Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
धर्मोत्तरप्रदीप subcommentary on धर्मोत्तर's न्यायबिन्दुटीका on धर्मकीर्ति's न्यायबिन्दु
- Tác giả
- दुर्वेकमिश्र
- Thông tin
- GRETIL — Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[ध्प्र् 205] यद्य् एवम् अभावो ऽपि न नियताकारः । [585]कथम् नियताकारो नाम? यावता वस्तुरूपविविक्ताकारः कल्पितो ऽभावः । ततो दृष्टं कल्पितं वा नियतं रूपम् अन्यत्रासद् इत्य् अवसीयते[586] । नानियतम् । एवं [587]नित्यत्वपिशाचादिर् अपि नियताकारः कल्पितो दृष्टव्यः । एकात्मत्वविरोधश्[588] चायम् । ययोर् हि [589]परस्परपरिहाएणावस्थानं तयोर् एकत्वाभावः । __________नोतेस्__________
[585] कथं न निय- [586] -त्रा ऽसदवसीयते [587] नित्यत्वे पिशाच- [588] एकात्मकत्व- [589] परस्परेणाव-
आकारो यस्येति । एवं हि क्षणिकत्वादेर् अपि नियताकारत्वं स्यात् । तथा हि परमसङ्कुचितकालवर्त्तिरूपत्वेन नियताकारत्वात् । धर्मोत्तरो ऽपि क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकम् इति ब्रुवाणो नियताकार इत्य् अत्र षष्ठीतत्पुरुषम् अभिव्यनक्ति इतरथा क्षणिकत्वस्य हि सर्वो नीलादिः स्वरूपम् इत्य् अभिदध्याद् इति । एवञ् चा (च) क्षणिकस्यापि न नीले ऽभावावसायस् तस्य सर्वनीलादिवस्त्वात्मकत्वेनानियताकारत्वात् । येन च क्षणिकं कल्पितं न तेन प्रतिनियतवस्त्वात्मक (कं) कल्पितम् अत एव नीलग्राहि प्रत्यक्षं क्षणिकत्वाक्षणिकत्वयोर् उदासीनं नीलमात्रे प्रमाणम् । तथा च नीलस्याक्षणिकत्वपरिहारेणावस्थानं क्षणिकत्वसिद्धेः प्राङ् निश्चेतुम् अशक्यम् इति न्यायबलात् प्राप्तम् ।
एवञ् चाविरोधरूपविवेचके धर्मोत्तरे सत्य् अपि ये केचिद् द्विष्यमानजल्पमहोदधिप्रभृतयो विरोधचोद्यपरिजिहीर्षया परस्परपरिहारस्थितलक्षणं विरोधं परिहारीकुर्वन्ति तैर् अयं कस्य चान्यत्राभावावसा[यः ।] यो नियताकारो न त्व् अनियताकारः क्षणिकत्वादिर् इति धर्मोत्तरस्य ग्रन्थो न दृष्टो न चार्थस्य समीचीनिधिस (?) ज्ञात इति लक्ष्यते ।
यद्य् अयम् अपरिहारः, कस् तत्र परिहार इति चेत् । यथैतत् परिह्रियते तथा विशेषाख्यान एवास्माभिर् अभ्यधायीति तत एवापेक्षितव्यम् । इह पुनर् अप्रकृतत्वान् नोच्यत इति ।
यदि नियताकारं वस्तु परिहरति नानियताकारम्, तर्हि भावो नाभावं परिहृत्य तिष्ठेत् तस्यानियताकारत्वाद् इत्य् आशङ्कमान आह यद्य् एवम् इति । एवञ् चेद् अभ्युपगम्यते तदेत्य् अर्थात् । न केवलं क्षणिकत्वादीत्य् अपिशब्दः । कथम् इति सिद्धान्ती ।
यावतेति तृतीयान्तप्रतिनिरूपको निपातो ऽत्र यस्माद् इत्य् अस्यार्थो वर्त्तते । वस्तुरूपविविक्तो दृश्यनीलादिस्वभावरहित आकारो यस्येति विग्रहः ।
कल्पितग्रहणेनैतद् आह नाभावो नाम कश्चित् प्रमाणसिद्धो ऽस्ति । केवलं कल्पिकया बुद्ध्या तथा समारोपित इति । यत एवं तस्माद् दृष्टं प्रमाणावगतं कल्पितम् आगमाश्रयेणान्यथा वा समारोपितम् । अन्यत्र ततो ऽन्यस्मिन् नीलादौ वानियतम्, न नीलाद्यात्मकं सत् तत्रैवास[द् इ]त्य् अवसीयते । अमुम् एव न्यायम् अन्यत्रादिशन्न् आह एवम् इति । यथाभावो नियताकार एव कल्पितो नानियताकार एवं नित्यत्वम् अपि सर्वकालावस्थायित्वलक्षणं नियताकारम् एव
[ध्प्र् 206]
अत एव लाक्षणिको ऽयं विरोध उच्यते । लक्षणं रूपं वस्तूनां प्रयोजनम् अस्येति कृट्वा । विरोधेन ह्य् अनेन वस्तुतत्त्वं विह्बक्तं व्यवस्थाप्यते । अत एव दृश्यमाने रूपे यन् निषिध्यते तद् दृश्यम् एवाभ्युपघम्य निषिध्यते तथा हि --- अभावो ऽपि पिशाचो ऽपि यदा पीते निषेद्धुम् इष्यते तदा दृश्यात्मतया निषेध्य इति दृश्यत्वम् अभ्युपगम्य दृश्यानुपलब्धेर् एव निषेधः । तथा च सति रूपे परिच्छिद्यमान एकस्मिंस् तदभावो दृश्यो व्यवच्छिद्यते । [590]यच् च तदभाववन् नियताकारं
__________नोतेस्__________
[590] अथ यत्तदभाववत् पा(पी)ताद् तत् कथं व्यवच्छिद्यते इत्य् आह --- टि-
कल्पितम्, न तु सर्वस्य नीलादेः । अक्षणिकत्वं तु सर्वस्य नीलादेः स्वरूपात्मकं सर्वस्यैवानेकक्षणस्थायित्वात् । न चाक्षणिक एव नित्यः, सतो ऽकारणस्याकाशादेः कियत एव तथात्वात् । तथा पिशाचत्वम् अप्य् अस्थिस्नायुमयसूचीवक्त्रादिरूपस्यैव स्वरूपं कल्पितम् इति । तस्यापि नीलाकारत्वान् नीलादिना (ता) । अयं विरोधः । यद् वा नियतः प्रतिनियत आकारः स्वभावो यस्य स तथा निषेधेनानियताकारः । तदा तु सर्वनीलाद्यनात्मकत्वसर्वनीलाद्यात्मकत्वे नियताकारत्वानियताकारत्वे वाच्ये । तेन न क्षणिकत्वादौ नियताकारत्वस्य प्रसङ्गः । सर्वेषां स्वरूपात्मकम् इति च विवरणम् अर्थभेदेन नेयम् इति ।
ननु चानेनापि विरोधेन विरोधिनोः सहावस्थानं निषिध्यते । पूर्वेणापि परस्परपरिहारवस्थानं प्रतिपाद्यत इति कथम् अन्योन्यान्यान्तर्भाव इत्य् आशङ्क्याह एकात्मत्वेति । चो यस्मादर्थे । विरुद्धयोर् एकात्मनिषेधको विरोध एकात्मविरोध उक्तः । कथम् अस्य तथात्वम् इत्य् आह --- ययोर् इति । हिर् यस्मादर्थे ।
यत एतेन विरोधेन विरुद्धयोर् एकात्मत्वं निषिध्यते अत एवास्माद् एव कारणात् । कथम् ईदृशो विरोधो भवता लाक्षणिकशब्देनाभिधीयते इत्य् आह लक्षणम् इति । विभक्तस्वरूपं प्रयोजनं व्यवस्थाप्यतया साध्यम्, प्रयुज्यते अनेन इति वा प्रयोजनं प्रयोजकस्य । इति कृत्वा एवं व्युत्पाद्य ईदृश्या व्युत्त्पत्त्येति यावत् ।
कथम् एतत् प्रयोजनम् इत्य् आह विरोधेनेति । हीति यस्मात् । विभक्तम् अन्येन विभक्तं यतो ऽनेनेति विरोधेन नीलादेर् विभक्तरूपव्यवस्थापनाद् अन्येन सहैकात्म्यं निषिध्यते । अत एवास्माद् एव कारणात् । दृश्यमाने रूपे प्रतीयमाने वस्तुस्वरूपे यन् निषिध्यते दृश्यमानात्मकत्वेन प्रतिषिध्यते ।
ननु दृश्ये वस्तुनि दृश्यान्तरस्य दृश्यत्वाभ्युपगमपूर्वको निषेधो युक्तो न त्व् अदृश्यस्येत्य् आशङ्क्याह तथा हीति । न केवलं भाव इत्य् अपिशब्दः । न केवलम् अभाव इत्य् अपिशब्दः । दृश्यात्मतया दृश्यपीतात्मतया निषेध्यो निषेधार्हः, नायं दृश्यमानः पीतः, अभावः पिशाचो वा ताद्रूप्येणाप्रतिभासनाद् इत्य् एवं निषेधाद् इत्य् अभिप्रायः । इतिर् हेतौ । दृश्यानुपलब्धेर् एवान्यस्य तादात्म्येनान्यस्मिन् निषेधः ।
अथ स्यात् प्रत्यक्षम् एवात्र नीलस्य पीतात्मताभावव्यवहारं करोति । तत् किम् एवम् उच्यते ? अथोक्तम् एतद् अदृष्टानाम् अपि सत्त्वसंज्ञया न शक्तो व्यवहारयितुम् इति चेत् । न । इह तादात्म्यनिषेधात् ।
[ध्प्र् 207] रूपं तद् अपि दृश्यं व्यवच्छिद्यते । ततः स्वप्रच्युतिवत् प्रच्युतिमन्तो ऽपि व्यवच्छिन्ना इति ये परस्परैहारस्थितरूपाः सर्वे ते ऽनेन निष्द्धैकत्वा इति । सत्य् अपि चास्मिन् विरोधे सहावस्थानं स्याद् अपि ।ततो ब्बिन्नव्यापारौ विरोधौ । एकेन विरोधेन शीतोष्णस्पर्शयोर् एकत्वं वार्यते । अन्येन सहावस्थानम् । बिन्नविष्यौ[591] च । सकले वस्तुन्य् अवस्तुनि च परस्परपरिहारविरोधः । वस्तुन्य् एव कतिपये [592]सहानवस्थानविरोधः । तस्माद् भिन्नव्यापारौ भिन्नविषयौ च । ततो नानयोर् अन्योन्यान्तर्भाव इति ॥ __________नोतेस्__________
[591] भिन्नप्रवृत्तिवैषयौ [592] सहावस्थान-
स च द्विविधो अपि विरोधो वक्तृत्वसर्वज्ञत्वयोर् न सम्भवति इइइ-76
आधेयनिषेधे ह्य् अयं न्यायो न तु दृश्यमानात्मतानिषेध इति । सत्यम् एतत् । केवलम् अत्यन्तविमूढम् प्रत्य् एतद् उक्तम् इत्य् अदोषः । किम् एवं सति सिद्धिम् इत्य् आह तथा च तति एकात्म्यनिषेधे सर्वस्य दृश्यात्मतया निषेधप्रकारे सति । तदभावस् तस्य परिच्छिद्यमानस्य स्वरूपस्य नीलादेर् अभावस् तदभावो दृश्यो दृश्यात्मकः [71ब्] सन् व्यवच्छिद्यते तादात्म्येन निषिध्यते । अयं दृश्यात्मनो नीलो नाभावः तुच्छरूपेण अभावरूपेणाप्रतिभासनाद् इति कृत्वा दृश्यमानरूपात्मतया निषेधाद् इति भावः ।
भवतु परिच्छिद्यमानाभावस्य दृश्यस्य व्यवच्छेदस् तदव्यभिचारिणस् तु निषेधे का वार्त्तेत्य् आह यच् चेति । अपिशब्दार्थश् चकारः । तदभावो विद्यते ऽस्येति तथा ।
यति तदभाववांस् तादात्म्येन प्रतिषिध्यते तर्हि क्षणिकत्वम् अपि पूर्वोक्तेण न्यायेन नीलाभाववद् इति तद् अपि तादाम्यतया व्यवच्छेद्यं स्याद् इत्य् आह नियताकारम् इति । एतच् च पूर्वम् एव कृतव्याख्यानम् । यतो द्वयोर् अप्य् अभावतद्वतोर् दृश्यमानात्मतया निषेधाद् दृश्ययोर् एव निषेधस् ततस् तस्मात् स्वप्रच्युतिर् इव स्वाभाव इव व्यवच्छिन्ना निषिद्धतादात्म्याः । इतिस् तस्मात् । सर्वग्रहणं कार्त्स्न्यप्रतिपादनार्थम् । अनेनेति विरोधेन निषिद्धम् एकत्वं येषाम् इति विग्रहः । विरोधे परस्परपरिहारस्थितात्मलक्षणे सहैकत्र लोकप्रतीतिसिद्धे देशे ऽवस्थानं स्थितिः स्यात् । अपिः सम्भावनायाम् । यस्माद् अनेन विरोधेन नैकत्रावस्थानं निषिद्ध्यते किन् त्व् एकात्मकत्वम् । पूर्वेण चैकत्रावस्थानं न त्व् एकात्मकत्वम् ।
ततः कारणाद् भिन्नौ नामभूतौ व्यापारौ ययोस् तौ तथोक्तौ । भिन्नव्यापारत्वम् एवाणयोर् एकेत्यादिना स्फुटयति । न केवलं व्यापारभेदाद् अनयोर् भेदेनोपन्यासः । किन् तु विषयभेदाद् अपीत्य् आह भिन्नविषयौ चेति । न केवलं भिन्नव्यापारौ भिन्नविषयाव् अपीत्य् अपिशब्दार्थश् चकारः । भिन्नविषयत्वम् एव दर्शयन्न् आह सकल इति ॥
भवतूक्तलक्षणो द्विविध एव विरोधः । तथाप्य् अनयोर् अन्यतर एव विरोधो वक्तृत्वसर्वज्ञत्वयोर् भविष्यतीत्य् आह स चेति । चो यस्मात् सो ऽयम् अनन्तरोक्तो द्विविधो नास्ति । अपिर् अतिशये ।
[ध्प्र् 208] स चायं द्विविधो ऽपि विरोधो वक्तृत्वं च सर्वज्ञत्वं च तयोर् न सम्भवति । न ह्य् अविकल्कारणास्य सर्वज्ञत्वस्य वक्तृत्वभावाद् अभावगतिः[593] । सर्वज्ञत्वं ह्य् अदृश्यम् । अदृष्टस्य चाभावो नावसीयते । ततो नानेन विरोधगतिर् भवति । __________नोतेस्__________
[593] गतिर् इति न च वक्तृत्वपरिहारेण सर्वज्ञत्वम् अवस्थितम् । काष्ठादयो हि[594] वक्तृत्वपरिहृताः । तेषाम् अपि सर्वज्ञत्वप्रसङ्गात् । नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम् । काष्ठादीनाम् अपि वक्तृत्वप्रसङ्गात् । तत एवाविरोधाद् [595]वक्तृत्वविधेर् न सर्वज्ञनिषेधः ॥ __________नोतेस्__________
[594] -दयो ऽपि वक्तृ; -दयो ऽपि हि वक्तृ [595] विधाने न सर्व-
स्याद् एतत् --- यदि नास्त्य् एव विरोधो घटपटयोर् इव स्याद् अपि तयोः सहाव् अस्थितदर्शनम्[596] । सहावस्थित्यदर्शनात् तु विरोधगतिः । विरोधाच्[597] चाभावगतिर् इत्याशङ्क्याह ---
__________नोतेस्__________
[596] -दर्शनम् । अदर्शनात् तु [597] विरोधादभा
न च[598]अविरुद्धविधेर् अनुपलब्धाव् अप्य् अभावगतिः इइइ-77
__________नोतेस्__________
[598] न च विरुद्ध-
तत्राद्यस्य तावद् अभावं न हीत्यादिना दर्शयति । हीति यस्मात् । कुतो नाभावगतिर् इत्य् आह सर्वज्ञत्वं हीति । हिर् यस्मात् । अदृश्यस्यापि किं नाभावगतिर् इत्य् आह अदृष्टस्येति । चो यस्मादर्थे । यत एवं ततस् तस्मात् । अनेन वक्तृत्वेन विरोधगतिर् नास्ति तस्य सर्वज्ञत्वस्येत्य् अर्थात् ।
द्वितीयस्य विरोधस्य [अभावं] प्रतिपादयन्न् आह न चेति । चः प्रतिषेधसमुच्चये । उपपत्तिम् आह काष्ठेति । हिर् यस्मात् । कुतो वक्तृत्वपरिहारेण सर्वज्ञत्वं नावस्थितम् इत्य् आह तेषाम् अपि काष्ठादीनां सर्वज्ञत्वस्य प्रसङ्गात् प्रसक्तेः । कुतस् तेषां तथात्वप्रसङ्ग इत्य् आशङ्क्य योजनीयं काष्ठादय इति । हिर् यस्मात् । काष्ठादयो वक्तृत्वेन वचनशक्त्या परिहृतास् त्यक्ताः । वक्तृत्वम् एव सर्वज्ञत्वपरिहारेण व्यवस्थितं भविष्यतीत्य् आह नापीति । अपिः प्रतिषेधसमुच्चये । अत्रापि ताम् एवोपपत्तिम् आह काष्ठेति । इहापि काष्ठादयो हि सर्वज्ञत्वेन परिहृता इति द्रष्टव्यम् ।
स्याद् एतत् वक्तृत्वसर्वज्ञत्वयोः परस्परपरिहारस्थितलक्षणत्वाविरोधे ऽपि का क्षतिर् येन तन्निषेधः कृतः । तथा ह्य् अन्योन्यपरिहारेणावस्थाने ऽपि यद् वक्तृत्वं तत् सर्वज्ञत्वं मा भूत्, सर्वज्ञत्वं वा वक्तृत्वम् । तयोस् त्व् एकत्रस्थितिर् अविरुद्धैव । तद् अनन्तरम् एवोक्तम् धर्मोत्तरेण सत्य् अपि चास्मिन् विरोधे सहावस्थानं स्याद् अपीति ।
तद् एतद् असत् । येषां हि वक्तृत्वसर्वज्ञत्वलक्षणौ धर्मिणो भिन्नाव् एव धर्मौ तेषाम् इदं शोभते न तु तथागतानां धर्मधर्मिणोर् वास्तवम् अभेदम् इच्छताम् । तथा हि यदि वक्तृत्वं सर्वज्ञत्वपरिहृतं
[ध्प्र् 209] न चाविरुद्धविधेर् इति अनुपलब्धाव् अप्य् नायं विरुद्धविधिः यद्य् अपि[599] सहावस्थानानुपलम्भस् तथापि न तयोर् विरोधः । यस्मान् न सहानुपलम्भमात्राद् विरोधो ऽपि तु द्वयोर् उपलभ्यमानयोर् [600]निवर्त्यनिवर्तकभावावसायात् । तस्माद् अनुपलम्धाव् अपि न वक्तृत्वविधे विरुद्धविधिः[601] । अतो ऽस्मान् नान्यस्याभावगतिः ॥ __________नोतेस्__________
[599] यद्य् अपि च [600] निर्वत्य- [601] वक्तृत्वविरोधिविरुद्धविधिः
तथा न वक्तृत्वाद् रागादिमत्त्वगतिः । यतो यदि वचनादि रागादीनां कार्यं स्याद् वचनादे रागादिगतिः स्यात् । रागादिनिवृत्तौ वचनादिनिवृत्तिः[602] स्यात् । न च कार्यं । कुतः ---
__________नोतेस्__________
[602] वचननिवृत्तिः
रागादीनां वचनादेश् च कार्यकारणभावासिद्धेः इइइ-78
रागादीनां वचनादेश् च कार्यकारणभावासिद्धेः कारणान् न कार्यम् ।अतो ऽस्मान् न गतिः ॥ मा भूद् रागादिकार्य वचनं सहचारि तु भवति । ततो रागादौ सहचारिणि निवृत्ते निवर्त्तते[603]वचनम् इत्य् आशङ्क्याह --- __________नोतेस्__________
[603] निवर्त्तिष्यते
अर्थान्तरस्य[604]चाकारणस्य निवृत्तौ न वचनादेर् निवृत्तिः इइइ-79
__________नोतेस्__________
[604] वा कारण-; वा ऽकारण- अर्थान्तरस्य [605]चाकारणस्य निवृत्तौ सहचारित्वदर्शनमातेण नान्यस्य वचनादेर् निवृत्तिः । अतो वक्तृत्वं भवेद् रागादिविरहश् च ॥ __________नोतेस्__________
[605] वा कारण-; वा ऽकारण-
इति सन्दिग्धव्यतिरेको[606]अनैकान्तिको वचनादिः इइइ-80
__________नोतेस्__________
[606] सन्दिग्धव्यावृत्ते(त्ति) का ऽनै-
स्यात् तदा वक्तृत्वस्य वक्तुर् अभेदात् सर्वज्ञत्वस्य च सर्वज्ञाद्, वक्तैव सवज्ञो न स्यात्, सर्वज्ञ एव वा वक्तेति युक्तम् अनयोः परस्परपरिहारस्थितलक्षणताभावप्रतिपादनम् इति ।
यदि नास्त्य् एव विरोधः सहानवस्थाणलक्षण इति द्रष्टव्यम् । अन्यथा घटपटयोर् दृष्टान्तता न स्यात् । उपसंहारे चायम् अर्थो व्यक्तीकरिष्यते । उक्तं विरुद्धत्वे सहावस्थानादर्शनं कारणम्, तत् किम् एवम् उच्यत इत्य् आशङ्क्याह यद्य् अपीति । तथापि तेनापि प्रकारेण । अतो हेतोर् अस्माद् वक्तृत्वाद् अन्यस्य सर्वज्ञत्वस्य नाभावपतिपत्तिः ॥
यथा वक्तृत्वाद् असर्वज्ञत्वगतिर् नास्ति तथा वक्तृत्वाद् रागादिमत्त्वस्यापि गतिर् नास्तीति जिज्ञापयिषुर् आह तथेति । आदिग्रहणाद् द्वेषादिपरिग्रहः ।
रागादिशब्दसन्निधानाद् रागादि सहचारीति बोद्धव्यम् । यथा सन्दिग्धविपक्षव्यावृत्तिकसाधनदोषस् तथा प्राग् एवाभिहितम् इति न पुनर् उच्यते ॥
[ध्प्र् 210] इतिशब्दस् तस्म्यादर्थे । [607]तस्माद् असर्वज्ञत्वविपर्ययाद् विपक्षात् सर्वज्ञत्वाद्, रागादिमत्त्वविपर्ययाद् अरागादिमत्त्वात् सन्दिग्धो व्यतिरेको वचनादेः ।[608] अतो ऽनैकान्तिको वचनादिः ॥ __________नोतेस्__________
[607] तस्माद् असर्वज्ञत्वावीतरागत्वविपर्ययाद् विपक्षात् सर्वज्ञत्वा(त्व)वीतरागादिमत्त्वात् सन्दिग्धो; तस्माद् असर्वज्ञरागादिमत्त्वविपर्ययात् विपक्षात् सर्वज्ञत्वाद् अरागादिमत्त्वाच् च सन्दिग्धो [608] वचनादिः
एवम् एकैकरूपादिसिद्धसन्देहे हेतुदोषान् आख्याय द्वयोर् द्वयो रूपयोर् असिद्धिसन्देहे हेतुदोषान् वक्तुमाम[609] आह ---
__________नोतेस्__________
[609] कामा
द्वयो रूपयोर् विपर्ययसिद्धौ विरुद्धः इइइ-81
द्वयोर्[610] इति । द्वयो रूपयोर् विपर्ययसिद्धौ सत्त्यां विरुद्धः ॥
__________नोतेस्__________
[610] द्वयो त्रीणिं च रूपाणि सन्ति । ततो विशेषज्ञापनार्थम्[611]आह ॥ __________नोतेस्__________
[611] ज्ञानार्थ-
कयोर् द्वयोः इइइ-82 कयोर् द्वयोर् इति ॥ विशिष्टे रूपे दर्शयति ---
सपक्षे सत्त्वस्य, असपक्षे च असत्त्वस्य, यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः इइइ-83 सपक्षे सत्त्वस्य, असपक्षे च असत्त्वस्य विपर्ययसिद्धाव् इति[612] सम्बन्धः । कृतकत्वम् इति स्वभावहेतुः । प्रयत्नानन्तरीयकत्वम् इति कार्यहेतुः[613] । प्रयत्नानन्तरीयकशब्देन[614] हि प्रयत्नानन्तरं जन्म ज्ञानं च प्रयत्नानन्तरीयकम् उच्यते । जन्म जायमानस्य स्वभावः । ज्ञानं ज्ञेयस्य कार्यम् । तद् इह प्रयत्नानन्तरं ज्ञानं[615] गृह्यते । [616]तेन कार्यहेतुः । __________नोतेस्__________
[612] सिद्धिर् इति [613] कार्यहेतोः [614] -कत्वश- [615] प्रयत्नानन्तरीयकत्वग्राहकम् --- टि- [616] ततः का-
सर्वान् ऐकानितिकप्रारान् उक्त्वा विरुद्धत्वाख्यं हेतुदोषम् अभिदधानो वार्तिककारस्याभिपार्यम् एवम् इत्यादिना दर्शयति ।
व्यक्तिभेदविवक्षया हेतुदोषान् इति बहुवचनेनाह ॥
विशिष्टे रूपे द्वे दर्शयति । यदि द्वाव् अपि स्वभावहेतू तदा किं द्वयाभिधानेन? एकेनापि स्वभावहेतुना विरुद्धत्वस्य दर्शीतत्वाद् इत्याशङ्क्य समर्थनम् आह --- कृटकत्वम् इति । ननु स्वभावहेतुत्वेन प्रयत्नानन्तरीयकत्वम् अन्यत्र दर्शितम् । तत् कथम् अनेनैवम् उच्यत इत्य् आह --- प्रयत्नेति । हिर् यस्मात् । प्रयत्नस्य पुरुषव्यापारस्यानन्तरम् अव्यवहितं जन्म ज्ञानं च तद् विषयम् उच्यते ।
[ध्प्र् 211] एतौ हेतू नित्यत्वए साध्ये विरुद्धौ हेत्वाभासौ ॥ कस्मात् पुनर् एतौ विरुद्धाव् इत्य् आह ---
अनयोः सपक्षे असत्त्वम्, असपक्षे च सत्त्वम् इति विपर्ययसिद्धिः[617] इइइ-84
__________नोतेस्__________
[617] -द्धिर् इति अनयोर् इति । सपक्षे हि[618] नित्ये कृतकत्वप्रयत्नानन्तरीयकत्वयोर् असत्त्वम् एव निश्चितम् । अनित्ये विपक्षे एव सत्त्वं निश्चितम् इति विपर्ययसिद्धिः ॥ __________नोतेस्__________
[618] हि --- ओम्.
कस्मात् पुनर् विपर्ययसिद्धाव् अप्य् एतौ विरुद्धाव् इत्य् आह ---
एतौ च साध्यविपर्ययसाधनाद् विरुद्धौ इइइ-85 एतौ च साध्यस्य नित्यत्वस्य विपर्ययम् --- अनित्यत्वं साधयतः । ततः[619] साध्यविपर्ययसाधनाद् विरुद्धौ ॥ __________नोतेस्__________
[619] ततः --- ओम्.
यदि साध्यविपर्ययसाधनाद् विरुद्धाव् एतौ, उक्तं च परार्थानुमाने साध्यम्, न त्व् अनुक्तम्; इष्टम् च अनुक्तम् । अतो ऽन्य इष्टविघातकृद् आभ्याम् इति दर्शयन्न् आह ---
[620]ननु च तृतीयो अपि इष्टविघातकृद् विरुद्धः इइइ-86
__________नोतेस्__________
[620] तत्र च
ननु च तृतीयो अपि विरुद्ध उत्कः[621]। उक्तविपरययसाधनौ द्वौ । तृतीयो ऽयम् इष्टस्य शब्देनानुआत्तस्य[622]विघातं करोति विपर्ययसाधनाद् इति इष्टविघातकृद् ॥
__________नोतेस्__________
[621] प्रमाणविनिश्चयादौ --- टि- [622] विधानं
तम् उदाहरति ---
यथा परार्थाश् चक्षुरादयः संघातत्वाच् छयनासनाद्यङ्गवद् इति इइइ-87
ननु प्रयत्नानन्तरीयक[त्व]शब्द उपात्तस् तत् किं प्रयत्नानानन्तरीयकशब्दस्यार्थ उच्यते इत्य् आह --- प्रयत्नानतरीयकत्वम् इति प्रयत्नानन्तरीयकत्वशब्देनापि तद् एवोक्तं वस्तुत इत्य् अर्थः । तेन शब्देन द्वयस्याभिधाने कदा स्वभावस्याभिधानं कदा कार्यस्येत्य् आशङ्क्य जन्मेत्यादिना विभजते । यतो ज्ञानस्याप्य् अभिधानं तत् तस्माद् इह विरुद्धोदाहरणप्रक्रमे ।
अनुपलम्भस् त्व् अन्योर् एवान्तर्भूतत्वान् न पृथग् उपदर्शितः । एतयोर् उदाहृतयोर् एव सो ऽपि सुज्ञान इति भाव उन्नेयः ।
लक्ष्यते चायम् आचायस्याशयः --- सपक्षावृत्तौ सत्यां व्याप्त्याऽव्याप्त्या वा विपक्षवृत्तो विरुद्ध एवेति दर्शयितुम् उभयोपादानम् । अन्यथा कृतकत्वमात्रे प्रदर्शिते सपक्षावृत्तौ विपक्षव्यापक एव यः स विरुद्धो न तु प्रय्त्नानन्तरीयकवद् यो विपक्षव्यापीति शङ्का स्यात् । तथा
[ध्प्र् 212] यथेति । चक्षुरादय इति धर्मी । परो ऽर्थः प्रयोजनं [623]परार्थः प्रयजकः संस्कार्य उपकर्त्तव्यो येषाम् ते परार्थाः --- इति साध्यम् । सम्घातत्वात् सञ्चितरूपत्वाद् इति हेतुः । चक्षुरादयो हि प्रमाणुसञ्चितिरूपाः[624] । ततः संघातरूपा उच्यन्ते । शयनम् आसनं चादिर् यस्य तच्छयनासनादि । तद् एवाङ्गं पुरुषोपभोगागत्वात् । अयं व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि पारार्थ्येन संहतत्वं[625] व्याप्तम् । यतः [626]शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्य् उपकारका इति परार्था उच्यन्ते ॥ __________नोतेस्__________
[623] परो ऽर्थः प्रयोजनं सं- [624] -संचयरूपाः [625] संघातत्वं [626] शयनादयः
कथम् अयम् इष्टैघातकृद् इत्य् आह ---
तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद् विरुद्धः इइइ-88 तदिष्टासहतपारार्थयविपर्ययसाधनाद् इति असंहते विषये पारार्थ्यम् असंहतपारार्थ्यम्[627] । तस्य साख्यस्य वादिन इष्टम् असंहतपारार्थ्य तदिष्टासंहतपारार्थम् । तस्य विपर्ययः संहतपारार्थ्यं नाम । तस्य साधनाद् विरुद्धः । __________नोतेस्__________
[627] -र्थ्यम् । इष्टासंहतपारार्थ्यं तस्य सांख्यस्य वादिन इष्टासंहत पारार्थ्यम् `आत्मा अस्तिऽ इति ब्रुवाणः सांख्यः `कुत एतद्ऽ इति पर्यनुयुक्तो बौद्धेनेदम् आत्मनः सिद्धये प्रमाणम् आह । तस्माद् असंहतस्यात्मन उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु हेतुर् विपर्ययव्याप्तः । यस्माद् यो यस्योपकारकः स तस्य जनकः । जन्यमानश् च युगपत् क्रमेण वा भवति[628] संहतः । तस्मात् परार्थश् वक्षुरादयः [629]संहतपरार्था इति सिद्धम् ॥ __________नोतेस्__________ [628] -भवतीति [629] चक्षुरादय इति संहत-
प्रयत्नानन्तरीयकत्वमात्रे प्रदर्शिते सपक्षावृत्ताव् अव्याप्त्यैव यो विपक्षे वर्त्तते स एव विरुद्धो नान्य इति शङ्का स्यात्, एतावतापि [72ब्] विपर्ययसिद्धेर् उपपत्तेः । यदि तु कार्यहेतुर् उदाहृत इत्य् उच्यते, तदानुपलब्धिर् अप्य् उदाहर्त्तव्या स्यात् । न च तस्यास् तत्रान्तर्भावान् नोदाहरणम् इति युक्तम्, अन्वयादिप्रदर्शने ऽपि अनुदाहरणप्रसङ्गात् । एवं धर्मोत्तरेण कथं न व्याख्यातम् इति न प्रतीमः ॥
अर्थशब्दः प्रयोजने वृत्तस् तस्य च प्रयोजयतीति व्युत्पत्त्या प्रयोजकशब्दाभिलप्यत्वम् इत्य् अभिपेत्य परार्थः प्रयोजक इत्य् उक्तः । परस्मिन्न् अर्थः प्रयोजनं येषाम् इति गमकत्वाद् व्यधिकरणबहुव्रीहौ तु सर्वं समञ्जसं केवलम् अनेन तथा न व्याख्यातम् इति न विद्मः । अङ्गं निमित्तम् । कस्य तद् अङ्गम् इत्य् उच्यत इत्य् आह --- पुरुषेति ॥
क्रमेण युगपद् वा ऽपि द्वेधाप्य् असंहतं द्रष्टव्यम् ।
कुतः पुनर् असंहतविषयं पारार्थ्यम् इष्टं सांख्यास्याख्यत इत्य् आशङ्क्याह आत्मेति । असंहतोपकारकत्वं तावच् चक्षुरादीनां तेनैषितव्यम् अन्यथा ऽऽत्मा ऽसिद्धेः । यच् च तद् असंहतरूपं स एवात्मेत्य् अभिप्रायेणोक्तम् असंहतस्यात्मन इति ॥
ध्प्र् 213]
अयं च विरुद्ध आचार्यदिङ्नागेनोक्तः ---
स[630] इह कस्मान् न उक्तः इइइ-89
__________नोतेस्__________
[630] इह --- ओम्.
स कस्माद् वार्त्तिककारेण सता त्वया न उक्तः? इतर[631] आह ---
__________नोतेस्__________
[631] वार्त्तिककार --- टि-
अनयोर् अन्तर्भावात् इइइ-90
अनयोर् एव साध्यविपर्ययसाधनयोर् अन्तर्भावात् ।
ननु चोक्तविपर्ययं न साधयति । तत् कथम् उक्तविपययसाधनयोर् एवान्तभाव इत्य् आह ---
न ह्य् अयम् आभ्यां साध्यविपर्ययसाधनत्वेन भिद्यते इइइ-91 न ह्य् अयम् इति । हीति यस्मादर्थे । यस्माद् अयम् इष्टविधतकृदाभ्यां हेतुभ्यां साध्यविपर्ययस्य[632] साधनत्वेन भिद्यते । यथा तौ साध्यविपर्ययसाधनौ तथा ऽयम् अपीति । उक्तविपर्ययं तु साधयतु[633] वा मा वा किम् उक्तविपर्ययसाधनेन । तस्माद् अन्योर् एवान्तर्भावः ॥ __________नोतेस्__________
[632] विपर्ययसाध- [633] साध्यतु मा वा
ननु चोक्तम् एव साध्यं[634] तत् कथं साध्यविपर्ययसाधनत्वेनाभेद इत्य् आह ---
__________नोतेस्__________
[634] साध्ये
न हि इष्टौक्तयोः साध्यत्वेन कश्चिद् विशेष इति इइइ-92 न हीति यस्माद् इष्टौक्तयोः [635]परस्परस्मात् साध्यत्वेन न कश्चिद् विशेष भेद इति । तद्माद् अन्योर् एवान्तर्भाव इत्य् उपसंसारः । __________नोतेस्__________
[635] परस्परस्य
प्रवादिनो हि यज् जिज्ञासितं तत् प्रकरणापन्नम् । यच् च प्रकरणापन्नं तत् साधनेच्छया विषयीकृतं साध्यम् इष्टम् उक्तम् उक्तं वा, न तूक्तमात्रम् एव साध्यम् । तेनाविशेष इति ॥
द्वयो रूपयोर् एकस्य असिद्धाव् अपरस्य च सन्देहे अनैकान्तिकः इइइ-93 द्वयो रूपयोर्[636] विपर्ययसिद्धौ विरुर्द्ध उक्तः । [637]तयोस् तु द्वयोर् मध्य एकस्यासिद्धौ, अपरस्य च सन्देते ऽनैकान्तिकः ॥ __________नोतेस्__________
[636] रूपयोर् असिद्धौ विरुद्धः [637] अनयोस् तु द्व्ययोर्; अनयोर् द्वयोर्
इतर इति चोदकादन्यो वार्तिककार इत्य् अर्थात् ।
न ह्य् अक्तविपर्ययसाधकत्वेन विरुद्ध उच्यते । किन् तर्हि? साध्यविपर्ययसाधक्तत्वेन । तास्मात् किम् उक्तविपर्ययसाधनेनेत्य् उक्तम् ॥
तम् एव साध्यतेनाभेदं साधयन्न् आह --- प्रतिवादिनो हीति । हिर् यस्मादर्थे । तेन साध्येच्छया विषयीकृतमात्रस्य साध्यत्वेनाविशेषो ऽभेदः ॥
[ध्प्र् 214]
कीदृशो ऽसाव् इत्य् आह ---
यथा वीतरागः[638]कश्चित् सर्वज्ञो वा, वक्तृत्वाद् इति[639]। व्यतिरेको अत्र असिद्धः, सन्दिग्धो अन्वयः इइइ-94
__________नोतेस्__________
[638] कश्चित् --- ओम्. [639] वकृत्वात् । व्य- यथेति । विगतो रागो यस्य स वीतरागः इत्य् एकं साध्यम् । सर्वज्ञो वेति द्वितीयम् । वक्तृत्वाद् इति हेतुः । व्यतिरेको अत्रासिद्ध इति । स्वात्मन्य् एव सरागे चासर्वज्ञे च विपक्षे वक्तृत्वं दृष्टम् । अतो ऽसिद्धो व्यतेकः । सन्दिग्धो अन्वयः ॥ कुत इत्य् आह ---
सर्वज्ञवीतरागयोर् विप्रकर्षाद् वचनादेस् तत्र सत्त्वम् असत्त्वं वा सन्दिग्धम् इइइ-95 सपक्षभूतयोः सर्वज्ञवीतरागयोर् विप्रकर्षाद् इत्य् अतीन्द्रियत्वाद् वचनादेर् इन्द्रियगम्यस्यापि तत्र अतीन्द्रिययोः सर्वज्ञत्ववी(ज्ञवी)तरागयोः सत्त्वम् असत्त्वं वा सन्दिग्धम् । ततश् च न ज्ञायते किं वक्तृत्वात् सर्वज्ञ उत नेत्य् अनैकान्तिकम् इति ॥ सम्प्रति द्वयोर् एव सन्देहे ऽनैकान्तिकं वक्तुम् आह ---
अनयोर् एव द्वयो रूपयोः सन्देहे अनैकान्तिकः इइइ-96 अनयोर् एव --- अन्वयव्यतिरेकरूपयोः सन्देहात् संशयहेतुः । उदाहरणम्[640] ---
__________नोतेस्__________
[640] उदाहरणं यथा; उदाहरणं च
यथा[641]सात्मकं जीवच्छरीरं प्राणादिमत्त्वाद् इति[642]इइइ-97
__________नोतेस्__________
[641] यथा --- ओम्. [642] मत्वात् ।
यथेति[643] । सहात्मना वर्त्तते सात्मकम् इति साध्यम् । शरीरम् इति धर्मी । जीवद् ग्रहणं धर्मिविशेषणम् । मृते ह्य् आत्मानं नेच्छति ।
__________नोतेस्__________
[643] यथेति --- ओम्. प्राणाः [644]श्वासादय आदिर् यस्योन्मेषनिमेषादेः प्राणिधर्मस्य स प्राणादिः । स यस्यास्ति तत् प्राणादिमत् जीवच्छरीरम् । तस्य भावस् तत्त्वम् । तस्माद् इत्य् एष हेतुः । अयम् असाधारणः संशयहेतुर् उपपादयितव्यः ॥ __________नोतेस्__________
[644] प्राणा आश्वा-
जीवत् प्राणान् धारयच् च तच् छरीरं चेति विग्रहः । उन्मेषश् चक्षुर् विकाश आदिर् यस्य निमेषादेस् तस्य प्राणिधर्मस्य जीवधर्मस्य । असाधारणः सपक्षविपक्षावृत्तेः । विवादाध्यासितस्यैव धरिमिणो धर्म इत्य् अर्थः । असाधारणत्वाद् एव संशयहेतुर् इति हेतुभावेन विशेषणम् ॥
[ध्प्र् 215]
पक्षधर्मस्य च द्वाभ्यां कारणाभ्यां संशयहेतुत्वम् । संशयविषयौ याव् आकारौ ताभ्यां सर्वस्य वस्तुनः संग्रहात् । तयोश् च व्यापकयोर् आकारयोर् एकत्रापि वृत्त्यनिश्चयात् । [645]याभ्यां ह्य् आकाराभ्यां सर्वं वस्तु न सङ्गृह्यते तयोर् आकारयो न संशयः । प्रकारान्तरसम्भवे हि पक्षधर्मो धर्मिणम् अवियुक्तं द्वयोर् एकेन धर्मेण दर्शय्तुं न शक्नुयात् । अतो न शंशयहेतुः स्यात् । द्वयोर् धर्मयोर् अनियतं भावं दर्शयन् संशयहेहुः । द्वयोस् त्व् अनियतम् अपि भावं दर्शयितुम् अशक्तो[646] ऽप्रतिपत्तिहेतुः । नियतं तु[647] भावं दर्शयन् [648]सम्यग् हेतुर् विरुद्धो वा स्यात् । तस्माद् [649]याभ्यां सर्वं वस्तु संगृह्यते तयोः[650] संशयहेतुर् यदि तयोर् एकत्रापि सम्भावनिश्चयो न स्यात् । सद्भावनिश्चये तु यद्य् एकत्र नियतसत्तानिश्चयो हेतुर्[651] विरुद्धो वा स्यात् । अनियतसत्तानिश्चये तु साधारणानैकान्तिक, सन्दिग्धविपक्षव्यावृत्तिकः, सन्दिग्धानवयो ऽसिद्धव्यतिरेको वा स्यात् । एकत्रापि तु
__________नोतेस्__________
[645] यकाभ्यां [646] शशविषाणादि --- टि- [647] तु --- ओम्. [648] सम्यग् --- ओम्. [649] यकाभ्यां [650] तयोर् आकारयोः सं [651] -योर् विरुद्धो हेतुर् वा स्यात्
कथं पुनर् अयं संशयहेतुर् उत्पादयितुं शक्यते यावता नास्मात् सात्मकत्वस्यानात्मकत्वस्य वा प्रतिपत्तिर् जायते । ततो ऽप्रैत्पत्तिर् एवासाधारण इत्य् उद्द्योतकरमतम् आशङ्क्य यत्र (यत् न) हीत्य् उक्तं वार्तिककृता तद् अवतारयितुम् भूमिकाम् रचयन्न् आह --- पक्षधर्मस्येति । चो यस्मादर्थे । पक्षस्य धर्मय सतो द्वाभ्यां कारणाभ्यां निमित्ताभ्याम् । सर्वस्य निःशेषस्य संग्रहाज् ज्ञापनात् । तयोर् व्यापकयोर् आकारयोः सात्मकत्वानात्मकत्वाख्ययोर् विषयभूतयो एकत्रापि विषये ऽनिश्चयात् तस्य पक्षाधर्मस्येत्य् अर्थात् ।
ननु संशय्यमानयोर् आकारयोः सर्ववस्तुव्यापनेन किं? येन तथात्वं तयो उपवर्ण्यत इत्य् आह --- याभ्याम् इति । हीति यस्मात् । कथं पुनस् तयोर् आकारयो न संशय इत्य् आह --- प्राकारान्तरेति । हिर् यस्मादर्थे । पक्षधर्मः सन् धर्मिणं तं पक्षं द्वयोर् एकेन धर्मेण सात्मकत्वाख्येन अनात्म्त्वाख्येन वा । अन्वियुक्तं युक्तं सम्बद्धम् इति यावत् । न शक्नोति दर्शयितुं प्रकारान्तरेण सम्बन्धस्य तस्य सम्भवात् । यत एवम् अतः स पक्षधर्मो न संशयहेतुः स्यात् । तयोर् आकारयोर् इति सामर्थ्यात् ।
अथ कथं सात्मकत्वानात्मकत्वे द्वौ धर्मौ दर्शयन्न् अपि संशयतेह्तुर् उच्यत इत्य् आह --- द्वयोर् इति । दर्शयन्न्[73अ] इति हेतौ शतुर् विधानाद् अनियतभावप्रदर्शनाद् इत्य् अर्थो बोद्धव्यः ।
ननु नियताभावम् अदर्शयन्न् अप्रतिपत्तिहेतुर् एवायायं युज्यत इत्य् आह --- द्वयोस् त्व् इति । तुशब्दो यस्मादर्थे । नियतप्रदर्शकस्यापि किं न तथात्वम् इत्य् आह --- नियतत्वं(यतं) त्व् इति । तुः पूर्ववद् विशेषणार्थो वा । यस्माद् एवं तस्माद् हेतोः ।
नियतो ऽन्यत्राननुगामी सत्तानिश्चयो यस्य स तथा । विरुद्धो ऽपि विपर्यये सम्यघेतुर् एवेत्य् एकत्र सत्तानिश्चये विरुद्धो वा स्याद् इत्य् उक्तम् ।
[ध्प्र् 216]
वृत्त्यनिश्चायाद् असाधारणानैकान्तिको भवति । ततो ऽसाधारणानैकान्तिकस्यानैकान्तिकत्वे हेतुद्वयं दर्शयितुम् आह ---
न हि[652]सात्मकनिरात्मकाभ्याम् अन्यो राशिर् अस्ति यत्रायं[653]प्राणादिर् वर्तते (वर्तेत)इइइ-98
__________नोतेस्__________
[652] सात्मकानात्मका- [653] यत्र प्राणा; प्राणादिर् वर्त्तेत
न हीति । सहात्मना वर्त्तते सात्मकः । निष्क्रातान्त आत्मा यस्मात् स निरात्मकः । [654]ताभ्याम् यस्मान् नान्यो राशिरस्ति । किंभूतः? यत्रायं वस्तुधर्मः प्राणादिर् वर्त्तेत, तस्माद् अयं [655]तयोर् भवति संशयहेतुः ॥
__________नोतेस्__________
[654] आभ्यां [655] -दयं द्वयोर् भवति
कस्माद् अन्यराश्यभाव इत्य् आह ---
आत्मनो[656]वृत्तिव्यवच्छेदाभ्यां[657]सर्वसंग्रहाद् इइइ-99
__________नोतेस्__________
[656] आत्मवृत्ति- [657] सर्वस्य सं-
आत्मनो वृत्तिः सद्भावो व्यवच्छेदो ऽभावः । ताभ्यां सर्वस्य वस्तुनः संग्रहात् क्रोडी करणात् । यत्र ह्य् आत्मा अस्ति तत् सात्मकम् । [658]अन्यन् निरात्मकम् । ततो नान्यो राशिरस्ति --- [659]इति संशयहेतुत्वकारणम् ॥
__________नोतेस्__________
[658] तद् अन्यन् नि- [659] इति --- ओम्.
यदैकत्रैव सत्तानिश्चयो विरुद्धो वा स्याद् इत्य् उक्तम्, यदैकत्रैव सत्तानिश्चयो नास्ति तदा का वार्त्तेत्य् आह --- अनियतेति । तुर् विशेषार्थः । अनियतो ऽत्रैवायं वर्त्तत इत्य् एवं रूपनियमशून्यो यः सत्तानिश्चयस् तस्मिन् सति । यदोभयत्र सत्तानिश्चयस् तदा सपक्षाविपक्षसाधारणत्वात् साधारणः, यदा तु विपक्षवृत्तिसम्भावनायाम् अनिश्चय(अनियत)सत्तानिश्चयस् तदा सन्दिग्धविपक्षव्यावृत्तिकः । यदा पुनः सपक्षे वृत्तिसन्देहानियतसत्तानिश्चयस् तदा सन्ध्गधान्वयासिद्धव्यतिरेकः । यदा तु सपक्षासपक्षयोर् एकत्रापि सत्तानिश्चयो नास्ति तदा सपक्षासपक्षावृत्तेर् असाधारणः । एतद् एवाह --- एकत्रापीति । यतः पक्षाधर्मस् योक्ताभ्यां कारणाभ्यां संशयहेतुत्वं ततस् तस्मात् दर्शयितुं दर्शयिष्यामीति मत्त्वा ।
राशिः प्रकारः । वस्तुधर्मत्वं च प्राणादेर् अवस्तुनि शशविषाणाद् आववृत्तेः । यतो राश्यन्तराभावस् तस्मात् कारणाद् अयं प्राणादिमत्त्वाख्यो हेतुः । तयोः सात्मक्निरात्मकयोः ।
साधारणस्य धर्मस्य संशयहेतुत्वे द्वे कारणे । तत्रामुना नहीत्यादिना मूलेन संशयविषयाभ्याम् आकाराभ्यां सर्ववस्तुसंग्रह एकं कारणम् उक्तम् । नाप्य् अनयोर् इत्यादिना तु तयोर् एकत्रापि वृत्त्यनिश्चयो द्वितीयं कारणम् उक्तम् इति दर्शयितुम् आह --- संशयेति ।
[ध्प्र् 217]
प्रकाराभ्यां [660]सर्ववस्तुसङ्ग्रहं प्रतिपाद्य द्वितीयम् आह ---
__________नोतेस्__________
[660] सर्वसंग्रहं
नाप्य् अनयोर् एकत्र वृत्तिनिश्चयः इइइ-100 नाप्य् अनयोर् सात्मकानात्मकयोर् मध्य एकत्र सात्मके ऽनात्मके[661] वा वृत्तेर् सद्भावस्य निश्चयो ऽस्ति । द्वाव् अपि राशी त्यक्त्वा न वर्त्तते प्राणादिः, वस्तुधर्मत्वात् । ततश् चानयोर् एव वर्त्तते[662] इत्य् एतावद् एव ज्ञातम् । विशेषे तु वृत्तिनिश्चयो नास्तीय् अयम् अर्थः[663] ॥ __________नोतेस्__________
[661] -के निरात्मके [662] वर्त्तते एतावद् [663] नास्तीत्य् अर्थः
तद् आह ---
[664]सात्मकत्वेन अनात्मकत्वेन वा प्रसिद्धे प्राणादेर् असिद्धेः[665] इइइ-101
__________नोतेस्__________
[664] सात्मकत्वेन निरात्मक- [665] असिद्धिस् ताभ्यां न व्यतिरिच्यते [666]सात्मकत्वेन अनात्मकत्वेन वा विशेषेण युक्ते प्रसिद्धे निश्चिते वस्तुनि प्राणादेर् धर्मस्य[667] सर्ववस्तुव्यापिनोः प्रकारयोर् एकत्र नियतसद्भावस्यासिद्धेर् अनैकान्तिकः, अनिश्चतत्वात् । __________नोतेस्__________
[666] सात्मकत्वेन निरात्मक- [667] धर्मस्यासिद्धेर् अनैकान्तिको ऽनिश्चतत्वात्
तद् एवम् असाधारणस्य धरमस्यानैकान्तिकत्व कारणद्वयम् अभिहितम् ॥
प्रकाराभ्याम् आत्मव्यवच्छेदरूपाभ्याम् आकाराभ्याम् । वृत्तिः प्रवृत्तिर् अर्थात् भाव एवावतिष्ठत इत्य् अभिप्रायेणाह --- वृत्तेः साद्भावस्येति ।
यद्य् एवं तयोर् न वर्त्तत इत्य् एव किं न स्यात्? तथा च कथं संशयहेतुर् इत्य् आशङ्क्य यादृशो ऽस्यार्थो ऽभिप्रेतस् तं स्फुटयितुम् आह --- द्वावपीति । कुतो न वर्त्तत इत्य् आह --- वतुधर्मत्वाद् इति । प्रायादेर् (प्राणादेर्) इति विभक्तिविपरिणामेन सम्बन्धनीयं । वस्तुना वा ऽवश्यं सात्मकेना ऽनात्मकेन वा भाव्यम् इति भावः ।
ततो वस्तुसत्त्वेन सिद्धपरित्यागेनान्यत्रावृत्तेः कारणात् । अनयोः सात्मकानात्मकयोः । एव कारेणाण्यत्रा(त्र) वृत्तिनिषेधं स्पष्टयते । इतिर् एतावतः स्वरूपं दर्शयति । यद् इदम् अनन्तरोक्तम् एतत् परिमाणं यस्य प्रमेयस्य तद् एतावद् वस्तुतत्त्वं निश्चितम् । कुतस् तर्हि नास्य वृत्तिनिश्चय इत्य् आह --- विशेषे त्व् इति । विशेषे विशिष्टे प्रकारे । तुर् इमाम् अवस्थां भेदवतीम् आह । तेन सात्मक्त्व(सात्मक) एवानात्मक एवेत्य् अर्थः । वृत्तेः स्वभास्य प्राण्देर् इति प्रकरणात् । इतिर् एवमर्थे । अर्थो ऽभिधेयो यस्य "नाप्य् अनयोर् एकत्र वृत्तिनिश्चयः" इत्य् अस्य मौलस्य वाक्यस्येत्य् अर्थात् ॥
यस्माद् एवम् एतद् वक्तुं युज्यते, नान्यथा तत्तस्माद् [73ब्] आह वार्त्तिककारः । किम् आहेत्य् आह सात्मेति । तद् एवम् इत्यादिनोपसंहरति । एवं च व्याचक्षाणेन [न] मय स्वातन्त्र्येण पक्षधर्मस्येत्यादिना
[ध्प्र् 218]
पक्षधर्मश् च भवन्[668] सर्वः साधारणो ऽसाधारणो व भवत्य् अनैकान्तिकः । तस्माद् उपसंहारव्याजेन पक्षधर्मत्वं दर्शयति ---
__________नोतेस्__________
[668] भवत् सर्वः
तस्माज् जीवच्छरीरसम्बन्धी प्राणादिः सात्मकाद् अनात्मकाच् च सर्वस्माद् व्यावृत्तत्वेन असिद्धेस् ताभ्यां[669]न व्यतिरिच्यते इइइ-102
__________नोतेस्__________
[669] नासिद्धिः ॥; "ताभ्याम्" इत्यादि --- ओम्
तस्माद् इत्यादिना । जीवच्छरीरस्य संबन्धी पक्षधर्म इत्य् अर्थः । यस्मात् तयोर् एकत्रापि न निवृत्तिनिश्चयस् तस्मात् ताभ्यां न व्यतिरिच्यते । वस्तुधर्मे हि सर्वस्तुव्यापिनोः प्रकारयोर् एकत्रनियतसद्भावो निश्चतः प्रकारान्तरान् निवर्त्तेते । अत एवाह[670] --- सात्मकाद् अनात्मकाच् च सर्वस्माद् वस्तुनो व्यावृत्तत्वेन असिद्धेर् इति । प्राणादिः तावत् कुतश्चिद् घटदेर् निवृत्त एव । तत एतावद् अवसातुं शक्यम् --- सात्मकाद् अनात्मकाद् वा कियतो निवृत्तः । सर्वस्मात् [671]तु निवृत्तो नावसीयते । ततो न कुतश्चिद् व्यतिरेकः ॥ __________नोतेस्__________
[670] -कारान्तरान् निवर्त्तते । तत एवाह; -कारान्तरान् निवर्त्तेत । तत एवाह [671] तु --- ओम्.
ऽसाधारणस्य संशयहेतुत्वनिमित्तद्वयम् आदितो दर्शितम् । किं तर्हि? वार्त्तिककारेणैवैतदभिहितम् इति दर्शितम् ॥
ननु चासाधारणस्य प्राणादेर् अनैकान्तिकत्वकारणद्वयमनन्तरोक्तम् अभिधीयताम् । तस्माद् इत्यादिना तु शरीरसम्बन्धित्वम् अस्य कस्माद् आचार्यो दर्शयतीत्याशङ्कां निराचिकीर्षुः पक्षधर्मश् चे त्यादिनोपक्रमते । चो यस्मादर्थे । अपक्षधर्मस्त्वसिद्ध्त्वाख्याम् अन्याम् एव दोषजातिम् अनुश्नुत इति भावः पक्षधर्मत्वं प्रदर्शयतो वार्तिककारस्योन्नेयः । वाशब्देनानियतप्रभेदे ऽनास्थां दर्शयति । न त्वसाधारणत्वाख्यं पक्षान्तरम्, सन्दिग्धविपक्षव्यावृत्तिकादेर् असङ्ग्रहप्रसङ्गात् । यस्माद् अप्क्षधर्मो नानैकान्तिक उपवर्णतेनाभिपार्येण तस्मात् कारणात् । दर्शयति प्रकाशयति ।
केन दर्शयतीत्याकाङ्कायाम् आह --- तस्माद् इत्यादिनेति । पक्षधर्मत्वप्रदर्शनं तु जीवच्छरीरसम्बन्धीति वचनं द्रष्टव्यम् । तस्माद् इत्य् अनेन यस्मादित्याद्क्षिप्तं दर्शयन्न् आह --- यस्माद् इति । एकत्रापि न वृत्तिनिश्चयस् तस्य प्राणादेर् इत्य् अर्थात् । तस्मात् कारणात् ताभ्यां सात्मकत्वानात्मकत्वाभ्यां न व्यतिरिच्यते न निवर्त्तते, तदसंस्पर्शी न भवतीति यावत् ।
tayor ekatra vṛttyaniścaye 'pi kathaṃ tābhyāṃ na vyatiricyata ity āha --- vastv iti | hīti yasmādarthe | prakārayos tadvṛttivyavacchedarūpayoḥ svarūpayorākārayor iti yāvat | tayor dharma ekatraniyataḥ `atraivāyaṃ varttata iti niyamavān' sadbhāvaḥ sattvaṃ yasya sa tathā | prakārāntarān niyatasadbhāvaviṣayād anyasamādākārāt | nivarttete nivartitumn arthati, tan na saṃxpṛśetiti yāvat | ekatra vṛttyaniścayāc ca nāyaṃ tathety abhiprāyaḥ |
यत एवम् एतद् भवति, न चायं प्राणादिस् तथा, अत एवाहाचार्यः । किम् आहेत्य् आह --- सात्मकाद् इत्यादि । सर्वस्माद् इति प्रत्येकं सम्बबद्ध(न्द्ध)व्यम् ।
[ध्प्र् 219]
यद्य् एवम् अन्वयो ऽस्तु तयोर् निशिच्त इत्य् आह ---
न[672]तत्रान्वेति इइइ-103
__________नोतेस्__________
[672] न च तत्रा-
न[673] तत्र सात्मके ऽनात्मके वा ऽर्थे ऽन्वेति --- अन्वयवान् ॥
__________नोतेस्__________
[673] न च तत्र
कुत इत्य् आह ---
एकात्मन्य् अप्य् असिद्धेः इइइ-104 [674]एकात्मन्य् अपीति । एकात्मनि सात्म्के ऽनात्मके वा ऽसिद्धेः कारणात् । वस्तुधर्मतया तयोर् द्वयोर् एक्तत्र[675] वा वर्त्तत इत्य् अवसितः प्राणादिः । न तु सात्मक एव निरात्मक एव वा वर्त्तत इति कुतो ऽन्वयनिश्चयः ॥ __________नोतेस्__________
[674] एकात्मन्य् अपीति --- ओम्. [675] द्वयोर् अप्य् एकत्र; एकत्र तावत् वर्त्तत
ननु च प्रतिवादिनो न किञ्चित् सात्मकम् अस्ति । ततो ऽस्य हेतोर् न सात्मके ऽन्वयो[676] न व्यतिर्क[677] इत्य् अन्वयव्यतिर्कयोर् अभावनिश्चयः सात्मके, न तु सद्भावसंशय इत्याशङ्क्याह ---
__________नोतेस्__________
[676] अनुगमनं सद्भाव इत्य् अर्थः --- टि- [677] व्यावृत्तिः अभाव इत्य् अर्थः --- टि-
न अपि[678]सात्मकाद् अनात्मकाच् च तस्य अन्वयव्यतिरेकयोर् अभावनिश्चयः इइइ-105
__________नोतेस्__________
[678] सात्मकान् निरात्मकाच्
ननु घाटपटादेर् अनेकस्मात् प्राणादिनिर्वर्त्तमानो दृष्टस् तत् कथं तस्य व्यावृत्तत्वेनासिद्धिर् इत्य् आह --- प्राणादिर् इति । ततः सर्वस्मात् सात्मकाद् अनात्मकाच् च निवृत्त्यनवसायात् । कुतः? सात्मकाद् अनात्मकाच् च प्रतिबन्धासिद्धेर् इति चात्र सर्वत्राभिप्रायः ।
ननु किम् उच्यते न कुतश्चिद् इति? यावता निरात्मकाद् एव व्यतिरेको ऽस्यावसातुं शक्यः, बौद्धेन घटादेर् निरात्मकत्वेनेष्टत्वाद् इति चेत् । यद्य् एवं जीवच्छरीरम् अपि बौद्धेन तथात्वेनेष्टम् इति तस्यापि तथात्वं किन् न भवेत् । अभ्युपगमेन च सात्मकानात्मके विभज्य हेतुं कथयता गमिकत्वम् इति यत् किञ्चिद् एतत् ॥
तयोर् इति विषयसप्तमी । तस्य प्राणादेर् इति च शेसः ॥
ननु वस्तुधर्मेण तेनावश्यं क्वापि नियतेन भाव्यम् । तत् कथम् अन्वयाभाव इत्य् आह --- वस्तुधर्मतयेति । न चानियतवृत्तिनिश्चयो ऽन्वयो नामेति भावः ।
ननु चासाधारणत्वान् निरात्मके ऽन्वयनिश्चयो मा भूद् । व्यतिरेकनिश्चयस् त्व् अस्तु, निरात्मके घटादौ प्राणादेर् अदर्शणाद् इति चेत् । न । तस्यैव [74अ] शरीरस्य निरात्मकत्वसम्भावनायां सर्वस्मान् निरात्मकान् निर्वृत्तिनिशयाभावात् । न च तथानिश्चयनिमित्तं प्रतिबन्धनिश्चयो ऽऽस्तीति ॥
[ध्प्र् 220] नापि सात्मकाद् वस्तुनः तस्य प्राणादेर् अन्वयव्यतिरेकयोर् अभावविश्चयः । नापि च निरात्मकात् । सात्मकाद् अनात्मकाद् इति च पञ्चमी व्यतिरेकशब्दापेक्षया द्रष्टव्या ॥ कथम् अन्वयव्यतिरेकयोर् नाभावनिश्चय इत्य् आह ---
[679]एकाभावनिश्चयस्य[680]अपरभावनिश्चयनान्तरीयकत्वात् इइइ-106
__________नोतेस्__________
[679] एकस्याभाव- [680] -स्यापराभावनान्त- -स्यापरभावनान्तरीक-
एकस्यान्वयस्य व्यतिरेकस्य वा यो अभावनिश्चयः [681]सो परस्य द्वितीयस्य भावनिश्चयनान्तरीयकः [682]भावनिश्चयस्याव्यभिचारी । तस्य भावस् तत्त्वं तस्मात् । यत एकाभावनिश्चयो ऽपरभावनिश्चय [683]नान्तरीयकः, तस्मान् न द्वयोर् एकत्राभावनिश्चयः ॥
__________नोतेस्__________
[681] स एवापरस्य [682] भावे निश्च- [683] -रीयकः भवति निश्चय-
कस्मात् पुनर् एकस्याभावनिश्चयो ऽपरसद्भावनिश्चयाऽव्यभिचारीत्य् आह ---
[684]अन्वयव्यतिरेकयोर् अन्योन्यव्यवच्छेदरूपत्वात् । [685]तत एव अन्वयव्यतिरेकयोः सन्देहाद् अनैकान्तिकाः इइइ-107
__________नोतेस्__________
[684] अत एवान्वय- [685] अत एब अन्वयव्यतिरेकयोर् अन्योन्यव्यवच्छेदरूपत्वाद् इति । अन्योन्यस्य व्यवच्छेदो ऽभावः, स एव रूपं ययोस् ततोर् भावस् तत्त्वं तस्मात् कारणात् ।अन्वयव्यतिरेकौ भावाभावौ । भावाभावौ च प्रस्परव्यवच्छेदरूपौ । यस्य व्यवच्छेदेन यत् परिच्छिद्यते तत् तत्परिहार्ण व्यवस्थितम् । स्वाभावव्यवच्छेद्न च भावः परिच्छिद्यते ।तस्मात् स्वाभावव्यच्छेदेन भावो व्यवस्थितः । अभावो हि नीरूपो यादृशो विकल्पेन दर्शितः । नीरूपतां च व्यवच्छिद्य रूपम् आकारवत् परिच्छिद्यते । तथा च सत्य् अन्वयाभावो व्यतिरेकः, व्यतिरेकाभावश् चान्वयः ।ततो ऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति । व्यतिरेकाभावे च निश्चिते ऽन्वयो निश्चितो भवति । ननु चेतियादि तस्मात् कारणाद् इत्य् एतद् अन्तं स्पष्टार्थ तेन न व्याख्यायते ।
अन्योन्यव्यवच्छेदरूपत्वम् एवान्वयव्यतिरेकयोः कथम् इत्य् आश्ङ्क्याह --- अन्वयव्यतिरेकाव् इति । अभावरूपत्वञ् च व्यतिरेकस्य प्रतीतिसिद्धस्य बोद्धव्यम् । भवतां तौ तथारूपौ किम् अत इत्य् आह --- भावाभाव् इति । चो यस्माद् । भवत्व् एवं तथापि कथं तयोर् अनोन्यपरिहारेणावस्थानम् इत्य् आह --- यस्येति ।
नन्व् अत्र कस्य व्यवच्छेदेन किं परिच्छिद्यते येन तत् परिहारेहण तद् व्यवतिष्ठत इत्य् आह --- स्वाभावेति । हेत्वर्थश् चकारः । तावत् का सा (को ऽसाव्) अभावो नाम यद्व्यवच्छेदेन भावः
[ध्प्र् 221] तस्माद् यदि नाम सात्मकम् अवस्तु निरात्मकं च वस्तु, तथापि [686]तयोर् न प्राणादेर् अन्वयव्यतिरेकयो अभावव्निश्चयः । एकत्र[687] वस्तुन्य् एकस्य[688] वस्तुनो युगपद् भावाभावविरोधात् तयोर् अभावनिश्चयायोगात्[689] । __________नोतेस्__________
[686] तथापि न तयोः [687] एकवस्तु- [688] एकवस्तु- [689] निश्चययोगात्
न च प्रतिवाद्यनुरोधात् सात्मकानात्मके वस्तुनो वस्तुसतो । किन् तु प्रमाणानुरोधाद् । इत्य् उभे सन्दिग्धे । ततस् तयोः प्राणादिमत्त्वस्य सदसत्त्वसंशयः ।[690]
__________नोतेस्__________
[690] सदसत्त्वानिश्चयः एत एव क्वचिद् अन्वयव्यतिरेकयोर् न भावनिश्चयो [691]नाप्य् अभावनिशयः, तत एवान्वयव्यतिरेकयोः सन्देहः । __________नोतेस्__________
[691] नाभावनि- यदि तु क्वचिद् अप्य्[692] अन्वयव्यतिरेकयोर् एकस्याप्य् अभावनिश्चयः स्यात्, स एव द्वितीयस्य भावनिश्चय इत्य् अन्वयव्यतिरेकसन्देह एव न स्यात् । यतश् च[693] न क्वचिद् भावाभावनिश्चयस् तत एवान्वयव्यतिरेकयोः सन्देहः । सन्देहाच् चानैकान्तिकः[694] ॥ __________नोतेस्__________
[692] क्वचिद् अन्वय- [693] यत्स् तु [694] -कान्तिक इत्य् आह ।
परिच्छिद्यत इत्य् आह --- तथा चेति नीरूपताव्यवच्छेदेन रूपस्य प्रतिष्ठताकारवतः परिच्छेदप्रकारे सति । ततो ऽन्योन्याभावरूपत्वाद् अनयोः ।
ननु बौद्धानां सात्मकं नाम नास्त्य् एवेत्य् अवस्तु । सन् मात्रं तु निरात्मकमतो वस्तु । तत्र वस्तु[नि] निरात्मको[के] हेतोर् अन्वयव्यतिरेकयोर् अभावनिश्चयो मा भूत् सात्मके त्व् अवस्तुनि स कथं न स्याद् इत्य् आशङ्क्योपसंहारव्याजेनाह तस्माद् इति । यस्माद् विधिप्रतिषेधयोर् एकप्रतिषेधो ऽपरविधिनान्तरीयकस् तस्मात् । कथं न भावनिश्चयस् ततोर् इत्य् आशङ्क्योपपत्तिम् आह --- एकत्रेति । तयोर् अन्वयव्यतिरेकयोर् भावाभावात्मनोर् अभावनिश्चयस्यायोगाद् अनुपपत्तिः । कथम् अयोग इत्य् आह --- एकस्येति । कालभेदे किं न युज्यते इत्य् आह --- युगपद् इति ।
इदं च प्रतिवाद्यभ्युपगमबलात् सात्मकानात्मकयोः । सदसत्त्वम् अभ्युपगम्योक्तम् । तद् एव तु न युज्यते इति दर्शयन्न् आह --- न चेति । चो वक्तव्यान्तरसमुच्चये । प्रकरणाद् इह प्रतिवादी बौद्धस् तद् अनुरोधवशाद् इष्ट्यनिष्टिवशात् सात्मकम् असन्निरात्मकं सद् इति यथायोगं योजनीयम् । एवं ह्य् अवास्तवम् अनुमानं स्यात् न वस्तुबलप्रवृत्तम् इति भावः । यद्य् एवं ते सदसती न भवतः कथं नामेत्य् आह --- किन् त्व् इति । प्रमाणं चेदं नियतं वर्त्तते । आत्मन्य् एव च विवादवृत्तेर् अन्या ऽपि (न्यत्रापि?) सात्मकत्वम् अनात्मकत्वेन (कत्वं वा न?) व्यवतिष्ठत इति भावः । इतिस् तस्मात् । उभे सात्मकत्वानात्मकत्वे । यत एवं ततः कारणात् सात्मकानात्मकयोः सदसत्त्वयोः संशयः । कस्येत्य् आकाङ्क्षायाम् उक्तम् --- प्रणादिमत्त्वस्येति ।
[ध्प्र् 222]
कस्माद् अनैकान्तिक इत्य् आह[695] ---
__________नोतेस्__________
[695] इत्य् आह --- ओम्.
साध्येतरयोर् अतो निश्चयाभावात् इइइ-108 साध्यस्य, इतरस्य च विरुद्धस्य अतः --- सन्दिग्धान्वययतिरेकान् निश्चयाभावात् । सपक्षविपक्षयोर् हि सदसत्त्वसन्देहे न साध्यस्य न विरुद्धस्य सिद्धिः[696] । न च सात्मकानात्मकाभ्यां[697] परः प्रकारः संभवति । ततः प्राणादिमत्त्वाद् धर्मिणि जीवच्चरीरे संशय आत्मभावाभावयोर् इत्य् अनैकान्तिकः प्राणादिर् इति ॥ __________नोतेस्__________
[696] असिद्धिः [697] -भ्यां च परः
अस्तु ससत्त्वसंशयो ऽन्वयव्यतिरेकनिश्चयस् तु किन् न भवतीत्य् आह --- यत इति । न भावनिश्चयो नाभावनिश्चय इत्य् एकत्र सात्मके ऽनातमके वेति द्रष्टव्यम् । सात्मके ऽनात्मके वा प्राणादेः सदसत्त्वनिश्चयाभावाद् एवान्वयव्यतिरेकयोः सन्देहो नान्यथेति प्रतिपादयितुम् आह --- यदि त्व् इति । तुर् इमाम् अवस्थां भेदवतीम् आह ।
उक्तम् एवोपसंहरन्न् आह --- यतश् चेति । चो ऽवधारणे । तस्मात् सन्देहात् अनैकान्तिकः प्राणादिमत्त्वाख्यो हेतुर् इति प्रकरणात् ॥
सन्दिग्धावन्वयव्यतिरेकौ यस्य तत्तथा, तस्मात् साध्यस्य विरुद्धस्य वा निश्चयाभावात् । सपक्षेत्यादि [74ब्] नैतद् एव समर्थयते । हिर् यस्मात् । सपक्षविपक्षयोर् विषयभूतयोर् हेतोः सदसत्त्वसन्देहे न साध्यस्यानुमित्सितस्य विरुद्धस्य विपरययस्य सिद्धिर् निश्चयः । विरुद्धो ऽपि विपर्यये सम्यघेतुर् इत्य् अभिप्रायेणेदम् उक्तम् ।
न चेत्यादि प्राणादिर् इत्य् अन्तं सुगमम् ।
ईदृश एव चासाधारणो हेतुः कैश्चिन् नैयायिकैर् अनुपलसंहार्य इत्य् उक्तम् । ततो ऽनुपसंहार्यो ऽयं हेत्वाभास इति शब्दश्रवणार्थ........साहः करणीयः ।
उद्द्योतकरस् तु श्रावणत्वाख्ये ऽसाधारणहेताव् आचार्यदिग्नागेन दर्शित इदम् अवादीत् --- "यद्य् एतच् छ्रावणत्वं नित्यानित्ययोर् दृष्टं स्याज् जनयेत्तयोः संशयम् ऊर्ध्वत्वम् इव स्थाणुपुरुषयोः । न च दृष्टम् । तस्मान् नायं संशयहेतुर् अपि त्व् अप्रतिपत्तिहेतुर् एव । अथ श्रावणत्वं वस्तुधर्मः । वस्तुना नित्येन भाव्यम् अनित्येन वा प्रकारान्तराभावात् । न च तयोर् एकत्रापि दृष्टम् । अतस् तयोः संशयं करोति । तर्हि वस्तुधर्मत्वात् संशयो न श्रावणत्वाद् इति ।" तुल्यन्यायतया ऽत्राप्य् असाधारणे तद् ईयम् इदम् ईदृशं चर्चितम् आसज्यत एवेति "कथम् अयं संशयं संशयहेतुर् उपपादयितव्यः" इति साधूक्तम् तेन । केवलं गमकरूपविवेदने समीचीनमनो न प्रहितम् । यतो वस्तुधर्मत्वं श्रावणत्वस्य नित्याकारसंस्पर्शिज्ञानजनने निबन्धनम् । न तु तस्माद् एव वस्तुधर्माद् उभयाकारसंस्पर्शी प्रत्ययो दोलायते न च यद्य् अस्यप्रतिपत्तिकारणे कारणम् तत एव सा प्रतिपत्तिः, न तु तस्माद् इति शक्यते वक्तुम् । तद् उत्पत्तेर् अग्निप्रतिपत्तिर् न धूमाद् इत्य् अस्याभिधानप्रसङ्गात् ।
[ध्प्र् 223]
किञ्चैवं प्रमेयत्वादेर् अपि न संशयः स्यात् । शक्यते हि तत्रापि वक्तुम् उभयत्र दर्शनात् संशयो न प्रमेयत्वाद् इति । अथ तस्य तावद् उभयत्र दर्शनं तेन तस्माद् उच्यते । यद्य् एवं वस्तुधर्मत्वम् अपि श्रावणत्वस्यैवेति कथं न तस्माद् असौ । अपि चोर्ध्वत्वम् अपि यद्य् अपि स्थाणुपुरुषयोर् अपि दृष्टं तथापि तावत् तत्रान्तरेणात्रैव भविष्यतीति पर्यनुयोगे सतीदम् एव वाच्यम् --- यद् उतोर्ध्वत्वं नाम वस्तुधर्मः । वस्तुना चैवंविधिः --- स्थाणुना पुरुषेण वा ऽवश्यं भाव्यम् इति । तथा च वस्तुधर्माद् एव संशयो नोर्ध्वत्वाद् इत्य् अनिष्टापादनं --- केन निराक्रियेतेत्य् अलं विष्तरेण ।
साधन्सस्य सिद्धेर् यन् नाङ्गम् असिद्धो विरुद्धो ऽनैकान्तिको हेत्वाभासः । तस्यापि वचनं वादिनो निग्रहस्थानम् असमर्थोपादानात् । त्स्माद् एवंविधो हेत्वाभासः द्वयम् अप्रयोज्यः परप्रयुक्तश् चावश्यम् उद्भावयितव्य इति हेत्वाभासव्युत्पादने वार्त्तिककारस्याभिप्रायो बोद्धव्यः ।
स्याद् एतत् --- असमर्थं विशेषणो ऽसमर्थविशेष्यश् चास्ति प्रभेदः । यथा ऽनित्यः प्रमेयत्वे सति कृतकत्वात् । अत्र कृटकत्वं विशेष्यम् एव साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेषणम् इत्य् असमर्थं विशेषणम्, यत्र विशेष्यम् एव सम्रथम् इति कृत्वा भवत्य् असमर्थविशेषणो हेतुः । यञ् च (यच् चा)नित्यः शब्दः कृतकत्वे सति प्रमेयत्वाद् इति । अत्र हि कृतकत्वं विशेषणम् एव साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेष्यम् इत्य् असमर्थं विशेष्यम् । यत्र हि विशेषणम् [75अ] एव समर्थम् इति कृट्वा भवत्य् अयम् असर्थविशेष्यो हेतुः । शेषम् उभयीविधास्व् अन्तर्भाव्यताम् । न तावद् सिद्धे, द्वयोर् अपि धर्मिणि सिद्धेः । न च विरुद्धे, विपर्ययव्याप्त्यभावात् । नाप्य् अनैकान्तिके कृतकत्वनिशिष्टप्रमेयत्वस्य प्रमेयत्वविशिष्टकृतकत्वस्य च साध्या ऽव्यभिचारात् । तस्माद् असिद्धत्वादेर् अन्य एवायं हेतुदोषप्रकारः प्राप्त इति ।
तद् एतद् अवद्यम्, हेत्वदोषात् । यदि ह्य् एवम् अयं प्रयुक्तो हेतुर् द्विष्येत्(त) तदा ऽस्यामीषु हेतुराशिष्व् अन्तर्भावश् चिन्त्येत, अन्यो वा हेतु दोषो ऽभ्युपगम्येत । यावता नैवम् अयं प्रयुक्तो ऽन्यथेति साध्यसाधनाद् इति । न तर्ह्य् एवं वादी निगृह्यत इति चेत् । किं न निगृह्यते, असाधनाङ्गवचनात्? उभयत्रापि साध्यसिद्ध्यनङ्गस्य प्रमेयत्वस्यासमर्थस्याभिधानात् । यथा च साध्यसिद्ध्यनङ्गस्य वचने निग्रहो ऽवश्यम् भावी, अनिग्रहे व दोषः, तथा वादन्याये ऽवादीन् न्यायवादीति ततस् तद् अपेक्षितव्यः ततो ऽयम् अर्थो वक्तृदोष एव न हेतुदोषः । तेनानतर्भावे ऽपि न हेत्वाभासानुषङ्ग इति ।
भवतु तावद् अत्रेयं गतिः । सिद्धसाधने तु साधने किं भविष्यति? न तावत् सिद्धसाधनं साधन[म् अ]सिद्धत्वाद्यन्यतमदोषदूषितं साध्यसाधनसामर्थ्याप्रच्युतेर् इति ।
अत्रोच्यते --- इह हेतुर् द्वधा दुष्यति । कश्चिद् असामर्थ्यात्, अपरो वैयर्थ्यात् । तत्रासामर्थ्य एव दोषो वार्त्तिककारेणा ऽनन्तरोक्तेन क्रमेण त्रिधा दर्शितः । न तु वैयर्थ्यलक्षणः । सिद्धसाधानं तु वैयर्थ्यलक्षणो ऽन्य एवायं हेतोः स्वगतोः स्वगतो दोष इति कस्माद् अस्यान्तर्भावश् चिन्तनीयः? यदाहाचार्यः --- "अन्यथानिष्ठं(ष्टं) भवेद् विफलम् एव वा । तथा न साध्यत्वे वैकल्याद्" इत्यादीति ।
वक्तृदोष एवैष इत्य् अपि वार्त्ता, यथायोगं परिपूर्णसाधनरूपाभिधानाद् अनुपयुक्तानभिधानाच् च वक्तुर् अदुष्टत्वात् । वक्ता ऽयं हेतुनिश्चितो(ता) ऽर्य प्रयुक्तो वैयर्थ्यम् अनुभवति । न तु
[ध्प्र् 224]
त्रयाणां रूपाणाम् असिद्धौ[698] सन्देहे च[699] हेतुदोषानुपपाद्योपसंहरन्न् आह ---
__________नोतेस्__________
[698] -असिद्धिसंदेहे हेतु- [699] वा
[700]एवम् एषां त्रयाणां रूपाणाम् एकैकस्य द्वयोर् द्वयोर् वा रूपयोर् असिद्धौ सन्देहे वा[701]यथायोगम् असिद्धविरुद्धानैकान्तिकास् त्रयो हेत्वाभासाः इइइ-109
__________नोतेस्__________
[700] एवण् त्र- [701] च एवम् इत्य् अनन्तरोक्तेन क्रमेण । एषां मध्य एकैकं रूपं [702]यदा ऽसिद्धं सन्दिग्धं वा[703] भवति, द्वे द्वे वा[704] ऽसिद्धे संदिग्धे वा भवतः, तदासिद्धश् च विरुद्धश् चानैकान्तिकश् च ते हेत्वाभासाः । यथायोगम् इति यस्यासिद्धौ संदेहे वा यो हेत्वाभासो युज्यते स त्स्या ऽसिद्धेः संदेहाच् च व्यवस्थाप्यत इति यस्य यस्य येन [705]येन योगो यथायोगम् इति ॥ __________नोतेस्__________
[702] यद् असिद्धं [703] वा --- ओम्. [704] वा --- ओम्. [705] येन --- ओम्. विरुद्धाव्यभिचार्य् अपि संशयहेतुर् उक्तः । स इह कस्मान् न उक्तः इइइ-110ननु चा ऽऽचार्येण विरुद्धाव्यभिचार्य् अपि संशयहेतुर् उक्तः । हेत्वन्तरसाधितस्य [706]विरुद्धं यत् तन् न व्यभिचरतीति [707]विरुद्धाव्यभिचारी । यदि वा विरुद्धश् चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात्, अव्यभिचारी च स्वसाध्याव्यभिचाराद् विरुद्धाव्यभिचारी ॥ __________नोतेस्__________
[706] -स्य यद् विरुद्धं तन् न [707] -चरति स विरु-
स्वतो ऽ(तो) दुष्ट्स् ततो वक्तृदोषो युज्यत एवेति चेत् । तर्हि विरुद्धत्वम् अपि वक्तृदोषो ऽस्तु न्यायस्यसमानत्वात् । शक्यते हि तत्राप्य् एवम् अभिधातुम् --- वक्ता ऽयम् अननुरूपे साध्ये प्रयुक्ते विपर्ययसाधानाद् विरुद्धताम् अनुभवति न त्व् अयं स्वतो दुष्टो नामेति । विवक्षितार्थसाधनासामर्थ्यं स्वतो ऽस्तीति कथं न वैयर्थ्यं तस्य दोष इति चिन्त्यताम् इति ।
निग्रहस् त्व् एवं वादिनो ऽसाधनाङ्गवचनाद् बोद्धव्यः । सिद्धि[ः] साधानं तद् अङ्गं धर्मो यस्यार्थस्य विवादाश्रयस्य वादप्रस्तावाद् हेतोः । स साधनाङ्गः । तथा यो न भवति तस्याप्रस्तुतस्याभिधानाद् इति कृत्वेति सर्वम् एवावदातम् ।
केचित् पुनर् एवम् असिद्धे ऽन्तर्भावियितुं प्रयतन्ते । अन्ये तु विरुद्धे । यथा च तेषां प्रयतिर् यथा तद् अभजमानम् अभिधानं तथा स्वयुथ्यविचार एवाभिहित इति तत एवापेक्षितव्य इति ॥
त्रयाणाम् इत्यादि व्यवस्थाप्यत इत्य् एतद् अन्तं सुबोधम् ।
यस्येति हेत्वाभासस्य । सर्वहेत्वाभाससङ्ग्रहणार्थं यस्येति द्विरुक्तं येन [75ब्] येन दोषेन योगः सम्बन्धः । एतच् चार्थकथनम् । योगानतिक्रमेणेति विग्रहः कार्यः ॥
ननु चेत्यादीत्य् आहेत्य् एतद् अन्तं सुगमम् ।
[ध्प्र् 225]
सत्यम् । उक्त आचार्येण । मया त्व् इह नोक्तः । कस्माद् इत्य् आह ---
अनुमानविषये[708]ऽसम्भवात् इइइ-111
__________नोतेस्__________
[708] -विषये तस्यासं- अनुमानस्य विषयः प्रमानसिद्धं त्रैरूप्यम् । यतो हि अनुमानसम्भवः[709] सो ऽनौमानस्य विषयः । प्रमाणसिद्धाच् च त्रैरूप्याद् अनुमानसम्भवः[710] । तस्मात् तद् एवानुमानविषयः । तस्मिन् प्रक्रान्ते न विरुद्धाव्यभिचारिसम्भवः । प्रामाणसिद्धे हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः सम्भवति यस्य प्रमाणसिद्धं रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धम् अस्ति रूपम् । अतो न सम्भवः । ततो असम्भवात्[711] नोक्तः ॥ __________नोतेस्__________
[709] अनुमानसद्भावः; अनुमानस्य सम्भवः [710] अनुमानसद्भावः [711] ततो ऽसम्भवो नोक्तः
कस्माद् असंभव इत्य् आह ---
न हि सम्भवो ऽस्ति कार्यस्वभावयोर् उक्तलक्षणयोर् अनुपलम्भस्य च[712]विरुद्धतायाः इइइ-112
__________नोतेस्__________
[712] वा न हीति । यस्मान् न सम्भवो ऽस्ति विरुद्धतायाः । कार्यं च स्वभावश् च तयोर् उक्तलक्षणयोर् इति । अनुमानस्य त्रैरूप्याल् लिङ्गसम्बन्धिनो ऽन्यस्मात् त्रैरूप्यं विषयः । यथा मत्स्यानां विषयो जलम् इति । एतद् एवाह --- यत इति । हिर् यस्मादर्थे । प्रक्रान्ते प्रस्तुते अनुमानविषयो(ये) वै(त्रै)रूप्ये सति ।
कम्सात् तत्र विरुद्धाव्यभिचारिणो ऽसम्भव इत्य् आह --- प्रमाणेति । हीति यस्मात् । स एव हेत्वाभासो विरुद्धाव्यभिचारार्याख्यः सम्भ्वति यस्य प्रमाणेन सिद्धं रूपं पक्षधर्मान्वयव्यतिरेकात्मकम् इति विवक्षितम् । अयम् आशयः --- यदि तद् एकेन द्वाभ्याम् वा रूपाभ्यां हीनं स्यात् तद् एष्व् एव हेत्वाभासेष्व् अन्तर्भवेत् । न त्व् एतद् अतिरिक्तो विरुद्धाव्यभिचारी नाम हेत्वाभासो भवेत् । भवता त्व् अनेन प्रमाणसिद्धत्रैरूप्येणैव भाव्यम् इति ।
अस्तु तस्य तथात्वम् इत्य् आह --- न चेति । चो अवधारणे, व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे वा ।
एवं ब्रुवतश् चास्यायम् अभिप्रायः --- वस्तुनः परस्परविरुद्धरूपद्वरूपद्वयासम्भवाद् अवश्यम् अनयोर् एकम् असम्पूर्णाङ्गम् इति ॥
कुतः पुनर् अनुमान्विषये ऽस्यासम्भवो ऽवसीयत इत्य् अभिप्रेत्य पृद्च्छति परः --- कस्माद् इति
[ध्प्र् 226] कार्यस्य कारणाज् जन्मलक्षणं तत्त्वम् । स्वमावस्य च साध्यव्याप्तत्वं तत्त्वम् । यत् कार्यम्, यश् च स्वभावः, स कथम् आत्मवारणं व्यापकं च स्वभावं परित्यज्य भवेद् येन विरुद्धः स्यात् । [713]अनुलम्भस्य च उक्तलक्षाणस्येति । दृश्यानौपलम्भत्वं चानुपलम्भलक्षणम् । तस्यापि[714] वस्त्व् अभावाव्यभिचारित्वान् न विरुद्धत्वसम्भवः[715] ॥ __________नोतेस्__________
[713] -त्वम् अनुप- [714] तस्यापि च स्वभाब्वा- [715] सम्भवः स्यात् । एते-; -सम्भवः स्याद् एति(?) तत् एते-
स्याद् एतत् --- एतेभ्यो ऽन्यो भविष्यतीत्य् आह ---
न च अन्यो अव्यभिचारी इइइ-113
न चान्य एतेभ्यो ऽव्यभिचारी त्रिभ्यः । अत [716]एवैष्व् एव हेतुत्वम् ॥
__________नोतेस्__________
[716] अत एव तेष्व् एव; अत एवैतेष्व् एव
क्व तर्ह्य् आचार्यदिग्नागेनायं हेतुदोष उक्त इत्य् आह ---
तस्माद् अवस्तुदर्शनबलप्रवृत्तम् आगमाश्रयम् अनुमानम् आश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः इइइ-114 यस्माद् वस्तुबलप्रवृत्ते ऽनुमाने न सम्भवति तस्माद् आगमाश्रयम् अनुमानम् आश्रित्यव्यभिचार्युक्तः इति । आगमसिद्धं हि यस्यानुमानस्य लिङ्गतैरूप्यं तस्यागम आश्रयः । ननु चागम् असिद्धम् अपि त्रैरूप्यं प्रमाणसिद्धम् इत्य् आह --- अवस्तुदर्शनबलप्रवृत्तम् इति ।अवस्तुनो दर्शनं विकल्पमात्रम् तस्य बलं सामर्थ्यम् । ततः प्रवृत्तम् --- अप्रमाणाद् विकल्पमात्राद् व्यस्थितं त्रैरूप्यम् आगमसिद्धम् अनुमानस्य । न तु प्रमाणात् ।
न हीतिय् अत्रस्थस्य हिशब्दस्यार्थो यस्माद् इत्य् अनेनोक्तः । विरुद्धतायाः एकसाधनसाधितस्यार्थस्य प्रत्यनीकपक्षसाधनरूपतायाः ।
एतद् उक्तं भवति --- स्वसाध्याव्यभिचारिणा हि भवता कार्येण स्वभावेन वा भाव्यम् । न च वस्तुनस् तदतत्स्वभावौ स्तो येन तदतत्स्वभावाव्यभिचारिणौ द्वौ हेतू सन्निपतन्तौ विरुद्धाव्यभिचारिणौ स्याताम् इति । येन कार्यस्वभावयोः कारणव्यापकविधिना कृसतद्भावेन विरुद्धं तत्रैव धर्मिणि हेत्वन्तरसाधितार्थं विरुद्धसाधनं भवेत् ।
यद्य् एवम् अनुपलम्भे तत्सम्भविष्यतीत्य् आह --- अनुपलम्भस्येति । चः पूर्वापक्षः समुच्चये ॥
यत एतद् अतिरिक्तो ऽव्यभिचारी [न] सम्मत [अत] एवास्माद् एव कारणात् । एष्व् एव कार्यस्वभावानुपलम्भेष्व् एव ॥
कथम् आगमाश्रयत्वम् अनुमास्येत्य् आह --- आगमसिद्धम् इति । हिर् यस्मादर्थे । सति तस्मिन्न् आगमे ऽनुमानस्य प्रवृत्तेर् असाव् आश्रयस् तस्य ॥
[ध्प्र् 227]
तत् तर्ह्य् अनुमानम् [717]आगमसिद्धत्रैरूप्यं[718] क्वाधिकृतम् इत्य् आह ---[719] तद् अर्थेति । तस्यागमस्य यो ऽर्थो ऽतीन्दिर्यः प्रत्यक्षाणुमानाभ्याम् अविषयीकृतः सामान्यादिस् तस्य विचारेषु प्रक्रान्तेषु आगमाश्र्यम् अनुमानं सम्भवति । तदाश्रयो विरुद्धाव्यभिचार्य् उक्त आचार्येणति
__________नोतेस्__________
[717] अनुमानेनागम- [718] सिद्धं त्रैरूप- [719] -इत्य् आह तस्यागम-
कस्मात् पुनर् आगमाश्रये ऽप्य्[720] अनुमाने सम्भव इत्य् आह ---
__________नोतेस्__________
[720] -श्रयो ऽप्य्
शास्त्रकाराणाम् अर्थेषु भ्रान्त्या[721]विपरीतस्वभावोपसंहारसम्भवात्[722] इइइ-115
__________नोतेस्__________
[721] विपरीतस्य स्वभा- [722] भास्योपसं-
शास्त्रकृतां विपरीतस्य वस्तुविरुद्धस्य स्वभावस्य उपसंहारो ढौकनम् अर्थेषु । तस्य संभावाद् विरुद्धाव्यभिचारिसम्भवः । भ्रान्त्येति विपर्यासेन । विपर्यस्ता हि शास्त्रकाराः[723] सन्तम् असन्तं स्वभावम् आरोपयन्तीति ॥
__________नोतेस्__________
[723] -कारास् तं तम् असन्तं स्वभा-
यदि शास्त्रकृतो ऽपि भ्रान्ताः, अन्येष्व् अपि पुरुषेषु क आश्वास इत्य् आह ---
न ह्य् अस्य सम्भवो[724]यथा अवस्थितवस्तुस्थितिष्व् आत्मकार्यानुपलम्भेषु[725] इइइ-116
__________नोतेस्__________
[724] सम्भवो ऽस्ति यथा [725] -ष्व् आत्मकार्येषूपलम्भेषु न हीति । न हेतुषु कल्पनया हेतुत्वव्यवस्था । अपि तु वस्तुस्थित्या । ततो यथा अवस्थितवस्तुस्थितिष्व् आत्मकार्यानुपलम्भेष्व् अस्य सम्भवो नास्ति । अवस्थितं परमार्थसद्वस् तु तदन्तिक्रान्ता यथावस्थिता [726]वस्तुस्थितिर् व्यवस्था[727] येषां ते यथावस्थितवस्तुस्थितयः । ते हि यथा वस्तु स्थितं तथा स्थिता[728] । न कल्पनया । [729]ततस् तेषु न भ्रान्तेर् अवकाशो ऽस्ति येन विरुद्धाव्यभिचारिसम्भवः स्यात् ॥ तत्र विरुद्धाव्यभिचारिण्य् उदाहरणम् ---
__________नोतेस्__________
[726] -स्थितवस्तु- [727] -स्थितिव्यव- [728] तथा स्थापिता न [729] अतः
ननु चेत्यादि विपर्यस्ता हीत्य् एतद् अन्तं सुगमम् । शास्त्रकारा इति तीर्थिकशास्त्रप्रणेतार इति द्रष्टव्यम्, तद्वचनस्यैव प्रमाणबाधितत्वेन तेषाम् एव विपर्यस्तत्वात् ॥
अन्येष्व् अपीति कार्यादिहेतुप्रयोक्तृषु ।
यथावस्थितवस्तुस्थतिष्व् इति --- अस्य तात्पर्यार्थम् आह --- न हेतुष्व् इति । ततः काल्पनया हेतुत्वाद्य्(त्वव्य)वस्थायाः । अर्थक्रियासमर्थत्वं(-त्वन् तु) परमार्थसत् । कथं ते तथारूपाइत्य् आह --- ते हीति । ते कार्यादयो हिर् यस्मादर्थे । हेतुभावे चैतद् अविशेषणम् । यतस् ते यथावस्थितयस् ततस् तेष्व् अ(षु)सम्भवो नास्तीत्य् अर्थः । सत्यां स्थितौ किं न सम्भव इत्य् आह --- तत इति ।
[ध्प्र् 228]
[730]तत्र उदाहरणम् --- यत्[731]सर्वदेशावस्थितैः स्वसम्बन्धिभिर् युगपद् अभिसम्बध्यते तत् सर्वगतम्, यथा आकाशम् ।[732]अभिसम्बध्यते च[733]सर्वदेशावस्थितैः स्वसम्बन्धिभिर् युगपत् सामान्यम् इति इइइ-117
__________नोतेस्__________
[730] अत्रोदा- [731] -तैः सम्बन्धिभिः सम्बन्धि- [732] -काशम् इति [733] च --- ओम्. यत् सर्वस्मिन् देशावस्थितैः स्वसम्बन्धिभिर् युगपद् अभिसम्बध्यते [734]इति सर्वदेशावस्थितर् अभिसम्बध्यमानत्वं सामान्यस्य अनूद्य सर्वगतत्वं विधीयते । तेन युगपद् अभिसम्बध्यमानत्वं सर्वगतत्वे नियतं तेन व्याप्तं कथ्यते । __________नोतेस्__________
[734] -ध्यते तत्सर्वः
इह सामान्यं कणादमहर्षिणा निष्क्रयं दृश्यम् एकं[735] चोक्तम् । युगपच् च सर्वैः स्वैः [736]सम्बन्धिभिः समवायेन संबद्धम् । तत्र पैलुकेन कणादशिष्येण व्यक्तषु व्यक्तरहितेषु च
__________नोतेस्__________
[735] दृश्यम् एवोक्तम् [736] सर्वैः स्वैः स्वैः सम्बन्धि-; सर्वैः स्वैः स्वैः स्वसम्बन्धि-
यतस् ते कल्पनया न स्थापितास् ततः कारणात् । भ्रान्तेर् विपर्यासस्यावसरो ऽवकाशः । येन भ्रान्त्यवकाशेन ॥
कस्यानुवादेनात्र कस्य विधिर् इत्य् [76अ] आह --- सर्वेति । सर्वदेशावस्थितैः --- स्वसम्बन्धिभिर् इत्य् अर्थात् । यत एवम् अनुवादविधिक्रमस् तेन हेतुना ।
ननु सर्वैः स्वसम्बन्धिभिर् युगपदभिसम्बन्धो नाम सामान्यस्य युगपत् सर्वसम्बन्धिसमवाय एव । सर्वगतत्वम् अपीदम् एवास्येति ।
कथम् अनयोर् व्यावृत्तितो ऽपि भेदसम्बन्धभावतो गम्यगमकभाव इति चेत् । नैष दोषः । नानादेशस्थैः स्वसम्बन्धिभिः शावलेयादिभिर् युगपद् अभिसम्बन्धो हेतुः । सम्बन्धिदेशतद् अन्तरालव्यापित्वं तु साध्यम् इति गम्यगमकभावो न विरुध्यते । सर्वसम्बन्धिभिर् युगपद् अभिसम्बद्न्धश् चागत्वा ऽनागच्छद्भिर् इति द्रष्टव्यम् ।
अथ केन विरुद्धो(द्धा)व्यभिचारिप्रसवबीजं धर्मद्वययोः किम् अभ्युपगतं येन तयोः सन्निपाताद् विरुद्ध(द्धा)व्यभिचारिसम्भव इत्य् आह --- इहेति । इह सामान्यपदार्थविचारप्रक्रमे । कणमत्तीति कणादः । रूढीवशाच् चायं शब्दः काश्यपे मुनौ वर्त्तते । स चासौ महर्षिश् चेति । हेतुभावेनास्य विशेषणत्वात् कणादत्वाद् एव महर्षिः । एवं तस्य हि काष्ठागता निःस्पृहता यतो ऽन्यरवो(?) स्वभोज्यादिकम् अपि परित्यज्य कणमात्रं भुक्त्वा ध्यानादिकम् आचरति । अथो ऽसाव् अन्येभ्यः सातिशयवान् भव्तीइति । निष्क्रियं क्रियाशून्यम् अमूर्त्तत्वात् । एकम् अनानारूपम्, प्रत्येकं स्वाश्रयेषु लक्षणाविशेषाद्, विशेषलक्षाणाभाच् च । न तु सम्वायाद् एकं त्रिलोक्यां सामान्यम्, प्रत्ययभेदात् परस्परतो ऽन्यत्वात् । गोत्वादीनाञ् च निष्क्रियत्वेन सहा ऽस्यैकत्वं समुच्चिनोति ।
[ध्प्र् 229] देशेषु सामान्यं स्थितं साधयितुं [737]प्रमाणम् इदं उपन्यस्तम् यथा आकाशम् इति --- व्याप्तिप्रदर्शनविषयो दृष्टान्तः । आकाशम् अपि हि सर्वदेशावस्थितैर् वृक्षादिभिः स्वसंयोगिभिर् युगपद् अभिसम्बध्यमानं सर्वगतं च । अभिसम्बध्यते च[738] सर्वदेशावस्थितैः स्वसम्बन्धिभिर् इति हेतोः पक्षधर्मत्वप्रदर्शनम् ॥ __________नोतेस्__________
[737] प्रमाणम् उप- [738] प्रयोजयितुम् आह; योजन्न् आह
अस्य स्वभावहेतुत्वं [739]योजयित्म् आह ---
__________नोतेस्__________
[739] स्वभावः
तत्सम्बन्धिस्वभावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता इइइ-118 तत्सम्बन्धीति । तेषां सर्वदेशावस्थितानां द्रव्याणां सामान्यस्य स्वभावः स एव तत्सम्बन्धिस्वभावमात्रम् । तदनुबध्नातीति तदनुबन्धिनी ।कासाव् इत्य् आह --- तद्देशसंनिहितस्वभावता । तेषां सम्बन्धिनां देशस् तद्देशः । तद्देशे संनिहितः स्वभावो यस्य तत् तद्देशसंनिहितस्वभावम्[740] । तस्य भावस् तत्ता । यस्य हि येषां सम्बन्धी स्वभावः तन्नियमेन तेषां देशे सन्निहितं भवति । ततस् तत्सम्बन्धित्वानुबन्धिनी तद्देशशंनिहितता सामान्यस्य ॥ __________नोतेस्__________
[740] अत्र मूले `तस्य भावः । तस्मात्ऽ इति पाठः कल्प्यः --- सं-
युगपद् एककालम् । चः पूर्वापेक्षया समुच्यये समवायेन सम्बन्धेन सम्बद्धत्वम् । एवम् अभिहिते कणादेन तच्छिष्येण पैलुकेनः । पीलवः परमाणवः । पीलुपाके चायम् पीलुशब्द उपचारासतास्त्त्येन (उपचारितो ऽस्ति । तेन) निमित्तेन ववहरतीति पैलुक । तेनाविवक्षिता ऽऽन्तरभेदस्य युगपत् सर्वसम्बन्धमात्र हेतुत्वाद् आकारशस्य दृष्टान्तरूपता द्रष्टव्या । न तु सामान्यस्येवास्य सम्बन्धिः समवायेन सम्बन्धः । संयोगलक्षणेनास्य सम्बन्धेन सम्बन्धात् ।
एतद् एवाभिप्रेत्य् --- आकाशम् अपीति । हीति यस्मात् । स्वसंयोगिभिर् इति वास्त्वानुवादः । न ॠइŭत्य् एतत् प्रकृताङ्गम् । दार्ष्टान्तिके ऽस्यानुपपत्तेः । चो ऽभिसम्बन्ध(न्ध्य)मानत्वेन सह सर्वगतत्वस्यैकविषयतां समुच्चिनोति ॥
द्रव्याणां गवादीनाम् । एतच् च गोत्वादिसमान्यविवक्षयोक्तम् । उपलक्षणं द्रव्यग्रहणं कर्त्तव्यम्, इतरथोत्क्षेपणत्वादिसामान्यस्यासङ्ग्रहः स्यात् ।
एतच् च तस्य भाव इत्य् एद् अन्तं सुगमम् ।
[741]तस्माद् इत्य् एनेनार्थागतं स्वभावहेतुत्वनिमित्तं दर्शयति । न तु तद् धितप्रत्ययान्ते पञ्चम्य् अस्ति यां व्याचक्षीत । अयं त्व् अस्यार्थः --- यस्माद् युगपत् सर्वदेशावस्थितसम्बन्धिसम्बन्धः स्वसत्तामात्रानुबन्धिनि साध्ये हेतुः, तस्मात् स्वभाव हेतुत्वम् अस्येति ।
__________नोतेस्__________
[741] -ते वासर्व-
ननु तत्सम्बन्धिनो ऽपि तद्देशसन्निहितस्वभावतैव कुतओ येनैवं भवतीत्य् आह --- यस्येति । हिर् यस्मात् । यतो ऽयं सामान्यन्यायः ततस् तस्मात् [76ब्] । यद् वा सर्वसम्बन्धित्वे ऽपि कस्मात्
[ध्प्र् 230]
ननु च गवां सम्बन्धी स्वामी । [742]न च गोदेशे सन्निहितस्वभावः । [743]तत् कथं [744]तत्सम्बन्धित्वात् तद्देशत्वम् इत्य् आह ---
__________नोतेस्__________
[742] न च तद्देशे सन्नि-; न च तद्देशस्ंन्नि- न्. [743] -भावः स्वामी [744] तत् कथं संबं-
न हि यो यत्र न अस्ति तद्देशम् आत्मना व्याप्नोति इति स्वभावहेतुप्रयोगः इइइ-119 न हीति । यो यत्र देशे नास्ति स देशो यस्य स तद्देशः तं न व्याप्नोत्यात्मना स्वरूपेण । इह सामान्यस्य तद्वतां च समवायलक्षणः [745]सम्बन्धः । स चाभिन्नदेशयो एव । [746]तेन यत्र यत् समवेतं [747]तत् [748]तदात्मी न रूपेण क्रोडीकुर्वत् [749]समवायिरूपदेशे स्वात्मानं निशेशयति ।
__________नोतेस्__________
[745] लक्षणसम्ब- [746] अनेन [747] कर्त्तृ --- टि- [748] समवायरूप- [749] समवायरूप-.
तद्देशसन्निहितस्वभावतेत्य् आह --- तस्माद् इति । तस्मात् तत्सम्बन्धिमात्रानुबन्धिनीति । तद्देशसन्निहितस्वभावता ऽऽकाशस्य दृष्ट तस्मात् कारणात् । यस्य वस्तुनस् तेषां (-नो येषां) सम्बन्धी स्वभावः । हिर् अवधारणे सम्बन्धीत्य् अस्मात् परो द्रष्टव्यः । तद् वस्तु नियमेनावश्यंतया तेषां सम्बन्धीनां देशे सन्निहितं भवति । यत एवं सामान्ययायस् ततस् । तस्माद् इति पाठे भावगतिः ।[750]कस्माद् इति तु क्वचित् पुस्तके पाठः । स तु युक्तरूपः । तत्सम्बन्धिस्वभावमावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावतेति स्वाख्या । कस्माद् एतद् इति । कारणाकाङ्क्षासम्बन्धात् । तदनन्तरं च यस्य हीत्यादेः सामान्योत्तरस्य, तत इत्यादेश् चोपसंहारव्यपदेशेन विशेषोत्तरस्य सुमो(यो)ज्यत्वाद् इति ।
__________नोतेस्__________
[750] अत्र मूले `तस्य भावः । कस्मात्?ऽ इति पाठः कप्यः --- सं-
यत्र तु तस्य भावस् तत्तेति पाठः तत्र सर्वम् अवदातम् ॥
ननु चैकदेशस्थम् एव सामान्यं युगपत् सर्वैः सम्बन्धिभिर् अभिसम्बन्त्स्यते । तत् किं तस्य व्यापारासम्भवेनावेदितेनेत्य् आह --- इहेति ।
स इति समवायः । चकारः पुनः शब्दस्यार्थे । अभिन्नदेशयोर् इति लोकप्रसिद्धदेशापेक्षयोक्तम् न तु शास्त्रप्रसिद्धदेशापेषयेति द्रष्टव्यम् । अन्यथा यदा (था पट)तन्तूनां समवायो न स्यात् । पटस्य तन्नथा(तन्तवो)देशः । तन्तूनां पुनर् अंशवः । सामान्यतद्वतोश् च न स्यात् । गोत्वसामान्यस्य गौर् देशः । गोश् च सास्नादयो ऽवयवा इति ।
अथ वा सामान्यलक्षणयुगा(योगा)पेक्षया अभिन्नदेशत्वं विवक्षितम् । न तु प्रत्येकापेक्षम् । तेनायम् अर्थः --- कुण्डबदरवद् यत्र द्वाव् अपि सम्बन्धिनौ भिन्नदेशौ न तयोः समवायः । ययोस् त्व् एकतरस्यान्यतरो देशस् तयो समवाय इति । एवञ् च पटतन्तूनां सामान्यतद्वतोश् च नासङ्ग्रह इति । येन कारणेनाभिन्नदेशयोर् एव सम्वायस् तेन प्रथमव्याख्याने समवायिरूपस्य समवायिस्वभावस्य देश इति । द्वितीयव्याखाने समवायिरूपम् एव समवायिस्वभाव एव देश इति विगृह्य तस्मिन्न् इति
[ध्प्र् 231] [751]तद्देशरूपनिवेशनम् एव तत्क्रोडीकरणम् । ततस् तत्समवायः । __________नोतेस्__________
[751] तद्देशे रूप तस्माद् यद् यत्र समवेतं [752]तत् तद्द्रव्यं व्याप्नुवदात्मना तद्देशे संन्निहितं भवति । __________नोतेस्__________
[752] तत् तत्र द्र- तद् अयम् अर्थः --- तद्देशस्थवस्तुव्यापनं तद्देशसत्तया व्याप्तम् । तद्देशत्ता ऽभावे[753] तद्व्यापनाभावाद् व्यापनलक्षणः समवायसम्बन्धो न स्यात् । अस्ति च व्यापनम् । ततस् तद्देशे सन्निहितत्वम् इति । तद् अयं स्वभावहेतुह् ॥ __________नोतेस्__________
[753] तद्देशअत्ताया आभावे
पैठरप्रयोगं दर्षयन्न् आह ---
द्वितीयो अपि प्रयोगः --- यद् उपलब्धिलक्षणप्राप्तं सन् न उपलभ्यते न तत् तत्र अस्ति । तद् यथा --- क्वचिद् अविद्यमानो घटः[754]। नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्व् इति । अयम् अनुपलम्भः[755]स्वभावश् च परस्परविरुद्धार्थसाधनाद् एकत्र संशयं जनयतः इइइ-120
__________नोतेस्__________
[754] घट इति [755] लम्भप्रयोगः स्व- द्वितीयो अपि --- इति । यद् उपलब्धिलक्षणप्राप्तं विषयतां प्राप्तं दृश्यम् इत्य् अर्थः । एतेन दृश्यानुपलब्धिम् अनूद्य `न [756]तत् तत्रास्तिऽ इत्य् असद् व्यवहार्यत्वं विहितम्[757] । ततो व्याप्यदृश्यानुपलब्धेर् व्यपकम् असद्व्यवहार्यत्वं दर्शितम् । तद् यथा, क्वचिद् अविद्यमानो घटः दृष्टान्तः । __________नोतेस्__________
[756] -नूद्य तत् तत्र; -नूद्य त(न) तत् तत्र; -नूद्य तत् तत् तत्र [757] व्यवहार्य्तं विहितम्
योज्यम् । उभयत्रापि तु समवाय(यि)शब्देनाधारो ऽभिप्रेतः । स्वात्मानं निवेशयत्य् उपनयति ।
ननु तद्व्यापनं तत्क्रोडीकरणम् अभिप्रेतम् । तत् कथं सम्बन्धिनि स्वात्मनि निवेशनं व्याख्यायत इत्य् आह --- तद्देश इति । स चासौ देशश् च तत्र रूपस्य स्वरूपस्य निवेशनम् उपनयनम् । ततस् तस्माद् तद्देशरूपनिवेशनात् तस्यः । सम्बन्धिनः समवायः । तस्माद् इत्यादिनोपसंहारः ।
ननु तद्व्यापनम् अपि भविष्यति, न च तद्देशसन्निहितस्वभावतेत्य् आशङ्क्याह --- तद् अयम् इति । यत आतमना तद्व्यापनलक्षणेन सम्बन्धेन तद्व्याप्यमानदेशसन्निधानम् उकतं तत् तस्माद् अयं तात्पर्यार्थः । स चासौ देशश् च तत्रस्थवस्तुव्यापनं लोकप्रसिद्धदेषापेक्षया तस्य देशस् तद्देशस् तत्र या सत्ता विद्यमानता तया व्याप्तम् । अन्यथा तु स्वरूपेण व्यापनासम्भवाद् इत्य् अभिप्रायः ।
तद् एव व्यतिरेकमुखेणोपपादयन्न् आह [77अ] --- तद्देशेति । नास्त्य् एवायं सम्बन्ध इति [चेद् आह ---] अस्ति चेति । चो ऽवधारणे । यत उक्तेन क्रमेण स्वभावलक्षणयोगो ऽस्यास्ति । तत् तस्माद् अयं युगपत् सर्वसम्बन्ध्यभिसम्बन्धलक्षाणो हेतुः स्वभावः ॥
[ध्प्र् 232] पक्षधर्मत्वं दर्शयितुम् आह --- न उपलभ्यते चेति । व्यक्त्यन्तरालम्[758] ---व्यक्त्यन्तरं च व्यक्तिशून्यम् चाकाशम् । दृश्यम् अपि कस्यांचिद् व्यक्तौ गोसामान्यम् अश्वादिषु व्यक्त्य् अन्तरेषु व्यक्तिशून्ये[759] चाकाशे [760]नोपलभ्यते । तस्मान् न तेष्व् अस्तीति गम्यते । __________नोतेस्__________
[758] व्यक्त्येर् अन्तरालम् [759] -रेषु शून्ये चाका- [760] चोपलभ्य-
अयम् अनुपलम्भः पूर्वोक्तश् च स्वभावश् [761]परस्परस्य विरुद्धौ याव् अर्थौ तयोः साधनाद् ताव् [762]एकस्मिन् धर्मणि संशयं जनयतः । न ह्य् एको ऽर्थः परस्परविरुद्धस्वभावो भवितुम् अर्हति । एकेन चात्र [763]व्यक्त्य् अन्तरेषु व्यक्तिशून्ये चाकाशे सत्त्वम्, अपरेण चानुपलम्भेनासत्त्वं साध्यते । न
__________नोतेस्__________
[761] परस्परविरु- [762] स्वभावेन --- टि- [763] व्यक्त्य् अन्तरेषु --- ओम्.
कणादस्यैवापरः शिष्यः पैठरस् तस्य प्रयोगम् । पिठरो ऽवयविद्रव्यम् । पूववद् उप्चाराति पिठरशब्दस् तेन व्यवहरतीति तथोक्तः । असदव्यवहार्यत्वम् असद् इति व्यवहारणियत्वं विहितम् । कस्याञ्चित् सास्नादिमत्यां व्याप्तौ(व्य्क्तौ) व्यज्यते सामान्यम् अनयेति व्यक्तिः । प्राग् उक्तस् तावत् स्वभावः, अयं तु किंसंज्ञको हेतुर् इत्य् आह --- अयम् इति । प्राग् उक्तं स्मारयति पूर्वेति । तुशब्दश् चशब्दस्यार्थे । ताव् एतौ हेतू धर्मिण्य् एकस्मिन् सामान्याख्ये । संशयं प्रकृतयोः साध्ययोर् इत्य् अर्थात् कथं संशयं जनयत इत्य् आह । एकस्यैव तौ विवक्षितसर्वगतत्वासर्वंगतत्वलक्षणौ स्वभावौ भविष्यत इत्य् आह --- न हीति । हिर् यस्मात् । परस्परविरुद्धौ स्वभावौ यस्येति तथा ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
