Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
हेतुबिन्दुटीकालोक (subcommentary on अर्चट's हेतुबिन्दुटीका on धर्मकीर्ति's हेतुबिन्दु)
- Tác giả
- दुर्वेकमिश्र
- Thông tin
- GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji: Hetubinduṭika of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Misra. Baroda : Oriental Institute 1949, pp. 233-411. (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
एतद् एव सूत्रकारवचनेन संस्यन्दयन्न् आह तद् उक्तमि[18.17]ति । लिङ्गे साधने सति लिङ्गी साध्यं भवत्य् एव । अनेन व्यापकधर्मगता व्याप्तिर् दर्शिता । इतरल्लिङ्गं पुनर्लिङ्गिन्य् एव साध्य एव भवतीति । अनेन व्याप्यधर्मगता व्याप्तिर् उक्ता । उक्तेन प्रकारेण नियमस्यावधारणस्य विपर्यासे वैपरीत्ये-विपर्यासश् च एकत्रायोगव्यवच्छेदेन विशेषणा(णम)परत्रान्ययोगव्यवच्छेदेन तस्मिन् विपर्यासे सति लिङ्गलिङ्गिनो[र]सम्बन्धो ()व्याप्तिर् इत्य् अर्थः ।[43]तेन [18.20] व्याप्तेर् उभयत्र एकाकारताप्रतिपत्तिप्रतिषेधप्रदर्शनेन । अयञ् च दोषआचार्येणये धूमं संयोगिनं हेतुम् इच्छन्ति, तान् प्रत्यभिहितो न तुनैयायिकान् प्रति । तैर् धूमस्य एकार्थसमवायित्वाल् लिङ्गत्वेनोपगतत्वात् । ते हि धूमा{प्. 264}वयविनं प्रदेशं वा धर्मिणम् आधाय साग्नित्वसिषाधयिषया धूमत्वं धूमवत्त्वं वा सामान्यं हेतुम् उपाददत इति ।
__________नोतेस्__________
[43] एतेन -- स् इह [18.23] व्याप्तिवत्सद्गमकत्वे आख्यातं [18.23] प्रकाशितम् । तथाही[18.23]त्यादिनैतद् एव समर्थयते ।
एतद् अपि तद्वचनेन संस्यन्दयन्न् आह -- तथा च [19.1] इति । द्विष्ठत्वात् सम्बन्धस्य कथम् उभयत्रैकाकारताव्याप्तिर् न स्याद् इत्य् आशंक्य यद्य् अपि इत्य् अनेन द्विष्ठं सम्बन्धं वास्तवम् अभ्युपगम्यापि प्रतिविधत्ते । कयोर् असाव् इत्य् आह = अङ्ग [19.2] इति । अंगेज्ञप(अङ्गेर् ज्ञानप)रस्य ग्रहणाद् अंग्यते लिङ्ग्यते प्रतीयते ऽनेन परोक्षार्थ इत्य् अङ्गं लिङ्गम् । तेन लिङ्गलिङ्गिनोर् इत्य् अर्थः ।
किंभूतः स इत्य् आह । सहे[19.2]ति । तयोर् एव युगपद्भाविप्रकृतत्वात् । द्विष्ठत्वाभ्युपगमाद् एव च सहभावित्वाभ्युपगमोप्य् आयातः । "यद्य् अपि"शब्दसान्निध्यात् "तथापी"त्य् अर्थतो द्रष्टव्यम् । तस्य संबन्धस्य वृत्तिर् वर्तनम् । तयोर् लिङ्गलिङ्गिनोर् इत्य् अर्थात् । कयोर् इव सेत्य् आह -- आधाराधेययोर् इवेति सप्तम्यन्ताद् वतिः ।
यथा आधाराधेयभावलक्षणः सम्बन्धो द्विष्ठोपि नैकरूपया वृत्त्या द्वयोर् वर्तते यत एवैकसम्बन्धयोगेपि नाधारस्याधेयत्वम् आधेयस्य वाधारत्वं तथा लिङ्गलिङ्गिनोर् व्याप्तिर् अपि धूमत्वादाव् अन्यथा, अन्यथा च वह्नित्वादौ । अत एव धूमत्वादिर् एव व्याप्यतया गमको न प्रमेयत्वादिः । वह्नित्वादिर् एव व्यापकतया गम्यो न तु तार्णत्वादिर् नापि धूमो गम्यो वह्निर् गमक इति ।
यत एवं तस्य वृत्तिः तेन [19.4] कारणेन । इती[19.4]त्यादिना प्रकरणोपसंहारः ।
अन्यत्र [19.10] इतिन्यायबिन्दौ ।विनिश्चये ऽपि "त्रिरूपाल् लिङ्गात्" इत्यादिनोक्तः ।
स्पर्धयावस्थानं कक्षा । तुल्या कक्षा [19.22] यस्य स, तद्भावस् तत्ता, तस्याः सूचकं प्रकाशनं तद् एव अर्थः प्रयोजनं यस्य "वा"शब्दस्य ।
परमार्थतस् तादात्म्यात् [19.24] इति ब्रुवता तदुपपादयता चान्वयेन व्यतिरेकगतौ व्यतिरेकेण चान्वयगतौ स्वभावहेतुर् अधिकृत इति दर्शितम् । तेन यत् के[13अ]नचिद् उपक्षिप्तम् --
"सामर्थ्यम् इच्छतःकीर्तेर् नष्टं द्वित्वावधारणम्" इति
- तद् अपहस्तितम् द्रष्टव्यम् ।
{प्. 265}[44]प्रसङ्गतो निश्चयरूपात् प्रस्तावात् । "पक्षधर्मस् तदंशेन व्याप्तो हेतुः" इति वचनात् । सूत्रस्य क्रमेण परिपाट्या । सर्वस्येति सर्वस्यैवेत्य् अवधारणीयम् । प्रत्यक्षानुमानाभ्याम् इति सामस्त्य् अनिषेधो बोद्धव्यो न तु कस्यचित् । द्वाभ्याम् अन्यस्य पुनर् एकैकेनेति ।
__________नोतेस्__________
[44] अत्र स् प्रतेर् एकं पत्रं नष्टम् ।
अविकल्पनत्वात् प्रत्यक्षास्य कथं ततो निश्चयस् तस्य सम्भवीत्य् आशंक्याह -- प्रत्यक्षेण[45]प्रती[20.8]ति । चो [20.8] यस्माद् अर्थे । सामान्यविकल्पजननाद् इ[20.9]ति धूमादिलिङ्गप्रत्यक्षाभिप्रायेणोक्तम् । उपचारत [20.9] इति प्रत्यक्षतो निश्चय इत्य् उपचारतः उच्यत इति ।
__________नोतेस्__________
[45] स् प्रतौ "प्रति" इति नास्ति ।
ननु सामान्यं लिङ्गं कथं तस्याध्यक्षतो निश्चय इत्य् आह यद्य् अपी[20.11]ति ।
यस् तु [20.19] इत्यादिनाउद्द्योतकरमतम् आशंक्यते । अग्निसम्बन्धी [20.19] वह्निमान् । स देशो ऽप्रत्यक्षो ऽधोदेशस्य ताद्रूप्याद् इत्य् आशयः । किं तथाभूतं नभोस्ति? सत्त्वे वा किं तस्य भागोस्तीत्य् आशंक्यबौद्धाभिप्रेतम् एव दर्शयन् पर आह आलोके[20.20]ति । आदिरहणात् तमसो ग्रहणम् । तद् उक्तम् " आलोकतमसी नभः" इवा(इत्या)शयः । प्रदेशे वस्तुतः साधर्म्या(साध्या)धार इति द्रष्टव्यम् । तर्ह्य् अनुमानोत्सेद एव प्राप्त इत्य् आशंक्य पुनेर् एव व्यवस्थां कुर्वन्न् आह तस्माद् [20.22] इति ।
कथं पुनः स एव धर्मी स एव हेतुर् भवितुम् अर्हतीत्य् आह साग्निः [20.22] इति । अनेन धूमविशेषस्य धर्मित्वं धूमसामान्यस्य हेतुत्वं दर्शयति । समानचोद्योपदर्शनमुखेन तुल्या(तस्या)पि [20.23] इत्यादिना सिद्धान्ती प्रतिविधातुम् उपक्रमते । तस्यैवं मतेः । तावत [20.27] इति दृश्यादृश्यविभागवतः धूमेपि धर्मिणि उक्तेन प्रकारेण एतत् संगच्छत इति साम्याभिमानशष्यं(शस्यं) परस्य सा(शा)तयन्न् आह प्रदेश एव चे[21.1]ति । चशब्दः परमताद् विशेषार्थः । अन्यत्रोपलभ्यमानस्यान्यदेशापेक्षया गमकत्वं कथम् इत्य् आह देशकाले[21.2]ति ।
आचार्येणाप्य् एतद् अभिमतम् इत्य् उपदर्शयन्न् आह यदाचे(हे)[21.3]ति । अतश् चैवम् अभ्युपेतव्यम् इति दर्शयन्न् आह पथे[21.9]ति । अनुमानहेतुत्वाद् अनुमानं प्रत्ययभेदभेदित्वादि ।
धर्मिणो वा[21.15] स्वरूपग्रहणम् अपि तावत् कथं युज्यते इत्य् एव योज्यम् ।
तयोः सम्बन्धस्य [21.15] आधाराधेयलक्षणस्य ग्रहणम् । इतिः [21.16] प्रत्यवस्थीयमानस्याकारं दर्शयति ।
{प्. 266} एवम् असौ प्रत्यवतस्थ इति कथं ज्ञायत इत्य् आशंक्याह तेन ही[21.16]ति । हिर् यस्मात् तेनकुमारिलेन। ज्योतिष्टोमादेः श्रेयःसाधनत्वं धर्मो बोद्धव्यः । यद् आहशबरस्वामी"को धर्म्मो यः श्रेयःसाधनः" [शाबरभा.1.1.2] इति । अतएवकुमारिलोप्याह
"श्रेयःसाधनताप्य् एषां नित्यं वेदात् प्रतीयते" [श्लोकवा. 2.14] इति ।
जैमिनिसूत्रे शबरस्वामीयम् एतद् भाष्यम् [21.17] । एतद्भाष्यम् इति चार्थद्वारेणोक्तम् । न त्व् ईदृश एवभाष्यग्रन्थः। प्रमाणस्येति विवक्षायाम् अनुमानादिन [21.18] इति निर्देशः ।
कदा तत्पूर्वकं तद् इत्य् आह यदेति । निर्विकल्पा कल्पनाशून्या इन्द्रियस्य धीः [21.19] । सैव कथं तथेत्य् आह स्मृती[21.19]ति ।
यस्माद् अर्थे वा [13ब्] यदाशब्दो द्रष्टव्यः । विकल्पनम् अन्तरेणापि कथं न तथा ग्रहणम् इत्य् आह नचे[21.20]ति । लिङ्गादेः प्रत्यासन्नत्वात् लिङ्गादिकम् एवाविकल्प्येति द्रष्टव्यम् । तथा सम्बद्धत्वेन गृहीतिर् ग्रहणम् । इतिः आक्षेपस्याकारं दर्शयति ।
प्रत्यक्षेणाग्रहणं कस्येत्य् अपेक्षायाम् आह लिङ्गादे[21.23]र् इति । कुत इत्य् आह -- अविकल्पनाद् इति । तद् इत्य् अग्रहणम् । नेति निषेधयति । विकल्पस्यापीष्टत्वात् प्रत्यक्षेणेति प्रकरणात् । किं विकल्पमात्रस्य तथोत्पत्तिर् इत्य् आशंक्याह -- अर्थे[21.24]ति । अर्थरूपम् उपकारि यस्य, तस्माद्वोपकारोप्य् अस्तीति तथा । ननु निर्विकल्पसविकल्पभेदेनार्थविज्ञानस्य द्वैते सतीदं वक्तुं युज्यते । न चैतत् संभवीत्य् आह -- अस्ती[21.25]ति । हिर् यस्मादर्थे । विकल्पात् पूर्वं भावात् प्रथमम् [21.25] आद्यम् बालादिषु तथाविधविकल्पानिष्टेर् ज्ञानं दृष्टान्ततयेष्टम् । शुद्धवस्तुजम् [21.26] शब्दस्मरणरहितवस्तुजम् इत्य् अर्थः । ततः [21.27] आलोचनाज्ञानात् परम् उत्तरकालम् । पुनर् अप्रथमे । जात्यादिभिर् विशिष्टं यया बुद्ध्यावसीयते सापि न केवलम् आलोचनाज्ञानम् इति अपिशब्दः । एवं च ब्रुवतो ऽयं भावः -- यद्य् अपि प्रथमं निर्विकल्पकबोधेन द्व्यात्मकं वस्तुगृहीतम् इन्द्रियसंबन्धात्, तथापि न विशेष्यविशेषणभावापत्त्या गृहीतम्, अयःशलाकाकल्पयोर् जातितद्वतोः साक्षात्करणात् । तथा गृह्णत्त्व् इदं प्रमाणम् एवेति । इतिना [22.1] उक्तेः आकारं दर्शयति । उक्तं [22.3] सामर्थ्याद् एतद् उक्तम् । न तु साक्षात् तेनोक्तम् एतत् । यस्मात् तेनैवं ब्रुवता सामर्थ्याद् एतत् प्रकाशितं ततः [22.3] तस्मात् । तेनकुमारिलेन उपद[46]र्शितो यो दोषः "सौगतानाम् एव प्रत्यक्षेण लिङ्गाद्यग्रहणाम्" इत्य् एवंलक्षणः, तस्य प्रतिविधानाय ।
__________नोतेस्__________
[46] उपवर्णित स् ।
{प्. 267} शिष्याणां सुखप्रतिपत्त्यर्थं सधूमं ही[22.4]त्यादिफक्किकायाः समुदायार्थम् उपदर्शयन्न् आह अयम् अत्रे[22.5]ति ।
ननु चाविकल्पकं प्रत्यक्षं नेयतो व्याधान(व्यापारान्)कर्तुं समर्थं तत् कथं तन्निबन्धनस् तन्निश्चय इत्य् अभिधातरि कथम् इदं "सधूमं ही"त्यादिवचो न प्लवत इत्य् आशंकायाम् अत्रे[22.5]ति । हिः [22.5] अवधारणे ।
एकस्य साक्षाद् इतरस्य सामर्थ्याज् जननात् विधिप्रतिषेधविकल्पद्वयं जनयती[22.9]त्य् उक्तम् । कदाचिद् विधिविकल्पं कदाचित् प्रतिषेधविकल्पं जनयतीत्य् अभिप्रायेण चैतद् उक्तम् । एवम् एतदि[22.10]ति यथायोगं विधिविकल्पो दर्शितः । नान्यथा [22.10] इत्यादि यथायोगं प्रतिषेधविकल्पः । किम् अनुभूते ऽर्थे विकल्पोदयः? नैवम् उच्यत इत्य् आह[47]यथाभ्यासमि[22.11]ति (यथानुभवम् इति) । यद्य् अनुभवानतिक्रमेण विकल्पोदयस् तदा सर्वत्रांशे तदुदयप्रसङ्गः इत्य् आह अभ्यासे[22.11]ति । अभ्यासादिसहकारिणाम् इत्य् अभ्यासादिसहकारिकाणाम् इति बोद्धव्यम् । न तु विकल्पस्योत्पद्यमानाभ्या(मानस्याभ्या)सादिः सहकारी, अनुभवस्य तु भवति । केचित्(कश्चित्) खलु यन्नम(?)नुभवो भूयोदर्शनलक्षणाभ्याससहकार्यनुरूपं विकल्पं जनयति । अस्याप्य् अयम् अर्थः -- नानुभव इत्य् एव विकल्पं जनयति । किंतु कश्चित् पुनः पुनस् तत्रोत्पद्यमानस् तादृशो भवति । यथा रूपकादिपरीक्षकाणाम् । कश्चित् तु स्वभावातिशयलक्षणं पाटवम् अपेक्ष्य जनयति । अस्याप्य् अय[14अ]म् अर्थः -- कश्चिद् अनुभवः प्रकृत्यैव पटीयान् जायते यस् तत्र क्षमः । यथा योगिनां सर्वत्र । अस्मादादीनां के(क्व)चिद् विषये । क्वचित् पुनर् अविद्यानुबन्धात् सदृशापरापरोत्पादविप्रलब्धश् च सर्वदैव तिरस्कृतपटिमा यो नैव तत्क्षमो भवति । यथार्वाग्दर्शिनां क्षणिकत्वादौ । पाटवादी[22.11]त्य् अत्रादिग्रहणात् प्रत्यासत्तितारतम्यादयो गृह्यन्ते ।
__________नोतेस्__________
[47] यथानुभवम् इति -- स्
स्याद् एतत् -- सम्बन्धो ऽयम् इति निश्चयाननुभवनात् कथं सम्बन्धनिश्चयस् तन्निबन्धन उच्यत इत्य् आशंक्याह तथाही[22.13]ति । पाश्चात्यविधिप्रतिषेधविकल्पजननं यथोक्तः प्रकारस् तेन ।
ननु सम्बन्धस्याधाराधेयलक्षणस्याननुभवात् कथं तन्निश्चयस् तन्निबन्धन उपवर्ण्यत इत्य् आह न चे[22.16]ति । तथा [22.19] औत्तराधर्येण अवस्थितम् अर्थद्व्यम् आश्रित्य [22.19] गृहीत्वा ।
{प्. 268} यदि तथाभूतवस्तुद्वयाद् अन्यो नास्ति तर्हि कथम् "अनयोर् अयं संबन्धः सम्बन्धिनौ चैतौ" इति व्यवहार इत्य् आह -- तेनेति[22.20] । येन तथाभूतवस्तुद्वयानुभवाश्रयतः समारोपितः सन्बन्धः तेन कारणेन व्यवहार[22.21]श् च "अयं धर्मी अयं धर्मः" इति शाब्दो ऽभिप्रेतः । धर्मधर्मितये[22.21]तीत्थंभूतलक्षणा चेयं तृतीया । एतद् व्यवहारे कारणम् आह भेदान्तरे[22.20]ति । न त्व् अयं परमार्थिको व्यवहार इत्य् अर्थः ।
ननु च तथाभूतवस्तुद्वयाद् अन्यस्य सम्बन्धस्याभावात्, तस्य च प्रत्यक्षेण ग्रहणात् सम्बन्धनिश्चयस् तथाभूतवस्तुद्वयकृतोस् तु, लिङ्गसामान्यनिश्चयस् तु कथं तत्कृतः । प्रत्यक्षेण लिङ्गसामान्यस्याग्रहणात् । न च विशेषो लिङ्गम् इत्य् आशंक्याह सामान्ये[22.22]ति । अपिशब्दः सम्बन्धव्यवहारात् सामान्यव्यवहारस्यानतिशयख्यापनार्थः ।
स्याद् एतत् -- अनुगतस्य वस्तुनो ऽभावे ऽनुगतप्रत्ययो निर्हेतुकः कथं भवेद् इत्य् आह तेषाम् एव [22.23] इति । न स्वलक्षणस्य विकल्पजनने साक्षाद् व्यापरस् तस्यातद्विषयत्वाद् इत्य् आह -- अनुभवे[22.23]ति । यदि ते विजातीयस्वभावास् तथापि कथं तत्प्रत्ययहेतुत्वं तेषाम् इत्य् आह -- विजातीये[22.23]ति । एकाकारस्याभिन्नकारस्य परामर्षः, स चासौ प्रत्ययश् च [तत्र] हेतुत्वात् ।आचार्यवचनेनैतत् संस्यन्दयन्न् आह तथा चाह [22.25] इति । [एकस्या]भिन्नस्य प्रत्यवमर्षस् तद् एवेदम् इति सम्बन्धाहार (समन्वाहार) इति विग्रहः कार्यः न त्व् एकश् चासौ प्रत्यवमर्षश् चेति । एवं हि प्रत्यवमर्षश् चा(स्या)पि भिन्नत्वात् कथम् एकत्वं? तदपरैक(परा)मर्शाद् इति यद्य् उच्येत तदा तस्यापि तत्त्वं तत इत्य् अनवस्था । तथा च यावद् अन्तिमस्य तथात्वं न ज्ञायते तावद् आदिमस्यापि तत्त्वव्यवस्था न स्यात्, असत्यां च तस्याम् एकधीहेतुभावेन व्यक्तीनाम् अप्य् अभिन्न[त्वम् अ]र्पायितुं न शक्येतेत्य् अलम् इह विस्तरेण ।
यस्मात् तैर् अयं विकल्पो जन्यते ततः [23.1] ।
अनुभूतालम्बनं ज्ञानं स्मृतिः, अत्र तु सामान्यं केनानुभूतम् अयं गृह्णाति, येन स्मृतित्वं स्याद् इत्य् आह तत्प्रतिभासिन [23.1] इति ।
विजातीयव्यावृत्तं स्वलक्सणं प्रत्यक्षेणेक्षितम्, न तु व्यावृत्तिर् इत्य् आह नही[23.3]ति ।
स्याद् एतत् -- विकल्पानाम् अनर्थग्राहितया बाह्यार्थासंस्पर्शाद् एव कथं गृहीतग्राहित्वलक्षणं स्मृतित्वम् इत्य् आश्चर्य उपसंहारापदेशेनाह -- तस्मात् [23.4] इति । यद्य् एवं द्वैधम् अपि विकल्पः प्रतिपत्तुर् अध्यवसा[14ब्]यवशाद् गृहीतबाह्यार्थग्राहितया स्मृतिर् उच्यते, तर्हि परमार्थतः किंविषय इत्य् आह वस्तुत [23.7] इति । यतो ऽयं विकल्पः परमार्थतो निर्विषयोपि प्रतिपन्त्रध्यवसायानुरोधात् स्मृतिर् अभिप्रेतः ततः [23.7] तस्मात् । यद् एतद् वक्ष्यमाणकम् आह {प्. 269} कश्चित्कुमारिलादिः। किम् आहेत्य् आह सामान्ये[23.7]ति । अभेदेनाभिन्नाकारं यद्विज्ञानं तद् एतत् स्मार्तं स्मृतिरूपम् इति योबौद्धो वदेत् । तस्याइवंवादिनो नूनं निश्चितं वन्ध्यासुते ऽपि विषये यत्स्मरणं तत्र शक्तता सामर्थ्यम् अस्तु । वन्ध्यासुतस्यापि स्मर्त्तुं यत् सो(-र्तुम् असौ) शक्त इति यावत् कथं तस्यात्यान्ताभावस्मरणशक्ततोपकल्प्यत इति आशंकायां चूर्णकेनोपपत्तिम् आह सामान्यस्याननुभूततया अननुभूतत्वात् । एवं ब्रुवतो ऽपि (यं) भावः -- अनुभूते हि स्मृतिर् भवति । यदि वाननुभूतेपि स्मरणम् उपपद्यते तदा वन्ध्यासुतेप्य् अननुभूतत्वाविशेषात् स्मार्ता बुद्धिः किं न कल्प्यत इति ।
अङ्ग[23.18]शब्दो ऽध्येषामन्त्रणे । किंशब्दः सामान्यतः प्रश्ने । पुनःशब्दस् तु विशेषतः । तेनायम् अर्थः -- युष्मान् एवाध्येष्य सामान्यतो विशेषतश् च एतत् पृच्छाम इति । शतं संवत्सराः पुरुषायुषम् । अत्र स्वातन्त्र्यपरिजिहीर्षया तत्कारिका उपक्षिपन्न् आह -- तथा चाहे[23.19]ति । यस्य [23.20]बौद्धस्यमतेन । तस्य एकलिङ्गिनि [23.28] गतिर् युगसहस्रेषु बहुष्व् अपि न विद्यत [23.29] इति सम्बन्धः कार्यः ।
आनन्त्यात् [23.28] इति हेतुः । तस्यैव समर्थनं सर्वम् ।
अलिङ्गजम् एवानुमानं भविष्यतीत्य् आह -- नचे[23.21]ति । चो यस्माद् अर्थे । लिङ्गविनिर्मुक्तं[23.21] लिङ्गरहितम् । असामान्यस्य स्वलक्षणस्य अनवगतम् एव लिङ्गं लिङ्गिज्ञानं करिष्यतीत्य् आह -- नचे[23.23]ति । चः पूर्ववत् । प्रदीपयोग्यतया गमकस्वस्याभावाद् इति भावः । तस्य [23.24] सामान्यरूपस्य लिङ्गस्य । तस्य लिङ्गसामान्यग्राहिणो ऽनुमानान्तरस्योद्भूतिः [23.25] जन्म । किंभूताल् लिङ्गात् सामान्यज्ञानसंहितात् सामान्यज्ञानयुक्तात् सामान्यात्मना ज्ञाताद् इति यावत् । अस्य च लिङ्गसामान्यस्य ज्ञायमानस्यानुमेयत्वम्, प्रत्यक्षेण त्वन्मते सामान्याग्रहणाद् इति भावः । तस्य लिङ्गस्य सामान्यस्योद्भवस् तदुद्भवो [23.26] लिङ्गेनापरेणेत्य् अर्थात् । तेनापि सामान्यरूपतया अनुमानान्तराद् एव ज्ञातेन तथाभाव्यम् इत्य् अभिप्रायेणाह -- अनुमानान्तराद् एव ज्ञातेने[23.27]ति । अस्त्व् एवं का क्षतिर् इत्य् आह एवं चे[23.27]ति ।
नन्व् एवं लिङ्गानुमानस्यैवानन्त्यं न तु लिङ्ग्यनुमानस्य तत् कथंलिङ्ग्यनुमानानाम् इत्य् उक्तम् इति चेत् । सत्यं, केवलं तद् एवाद्यं लिङ्गं ज्ञापकहेत्वधिकारात् ज्ञायमानसामान्यरूपतया चानुमानता (-मानेन) निश्चीयमानं लिङ्गि जातम् । स्वलिङ्ग्यपेक्षया लिङ्गम् अपेक्षत(म् अपीष्यत) इति अभिप्रायाद् अदोष एव ।
{प्. 270} एकस्मिल् लिङ्गिनि [23.28] धर्मिणि ।
ननु च सामान्यरूपस्य लिङ्गत्वे तस्य चानुमानेनैव ग्रहे न प्रत्यक्षतस् तन्निश्चय उपपद्यत इत्य् अभिधातरि कथम् इदमाचार्यीयं सधूमेत्यादिना प्रत्यक्षतस् तन्निश्चयस्योपवर्णनं युज्यत इत्य् आशंक्याह एवं मन्यत [23.30] इति ।
प्रकृत्या विभ्रमाद् [24.1] भ्रान्तत्वात् । [15अ]सामान्यं हि विजातीयव्यावृत्तिः । अयम् अर्थो -- विजातीयव्यावृत्तेर् अन्यस्य सामान्यस्याभावात् विजातीयव्यावृत्त्यवगम एव सामान्यावगमः । वासनाद्वयनिबद्धश् च विकल्पः स्वप्रतिभासम् एव नियतं बहीरूपतया साधारणतया प्रतिपद्यमानो बाह्य एव विजातीयव्यावृत्त्या मया प्रतीयत इति मन्यत इति । प्रक्र्त्या भ्रान्तत्वात् सामान्यस्य । स विवेचितभेदो []भेद एव विकल्पेन प्रतीयत इत्य् उक्तम् ।
अथ यदि प्रकृतिभ्रान्तो ऽयं विकल्पस् तर्हि कथं तस्य अतद्व्याव्र्त्तवस्तुप्रापकत्वलक्षणं संवादकत्वम् इत्य् आह लिङ्गविकल्पस्य चे[24.2]ति । कस्मात् पुनर् विकल्पाभाससामान्यस्य लिङ्ग(ङ्गत्वम्) न तु धूमादिस्वलक्षणस्येत्य् आह नही[24.6]ति । तस्ये[24.6]त्यादिनोपपत्तिम् आह । अत्रैवोपचयहेतुं दर्शयन्न् आह साध्ये[24.7]ति ।
अयम् अत्राभिप्रायः । अवश्यं हि किञ्चिद् अनुमित्सता धूमादिस्वलक्षणदर्शनोत्तरकालम् -- "इदं साध्यम् इदं साधनम्" इति संकलयितव्यम् । सति चास्मिन् संकल्पे सतः क्षणभङ्गितया वस्तुदर्शनाभावात् । दर्शनेन च विषयिणा विषयस्य दृश्यस्या[48]भिधानं तेन दृश्यस्य लिङ्गं(लिङ्ग)स्वलक्षणस्याभावाद् इत्य् अर्थः । ततश् च कथम् स्वलक्षणदर्शनाश्रयो गम्यगमकभावो भवेद् येन कल्पितधर्मद्वारको गम्यगमकभावो [न भ]वेद् इति ।
__________नोतेस्__________
[48] प् दृश्यस्य लिङ्गं । न् प्रतेर् अत्र सम्यक् पाठः । अत एव स एव मूले स्थापितः ।
ननु यदि प्रत्यक्षपृष्ठभाविनापि विकल्पेन सामान्यं प्रतीयते, तर्हिन्यायबिन्दौ यदवादि [ते]न "अन्यत्सामान्यलक्षणं सो ऽनुमानस्य विषयः" इति विरुध्येतेत्य् आशंक्याह यत् तूक्तम् इ[24.9]ति । तदन्यस्ये[24.11]त्य् अनुमानोत्तरकालभाविनो ऽप्राप्तप्रामान्यस्याग्निर् अत्रेत्याद्याकारस्यान्यस्यापि स्वतन्त्रस्य विकल्पस्य ।
एवम् अपि किम् अर्थम् अवधार्यत इत्य् आह स्वलक्षणेति [24.12] । स्वलक्षणं विषयो ग्राह्यत्वेन नैव भवतीति प्रतिपादयितुम् इत्य् अर्थः ।
पूर्वपक्षद्वयपूर्वकं फक्किकायाः समुदायार्थं व्याख्यायावयवार्थं व्याख्यातुं तत्र [24.13] इत्यादिनोपक्रमते । आदि[?]शब्दाद् एकविनाशे सर्वविनाशादिसङ्ग्रहः "प्रत्यक्सेण दृष्टवतः" {प्. 271} इत्य् अस्य तात्पर्यार्थम् आह न त्वि[24.26]ति । कथं पुनर् अस्य तथामननम् अनुपपन्नम् इत्य् आह नही[24.27]ति । वस्तुवलभाविने[24.27]ति हेतुभावेन विशेषणम् ।
स्याद् एतत् -- कथं विविक्तताप्रतीतिः । यदि केवलप्रतीतिस् तर्हि साभावसंवित्तिभन्तरेण नतरां प्रसिद्द्यतीति कथं प्रत्यक्षेण तथाग्रहणम् उपवर्ण्यत इति । तद् असत् । तथाहि भिन्नम् अभावम् इच्छतापि वस्तूनां स्वरूपं पराननुप्रविष्टम् अवश्यैष्टव्यम्, अन्यथा प्रातिस्विकाम् एवं तदभावस्यैवायोगानाम् (?) । अतः पराननुप्रवेशेन ग्रह एव केवलग्रहः । इतरथेतरेतराश्रयत्वप्रसङ्गः । तावत् खल्व् अभावसंवित्तिर् नास्ति तदात्मवद् यावत् केवलग्रहो न भवेत् । तावच् च केवलग्रहो नास्ति यावत् नाभावसंवित्तिर् इति ।
किञ्च यथा केवलो ऽभावो ऽपरणाभावेन विना प्रतीयते तथा भावोप्य् अन्तरेणापराभावं केवलः किं न मीयेत । एवम् अनभ्युपगमे वानवस्था प्रसज्येतेति । तद् आहवार्तिकालंकारे प्रज्ञाकरगुप्तः
"प्रपराननु[15ब्]वेशेन प्रतीतिः केवलग्रहः ।
ननु केवलसम्व(संवित्ति)र् अभाववित्तितः कुतः ।
सापि केवलसंवित्तिं विना नेति समानता ॥
यथा वा केवलो ऽभावो विनाभावेन मीयते ।
तथाभा(तथा भा)वोपि नैवञ् चेद् अनवस्था प्रसज्यते ॥" इति ।
कथं निर्विषयस्य विकल्पस्य यथादृष्टभेदस्य परमार्थविषयत्वम् उच्यत इत्य् आह[49]निश्चयेत्यादि ।
__________नोतेस्__________
[49] स् प्रतिर् अत्र त्रुटितः ।
अनेनैतद् उपपत्त्यपेक्षया । परमार्थशब्दयोगोवार्तिककारस्य टीकाकृतादर्शितः । लक्ष्यते चायमाचार्यस्याभिमतः । समानो यद्वत् यादृशो दृष्टो यथादृष्टः । स चासौ भेद एव परमार्थः । स एव विषयो ऽध्यवसायवशाद् यस्येति स तथा । इतरथा तु परमार्थतो ऽविषय एव ।
"परमार्थशब्दं प्रयुंजानो वार्तिककारः कथं न प्रमाद्ये(द्य?)" एवं तुभट्टार्चटेन कथं न व्याख्यातम् इति न प्रतीमः ।
प्रमाणलक्षणसामान्येन योगम् उपदर्श्य प्रमाणविशेषस्य प्रत्यक्षस्यापि लक्षणेन योगं दर्शयन्न् आह सद् इति । । इन्द्रियाणां इति व्यक्तिविवक्षया बहुवचनम् । चक्षुर् इन्द्रियापेक्षया ग्रन्थस्यास्य योजनायां तु इन्द्रियस्य नायनरश्म्यवयविन इन्द्रियस्यानुमानसिद्धस्य संभारदंशेन संयोगे संबन्धे सत्य् अस्य विकल्पस्य नीतोपनित्यात्मनो भावाद् इति ।
{प्. 272-278} "यद्वेन्द्रियं प्रमाण(णं) स्यात् तस्य चार्थेन संगतिः [श्लोकवा. 4.60] इत्यादिवचनात् स्वाभिमानात् प्रत्यक्षत्वेनेन्द्रियम् उदाहरणीकृतं परेण । न पुनः प्रतिपाद्यप्रतिपादकयोर् बुद्धिसाम्यविषयो दृष्टान्तो भवितुम् अर्हति ।बौद्धस्यैवम् अनिष्टेर् बाधकाभिधानाच् चेति ।
प्रथममिती[25.13]त्य् अत्र च्छेदः सुबोध एव । आद्यमि[25.12]त्य् एतद् व्याचक्षाण आह आदौ [25.14] इति । कस्मादा[द]वित्याकांक्षायां आह विकल्पप्रवृतेरि[25.14]ति । आदौ भवम् इति त्व् अर्थ[ः] यस्यार्थस्येत्यादिना स्वलक्षणेनासाधारणस्यैवोपलक्षणाद् असाधारणविषयं स्वलक्षणम् इति व्याचष्टे । इतरयो[25.16]र् विधिप्रतिषेधविकल्पयोः । उक्तम् एवार्थं तथाही[25.17]त्यादिनोपपादयति ।
असंकीर्णरूपे [25.25] [अ]परामिश्र(मृष्ट)स्वभावे ।
ननु च तस्यासंकीर्णरूपता [न] स्वतः किं त्व् अभावांशसद्भावात् । तत् कथम् एवम् अभिधीयत इत्य् आशंक्य कारणम् आह तथाही[25.26]त्यादि । अन्यथा [25.27] तस्य पररूपमिश्रताप्रकारेण । स एवाभावांशः [25.28] पराभावो न सिद्ध्येत् परात्मवद् इति भावः । अत्रैवाभ्युच्चयहेतुम् आह न चेति [25.28] । सा [26.1] संकीर्णरूपता कथं न युक्तिमतीत्य् आह स्वहेतुबले[26.2]ति । स्वहेतुबलायातस्य तद्धेतुभावेन विशेषणम् । योगपरिवर्जनं तस्यायोगात् तेन वस्तुनेति सामर्थ्यात् ।
ननु तेन तस्य संकीर्णरूपस्य विनाश[ने] पराभावेन सर्वेषाम् एव भावानाम् उदयक्षणाद् ऊर्ध्वम् अभावाद् अभावैकरसं जगत् स्याद् इति प्रसंजयितुं युक्तं न भू(तु) तेन संकीर्णरूपविनाशेन[50]वरं स्वहेतोर् एवासंकीर्णरूपाणाम् उदयो ऽस्त्वि[26.4]ति । सत्यम् । यथाश्रुतिः(ते) स्याद् एष दोषः । केवलम् अस्य तात्पर्यार्थबोधे यत्नः करणीयः । इह खलु भावानां क्षणभङ्गित्वेपि सदृशापरापरक्षणोदयाद् वस्तुसन्तानविषया प्रतीतिर् अस्ति न त्व् अभावविष[16अ]यैव । अतएव तत्त्ववार्मतथ(?)याम् उपप्लवतोत्पद्यते । उदयोत्तरकालम् अव्यवधानेन वस्तुविषया च प्रतीतिः कथम् उपपद्येत यदि स एवाभावः पूर्वसिद्धं संकीर्णरूपं विनास्याद् अन्यसं(विनाश्यात्य् अदसं)कीर्णरूपम् उत्पादयेत् । सति चैवं वरं स्वहेतोर् एव तथाविधाताम् उदयोस् त्व् इत्य् उच्यत इति । हेतुत्वेनार्थाक्रियाकारित्वेन वस्तुरूपत्वाद् अभावरूपतैव हीयेतेत्य् एतद् उपेक्षे(क्ष्यै)व चैतद् उक्तं द्रष्टव्यम् ।
__________नोतेस्__________
[50] -विनाशने च वरं -- स्
प्रथमं संकीर्णरूपाणाम् उत्पादोभ्युपेयते पश्चाद् असंकीर्णरूपाणाम् उदयम् उपगन्तुम् -- का पुनर् अत्र हानिर् इत्य् आशंक्याह किमि[26.5]त्यादि । कश्चित् किल परिव्राडशुचौ पतितं {प्. 279} मोदकं करण गृह्णन् केनचित् सोत्प्रासं पृष्टः " किम् अशुचेर् मोदकम् उद्ग्र्ह्णासि" इति । स एवं पृष्टस् तं प्रत्यवादीत् "प्रक्षाल्यों(ल्या) त्रैव त्यक्षा(क्ष्या)मि" इति । सो ऽयं परिव्राजको(क)मोदके(क)ग्रहणार्थो न्यायस् तदुपगमेन किम् [26.6] । यथा च तत्र तन्मतम् "अत्रैव त्यक्तव्य एवायम्" तदा किम् अशुचिम् रक्षितस्यान्नस्य ग्रहणेन, वरम् अयं पूर्वावस्थाने नै(ए)वास्तु इत्य् उपालम्भस् तथात्रापि । यदि त्व् अभावत एवासंकीर्णरूपाणां पश्चाद् उत्पादो ऽभ्युपेतव्यो वरं प्रथमत एव तथाभूतानाम् उदयो ऽभ्युपगम्यताम् इत्य् आभिप्रायः । ततस् तथाविधो(ध)स्य प्रमाणप्रसिद्धौ चायम् उपालम्भाभिप्रायो द्रष्टव्यः । तस्मादि[26.6]त्यादिना प्रकृतोपसंहारः ।
प्रत्य्क्षबलेन [26.13] इत्य् अस्य तात्पर्यार्थं दर्शयन्न् आह -- यदि तु [26.13] इति । यदिः संभावयति तुर् भिनत्ति । व्यवच्छेदेविषया [26.14] व्यवच्छिन्नऋउपविषयातद्रूपपरावृत्तरूपविषयेति यावत् । तथा सत्य् अपि स्मृतिर् न स्यात् । व्याप्तिग्राहकप्रमाणानधिगतस्य विशिष्टदेशादिवर्तितद् असाधारणरूपस्य ग्रहणाद् इति भावः ।
"अन्यरूपम् इदं न भवति" इत्य(ती)यम् अभावप्रतीतिः केन प्रमाणेनेष्टा येनास्याः प्रामाण्यम् आचार्येण निवार्यत इत्य् आशंक्याचार्यस्याभिप्रायं परिस्फुटयन्न् आह -- नाभावे[26.20]ति । कस्मात् पुनर् एतत् प्रतीतिजनकत्वेनान्यद् अ[भा]वाख्यं प्रमाणं न भवति, एषा च तत्फलम् इत्य् आह नही[26.20]ति । आक्रियते अध्यवसीयत इति आकारो [26.21] विशेषो व्यावृत्तिर् एव । किंभूत इत्य् आह -- पाटवे[26.22]ति । पाटवं तीक्ष्णता बुद्धेर् इति प्रकरणात् । आदिशब्दात् प्रत्यासत्तितारतम्यादेर् ग्रहणम् । पाटवादिप्रत्ययान्तरं स्वनिश्चया[या]पेक्षत इति तत्सापेक्ष उक्तः । एतद् एवोपपादयन्न् आह नही[26.22]ति ।
अनधिगमाद् इति [27.10] वस्तुनो विशेषणत्वेनाग्रहणाद् इति द्रष्टव्यम् । न तु सर्वथा []ग्राह एव वाच्यः । अयःशलाकाकल्पस्य स्वतन्त्रस्य तेन ग्रहणस्याभिमतत्वात् । अ(न्य)था "निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनो ग्रहणम् ।" (श्लोकवा. प्. 118) इत्यादि विरुध्येत । इन्द्रियसम्बधाधीनालोचनाज्ञानोत्पत्तिश् च कथम् अनिष्टमात्रेन निर्वर्त्येते(निवर्त्येते)ति । पुनर् अ[27.14]प्रथमे । वर्ण्यत [27.16] इति वदन् प्रमाणाप्रसिद्धतां दर्शयति । प्रख्यानं प्रकाशनं प्रतिभासनं प्रख्या । तै[मि]रिकादिज्ञानस्येव प्रख्या [27.27] यस्य स तथोक्तः । अत एव तत्सदृश इत्य् आर्थः ।
अथ मा भूत् सामान्यम् अर्थक्रियासाधनं व्यक्तिस् तावत् तत्साधनीभवति । [16ब्]तदध्यवसायितयैव च विधिविकल्पः प्रमाणं किं न भवतीत्य् आशंक्य न तत्र प्रामाण्यम् इति [27.24] दूरस्थेन सम्बन्धः कार्यः । तस्य [27.23] विधेर् विकल्पस्येति प्रस्तावात् । {प्. 280} कथम् अप्रामाण्यम् इत्य् आशंक्यं योज्यम् । तस्य निर्विकल्पकप्रत्यक्षविषयस्य निर्विकल्पकज्ञानेनाधिगमाद् इति । चो [27.23] व्यक्तम् इत्य् अस्मिन्न् अर्थे । न मयार्थक्रियासाधननिर्विकल्पप्रत्यक्षविषयाध्यवसातृत्वं तस्योच्यते, येन त्वयैवम् उच्यत इत्य् आह ततः परम् इ[27.19]त्यादि । चो [27.21] यस्माद् अर्थे । ततोयम् अर्थः -- यस्माद् एवम् उच्यते पूर्वपक्षवादिनेत्य् अर्थात् । एवम् अभिधाने ऽपि कथं तदध्यवसाय उक्तो भवतीत्य् आशंक्याह तत्रेति [27.21] ।
जातिम् अतिरिक्ताम् अधिगच्छतो ऽस्य प्रामाण्यं भविष्यतीत्य् आशंक्योक्तम् एवार्थम् अधिकविधानार्थम् अनुवदन्न् आह जातेस् त्व् इति [27.24] । अपिः [27.25] अक्षमायाम् । तस्या अर्थक्रियासाधनत्वाभावेनानर्थत्वाद्, अर्थक्रियासाधनस्याइव चार्थत्वात् । अपूर्वार्थविज्ञानत्वस्य प्रमाणलक्षणस्याभावाद् अभिप्रेत्य न प्रामाण्यम् इत्य् उक्तम् ।
अनेन यः परेण विधिविकल्पस्य "तत्रापूर्वार्थविज्ञानम्" इत्यादिना सामान्येन प्रमाणलक्षणयोगो दर्शितः स नास्तीति दर्शितम् । योपि "सत्संप्रयोग" इत्यादिना विषेशेण प्रत्यक्सलक्षणयोगो दर्शितः सो ऽपि नास्तीति दर्शयन्न् आह अत एवेति [27.25] । अतएव -- जातेर् अर्थक्रियासाधनत्वाभावेनानर्थत्वाद् एव । प्रत्यक्षतापि अस्य विकल्पस्य असंभविनी । कथं न संभवतीति आह -- अर्थक्रिये[27.25]ति । तेन सहेन्द्रियाणां [26.26] यः संप्रयोगः सम्बन्धस् तस्या अभावात् [27.26] ।
मीमांसकमतेन सदै(तै)व सहेन्द्रियं सम्बन्धं (बन्द्धुं) प्रभवति नासतेत्य् अभिप्रायः । तद् उक्तंकुमारिलेन --
"भावांशेनैव सम्बन्धो योग्यत्वाद् इन्द्रियस्य हि" (श्लोकवा. प्र. 18) इति ।
[51]अस्य [28.13] अर्थक्रियासाधनस्य वि(साधनवि)षयस्य ज्ञानस्य अर्थक्रियासाधने [28.14] वस्तुनि प्रवृत्त्यङ्गत्वाद् उपदर्शितार्थप्रापकत्वाद् इति यावत् । नेतरत् प्रमाणं व्रवीती[28.13]ति संबन्धनीयम् । इतरद् इ[22.8]त्यर्थक्रियासाधनविषयं यन् न भवतीति । तद(द्)विपरीतत्वाद[27.14]र्थक्रियासाधने प्रवृत्त्यनङ्गत्वात् । एतद् एव समर्थयन्न् आह तथाहीति [28.14] । अप्रतारक[28.15]म् उपदर्शितार्थप्रापकम् इत्य् अर्थः । लोकेपी[28.15]त्य् अत्रच्छेदो व्यक्त एव । लोके व्यवहर्तरि जने । अपि व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे ।
__________नोतेस्__________
[51] तस्य स् ।
ननु यदि नाम तदर्थक्रियासाधने प्रवर्तकं न भवति तथापि तत् प्रापकत्वेनाविसंवादकतया प्रमाणं किं न भवतीत्य् आशंक्याह यच् चे[28.16]ति । अनधिगच्छन्न् इति (गंच्छदि)ति [28.16] । अत्र हेतौ शतुर् विधानात् प्रवर्तते । अनधिगमाद् इति कारणम् उक्तम् ।
{प्. 281} तत्सध्यतया [28.22] सामान्यजन्मजन्य(सामान्यजन्य)तयोपगताम् अभिन्नज्ञानाभिधानलक्षणाम् । "समानप्रसवात्मिका जातिः" इति वचनात् । व्यक्तिसाध्याम् [28.23] इति व्यक्तिसाध्यतयोपगताम् इति प्रत्येतव्यम् । अनेन यौवार्थक्रियायुष्माभिर् व्यक्तिसाध्यतयोपगम्यते सैव तत्साध्या भविष्यतीत्य् अपि पक्षः प्रतिक्षिप्तः । उभयत्रापि व्यक्तेर् एवान्वयव्यतिरेकाभ्यां साक्षात् पारंपर्येण च तत्र सामर्थ्यस्य प्रमाणेनावगतत्वाद् इत्य् अभिप्रेतम् ।
ननु कस्मिन् काले करोतीति प्रश्ने "स्वलक्षणप्रतिपत्तेर् ऊर्ध्वम्" [28.23] इत्य् उक्तम् युक्तम् । न तु[52]कीदृश इति प्रश्ने इति चेत् । सत्यम् केवलं स्वलक्षण[17अ]प्रतिपत्तेः [28.24] उत्तरकालं प्रतीयमानत्वाद् ऊर्ध्वम् उत्तरकालम् इत्य् उक्तम् उपचारत इति बोद्धव्यम् । तत्प्रतिपत्तेर् ऊर्ध्वं प्रतीयमानत्वम् एव दर्शयन्न् आह तत्सामर्थ्येति [28.25] । यद् वा कीदृशम् इति प्रश्नयित्वैव तत्सामर्थ्येति योज्यम् । तत्सामर्थ्योत्पन्नविकल्पग्राह्यत्वम् अपि किं स्वलक्षणप्रतिपत्तेर् ऊर्ध्वम् एव किं वा कियत्कालपरि(र्य)वसाने इत्य् अपेक्षायाम् उक्तम् तत्प्रतिपत्तेर् ऊर्ध्वम् इति एवं ब्रवीति [28.27] । किंविशिष्टं सामान्य तथातया प्र(ब्र)वीतीति । पराभिप्रायेणाप्य् एवम् अभिधानं किम् अर्थम् इत्य् आह दर्शनेति [28.27] । ननु किं सामान्यमात्रम् एवार्थक्रियासाधनं न भवति, येन परैस् तथाभिधानाद् एवं ब्रवीतीत्य् उच्यत इत्य् आशंक्याभ्युपगमम् एवोत्तरं रचयन्न् आह -- सर्वम् एवेति [28.29] ।
__________नोतेस्__________
[52] कीदृशं स्
यदि एवम् अनुमानविकल्पग्राह्यस्यापि सामान्यस्य तथात्वात् तद्विषयस्यानुमानविकल्पस्यापि प्रामाण्यन् न स्यात् । ततश् च शब्दप्रवेशे ऽक्षितारानिर्गमवृत्तान्तो जात इत्य् आशंक्याह यत् त्व् अपि [29.1] । तुर् विशेषार्थः । यत् सामान्यम् अर्थक्रियाम् उपकल्पयति [29.3] । कीदृशम् इत्य् अपेक्षायाम् आह -- अनधिगतेति [29.2] । अनधिगतं पूर्वज्ञानेनापरिच्छिन्नं यद् अर्थक्रियासाधनं तद्विषय आश्रयत्वाध्यवसायेन यस्य तत् तथा । हेतुभावेन चैतद् विशेषणम् । अनेन च विधिविकल्पावभासिसामान्यस्यार्थक्रियासाधनविषयत्वेपि नानधिगतार्थक्रियासाधनविषयत्वम् इति न तद्विषयस्य प्रामाण्यम् इति दर्शितम् । तद्विषयत्वम् एवास्य कुत इत्य् आह सम्बद्धेति [29.2] यद् अर्थक्रियायां सम्बद्धं क(का)रणभावेन तत्संबन्धात् तदारूढत्वात् तन्निष्ठत्वाद् इति यावत् । सम्बद्धसम्बन्ध(द्ध)त्वम् एवेदृशम् अस्य क्व इत्य् अपेक्षायां कारणे[29.1]त्यादि योज्यम् । तथाभूतलिङ्गनिश्चयद्वारेण प्रतीयमानत्वात् कारणव्यापकसंबद्धलिङ्गनिश्चयद्वारायातम् [29.1] उक्तं वेदितव्यम् । कार्यञ् च व्याप्यञ् च तथावसीयमानं स्वकारणं व्यापकं चातद्रूपपरावृत्तं प्रत्याययतीति भावः । अनेन सर्वणैतद् उक्तं अनुमानविकल्पेन हि परमार्थतो ऽर्थक्रियासाधनम् एव वह्न्यादि विशिष्टदेशाद्यवच्छेदेन । {प्. 282} एकतो व्यावृत्त्योल्लिख्यमानं सामान्यं, नान्यद् अतस् तदध्यवसायिनस् तस्य प्रामाण्यम् उपपद्यते ।
ननु दर्शनोत्तरकालभाविनो विकल्पस्य विशिष्टदेशादितया गृहीतस्यैवार्थक्रियासाधनस्य तथाध्यवसायाद् इति विधिविकल्पग्राह्यम् अपि सामान्यम् अनधिगतार्थक्रियासाधनविषयं सत् स्वग्राहिणं विकल्पं प्रामाण्येन जोजयिष्यतीत्य् आह -- इदम् इति [29.4] । तुः पूर्वाद् वैधर्म्यम् अस्य द्योतयति ।
उदाह्रियते [29.9] । उदाहरणीक्रियते । प्रकृतपरित्यागे किं कारणम् इति चाशयः । निराकर्तुम् उ[29.10]दाह्रियत इति संबन्धनीयम् ।
दृष्टान्तम् एव विवटयितुं कां पुनर् इ[29.10]त्यादिनोपक्रमते । परस्परं व्यावृत्त्या हि व्यक्तयो भिन्नम् एव ज्ञानम् उपजनयेयुः । कथं पुनर् अभिन्नां धियम् अभिधानं चादधतीत्य् आशंक्याह -- एवम् [29.23] इति । तद् एकं वाहदोहादिकार्यं तत्र प्रतिनियमः । प्रतिनियतत्वम् अवश्यं प्राग्भावित्वं लक्षणं [29.23] यस्या सा तथोक्ता । उपकर्तव्यम् अभिव(व्य)क्तव्यं न तु जनयितव्यम् इत्य् अवसे[17ब्]यम् । नित्यतया तस्य परेण तथात्वानुभ्युपगमात् । पराभ्युपगमान् अपेक्षायां चास्य दृष्टान्तत्वानुपपत्तेः । तस्माद् विवक्षिताद् अपरं सामान्यं [29.24] तदेकसामान्यं व्यंजकत्वाख्यम् । अन्यथा [29.24] तदपरसामान्ययोगेन व्यंजकत्वप्रकारेण । तदभिव्यक्तयेपि तदपरं सामान्यं तदेकसामान्याभिव्यंजकाख्यं सामान्याभिव्यञ्जकत्वाख्यम् अपरम् उपेयम् । तथा तदभिव्यक्तयेप्य् अन्यद् इत्य् अनवस्थाया अपर्यवसानस्य प्रसंगात् [29.24] प्राप्तेर् हेतोः । साधयिष्यन्ति विवक्षितसामान्ययोगम् अन्तरेण स्वभावत एवेति प्रकरणाद् अवसेयम् ।
ननु किं प्रमाणपरिदृष्टार्थापलापे प्रयतिर् भवतां येनैवम् अभिधीयत इत्य् आह किम् [29.6] इति । अथ किम् अज्ञायमानप्रमाणकम् असद् अवश्यं भवति येन सर्वथा तदर्थक्रियोच्छेदः क्रियत इत्य् आह प्रमाणाबाधितेन चे[29.26]ति ।
प्रमाणाबाधाम् एव मात्रया दर्शयितुं तथाही[29.27]त्यादिनोपक्रमते नोपलक्षयाम [29.28] इति वदन् दृश्यानुपलम्भं बाधकं दर्शयति । अविभावनं [30.2] निर्लुठितगर्भवद्विभागेनाप्रतिपत्तिः । रूपरूपिणोर् अनन्यत्वेन भेदे रूपिण एम भेदापत्तेर् इत्य् अभिप्रेत्याह पदार्थद्वयोपगमप्रसंगाद् इति [30.5] । आदि[30.5]शब्दाच् छब्दज्ञानपरिग्रहः ।
ननु भिन्नसामान्ययोगाद् भेदो भावानां, न पुनः प्रतिभासभेदाद् इत्य् आशंक्य यदि अप्य् अत्र शतं दोषाः सम्भवन्ति, तथापि ग्रन्थावस्तिरभयाद् एकम् एव दूषणं दत्ते सामान्यस्येति {प्. 283} [30.7] । एवं मन्यते यदि सामान्यभेदाद् भावभेदस् तदा गवाश्वरस्येव गोत्वाश्वत्वयोर् अपि भेदस् तदपरसामान्यभेदाद् भवेद् इति सामान्यस्याप्य् अपरसामान्यप्रसक्तेर् इति । अस्त्व् एव का क्षितिर् इत्य् आह -- निःसामान्यस्येति [30.7] । अस्ये[30.7]ति सामान्यस्य ।
एतेनेति [30.10] "न तथाविधम् उपलक्षयाम्" इत्यादिनोपदर्शितेन दृश्यानुपलम्भेन । कथं पुनर् दृश्यानुपलम्भः सिद्धो येन तन्निराक्र्टम् एतत् स्यात् यत [30.15] इति । तदासिद्धम् इ[30.15]त्य् अन्व(नु)गमापेक्षत्वं बुद्धेर् इति प्रकरणाद् द्रष्टव्यम् । तत्र [30.16] इन्द्रियबुद्धाव् अनुपलक्षणाद् [30.16] अप्रतिभासनात् । अस्पष्टनीलाद्याकाराः सा(रा सा)मान्यबुद्धिर् अभिमतं संवेद्यत इति चात्राभिप्रेतम् । व्यक्तिरूपम् अपास्यान्यस्येष्ट(स्पष्ट)म् एव रूपम् उपगतम् । तत्रावभासते तद् एव सामान्यम् अस्माकम् इत्य् आशंक्य तद् अपि नास्तीत्य् अभिप्रायवान् आह स्पष्टस्यापी[30.27]ति । अनुपलक्षणाद् इत्य् अभिसम्बद्ध्यते । संप्रति द्वितीयस्य स्पष्टरूपस्योपलक्षणम् अभ्युपगम्य तस्यानुगाभिरूपत्वं प्रतिषेधयन्न् आह । तद् भावे चे[30.17]ति । चो विशेषार्थाभिधानाभ्युपगमे । अनेन किं तद् द्वितीयं स्पष्टं रूपं साबलेयबाहुलेयव्यक्तिद्वयान्तरालं न व्याप्नोति किं व्याप्नोतीति विकल्पयोर् बुद्धिस्थीकृतयोर् मध्ये ऽव्यापनपक्षे दोषं दर्शयति । व्यक्तिद्वयस्यान्तरालम् अवकाशम् अव्याप्नुवतः [30.17] स्वसत्तयान् अभिसम्बन्ध(ध्न)तः । कथं तदनुगमो [30.18] व्यक्त्यन्तरानुगमो व्यक्त्यन्तरव्यापित्वं निष्क्रियत्वेन गत्वा व्यापारासंभवात् तथात्वेपि पूर्वव्यक्तिवियोगानुषङ्गात् । न च तत्साङ्गम् इति च भावः ।
द्वितीय [18अ] विकल्पेप्य् आह व्याप्तौ चे[30.18]ति । तत्र [30.19] अन्तराले ।
न तस्य तत्र व्यक्तं रूपम् अस्ति व्यञ्जकाभावात् तेनानुपलक्षणम् इत्य् आह नही[30.19]ति । अवश्यं हि भूतले तत् कयाचिद् व्यक्तम् इति न तस्याव्यक्तरूपसंभव इति भावः ।वार्तिककारस्याप्य् अयम् अर्थो ऽभिप्रेत इति प्रतिपादयन्न् आह -- तथा चे[30.20]ति । प्रकृतोपययोगिभाग एव पठितुं युज्यत इतिवार्तिकस्य पादत्रयम् एवायम् अपठत् । उक्तयोपपत्त्या व्यक्तैकरूपसंभवे चेदम् अन्यदा(त्रा)पीति निदर्शयन्न् आह -- एकत्रापीति [30.23] । चो वक्तव्यान्तरसमुच्चये । सर्वसर्वगतवादिनम् अधिकृत्योक्तं सकलेति [30.23] । स्वाश्रयसर्वगतवादिनं तु प्रति स्वाश्रये[30.24]ति । नाम[30.25]शब्दो ऽसम्भावनायाम् । इह एकत्रैवाश्रय इत्य् अनेनाप्य् अंशेनायं न दृष्टान्तः किन्तु यथा क्षणिकत्वस्य निर्विकल्पकबोधेन दृष्टस्यापि न दर्शनावसायस् तथा सकलस्वाश्रयरूपप्रतिभासेपि न दर्शनावसाय इत्य् अनेनैव । अस्तु तर्हि सर्वभुवनवर्तिरूपस्य निश्चयः । सर्वस्वाश्रयवर्तिनो वा का {प्. 284} क्षतिर् इत्य् आह तत [30.27] इति । ततस् तादृशरूपनिश्चयात् । तच्[31.1]छब्देन सामान्यं प्रत्यवमृष्यते । सहचारिशब्देन च संबद्धं विवक्षितम् । तेनायम् अर्थस् तत्सहचारिणः सामान्यसंबद्धस्य तत्समवायविषयस्येति यावद् इति । एतच् चनैयायिकादीन्प्रत्यभिहितम् ।
मीमांसकंप्रत्याह -- तदभिन्नस्वभावस्य चे[31.1]ति ।
किम् इन्द्रियबुद्धौ सामान्यस्य प्रतिभास आहोस्विद्विकल्पबुद्धाव् अनुमानात्मिकायाम् इति विकल्पयोर् अन्तर्निहितयोर् एकं विकल्पं निराकृत्यापरं निराकर्तुम् आह अथे[31.3]ति । आदिशब्दाद् शब्दबा(शब्दादि)परिग्रहः । प्राक्तनम् एवाभिप्रेत्ये[30.15]ति पदम् अत्राभिसंबध्यते । ततः अनुमानादिबुद्धिम् इति द्वितीयया निर्देशः । यथास्पष्टो व्यक्त्याकारो ऽर्थाकारो वा लक्ष्यमाणः सम्वेद्यमानोस्ति न तथा स्वलक्षणप्रतिभासो व्यक्त्याकारो लक्ष्यमाणोस्तीति योज्यम् । कस्माद् एवम् इत्य् आह -- तदभाव [31.5] इति तस्य स्वलक्षणस्याभावे तासां [31.6] सामान्यबुद्धीनाम् । अत्रैवाभ्युच्चयहेतुम् आह आकारान्तरेण चे[31.6]ति । स्वज्ञाने इन्द्रियजन्मनि ज्ञाने । स्पष्तास्पष्टरूपद्वययोगि स्वलक्षणं तेनेन्द्रियज्ञाने स्पष्टेन रूपेण प्रतिभात्य् अन्यत्र पुनर् अस्पष्टेनेत्य् आह अनेके[31.6]ति । अतिप्रसङ्गादि[31.7]ति घट प्रतिभासेपि पटप्रतिभासकल्पना स्यात् । घटपटलक्षणरूपद्वय(या)योगित्वात् पटस्येत्यादेर् उत्तरस्यात्रापि सुवचत्वाद् इत्य् अभिसन्धिः । तस्मादि[31.7]त्यादिनोपसंहरति । इयम् अभिन्नाभासा सामान्याकारा स्वलक्षणाद् उद्भवो ऽस्या इति स्वलक्षणोद्भवा सती भिन्नार्थग्राहिणी व्यावृत्तवस्तुग्राहिणी न प्रतिभाति । किं त्व् अनादी[31.9]ति ।
"दृढत्वात् सर्वदा बुद्धेर्" इति ब्रुवता यदि बुद्धेर् दार्ढ्यम् अभिहितं तद् अपि निऋउपयन्न् आह -- दृड्ःअत्वञ् चे[31.10]ति । सहेतुकविनाशवादिपक्षे क्षणिकत्वाभ्युपगमाद् इ[31.10]त्य् आशुतरविनाशित्वाभ्युपगमाद् इति वेदितव्यम् । अस्याः [31.11] सामान्यबुद्धेः । तद् [31.10] अबाध्यमानत्वम् ।
[18ब्]स्याच्छब्दो ऽनेकान्तवचनो नियतोस्ति तेन स्याद्वादो[31.12]नकान्तवाद यद् वा स्याद् अक्षणिकः स्यात् क्षणिक इत्यादि [31.12] स्याद् इति वादः स्याद्वादस् तस्य भंगो निराकरणं तस्माद् एवावधारणीयो बाधक इति प्रकृतत्वात् । स्याद्वादभङ्गम् अधीत्येति कर्मणि ल्यब्लोपे चेयं पञ्चमी द्रष्टव्या ।
एवं मन्यत [29.22] इत्यादिना यद् उपक्रान्तं तद् उपसंहरन्न् आह तस्माद् इ[31.16]त्यादि । यस् तु [31.18] मिथ्यात्वे[53]दोष [32.1] इति सम्बन्धः । {प्. 285} उक्तः [32.1] परेणेत्य् अर्थात् । किं कृत्वासाव् उक्त इत्याह पूर्वपक्षयित्वेति [31.19] । सामान्यम् [31.22] इत्यादिर् भविष्यती[31.22]त्यन्तः पूर्वपक्षग्रन्थः । अस्यैव पूर्वपक्षस्याकारम् इति[30.23]शब्दो दर्शयति । तस्य [31.19] सामान्यस्य वृत्ते[31.19]र् वर्तनस्य । नियामकं व्यवच्छेदकम् । साबलेयादिषु कर्कादिसाधारणे परस्परं भिन्नत्वेपि गोत्वम् एव वर्तते नाश्वत्वम् इत्य् एतन् निमित्तम् । यथैकस्मात् साबलेयात् कर्को भिन्नस् तथा बाहुलेयोपि ततस् तुल्येपि भिन्नत्वे [31.21] भेदे केषुचित् [31.21] साबलेयादिषु वृत्तिर् गोत्वस्य अवृत्तिताविद्यमानवृत्तित्वम् अविद्यमानत्वम् एवाश्वत्वस्यादिशब्दसंगृहीतस्य । कस्य केषुचिद् वृत्त्यवृत्तितेति अपेक्षायाम् उक्तं गोत्वादेर् इ[31.22]ति । अनिमित्ते[54]ति काकाक्षिन्यायेनोभयत्रापि वृत्त्यवृत्तितायां बुद्धाव् अपि संबध्यते । तेनायम् अर्थो यथा गोत्वादेः केषुचिद् वृत्त्यावृत्तितानिमित्तापि नियामकसामान्यरहितापि तथा [31.22] तद्वद्बुद्धि[31.22]र् अभिन्नाभासा धीरनिमित्ता जनकगोत्वसामान्यशून्यानादितथाविधवासनासामर्थ्यात् केषुचिद् एव भविष्यती[31.22]ति । तेन विषयं विना कुतोत्प(विना बुद्ध्युत्प)त्त्यभावेन तत्[31.25]सामान्यं ध्रुवं नित्यम् इच्छंति । यद् वा तेन कारणेन तत्सामान्यम् इच्छन्ति ध्रुवं निश्चितम् । तेनाभिन्नेन विषयेण विना अनुगमात्मिकानां बुद्धीनाम् उत्पादे को दोष इत्य् आह । ता हीति [31.26] । ता अभिन्नाभासा सामान्यबुद्धयः । अनेन सामान्याभावे तथाभूतबुद्ध्युत्पादे बाधकप्रमाणम् उक्तं
परेण । असाव् एव वन्दीकृतम् अर्थं प्रतिकुर्वन्न् आह -- न त्व् इति [31.27] । वृत्तिर् नियतेति प्रकरणात् । न दुष्यती[31.27]ति ब्रुवतो ऽयं भावस् तदन्तरेण तथाविधबुद्द्युत्पादे मिथ्यात्वदोषोस्ति बाधकः । सामान्यस्य [31.27] तु सामान्यान्तरेण केषुचिद् एव वृत्तौ किम् अस्ति बाधकं येन तत्रान्यसामान्यम् अभ्यनुजानामीति । असौ [32.1] मिथ्यात्वप्रसक्तिदोषो न तथागतसिद्धान्ततीतिपरिशुद्धबुद्धीन् अ[32.2]स्मदादीन् बाधते व्यथयति । कस्माद् इत्य् आह सामान्ये[32.2]ति । यद्य् अपि पूर्ववत् सामान्यबुद्धेर् मिथ्यात्वव्यवस्थानिबन्धनं प्रमाणं मात्रया दर्शितं तथापि बहुमुखम् एवास्या मिथ्यात्वव्यवस्थापकं प्रमाणम् अस्तीति प्रतिपादयितुं तथाही[32.3]त्यादिनोपक्रमते । साम्ना [32.4] गलकम्बलः । आदिशब्दात् ककुदादिपरिग्रहः ।[55]नासाधारणं सामान्यरूपताहानिप्रसङ्गात् । नोदयव्ययप्रसङ्गयोगि नित्यत्वाभावप्रसङ्गभावाद् इति बुद्धिस्थम् । इतिः [32.8] अनन्तरोक्तं प्रत्यवमृषति । कुतो न युक्तम् इत्य् आह विरुद्धे[32.9]ति । अमुम् अर्थं सातिरेकं कारिकाभिर् वक्तुं पर {प्. 286} मुखेनाह ने(-खेनाह आहचे)त्यादि । नाश इति व्यक्ते[19अ]र् इतिप्रकरणाद् द्रष्टव्यम् । अजातता [32.10] केनेष्ठे[32.11]ति लिङ्गविपरिणामेन संबन्धनीयम् । केन [32.11] कारणेन । तद्वद् व्यक्तिवत् । अनन्वयो [32.11] व्यक्त्यन्तराननुगामित्वम् ।
__________नोतेस्__________
[53] "मिथ्यात्वप्रसङ्गदोषः" -- स् [54] "अनिमित्ता" -- स् [55] न चासा--- स्
ननु च "सामान्यान्य् अपि चैतानि नाशीन्य् आश्रयनाशत" [श्लोकवा. पृ. 380] इति वचनान्मीमांसकैर्व्यक्तिनाशे नाश इष्ट एवेति किम् उच्यते व्यक्तिनाशे ऽनाशः । केनेष्ठे(ष्ट इ)ति प्रकृतं मीमांसकमतम् इति । सत्यम् एतत् । केवलम् एवंवक्तुर् अयम् आशयः यद्य् एकं सामान्यं ततो भिन्नञ्चाभिन्नञ् च संगच्छते तदा व्यक्तिरूपेण व्ययते तद्व्यतिरिक्तेन च रूपेणानुवर्तत इति स्याद् अपि यदि परं मनोमोदकोपयोगमात्रवद् एतद् इति । एतच् चाधस्ताद् यथावसरम् इहैव प्रतिपादयिष्यते । अत एव च कैश्चिन्नैयायिकाइर् नाशीनीत्य् उपलभ्यानीत्य् एतद् अर्थंकुमारिलेनोक्तं व्याख्यातम् इति ।
व्यक्तिजन्मनि जन्मानिष्टौ सामान्यस्य दूषणम् इदम् उपस्थितम् इति दर्शयन्न् आह -- व्यक्ती[32.12]त्यादि । जातिर् इति वक्ष्यमाणापेक्षया स्त्रीलिङ्गेन निर्देशः । निष्क्रियत्वाज् जातेर् इत्य् अभिप्रेत्य नागतेत्य् अभ्युपगमयति । प्राग् [32.13] व्यक्त्युदयात् पूर्वम् । दृश्याया अनुपलब्धत्वाद् इत्य् अभिप्रायेण च नासीद् इत्य् उ[32.13]पगमयति । चेदि[32.12]त्य् अत्रापि संबध्यते । तस्या व्यक्तेर् उत्पद्यमानाया देशो दिश्यते ऽस्मिन्न् इति कृत्वाधार उक्तः । अनेनैतद् दर्शयति । तत्संबब्धोरु(?)बन्धनेन वा प्रकारेण भवेत् स चैकोपि न भवतीति । सा जातिः तया व्यक्त्या सङ्गता संबद्धा कथं [32.13] न कथञ्चित् । तज्जन्यजन्मनि सामान्यस्येष्यमाणे तादात्म्यं तावद् अतिभवान् न(तावद् भेदान् न) युज्यते । तत्सम्बन्धमात्रम् अपि न संगच्छत इत्य् अभिप्रायो ऽस्यैवं च वदितुर् बोद्धव्यो ऽन्यथामीमांसकमतेतादात्म्याद् अन्यस्य सम्बन्धस्यानिष्टेर् आगताश्रयान्तरादित्यादिद्वारा सम्बन्धमात्रनिषेधो ऽनुपयुक्तः प्रसज्येत प्रस्तुतञ् च तन्मतम् इति । व्यक्तिनाशे ऽविनाशित्वेष्तौ च सामान्यस्ये(स्या)यं दोषः स्याद् इति दर्शयन्न् आह व्यक्ति(क्तीति) [32.14] । निष्क्रियत्वाद् इत्य् अभिप्रायेण नागते[32.14]त्य् आह । तच्छून्ये[32.14] नष्तव्यक्तिरहिते दृश्यादर्शनाभिप्रायेण च न स्थितेत्य् आह । क्वेति [32.15] काकाक्षि(काक्वा) प्रश्नयुक्तः कथं(कथ)नाशक्यत्वं प्रतिपादयति । जातेर् व्यक्त्यात्मकत्वोपगमे तदुदयव्यययोस् तदन्वयव्ययौ न स्याताम् । सत्याञ् च तद्विष्ताव् अयम् अयञ् च दोष इति प्रतिपाद्य तत्तदिष्टौ च जातेस् तादात्म्योपगम एव जघन्य इति प्रतिपादयन्न् आह व्यक्ते[32.16]र् इत्यादि । सा व्यक्तिर् आत्मा स्वभावो यस्य तद्भावः । अनुपप्लुतं [32.17] वाद्यादिभिर् अप्रापितास्वास्थ्यं चेतो {प्. 287} येषां तेषाम् । कथम् इष्टम् । क्षेपे चायं किमः प्रयोगः । उपप्लुतचेतसाम् एवमीमांसकानामिदम् इष्टम् इति सामर्थ्याद् दर्शितम् । प्रमाणासि(मासि)द्धौ प्रकृष्टं कारकं प्रमाणम् उच्यते ऽविशेषाधायित्वे च साधकतमत्वाभावात् कथम् अस्य तत्त्वं स्याद् इत्य् आशयः ।
नैवै[32.27]ति व्याचक्षाणश् च[32.27]कारम् अवधारणे दर्शयति । लिङ्गग्रहणात् तरकालभाविनो [32.28] विकल्पस्येति प्रकरणात् । तस्मिन् विकल्पे [19ब्] प्रतिभासनात् तस्य सामान्यम् इति प्रकाशितम् । संबद्धसंबन्धाद् इत्यादि पूर्वोक्तः प्रकारः । व्यक्तिस्वभावत्वे तस्य कथं तदकर्तृत्वम् इत्य् आह तस्येति [33.3] । कल्पितं विकल्पेन घटितं रूपं [33.3] स्वभावो यस्य तस्य । तदसंभवाद् [33.3] रञ्जनाद्यर्थक्रियानुपपत्तेः । सर्वनित्यसाधारणदूषणम् इह समुच्चिन्वन्न् आह । नचे[33.4]ति । अन्या [56]चे[33.5]ति तदेकसाध्यतयोपगताभिन्नज्ञानाभिधानलक्षणम् अवसेयम् । इति[33.6]र् एवम् अर्थो मन्यते [33.6] चेतसि निधत्तेवार्त्तिककार इत्य् एवं ब्रुवाण इति चार्थाद् द्रष्टव्यम् ।
__________नोतेस्__________
[56] वेति स् ।
अनधिगतार्थविषयं प्रमाणम् इति प्रमाणलक्षणं परेण कारिकया दर्शितम् इति दर्शयन्न् आह तत्रापूर्वेति [33.11]. अहम् अहमिकया क्रिया आहोपुरुषिका तया [33.16] करणभूतया । तत्स्वलक्षणम् अस्पष्टरूपतया अनुकरोतीति तदनुकारीति विवक्षितम् इति प्रकट्यन्न् आह । अस्पष्टनीलस्वलक्षणानुकारी [33.27] अस्पष्टनीलस्वलक्षणाभासम् इत्य् अर्थः । सर्व एव हि विकल्पो ऽस्पष्टस्वलक्षणाभः । नीलादि पश्यतस् तु विकल्पयतो यः स्पष्टार्थप्रतिभासाभिमानः, स तद्विकल्पसमसमयजन्मनो निर्विकल्पस्य प्रसादात् । यथा चैतत् तथोभे(चे) समीचीनम् आचार्यो विनिश्चयम् इति (य इति) तत एवा[व]गन्तव्यम् । कथं पुनर् अस्पष्टनीलस्वलक्षणानुकारि न तु निर्विकल्पवत् स्पष्टस्वलक्षणानुकारीत्य् आशंक्य योज्यम् -- साक्षाद् [33.27] व्यवधानेन अनुत्पत्तेस् ततः स्वलक्षणाद् इति प्रकरणात् । यदि ततस् तन् नोत्पन्नम्, तर्हि तस्य नियतनीलाद्याकारपरिग्रहः कुतस्त्य इत्य् आशंक्य योज्यम् -- दर्शने[33.17]ति । दर्शनेनामुधेना(नानुभवेना)हितः संस्कारो [33.27] वासना तस्या[57]वेध [33.27] आक्षेपस् तद्वशात् । चो[33.27] व्यक्तम् एतद् इत्य् आस्मिन्न् अर्थे ।
__________नोतेस्__________
[57] आधेय स् ।
ननु यत् तत्रावभासते तत् स्वलक्षणम् । येन स्पष्टनीलस्वलक्षणानुकारीत्य् उच्यत इत्य् आह दृश्ये[33.28]ति । दृश्यविकल्प्ययोर् एकीकरणात् । दृश्यविकल्प्याव् अर्थाव् एकीकृत्यास्य प्रवृत्तेर् इत्य् अर्थः । दृश्यविकल्प्यैकीकरणं च तस्य तथोत्पत्तेर् एव द्रष्टव्यम् । तदवभासिनो ऽबाह्यत्वाद् एव न परमसावनुकरोतीत्य् आशयः । स [34.1] विकल्पः । त पो(पा)नालम्बने कथं गृहीतग्राहित्वलक्षणं स्म्र्तित्वम् इत्य् आशंक्याह तथाही[34.4]ति ।
{प्. 288} स्मृतिरूपत्वम् एवानुमानविकल्पस्य प्रतिपादयन् परः प्राह -- तथाहि[34.11]त्यादि । अग्नित्वादिना रूपणानवच्छिन्नत्वात् अनग्निव्यवृत्तं वस्तुमात्रम् इत्य् आह महानसस् सूपकारशाला । आदि[34.12]शब्दादयस् कारकुट्यादेर् ग्रहणम् । प्राक् [34.15] पूर्वं व्याप्तिग्रहणकाल इत्य् आकूतम् । प्रदेशविशेषे पर्वतादौ । तद्वस् [34.13] अनुमानविकल्पवत् ।
नन्व् अधिगताव् अधिगन्तुर् अप्य् अनुमानविकल्पस्य प्रामाण्यप्रदर्शनेनास्यापि तथाभूतस्य प्रामाण्यम् आवेदितम् एवति किम् अनेनोक्तानतिशायिनोक्तेनापीत्य् आशंक्याह एवं मन्यत [34.14] इति । पूर्वपक्षिणैतस्मिन्न् उक्तेप्य् एवं ब्रुवाणो नियतम् एवं वक्ष्यमाणकं मन्यते [34.14] चेतसि निवेशयति । यद् इ[34.14]त्यादिना मननीयम् एव दर्शयति । आदि[34.15]शब्दात् कालस्य परिग्रहः । साध्यधर्मिग्राहि [34.17] पर्वतादिग्राहि । दृष्टान्तधर्मिगाहि [34.17] महासादिधर्मिग्राहि । तत्र दृष्टान्तधर्मिग्राहिणा दर्शने[न] नैव [20अ] पर्वतादिविशिष्टम् अनग्निना व्यावृत्तं वस्तु गृहीतम् । नापि तदाह न पर्व(नापि पर्व)तादिसाध्यधर्मिग्राहिणान्वयाद्यवेदिनो(ना)पि । तथात्र विपत्ति (तथात्वे ऽविप्रतिपत्ति)प्रसंगात् तद्विशिष्टम् अनग्निव्यावृत्तम् वस्तु गृहीतम् इतिदर्शनान्वया(दर्शनद्वया)नधिगतम् उक्तम् । अयोगोव्यवच्छेदेन [34.18] संबन्धव्युदा...एन तद्विपरीतत्वाद् [34.20] अनुमानविकल्पविपरीतत्वात् । तेन यदा(था) डृ..यत्यैव निश्चयनात् ।
ननु वस्त्वधिष्ठानत्वाद् व[34.23]स्त्वालम्बनत्वाद् इत्य् अभिप्रेतम् । तथा चानुमानासंग्रहः इत्य् आह वस्त्वधिष्ठानत्वं चे[34.23]ति । चकारस् तुशब्दस्यार्थे । प्रमाणस्य व्यापारः प्रापणम् तस्य विषयस् तम् अभिप्रेत्योच्यते । नालम्बनलक्षणं [34.25] विषयम् अभिप्रेत्योच्यते इति सम्बन्धनीयम् । आलम्बनलक्षणं ग्राह्यरूपम् । उक्ताद् अन्येन प्रकारेण अन्यथाव्यापिनी सर्वप्रमाणासंग्राहिका । विप्रकृष्टो देशकालस्वभावैर् व्यवहितो विषयो यस्याः सा तथोक्ता ।
तत्रापी[35.1]त्यादि प्रतिविधानम् । विकल्परूपस्यैव वस्तुनो धर्मित्वात् । तस्यैव च तत्प्रधानत्वाद्यनुपादानत्वसाध्यत्वात् । तत्रापि प्रमाणव्यवस्थायास् तद् एव विकल्परूपं वस्त्वधिष्ठानम् अस्तीति समुदायार्थ । दर्शनविधिप्रतिषेधविकल्पानां दर्शनस्यैव प्रामाण्यं नेतरयोर् इति प्रकृतम् । उक्तञ् च "तत्र तदाद्यम् एव"[25.11] इत्यादिना । तत्कुतो ऽस्य वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनस्यार्थोत्पा(स्योपपा)दनम् इत्याशंक्य संगति दर्शयितुम् इदं चे[35.12]त्यादिनोपक्रमते । तस्य अनधिगतवस्तुरूपाधिगन्तृत्वस्य असिद्धता । तस्या उद्भावनं [35.16] प्रकाशनं तदर्थम् । {प्. 289} तस्यैव [35.20] स्वलक्षणस्यैव । सामान्यस्याप्य् अर्थ्क्रियास(सा)मर्थ्यलक्षणत्वात् तद्विषयोपि विकल्पः प्रामाण्यान्नापैतीति पूर्वपक्षम् उत्पश्यन्न् एवं ब्रुवाणः किं मन्यत इत्य् आह सामान्यस्येति [35.21] । तद्विपरीतत्वाद् अ[35.21]र्थक्रियासामर्थ्यलक्षणविपरीतत्वात् । यथा च तस्यार्थक्रियाकारित्वसंभवि तथा पुरस्ताद् उक्तम् इति । गूढाभिसन्धिश् चैवं मन्यत [35.21] इति द्रष्टव्यम् । ततोपि [35.23] वस्तुन्य् एव [35.24] पुरुषस्य प्रवृत्तेर् इ[35.23]ति संबन्धः । तत्सामर्थ्यजन्मा विकल्पो न प्रमाणम् इ[35.23]ति साध्ये च हेतुपदम् एतत् । कथं प्रवृत्तिर् इत्य् आह तदध्यवसायेने[35.24]ति । कस्मात् तदध्यवसायेन प्रवृत्तिः कल्प्यते इत्य् अन्यथे[35.25]ति । तत्र [4/35.24] स्वलक्षणे पूर्वस्या उपपत्तेर् अस्याश् च तुल्यत्वात् किम् अनेन पुनर् उक्तेनेत्य् आह पूर्वम् इ[35.27]ति । एतञ् च शाब्दीं गतिम् आश्रित्य भेदो दर्शितो द्रष्टव्यः । अथार्थाभेदात् किं मुखभेदमात्रेण भेदेनोपदर्शितेनेति निर्बन्धस् तद् एवोच्यत इत्य् अभिप्रायवान् आह यद् वे[36.1]ति । किम् इती[36.6]तिनिपातानिपातसमुदायः कस्माद् इत्य् अस्यार्थे वर्तते ।
स्याद् एतत् स्वलक्षणे निर्विकल्पकविषये प्रवर्तयन्न् अपि तदनुभवात् प्रमेयान्तरविषयः सन् प्रामाण्यं प्राप्स्यतीत्य् आशंक्याह अयम् अस्याभिप्राय [36.12] इति । तत्रैव [36.13] प्रमेयान्तरे स्वविषय एव[58]प्रवर्तयेद् इ[36.14]ति । सम्भावनपदम् एतत् । शक्यार्थं वा । किं कर्तुं प्रवर्तयेद् इत्य् आह -- रूपं [59]तत्साध्यम् इ[36.14]ति । प्रमेयान्तरमात्रं तद्विषयम् अभिप्रेत्य तत्रैव प्रवर्त्तयेत् तत्साध्याम् अर्थक्रियाम् अधिगन्तुम् इ[36.14]त्य् उक्तम् अधुना तु यदि सामर्थ्य[20ब्](सामान्य)लक्षणं तत्प्रमेयान्तरं तदा नैव वा [36.14] इत्य् उक्तम् । नैव वा प्रवर्तयेत् न स्वलक्षणे नापि सामान्ये न क्वचिद् अपीति प्रवृत्तिमात्रप्रतिषेधाद् घ्रियते ।
__________नोतेस्__________
[58] प्रवर्तयतु स् । [59] तत्साध्याम् अर्थक्रियाम् स् ।
यद् वा पूर्वं सामान्यसाध्याम् अर्थक्रियामनाकल्य्याभिहितम् तत्रैव [36.13] इत्यादि । इदानीं तु तत्साध्याम् अर्थक्रियामाकाल्य्योक्तम् -- नैव वे[36.14]ति । कस्माद् एवाम् इत्य् आह -- तद्विषये[36.15]ति । तत्सिद्धय एव प्रवर्तयिष्यतीति आह विकल्पे[36.16]ति । तत्सिद्धे[36.14]र् अभिन्नज्ञानलक्षणाया अर्थक्रियाया निष्पत्तेः । सामार्थ्याच् चाभिन्नाभिधानलक्षणायाश् चेत्य् आभेदम् (श् चेत्य् अपि वेद्यम्) ।
ननु ततः प्रमेयान्तरविषयोपि प्रत्ययस् तद्विषये प्रवर्त्तयन्निष्पादितस्वविषयार्थक्रियो वा क्वचित् प्रवर्त्तयन् प्रामाण्यम् अपि प्राप्स्यतीत्य् आह -- नही[36.16]त्यादि । प्रत्यया [36.17] इत्य् अत्र बहुवचनेन साकल्यं दर्शयति । साधिता निष्पादिता अर्थक्रिया [36.18] । {प्. 290} स्वविषयार्थक्रिया येषान्ते तथा, तेषां क्वचिद् अपि [36.19] न प्रवर्तयन्तीति पूर्वकेणाभिसम्बन्धः । विशेषेण [36.19] विशेषेष्यैव यैर् मीमांसकैर् एवं व्याख्या[य]ते [36.19] तेषां मत इति सामार्थ्यात् । द्व्यात्मकस्य [36.21] सामान्यविशेषात्मकस्य । विज्ञानाभिन्नहेतुत्वाद् इच्छादेर् विज्ञानात्मकं(कत्वं) सिद्धम् अभिप्रेत्य प्रामाण्यानुषङ्गः कुतो(कृतो) वेदितव्यः । प्रमाणानामियत्ता [36.26] व्यवच्छेदः ।कुमारिलमतेन प्रत्यक्षानुमानोपमानार्थापत्तिशाब्दाभावाः षड् एव प्रमाणानीत्य् एवंरूपा विशीर्येत [36.27] त्रुट्येत् । धारया प्रवाहेन वहनशीलानि [37.1] भवनधर्माणि । अनेकान्तस् तदभिन्नयोगक्षेमत्वलक्षणो हेतुर् इति प्रकरणात् । एकस्मिन्न् अर्थे सजातीयानि सजातीयविजातीयानि वा प्रमाणानि संप्लवन्ते प्रवर्त्तन्त इति वादी [37.5] । प्रतिक्षणं [37.7] भिद्यत [37.8] इति सम्बन्धः । केषां क्षणिविशेषे(ष)साध्ये ऽर्थे वाञ्छा भवति । यद्य् अस्मदादीनां तथार्थादर्शित्वाद् एव न संभवतीत्य् आह योगिनामि इ[37.11]ति । योगश् चित्तैकाग्रता स येषाम् अस्ति तेषाम्, नित्ययोगे प्रशंसायां वाय[मि]निर्द्रष्टव्यः । शमथविपश्यने वा योगस् तद्वताम् । ननु तेषां स्वार्थासंभवात् किम् अभिप्रेत्यास्मिन् वाञ्छा भवतीत्य् आह -- परे[37.11]ति । अथ परोपकारिणः परेषाम् एवोपकुर्वन्तु कस्मात् पुनः क्षणविशेषसाध्यम् अर्थं प्राप्तुं परिहर्त्तुं वाभिलषन्तीत्य् आह कस्यचिद् इ[37.12]ति । कस्यचित् क्षणविशेषसाध्यस्यार्थस्य कथं चित् साक्षात् पारंपर्येण वोपयोगाद् उप[37.12]युज्यमानत्वात् । क्वचित् [37.12] प्राणिनीति प्रकरणाद् अवसेयम् । अनेन परोपकाराङ्गत्वं तस्य दर्शितम् । तदा [37.12] नानायोगक्षेमत्वम् इति सम्बन्धनीयम् । तदेत्य् अत्रच्छेदो व्यक्त एव । एतद् एव निदर्शयन्न् आह -- यथे[37.12]ति । सामान्योच्छेदस्यार्थस्य विषयोपदर्शने यथैतद्दर्शितम्, तथान्यद् अपि द्रष्टव्यम् इति यथाशब्दस्यार्थः ।
भावनामार्गव्युदासेन[60]दर्शनमार्ग [37.12] इत्य् उक्तम् । दुःखे धर्मज्ञानक्षांतिः, दुःखे धर्मज्ञानम् । दुःखे ऽन्वयज्ञानक्षांतिः, दुःखे अन्वयज्ञानम् । समुदये धर्मज्ञानक्षान्तिः, समुदये धर्मज्ञानम् । समुदये ऽन्वयज्ञानक्षान्तिः, समुदये ऽन्वयज्ञानम् । निरोधे धर्मज्ञानक्षान्तिः, निरोधे धर्मज्ञानम् । निरोधे ऽन्वयज्ञानक्षान्तिः, निरोधे ऽन्वयज्ञानम् । मार्गे धर्मज्ञानक्षान्तिः, मार्गे धर्मज्ञान[म्] । मा[21अ]र्गे ऽन्वयज्ञानक्षान्तिर् इत्य् एवं पञ्चदशक्सणा दर्शनमार्गः तदुक्तमभिधर्मकोशे "अदृष्टदृष्टेर् दृङ्मार्गस् तत्र पञ्चदशक्षणाः" [अक्. 6.28] इति । तस्मिन् दर्शनमार्गे फलभूताः पञ्चसंक्लेशस्कन्धाः । दुःखाख्यं सत्यम् । {प्. 291} तस्मिन् दुःखे धर्मज्ञानक्षान्तिः [37.13] स्वरूपज्ञानयोग्यता । दुःखसाक्षात्संका(क्षात्का)रिज्ञानोपजननयोग्यः कुशल इति यावत् ।
__________नोतेस्__________
[60] अत्र विशेषार्थिना विसुद्धिमग्गो ऽनुसतव्यः पृ. 359 ।
स क्षणः किं करोतीत्य् आह ।[61]दशानाम् इ[37.13]ति । राग-प्रतिध-मान-अविद्या-विचिकित्सा पञ्च, सत्कायदृष्टि-मिथ्यादष्टि-अन्तह्राहदृष्टि-दृष्टिपरामर्ष-व्रतपरामर्षलक्षणा दृष्टयः -- दशानुशयाः एषाम् वासनां निरोधयति [37.13] विनाशयति । कथं करोतीत्य् आह । तद्विरुद्धे[37.14]त्यादि । तैर् अनुशयैर् विरुद्धो ऽयम् आशयश् चित्तसंतत्यवस्थाविशेषस् तस्योत्पादनात् । दुःखे धर्मज्ञानक्षान्तिक्षणस्यार्थक्रियाम् उपदर्श्य दुःखे धर्मज्ञानक्षणस्य ततो भिन्नाम् अर्थक्रियां दर्शयितुम् आह -- दुःख [37.14] इति । दुःखे धर्मज्ञानं [37.14] दुःखस्वरूपसाक्षात्कारि(र)प्रवृत्तज्ञानम् । निर्वाणं [37.15] मोक्षः प्राप्यते अनयेति व्युत्पत्त्या, निर्वाणस्य प्राप्तिर् यस्माद् इति व्युत्पत्त्या वा तावत् क्लेशविविक्तता निर्वाणप्राप्तिशब्देनोक्ता । दर्शनमार्गप्रहेयाणां द्वात्रिंशतः क्लेषानां मध्ये ऽनेन दशानां एव क्लेषानां वि(नि)रोधाद् दग्ध(द् दश)क्लेशविविक्ततानाततस्यात् पादनात (?) समुदयादिज्ञानादिप्रहातव्यक्लेशप्रहाणिप्रतिरूपा निर्वाणभावस्य दवीया(यः) सिद्ध्यवस्थानाद् अन्यथाइतद् असमंजसं स्याद् इति । अथवा निर्वाणशब्देन नैवार्चटःपरमनिःश्रयसात्मने यद् एवम् ऊचे किंत्ववान्तरनिःश्रेयसं तथाभूतम् इति न किञ्चिद् अवद्यम् । कथं तथाकरोतीत्य् आह अनुशयति [37.15] । सति तस्मिन् मनागपि ते पुनर् नोत्पद्यन्ते । अपि तु तद्विविक्त एव क्षणप्रबन्ध इति तदा सुदार्ड्ःयापादनं तस्याधीसयम् (?) । पूर्वकेन च क्षणेन क्लेशा निष्क्लेशिता उत्तरेण तु यथा ते पुनर् न प्रविशन्ति, तथा आचरितम् इत्य् अनयोर् व्यापारप्रयोजनम् । अतएवाभिधर्मकोषे "चौरनिष्काशनपाटपिधानवद्" इति (अक् 6.28 भ्) दर्शितम् । दुःखे धर्मज्ञानक्षान्तिधर्मज्ञाने च कामावचरक्लेशप्रतिपक्षतया ज्ञातव्ये दुःखे धर्मज्ञानक्षान्तिधर्मज्ञानयोर् उदाहरणा(ण)दिङ्मात्रत्वेन अन्येषाम् अपि तथा विविक्तत्वाद् एषाम् इ[37.16]ति बहुवचनेनाह ग्राहकाण्यालम्बकानि । कानि पुनस् तानि ग्राहकाणीत्य् आह परे[37.16]ति । परचित्तविषयाणि ज्ञानानि परचित्तज्ञानानि [37.16] ।
__________नोतेस्__________
[61] दमानां स् इति त्व् असम्यक्
एतद् उक्तं भवति । दर्शनमार्गम् अधिगच्छतो दुःखे धर्मज्ञानक्षान्त्यादिक्सणाः । क्रमभाविनः क्रमभाविभिर् ज्ञानैर् योग्यंतरेण यद् आलम्ब्यते परार्थोद्देशेन तथा तद्विषयाणि तद्योगान्तरज्ञानानि पृथग् एव [37.16] पूर्वपूर्वज्ञानाद् भिन्नान्य् एव प्रमाणानीति दर्शनमार्गाधिगन्तृक्षणविषयाणां योगिज्ञानानां पृथग् एव प्रामाण्यम् इति प्रतिपाद्य संप्रति सामान्येनैव योगिज्ञानानि भिन्नार्थक्रियासामर्थ्यक्षणविषयाणि सर्वाण्य् एव प्रमाणानीति प्रतिपादयिष्यन्न् आह -- परहिते[37.17]त्यादि । {प्. 292} भगवताम् [37.18] अध्यक्षचेतसां नानायो [21ब्]गक्षेमत्वात् [37.21] । पृथग् एव प्रामाण्यम् इति शेषः प्रकरणलभ्यं वा । अधिकरणे चेयं षष्ठी । तेन भगवत् सम्बन्धीनि यान्य् अध्यक्षचेतांसि साक्षात्कारप्रवृत्तानि ज्ञानानि तेषाम् इत्य् आर्थः । किंभूतानां भगवताम् इत्य् आह सर्वे[37.19]ति । सर्वभावान् भावनाबलजेन ज्ञानेन प्रतिक्षणमी[62]क्षमाणानां [37.20] पश्यताम् । कथं तेषां नानायोगक्षेमत्वम् इत्य् आह तद्विषये[37.20]ति । तेषां भगवत् सम्बन्ध्यध्यक्षचेतसां [37.20] ये विषयाभिन्नाः क्षणास् तषां भिन्नास्वर्थक्रियासूपयोगतो [37.21] व्यापारात् । अनेन विषयस्य तथात्वाद् विषयिणस् तथात्वम् उक्तम् अवसेयम् । कस्मात् पुनस् ते प्रतिक्षणं भावान् वीक्षन्त इत्य् आह -- कश्चिद् एवे[37.18]ति । इतिः [37.19] हेतौ । अनुग्राहकविबन्धकानुरूपम् आचरितुम् इत्य् अर्थाद् एव स्थितम् ।
__________नोतेस्__________
[62] -क्षणं वीक्षमाणानां -- स्
ननु तथापि सिद्धार्था भगवन्तः स्वार्थमणीयांसम् अप्य् अपश्यन्तः कस्यचित् क्षणस्य कस्यचित् प्राणिनो ऽनुग्राहकत्वे विबन्ध[क]त्वेपि कस्माद् भावान् प्रतिक्षणं वीक्षन्त इत्य् आशंक्यतेहे(क्य हे)तु भावेन भगवद् विशेषणपदम् आह परहिते[37.17]ति । परस्मै हितमायति पथ्यं तस्याधानं करणम् । तस्य दीक्षा अनुष्ठेयम् एवैतद् इति नियमस् तद्वताम् । नित्ययोगे चायं मतुप् । ज्ञानम् एव सदसद्विवेककरणाद् आलोक इवालोकस् तेनावभासित उद्योतितो ऽन्तरात्मा येषान् तेषाम् [37.18] अन्तरात्मेति लोकभाव(न)योक्तं परमार्थ(त)स् तु तथाभूतज्ञानाव् अलोकवताम् इत्य् अर्थः ।
अशब्दविषये प्रथने वाच्ये वेः परात्स्तृणातेर्घञो ऽभावाद् वस्तुविस्तर इत्य् असाधुर् अयं प्रयोग इति चेत् । तत् तु नातिश्लिष्टम् । यतः सूत्रे प्रथनं विस्तीर्णत्वम् अभिप्रेतम् । तद् आहकाशिकाकारः"प्रथनं विस्तीर्णता" इति । न चात्र विस्तरशब्देन वस्तूनां विस्तीर्णत्वम् अभिप्रेतम् अपि तु बाहुल्यं यथा तृणस्य विस्तर इत्य् अत्र । अतएव "प्रथन इति किं? तृणविस्तर" इति प्रत्युदाहृतम् । अस्य चार्थंभागवृत्तिकारोपि अञ्जसाव्य(सा व्या)ञ्जीत् "तृणस्य विस्तरो बाहुल्यम् इत्य् अर्थः" । तत् कथम् अप्रथने वर्त्तमानाद् अस्माद् धातोर् घञ् भवितुम् अर्हतीति । अतएवप्रज्ञाकरगुप्तोपिवार्तिकालङ्कारस्यादौ "प्रायः प्रस्तुतवस्तुविस्तरभृतो नक्षन्त एवोच्चकैर् वक्तारः" इत्य् अवोचद् इति ।
किं सर्ववेदिनो ऽधिकृत्य भवतायं हेतुर् अनेकान्त उच्यते, अथास्मदादीन् इति विकल्पयोर् बुद्धिस्थीकृतयोः पूर्वस्मिन् विकल्पे प्रतिसमाधायापरस्मिन्न् अपि प्रतिविधातुकामः तद् यदी[37.21]त्यादिनोपसंहर्तुम् उपक्रमते । क्षणानां विवेकः पृथक् त्वं तद् द्रष्टुं शीलं येषां तान् अधिकृत्यो[37.21]द्दिश्य उच्यते ।
{प्. 293} प्रकरणात् "पूर्वेणाभिन्नयोगक्षेमत्वाद्" इति हेतुर् अनैकान्तिक इत्याख्यायते । तदा "नानेकान्तः स हेतुर्" इति प्रकरणात् । विपक्षगमनाभावाद् इति भावः । अथे[37.23]ति पक्षान्तरम् उपक्षिपति । संव्यवहारः प्रवृत्तिनिवृत्तिलक्षणम् अनुष्ठानं प्रयोजनं येषां तान् [37.23] । परमार्थतो भेदकारणम् उक्तम् अन्यान्यकारणतये[38.5]ति । तत्राद्य एव प्रमाणम् । न सम्यञ्चो ऽपि पराञ्चः प्रत्यया इति समर्थयितुं तथाही[38.8]त्यादिनोपक्रमते । तत्साधन[38.8]म् अर्थक्रियासाध[22अ]नं तस्य प्रापणं तत्र समर्थे [38.9][63]अक्लीवाविद्यमानविप्लवा धी[38.10]र् येषाम् ते तथा तेषां प्रेक्षापूर्वकारिणाम् इत्य् अर्थः अर्थस्य क्रिया निष्पत्तिस् तस्याः साधनं निष्पादकं तस्य भेदोभिन्नत्वात् । संधुक्षण [38.16] संदीपनमादिशब्दात् पवनस्वेदनादिपरिग्रहः ।
__________नोतेस्__________
[63] "अक्लीवधियां" इति आलोकसंमतः पाठः । "अविक्लवधियां" इति स् यद्य् एवम् इ[39.18]त्यादि यच् चोद्यम् । तथाही[406?]त्यादि प्रत्यक्षं प्रमाणम् अभ्रान्तम् इत्य् उक्तं भवतीति वक्तव्यम् । अनन्तरोक्ताद् एव कारणकलापात् । प्रत्यक्षलक्षणानुक्तौ च प्रत्यक्षस्यैवानभिधाने परोक्षप्रतिपत्तेः सर्वस्या अनुमाने ऽन्तर्भावप्रदर्शनेपि कथं प्रमाणद्वैतमाख्यातं भवति? दर्शनम् एव प्रमाणम् इत्याख्यानाच् च नाज्ञानम् इन्द्रियादि प्रमाणम् इति दर्शितं भवति । भिन्नायास् तु प्रथमायाः कथम् अपाकरणम्? किं च मुख्यवृत्त्या यद् उद्दिश्य शास्त्रं प्रवर्तते तद् अर्थं तद् उच्यते । न तु सामर्थ्यानुषंगतो वा यद् व्युत्पादयति तद् अर्थं तद् उच्यते । न च प्रत्यक्षव्युत्पादनाभ्युपगमेपि मुख्यवृत्त्या तद्व्युत्पादने प्रवृत्तम् इदम् इति कथं सामान्येन सम्यग्ज्ञानव्युत्पादनार्थम् उच्यते । अन्यथा अनुमानव्युत्पादनार्थत्वेपि तस्य सामर्थ्याद् अनुमानाभासप्रतिपादनम् अनुषङ्गतो विकल्पस्य धारावाहिनाञ् च पराञ्चा(पराचां)विकल्पज्ञानानां प्रमाणाभासत्वप्रतिपादनम् अस्तीति अनुमानतदाभासव्युत्पादनार्थम् इति प्रमाणाप्रमाणव्युत्पादनार्थम् इति वा किं नोच्यते? यद्य् अ(यद)प्य् अन्यत् सम्यग्ज्ञानव्युत्पादनार्थम् अभिप्रेतम्, तत्रापि कल्पनाप्रवृ(भृ)तोर् मिथ्याज्ञानस्यापि प्रसंगतो व्युत्पादनम् अस्तीति तद् अपि सम्यग्ज्ञानव्युत्पादनार्थम् इति किं नोच्यत इति यत् किञ्चिद् एतत् । तथा यद्य् अनुमानतस् तथाभूतस्य निश्चयात् तस्य प्राधान्यम् उच्यते, तदा प्रत्यक्षतो धर्मिग्रहणं व्याप्तिग्रहणञ् चान्तरेण नानुमाने प्रवृत्तिर् अस्तीति तस्यापि किं न प्राधान्यम् उच्यते? न च तस्यापरभावात् प्राधान्यकल्पना ज्यायसी । किञ् च तद् अपि तत्त्वे निश्चायकम् अनुमानं समस्ततत्त्वनिश्चायकसाक्षात्कारप्रवृत्तप्रत्यक्षाङ्गम् उपसर्जनम् । तद् एतभूयेयं (?) प्रधानं भवितुम् अर्हतीति कथं विपर्यस्तास् तत्त्वविदः ।
अपि च स्वसंवेदनं प्रत्यक्षाम् अन्तरेण सर्वथा न कस्यचित् तत्त्वव्यवस्थानम् इति तस्याइव प्राधान्यं किं न कल्प्यत इति । स हि मिथ्याज्ञानं प्रत्यक्षस्य विषयो [22ब्] यत(त्र) तेनानुरूपो निश्चयो जनितः न च तत्र विवादः संभवति येनानुमानात् तन्निश्चयः पार्थ्यते । {प्. 294} अथोत्तरकालभाविनः संशयस्यानुमानतो निरासात् तस्य तथात्वम् उच्यते । तर्हि प्रत्यक्षस्यातिशयेन तद्वाच्यम्, तत्संशयोनो(यानु)त्पादस्य प्रत्यक्षनिबन्धनस्य बहुलम् उपलम्भात् । अथ तदा तत्प्रत्यक्षं गृहीतग्राहितया न प्रमाणव्यपदेशयोग्यं सत्सशयं निरस्यति अनुमानम् अपि तथैवेति किम् अनेनोक्तेन? न च क्षणिकत्वादि प्रत्यक्षस्य विषयो येनानुमानतस् तन्निश्चयात् प्राधान्यं तस्य कल्प्येतेत्य् अलं बहुना । प्रत्यक्षस्यापि पटुनः प्रवर्तकत्वात् किं न प्राधान्यं? नहि योग्यता योग्याद् वस्तुनो ऽन्या या परोक्षा सती तेन निश्चेतुम् अशक्यान्येन निश्चीयेत तन्निश्चायकं तज्ज्ञानम् अन्यत् प्रमाणं सद् अनुमानं स्यात् । किन्तु योग्यम् एव वस्तु योग्यता, यथा च प्रत्यक्षस्यार्थस्यैकप्रकारा प्रतिपत्तिस् तथाचार्येण स्वयम् एवान्यत्र दर्शितम् । अथ यद्य् अपि योग्यता योग्यवस्तुस्वभावा तथापि परोक्षफलसव्यपेक्षा परोक्षेति । ननु फलस्य परोक्षत्वे सा किं परमार्थतः परोक्षा किं वा परोक्षकल्पा? तत्र यदि परोक्षंमते (?) परोक्षैव तदा प्रत्यक्षपरोक्षयोर् एकात्मतानुपपत्तेर् भिन्नैव स्यात् । यथामीमांसकानांकार्यार्थापत्तिसाधना । अथ परोक्षैव; कथं पुनः प्रत्यक्षस्वभावा परोक्षैव । तन्निश्चयस्य कर्तुम् अशक्यत्वाद् इति चेत् । यदि नामाभ्यासात् पूर्वं निश्चेतुम् अशक्या तथाप्य् अभ्यासदशापन्नेन
पटीयसा प्रत्यक्षेण स्वतो ऽपसारितभ्रान्तिनिमित्तेन किं न निश्चीयते? फलम् अपि तस्य दाहादि नात्यन्तपरोक्षम् अन्यत्र तत्कृतस्य तस्यानेकशो ऽनुभवात् । अत एवाभ्यासेन तत् पटुतरं जातम् । नत्वम् अभ्यु(न तु अभ्यु)दयादि दानचेतनादिकार्यत्वेन निश्चितं केनचिद् येन तत्राप्य् अभ्यासात् तथानिश्चयः स्यात् । यावत् आत्यन्तपरोक्षम् एव । अतस् तदपेक्षया दानचेतनाशक्तेर् अनिश्चयो युक्तः । तद् अयम् अर्थो येनासकृद् वह्न्यादेर् दाहाद्यनुभूतं स तदा फलस्य परोक्षत्वेपि दाहादिजननयोग्यम् एतद् इति प्रत्यक्षेण निश्चिनोत्य् एव । यथा चानभ्यासावस्थायां पूंसः कृत्तिमाकृत्तिममुक्तादिप्रतिपत्तेः परोपदेशापेक्षणात् स्वतो ऽसंभवेपि सत्य् अप्य् अभ्यासे स एव पुरुषः पुरुषान्तरनिरपेक्षो मुक्तादेः कृत्तिमादिरूपतां स्वयम् एव प्रतिपद्यते । तथानभ्यासावस्थायां स्वतस् तद्योग्यतानिश्चयेपि अभ्यासादितः पटिमप्रत्यक्षं स्वयम् एव तद्योग्यं निश्चाययिष्यतीति किं नानुमन्यते । आह चात्रभर्तृहरिः"मणिरूप्यादिज्ञानं तद्विदां नानुमानिकम्" इति । किञ् च न व्याप्तिस्मरणम् अन्तरेणानुमानं प्रवर्तते । न चाग्न्यादि वस्तु दृष्ट्वा तत्साध्यार्थक्रियावाञ्छया प्रवृत्तौ यद् यद् एवम् अर्थक्रियाकारि यथा महानसादि दृष्टं तद्वस्त्व् इति प्रवृत्तौ(त्तेः) प्राग्व्याप्तिस्मरणं सत्य् अवादिना वदितुं शक्यत इति कथं तत्रानुमानस्य प्रवर्तकत्वकल्पना न साहसम् । अतश् चैवं यतस् ताद्रूप्यावसाये प्रत्यक्षं नानुमानसापेक्षमनवस्थाप्रसक्तेः । यथा च तस्य पाटवं ताद्रुप्यनिश्चये [23अ] चरितार्थम् उपवर्णनीयम्, तथा योग्यतानिश्चये किं न वर्ण्यत इत्य् अलम् अतिविस्तरेण ।
यत् तु तच् चानुमेयतां नातिपतति [40.19] तत् स्वपरसंतानवर्तिनीर् बुद्धीर् अधिकृत्योक्तम् "अन्यत्रानुभूतविषयेभ्य" इति वचनाद् इति । अत्र च सर्वत्र समाधानं धीमद्भिर् एव विधेयम् ।
{प्. 295} आत्मा (?) साध्यसाधनभावो [41.20] गम्यगमकभावः । कृतकत्वादौ पारमार्थिकं [41.24] साध्यसाधनयोर् धर्मिणिश्चभेदं [41.24] भिन्नं रूपं नालम्ब[ते] नाश्रयते । कुतो नालम्बत इत्य् आह सम्बन्धे[41.25]ति । परमार्थभिन्नानाम् अकार्यकरणभूतानां सम्बन्धाभावे तथात्वाभावप्रसंगात् । एकस्मिन्न् अर्थे द्वयोः समवाय एकार्थसमवायो [41.26]त्र विवक्षितः कृतकत्वानित्यत्वे [41.26] आदी यस्य तस्य । कृतकत्वम् आदिर् यस्य सावयवत्वादेः साधनधर्मस्य । अनित्यत्वम् आदिर् यस्य सावयवत्वादेः साध्यधर्मस्य । तस्ये[41.27]ति समवायस्य । अत्रैवापेचयहेतुम् आह समवायाद् इ[42.2]ति ।[64]आदि[42.3]शब्दाद् अकाशदिक्कालमनःपरमाणूनां संग्रहः । कथं पुनः कृतकत्वादेः शब्दादौ वृत्ताव् आत्मादिव्र्त्तिर् आसंज्यत इत्य् आह । य एव ही[42.3]ति । तस्य [42.5] समवायस्य । "न च संयोगवन्नानात्वं भाववल्लिङ्गाविशेषात् विशेषलिङ्गाभावाच् च तस्माद् भाववत् सर्वत्रैकः समवाय" [प्रश.भ्. प्र्. 172] इति वचनाद् एकत्वेनाभ्युपगमः । अथापि स्यात् न समवायाद् वृत्तिर् अपि तु समवाय एव वृत्तिर् इति तद् अप्य् अवद्यम् । संबन्धाभावेन भावोयं व्र्त्तिर् इति कल्पनाया अयोगात् । संबन्धान्तरकल्पनायाञ् चानवस्थाप्रसंगात् । यदि च समवायस् तस्य व्र्त्तिर् आत्मादिष्व् अपि तस्य भावात् कथं न तस्य वृत्तिर् इति तदवस्थो दोष इति । अथ[42.6]शब्दः पक्षान्तरम् अवद्योतयति । एतस्मिन्न् उपगमे गड्डप्रवेशे ऽक्षितारानिर्गम्वृत्तान्तो जात इति दर्शयन्न् आह सैव तर्ही[42.8]ति ।
__________नोतेस्__________
[64] पुर्वत्र शंकाचिह्नितं "आत्मा (?)" इति पदं अत्रत्यम् सम्भवति
अभूत्वा यो न भवति भूत्वा च [न] विनश्यति स तद्विपरीतरूपस् तस्य यः समारोपस् तस्य व्यवच्छेदः स विषयो [42.9] यस्यास् तस्याः । सा किम् अवश्याभ्युपगमनीया येनान्यस्योपगमो निषिध्यत इत्य् आह सैवेति [42.8] । परमार्थेन भेदो धर्मिणा सहेत्य् अर्थात् तद्वतोः परमार्थभेदवत्त्वञ् च पराभिप्रायेणोक्तं द्रष्टव्यम् । धर्मिणि [42.11] शब्दादौ । तद्धर्मतानपेक्षायान्तु नित्याभिमतेष्व् अपि तौ वर्तेयाताम् इति भावः । उत्पत्तिविनाशधर्मतायाः कल्पनाबुद्धेश् चान्तराले घाटामस्तकान्तरालवर्तिमांसपिण्डापरनाम गडुर् इव गडु[42.11]र् निष्फलत्वात् तेन । व्यतिरेको भेदस् तद्वता [42.12] ।
अयम् अभिसन्धिः । यदि कृतकत्वादयो धर्मा व्यतिरेकिणस्तव धर्मिणि प्रमाणसिद्धाः स्युस् तदा सत्याम् अपि तस्य वस्तुनस् तथातायामजागलस्तनवदनुपयुक्ता अपि केन नाम नाभ्युपगम्येरन् । वस्तुस्वभावानाम् अपर्यनुयोज्यत्वात् । केवलं तद् एव प्रमाणसिद्धत्वं न संभवति प्रत्यक्षप्रमाणवाधितत्वम् एव लक्ष्यत इति ।
{प्. 296} अथ किं कल्पनानिवेशिनः कृतकत्वादयो धर्माः साध्यधर्मम् अवबोधयन्ति येनावश्याभ्युपगमनीत्याया(नीयाया) उत्पत्तिविनाशधर्मताया एव तथाविधबुद्धिनिबन्धनत्वात् किम् अन्येनेत्य् उच्यत इत्य् आशंकायाम् अभ्युपगम [23ब्] एवोत्पत्तिर्(वोत्तर)म् इत्य् अभिप्रायवान् आह तथाही[42.12]त्यादि । सत्तामात्रेण [42.12] तन्निश्चायकज्ञाननिरपेक्षेण स्वरूपेण वस्तुन उत्पत्तेः प्रभृति सर्वदेति वेदितव्यम् । अनवरतं [42.14] सततं तद्धर्मस्य साध्यधर्मस्य प्रतीतिस् तस्याः प्रसङ्गात् [42.14] । कथं नाम ते तत्प्रतीतिनिबन्धनं भवतीत्य् आह किंत्व् इ[42.14]ति । ननु वस्त्वसंस्पर्शित्वे विकल्पस्य कथं वस्तुनः कृतकत्वादिरूपताप्रतीतिर् इत्य् आह स चे[42.15]ति । चो यस्माद् अर्थे । तद्रूपस्य [42.17] कृतकत्वादिरूपस्य वस्तुनो ऽसंस्पर्शेप्य् अग्रहणेपि । तदग्राहिणः कथं तदध्यवसाय इत्य् आह परम्परये[42.17]ति । तदुपादानत्वात् [42.18] कृतकत्वात् कृतकत्वादिरूपबाह्योपादानत्वात् । तस्य विकल्पस्येति प्रकरणात् । ननु च न कृतकत्वादयो धर्मास् तथाविधबुद्धिनिबन्धनत्वेनेष्यन्ते किन्त्व् अर्थक्रियाकारितया, तत् कथं तथाविधविकल्पः स्याद् यतः प्रसवेत् (विकल्पस्य ततः प्रसवः) । तस्य तस्य धर्मस्य वैयर्थ्यम् इत्य् आह तद्व्यतिरिक्तास् त्व् इ[42.18]ति । तु शब्दो यस्माद् अर्थे । तस्माद् अभूत्वाभवनधर्मणो भूत्वा चाभावनधर्मणो धर्मिणो व्यतिरिक्ता अन्ये तस्याः कल्पनाबुद्धेर् उत्पत्तिस् तस्या निमित्तं केवलं निमित्तमात्रम् [42.18] तद्भावस्तया । एतद् उक्तं भवति यदि कृतकत्वादि(दिः) धर्मिणो ऽन्यो न स्यात् तर्हि कृतकादिबुद्धिर् अनुभवसिद्धा निर्निबन्धना स्यात् । न चैवम्
अतो ऽस्त्य् एतद्बुद्धिकारी कृतकत्वाद् इति (दिर् इति) तत्कल्पना । ततश् च तन्मात्रकारित्व(त्वं) परिकल्पनीयं साधीयः । तथापि तथाविधाद् भावाद् अन्ये ते तन्निबन्धनं कल्प्यंताम् इत्य् आह तद्वरम् इ[42.19]त्यादि । यस्माद् एवम् अनन्तरोक्तं तत् [42.19] तस्मात् । तस्य कृतकत्वादेर् या कल्पना । "अत्रैवेदं कृतकत्वादि नात्मादिषु" इत्य् एवंरूपा तस्या यन्निबन्धनम् अभूत्वाभवनधर्मतादि तद् एव तथाविधविकल्पप्रसवनिमित्तं वरम् अस्तु [42.20] । हेतुम् अस्यानिष्टेर् आह तस्ये[42.20]ति । अस्तु तदभ्युपगमस् तथापि कथं तस्य वैयर्थ्यम् इत्य् आह । तदभ्युपगमे चे[42.21]ति । चरितार्था [42.21] अन्येन निष्पादितप्रयोजना व्यतिरेकवन्तः [42.21] तद्व्यतिरिक्ताः कल्पनानिर्मितास्तु ते संतु । तत्र [न] काचिद् बाधेति चार्थात् सूचितम् ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
