व्यपर्या[य]योः कल्पिताभिन्नस्वभावयोस् तादात्म्योपगमे तस्य वा तयोर् अनुप्रवेश एषितव्यस् तयोर् वा तत्रेति । तत्र यदि कल्पितस्य स्वभावस्य द्रव्यपर्याययोर् अनुप्रवेशस् तदा ताव् एव स्वरूपेण व्यवतिष्ठेयातां न त्व् असाव् इति सो ऽसन्कथं तत्सम्बन्धी स्यात् । ननु च नासौ स्वभावस् तयोर् उपलीयमानस् तदभेदानुभावी किं तर्हि तेषाम् अभेदसिद्ध्यर्थम् अभिन्नस्वभावो ऽन्यो ऽभ्युपगम्यते इत्य् अभिप्रायस्य परस्य वचनम् आशंकमान आह तेषाम् इ[105.24]ति । अत्रापि दोषान्तरम् उपेक्ष्यैवानवस्थां दर्शयन्न् आह तथे[105.26]ति । अथ द्रव्यपर्याययोस् तस्मिन्न् अभिन्ने स्वभावे ऽनुप्रवेशस् तत्राह ऐकान्तिकस् त्व् इ[105.29]त्यादि इति ।
{प्. 348} ननु न तयोस् तदाभि(दाभि)न्नस्वभावयोगाद् अभेदो येनैवम् उच्यते । किन्तु स्वत एवाभेद इत्य् आह अभेदस्ये[106.1]ति । अभेदस्य द्रव्यपर्याययोः स्वरससिद्धस्यैकात्म्यस्य अपरित्यागे [106.1]ङ्गीकारे । तस्य भेदस्य अवितथाभावे [106.2] सत्यत्वे । अभेदे [106.2] प्रतिपाद्ये मृषार्थत्वात्(र्थता) तत्प्रतिपादकस्य वचनस्येत्य् अर्थात् ।
कस्मात् पुनर् भेदाभेदाव् एकात्मकौ न स्याताम् इत्य् आह अन्योन्ये[106.3]ति । अन्योन्याभावरूपाणाम् अ[106.3]न्योन्यव्यवच्छेदेन व्यवस्थितात्मनाम् । एकस्य भावो [106.4] विधिर् अपरस्याभावा निषेधो यस् तद्धेतुको यतः [106.4] भेदाभेदाभ्यां द्विरूपता नास्ति । यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गः (ङ्गं) स्यान् नैकत्र भेदाभेदौ भवेताम् । स एव तु न भेदव्यवस्थानिमित्तम् इत्य् आशंक्याह अन्योन्याभावरूपाश् चे[106.4]ति ।
विरोधो [106.8] विरुद्धधर्माध्यासो ऽभिप्रेतः । भेदशब्देन भेदव्यवस्था विवक्षिता । लक्षण[106.8]शब्देन च निमित्तम् । तेनायम् अर्थो यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गं नेष्यते, तदैवं न स्यात् । एवं च कथं स्यात् एवं च कस्मान् नेष्तव्यम् इति ।
तद्रूपाः सन्तोपि न भेदिनो [106.5] भिन्नाः स्युर् विरोधस्य भेदव्यवस्थाङ्गत्वात् । अन्येन प्रकारेण तद्विनाशे [106.6] पर्यायविनाशे । द्रव्यं कथं विनाशि स्यात् । द्रव्यं हि पर्यायरूपेण नश्यति, न तु द्रव्येरूपेणेत्यह्रिकैर् इष्यते । तद्रूपेणापि विनाशः कस्माद् इष्यते । सर्वथैव तस्य विनाशः किन्नेष्यत इत्य् अर्थः ।
कथं नाम द्रव्यम् एष्तव्यम् इत्य् आकांक्षायां षिक्षयन्न् आह कूटे[106.7]ति । नित्यता [106.7] स्थिरता । "नेध्रु(र्ध्रु)व" इत्य् अनेन निसस्त्ययो विधानात् । अप्रच्युतानुत्पन्नपूर्वापररूपस्यावस्थानं कूटस्थनित्यता, भेदेषु [106.7] पर्यायेषु । परिणामनित्यता द्रव्येषु कस्माद् इष्तेति सामर्थ्याद् आवेदितम् ।
अस्तु तर्हीष्ता कूटस्थनित्यतेत्य् आशंक्याह तद् इष्टाव् इ[106.9]ति । तस्याः कूटस्थनित्यताया इष्टौ । अत्र दोषान्तरम् उपेक्ष्यैव एतद् आह किन्ने[106.9]ति । यथोत्तरोत्तरसर्वपर्यायानुगामिसुवर्णत्वाद्य् एकं सामान्यम् इष्यते तत्तद्भिन्नदेशादिसर्वव्यक्त्यनुयायिसुवर्णत्वगोत्वाद्य् एकं किं [106.10] कस्मान् नेष्यते । इच्छामस् तर्हीदम् अपीत्य् आह जनन्ये[106.10]ति । जननी माता । प्रथममढा पत्नी जाया । ननु यदि स्त्रीत्वसामान्यम् अभिप्रेत्येदम् उच्यते तदाभ्युपगम एवोत्तरम् इति कोयम् अनुपया(नुयो)गः ? भार्यात्वञ् चोपाधिरूप न [46अ] सामान्यम् । अन्यथा संकेतावेदिनोपि गाव इव ता अपि भार्या म[अ]भिमता व्यक्त्यस्तेनरूपेण सामान्यभासां {प्. 349} धियमादधीरन् । न चैतद् अस्ति, तस्माद् अयुक्तम् एतद् इति । शोभनम् उक्तं भवता केवलम् एवं वदितुर् अभिप्रायो न सम्यग्ज्ञायि । अयं खल्व् अस्याभिप्रायो येनोपाध्यवच्छिन्नेन केनचिद् रूपेण तत्स्त्रीत्वं तस्यां जायायां वर्तमानम् एनां तथोपभोगाङ्गं नोपपादयति विनैव तावद् आत्मना जनन्याम् अपि तेन वर्तितव्यमन्यरूपाभावात् । सति चैवं तस्या अपि तथात्वम् आपद्येत; एवम् अत्रापेक्षयाप्य् उच्यमानजायाया अपि तथात्वम् अनिवार्यम् । यद्य् एवं शाबलेयबाहुलेयादीनाम् अप्य् एकगोत्वादियोगाद् एकत्वं किं नापाद्यत इति? प्रियं प्रियेणाचरितम् इति । उदाहरणदिङ्मात्रं तूक्तम् एतद् उपहासापदेशेनेति सर्वम् अवदातम् ।
एवम् उक्तया नित्या भेदाभेदाव् एकाधिकरणौ न युक्ताव् इति प्रतिपाद्याधुना भवेतां तौ तथा, तथाप्य् उक्तदोषान् न मुक्तिर् इति प्रतिपादयन्न् आह भेदाभेदोक्तदोषाश् चे[106.11]ति । द्रव्यपर्याययोर् भेदे ह्य् एकान्तेन विभिन्ने ते स्याताम् । न त्व् एकं द्विरूपम्, तथा सुवर्णकुण्डलादिपर्याययोर् अपरस्परात्मतया कुण्डलादिसुवर्णविशेषाभ्यां तयोर् अप्रतिभासनप्रसङ्गादयो दोषाः । अभेदपक्षे चैकस्याने[क]कार्यकर्तृत्वम् उक्तम् अव्याहतम् आपद्येत । द्रव्यपर्यायरूपत्वेनाभ्युपेतं द्वैरूप्यं हीयेतेत्यादयो दोषाः । सति चैवं विफलो ऽयम् एकस्य भेदाभ्युपगम इति चार्थाद् दर्शितम् । तयो[106.11]र् भेदाभेदयोर् इष्तौ [106.11] कथं वा न भवन्ति । प्रत्येकं भावान् न समुदाये भवन्तीत्य् आह -- प्रत्येकम् इति ते [106.12] दोषाः ।
ननु च दृष्टम् इदं यत एकैकभाविनो दोषाः समुदायावस्थायां न भवन्तीत्य् अभिप्रायवान् परः प्राह गुडश्चेति [106.13] । केवलो गुडः ष्लेष्मणोर् हेतुर् नागरं शुण्ठी केवलं पित्तस्य कारणम् [106.13] । मिलितयोस् त्व् अनयोस् तौ दोषौ कस्मान् न भवत इति प्रकरणाद् द्रष्टव्यमध्याहारो वा कर्तव्यः । अत्र समाधिम् आह तन्मूलम् इ[105.14]ति । परस्परोपसर्पणाश्रयात् प्रत्ययात् तदुपादानसहकारिणो ऽन्यद् एव [106.14] तत् -- कार्यकारिणः केवलाद् गुडात् । केवलाच् च नागराद् भिन्नम् एव विशिष्तार्थक्रियाकारि द्रव्यान्तरम् इदं गुडनागरा[106.14]ख्यम् उत्पन्नम् । न तु स एव गुडो नागरञ् च द्वे इमे द्रव्ये । तन्मूलं [106.14] तद्गुडनागरकारणम् । अनेनैतद् आह -- विशिष्टश्लेष्महरणाद्यर्थक्रियाकारिद्रव्यान्तरम् इदम् उदपादि तेन प्रत्येकभावी मम दोषो न भवति । भवतस् तु मिलिताव् अपि भेदाभेदौ द्रव्यपर्यायलक्षणौ ताव् एवेति कथन् नो(कथम् उ?)भयभाविनो दोषा न भवेयुर् इति ।
अथास्तु द्रव्यान्तरम् इदं तथापि मधुरत्वात् कटुकत्वाच् च कथं कफपित्तकृन् न भवतीति पार्श्वस्थस्य चोद्यम् प्रतिक्षिपन्न् आह मधुरम् इ[106.15]ति । सर्वं मधुरं [106.15] कफहेतुर् न संभाव्यते । स्याद् इ[106.15]ति संभावनपदम् एतत्, शक्यार्थम् वा । केन पुनर् निदर्शनेन सर्वं मधुरम् एव(वं) संभावयितुम् अयुक्तम् इत्य् अत आह यथे[106.15]ति । {प्. 350} कफना[46ब्] शकत्वाद् एव मधुर(न) इत्य् अभिप्रायः । अनेन मधुरत्वाद् इत्य् अयं हेतुः साधारणानैकान्तिको दर्शितः । तीक्ष्णं [106.16] कटुकम् वा सर्वम् इति नेति स्याद् इति चानुवर्तनीयम् । पूर्ववन्निदर्शनं व्याख्येयम् । मागघिका [106.16] पिप्पली शीतवीर्याहित्ये(ते)त्य् आशयः । अनेनापि कटुकत्वाद् इत्य् अस्य साधरणानैकान्तिकत्वं दर्शयतो ऽयम् अभिप्रायः । गुडनागराख्यस्य द्रव्यान्तरस्यास्यान्यद् एवेत्थं मधुर(न) इव माधुर्यं कटुकत्वम् अपि पिप्पल्या इवान्यद् एव तेन मिलितावस्थायां न दोषद्वयसम्भव इति ।
यदि च प्रत्येकभाविनां दोषाणां मिलितावस्थायां गुडनागरादेर् अभावोपदर्शनेनैतत् प्रतिषिध्यते, तदा प्रत्येकभाविनां दोषाणां समुदायावस्थायाम् अपि भावदर्शनात् किम् अस्मद् अभिमतं चानुप(नाभ्युप)पद्यत इति दर्शयितुं प्रत्येकम् इ[106.17]त्यादिनोपक्रमते । यदि वा समुदायावस्थायां तेषां दोषाणाम् असद्भावे साध्ये प्रत्येकभावित्वाद् इत्य् अस्य हेतोः साधारणानैकन्तिकत्वं दर्शयितुम् आह -- प्रत्येकम् इ[106.17]ति । यत् प्रत्येत्येकं यस्य कार्यस्य निदानं [106.17] निमित्तं स्वतस् तद् यदि स्वहेतुबलान् मिभ्रम[106.17]न्यसहितम् एवाधिकरणम् उत्पद्यते तदा किं तत्कार्यकारि तत्र दृष्टम्? [106.18] क्षेपे किमः प्रयोगाद् दृष्टम् एवेत्य् अर्थः । स्नेहो हि कफहेतुर् ऊष्णत्वं च पित्तकृद्दृष्टं सहितावस्थायाम् अपि ते तत्कार्यकारिणी दृष्टे यथा अमूमाषङ्गते, अत एव यथा माष [106.18] इत्य् उदाहरति । माषो हि स्निग्धत्वाद् ऊष्णवीर्यत्वाच् चोभयात्मक उभयम् एव कार्यं कफपित्तलक्षणं करोतीति ।
ननु मधुररसाद् अपि मधुरः(नः) श्लेष्मा कस्मान् न जायते कटुकाया अपि पिप्पल्याः कुतो न पित्तं येनास्मद् उक्तं भवता व्यभिचार्यते । तथाप्य् अभावे वा गुडान्नागराच् च तौ दोषौ मा भूताम् इति परस्य मतम् आशंक्य दृष्टस्योपपत्तिप्रकारं दर्शयितुम् आह शक्त्यपेक्षञ् चे[106.19]ति । यस्मात् तेन कार्येणोत्पत्तव्यम्, तस्य स्वोपादानशक्तिम् अपेक्षत इति शक्त्यपेक्षम् [106.19] । किं तत्कार्यं माधुर्यादि गुणमात्रं निबन्धनं न भवतीति प्रश्ने ऽभ्युपगम एवोत्तरं कुर्वन्न् आह -- गुणेति [106.19] । आचारविशेषानवच्छिन्नः केवलो माधुर्यादिगुणो गुणमात्रं तद् अनिबन्धनम् [106.19] अकारणं यस्य तत् तथोक्तम् । शक्त्यपेक्षत्वेपि कार्यस्य तस्याः सर्वत्र भावात् तदवस्थो [दोष] इत्य् आह सर्वत्रेति [106.20] । तासां [106.20] शक्तीनां किञ्चिद् एव कार्यं कस्यचिद् एव जन्यतया सम्बन्धी भवति । अयम् अर्थो मधुरत्वाविशेषेपि किञ्चिद् एव स्वहेतुसमुद्भूतरूपविशेषं यत् तथाकार्यकारि न तत् सर्वम् । तद्धेतोस् तज्जननः स्वभावः कुतस्त्य इति चेत्, स्वहेतोस् तस्यापि तथेत्य् अपर्यनुयोज्य ए(-ज्यमे)वैतत् । एतद् उक्तं भवति -- एकन्तेन विभ(भि)न्नत्वादिदोषो हि भेदमात्रे प्रसज्यमानो न भेदस्य शक्तिविशेअम् अपेक्षते । न च भेदस्य {प्. 351} विशेष एव संभवति मिलितावस्थायाम् अपि ताद्रूप्याद् एव । एवम् अभेददोषोपि द्रष्टव्यः । तस्माद् गुणमात्रनिबन्धनं यत्कार्यं तद् यथा सति तस्मिन् भवति । तथा भेदाभेदमात्रे संभविनो दोषा ये ते तद्भावे कथं न स्युर् इति ।
भेदाभेदाभ्याम् उत्पत्ति[47अ]धर्मत्वम् अमीषां दोषाणाम् अभ्युपेत्य सर्वम् इदम् उक्तम् अधुना तु तादात्म्याद् एव तेषाम् अनिवार्यत्वम् आयातम् इति प्रतिपादयितुं गुडनागरादौ परेण दृष्टान्तीकृते जन्यदोषाणाम् अन्यथैवानुपपत्तिम् अभ्युपगच्छन्न् आह विरोधी[106.24]ति । विरोधिनो नागरादेः । सन्निधिस् तस्माद् विरोधिशुन्याद् गुडादेर् जन्म यस्य दोषस्य स तज्जन्मा न भवेद् अ[106.23]पि । तदात्मा [106.24] भेदाभेदात्मा । तु दोषः, स तु तस्मिन्नात्मभूते भेदे अभेदे चानिष्तोपि न निवर्तते [106.24] । अतत्स्वभावत्वप्रसङ्गाद् इति भावः । इदम् अत्रार्थसतत्त्वं भिद्यमानं हि रूपं भेदो विपर्ययेण चाभेदः । विभिन्ने च ते स्याताम् इत्यादिना च वस्तुतस् तदात्मक एव दोषो दर्शितः । अनेककार्यकारित्वम् अपि अभिन्नरूपात्मकम् एव वस्तुतः । अन्यद् अपि दूषणं वस्तुतो भेदाभेदात्मकम् एव । व्यावृत्तिकृतस् तु भेदो यदि भवेद् भवतु न तावता प्रकृतक्षतिर् इति ।
तन्मते ऽवस्थान्तरावयविनः सत्त्वम् उपेत्यैतद् उक्तम् इदानी तु स एव नास्तीति दर्शयितुम् आह भागा एव चे[106.25]ति । भागा एव भागत्वेनाभिमता एव । परमार्थतस् तु परमाणव एवेत्य् अर्थः । तेन तेन प्रकारेणाधिस्तिर्यगूर्द्ध्वावस्थानलक्षणेन तत्तदर्थक्रियाकारित्वलक्षणेन च संनिविष्ता [106.25] व्यवस्थिताः । तद्वान् [106.23] भागवान् । निर्विभागः स्वतो निरंशः । अनेन दृश्यानुपलंभो {दर्शितः । तदभावाच् च केन सह तेषां भेदाभेदचिन्ता स्याद् इति चाभिप्रेतम् ।
नन्व् असत्य् एकस्मिन्न् अवयविनि धारणाकर्षने कथम् उपपद्येयाताम् इत्य् आह -- अन्यो ऽन्ये[106.27]ति । ते [106.27] भागाः । एक सामग्र्यधीनत्वाद् अन्योन्यकारणाधीनापेक्षाः सन्तस् तथावस्थितवपुषो येनैकस्याकर्षने धारने वान्येषाम् अपि ते भवत इति । न केवलं दृष्टहेतुबलात् तेषां तथास्थितिर् अपि त्व् अदृष्टवशाद् अपीति दर्शयन्न् आह -- कर्मणां चे[106.28]ति । लोकस्यासाधारणचेतनात्मकर्मणाम् अपि सामर्थ्यात् ते ऽविनिर्भागवर्तिनः [106.28] परस्परं विभागेन न वर्तन्ते ।
ननु चाकारणस्य कर्मणः सामर्थ्योपवर्णनम् अयुक्तम् इत्य् आशंक्याह सन्निवेशने[106.29]ति । हि[106.21]र् यस्माद् अर्थे ।
"कर्मजं लोकवैचित्र्यम्" [अभिध्. 4.1] ।
{प्. 352} इति वचनात् कर्मभिर् जनिता [106.30] इत्य् आह । तेषाम् एव प्राणिनां साधारणैर् असाधारर्णवौ कर्मभिः । तेभ्यः [106.30] कर्मस्य एव तदाधिपत्याद् एवेति यावत् । अविभागिनो [106.30] विभागेन न वर्तन्ते ।
अथासत्य् एकस्मिन्न् अवयविनि एकोयं घट इत्यादि व्यपदेशः कथं स्याद् इत्य् आशंक्याह -- ते चे[106.31]ति । ते भागाः कथंचिद् एककार्यकारित्वादिना प्रकारेण । ननु चैको घट इत्यादि शब्दजन्मनि शब्दानुविद्धे ज्ञाने तावत्किञ्चिद् एकत्वेन प्रत्यवभासते तद् एव च स्वलक्षणं स्वलक्षणत्वेनाध्यवसायात् त कथम् अभेदिनो ऽर्थस्यापलापः क्रियत इत्य् आह न चे[106.32]ति । स्वलक्षणालम्बनं ज्ञानं स्वलक्षणज्ञानं [106.32] तस्मिन् न । अयम् अभिप्रायो यदि शब्दगोचरो ऽर्थः स्वलक्षणं स्यात् तदेन्द्रियप्रभवेपि प्रत्यये तथैव प्रतिभासेत । न चैतद् अस्ति सजातीयविजातीयव्यावृत्तप्रतिभासात् । न चैकम् एव रूपम् उपायभेदे ऽपि भिन्नाकारावभासि युक्तम् । तद् उक्तम्
"एकस्यै[47ब्]व कुतो रूपं भिन्नाकारावभासि तत्" [प्रमानावा.2.235]
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
