Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
हेतुबिन्दुटीकालोक (subcommentary on अर्चट's हेतुबिन्दुटीका on धर्मकीर्ति's हेतुबिन्दु)
- Tác giả
- दुर्वेकमिश्र
- Thông tin
- GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji: Hetubinduṭika of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Misra. Baroda : Oriental Institute 1949, pp. 233-411. (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स्याद् एतत् -- यदि व्यतिरिक्तानित्यतादिधर्मयोगेपि वस्तुन एवावस्थायित्वादिरूपं व्यवहर्तारः प्रतिपादयन्ति, तदा तस्य भूत्वाभवनधर्मताद्युपगमे तदुपगमे च तस्यैतद्बुद्धिनिबन्धनत्वस्य युज्यमानत्वाच् चरितार्था व्यतिरेकिणो धर्मा त भ(धर्मा भ)वेयुर् यावता व्यतिरिक्तानित्यतादिभावे तद् एव व्यवहर्तारः प्रतिपद्यन्ते । तत् कथं यद् एव तत्कल्पनानिबन्धनम् इत्याद्युच्यमानं परभागं पुष्णातीत्य् आशंक्याह अवश्यञ् चे[42.22]ति । {प्. 297} चो यस्माद् अर्थे । व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे वा । अनित्यताग्रहणं चोपलक्षणं तेन कृतकत्वादाव् अपि यथायोगम् एव तत्प्रत्ययं प्रतिपद्यन्ते [42.23] निश्चिन्वन्ति । कृतकत्वाद् अनित्यतामतमन्धन्त(ताम् अनुमिन्वन्त) इति प्रकरणात् । कस्माद् अवस्त्वात्मानं ते तथा प्रतीयन्तीत्य् आह तस्माद् अनवस्थायीस्वभावस्यानुरूपा समीचीनोचिता या अर्थक्रिया तदर्थितया प्रवृत्तेः [42.24] प्रवर्तनात् । तेषाम् अनुमातॄणाम् इत्य् अर्थात् । अत्र विपर्यये बाधकम् आह अन्यथे[42.24]ति । व्यतिरि[24अ]क्तानित्यतायां सत्यां नित्यत्वात् [42.25] स्थिरत्वात् तस्य शब्दादिवस्तुनः प्रस्तावात् । नित्यत्वादि[42.25]ति ब्रुवाणस्यायम् आशयो भिन्ननित्यतायोगेपि वस्तुनो नान्यथात्वं तस्यास् तत्राकिञ्चित् करत्वात् । किञ्चित्क्रियायां वा भेदाभेदादिदोषानुषङ्गात् । भेदेपि ततो व्यावृत्त(व्यावर्त)मानस्य तस्याकाशादेर् इव नित्यत्वव्यवस्थेति वस्तुनो नित्यत्वाद्धे[42.25]तोस् तस्य नित्यत्वस्य वस्तुनो यो ऽवगमस् तेनार्थि[65]त्वे न्यायप्राप्ते सति अयम् अनुमाताद् इ(ता अनि)त्य्शब्दादिपदार्थसाध्यार्थक्रियार्थी -- [42.25][66]इतिस् तस्माच् छब्दादिकं नित्यम् आशंकमानः [42.26] तद् असंदेहे ऽनुमानायोगात् । तथा सन्दिहानः किं कस्माद् वस्तुनो ऽनित्यताविचारं प्रत्याहितास्थः [42.26] कृततात्पर्यार्थः । अनित्यतायास् तद्व्यतिरिक्तत्वाद् तस्य स्थिरात्मतानिश्चयाद् एव तत्संशयपूर्वकानित्यताविचारस्यैवायोगाद् इति भावः । [65] अवगमार्थित्वेन स् । [66] नास्ति स् ।
व्यतिरिक्तानित्यतयेति क्वचित्पाठः । तत्र नित्यत्वे प्रयोज्ये हेतौ तृतीया प्रत्येया । व्यतिरिक्तायाम् अनित्यतायां वस्तुनस् तथा विचारो न युज्यत इति प्रतिपाद्य दोषान्तरम् अपि तस्यां दर्शयन्न् आह व्यतिरिक्तायां चे[43.1]ति । तत्रैव प्रतिपन्नायाम् अनित्यतायां न वस्तुन्य् अप्रतिपन्न इत्य् अर्थात् सूचितम् । तद्वारेण [43.2] व्यतिरिक्तानित्यताद्वारेण । प्रतिपत्ते[43.2]र् वस्तुनस् तथात्वज्ञानात् । व्यवधीयते वस्त्वनेनानित्यादिनेति व्यवधिस् तेन [43.4] । व्यवधानं वा व्यवधिस् तेन किम् [43.3] । अव्यवहितस्यैव भिन्नानित्यतादिव्यवधानशून्यस्यैव वरम् अस्तु प्रतिपत्तिः । विशेष्हेतुम् आह -- तेनैवे[43.4]ति । व्यतिरिक्तानित्यताप्रपिपत्ताव् अपि वस्तुनस् तथात्वप्रतीतिः कथं युज्यत इत्यादिदोषशतम् उत्पश्यन् सोत्प्रासम् आह तद् एतद् इ[43.4]ति । एषो [43.8]नन्तरोक्तो दोषो न [43.8] भवति । तत्स्वभावतया [43.8] हेतुभूतया । कथञ्चि[43.4]त् केनचिद् रूपेण यो भेदस् तस्योपगमे किञ्चित्कलम् उत्पश्यामो [43.10] नोत्प्रेक्षामहे । यदि कथंचिद् भेदो न स्याद् भेदाधिष्ठानः साध्यसाधनभावः कथम् उपपद्येतोयोनु(द्येतेत्य् आह) साध्ये[43.10]ति । अपि [43.11] न्यायबलायातां संभावनाम् आह ।
{प्. 298} साध्यधर्मस्य साधनधर्मरूपतोपगमे सति भेदोपगमे फलं न किञ्चिद् इति प्रतिपाद्य संप्रत्येकात्मसाध्यसाधनयोर् भेद एव न संभवति । तत् कथं स चेतनोपगम्येति(गम्य इति) (?) प्रतिपादयन्न् आह न चे[43.11]ति । कथंचित् केनापि स्वभावेन यो भेदः [43.12] कृतकत्वानित्यत्वयोः स न युक्तः । कस्माद् इत्य् आह एकस्माद् इ[43.12]ति । येन धर्मिस्वभावेन तयोर् अभेद इष्यते तस्माद् एकस्मात्[67]स्वभावभेदात् तयो[43.12]र् धर्मयोर् इति प्रस्तावात् । येन स्वभावेन तयोर् अ[43.13]भेदस् तेनापि [न] भेद एव येनायं दोषः स्यात् । किन्तु ततोपि स्वभावात् तयोः कृतकत्वानित्यत्वयोः कथंचिद् भेदाभेदौ न भेद एवाभेद एवे(एव वे)ति । येन स्वभावेनाभिन्नाव् इष्येते तदेकस्वभावाद् अपि भेदवतो[43.14]र् भिद्यमानयोः । तेन भेदावधिना स्वभावेन कथञ्चिद् अभेदनिमित्तम् [43.14] इति । यद्य् अभेदो नेष्यते तदैकान्तिको भेद एव स्यात् । सति चैवं पूर्वको दोष इति प्रायेणो[24ब्]क्तम् ॥ तेनाप्य् अ[43.16]भेदनिमित्तेनाभिन्नेन स्वभावेन कथंचिद् भेदनिमित्तम् इति प्रस्तावाद् बोद्धव्यम् । अपरोक्षो ऽभ्यु(रो ऽभ्यु)पगन्तव्यः [43.25] । अत्रापि यदि तेन स्वभावेन तयोर् अभेद एव भवेत् तदैकान्तिको ऽभेद एव तदा च कल्पनाव् अभासिभेदनिबन्धनः साध्यसाधनभावः स्यात् तथा चास्मन्मतानुप्रवेशप्रसङ्ग इत्य् आशयो ऽवसेयः । अभेदनिमित्ते भेदनिमित्ते च स्व्भावान्तरे ऽभ्युपगते माभूद् ऐकान्तिको ऽभेदो भेदो वेति पुनस् तथाभूतस्वभावान्तराभ्युपगमो न्यायप्राप्तः । पुनस् तत्राप्य् एवम् इत्य् अभिप्रायवानितिशब्दहेताव् अभिप्रायाह अनन्तैवे[43.16]ति (-प्रायवान् आह इत्य्
अनन्तैवेति । इति शब्दो हेतौ) । न केवलम् अविकल्पकायां बुद्धावत्य्[68]आप[43.16]शब्दः । परंपरा [43.17] परपाटिः । तत्कल्पनया [43.28] भिन्नाभिन्नस्वभावकल्पनया विप्रलम्भन्ते [43.18] विसम्वादयन्ति । दूषान्तरम् अप्य् अत्रोपचिन्वन्न् आह । कथंचिच् चेति [43.19] । भेदपक्षभाविना संबन्धाभावेन साध्यसाधनभावायोगाद् इत्यादीनां दोषाणां कथम् अनवसरो [43.20]वसरो ऽवकाश एवेत्य् अर्थः । इतोपि भिन्नाभिन्नरूपोभयधर्मासंभव इति संक्षेपेणाह यश् चे[43.20]ति । पुरोधाय [43.20] पुरस्क्र्त्य विकल्पबुद्ध्या आलम्ब्येति यावत् कल्पनाघटितस्य प्रतिषेधात् पारमार्थिक [43.24] इत्य् आह । इतिः त्रितयस्याकारं दर्शयति । त्रयो ऽवयवा अस्येति त्रितयम् [43.20] ।
__________नोतेस्__________
[67] स्वभावाद् अभेदात् स् । [68] नास्ति स्
प्रकरणम् उपसंहरन्न् आह तस्माद् इ[43.24]त्यादि । स चो[44.18]क्तरूपो ऽन्वयः । तस्या विरोधाद् अ[44.20]नुपपतेः ।
{प्. 299} यथा चायोगस् तथोपरिष्टत् सहकारिपर्वणि निर्णेष्यते ।
भवतो ऽस्माद् अभिधानप्रत्ययाव् इति भावः [45.5] कार्यत्वम् इ[45.5]त्यादिना तम् एवाभिव्यनक्ति । तद्भदानुविधानम् एव साध्ययन्न् आह चन्दने[45.23]त्यादि । ऊर्णा मेषलोम भेदो विशेषः । अनेनैतद् आह -- यद्य् अदृश्यं तस्य करणं स्यात् तत् कथम् अकरणस्येन्धनादेर् भेदम् अनुवि[द]ध्याद् इति । इन्धनभेदानुविधानं धूमस्य प्रतिपाद्य वह्निभेदानुविधानं प्रतिपादयन्न् आह -- अल्पे[45.27]ति । अल्पश् च महांश् चाल्पमहान्तौ तौ च ताव् इन्धनविकारौ च तत्कारिणः । प्रातिपदिकग्रहणे न हि तदन्तस्य ग्रहणम् इति । "आन्महतः समानाधिकरण" [पा. 6.3.46] इत्यात्वन्न भवति । तदनुरूपस्या[45.27]ल्पमहतो वा धूमस्य दर्शनाद् इति सम्बन्धः । अदृश्यात्मनो ऽग्न्यादिसामग्र्यां नियतं सन्निधानम् उपेक्ष्याग्न्यादेर् एव कार्यं धूम इति । एतत् साधिकाम् उपपत्तिम् अभिधायाधुना तन्नियतसन्निधानम् एव तस्य न युज्यत इति दर्शयन्न् आह न चे[45.28]ति । चो वक्तव्यान्तरसमुच्चये । तस्याग्न्यादेः कार्यं तत्कारणं तद्भावस् तत्ता [46.1] । तस्यैवादृश्यस्य तदनन्तरं भावान् न धूमः स्याद् इति भावः । चो [46.3]दृश्यकार्यत्वेन समं धूमादिकार्यस्य तुल्योपायत्वं समुच्चिनोति । तस्यादृश्यस्य सत(सतः)तद्भावानुविधानम् । चो ऽवधारणे समान[46.4]म् इत्य् अस्मात् परोद्रष्टव्यः ।[69]अत्रापि वृक्षेन्धनयोर् अपि तथाभावकल्पनायां तद् एवोत्तर[46.5]म् इति । तदुपलम्भे प्रगुपलब्धिलक्षणप्राप्तम् उपलब्धम् उपलभ्यत इति । वृक्षादिभावे नियतसन्निधेर् अदृश्यात्मनः कुतश्चिद् इन्धनस्य भाव इति पुनर् अ[46.6]प्रथमे चोद्ये [25अ] परकीय एव[70]एव वाक्य(वृक्ष)भेदानुविधानाद् इन्धनस्य
वृक्षादिसन्निधाने ऽदृश्यात्मनो नियतसन्निधानता युक्ता, प्रतिबन्धाभावात् प्रतिबन्धे [46.2] चे[71]त्यादि । वृक्षादिकारणत्वं तस्य वृक्षादेः स्वहेतोर् एव [46.5] बीजादेर् भावदर्शनाद् इ[46.5]ति परिहारः । तत्राप्य् अदश्यात्मनो नियतसन्निधेर् इत्यादिचोद्यपरिहारयोर् आभीक्षून्येनानवस्थानात् पर्यवसानं च (नं न) स्यात् । ततश् चैकस्यापि नियतकार्यत्वं न स्याद् इत्य् आकूतम् । यदि व तस्याप्य् अदृश्यस्य भावे नियतसन्निधान[न]परमदृश्यं कारणं किं न कल्प्यते? न्यायस्य समानत्वात् । तथात्राप्य् एवम् इत्य् अनवस्था न व्यवस्थितः कार्यकारणभवो भवेद् इत्य् अर्थः । अथवा तत्रापि [46.5] वृक्षादौ तथाभावकल्पनायाम् [46.5] दृश्यभावकल्पनायां परेण क्रियमाणायां तद् एवोत्तर[म् इन्धना]देर् वृक्षादिभेदानुविधानात् । न च वृक्षादिसन्निधाने नियतसन्निधानता युक्तेत्यादि । नापि वृक्षादिकारणत्वम् अदृश्यात्मनो वृक्षादेः स्वहेतोर् एव बीजादेर् भावदर्शनद् इति {प्. 300} च । उत्तीर्यते ऽनिष्टपक्षाद् अनेनेत्य् उत्तरम् एतत् । बीजादिभावे नियतसन्निधेर् इत्यादौ पुनश् चोद्ये [46.6] च परस्य स एव बीजादिभेदानुविधानाद् इत्याद्य् अनंतरोक्तो ऽस्माकं परिहारह् [46.6] परचोद्यप्रतिविधानम् । अनवस्था [46.6] चानन्तरं व्याख्यातेति । एतेने [46.6]न्धनादेः स्वहेतोर् एव वृक्षादेर् भावदर्शनाद् ति वचनसामर्थ्यात्, यस्य यस्माद् भावो दृश्यते तस्य तत्कारणत्वम् इति प्रतिपादितेन । यस्या एव सामग्र्या अग्नीन्धनादेर् उत्पत्तिस् तस्या एव तद्द्र्श्यत्वम् उपजायत इति । एकसामग्र्यधीनता [46.7] तयोर् नियतसन्निधाननिमित्तं सापि प्रत्युक्ता प्रत्याख्याता कस्यचिद् भावे विज्ञायमानस्यैव तत्कार्यत्वव्यवस्थासिद्धेः ।
तद्भावे ऽनुपलभ्यमानस्य तु तत्कार्यत्वकल्पनायाम् अतिप्रसंगाद् इति भावः । अत्रैव वक्तव्यान्तरं समुच्चिवन्न् आह तद् इ[46.7]ति । तस्यादृश्यस्यान्वयव्यतिरेकानुविधानात् [46.7] । तद् अ[46.8]दृश्यम् । तच् चा[46.8]न्वयव्यतिरेकानुविधानम् । निमित्ताभावम् एवावेदयन्न् आह कार्येति [46.10] । सत्स्वन्येषु कारणेषु समर्थेषु कार्यम् अभवत्कस्त(वत्त)दुत्पत्तौ कारणान्तरम् अपेक्षणीयं प्रतिपादयति । न तु भवे(व)द् एवेति समुदायार्थः ।
__________नोतेस्__________
[69] तत्रापि स् [70] स एव स् [71] बन्धे वा स्
संप्रति स(त)त्कारणत्वम् उपेत्यापि नास्मत्प्रतिज्ञातस्य काचित् क्षतिर् इति प्रतिपादयितुम् आह रूपन्त्व् इति (भवत्व् इति) [46.12] ।[72]यतो [46.14] वह्न्यादेः कारणत्वहानेः अग्न्यादेर् अन्यस्यापि[73]भावः [भावे] धूमं प्रति कारणत्वेन कथं न अग्न्यादेः कारणत्वहानिः [46.14] । कथञ् च तन्निष्चयेन प्रवृत्तौ न विसम्वाद इत्य् आशंक्याह तस्य (?) । अभ्युपगमनीयदृष्टान्तद्वारेणामुमर्थं द्रढयन्न् आह नही[46.15]त्यादि । दृष्टस्य कारणस्य हानम् अभावो न ह्य् अकारणत्वेन प्रतीतस्य कारणत्वहानिर् इत्य् अर्थः । तस्य दृष्टकारणस्य कार्यं तद्दर्शनात् [46.16] । अतत्प्राप्ति[46.16]र् दृष्टकारणाप्राप्तिः प्रसज्यत आपद्यते अनेनेति प्रसङ्गापादनम् अतिशयितः प्रसङ्गो ऽतिप्रसंगस् तेनालं [46.16] न किञ्चित् । ननु च तद्भावे भावस् तदभावे ऽभावश् च [25ब्] कार्यधर्माव् इमौ तत् कथम् अयम् एव कार्यकारणभाव उत्य् उच्यते । कार्यभाव इति तु युक्तं वक्तुम् इति । सत्यम् एतत् केवलम् एतस्मिन् कार्यधर्मे कथिते कारणधर्मोपि स्वभावे भावो भावनं भावो भावयितृत्वं सत्तयाभिसम्बन्धयितृत्वं स्वाभावे चाभावो ऽभावनम् अभावयितृत्वम् अनुत्पादयितृत्वं यत् तल्लक्षणः सुज्ञानो भवतीत्य् आचार्येणैवम् उक्तम् अनेनाप्य् एवं व्याख्यातम् । {प्. 301} तेनायम् अर्थः -- अर्थान्तरत्वे सति यः प्राग्भावी सो(स्वा)न्वयव्यतिरेकाव् अनुविधापयति तत् कारणम् । यश् च पश्चाद्भाव्यन्वयव्यतिरेकानुविधापनान्व्यव्यतिरेकानुविधानलक्षणः कार्यकारणभाव [46.22] इति । यद् वा कार्यकारणभावनिश्चयहेतुत्वाद् अयम् एव तथोक्तः । तथा हि कार्यगताभ्याम् एव तद्भावभावतद्(तद)भावाभावाभ्यां तयोः
कार्यकारणभावो विभाव्यते । असति कारणत्वे तद्भाव(वा)भावयोस् तद्भावाभावाव् एव न भवेताम् इति । नायम् एवम् अयम् एव कारणभावो नाम अन्य एव द्विष्ठः सम्बन्धो ऽस्तीत्य् आशंक्याह स हीति [46.23] । हि यस्माद् अर्थे । ताभ्यां [46.23] तद्भावभावतदभावाभावाभ्याम् । स्वरूपेणास्वीकृतकार्यकारणरूपयोर् अग्निधूमयोः दूषणान्तरम् अन्वचिन्वन्न् आह स्वभावेन चे[47.1]ति । तस्य [47.4] अपूर्वस्य रूपस्य तेन निष्पाद्यमानस्य । ततो [47.4]कार्यकारणरूपाभ्याम् । नहीत्वाय(?)र्थान्तरस्यत्व समर्थनम् (?) । ततस् तस्य ततो [47.9]र्थान्तरत्वात् । पूर्वके [47.9] इति कार्यकारणभावसम्बन्धेन क्रियमाणो(माणात्) रूपात् प्राग्भाविनी वह्निस् तस्य धूमरूपे (?) तद्भावः [47.13] कार्यकारणभावः तयोस् ताद्रूप्येपि कारणबुद्धाव् अस्योपयोगान् न वैयर्थ्यम् इत्य् आह -- कर्ये[47.13]ति । अपि [47.14] न्यायतः सम्भावनां दर्शयति । कथम् अवसीयते नार्थान्तरनिमित्ते इत्य् आह तस्ये[47.14]ति । तस्य तत्सामर्थ्या(तस्य ताभ्याम् अर्था)न्तरस्य तथाविधस्य [47.16] तद्विवेकेनाप्रतिभासिनः । अपि [47.16] व्यक्तिम् इत्य् एतद् अस्मिन्न् अर्थे । सर्वं सर्वत्र गृहीतम् इतीष्टं धर्मम् अतिक्रान्तः प्रसङ्गो ऽतिप्रसङ्गः [47.16] । तस्यानुपलब्धिलक्षणप्राप्तत्वाद् विशेषे(ष)णासिद्धोयं हेतुर् इत्य् आह अनुपलब्धी[47.16]ति । किम् अवश्यम् उपलभ्यमानेन तेन तद्बुद्धिहेतुना भाव्यं येनैवम् उच्यत इत्य् आह न ही[47.18]ति । तद्बुद्धी [47.18] कार्यकारणबुद्धी । अस्य [47.19] अर्थान्तरस्य तयोः [47.19] कार्यकारणबुद्ध्योः । न चान्वयव्यतिरेकानुविधानम् अविदुषस् तद्बुद्धी भवत इति बुद्धिस्थम् । उपपत्त्यन्तरम् अत्रैव
समुच्चिन्वन्न् आह न चे[47.19]ति । स्वविशिष्टप्रत्ययनिबन्धनं [47.20] चो(स्वो)परक्तज्ञाननिबन्धनम् । कार्यकारणबुद्ध्यो[47.21]र् विकल्पात्मिकयोर् इति प्रकरणाद् द्रष्टव्यम् । तद्बुद्धिनिबन्धनत्वेपि तस्य कथम् अवश्यम् उपलक्षणम् इत्य् आह नही[47.22]त्यादि । चो [47.24] वक्तव्यान्तरसमुच्चये । कार्यकारणाभ्याम्
__________नोतेस्__________
[72] अत्र "यतो वह्न्यादेः कारणत्वहानेः" एतावान् पाठः अग्रे "विसंवाद इत्य् आशङ्क्याह" एतद् अनन्तरं संगच्छते । प्रमादात् प्रागायातो भाति । [73] अग्रेतनं "तस्य?" इति शंका चिह्नितं पदं अत्रत्यं भाति । तथा च "तस्य भावे" इति "तद्भावे" [46.13] इत्य् अस्य विवरणम् ।
अ[47.24]ग्निधूमाभ्याम् अर्थान्तरस्य [47.24] भिन्नस्य । कार्यकारणभावरूपस्य सत्त्वस्य सबन्धान्तरसद्भावात् कथं न घटत इत्य् आह । सम्बन्धे[47.25]ति । तस्मात् कार्यकारणाभावसंबन्धाद् अन्यस्य तेनाप्य् अर्थान्तरेण [26अ] सम्बन्धेन सहास्य कथं संबन्ध इति पर्यनुयोगे संबन्धान्तरं कल्पनीयम् । पुनः पर्यनुयोगे पुनस् तथेति अनवस्था[47.25]प्रसक्तिस् ततः । न चैवंसम्बन्धान्तरं परिकल्प्यते । किं तर्हि कार्यकारणभूतवस्तुकार्यकारणाख्यसम्बन्धयोर् {प्. 302} अकार्यकारणभाव एव सम्बन्ध इत्य् आह कार्ये[47.26]ति ।[74]तद्भावस्य [47.27] कार्यकारणभावस्य भिन्नस्य कल्पितस्य ततो ऽसहभावित्वात् । कार्यकारणकाले [47.27] कार्यकारणभूतवह्निधूमादिवस्तुकाले । तयोश् चैककालिकत्वं कुतो येनैकजनकत्वं स्याद् इति । अत्र गजनिमीलिकां कृत्वैतद् उक्तं द्रष्टव्यम् । स च [48.3] कार्यकारणाध्यवसायः । भवत्व् असौ कल्पितविषयस् तथापि भिन्नसम्भवः कथं न भवेद् इत्य् आह -- कल्पिते[48.4]ति । तद्व्यवसायस्य कार्यकारणताव्यवसायस्य । त[75]स्य भिन्नस्य कार्यकारणभावस्य । माभूत् कल्पितविषयोयं तदवसाय इति हि तस्य कल्पना स चेत् तथाविध ऐषितव्यः किं तेनेति भावः । किं कल्प्यमानोसौ तद्भावः किं कार्यकारणभावाभ्यां सहिताभ्यां जन्यते आहोस्विदेकैकेनेति पक्षयोर् आद्यं पक्षं क्षपयन्न् आह कार्येति [48.5] । कार्येण जन्यमानः कार्यभावः स्यात् । कारणेन जन्यमानश् च कारणभाव इत्य् अभिप्रेत्य कथम् इ[48.6]त्य् आह । प्रत्येकजन्यमानतायाम् अपि कारणम् उद्दिश्य निरूपयन्न् आह -- यदा चे[48.6]ति । पश्चा[48.8]च्छब्दापेक्षया तु स्वकार्यस्येति विभक्तिविपरिणामेन योज्यम् । अ[76]तसर्थप्रत्यययोगेनषष्ठी प्राप्तेः । तत् तस्माद् उभयोः [48.9] कार्यतद्भावयोः ।
__________नोतेस्__________
[74] सद्भावं स् [75] तस्या स् । [76] षष्ठ्यतसर्थप्रत्ययेन (पा. 2.3.30)
नन्व् एकसामग्र्यधीनतैवानयोः सम्बन्ध इति कथं परस्परासम्बन्ध उच्यत इति चेत् । न, कार्येणापि समम् अस्य कार्यकारणभावस्य संबन्धस्य प्रकृतत्वात् सूक्तम् इदम् । एकसामग्र्यधीनतेष्टौ च तद् उत्पत्तेः पूर्वं कारणं न कारणं स्यात् । त्वन्मते तद्योगात् तदव्यवस्थितेर् योयम् अप्राप्तत्वाद् इति दोषो द्रष्टव्यः । कार्यस्य धूमादेः क्रिया [48.11] करणं कथं । तदपेक्षं [48.13] तद्धूमादिक्रियापेक्षम् । अस्य [48.12] वह्न्यादेः असत्त्वान् मा स्म तज्जनयत, का नो हानिर् इत्य् आह तद्भावश् चे[48.15]ति । तद्भावः कार्यकारणभावः संबन्धः । कारणाभावाद् अनुत्पन्नश् च(न्नाश्व)शशविषाणा यथा नः (न) कथं तद्भावसम्बन्धो भवितुम् अर्हतीत्य् आशयः । संप्रत्यक्षणिकपक्षम् अभ्युपगम्याह -- अक्षणिकत्वेपीति । प्रत्ययहेतुः कार्यकारणबुद्धिहेतुर् वा नातिवर्तते । यदि हि तदाश्रितं स्यात् तदा तत्र तथाविधं बोधं विदध्याद् अन्यथासति विप्रकर्षाभावात् सर्वत्र तद्बुद्धिं जनयेन् नो वा क्वचिद् अपीति भावः । इदं पुनर् अत्र साधु दृश्यते । अयं खलु कार्यकारणभावः कार्यकारणयोर् वस्तुनोर् वर्त्तमानो नांशेन वंशदण्डवद् वर्तते अखण्डरूपत्वात् । कार्याभावः कारणा[77]भाव इति प्राप्तेर् अनेकरूपतापत्तिप्रसक्तेश् च । प्रत्येक[26ब्]रूपकार्यत्वेन वर्तमानश् च यथाकार्यकार[ण]योः कार्यकारणबुद्धी जनयति तथा प्रत्येकं जनयेत् । सति चैवं वह्नाव् एव धूमापेक्षयैव कार्यकारणबुद्धी प्रसज्येयातां तथा धूमेपि तद्वह्न्यपेक्षयैव कार्यकारणबुद्धी प्रसङ्ग(सज)तः । मा स्म वा कार्यकारणयोर् अपि {प्. 303} भूताम् इति । तदेकप्रका(हा)रनिहते ऽपि सम्बन्धे ऽस्मिन्न् इमाम् ईदृशीं सूक्ष्मेक्षिकां कुर्वताभट्टार्चटेनकथम् अयं स्थवीयान् दोषो न दर्शित इति न प्रतीमः ।
__________नोतेस्__________
[77] "कारणभाव" इत्य् अपि पठ्यते ।
ननु यः किल कार्यकारणलक्षणसंबन्धान्तरवशात् कयोश्चिद् वस्तुनोः कार्यकारणरूपताम् उपैति तं प्रत्येतद् उच्यमानं शोभेत । अस्माकं तु कार्यसमवायं कारणत्वं कारणसमवाय(यि)त्वं च कार्यत्वम् इच्छताम् इत्य् अनन्तरोक्ताद् दोषान् न(क्ता दोषा न) किंचिद् उपघ्नन्तीतिनैयायिकवचनम् आशंक्य तदभिमानम् अप्य् उन्मूलयन्न् आह -- समवयीति । समवायिकारणस्यैव कपालादेः । तत्रैव घटादिकार्यस्य समवायात् । चो यस्माद् अर्थे । निमित्तकारणं कुलालादि । असमवायिकारणं कपालसंयोगादिः । तयोर् न कार्यसमवायोस्तीति न कारणं स्यात् ततश् चाव्यापित्वं लक्षणदोष इति सामर्थ्याद् दर्शितम् । कार्यलक्षणे(ण)स्याप्य् अकार्यस्य वेति वाशब्दो ऽपिशब्दस्यार्थे । तत्समवायः कारणसमवायः । समवायिकारण एव कपालादौ समवायह् कार्यत्वं न निमित्तासमवायिकारणयोर् इति सप्तम्यन्तं स(पद)द्वयम् इह सम्बन्धव्यम्, कपालादिसमवायिन एव घटादेर् उदयोपगमात् । ततश् च निमित्तासमवायिकारणापेक्षया घटादिकं कार्यं न स्याद् इत्य् अत्रापि अव्यापितैव दर्शिता ।
इदानीं साधारणं दूषणम् उपदर्शयन्न् आह तस्य चेति । तस्य समवायस्य चो वक्तव्यान्तरसमुच्चये । अन्यथात्वव्याख्यानम् अत्र साहसम् इति नानूद्यतेपि । व्यक्तिभेदविवक्षयोपयुक्तकार्ये वा सर्वत्रशब्दप्रयोगात् । सर्वत्र कार्यकारणभूते वस्तुनि । अविशेषाद् अविशिष्टरूपत्वात् । परस्परम् अन्योन्यं वह्नेर् धूमो धूमस्यापि वह्निः । कार्यं कारणं च स्यात्, समवायस्य कार्यत्वकारणत्वलक्षणस्य विशेषाद् उभयस् ताद्रूप्यमताद् रूप्यं वा न समं स्याद् इत्य् एवं वदितुर् अभिप्रायः । अथवा सर्वत्र काले वस्तुनि अकार्यकारणभूतेपि । सर्वत्र वा अंतशो महासामान्यस्य सत्तायाः समवायभावान् न समवायभावो विभावितः । किंत्वविशेष एवानूदित इति द्रष्टव्यम् ।
ननु नाविशिष्टः समवायः कार्यत्वकारणत्वलक्षणत्वेनेष्टो ऽस्माकं किंतु पूर्वोत्तरभावाभावैशिष्ट इत्य् आशंक्याह पूर्वेति । पूर्वोत्तरकालावच्छिनौ पदार्थौ पूर्वोत्तराव् उक्तौ । तयोर् यौ भावाभावौ, पूर्वभाव एव यद् उत्तरस्य भावः । तदभाव एव यो ऽभावो ऽभवितृत्वम्, पुर्वस्यापि यः स्वभाव एव भावो भावनं सत्तयाभिसंबन्धकत्वं स्वाभाव एव च यो ऽभावो ऽभावनं समं (?) [अ]भावयितृत्वं तद्विशेषणः समवायः कार्यकारणलक्षणम् । एतद् उक्तं भवति यो ऽर्थान्तरं स्वान्वयव्यतिरेकाव् अनुविधापयति, यश् चार्थान्तरस्यान्वयव्यतिरेकाव् अनुविधत्ते एव अन्वयव्यतिरेकानुविधा[पना] [27अ]न्वयव्यतिरेकानुविधायिनी वस्तुनी विशेषणे यस्य समवायस्य स तद्विशेषणः । {प्. 304} कार्यकारणत्वलक्षणत्वेनेष्त इति न सर्वत्र तथाभावप्रसङ्ग इति । अन्यथा व्याख्यानं त्व् अभावशब्दस्य दुर्योज्यत्वात् साहसमिती नानूद्यतेपि । एतन् निषेधयन्न् आह । अयुक्तेति । हेतुम् आह तद् इति । तेन भावाभाववता पूर्वोत्तरकालेन वस्तुनासंबन्धाद् अविद्यमानसम्बन्धत्वात् । अयम् अर्थो विशेषणं व्यवच्छेदकं भवति । तत्र केन संबन्धेन तथाभूते च वस्तुनि समवायम् इमम् अवच्छिन्नो (च्छिन्तो) येन तद्विशेषणं स्यात् । एवम् एव च तथात्वे सर्वं सर्वस्य विशेषणं स्याद् इति ।
ननु विशेषणविशेष्यभाव एव सम्बन्धः । न च सम्बन्धेन सम्बन्धान्तरानुसरणं श्रेयं इत्य् आशंक्याह निरतिशयस्येति । निष्क्रान्तो ऽतिशयो व्यवस्थितरूपाद् विशेषो यस्मान् निष्क्रान्तो वातिशयात् । तस्य केनचिद् अतिशाययितुम् अशक्यस्येत्य् अर्थः । नित्यत्वाच् च निरतिशयत्वम् इति बुद्धिस्थम् ।
एवं ब्रूवाणश् चैवम् अभिप्रैति विशेषणेन तावद् अतिशायके नावश्यभाव्यम् अन्यथा सर्वं सर्वस्य विशेषणम् आपद्येत । तत्रानित्यस्य कश्चिद् अतिशयम् आदधत् किञ्चिद् भवेद् अपि विशेषणम् । यदि तत्रापि सो ऽतिशयः किं ततो भिन्न उताभिन्नः, यदि भिन्नस् तस्य किम् आयातम् अथाभिन्नस् तस्यैव तर्हि करणम् आपतितम् इति कश्चिन् न पर्यनुयुञ्जीत, न तु पूर्वापरकालयो रविचलिततद्रूपस्य नित्यस्येति । संप्रति ते यद्य् अवश्यं विशेषने अस्यैष्टव्ये इति निर्बन्धस् तदैतत् युक्तरूपम् इत्य् उपग...अर्भम् उपदर्शयन्न् आह तयोर् एव वेति । वाशब्दो ऽभ्युपगतं पक्षान्तरं दर्शयति । तयोर् अन्वयव्यतिरेकानुविधापनान्वयव्यतिरेकानुविधायिनोस् तद्विशेषणयोस् तत्समवायविशेषणत्वेनाभिमतयोस् तल्लक्षणता कार्यकारणलक्षणतास्तु । तयोर् एव प्रमाणोपपन्नत्वाद् इतरस्य च तद्बाधितत्वाद् इत्य् आशयः । इतिर् अनन्तरोक्तं प्रत्यवमृषति । एवम् अभिप्रायवता वार्तिककृतेति प्रकरणात् । अग्नीन्धनाद्य् एव सामग्रीत्यन्तर्नीतनियमः समासः कर्तव्यो ऽत एवामूं नियमम् असहमानस्य भिनसामग्रीवादिनो मतम् आशंक्य तन्निराकुर्वन्न् आह न चेति । अन्यथा कुतो ऽस्य प्रत्याख्यानग्रन्थस्योत्थानं स्याद् इति । स्वरूपत एवापरसामग्रीनिरपेक्षेणैव रूपेण । कार्ये [48.23] जनयितव्ये यतः [47.26] शक्तिव्याघातात् । अन्यत्रे[48.26]ति । निपातो ऽन्यवचनोस्ति तेनान्यद् इत्य् आर्थः ।
सामग्र्य् अपि जनयन्ती किं सामग्र्यन्तरसव्यपेक्षा जनयत्य् अथानपेक्षा । यदि [21ब्] सामग्र्यन्तरसापेक्षा तर्हि सैवान्वयव्यतिरेकाभ्यां जनिका स्याद् आद्यसामग्र्यास्तु जनकत्वं हरीतकिं प्राप्य देवता रेचयन्तीत्य् अनेन तुल्यं स्यात् । अ(य)द्यनिरपेक्षा तद्वदभावोपि स्वहेतुलक्षणसामर्थ्यस् तन्निरपेक्ष एव किं न जनयतीत्य् अपि दूषणम् इह द्रष्टव्यम् । न च सामग्री ततो भेदेनोपलभ्यते । न चास्या अनुपलब्धिलक्षणप्राप्तता युक्तेत्याद्य् अपि पूर्ववद्द्रष्टव्यम् ।
{प्. 305} अन्वयो ऽन्वेतृत्वम् अन्वीयमानत्वं च व्यतिरेको व्यतिरेचयितृत्वं व्यतिरिच्यमानत्वं च तावात्मानौ यस्य तस्य [49.11] ।
ये [49.18] मीमांसकादयः । तम् अ[49.18]न्वयनिश्चयम् ।
तस्य स्वकारणाव्यभिचारद्वारक [49.27] इत्य् आचक्षाणो यस्यार्थान्तरस्य येनान्वयः सकललोकसाक्षिकः सो ऽवश्यं तज्जन्यस् तत्कारणजन्यो वेति प्रतिपादयति अतएव "कार्यकारणभावाद् वा" इत्य् अत्रापि तेन समं तत्कारणेन समं वा कार्यकारणभावाद् इति वेदितव्यम् इति । तत्र स्वभावहेत्वादौ विपर्ययेण बाधकप्रमाणवृत्त्याद्य् एव दर्शितं तत् तु कथम् अन्वयनिश्चय उक्त [51.1] उच्यत इत्य् आशंक्याह स्वभावे[51.2]ति । विपर्यये [51.2] साध्यविपर्यये हेतोर् बाधकं विपरीतोत्थापकं यत् प्रमाणं तस्य वृत्त्या [51.2] साध्यसाधनयोः तन्निबन्धनत्वात् । अन्वयनिश्चयस्येति प्रकरणात् । उत्तरत्राप्य् एवं द्रष्टव्यम् । तद्भावसिद्धेः तन्मात्रवृत्तिसिद्धेस् तद्धेतुकत्वात् । असद्व्यवहारस्य हि दृश्यानुपलब्धिमात्रे वृत्तौ सिद्धायां देशकालानवच्छेदेन यत्र यत्रोपलब्धिलक्षणानुपलब्धिस् तत्र तत्रासद्व्यवहारयोग्यतेत्यन्वयनिश्चयप्रवृत्तेर् निमित्तान्तराभाव[78]साधकप्रमाणतस् तद्[79]भावसिद्धिहेतुकत्वाच् चे[51.4-5]ति उक्तम् । ते न (?) कारणव्यापकानुपलब्धी ।
__________नोतेस्__________ [78] -भावप्रसाधक-स् [79] तदभावसिद्धिहेतुत्वाच् च- स् ।
तस्ये[51.15]ति साध्याभावे हेत्वभावस्य ।[80]तद्भावसिद्धि[51.19]स् तत्स्वभावतासिद्धिस् ततः तादात्म्यतद् उत्पत्तिलक्षणे निमित्ते यस्य प्रतिबन्धस्य प्रतिबद्धत्वस्य तस्य निश्चयात् [51.22] । तस्माद् उत्पत्तिस् तत्कारणाद् वोत्पत्तिस् तदुत्पत्तिर् अभिप्रेता । अनुपलब्ध्योः [52.2] कारणव्यापकानुपलब्ध्योर् इति प्रकरणात् । कदा पुनस् तद्विशेषणं नोपेक्षितुं शक्यत इत्य् आह यदेति [52.3] । उपादत्ते [52.4] निदर्शनीयत्वेन स्वीकरोति प्रतिपादक इति प्रकरणात् । असिद्धत्वाद् इ[52.8]ति । संदिग्धासिद्धत्वाद् इति द्रष्तव्यम् । तत् [52.12] साध्याभावे ऽभावख्यापनम् । तादात्म्यतदुत्पत्तिसिद्धौ हि प्लवमानाकारायाः साध्याभावे साधनाभावप्रतिपत्तेर् उत्पत्तिर् इत्य् आशयः । अमुम् एवार्थं तथा [52.15] हीत्वादिना प्रसाधयति । फलवचनस्य कार्यशब्दस्य नपूंसकलिङ्गत्वाद् असति बहुव्रीहावजहल्लिङ्गत्वाच् च कार्य[52.21]म् इति निर्देशोवार्तिककारस्यावसातव्यः ।
__________नोतेस्__________
[80] तद्भावता-स्
अनुपकारिका [52.23] अकिञ्चित्करी । अदर्शनमात्रा[52.23]त् प्रतिबन्धविरहिताद् विपक्षे ऽदर्शनात् केवलात् । तदसंभवं [52.23] व्यतिरेकासम्भवम् । तम् एव {प्. 306} तथाही[52.27]त्यादिनोपपादयति । साध्याभावाद् अन्यस्य तदनुपलब्धिकारणस्याभावात् एकत्र स्थितस्यापि तदनुपलब्धिरस्तीत्य् अभाव एव किं न भवतीत्य् आशंक्याह देशेत्यादि [28अ] । आदिशब्दात्कालस्य परिग्रहः । तत्र [53.3] धर्मिणि सत्य् अपि [53.3] विद्यमानेपि हेतौ अनुपलम्भमात्रस्य [53.4] उपलम्भविरहमात्रस्य [|] न तथाविधो व्यतिरेको ऽभिप्रेत इत्य् आह -- तथाविधस्यै[53.5]वेति ।
नन्व् अदर्शनमात्राद् व्यतिरेकम् इच्छताम् उक्तेन न्यायेन तदसंभव एव दर्शितः । प्रतिबन्धम् अन्तरेण दर्शनमात्राद् अन्वयम् इच्छतां तु न तदभावो भावितो ऽवश्यदर्शयितव्यश् चासौ "अविनाभावनियमो ऽदर्शनान्न न दर्शनात्" [प्र.वा. 3.30] इत्य् अत्राभिधानाद् इत्य् आशंक्यानन्तरोदित एवायम् अर्थ इति दर्शयितुम् आह अन्वयनिश्चयो [53.7]पीति । तेनापि [53.8] प्रतिबन्धनिबन्धनान्वयनिश्चयवचनेनापि । दर्शननिबन्धनम्[81] इति [53.8] सपक्षे दर्शनमात्रनिबन्धनम् इति प्रकरणात् द्रष्टव्यम् । अस्याप्य् अ[53.9]न्वयस्यापि । न दर्शनमात्राद् अन्वयम् इच्छामो येनैवम् अभिधीयते । किंतु भूयोदर्शनाद् इत्य् आशंक्याह न चेति [53.12] । एवम् उपलक्षणत्वाद् अस्य नादर्शनमात्राद् व्यतिरेकम् इच्छामो ऽपि तु भूयोदर्शनाद् इत्य् अपि द्रष्टव्यम् एव । "भूयोदर्शनगम्या हि" (श्लो.वा. anu.12) इत्य् अस्य शेषनिर्देशेनापि गमयितुम् अशक्यत्वाद् व्याप्तिर् अ[53.13]न्वयात्मिकेति द्रष्टव्यम् । भवतोपि महानसमहाह्रदादौ भुयोदर्शनादर्शनाभ्यां किम् अन्यद् व्याप्तिनिमित्तम् अस्तीत्य् आह असती[53.14]ति । प्रतिबन्धनिबन्धनाभ्याम् एव ताभ्यां सा सिद्ध्यति नान्यथेत्य् अनेन दर्शितम् । क्वचिद् देशे बहुलं [53.14] प्रचुरं यथा भवति तथा दृष्टानां [53.14] साहचर्येणोपलब्धानाम् आमलकत्वकषायरसत्वादीनां । अन्यथात्वस्यापि [53.14] क्सीरावसेकादिना मधुररसत्वादिभावस्यापि सम्भवात् । सम्भावनाया अवकाशं दर्शयितुं तद् असंभवे [53.15] इति । तस्यान्यथात्वस्यासंभवे ऽभावे । एवम् उपलक्षणत्वाद् अस्य साध्यभावे भूयोदर्शनेपि न व्यतिरेकात्मिका व्याप्तिः सिद्ध्यति । के(क्व)चिद् बहुलं साध्याभावे ऽभाविनाम् उपलम्भेप्य् अन्यथात्वस्य संभवात् । तदसम्भवबाधकप्रमाणाभावाद् इत्य् अपि द्रष्टव्यम् । तथाहि मधुररसत्वाभावे ऽम्भस्त्वस्य साधनधर्मस्याभावः साध्यधर्मिणः सामुद्राद् अम्भसो ऽन्यत्र सर्वत्र दृश्यत इति भूयोदर्शनेपि लवणोदधाव् एवान्यथात्वं दृष्टम् इति । अन्यथाम्भस्त्वम् अपि महार्णवाम्भसो मधुरत्वसाध्ये सम्यग्धेतुर् अभ्यवगन्तव्यः प्रसज्येत । बाधकाभावात् कार्यव्याप्याभावव्यतिरेके सति स्याता(?)र्वाग्दर्शिभिर् अशक्यनिश्चयत्वेनालक्षणत्वाद् अस्य साध्याभावे हीत्य् अलं बहुना ।
__________नोतेस्__________
[81] -निबन्धनाम -- स्
तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धद्वयनिश्चयो य एव स चोपायः [54.12] "सा विपर्यये बाधकप्रमाणवृत्तिः" इति वचनात् "प्रत्यक्षानुपलम्भसाधनः" {प्. 307} इति वचनाच् च दर्शितः । इति[54.13]स् तस्मात् पृथग् नोक्तः [54.13] भेदे[न]नोक्त आचार्येणेति प्रकरणात् ।
प्रतिबन्धसिद्धाव् अपि कथं कारणव्यापकानुपलब्ध्योर् अन्वयव्येतिरेकौ प्रसिद्ध्यत इत्य् आशंक्य एतद् एवोपपादयन्न् आह तथाहि[54.14]त्यादि । कार्यव्याप्याभावव्यतिरेके सति किंरूपे तस्मिन्न् इत्य् आह[82]तल्लक्षण इति । तत्कार्यस्वभावात्मनि [28ब्] प्रतिषेधप्रतिषेधस्य विधिरूपत्वाद् इत्य् अभिप्रायः । व्यतिरिच्यते असंभवति । कथं व्यतिरिच्यत इत्य् आह । कारने[54.14]ति । अन्यथे[54.16]ति यदि तद्व्यतिरेके न व्यतिरिच्यत इति ।
__________नोतेस्__________
[82] तद्भावलक्षने -- स्
तदनु "तादात्म्यतदुत्पत्त्योर् अविनाभावव्यापिकयोर्" इति पुरस्ताद् उक्तं कथं पुनर् अधुना तादाम्यतदुत्पत्त्योर् अविनाभावेन व्याप्तयोर् भावाद् इ[55.25]त्य् उच्यत इत्य् आशंक्याह कृतकम्[83]इ[55.26]ति । उभयव्याप्तित्वाद् इत्य् अर्थः । प्राग् एवोक्तम् इ[55.30]ति -- "अविनाभाववैकल्यण् चे"त्यादिना पूर्वम् उक्तत्वाद् इत्य् उक्तम् । यदि वे[56.1]त्यादिनोपपत्त्यन्तरम् अपि दर्शयति । कार्यहेतुप्रसङ्गात् कार्याद् अप्य् अन्यद् [56.1]त्य् उक्तम् । रोहिण्या रोहिणीनक्षत्रस्य आसत्तिर् उदेष्यमाणायाः प्रत्यासन्नता तस्याः क्लृप्तिः [56.14] कल्पनाज्ञानम् इति यावत् । सापि [56.14] तत्कल्पना उक्तत्वाद् इ[56.16]त्य् एतज् जातीयं प्रत्युक्तत्वेनोक्तम् अर्थाद् इत्य् अर्थः ।
__________नोतेस्__________
[83] कृतकत्वा -- स्
कथं पुनस् तस्यास् तदुदयानन्तरम् उदयो ऽवश्यंभावी संगच्छत इत्य् आशंक्योपसंहारव्याजेनाह तस्माद् इ[56.16]ति । नक्षत्रचक्रस्ये[56.16]ति कृत्तिकाख्यसप्ततारावृन्दस्येति प्रकरणाद् अवसेयम् । संक्रान्तिः [56.16] पूर्वावस्थानदेशात् संक्रमणम् अभिव्यक्त्यवस्थाप्राप्तिर् वा तस्या हेतुर् एव कालव्यवधानेने[56.17]ति कियत्कालक्षेपेणेति द्रष्टव्यम् कल्पयितव्य[56.17]स् तद्धेतुत्वेनेति प्रकरणात् । अनेन तत्रापि प्रतिबन्धसद्भावो दर्शितः । नीडानुपघाते सत्यनुत्रस्तानां गृहीताण्डानां पिपीलिकानाम् एकदिगभिमुखानां सञ्चरणं दृष्ट्वा यद् वर्षानुमानं तद् अप्य् असति प्रतिबन्धे स घटते तस्मात् तत्रापीयम् एव गतिर् इति दर्शयितुं यथे[56.17]तिना दर्शयति । इतरथा विवादाध्यासितसत्त्वाद् अस्य कथं दृष्टान्तरूपतोपपद्येत । भूतानां [56.17] पृथिव्यादीनां संक्षोभो [56.17]वस्थाविशेषः । य एव तथाभूतपीपिलिकासंक्षोभहेतुः स एव कतिपयकालव्यवधानेन पश्चात्कालभाविनो वर्षस्य हेतुर् इत्य् अर्थो ऽर्थाद् द्रष्टव्यः । कारणकारणतया च हेतुर् द्रष्टव्यो ऽन्यथा चिरातीतं कारणम् इष्टं {प्. 308} स्याद् एष्तव्यम् वा । इति[56.18]स् तस्मात् हेतोः कृत्तिकोदयस्य हेतोर् यो धर्मः [56.18] कतिपयकालात्ययेन रोहिण्युदयोपादानकारणशक्तिप्रबोधाधानेनान्यथा वा यज्जनकत्वं तदनुमानेन । इत्थंभूतलक्षणाचेयं तृतीया । कल्पयितव्या [56.18] रोहिण्यासत्ति कल्पनेत्य् अभिसम्बन्धात् स्त्रीलिङ्गेन निर्देशः । दृश्यत्वविशेषणानवच्छिन्नानुपलब्धिर् अनुपलब्धिमात्रम् [56.20] । अभावायोगाद् इ[56.22]त्य् अभावविषयत्वायोगाद् इति द्रष्टव्यं तद्द्वारेण [56.24] विरुद्धोपलब्धिमुखेन । एवं ब्रुवाणः सैव
विरोधग्रहणकालप्रव्र्त्ता दृश्यानुपलब्धिर् इदानीं स्मर्यमाणाभावसाधनी । तत्स्मारकत्वेन चोपलम्भस्यास्यैकज्ञानसंसर्गिवस्त्वन्तरानवच्छिन्नस्यानुपलब्धिरूपता अत एवोक्तं "प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते (प्र.वा.2.90)" इत्य् अभिप्रैति । अत्र च यथा प्रज्ञाकरगुप्तेन पराक्रान्तं तथास्माभिर्धर्मोत्तरप्रदीपे दर्शितम् इति नेहोच्यते । अन्यथा [56.25] यदि तद्द्वारे[29अ]णानुपलब्धिप्रयोगो नेष्यते । अनिषिद्धान्यभावे सत्य् अप्रतिषिद्धानिवारितोपलब्धिर् यस्यान्यभावेपि सा तत्त्वत इत्य् अर्थः । अभावासिद्धेर् अ[56.25]भावानिश्चयाद् अभावायोगाद् इति यावत् ।
समुदायस्य साध्यत्वात् कथम् असौ साध्य इत्य् आह अवयव [57.5] इति । सम्बन्ध्यन्तरस्यानुपादानात् ।
कस्यासौ स्वभावो ऽवसातव्य इत्य् आह साध्येति [57.6] । तन्मात्राद् अन्वयित्वम् अपि तस्य संभाव्यते । ततो विशिष्यत इत्य् आह यो हीति [57.17] । यदि नाम न व्यभिचारस् तथापि कस्माद् विशेषणं नोपपद्यते इत्य् आह संभव [57.22] इति । परमतमपेक्षत इति परमतापेक्षम् ईक्षिक्षमिभ्यां चे(पा.वा 470)ति कर्मोपपदे ऽणः । परेपि किम् एवम् एषितरो न भवंति येन तन्मतापेक्षम् इदम् उच्यते इत्याह नैयायिके[57.25]ति । वेगाख्यसंस्कारवता द्रव्येण मुद्गरादिना यः संयोगा[58.4]ख्यो गुणस् तस्माद् अवयवेषु घटादिद्रव्यारम्भकेषु कपालादिषु, कर्माणि क्रियाबहुवचनेन व्याप्तिम् उपदर्शयति न तु बहुत्वसंख्याम् एव । संयोगस्यैक्ये क्रियाया अप्य् एकस्या भावात् । यथा वेगवत् सूच्यादिसंयोगे कुवलयदले आमे वा घटे, तथापि क्रियाप्रणालिकया द्रव्यनाशो ऽस्त्य् एवेति । तेभ्यः [58.4] कर्मभ्यह् । अवयवा[58.4]नां तद्द्रव्यारम्भकाणां द्रव्यारम्भकसंयोगप्रतिद्वन्द्वीविभागाख्यो गुण उत्पद्यते । ततो [58.4] विभागात् संयोगविनाशो द्रव्यारम्भकस्य संयोगस्य विनाशः । ततः संयोगविनाशात् । तेनावयवसम्योगेनासमवायिकारणेन यद् आरब्धं द्रव्यं तद् विनश्यति । द्वेधा हि द्रव्यस्य नाशो वैशेषिकादिभिर् अभ्युपेयते आश्रयविनाशाद् असमवायिकारणविनाशाच् च । अत्र चासमवायिकारणस्यास्य संयोगस्य विनाशात् । {प्. 309} कार्यग्रहणेन तु वास्तवं रूपम् अनूदितम् । न तु तदारब्धं चाकार्यञ्चास्ति यद् व्यवच्छिद्यते । यदि चा(वा) कार्यत्वेनैव तन् नश्यति । यत् कार्यं तद् अवश्यं नाशधर्मकम् इति प्रतिपादयितुं कार्य[58.5]ग्रहणम् । आहेत्य्(भि)सम्बन्धाद् द्वितीयया निर्देशः । समवायबलाद् वृत्तौ
तस्यैकरूपत्वाद् विशेषाभावो विवक्षितः । कृतकत्वानित्यत्वयोर् एकत्वे कथं गम्यगमकभावो भेदे तस्योपपत्तेर् इत्य् आह[84]दर्शनेति [58.23] । कृतकत्वानित्यत्वयोर् धर्मयोर् यो भेदः पृथक्त्वं तस्यावभासः स विद्यते यस्याम् सा च सा कल्पना चेति तथा । धर्मभेदम् अवभासयतीति वा तथा । सा च सा कल्पना चेति तथा । इत्थं पदसंस्कारं कृत्वा पश्चाद् अभूत्वाभवन्धर्मकभूत्वाभवन्धर्मकवस्तुदर्शनबलोत्पन्ना च सा कृतकत्वानित्यत्वधर्मभेदावभासिकल्पना चेति विग्रहः कार्यः । सैव द्वारम् उ[58.27]पायस् तेन । साधकप्रमाणाभावाद् बाधकसद्भावाच् च न तत्कल्पना युक्तिमतीति भावः । एवं साध्यसाधनभावोपपत्ताव् अपि तत्कल्प्यताम् । यदि तद् एव व्यतिरिक्तम् अनित्यत्वादि तत्साध्याम् अर्थक्रियां प्राप्तुं हातुं वार्थिभिश् चिन्त्यते तद् अपि नास्तीति दर्शयितुम् आह [29ब्] -- कल्पयित्वापीति [58.28] वस्त्वात्मन एव [58.28] तद्धर्मिस्वरूपस्यैव । हानोपादानविषयतया चिन्त्यत्वाद् [58.29] विचार्यत्वात् । कथं तस्यैव चिन्त्यत्वम् इत्य् आह -- अर्थक्रिये[58.28]ति । कैश्चिन्तनीयत्वम् इत्य् आह -- तदर्थिभि[58.29]र् इति । ताम् अर्थक्रियाम् अर्थयन्तीति तथा तैः । अर्थक्रिया च तदायत्ता अत एवोपेक्सा(पेया)र्थिन उपायम् एवानुसरंतीति । एतद् एवचार्यवचनेन संस्पन्दयन्न् आह -- तद् उक्तम् इ[58.29]ति । यस्माद् एवम् एवैतन् नान्यथा तत् तस्माद् उक्तम् आचार्येण । सन् हि शब्दार्थो ऽसन्ध्यावृत्तिः (सद्व्यावृत्तिः) शब्दार्थ इति यः पक्षभेद[59.1]स् तेन तं हेतूकृत्य ये शब्दार्थान्नापहवते(ह्नुवते) तैर् वस्त्व् एव [59.2] शब्दादिकम् एव । व्यावृत्तिः शब्दार्थ इति वादिभिर् अप्य् अर्थात् व्यावृत्तम्
एव वस्तु तथापि प्र(था प्र)तिपाद्यत इति तेषाम् अपि वस्तुचिन्तनम् । अथवा शब्दार्थमनपवदद्भिः सदापेक्ष्याभे(दादिपक्षभे)देन सत्त्वेनासत्त्वेन च वस्त्व् एव चिन्त्यत इत्य् अर्थः । तस्मा(कस्मा)द् वस्त्व् एव चिन्त्यत इत्य् आहाशं(त्याशं)कायाम् अत्रहीत्य् उक्तम् । हिर् यस्मात् । अत्र [59.2] वस्तुनि । यद्य् अप्य् अत्र विधौ सामान्यादिरूपे व्यावृत्तौ च प्रसज्यप्रतिषेधान्मति(धात्मनि) फलोदयो न प्रतिबद्ध[59.2]स् तथा(थापि) किं तथात्वेन चिन्त्यते इत्य् अत आह अर्थेति । षण्ड्ःअस्य [59.4] सुरतमाचरितुम् अक्षमस्य तृतीया(य)प्रकृतेः । रूपं च वैरूप्यं चेति द्वन्द्वैकवद्भावः तत्र कामिन्या वृषस्यन्त्याः किं परीक्षया [59.4] विमृष्यावधारणेन ।
__________नोतेस्__________
[84] तद्दर्शन-स्
{प्. 310} ननु यदि वस्तुतः कृतकत्वानित्यत्वयोस् तादात्म्यम् तर्हि वस्तुनः कृतकत्वनिश्चये ऽनित्यत्वम् अप्य् ऐकात्म्यान् निश्चितम् एवेति कथम् अनुमानावतार इत्य् आशंक्योपसंहारव्याजेनाह -- तस्माद् इ[59.6]ति । यस्मात् तस्यैव वस्तुनस् ताप्यमवश्यैषितव्यं तस्मात् । दृष्टा अपि भावाः केनचिद् आत्मना निश्चितास् तदन्येनात्मना अनुमानतो निश्चीयन्त इति {5] संबन्धः । दृष्टाः साक्षात्कृता भावाः शब्दादयो धर्मिणः । केनचि[58.6]त् कृतकत्वादिना रूपेण, किंभूतेन? तस्मात् कृतकाद् अन्यद् अकृतकं तस्माद् व्यावृत्तेन । कथञ्चिद् अभ्यासपाटवादिप्रकारेण तदन्येनानित्यत्वादिना तद्रूपम् अनित्यरूपं यन् न भवति तस्माद् व्यावृत्तेन [59.7] । अनेन व्यावृत्त्यभेदेन व्याव्र्त्ति(त्ते)र्भेदो दर्शितः । कृतकत्वेनेव यदि तेनाप्य् आत्मना ते तदा निश्चेतुं शक्याः कथम् अनुमानान् निश्चीयन्त इत्य् आह [59.8] अनिश्चीयमाना इति । अनिश्चय एव कुत इत्य् आह । भ्रान्ती[59.7]ति । भ्रान्तेर् विभ्रमस्य कारणं निरन्तरसदृशापरापरोत्पत्तिर् अविद्या च तस्य सद्भावात् ।
अथ यदि तदानीम् अनिश्चितरूपेण समं तस्य निश्चितस्य रूपस्य प्रतिबन्धो नावसितस् तर्हि कथम् असम्बद्धदर्शनात् तन्निश्चयो भवितुम् अर्हतीत्य् आशंकायाम् अनुमानं विशिष्टम् आह निश्चिते[59.8]ति । प्रमाणान्तरतो [59.8] विपर्यये बाधकात् प्रमाणात् । प्रतिबन्धावसायः पुरोवर्ती पूरभावी यस्यानुमानस्य तस्मात् [59.9] इतिस् तस्मात् तस्य [59.12] विनाशस्यार्थान्तरनिमित्ततया तन्मात्रानन्वयित्वे ।
यस्माद् एवंभूता सत्ता तत्समवायो वा अनित्यता अतएव [59.16] कारणात् आत्मादाव् एवंभूतसत्तासमवाययोर् अभावाद् इति भावः ।
अथास्त्व् एवम् किं नच्छिन्नम् अनेन तावद्विशेषणेनास्माभिर् अतत्स्वभावता [30अ] विनाशस्याख्याता तावतैव चरितार्थाः स्म इति सौगतमतम् आशंक्य स्वसिद्धान्ताभ्यासव्यामोहापस्मारः परः प्राह -- विनाश इति च [59.16] इति । इतिर् विनाशशब्दं प्रत्यवमृषति । तेन विनाशशब्देनेत्य् अर्थः । प्रागभावादिभेदेन भावाभावस्यानेकविधत्वात् विशिनष्ति प्रध्वंसाभावलक्षणम् इ[59.17]ति । कृतकत्वम् अ[59.17]पि भवद्भिस् तदात्मकम् एव मन्यते ततो ऽयुक्तम् अतत्स्वभावताप्रतिपादनम् इति च पुनर् आशंक्य पर एवाह -- कृतकत्वम् इति {25] तु[59.17]र् भिनत्ति मन्यामहे [59.17] इत्य् अभिसम्बन्ध्यते । तथाविधस्य [59.20] प्रध्वंसाभावलक्षणस्य । हेतुमत् तया [59.17] विरोधाद् अनुपपत्तेः । कथं पुनर् विरोध इत्य् आह स्वयम् इ[59.20]ति । एवं ब्रुवाणस् तदुपपत्त्यनभिधानकारणं दर्शयति । प्रतिपित्सवो [59.23]नुतिष्ठासवः । मुद्गरादेः [60.1] सकाशाद् उदये ऽपि तस्य [60.2] प्रध्वंसाभावस्य ।
{प्. 311} भावे [60.2] विनाशो वस्तुनि । अनुपयोगाद् [60.2] अव्यापारात् । अतादर्थस्थ्यो ऽनि(दवस्थ्यम् अनि)त्यत्वं तस्य च तदवस्थत्वात् कथम् अनित्यत्वम् इत्य् अर्थः । यदि नाम तद्भावे तत्पूर्वावस्थितरूपान् न विचलति तथापि तद्विशेषणौ सत्तासमवायौ तस्यानित्यता व्यवस्थाप्यत इत्य् आह अविचलितेति [60.4] । अविचलितमनापन्नान्यथाभावं रूपं यस्य तस्य सत्तायाम् आह -- सामान्यस्य समवायस्य चैकत्वेनात्मादेर् अपि तथाभावो भवेद् इति भावः । "विनाश इति च भावाभावं प्रध्वंसलक्षणं मन्यामह" इति यत्परेणोक्तं तद् अवद्यं प्रतिपाद्य "कृतकं त्व् इति च" यद् उक्तं तद् अपि दूषयन्न् आह स्वकारणे[60.6]ति । समवायस्यैकत्वेनात्मादेर् अपि तथाभावप्रसङ्गेनैवम् अनिच्छतोपि न सिद्द्यतीत्य् आशयः । अमुम् एवार्थं विधिमुखेन साधयन्न् आह [अ]भूत्वेति [60.8] वर्ण्यते [60.8] लोकनेति शेषः । अनेनैतद् दर्शयति वृद्धव्यवहारो हि शब्दार्थनिश्चयभूमिः । कृतकत्वशब्देन चैवंविध एवार्थो ऽभिधीयते वृद्धैर् इति । प्राक्पध्वंसाभावयोस् तद्विशेषणरूपताम् उपेत्य प्राग्दूषणम् उक्तम् । संप्रति तु ताम् अपि विघटयन्न् आह न चे[60.8]ति । एतच् च पूर्वम् एव व्याख्यातप्रायम् । तद् एव [60.10] अभूत्वाभवनं भवितृत्वं कृतकत्वम् अस्तु । एवं तुल्यन्यायतया वा(चा)भवनम् अनिच्छतो ऽनित्यता न सिद्ध्यति । भूत्वाभवनोपगमे वा स्थिरस्वभावतयैवानित्यतास्त्व् इति अभिप्रायवतोक्तम् अस्थिरत्वभावता चे[60.10]ति । यदि वा तस्माद् अनेन(ना)स्थिरस्वभावतैव भावस्यानुमातव्येति यद् उत्पत्त्यभिधानपूर्वकम् उपसंहृतिः तदभिप्रायेणैवम् उक्तम् । कृतकत्वस्य व्यभिचारः [60.16] साध्यरहिता वृत्तिर् अनैकान्तिकत्वम् इति यावत् । प्रतिषेध्यस्यावश्यंभावित्वस्य यद्विरुद्धं अनवश्यंभावित्वम् तेन यद्व्याप्त(प्तं) हेत्वन्तरापेक्षित्वं तस्योपलब्धिः विरुद्धव्याप्तोपलब्धिर् {20] इ[60.19]ति च विरुद्धव्याप्त्यो(तो)पलब्ध्यप्रसङ्ग इति द्रष्टव्यम् परोपगमेन पक्षधर्मतासिद्धेः । यत्र हि व्याप्तिर् वास्तवी पक्षधर्मता तु परोपगमसिद्धा स प्रसङ्गहेतुः । यत्र तु त्रितयं प्रमाणसिद्धं स स्वतन्त्रो हेतुर् इत्य् आशय एषः ।
तस्य [60.20] च परिमितस्य [30ब्] हेतोः तदाश्रयस्य [60.21] रङ्गाश्रयस्य वस्त्रादेः । उपधातकः प्रत्ययो विधुरप्रत्ययस् तदुपनिपातेन नावश्यंभावितेत्य् अनवश्यं भावितेत्य् अर्थः । पुनः शब्देन रागाद् विनाशं [60.22] भिनत्ति । तद्धेतुसन्निधे[60.24]र् विनाशहेतुसन्निधेः प्राक् [60.24] । त एवोपधातक(का) विनाशकाः स्युस् ततश् च सहेतुको विनाशः सिद्ध इत्य् अस्याभिप्रायः ।
तकारणानां च [60.27] स्वकारणायत्तसन्निधित्वाद् इत्य् एव संबद्ध्यते । सन्निहितानाम् अपि विनाशहेतूनां संबन्धीनीमानि विरोधीनि {प्. 312} शक्तिविबन्धकानि योगिपिशाचादीनि तेषाम् अप्य् आनन्त्यात्[60.28] । तद्भावे [60.28] तेषां विरोधिनां सद्भावे । तच्छक्तिप्रतिबन्धात् [60.28] तस्य नाशहेतोः शक्तेर् उपघातात् । यदि ते तद्धेतवस् तैर् अवश्यं तत्फलैर् भाव्यम् इत्य् आह नावश्यम् इ[60.28]ति । इतिर् हेतौ सापेक्षो ऽपि [60.29] हि निद्रादिर्वते (हरिद्रादिवस्त्रे) द्रव्यापेक्षोपि किं न स्याद् इति प्रश्ने बौद्धीयं वचनं स्याद् [61.2] यदि तथोपलभ्येते[61.2]ति । तथा [60.3] सर्वगतत्वेन । यद्य् एवम् इ[60.3]ति परः । अन्यथाभाव[61.4]स्य क्वचिद् अभवनस्य शंका संदेहस् तया नाधातव्यो [60.4] न करणीयो भवद्भिर् इति च प्रकरणात् । अनेनैतद् परो दर्शयति सर्वत्रोपलब्धस्यान्यथाभावशंकैव भवतः प्रेक्षावतो न युक्ता केवलम् अनेन व्याजेन नूनं परसिद्धान्तस्यानवद्यतया मनःखेद एव त्वया क्रियत इति । किं[85]पुनर् इ[61.5]ति सिद्धान्ती । सामान्यविशेषाकाराभ्यां प्रश्नः किंपुनःशब्देन निपातानिपातसमुदायेन दर्शितः । समस्तवस्तुविस्तरव्यापी [61.5] सर्ववस्तुबाहुल्यव्यापी ज्ञानालोको [61.5] यस्य भवतः स तथा । यथा तु वस्तुविस्तरशब्दसिद्धिस् तथा पुरस्ताद् अभिहितम् । तथाभावे [61.6] सर्ववस्तुदर्शित्वे वा कस्यचिद्धेतुकृतो विनाशो दृष्टः । सर्वस्यैव ताद्रूप्यमनिवारितम् इति आह -- कस्यचिद् इ[61.6]ति । तुर् अवधारणे हेत्वायत्तजन्मनाम् [61.7] कारणान्तराधीनोत्पत्तीनां वस्त्ररागादीनाम् अन्यथापि दर्शनाद् [61.8] अपितृते(अपीतत्वे)नाप्य् उपलब्धेर् हेतोः
उपजाता[61.8]न्यथात्व शंका प्रकरणाद् विनाशस्याभावसंदेहो यस्य पुंसस् तथा सन् । अनेनार्थान्तरानुबन्धिनि विनाशो साध्ये कृतकत्वस्य संदिग्धविपक्षव्यावृत्तिकत्वेनानैकान्तिकम् आह । कृतकम् अपि चायम् [61.9]इत्यादिना तु साधारणानैकान्तिकं दर्श्यति । भावाभाव[61.10]शब्देन प्रध्वंसाभावो विवक्षितः । तस्यैव स्वनिष्पत्ताव् अपेक्षितपरव्यापारत्वेन कृतकत्वात् । तथात्वेनेष्तत्वाच् च । नित्यतोपगमे कारणम् आह तद्विनाश [61.10] इति । तस्य भावाभावस्य प्रध्वंसलक्षणस्य विनाशे भावस्य प्रध्वस्तस्योन्मज्जनमाविर्भावस् तस्य प्रसंगात् [61.10] प्राप्तेः ।
__________नोतेस्__________
[85] किं वा पुनर् इति स्
स्याद् एतन् नित्यं सत्त्वादिप्रसङ्गेन नाहेतुकं वस्तुनाम् उज्जनम् । न च घटादेर् भावस्य तद्विनाशविनाशोन्वयव्यतिरेकाभ्यां कारणत्वेनावगतो ऽपि तु कुलालादिर् एव । तत् कथं विनाशविनाशे तदुन्मज्जनमासंज्यमानमभजमानं न स्याद् इति । तद् ए[31अ]तद् अवद्यम् । तथाहि घटाभावव्यावृत्तिर् {प्. 313} एव घटो घटविनाशश् च घटा(ट)भावव्यावृत्तिर् इति घटाभावस्याभावे घटरूपोन्मज्जनासंजनं ज्याय एवेति ।
अत्रैवोपचयहेतुम् आह न चे[61.11]ति । स [61.14] नाशो ऽहेतुः सन् तस्य [61.14] प्रध्वंसाभावस्य कथं[86]जायेत [61.14] जनितुम् अर्हति ।
__________नोतेस्__________
[86] संजायते स्
भाषानां [61.17] वस्तूनाम् अयं विनाशाख्यो धर्म ऐकान्तिको ऽ[61.17]वश्यंभावी । अनेनैतद् दर्शयति -- नैव कृतकत्वं निर्विशेषणं साधनम् अस्माभिर् अभिधीयते येनैवं स्यात् किन्तु वस्तुत्वविशेषणानव(णेनाव)विच्छिन्नं ततो वस्तुत्वे सति यत्कृतकत्वं तदवश्यंभाविनाशम् इत्य् आर्थ इति । कुतः पुन[61.17]र् इत्यादिना सिद्धान्ती प्रतिविधत्ते क्षेपे किमः प्रयोगान् न कुतश्चिद् इत्य् अर्थः । एतद् इ[61.18]ति भावानाम् अवश्यभावी विनाश इति । तेषां भावानाम्[87]अन्यथात्वस्य [61.18] अविनाशित्वस्यानुपलब्धेर् एतद् अवसितम् इति प्रकरणात् । भवन्न् अपि [61.18] विद्यमानोपि । आत्मादेः [61.18] सत्ताया अनिवर्तक [61.18] आत्माद्यभावस्यासाधकः कथम् अन्यत्र [61.18] वस्तुषु अन्यथाभावम् अविनाशित्वं निवर्तयति [61.19] निषेधयति । आत्माद्युपन्यासेन चैतद् दर्शयति । यद्य् अविनाशित्वानुपलम्भो ऽविनाशाशित्वाभावं साधयति तर्हि विशेषाभावाद् आत्माद्यनुपलम्भोपि तदभावं साधयेत् । न चायम् अपीति दृष्टान्तविघटनं परस्याशंकमान आह तस्ये [61.19]ति । तस्य आत्मादेः आत्मनस् तावद् रूपरसादिप्रत्ययानाम् एकानेकत्वसाधकस्याबाधितप्रतिसन्धानविषयत्वादेर् अनुमानात् । आदि[61.18]शब्दसंगृहीतस्य च दिगादेः पूर्वापरादिप्रत्ययादेर् अनुमानत इति बुद्धिस्थम् । इतिना [61.19] वक्तव्यस्याकारः कथितः । तत्राप्य् अनुमाने [61.20] तत्सत्त्वसाधके ।
__________नोतेस्__________
[87] अन्यथाभावस्य स्
ननु यस्यानुपलब्धिस् तस्याभाव एवेत्य् अभिधातरि को ऽयम् उपालम्भः । विपक्षेपि हेतोर् वृत्त्यदर्शणे ऽभावसिद्ध्यविरोधात्; आत्मादेस् त्व् अनुपलब्धिर् एवासिद्धा ततो नाभावसिद्धिर् इति । साधूक्तं भवता केवलं तत्रापी[61.20]त्यादि ब्रुवतो ऽभिप्रायो न सम्यग्व्यज्ञायि । अयं खल्व् अस्याशयः । तावद्धेतोर् विपक्षे ऽनीक्षणं न क्षमते अभावं विभावयितुं, यावद् यद्य् अन्नोपलभ्यते तत् तन् नास्तीति न सिध्यति । सति चैवमात्माद्यनुपलभ्यमानम् असत्सिद्धम् इति प्रमाणप्रतिक्षिप्तं कथं अनुमानस्य विषयः स्यात्? तद् उक्तं "व्याप्तो हेतोर् अनाश्रय" इति । यदि वानुपलम्भ एव प्रतिबन्धशून्यः केवलो ऽनुपलम्भो देशकालविप्रकृष्टेषु कथं तथाभावम् अवबोधयेत्? यतस् तेन सिद्धिविपक्षा हेतुव्यावृत्तिर् आत्मादेः सत्त्वम् अनुमापयेद् इति । प्रयोगभङ्ग्यैव [61.25] प्रयोगविन्यासेनैव प्रसङ्गेना[62.1]नुषङ्गेन प्रस्तावेनेति यावत् । {प्. 314} साध्यदृष्टान्तधर्मिणोः समानः [62.3] सदृशो हेतुसद्भावलक्षणो धर्मः [62.3] प्रतिपाद्यतया यस्य [62.3] प्रयोगस्यासौ सधर्मा, समानस्येति योगविभागात् समानस्य पक्षादिष्व् इति वक्तव्ये परिग्रहाद् वा स भावस् तस्य भावो [62.3] भवतो ऽस्माद् अभिधानप्रत्ययाव् इति कृत्वा [31ब्] रूपविशेषः । तयोर् एव विसदृशो [62.4] हेतुसद्भावासद्भावलक्षणो धर्मः प्रतिपाद्यतया यस्य तस्य भावः [62.5] अशेषस्य साध्येतरधर्मिणः (साध्यधर्मिणः) साध्यधर्मणोवान्यत्र सर्वत्र साध्ये हेतोर् व्याप्तिर् विवक्षिता । न तु साध्यधर्मणो ऽन्यत्र दृष्टान्तधर्मिणि प्रवृत्तेन सर्वोपसंहारेण गृह्यमाणा व्याप्तिर् बहिर्व्याप्तिः तस्या निरासः [62.1] ।
ननु च सत्त्वलक्षणे स्वभावहेतौ साध्यधर्मिण्य् अपि विपर्यये बाधकप्रमाणवृत्त्यापि व्याप्तिर् ग्रहीतुं शक्यत इति । नैतद् अपेक्षया हेतोर् अन्यत्र वृत्त्यपेक्षया किंचिद् येनेदम् आसज्येत । किंतु कार्यहेतोः सर्वस्य स्वभावहेतुविषयस्य चावश्यम् अन्यत्र प्र(अ)वृत्तिर् अपेक्षणीया । तदर्थं अन्यत्राअनुवृत्तिर् इत्य् आशङ्कितम् इति किन् न भवान् व्याचष्टे । आचार्यस्य च सत्त्वहेतूपन्यासानन्तरं यथा घटादय [62.9] इत्य् उदाहरणदर्शनात् तु त्वदीयं व्याख्यानम् अपव्याख्यानं लक्ष्यत इति निर्भर्त्सनामाशङ्क्यास्याचार्यस्यान्यदृशम् अभिप्रायम् उद्घाटयन्न् आह यथा घतादय [62.9] इति । यस्य [62.9] पुंसः । किं पुनस् तत्र स्मृत्याधानार्थं दृष्टान्तवचनम्, न तु दृष्टान्तमात्रप्रतिपादनार्थम् इत्य् आह -- दृष्टान्ते[62.11]ति । अनेन पुरुषविशेषं प्रति एतद् आचार्येणेति नास्मद्व्याख्यानस्य किंचिद् अवद्यम् इति दर्शयति ।
विभक्तिविपरिणामेन सम्बन्धम् एव सर्वस्मिन्न् इ[62.16]त्य् अनेन दर्शयति ।
बहिर् एवध्याप्तिर् बहिर्व्याप्तिस् ताम् । ते [62.23] निरस्ता भवन्ति [62.25] इति सम्बन्धः । यद्य् अपी[62.24]ति निपातसमुदायो विशेषाभिधानार्थाभ्युपगमे । तावते[62.24]ति साधनधर्मस्य साध्यधर्मेणान्वयदर्शनमात्रेणेति । अस्य [62.24] साधनधर्मस्य तथाभावस्य साध्येनान्वीयमानत्वस्य अभावात् [62.24] । प्रतिबन्धम् अन्तरेण तदभावे ऽपि तदभा(तद्भा)वाविरोधाद् इति भावः । इतिः [62.25] हेतौ । तस्य प्रतिबन्धसाधकस्य प्रमाणस्य[88]स्मरणाय [63.3] । धर्मविशिष्टः [63.4] सिषाधैय्षितधर्मविशिष्टो धर्मी [63.5] शब्दादिः । तस्याः [63.6] साध्यधर्मविशिष्टधर्मिप्रतिपत्तेः । व्याप्तिप्रदर्शनपूर्वके पक्षधर्मप्रदर्शने ऽभिधाय पक्षधर्मप्रदर्शनपूर्वके व्याप्तिप्रदर्शने ऽप्य् आह -- तत्पूर्विकायां चे[63.8]ति । तत्पूर्विकायां पक्षधर्मप्रदर्शनपूर्विकायां व्याप्तौ [63.8] {प्. 315} प्रदर्श्यमानायाञ् चेति शेषः सर्वोपसंहारेण व्याप्तिग्रहणे प्लवमानाकारायाः प्रतिपत्तेर् उभयत्राविशेषान्मुखभेदमात्रेणैतद् उक्तम् इत्य् अवसेयम् ।
__________नोतेस्__________
[88] तत्स्मृतये स् ।
साध्यनिर्देशः प्रतिज्ञा [63.24] तस्याह् प्रयोगः [63.24] प्रयुक्तिः स न[89]दर्शितः [63.24] साध्यनिर्देशो न कृत इत्य् अर्थः । प्रत्यक्ष[64.12]ग्रहणं प्रमाणोपलक्षणं द्रष्तव्यं तेन तभिस्रायां रात्रौ प्राक्तनादिविप्रकृष्टे देशे कर्पूरोर्णादिगर्थ(गन्ध)विशेषाद्धूमविशेषम् अनुमानतो निश्चित्याग्निविशेषम् अनुमिन्वतो ऽपि सङ्ग्रहः । प्रतिज्ञाप्रयोगरहिताद् इ[64.16]त्य् अवधारणफलप्रदर्शनम् एतत् ।
__________नोतेस्__________
[89] नोपदर्शितः स् ।
अत्रार्थितैव कर्णम् आगत्य बुद्धिस्थं प्रकाशयति य पिशाची सा किल कर्णपिशाचिका [64.18] ।
लिङ्गस्य पक्षधर्मान्वयव्यतिरेकात्मनो गमकस्य अनुसरणं [65.12] निश्चयनम् । इतिः [65.14] हेतौ । उपहसति [65.14] त[32अ]त्ताम् अधिरोहति । किम् उपहसतीत्य् आह -- यत् तद् इ[65.14]ति लोकोक्तिश् चैषा । कथं तत्स्पर्धास्योच्यत इत्य् आह तत् तुल्यत्वाद् इ[65.15]ति । अस्य [65.15] अनुमातुः । क्रमस्य [65.15] समानाधिकरणषष्ठ्य् एव वा ।
"तद्वचनस्ये"[65.23]त्यादिना पूर्वं स्वयं कारणम् अभिधाय आचार्योक्तं कारणं दर्शयितुं परं प्रश्नेनोपक्रमयति कस्माद् इ[65.13]ति । यदि प्रतिज्ञाप्रयोगे ऽपि सा शङ्का तर्हि किं तेनेत्य् आशङ्क्य पर एवाह अनित्य [66.13] इत्यादि । तदा(तुना) [66.13] प्रतिज्ञाप्रयोगपक्षं विशिनष्टि "असति साध्यनिर्देश[66.9]" इत्य् एवाभिसम्बध्यते । हेतुश् च विरुद्धश् च अनैकान्तिकश् च तेषां प्रतीतिः [66.14] निश्चयो न स्यात् । इदम् एव दूषणं तेन समुच्चितम् । अत्रैव दूषान्तरम् अपि समुच्चिन्वन्न् आह । हेतोश् चे[66.17]ति । स्वपक्षविशेषं दर्शयन्न् आह ।[90]सति त्व् इ[66.18]ति । यवते[66.27]ति तृतीयान्तप्रतिरूपको निपातः किन्त्व् एतस्यार्थे वर्तमानो अत्रोपपत्तेः । तस्मिन् निबद्धतद् (तस्मिन् इव तद्वत्) विषयः साध्यलक्षण उपस्थाप्यते [67.3] उपनीयते येने[67.3]त्य् अर्थकथनम् एतत् । उपस्थाप्यते येन पुरुषेणासौ तथा, विषयस्य तथेति तु विग्रहः । तेनानिर्दिष्तविशेषेण केनचिद् विना [67.4] कथं पुनस् तान(तेन) साध्यम् उपस्थाप्यत इत्य् आशंकायां योज्यं --[91]प्रतिज्ञाद्वारेणेति । [67.3]
__________नोतेस्__________
[90] "तु" नास्ति स् । [91] प्रतिज्ञावचनद्वारेनेति स् ।
{प्. 316} एवं तावद् अनेन व्याख्यातम् । केचित् पुनर् अन्यथाप्य् एतद् व्याचक्षते । उपस्थाप्यते प्रकाश्यते येन [67.3] वचनेन तेन विना [67.3] । अयम् अपि "प्रमेयस्योपदर्शनम् अन्तरेण" [69.24] इत्य् अत्रोपदर्शनशब्देन वचनम् एव व्याख्यास्य[ति] न तु पुरुषम् । तद् अपि अग्निर् अत्राग्निमानयं साग्निर् अयम् इत्यादिरूपेणानिर्दिष्टविशेषं विवक्षितम् इत्य् अतः -- केनचिद् इत्य् उक्तम् इति कार्यिणो [67.5]र्थिनः । अर्थित्वं चान्वयब्राह्मणाप्राप्त्यादिना द्रष्टव्यम् । मूल्यं [67.6] निष्क्रयं मृगयते [67.6] प्रार्थयते । इतस् ततः पार्वणश्राद्धादिभोजी द्विजः पर्वब्राह्मणः [67.6] । अमुम् एव दृष्टान्तं विवृण्वन्न् आह यथे[67.6]ति । दक्षिणा [67.7] अत्र प्रकरणाद् भोजनानन्तरं दानं द्रष्टव्यम् । अन्यदा [67.7] अर्थविशेषाप्राप्तिकालाद् अन्यस्मिन् काले । प्रार्थनापूर्वकम् इतस् ततो भोजनशीलतौर्ध्वरथ्यिकः[92]पर्वब्राह्मणसदृशस्य चैतद् विशेषणं चरणम् । श्र(श्रा)द्धादी[67.8]त्य् अत्रादिग्रहणाद् उपनयनसमावर्तनादिपर्वसङ्ग्रहः । अर्थित्वमात्रेपि नैतद् वचनं तस्य सम्भाव्यत इति तं विशेषयन्न् आह -- श्रद्धालु[67.8]म् इति । श्रद्धालुं श्रद्धावन्तम् । अनेन श्रद्धानुविद्धम् एवार्थित्वं कार्यशब्देन वार्तिककृतो विवक्षितम् इति दर्शयति । घृतपुरः [67.8] खाद्यविशेषस् तं प्रति । सोपि मह्यं प्रचुरो दातव्य इति विरुक्तेन दर्शयति ।[93]रूप्यं [67.9] प्रचुरतरताम्नाल्पतररूप्यघटितो द्रव्यविशेषः । दक्षिणायथादौ (णादौ) च प्रायेण रूपकेण व्यवहारः । ददा[94]त्य् अभिसम्बन्धाद् द्वितीया । तेन [67.9] एवंवादिना पर्वब्राह्मणेन ।
__________नोतेस्__________
[92] और्ध्वरथिकः स् । [93] रूपकं स् । [94] ददासि स् ।
ननूक्तम् एतद् यथा परार्थे ऽनुमाने लिङ्गं परस्माद् एव प्रत्येयम् इति तत्पुनस् त्वया न अपहस्तितम् इति आशंकायां यद्[95]अस्मद्वचनाद् अपी[67.17]त्य् उक्तम् । तद् व्याख्यातुं किं चे[67.11]त्यादिनोपक्रमते [32ब्] किं चेति च ब्रुवाणो नियतं वक्तव्यान्तरसमुच्चये । अर्थाद् आचार्यस्याभिप्रेत इति दर्शयति न त्व् अस्यैव वक्तव्यान्तरसमुच्चयार्थः किंच[67.11]शब्दप्रयोगो घटते । यद् अपि ब्रवीषीत्यादेर् अस्मद्वचनाद् अपीत्याचार्यवचनान्तरव्याख्यानपरत्वस्य व्यक्तत्वात् । अथवायं निपातानिपातसमुदायः किञ्चशब्दो ऽस्य विवक्षितः किन्तु चकारः अपिशब्दस्यार्थे । तेन किम् अपीत्य् उक्तं भवति । ततो ऽयं वाक्यार्थो यद् अपि किम् अपि ब्रवीषीति । एवं च ब्रुवता लोकोक्तिर् अनुकृतेति । तद्वचनस्य [67.18] लिङ्गवचनस्य, अनुसरिष्यति [67.20] तद् एव लिङ्गम् इति प्रकृतत्वात । अङ्ग[68.1]शब्दो ऽत्राध्येषामन्त्रणे । किं[68.1]शब्दः सामान्यतः प्रश्ने पुनः [68.1] शब्दस् तु विशेषतः । तेनायम् अर्थो {प्. 317} युष्मान् एवाध्येष्य सामान्यतो विशेषतश् चैव पृच्छाम इति । उपहासे चेयम् अध्येषणा प्रकरणाद् द्रष्टव्या ।
__________नोतेस्__________
[95] यतः अस्मद्वचनाद् अपि स् ।
आदि[68.4]शब्दाद् वैधर्म्यवत् प्रयोगस्य हेतुविरुद्धानैकान्तिकानां हेतोस् त्रैरूप्यस्य च ग्रहणं । प्राक् प्रतीति[66.23]शब्देनाचार्येण साधर्म्यवैधर्म्यवत् प्रयोगयोर् हेतुविरुद्धानैकान्तिकानां हेतोस् त्रैरूप्यस्य च स्वरूपप्रतीतिर् विवक्षितेत्य् अभिप्रेत्य साधर्म्यवत् प्रयोगदेः [66.24] प्रतीतिर् इति व्याचष्टे । अतएव क्रमेणैतत् सर्वं दर्शयिष्यते ।
ननु किम् अवश्यं प्राप्तिः पक्षधर्मस्य च प्रयोगो येनैवम् उच्यमानं शोभते इत्य् आशंक्याह -- एवं मन्यत [68.9] इति । तद् अनित्यम् इति उक्तं [68.18] इति योजयित्वा किं तन्मात्रोक्त्या सो ऽवगम्यत इत्य् अशंकायां पक्षधर्मवचने सती[68.18]ति योज्यम् । यत् कचिद् इ[69.5]त्यादि तु[96]पूर्वम् एव कृतव्याख्यानम् । अनुमानकाल एवात्र व्यवहारकालो [69.6]भिप्रेतः । न पक्षादिसङ्केतग्रहणापेक्षा [69.6] वस्तुगतिर् इत्य् अनुवर्तते । आचार्यपादै[69.12]र् इत्य् आचार्यवसुबन्धुम् अभिसन्धायोक्तम् । नान्तरीयकार्यदर्शनं तद्विदो ऽनुमानम् इ[69.12]त्य् आस्यायम् अर्थः । योर्थः किंचिद् अन्तरेण न भवति स नान्तरीयकः । अत्र च सामर्थ्याद्यम् अर्थम् अन्तरेण न भवति तन् नान्तरीयक इति ग्राह्यम् । स चासावर्थश् चेति तदा तस्य दर्शनम् । दर्शनेन च विषयिणा विषयस्य तस्यैव दृश्यमानस्य निर्देशः । तेन निश्चीयमान एवासौ परोक्षार्थहेतुर् भवतीति दर्शितम् । तद्विद [69.12] इति तन्नान्तरीयकतां यो वेत्ति तस्येत्य् अर्थः । अनुमान[69.12]हेतुत्वाच् चानुमानम् उक्तम् । इति[69.13]र् गमकरूपमात्रस्य स्वरूपं दर्शयति[97]वादविधौवादविधिसंज्ञके प्रकरणे । तत्राप्य् आ[69.14]चार्यीये लक्षणे । कैश्चि[69.14]द् उद्द्योतकरप्रभृति[भिः] । कुतः पुनर् असंत एव दोषास् तैः कीर्त्यन्त इत्य् आशंकायां योज्यं स्वप्रज्ञे[69.14]ति । स्वप्रज्ञाया अपराधो दोषस् तस्मात् । तु[69.14]र् अवधारयति । तथा ह्युद्द्योतकरेण किलानुमानसूत्रवार्तिके ऽपरे तु ब्रुवते नान्तरीयकार्थदर्शनं तद्विदो ऽनुमानम् इति" (न्यायवा. प्. 54) पठित्वा तस्यार्थं मात्रया विवृत्त्यैव "अत्रार्थग्रहणम् अतिरिच्यत" इति मात्रयैव दूषणम्
उक्त्वा पुनर् विपञ्चितम् -- "नान्तरीयकार्य इति समासपदम् एतत् । तत्र यदि षष्ठी [33अ] समासो नान्तरीयकस्यार्थ इति । नान्यन्तरीयकं तावत्कृतकत्वम्, तस्यार्थो धर्मः प्रयोजनम् वा? यदि तावद् धर्मः कृतक[त्व]स्यार्थः, सत्त्वप्रमेयत्वाभिधेयत्वाद्य् अनुमानं प्राप्तम् । अथ प्रयोजनम् अनित्यत्वप्रतिपत्तिर् हेतुः प्राप्तः । अथ बहुव्रीहिर् नान्तरीयको र्थो यस्येति । तत्रापि कृतकत्वं नान्तरीयकं तद् यस्य स हेतुः प्राप्तः । तच् च कृतकत्वं घटादेः {प्. 318} शब्दस्यानित्यत्वस्य वा । यदि घटादेः, घटादिर् हेतुः प्राप्तः । अनित्यः शब्दो घटात् । अथ शब्दस्य, शब्दो हेतुः प्राप्नोति । अनित्यः शब्दः शब्दात् । अ(अथा)नित्यत्वस्य[98]साध्यसाधनकृतकत्वं धर्मस् तथाप्य् अनित्यः शब्दो ऽनित्यत्वाद् इति प्राप्नोति । अथानित्यत्वस्यार्थः कृतकत्वम् इति । सर्वथा कृतकत्वम् अनित्यत्वे न हेतुः स्यात् । अथ समानाधिकरणो नान्तरीयकश् चासाव् अर्थश् चेति । तथाप्य् असमर्थः समासो विशेषणविशेष्यनियमाभावात् । उभयपदव्यभिचारे सति समानाधिकरेणा भवति नीलोत्पलवत् नीलशब्दस्यानेकार्थप्रवृत्तत्वाद् उत्पलशब्दस्य च तथाभावात् सामानाधिकरण्यं भवति । न पुनर् इह नान्तरीयकत्वे इत्य् उ(क इत्य् उ)क्तेस्ति व्यभिचारो ऽर्थो ऽनर्थ इति येनार्थग्रहणं समर्थं स्यात् । एकपदव्यभिचारो ऽपि दृष्टं सामानाधिकरण्यं पृथिवी द्रव्यम्" इति चाशंक्योक्तम् "अन्यथा तं(तत्)पृथिवी द्रव्यम् इति । अत्रोभयपदव्यभिचारः । प्रधानाङ्गभावस्य भेदेन पृथिवीशब्देन द्रव्यम् अप्य् उच्यते पृथ्वीत्वञ् च । द्रव्यशब्देन च प्रधानाङ्गविवक्षया द्रव्यं द्रव्यत्वञ् च अत एवोभयपदव्यभिचारात्
पृथिवी द्रव्यम् इति युक्तम् उक्तम् । इह पुनर् न युक्तं नान्तरीयकद(कार्थद)र्शनम् इति । कस्माद् अर्थप्रत्यायनार्थत्वाच् छब्दप्रयोगस्य -- अर्थप्रत्यायनार्थं हि शब्दस्य प्रयोगम् इच्छन्ति । नान्तरीयक इति चोक्ते ऽर्थो गम्यते । अतो न युक्तो ऽर्थशब्द इति । तद्विद इति न युक्तम् नैवान्यथानान्तीयक (?) इति । न हि नालिकेर् अद्वीपवासिनो धूमदर्शनान् नान्तरीयक इति ज्ञानम् अस्ति । अतस् तद्विद इत्य् अपि न वक्तव्यम् ।" (न्यायवा. प्. 54-55) असन्त एव दोष इति ब्रुवाणश् चायम् एवाभि(वम् अभि)प्रैति । समासान्तरपक्षभाविनस् तावद् दोषानभ्युपगममात्रेणैकप्रहारनिहताः । समानाधिकरणसमासस् त्व् एकपदव्यभिचारेपि दृष्टत्वान् नानुपपन्नः । तथा ह्य् अर्थो नान्तररीयको ऽपि स्याद् अनित्यलक्षणो ऽनान्तरीयको ऽपि स्यात् नित्यलक्षणः । तत एकपदव्यभिचाराद् अपि सामानाधिकरण्यम् अविरुद्धम् । अथ त्वन्मते नित्यो नामास्त्य् एव कल्पविपरिवर्ति तावद् अस्ति, तत एवैतद् उपलप्स्यते । अन्यथायम् अनित्यध्वनिः कं व्यवच्छिंद्यात् ।बौद्धाभिमतस्य च तथाभूतस्य क्षणिकत्वस्य केनचिद् अनिष्टेः तथाभूतव्यवच्छेदात् नैवाक्षणिकज्ञानवास्त्वित्यादौ प्रयोगे ऽयम् अक्षणिकध्वनिः कं व्यवच्छिंद्यात् । अथ नान्तरीयक इति पूर्वम् उक्ते ऽर्थस्यावगतत्वात् किम् अर्थपदेन येनैवं समासश् चिन्त्येत । हन्ताकाशा[दि]शब्देनैव पूर्वभाविना द्रव्यादिरूपस्यावगतत्वात् किं द्रव्यादिशब्देन ये[33ब्]न तत्रापि तथा समासः स्यात् । तद् एवम् आदौ य एव ते परिहारः समाधिर् भ(स मे ऽपि भ)विष्यति इति यत् किञ्चिद् एतत् । यत् तु पृथिवी द्रव्यम् इत्य् अत्रोभयपदव्यभिचारं दर्शयित्वा सर्वत्रोभयपदव्यभिचाराद्
एव समानाधिकरणः समासो भवतीति दर्शितं तद् योगः(तत् पापीयः) । आकाशद्रव्यं दिग्द्रव्यं कालद्रव्यम्, {प्. 319} सामान्यपदार्थः, विशेषपदार्थः, समवायपदार्थः षट्पदार्थः याचकपुरुष इत्यादौ उभयपदव्यभिचारस्य ब्रह्मणापि विभावयितुम् अशक्यत्वात् सामानाधिकरण्यस्य च दर्शनात् । न ह्य् एषाम् आकाशादीनां सामान्यं केनचिद् अप्यते संगच्छते वा येनाकाशादिशब्दानाम् आकाशाकाशत्वाद्यनेकार्थवृत्तित्वाद् उभयपदव्यभिचारे समानाधिकरणः समासः स्यात् । नापि षण्णां किञ्चित् सामान्यम् अस्ति यस्याप्य् अभिध्याद् अ(भिधानाद् अ)यम् अप्य् उभयपदव्यभिचारो वर्ण्यते । न च याचकशब्देन कर्मापि तज्जातिर् अपि वाभिधीयते । अत्र चोपपत्तिर् अन्यत्राभिहितेति नोच्यते । न चाकाशद्रव्यं, सामान्यपदार्थः, याचकपुरुष इत्यादि कर्मधारयः समासो न दृश्यते । किञ् च यथा पृथिवीशब्देन पृथिवी पृथिवीत्वञ् चोच्यत इत्य् उभयपदव्यभिचारात् पृथिवीद्रव्यम् इति युज्यते वक्तुम्, तथा नान्तरीयकत्वं नान्तरीउअकश् च, अर्थशब्देनाप्य् अर्थत्वम् अर्थश् चोच्यत इत्य् उभयपदव्यभिचाराद्युक्तार्थ एव समासः । अथ त्वन्मते नार्थत्वाद्य् अस्ति । यदि नाम वास्तवं नास्ति तथापि कल्पितं तावद् अस्ति । तावतापि शब्दसिद्ध्युपपत्तेर् उक्तप्रायम् एतद् इति किं बहुना? वस्तुवृत्त्याभावान् नान्तरीयकार्थो धूमो भवति । तस्य दर्शनं [69.12] नान्तरीयकार्थदर्शनम् अपि भवति । तत्र यदि तद्विद [69.12] इति नोच्येत तदा नालिकेर् अद्वीपायातस्य धूमदर्शनम् अनुमानम् आपद्येत ततस् तद्विद इति वक्तव्यम् एव । न च नान्तरीयको ऽर्थ इति ज्ञानम् एव नान्तरीयकार्थज्ञानम् इत्य् उच्यते, येनैवम् उच्येत । किंतु
वस्तुतो ऽनान्तरीयको यो न भवत्य् अर्थः, तस्य यद्दर्शनं तद् अपीत्य् अलम् अतिशब्दार्थपर्यवदातमतीनां वचन विधा(चा)रणयेति । प्रतिज्ञावचनं न युक्तम् इ[69.16]ति सम्बन्धः । कथम् अयुक्तम् इत्य् आशंकायां पक्षधर्मेत्या[69.16]दिकारणवचनम् ।
__________नोतेस्__________
[96] पृ. 260. पं. 23 [97] नास्ति स् । [98] अनित्यत्वस्य साधनभावेन कृतकत्वं धर्मः । न्यायवा. प्. 54
संशयितादिक[69.25]म् इत्य् अत्रादिग्रहणेनाप्रतिपन्नस्य जिज्ञासोश् चावबोधः । सामान्यन्यायसिद्धाम् अस्तिक्रियाम् अपेक्ष्य मुक्त्वे[69.29]ति पौर्वकालिकः प्रत्ययः प्रत्येयः ।
संशयजिज्ञासादिक[70.9]म् इत्य् अत्रादिशब्दात् प्रयोजनादिपरिग्रहः । तथामुनैवादिग्रहणेन पञ्चम्यन्तस्यापि हेतुप्रयोगस्य संग्रहः कार्यः । असति हि साध्याभिधाने कुत एतद् इति हेत्वाकांक्षाया एवाभावात् । साध्यसिद्धौ हेतोर् निमित्तत्वं कथयन्तीं पंचमीम् उच्चारयन्तं कथम् इव विचक्षणा तयाच(णा न प्रत्याच)क्षीरन्न् इति । दृष्टान्त एव वचनकर्मतां नीयमान उपसंहरणं तद् अपेक्षः उपसंहारो [70.11] ढौकनं सत्त्वप्रदर्शनम् । दृष्टान्तदृष्टसामर्थ्यस्य हेतोर् इति च प्रकरणाद् द्रष्टव्यम् । साध्यशब्देनोपचारात् साध्यधर्मीष्टः । [34अ] पष्ठीसप्तम्योर् अभेदाच् च साध्यधर्मिणीत्य् अर्थो बोद्धव्यः । इति[70.13]र् लक्षणस्य स्वरूपम् आह प्रतिज्ञाया [70.14] लक्षणम् इत्य् अनुवर्तते ।
{प्. 320} तस्य प्रमाणवलायातस्यार्थस्य संप्रत्ययो [70.28]न्यथाशंकार्थाव्य(-काव्य)वच्छेदः तदर्थं यथा भवति । यदि प्रमाणानां व्यापारो निगमनेनोपसंह्रियते । तदैतद् युज्यते वक्तुम् । न चास्य तथात्वम् इत्य् आशंक्याह अशषे[70.28]ति चो[70.29] यस्माद् अर्थे । व्यापारशब्देन व्यापारफलम् अभिप्रेतम् । ननु कानि पुनर् अत्र प्रमाणानि सन्ति यद्बलायातार्थोपसंहरणम् अस्य वर्ण्यत इत्य् आशङ्क्य परै एषाम् अवयवानाम् एवं प्रमाणत्वरूपम् आख्यातम् इत्य् आख्यातुं तथाही[70.29]त्यादिनोपक्रमते ।
उपरी[71.4]ति प्रकरणाद् अन्यकृतस्य नाम्न इति द्रष्टव्यम् । तथाहि ते कस्यचिद् राजपुत्रस्य महामात्रस्य वा योगिनो(ना)न्येन सजातीयेन कृतं नाम श्रुत्वा अहोपुरुषिकया धनाशया चोदिता अन्यथा चा(वा) तदु[त्]साहवर्धनं नाम कृत्वा तल्लिखितुं प्रयुञ्जते ऽत एव नामलेखनम् इ[99][71.4]ति णिचा निर्दिष्टम् । अयुक्ततया निष्फलम् अपी[100][71.5]ति वास्तवानुवादो ऽप्य् एष प्रकृतोपयोगी । बालप्रतारकञ् च तत्तदुपयोगवर्णनञ् चेति तथा तल्लक्षणया [71.13] । वैयर्थ्यादि स्याद् इति सम्बन्धात् प्रतिज्ञावचनस्ये[71.21]त्य् उक्तम् ।
__________नोतेस्__________
[99] नामलेखने -- स् [100] "अपि" नास्ति -- स्
ननूद्योतकरोपवर्णितम् अस्य प्रयोजनम् अस्तीति कथं वैयर्थ्यम् इत्य् आह यत् तूक्तम् इ[71.22]ति । दत्तम् उत्तरम् इ[71.23]ति । "तेनैव तावद् दर्शितेने"[66.3]त्यादिनोक्तत्वाद् उक्तम् । यथोक्ते च स्वयम् उत्तरम् आह यश् चे[71.23]ति । तदभावे [71.27] प्रथमं साध्यलक्षणकर्मनिरूपपणाभावे । स्वार्थानुमानदृष्टश् चे[70.21]त्यादिना च यदुपनयसमर्थनार्थं परेणोक्तं तत्प्रतिविधातुकाम आह यश् चाग्नी[72.1]त्यादि । चो यस्माद् अर्थे । कदाचिद् इ[72.4]ति यदा धूमं दृष्ट्वा तस्याग्निना व्याप्तिम् अनुस्मृत्य तं तत्त्वेन प्रत्यवमृश्य प्रत्येतीति । अस्य [72.4] प्रत्यवमृश्य प्रत्ययार्थस्य । तदे[72.4]त्याद्य् उत्तरम् । अथ तदन्तरेणापि यत् पक्षार्थप्रतीतेर् अविधानान् न तेन किञ्चिद् इति ब्रूयात् । समानम् इदं प्रकृते ऽपीति च बुद्धिस्थम् अस्यैवं ब्रूवतो द्रष्टव्यम् ।
प्रमाणव्यापारसमर्थनार्थञ् च यद् उक्तं[101]तत्राप्य् आह । यत् पुनर् इ[72.7]ति । न क्वचिद् आगमे पठ्यत [72.9] इति ब्रुवता चागमप्रतिज्ञयोर् एकविषयत्वाद् आगमः प्रतिज्ञेत्य् उच्यत इति ये वर्णयन्ति [ते] निरस्ताः । यो हि प्रतिज्ञयोच्यते ऽर्थः स एव चागमेप्य् उच्यते तदैव तत् स्यात् । न चैवम् अतो निरासः ।
__________नोतेस्__________
[101] प्. 70 पं.29
{प्. 321} हेतुशब्देन गमकवचनं वाच्यम् । गमकञ् च त्रैरूप्यवल्लिङ्गम् । न च पञ्चम्यन्तेन तेन शब्देन लिङ्गस्य त्रैरूप्यम् अभिधीयते किन्तु पक्षधर्मत्वमात्रम् [72.11] निमित्तभाव एव चेत्य् एवं वदितुर् अभिप्रायः । एतेन तद् अपि विनिक्षिप्तम् यत् कैश्चिन् निपुण(णं)मन्यैर्नैयायिकैर् उच्यते, "प्रतिज्ञार्थं साधयितुं समर्थं पक्षधर्मत्वेनोपसंहर्तव्यं लिङ्गं अनुमानं तदभिधायी शब्दो हेतुः सो ऽप्य् अभिधेयस्य नियमहेतुत्वात् बाह्याङ्गं सामानाधिकरण्यं चाभिधानाभिधेययोर् अभेदविवक्षया साक्षात् पाररंपर्ये[34ब्]ण चैकचिषयत्वाद् इति । "तावद्धि धूमादिवस्तु न लिङ्गं यावद् वह्न्यादिनान्तरीयकतया न निश्चीयते, धर्मिविशेषे च क्वचिन् नोपलीयते । तन्नान्तरीयकतया निश्चितं क्वचिद् उपसंहृतं च साध्यसाधनसामर्थ्यं भवति नान्यथा । न च पचम्यन्तेन "धूमाद्" इत्यादिना शब्दे[न] तस्य तन्नान्तरीयकत्वं पक्षे च सत्त्वं कथ्यते । उदाहरणोपनययोर् वैयर्थ्यंप्रसङ्गात् । तत् कथं प्रतिज्ञार्थसाधनसमर्थलिङ्गाभिधायित्वं तस्य शब्दस्य येन "तदभिधायी शब्दो हेतुः" इत्य् उच्यते, स तथा बाह्याङ्गम् इति चोच्यते "हेतुर् अनुमानम्" इति सामानाधिकरण्यं तथा कल्पेतेति ।
प्रत्यक्षेण साध्यसाधनयोर् व्याप्तिस् तत्र गृह्यत इति दृष्टान्तः प्रत्यक्षो ऽभिप्रेतः । अत एवायं न सर्वः प्रत्यक्ष [72.12] इति । नैव सर्वत्र दृष्टान्ते प्रत्य्क्षेण साध्यसाधनयोर् व्याप्तिर् गृह्यते । यथा भवन्मत एव नित्य आत्मा सत्तासम्बन्धित्वे सत्यनाश्रितत्वात्, परमाणुवद् इत्य् अत्र दृष्टान्ते नित्यत्वं सत्तासम्बन्धित्वे सत्यनाश्रितत्वं यौ धर्मौ तयोर् व्याप्तिर् अनुमानेन गृह्यत इत्य् अभिसन्धिः । अनेनैतद् अपि प्रत्युक्तं यत् तैर् एवनैयायिकप्रवरैर् उच्यते -- "साध्यसाधनयोर् व्याप्तितो विषयो दृष्टान्तः । तत्र प्रत्यक्षेण व्याप्तिं गृहीत्वा पश्चाद् उदाहरति । तेन प्रत्यक्षं नियामकम् अस्तीति" । उदाहरणम् अपि वाक्यस्य भागान्तरम् इति प्रत्यक्षेण व्याप्तिग्रहणस्यासर्वविषयत्वात् क्वचिद् भावात् तथाभिधाने च तत एव दृष्टान्तो ऽनुमानम् इत्य् अभिधीयेतेति ।
तस्य तदातिरिक्तार्थग्रहणाभावाद् इत्य् अभिप्रायेण उपमानं तु प्रमाणम् एव न भवती[72.13]त्य् आह । एतच् च बहुबाध्य(बहुवाच्य)म् अन्यत्रोक्तम् इति नेहोक्तम्, सिद्धस् त्व् अर्थो ऽनूदितः । अनयैव च द्वारा यद् उच्यते तैर् एव "यथातथेति दृष्टान्तदार्ष्टान्तिकयोः सारूप्यप्रतिपत्तिर् उपमानम् अतिदेशेवाक्यता, पक्षधर्मत्वग्राहिप्रमाणवचनम् उपनयः । अत्राप्य् उपमानं नियमहेतुत्व(त्वं) धर्मिणि वा साधनधर्मस्य संभवं बोधयदसंभवं निवर्तयति यत्प्रमाणं तन्नियामकम् अस्तीति उपनयोपि नियमहेतुमत्त्वाद् भागान्तरम्" इति तद् अपि प्रत्याख्येयं द्विविधस्यास्य वर्णितस्योपमानस्याप्रामाण्याद् एव कथं नियामकम्? येनोपनयनस्य नियमहेतुकसिद्ध्या {प्. 322} भागान्तरत्वं सिद्ध्येत् । धर्मिणि च साधनधर्मस्य सम्भवं परिच्छेद(च्छिद्य) प्रत्यक्षम् अनुमानं वासंभवं निवर्तयतीति अत्रापि प्रत्यक्षं नियामकम् अस्तीति दृष्टान्तवद् उपनयोपि प्रत्यक्षम् इति वक्तव्यः । क्वचिद् अनुमानस्यापि तथात्वाद् अनुमानम् इत्य् अपीत्य् अलम् अतार्किकवचननिर्बन्धेन । तद्व्यापार [72.14] उपमानरूपोपनयव्यापारः । स एवो[72.16]पनय एव ।
स्याद् एतद् -- अनित्यः शब्द इत्य् उक्ते कुत एतद् इति श्रोतुर् अपेक्षोपजायते । न तु धर्मिणि लिङ्गस्य सत्त्वो(सत्त्वा)पेक्षा । तस्मात् प्रतिज्ञानन्तरं परापेक्षितसाध्यप्रतिपत्तिर् अपि तु प्रति(पत्तिहेतुप्रति)पिपादयिषया पञ्चम्यन्तस्य तदभिधायिनः शब्दस्य प्रयोगो न तु ध[35अ]र्मिणि लिङ्गस्य सत्त्वप्रतिपादनार्थः । ततो न तस्य पक्षधर्मताप्रतिपादनं प्रयोजनम् इति कथं पक्षधर्मत्वं स एव दर्शयिष्यतीति न किञ्चित् तेनेत्य् उच्यमानं शोभेतेति । अत्रोच्यते । अनित्यः शब्द इति प्रतिज्ञोपादानेपि तदनन्तरम् एव यद् यद् कृतकं तत् सर्वम् अनित्यम्, यथा घटस् तथा चायं कृतक इत्य् उक्ते साध्यप्रतीतौ किं निमित्ताकांक्षोपशमो नास्ति? येन पञ्चम्यन्तस्य लिङ्गाभिधायिन एव तदुपशमः प्रयोजनं वर्ण्येत । यदि सत्य् अवादी भवान् नैवं वक्तुम् अर्हतीति । किञ् च यो यस्मिन् किञ्चिद् निमित्तभावम् अपेक्षते न स तत्र शशविषाणायमानस्य तत्त्वम् अपेक्षते । अपि तु तत्र सत एवेति कथं शब्दानित्यत्वसिद्धौ कस्यचिन् निमित्तावमपेक्षितवता सत्त्वं नापेक्षितम् । येन परानपेक्षितं सत्त्वं प्रतिपादयितुं न तन्निमित्ताभिधायिनः शब्दस्य सामान्य(म् अर्थ्य)म् अस्तीत्य् उच्येत तस्माच् छब्दादौ धर्मिणि लिङ्गस्य साध्यसिद्धौ निमित्तभूतसत्त्वप्रतिपादनं हेतुप्रयोगस्य प्रयोजनम् अवश्यैषितव्यम् । य(त)च्चोपनयेनापि शक्यं संपादयितुम् इति साधूक्तं किं[102]तेने[72.17]ति ।
__________नोतेस्__________
[102] न किञ्चित् तेन स् ।
संप्रति निगमने यथाश्रुति दूषणम् आह -- यत्र[103]प्रतिज्ञाया [72.18] इति । अथापि स्यान् नायं पुनः शब्दः [अ]प्रथमे किं तर्हि सादृश्ये, यथा "अचिरप्रभा पुनर् निश्चरति" इत्य् अत्र । सादृश्यञ् च कियद्रूपेणास्त्य् एव । यद् वा यद्य् अपि सिद्धनिर्देशो निगमनं साध्यनिर्देशश् च प्रतिज्ञा, तथापि यस्यैव प्रतिज्ञायां साध्यत्वम् आसीत् तस्याइव निगमने सिद्धत्वम् इत्य् अवस्थावन्तम् एकम् आश्रित्य समानविषयतया निगमनं प्रतिज्ञेत्य् उपचर्यते तथा च पुनर् वचनम् अप्य् उपपन्नम् इति । न चैतन् निगमनं निष्प्रयोजनम् आशंकनीयम्, साध्ये विपरीतप्रसङ्गप्रतिषेधार्थत्वाद् अस्य । तद् उक्तं "साध्यविपरीतशंकाव्यवच्छेदार्थं निगमनम् इति" । यद्य् अपि च लिङ्गम् आश्रयवत्साध्याविनाभावि च प्रतिज्ञादिभिर् अवयवैर् आख्यातं तथापि निगमनम् अन्तरेण व्यापकविरुद्धप्रसंगाशंका स्यात् । {प्. 323} अन्यद् एव हि दृष्टान्तधर्मिणि साध्यं यत्साधनधर्मस्य व्यापकम् आसीत् । अन्यद् एव च धर्मिण्य् अनित्यत्वं तच् च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्यमानः साध्यविरुद्धम् अब्यापकत्वेन विशेषाभावान् मूढमतिर् नित्यत्वम् अपि धर्मिणि प्रसञ्जयेत् । तथा च सति साध्यविपर्यये हेतोर् वृत्तिशंकायां बाधकं प्रमाणं तद् एव वाच्यम् यदुदाहरणस्थयोः साध्यसाधनयोः प्रतिबन्धग्राहि । अतएव तस्माद् इत्य् अनेन सर्वनाम्ना प्रतिबद्धं लिङ्गं साध्यविरुद्धशंकां निवर्तयितुं प्रकृतत्वात् प्रत्यवमृष्यते । तस्माद् विपर्ययशंकानिवर्तकप्रमाणोपस्थापकं निगमनं साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं भवतीति । तद् एतन्नैयायिकप्रवरस्य प्रकृष्टं प्रज्ञास्
स्वलितविलसितम् । तथा हि साध्ये निर्दिष्टे हेतौ चाभिहिते डृष्टान्ते चोदाहृते दृष्टान्तदष्टसामर्थ्ये च हेतौ साध्यधर्मिण्य् उपनीते कः सचेतनो "येन विना यो न भवति धर्मः स भवंस् तदभावम् अप्य् उपस्थापयति" इति निश्चीन्वीत संशयीत वा येन [35ब्] विरुद्धप्रसङ्गशंकानिराकरणाय निगमनम् अभिधीयेत । न चायम् अनुन्मत्तो ऽनित्यत्वे द्वे षस्यति(पश्यति) येनान्यद् एव दृष्टान्तधर्मिणि साध्यम् अनित्यत्वम् अन्यद् एव च साद्यधर्मिण्य् अनित्यत्वे तच् च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्येत यतो ()व्यापकत्वेन विशेषाभावात्त् अनित्यत्वम् अपि धर्मिणि प्रसञ्जयेत् । न च विशेषेण व्याप्तिम् असाव् अग्रही[द् इ]ति, विशेषेण व्याप्तेर् अवासम्भवात् । तथा चोक्तं -- "व्याप्तिः सामान्यधर्मयोः" इति । अन्यथा सत्य् अपि तस्मिंस् तद् आशंके(का) नापाक्रियेत । एतेन सप्रतिपक्षत्वशंकानिराकरणत्वम् तत्प्रयोजनम् इति यत् कैश्चिद् उपवर्ण्यते तद् अपि परास्तम् अवसेयम् । अथ मोहमाहात्म्याद् एवम् अपि संभाव्यत इति चेत् । अपयातं तर्हि पञ्चावयवत्वं वाक्यस्य । सम्भवत्य् अपि कश्चिन् मूढतरमतिर् यः पञ्चावयवे ऽपि वाक्ये प्रयुक्ते नानित्योपीति वचनम् अन्तरेण शब्दस्यानित्यत्वं नियतं न प्रत्येति । अस्ति च दिगम्बराणांविप्रतिपत्तिः -- स्यान् नित्यः शब्दः स्याद् अनित्य इति । तद्भावव्युदासाय नानी(नि)त्योपीत्य् अपि किं नोच्यत इत्य् अलम् अतिविस्तरेण निष्प्रयोजनकत्वेन । निगमनस्य वाक्याङ्गत्वे निरस्ते प्रथमम् उपदर्शितं यद् उभयेषां मतं तदरण्यानीरुदिततुल्यं जातम् इति किं तत्रोक्तेनेति । ज्यायान् [72.21] श्रेष्ठतरः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवा
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
