Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 8/11

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

धर्मोत्तरप्रदीप subcommentary on धर्मोत्तर's न्यायबिन्दुटीका on धर्मकीर्ति's न्यायबिन्दु

Tác giả
दुर्वेकमिश्र
Thông tin
GRETIL — Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[386] नाशं स्वयम् इच्छतीत्यादौ आत्मनो नाशम् इच्छतीत्य् अर्थः --- टि- [387] -स्यार्थेन युक्तः [388] प्रत्यासन्नभूतः यस्य [389] तृतीयार्थेन युक्तः [390] एव --- ओम्. [391] ननु पक्षस्यानुमेयस्य ॥ स्वरूपशब्देनेति सहार्थे तृतीया ।

[64ब्] उच्यते इति सिद्धान्तवादी ॥

यत् साधनत्वेनेष्टं तत् कथं साध्यत्वेनापीष्टं भवतीत्य् आह --- असिद्ध[त्वा]द् इति । चो यस्माद् । साध्यत्वेनेष्टो ऽपि यदा साधनत्वेनोक्तस् तदा ऽपक्ष इत्य् एवम् अर्थ एवशब्द इति समुदायार्थः ॥

[ध्प्र् 178]

कः पुनर् असौ वादीत्य् आह ---

यस् तदा साधनम् आह इइइ-43 यस् तदा --- इति वादकाले साधनम् आह । अनेकवादिसम्भवे ऽपि[392] स्वयंशब्दवाच्यस्य वादिनो विशेषणम् एतत् । __________नोतेस्__________

[392] -सम्भवे स्वयं

यद्य् एवं[393] वादिना इष्टः साध्यः --- इत्य् उक्तम् । एतेन च किम् उक्तेन? अनेन[394] तदा वादकाले तेन वादिना स्वयं यो धर्मः साधयितुम् इष्टः स एव साध्यो[395] नेतरो [396]धर्म इत्य् उक्तं भवति । वादिनो ऽनिष्टधर्मसाध्यत्वनिवर्त्तनम् अस्य वचनस्य फलम् इति यावत् ॥

__________नोतेस्__________

[393] यद्य् एव [394] अनेन च [395] साध्यो धर्मो नेतर इत्य् उक्तं [396] धर्म --- ओम्.

अथ कस्मिन् सत्य् अन्यधर्मसाध्यत्वस्य सम्भवो यन्निवृत्त्यर्हं [397]तद् वक्तव्यम् इत्य् आह ---

__________नोतेस्__________

[397] -अर्थं चेदं

एतेन यद्य् अपि क्वचिच् शास्त्रे स्थितः साधनम् आह, तच्छास्त्रकारेण तस्मिन् धर्मिण्य् अनेकधर्माभ्युपगमे ऽपि यस् तदा तेन वादिना[398]धर्मः स्वयं साधयितुम्

__________नोतेस्__________

[398] तेन स्वयं वादिना धर्मः साध-

तत् तस्माद् अर्थद्वयवृत्तित्वात् । इह पक्षलक्षणे स्वयंशब्दो गृहीत इति शेषः । तृतीयाप्रतिपाद्यो ऽर्थो ऽत्रैषणकर्त्तृत्वम् । आत्मना इष्ट इत्य् अत्र तृतीयायाः कर्त्तरि विधानात् ॥

anekavādisambhave 'pi śabdagatākāśaguṇatvādivādibhūyastve 'pi | bāditvaṃ ca yogyatayā | na tu tadā svparapakṣasiddhyasiddhyarthavacxanalakṣaṇavādapraṇetāraḥ | viśeṣaṇaṃ vyavacchedakam etad yastadāsādhanam ahet vacanam |

यद्य् एवम् इति प्ररः । अयं च निपातसमुदायो ऽनिष्टापादनप्रारम्भे वर्त्तते । इत्य्क्तम् अनेन वाक्येनेति शेषः ।

उच्यताम् एवं को दोष इत्य् आह --- एतेनेति । चशब्दो ऽपि शदस्यार्थे । शास्त्रकारेष्टम् अपि वादीष्टं भवति । तत् को ऽतिशयो ऽनेन प्रतिपादितिअ इति चेदयितुर् आशयः । अनेनेति सिद्धान्तआदी । अनेन यस् तदा साधनम् आहेति विशेषणावच्छिन्नेन स्वयंशब्देन ।

एतद् उक्तं भवति । यच्छास्त्राभ्युपगम् एत्नापि वादी क्वचित्साधनम् अभिधत्ते, तच्छास्त्रकारेण तत्र यावद् इष्टं तावच्चेत्तस्यसाध्यत्वेनेष्टं तद्ष्टम् इत्य् एव कृतं स्यात्, न तु स्वयम् इति । नेतर इति तच्छास्त्रकारेष्टो ऽम्बरगुणत्वाद् इति बुद्धिस्थम् । वादिन इति आद्यस्यैव व्यक्तीकरणम् ॥

[ध्प्र् 179]

इष्टः, स एव साध्यो न इतर इत्य् उक्तं भवति इइइ-44 तच्छास्त्रकारेणेति । यच्छास्त्रं तेन वादिना ऽभ्युअगतं तच्छास्त्रकारेण तस्मिन् साध्यधर्मिणि अनेकस्य [399]धर्मस्याभ्युपगमे सति अन्यधरमसाध्यत्वसम्भवः । तथा हि --- शास्त्रं येनाभ्युपगतं [400]तत्सिद्धो धरमः सर्व एव तेन साध्यत्य् इत्य् अस्ति विप्रतिपत्तिः । अनेनापास्यते । अनेकधर्माभुय्पगमे ऽपि सति स एव साध्ये यो वादिन इष्टो नान्य इति । __________नोतेस्__________

[399] अनेकधर्म- [400] तस्मिन् सिद्धो ननु च शास्त्रानपेक्षं [401]वस्तुबलप्रवृत्तं लिङ्गम् । अतो ऽनपेक्षणीयत्वान् न शास्त्रे स्थित्वा वादः कर्त्तव्यः । सत्यम् । आहोपुरुषिकया तु यद्य् अपि क्वचिच्छाष्त्रे स्थित इति किञ्चिच्छास्त्रम् अभ्युपगतः साधनम् आह, तथापि य एव तस्येष्टः स एव[402] साध्य[403] इति ज्ञापनायेदम् उक्तम् ॥ __________नोतेस्__________

[401] तादात्म्यतदुत्प्त्तेः --- टि- [402] स एव तस्य [403] साध्यत इति

इष्ट इतीष्टशब्दम् उपक्षिप्य व्याचष्टे ---

इष्ट इति यत्रार्थे विवादेन साधनम् उपन्यस्तं तस्य सिद्धिम् इच्छता सो [404]अनुक्तो अपि वचनेन साध्यः इइइ-45

__________नोतेस्__________

[404] सो ऽर्थो ऽनु- यत्रार्थ आत्मनि विरुद्धो वादःप्रक्रान्तः --- `नास्ति आत्माऽ --- इत्य् आत्मप्रतिषेधवाद आत्मसत्तावादविरुद्धः, विधिप्रतिषेधयोर् विरोधात् । तेन विवादेन हेतुना साधनम् उपन्यस्तं तस्यातामार्थस्य सिद्धिं निश्चयम् इच्छता वादिना सो ऽर्थः साध्य इत्य् उक्तं भवति इष्टशब्देन । यत् तद् `इत्य् उक्तं भवतिऽ इति ग्रहणम् अन्ते तद् इहापेक्ष्य वाक्यं [405]समापयितव्यम् । __________नोतेस्__________

[405] वाक्यं परिसमा- यद्य् अपि परार्थानुमान उक्त एव साध्यो उक्तः, अनुक्तो ऽपि [406]तु वचनेन साध्यः, सामर्थ्योक्तत्वात् तस्य ॥ __________नोतेस्__________

[406] तुशब्दस् तथापीत्य् अर्थे --- टि-

इत्य् अस्ति विप्रतिपत्तिर् न्यायविरुद्धा प्रतिपत्तिः केषाञ्चित् । अनेनात्मविशेषणेनापास्यते । अनेकेतियादिनोपसंहरति । अनेकधर्माभ्युपगमे ऽपि शास्त्रकारस्य तत्र धर्मिण्य् अनेकधर्मोपगमे सत्य् अपि । वादिन इत्य् आत्मन इति षष्ठ्यन्तस्यार्थे वृत्तं स्वयंशब्दम् उ[पा]दाय ।

आहोपुरुषिकया ऽभ्युपगत इति कर्त्तरीयं निष्ट्ःआ ॥

विरुद्धः परस्य चाभिप्रेतविपरीतार्थोपस्यापको वादः स्वपरपक्षयोः सिद्ध्यसिद्ध्यर्थं वचनम् । प्रक्रान्तः प्रवृत्तः । इत्य् उक्तं भवतीति नात्र श्रूयते तत् कथम् एवं व्याख्यायत इत्य् आह --- यत् तद् इति । लोकोक्तिश् चैषा । इहेष्टपदविवरणे । समापयितव्यं सङ्गतार्थं कर्त्तव्यम् ।

[ध्प्र् 180]

कुत एतद् इत्य् आह ---

तद् अधिकरणत्वाद् विवादस्य इइइ-46 [407]तद् इति सो ऽर्थो ऽधिकरणम् आश्रयो यस्य स तद् अधिकरणो विवादः । तस्य भावस् तत्त्वम् । तस्माद् इति । __________नोतेस्__________

[407] तद् इत्यादि तद् इति

एतद् उकतं भवति --- यस्माद् विवादं निराकर्त्तुम् इच्छता वादिना साधनम् उपन्यस्तं तस्माद् यदधिकरणं विवादस्य तद् एव साध्यम् । यतो विरुद्धं वादम् अपनेतुं साधनम् उपन्यस्तं तच् चेत् न साध्यं किम् इदानीं [408]जातिनियतं किंचित् साध्यं स्याद् इति ॥

__________नोतेस्__________

[408] जगति नियतम्

अनुक्तम् अपि परार्थानुमाने साध्यम् इष्टम् । [409]तद् उदाहरति ---

__________नोतेस्__________

[409] -इष्टम् उदारति; साध्यं दृष्टम् उदाह-

यथा परार्थाश् चक्षुरादयः संघातत्वाच् छयनासनाद्यङ्गवद् इति । [410]अत्रात्मार्था इत्य् अनुक्ताव् अप्य् आत्मार्थता साध्या । [411]तेन नोक्तमात्रम् एव साध्यम् इत्य् उक्तं भवति इइइ-47

__________नोतेस्__________

[410] इति । आत्मार्था इत्य् अनुत्था(क्ता)प्यात्मार्थता साध्यते तेन [411] साध्या । अनेन पराथा इति । चक्षुरादिर् येषां श्रोत्रादीनां ते[412] चक्षुरादय इति धर्मी । परस्मायिमे परार्था इति साध्यं पारार्थ्यम् । सङ्घातत्वाद् इति हेतुः । व्याप्तिविषयप्रदर्शनं [413]च शयनासनाद्यङ्गवद् इति । शयनम् आसनं च ते आदी[414] यस्य तच्छयनादि पुरुषोपभोगाङ्ग संघातरूपम् । तद्वद् अत्र [415]प्रमाणे यद् अप्य् आत्मार्थाश् चक्षुरादय इत्य् आत्मार्थता नोक्ता [416]अनुक्ताव् अप्य् आत्मार्थता साध्या । __________नोतेस्__________

[412] ते --- ओम्. [413] च --- ओम्. [414] आदिर् यस्य [415] तद्वद् अत्र यत् प्रमाणे [416] नोक्ताप्या-; अनुक्ताप्या

अनुक्तो ऽपि तु वचनेन । वचनेन साक्षाद् अभिधाव्यापारविषयत्वम् अनापादितो ऽपि । तुर् विशेषदीपने । साध्यः साध्य एव । कुत इत्य् आह --- सामर्थ्योक्तत्वात् तस्य बुद्धिस्थस्यात्मादेः ।

एतद् उक्तं भवति --- परार्थानुमाने उक्तो ऽर्थः साध्यः । उक्तश् च प्रकाशित उच्यते । प्रकाश्यमानता च साक्षाद् अभिधाव्यापारविषयतया च सामर्थ्यम्यतया च । उक्तम् (उक्तता) तु प्रकाशितताख्या द्वयोर् अप्य् अविशिष्टेति ॥

कुत एतद् इति सामर्थ्योक्तत्वम् इति हेतोर् आह वार्त्तककारः ।

[ध्प्र् 181] तथा हि --- सांख्येनोक्तम् --- अस्ति आत्मा । तद् विरुद्धं बौद्धेनोक्तं --- नास्त्यात्मेति । ततः साङ्ख्येन स्ववादविरुद्धं बौद्धवाद हेतूकृत्य विरूद्धवादनिराक्रणाय स्ववादप्रतिष्ठापनाय च साधनम् उपन्यस्तम् । अतो ऽनुक्ताव् अप्य् आत्मार्थता[417] साध्या, तद् [418]अधिकरणत्वाद् विवादस्य ।[419] शयनासनादिषु हि पुरुषोपभोगाङ्गेष्व् आत्मार्थत्वेनान्वयो[420] न प्रसिद्धः । सङ्घातत्वस्य [421]पारार्थ्यमात्रेण तु सिद्धः । ततः परार्था इत्य् उक्तम् । __________नोतेस्__________

[417] -नुक्ताप्या- [418] य आत्मप्रतिषेधवादो ऽधिकरणं यस्य --- टि- [419] शयनादिषु [420] -अर्थत्वेन प्रसिद्धः [421] परार्थमा-; परार्थादिषु चक्षुरादय इत्यादिग्रहणादिविज्ञानम् अपि[422] परार्थं साधयितुम् इष्टम् । विज्ञानाच् च पर आत्मैव स्यात् । __________नोतेस्__________

[422] बौद्धानां मते परमाणुरूपं ज्ञाणमतः साङ्घातरूपत्वम् --- टि-

[423]परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्याद् आत्मार्थत्वं सिध्यते चक्षुरादीनाम् इति मत्वा पराथग्रहणं कृतम् । [424]तेनेष्टसाध्यत्वचन्चन नोक्तमात्रम्, अपि तु प्रतिवादिनो विवादास्पदत्वाद् वादिनः[425] साधयितुम् इष्टम् --- उक्तम्, अनुक्तं वा प्रकरणगम्यं साध्यम् इत्य् उक्तं भवति॥

__________नोतेस्__________

[423] परस्य --- ओम्. [424] साध्यवच- [425] वादिना

यद्य् अपि तन्मूलो विवादस् तथापि अभिधाव्यापारविश्रामभूमिर् एवार्थः षध्यः । न चात्मादिर् विवादाधिकरणम् । तथाभूतस् तत् कथं साध्य इत्य् आशङ्क्याह --- एतद् उक्तं भवतीति । यद् आत्मादि अधिरकणम् आस्पदं विवादस्य --- अस्तीदं नास्तीदम् इत्य् आत्मकस्य प्ररस्परविरुद्धस्य वादस्य । अत्रोपप[65अ]त्तिम् आह --- यत इति । विरुद्धं स्वपक्षप्रत्यनीकं नास्तीदम् इति वादम् । तद् विरुद्धवादापनेतृहेतूपन्यासविषयं चेद् यदि न साध्यं न जिज्ञापयिषितम् इदानीम् एतस्मिन्न् अभ्युपगमे किं जातिनियतं साध्यत्वजातिनियतं जातिवशं किञ्चिद् वस्तु साध्यं स्याद् भवितुम् अर्हति । क्षेपे किमःप्रयोगान् न किञ्चिद् इत्य् अर्थो ऽवतिष्ठते ॥

अनुक्तम् अपि साक्षाद् अभिधाव्यापाराविषयो ऽपि । संहा(घा)तत्वाद् अनेकरूपत्वात् । कालविशेषानपेक्षं चैतद् द्रष्टव्यम् । तेन क्रमेण युगपद् वा संहतं तद् इति संहतरूपं विज्ञानम् अपि क्रमेणानेकरूपम् अतस् तत्रापि संहा(घा)तत्वं सिद्धिम् इति तद् अप्य् आदिशब्देन सङ्गृहीतं धर्मि कर्त्तव्यम् । अत एवानन्तरम् `अत्रादिशब्दाद् विज्ञानम् अपिऽ इति वक्ष्यते । अन्यथा तु चक्षुरादीनां विज्ञानलक्षणपरार्थतासिधाव् आ(अ)पि नाभिप्रेतं सांख्यस्य सिद्ध्येत् । अनुक्ताव् अप्य् अनभिधाने ऽपि तस्येत् अर्थात् । क्वचित् पुनर् अनुक्ताप्य् आत्मार्थतेति पाठः । तत्रार्जवेनै[व] सम्बन्धः । साधनोपन्यासाश्रत्वेन प्रकृतत्वात् तस्या इति भावः ।

तथा हीत्यादिनैतद् एव प्रतिपादयति । हेतूकृत्य निमित्तीकृत्य । चः फलसमुच्चये अनुक्ताव् अपीति पूर्ववद्वाच्यम् । यद्य् अय्ं तस्याभिप्रायस् तदा ऽऽत्मार्था इत्य् एव किं न ब्रवीतीत्य् आशङ्क्य येनाभिप्रायेणैवम् अवादीत्तं दर्शयितुम् आह --- शयनेति । हीर् यस्मादर्थः ।

[ध्प्र् 182]

अनिराकृत इति --- एतल्लक्षणयोगे अपि यः साधयितुम् इष्टो अप्य् अर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर् निराक्रियते, न स पक्ष[426]इति प्रदर्शनार्थम् इइइ-48

__________नोतेस्__________

[426] पक्षः दर्शन- अनिराकृत इति व्याख्येयम् । एतद् इति अनन्तरप्रकान्तं य पक्षणम् उत्कं साध्यतेनेष्टेत्यादि[427] --- एतल्लक्षणेन योगे ऽपि अप्य् अर्थो न पक्ष इति प्रदर्शनार्थम् [428]प्रतिपादनाय अनिराकृतग्रणं कृतम् । __________नोतेस्__________

[427] साध्यत्वेनेष्टत्वादि [428] प्रदर्शनाय कीदृशो ऽर्थो न पक्षः साधय्तुम् इष्टो ऽपीत्य् आह --- यः साधयितुम् इष्टो ऽर्थो --- प्रत्यक्षं चानुमानं च प्रतीतिश् च स्ववचनं च --- [429]एतैर् निराक्रियते --- विपरीतः साध्यते [430]न स पक्ष इति ॥ __________नोतेस्__________

[429] तैर् निर्- [430] साध्यते स न पक्ष

तत्र प्रत्यक्षनिराकृतो यथा, अश्रावणः शब्द इति इइइ-49 तत्रेति । तेषु चतुर्षु प्रतक्षादिनिरार्कृतेषु[431] प्रक्षनिर्राकृतः कीदृशः? यथेति । यथा ऽयं प्रत्यक्षनिराकृतस् तथाऽये ऽपि द्रटव्या इति यथाशब्दार्थः । __________नोतेस्__________

[431] -कृतेषु निर्- श्रवणेन ग्राह्यः श्रावणः । न श्रावणो ऽश्रावणः । श्रोत्रेण न ग्राह्य इति प्रतिज्ञार्थः । श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धेन [432]श्रोत्रग्राह्यत्वेन बध्यते ॥ __________नोतेस्__________

[432] श्रोत्रज्ञानग्राह्य- --- टि-

ननु चक्षुरादीनां विज्ञानलक्षणप्ररार्थता सेत्स्यति । तत् कथम् आत्मार्थतासिद्धिर् इत्य् आह चक्षुरादय इत्य् अत्रेति । तथापि कुतस् तत्सिद्धिर् इत्य् आह विज्ञानाच् चेति । चो यस्मात् । अथ विज्ञान्स्यापि धर्मित्वे कथम् आत्मार्थतासिद्धिर् इत्य् आशङ्क्य स्पष्टयितुम् आह --- परस्येति । सामर्थ्याद् आत्मार्थत्वं सिद्ध्यात् चक्षरादीनाम् इत्य् एवं मत्वा परार्थग्रहणं कृतं सांख्येनेति प्रस्तावात्, अध्याहारे वा, तेषां विज्ञानार्थताया अपि सम्भाव्यत्वात् । तत् सिद्धैकं सामर्थ्यम् इत्य् आशङ्क्य परस्येति योज्यम् ।

अर्थकारि प्रयोजनकारि विज्ञानम् अपीति द्रष्टव्यम् । सेत्स्यतीति ब्रुवतो ऽयं भावः । आदिशब्दाद् विज्ञास्यापि तथात्वे साध्ये विज्ञानं परार्थकारि सेत्स्यतीति । इतिर् हेतौ । अनेन सामर्थ्यं चक्षुरादीनाम् आत्मार्थतासिद्धौ दर्शितम् ।

तेनेत्य् अस्य मूलस्य व्याख्यानम् इष्टसाधन(साध्यत्व)वचनेनेति वादिनः साधयितुम् इच्छया विषयीकृतम् ।

तच् च द्वविधम् इति दर्शयन्न् आह --- उक्तम् इत्यादि । उक्तं साक्षाद् अभिधाविषयीकृतम् । तद् विपरीतम् अनुक्तम् । कथं तर्हि तत्साध्यम् इत्य् आह --- प्रकरणेति । प्रकरणेन साध्योपन्यासाश्रयतया प्रकृतत्वेन गम्यं प्रकाश्यं साध्यं साध्यम् एवेत्य् उक्तं भवति ॥

[ध्प्र् 183]

अनुमाननिराकृतो यथा --- नित्यः शब्द इति इइइ-50

[433]अनुमाननिराकृतो यथा[434] नित्यः शबद इति । शब्दस्य प्रतिज्ञातं नित्यत्वम् अनित्यत्वेनानुमानसिद्धेन निराक्रियते ॥

__________नोतेस्__________

[433] श्रवणेन्दिर्य प्रभवज्ञानेनेत्य् अर्थः --- टि- [434] यथा --- ओम्.

प्रतीतिनिराकृतो यथा --- अचन्द्रः शशी इति इइइ-51

प्रतीत्या निराकृतः अचन्द्र इति चन्द्रशब्दवाच्यो न भवति शशीति प्रतिज्ञातार्थः[435] । अयं च प्रतीया निराकृतः । पतीतो ऽर्थ उच्यते विकल्पविज्ञानविषयः । प्रतीतिः प्रतीतत्वं

__________नोतेस्__________

[435] पर्तिज्ञार्थः

एतल्लक्षणयोगे ऽपीत्य् अस्यार्थकथनम् इदम् एतल्लक्षणेन योगे ऽप्य् अर्थ इति ।

ननु च प्रत्यक्षादिभिर् निराक्रियते ऽपसार्यते इति किल मतम् । न चाक्षा(र्था)पसारणं प्रत्यक्षादिधर्मो ऽपि तु वस्तुव्यवस्थापनम् इत्य् आह --- विपरीत इति ॥

श्रूयते ऽनेनेति श्रवणं श्रोत्रेन्द्रयं तेन ग्राह्यः उपलब्धः । तज्ज्ञाणग्राह्यत्वाच् च तद्ग्राह्यत्वम् उक्तम् । नञा समासम् आह --- नेति । समस्तस्यार्थम् आह --- श्रोत्रेति । अयम् अस्याशयः --- अश्रावणः शब्दः --- श्रोत्रजे [65ब्] न ज्ञानेन नानुभूयत इति यः प्रतिजानीते तस्य सा प्रतिज्ञा श्रवणेन्द्रियजेन प्रत्यक्षेण शब्दालम्बनेन बाध्यते शब्दगता ऽप्रतिभासनविपरीतस्य तत्प्रतिभासनस्य तेनोपस्थापनाद् इति ।

एतेन तन् निर्कृतम्, यद् उद्द्योतकरेणोक्तम्[436]--- `अश्रावणः शब्द इति प्रत्यक्षविरुद्धोदाहरण वर्णयति । न प्रत्यक्षस्य विषयो ज्ञातो नानुमानस्य । किं कारणम्? इन्द्रियवृत्तीनाम् अतीन्द्रियत्वात् । श्रावणत्वञ् चेन्द्रियवृत्तिः । सा कथं प्रत्यक्षा भविष्यति? तस्माद् अनुमानविरुद्धस्योदाहरणम् इदम् । अनुष्णो वह्निः कृतक्ताद् इति प्रत्यक्षविरुद्धस्येति ।ऽ

__________नोतेस्__________

[436] न्यायवार्त्तिकं द्रष्टव्यम् --- 1,1,33, प्. 113.

न ह्य् अश्रावणशब्देन शब्दाख्ये विषये ज्ञानोत्पत्तौ श्रोत्रेन्द्रियस्य वृत्तेर् अभावो ऽभिमतो यस्य वादिनस् तम् प्रति शब्दविषयश्रवणेन्द्रियवृत्तेः प्रत्यक्षविरुद्धत्वात् प्रत्यक्षनिराकृतम् इदम् आचार्येनोक्तम्, येनोच्यते ऽतीन्द्रियेन्द्रियववृत्तिः कथं प्रत्यक्षा येनेदम् उदाहरणं संगच्छेतेति । किन् तर्हि? यः कश्चिद् व्यामोहमाहात्म्याद् यद् एतच् छ्रोत्रग्राह्यं रूपम् अद्वयं तन् नास्तीति प्रतीजानीते तं वादिविशेषं प्रतीति कथं न प्रत्यक्षविरुद्धोदाहरणम् इदम् इति ।

एतद् उक्तं भवति । शब्दो नास्तीत्य् एवं ब्रुवाणस्यास्ति प्रत्यक्षबाधा । केवलं विषयो निषेधो ऽनेकमार्गः । शब्दो नास्ति व्यापितया नित्यतयेत्यादि । तत्रासति श्रावणशब्दे सर्वस्यैव निषेधे प्रत्यक्षबाधा शङ्क्येत । श्रावणशब्देन तु श्रुतिमात्रग्राह्यम् एव यद्रूपं तन्निषेधे प्रत्यक्षबाधा न तु सामान्यधर्मनिषेध इति ख्याप्यत इति ॥

[ध्प्र् 184] विकल्पविज्ञानविषयत्वम् उच्यते । तेन विकल्पज्ञानेन[437] प्रतीतिरूपेण शशनश् चनद्रशब्दवाच्यत्वं सिद्धम् एव । तथा हि --- यद् विकल्पविज्ञानग्राह्यं[438] तच् छब्दाकारसंसर्गयोग्यम् । यच् छशदाकारसंसर्गयोग्यं तत् साङ्केतिकेन शब्देन वक्तुं शक्यम् । अतः प्रईतिरूपेण विकल्पविज्ञानविषयत्वेन सिद्धं चन्द्रशब्दवाच्यत्वम् अचन्द्रत्वस्य बाधकम् । स्वभावहेतुश् च प्रतीतिः । यस्माद् विकल्पविषयत्वमात्रानुबन्धिनी साङ्केतिकशब्दवाच्यता, ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वम् वाच्यत्वस्य बाधकं द्रटव्यम् ॥ __________नोतेस्__________

[437] विकल्पविज्ञानविषयत्वेन; विकल्पज्ञानविषय्त्वेन; विकल्पविज्ञानेन [438] यद् विकल्पज्ञान-; यज् ज्ञानग्राह्यं

प्रतीत्या विकल्पविज्ञानरूपेण विषयिणा विषयस्य निर्देशात् । एतद् एव दर्शयति प्रतीत इति । प्रतित उच्यते व्यवह्रियते, साक्षात् कृतस्याप्य् अजाताध्यवसायस्य तथाव्यवहाराभावाद् इति भावः । विषयिणा विषयगतो धर्म उक्त इति स्फुटयते प्रतीतिः प्रतीतत्वरूपेण पतीतत्वम् इति । तेन विकल्पज्ञानेनेति विकल्पविज्ञानविषयत्वेनेति ज्ञेयं प्रतीतरूपेण । तथा हीत्य् अनेनैतद् एवोपपादयति ।

भवतु शब्दाकारसंसर्गयोग्यत्वम् । तच्छब्दवाच्यता तु कथम् इत्य् आह --- यद् इति । अत इत्यादिना पतीतेर् बाधकत्वं दर्शयति । अचन्द्रत्वस्याचन्द्रशब्दववाच्यत्वस्य । किं साधनसिद्धिम् इदं चन्द्रशब्दवाच्यत्वम् इत्य् आह --- स्वभावेति । स्वभावहेतुलक्षणं योजयन्न् आह --- यस्माद् इति । तत इत्यादिनोपसंहारः ।

एवं तु प्रयोगो द्रष्टव्यः --- यो ऽर्थो विकल्पविज्ञानविषयः स साङ्केतिकेन शब्देन वक्तुं शक्यः । यथा शाखादिमान् अर्थो वृक्षशबेन । विकल्पविज्ञानविषयश् च शशीति ।

इह केनचिच् छब्देन कस्यचिद् अभिधातुम् अशक्यत्वं वास्तवे प्रतिनियतार्थशब्दसम्बन्धे सति स्यात् । स चान्यत्र प्रतिषिद्धः । पारिशेष्याज् ज्ञानात्मन्य् आरूढस्यार्थस्य शब्दसम्बन्धः कर्त्तुं कस्य शक्यो यस् तेन शब्दाकारेण सह नैकस्मिन् ज्ञानेन संसृजुयते । अनियतार्थं च विज्ञानम् इति तदारूढो ऽर्थस् तदभिधानाकारसंसर्गयोग्य एव । तस्मात् तेन शब्देनाभिधातुम् अशक्यत्वम् अतदाकारसंसर्गयोगत्वेन व्याप्तम् । व्या[66अ]पकविरुद्धं च तदभिधानाकारसंसर्गयोग्यत्वम् । तेन च विकल्पविज्ञानविषयत्वं व्याप्तम् । तद् एवं विकल्पविज्ञानविषयत्वं तद्व्यापकविरूद्धव्याप्तत्वात् तेनापि विरुद्ध्यते । ततश् च तद्विरुद्धेन शक्यत्वेन व्याप्त इति स्वभावहेतुः । तस्माद् विकल्पविज्ञानविषयत्वम् एव प्रतीतिः प्रसिद्धिर् व्यवहारश् चोच्यते । अनया पतीत्या यत् साधितं शशिनश् चन्द्रशब्दवाच्यत्वं तत् स्वविरुद्धस्य तदनभिधेयत्वस्य बाधकं बह्वति । तेन प्रतीतेर् विकल्पविज्ञानलक्षणाया जातो धर्म इष्टशब्दाभिधेयत्वलक्षणस् तेनानभिधेयत्वस्य बाधनात् प्रतीतिबाधोच्यत इति परमार्थः ।

यद् वा प्रतीतेस् तथारूपाया जात एवेष्टशब्दाभिधेयत्वलक्षणो धर्मः प्रतीतिशब्देनोक्तः,

[ध्प्र् 185]

स्ववचननिराकृतो यथा --- नानुमानं प्रमाणम् इइइ-52 स्ववचनं प्रतिज्ञार्थस्यात्मीयो वाचकः शब्दः । तेन निराकृतः प्रतिज्ञार्थो न साध्यः । यथा नानुमानं प्रमाणम् --- इत्य् अत्र[439] अनुमान्स्य प्रामाण्यनिषेधः प्रतिज्ञार्थः । स[440] नानुमानं प्रमाणम् --- इत्य् अनेन स्ववाचकेन वाक्येन बाध्यते । वाक्यं हि एतत् प्रयुज्यमानं वक्तुः [441]शाब्दप्रत्ययस्य सदर्थत्वम् इष्टं सूचयते । तथा हि --- मद्वाक्याद् यो ऽर्थसम्प्रत्ययस् तवोत्पद्यते सो ऽसत्यार्थ इति दर्शयन् वाक्यम् एव नोच्चारयेद् वक्ता, वचनार्थश् चेद् अस्त्यः परेण ज्ञात्व्यो वचनम् अपार्थकम् । यो ऽपि हि सर्वं मिथ्या ब्रवीमीति[442] वक्ति सो ऽप्य् अस्य वाक्यस्य सत्यार्थत्वम् आदर्शयन्न् एव वाक्यम् उच्चारयति । यद्य् एतद् वाक्यं सत्यार्थम् आदर्शितम्, एवं वाक्यान्तराण्य् आत्मीयान्य् असत्यार्थानि दर्शितानि भवन्ति । [443]एतद् एव तु यद्य् अस्त्यार्थम्, अन्यान्यसत्यार्थानि न दर्शितानि भवन्ति । ततश् च न किञ्चिद् उच्चारणस्य फलम् इति नोच्चारयेत् । तस्माद् वाक्यप्रभवं वाक्यार्थालम्बनं विज्ञानं सत्यार्थं दर्शयन्न् एव वक्ता [444]वाक्यम् उच्चारयति । तथा[445] च सति बाह्यवस्तुनान्तरीयकं शब्दं दर्शयता शब्दजं विज्ञानं सत्यार्थं दर्शयितव्यम् । ततो बाह्यार्थकार्याच् छब्दाद् उत्पन्नं विज्ञानं सत्यार्थम् आद्र्शयता [446]कार्यलिङ्गजम् अनुमानं प्रमाणं शाब्दं दर्शितं भवति । __________नोतेस्__________

[439] प्रमाणम् । अत्र [440] स चानुमा- [441] शाब्दस्य प्रत्य्- [442] ब्रवीति वक्ति [443] `एतद् एवऽ इत्यादि `भवन्तिऽ इत्य् अन्तं सूत्रत्वेन मुद्रितम् । किन् तु नास्त्य् एतत् सूत्रम् --- सं- [444] अनुमानप्राआण्यनिषेधलक्षणम् --- टि- [445] यथा [446] आदर्शयिता

प्रतीतिमात्राद् एव सिधो यो ऽर्थः स इह बाधक इति दर्शयितुम् । एतच् च स्वभावहेतुत्वं कल्पितम् इष्टम्, न वास्तवम्, शशिनो विकल्पविज्ञानविषयत्वस्या ऽऽध्यवसानिकत्वात् । अन्यथा ऽनुमाननिराकृतान् नास्य पृथङ्निर्देशः स्याद् इति ॥

स्वशब्देनात्मवचनेन प्रकृतत्वात् साध्यस्यात्मा गृह्यत इति अभिप्रायेणाह --- प्रतिज्ञार्थस्यात्मीय इति । तेन निराकृत इति तदुपस्थापि तेनानुमानप्राणाण्येन निराकृत इति द्रष्टव्यम् । कथं निराक्रियत इत्य् आह --- वाक्यम् इति । यस्माद् एतद् वाक्यं प्रयुज्यमानं सद् वक्तुः शाब्दप्रत्ययस्य शब्दप्रभवस्य ज्ञानस्य सदर्थत्वं सत्यार्थ्वम् इष्टं सूचयति प्रकाशयति ।

प्रत्युक्तम् अपि कथं तथाकरोतीय् आह --- तथा हीति । नोच्चारयेद् उच्चारय्तुं नार्हति, अपार्थकत्वाद् इति बुद्धिस्थम् । वचनेत्यादिना त्व् एतद् एव व्यनक्ति --- न सर्वं वचनं प्रयुज्यमानं तथाकारि यथा सर्वं मिथ्या ब्रवीमीति वचनम् इत्य् आह --- यो ऽपीति । हिर् यस्मात् । यद्य् एतद् इत्यादि । भवतु वाक्यप्रभवं वाक्यार्थलम्बनं ज्ञानं सत्यार्थम्, तथापि कथम् अनुमानप्रमाण्यं वचनेनोपस्थाप्यते येनानुमानप्रामाण्यप्रतिषेधस् तद्वचनोपस्थापितानुमानप्रमाण्येन

[ध्प्र् 186] तस्मात् `नानुमानं प्रमाणम्ऽ --- इति ब्रुवता शाब्दस्य प्रत्ययस्यासन्न् अर्थो[447] ग्राह्य उत्कः । असदर्थत्वम् एव ह्य् अप्रामाण्यम् उच्यते, नान्यत् । शब्दोच्चारणसामर्थ्याच् चार्थाविनाभावी स्वशब्दो दर्शितः । तथा च [448]सन्न् अर्थो दर्शितः । [449]ततः [450]कल्पिताद् अर्थकार्याच् छब्दाच् [451]छाब्दप्रययार्थस्यानुमितं सत्त्वं प्रतिज्ञायमानसत्त्वं प्रतिबध्नाति । __________नोतेस्__________

[447] -स्यासन् ग्राह्य उक्तो [448] सन् नर्थो [449] `नानुमानं प्रमाणंऽ इत्य् अस्माच् छबाद्यो ऽथो बुध्यते तेन जनितो `नानुमानऽ इत्यादिकः शब्दः न प्रत्येष्यति नासित्को व्यभिचारात् --- टि- [450] अध्यारोपित- --- टि- [451] -छब्दप्र- तद् एवं स्ववचनानुमितेन सत्त्वेनासत्त्वं[452] बाध्यमानं स्ववचनेन बाधितम् उक्तम् इत्य् अयम् अत्रार्थः । __________नोतेस्__________

[452] वाच्यमानं अन्ये त्व् आहुः --- अभिप्रायकार्याच् छब्दाज् जातं ज्ञानम् अभिप्रायालम्बनम् । सदर्थम् इच्छतः शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यत इति । निराक्रियमाणः स्ववचननिराकृतो भवतीत्याशङ्क्याह --- तथा च सतीति --- शाब्दज्ञानस्य सत्यार्थत्वप्रतिपादनाभिप्रायेण वाक्योच्चारणप्रकारे सति । बाह्यवस्तुनानतरीयकं तदविनाभाविनं दर्शयता सत्यार्थं दर्शयितव्यं दर्शयितुं युज्यते शक्यत इत्य् अर्थः । यत एवं ततस् तस्मात् । बाह्यार्थकार्याद् इति सति भेदे तदुत्पत्त्यैव नान्तरीकत्वसम्भवाद् इति भावः । शाब्दम् इति प्रकृतत्वाज् ज्ञानं कार्यलिङ्गजं शब्दरूपकार्यलिङ्गजम् इति हेतुभावेन विशेषणम् अनुमानं प्रमाणं दर्शितं प्रकाशितं भवति ।

तस्माद् इत्यादिनोपसहरति ।

नन्व् अनुमानस्याऽसन् ग्राह्य इति युज्यते वक्तुम् । तत् किं शाब्दस्य प्रत्ययस्येत्य् उक्तम् इति चेत् । नैष दोषः । शाब्दस्यापि प्रययस्योक्तेन न्य्यायेनानुमानत्वात् । सर्वानुमानप्रामाण्यप्रतिषेधे चास्यापि प्रतिषिद्धत्वात् । अस्यैव चानुमानस्यानुमानप्रामाण्यप्रतिषेधलक्षणप्रतिज्ञार्थबाधकत्वाद् उपन्यासो युक्तरूपः ।

यद्य् एवम् अप्रामाण्यम् उक्तम् तच् च बाध्य[66ब्]त इति वक्तुं युज्यते । तत् किम् एवम् उक्तम् इत्य् आह --- असदर्थत्वम् इति । हीति यस्मात् । आस्ताम् असन् ग्राह्यो ऽभितः किम् अत इत्य् आह --- शब्देति । चो हेताव् अवधारणे वा । शब्दो ऽप्य् अतस् तथा दर्शितस् तथापि किम् आयातम् इत्य् आह --- तथा चेति शब्दस्य बाह्यार्थाविनाभाविप्रदर्शनप्रकारे सति सन्न् अर्थो ऽध्यवसेयो दर्शितः । सदर्थत्वं प्रामाण्यलक्षणं दर्शितम् इति यावत् । तस्य सदर्थत्वण् प्रदर्श्यतां बाधा तु कथम् इत्य् आह --- तत इति । शाब्दप्रत्ययस्य यो ऽर्थो ज्ञाप्यो ऽनुमानप्रामाण्यलक्षणस् तस्यानेनैव शब्दलिङ्गेनानुमानेनानुमितं सत्त्वं कर्त्तृ प्रतिज्ञायमानम् असदर्थम् अप्रामाण्यलक्षणं कर्मभूतं पतिबध्नाति । निराकरोतीति वक्त्व्ये प्रतिबध्नातीति ब्रुवाणः परमार्थतो ऽस्यावास्तवत्वान् न बाधा किन् त्व् एतदुपस्थापितेतरयोः परस्परप्रतिबन्ध इति सूचयति ।

[ध्प्र् 187] तद् अयुक्तम् । यत इह प्रतीतेः स्वभावहेतुत्वम्, स्ववचनस्य च कार्यहेतुत्वं कल्पितम् इष्टम् । न वास्तवम्[453] । अभिप्रायकार्यत्वं च वास्तवम् एव शब्दस्य । ततस् तद् इह न गृह्यते । __________नोतेस्__________

[453] वास्तवम् इति किञ् च । यथा --- अनुमानम् अनिच्छन्[454] वह्न्यव्यभिचारित्वं धूमस्य न प्रत्येति, तथा शब्दस्याप्य् अभिप्रायव्यभिचारित्वं न प्रत्येष्यति । बाह्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते । तन् न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । [455]अपि च, न स्वाभिप्रायनिवेदनाय शब्द उच्चार्यते, अपि तु [456]बाह्यसत्त्वप्रतिपादनाय, तस्माद् बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । ततः पूर्वकम् एव[457] व्याख्यातम् अनवद्यम्[458] ॥ __________नोतेस्__________

[454] अग्न्यव्य- [455] `अपि चऽ इति यस्मादर्थे ऽव्ययम् --- टि- । `अपि चऽ इत्य् आरभ्य `शब्दप्रयोगःऽ इत्य् अन्तः पाठो नास्ति । [456] बाह्यवस्तुसत्त्व- [457] पूर्वम् एव [458] व्याख्यानम्-

इति चत्वारः पक्षाभासा निराकृता भवन्ति इइइ-53 एवं[459] च सति --- अनिराकृतग्रहणेनान्तरोक्ताश् चत्वारः पक्षवदाभासन्त इति पक्षाभासा निरस्ता भवन्ति ॥ __________नोतेस्__________

[459] एवं सति

सम्पति पक्षलक्षणपदानि येषां व्यवच्छेदकानि तेषां व्यवछेदेन यादृशः [460]पक्षार्थो लभ्यते तं दर्शयितुं व्यवच्छेद्यान् संक्षिप्य दर्शयति ---

__________नोतेस्__________

[460] पक्षो

नन्व् अनुमानप्रामाण्यम् असत्त्वं बाधते न तु स्ववचनं तत् कथं स्ववचननिराकृतोदाहरणम् इदम् उक्तम् इत्य् आशङ्क्य स्ववचननिरार्कृत इत्य् अत्र यादृशो ऽर्थो विवक्षितस् तं दर्शयति तद् एवम् इति । अत्रेति स्ववचननिराकृते । यथानुमानं न प्रमाणम् इत्य् अत्र ।

स्वाभिप्रायेणैव व्याख्याय अन्ये त्व् इत्यादिना पूर्वव्याख्यानं दूषायितुम् आह । तुना स्वव्याख्यानाद् वैसदृश्यम् आह ।

न वास्तवम् इति ब्रुवतो यदीदं वास्तवम् अनुमानं स्यात् तदानुमाननिराकृतोदाहरणानन पृथग् उच्यतेइति । किञ् चेति वक्तव्यानतराभ्युच्चये । बाह्यवस्तुप्रत्यायनाय चेति चकारो ऽपि वक्तव्यान्तरसमुच्चये । यत एवं तत् तस्मात् । स्वस्योच्चारयितुम् अभिप्रायो वक्तुम् कामता, तद् अव्यभिचारित्वाभ्युपगमः पूर्वो यस्य तथा न भवति । पूर्वं बाह्यवस्तुप्रत्यायनायेत्य् अनेन सामर्थ्यान् न स्वाभिप्रायप्रत्यायनायेत्य् उकम् अपि स्फुटं दर्शयितुम् तन् न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्र्योग इत्य् अनेन सामर्थ्याद् बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वक इति दर्शितम् अपि साक्षाद् दर्शयितुम् अपि चेति पूर्वोक्तस्य वक्तव्यान्तर द्योतकस्य स्पष्टीकरणम् । यत्राप्य् असत्त्वप्रतिपादनाय शदः प्रयुज्यते तत्रापि विवक्षितसत्त्वविविक्तस्यान्यसत्त्वस्य प्रतिपादनाद् बाह्यसत्त्वप्रतिपादनायेत्य् उक्तम् । यद् वा सत्त्वग्रणस्योपलक्षणत्वाद्

[ध्प्र् 188]

[461]एवं सिद्धस्य, असिद्धस्यापि साधनत्वेन अभिमतस्य, स्वयं वादिना तदा साधयितुम् अनिष्टस्य, उक्तमात्रस्य निराकृतस्याच विपर्ययेण साध्यः । तेन एव स्वरूपेणाभिमतो वादिन इष्टो अनिराकृतः पक्ष इति पक्षलक्षणम् अनवद्यं[462]दर्शितं भवति इइइ-54

__________नोतेस्__________

[461] एवं --- ओम्. [462] लक्षणम् अवद्यं

एवम् --- इत्य् अनन्तरोक्तक्रमेण[463] । सिद्धस्य विपरियेण विपरीतत्वेन हेतुना साध्यो द्रष्टव्यः । यस्माद् अर्थात् सिद्धो ऽर्थो विपरीतः, स साध्य इत्य् आर्थः । सिद्धश् च विपरीतो ऽसिद्धस्य तस्माद् असिद्धः साध्यः । असिद्धो ऽपि न सर्वो ऽपि तु साधनत्वेनोक्तस्यासिद्धस्यापि विपर्ययेण । स्वयं वादिना साधयितुम् अनिष्टस्य असिद्धस्य विपर्ययेण । तथा उक्तमात्रस्य असिद्धस्यापि विपर्ययेण । तथा निराकृतस्यासिद्धयापि विपर्ययेण साध्यः ।

__________नोतेस्__________

[463] -रोक्तेन

यश् चायं पञ्चभिर् व्यवच्छेद्यै रहितो ऽर्थ ऽसिद्धो[464] ऽसाधनं वादिनः स्वयं साधयितुम् इष्ट उक्तो ऽनुक्तो वा प्रमाणैर् अनिराकृतः साध्यः, स एवासौ स्वरूपेणैव स्वयम् इष्टो ऽनिराकृत एतैः पदैर् उक्त इत्य् अर्थः । यश् चायं साध्यः स पक्ष [465]इति उच्यते । इतिशब्द एवम् अर्थे । एवं पक्षलक्षणम् अनवद्यम् इति । अविद्यमानम् अवद्यं दोषो यस्य तद् अनवद्यम् । दर्शितं कथितम् ।

__________नोतेस्__________

[464] `असिद्धोऽ इत्यादिपदानन्तरं संख्याङ्काः दत्ता वर्त्तन्ते --- सं- [465] `इतिऽ --- ओम्.

त्रिरूपलिङ्गाख्यानं परिसमापय्य[466] प्रसङ्गागतं च पक्षलक्षणम् अभिधाय हेत्वाभासान् वक्तुकामस् तेषां प्रस्तावं रचयति त्रिरूपेत्यादिना---

__________नोतेस्__________

[466] समाप्य

त्रिरूपलिङ्गाख्यानं परार्थानुमानम् इत्य् उक्तम् । तत्र त्रयाणां रूपाणाम् एकस्य अपि रूपस्य अनुक्तौ साधनाभासः इइइ-55

एतद् उक्तं भवति --- त्रिरूपलिङ्गं[467] वक्तुकामेन स्फुटं तद् वक्तव्यम् । एवं च तत् स्फुटम् उक्तं

__________नोतेस्__________

[467] लिङ्गाख्यानं वक्तु-

बाह्यसत्त्वप्रैत्पादनायेत्य् अपि द्रष्टव्यम् । सर्वथा न स्वाभिप्रायस्य सत्त्वम् असत्त्वं वा प्रत्पादयितुं शब्दप्रयोग्त इत्य् अने[न] हेतुम् । यत एवं ततस् तस्मात् पूर्वकम् एव यन् मया व्याख्यातम् अनवद्यम् अपगतदोषम् ॥

इति चत्वारः पक्षाभासा निराकृता भवन्तीति मूलं व्याचक्षाण आह --- एवम् इति ।

निरस्ता भवन्ति पक्षत्वेनेति प्रस्तावात् ॥

पक्ष इत्य् उच्यते व्यकतीक्रियत इति व्युत्पत्त्येति भावः ॥

ननु त्रिरूपलिङ्गाख्यानं प्रकृतम् उक्तम् एव । तत् किं हेत्वाभासाख्यानम् अप्रकृतं क्रियत

[ध्प्र् 189] भवति यदि तच् च, तत्प्रतिरूपकं[468] चोच्यते । हेयज्ञाने[469] हि तद्विविक्तम् उपादेयं सुज्ञातं भवतीति । त्रिरूपलिङ्गाख्यानं [470]परार्थम् अनुमानम्ऽ [3.1.] इति प्राग् उक्तम् । __________नोतेस्__________

[468] प्रतिरूपं बोध्यते; लिङ्गाभासम् --- टि- [469] हेयज्ञाते [470] परार्थानु

तत्रेति तस्मिन् सति । त्रिरूपलङ्गाख्याने[471] परार्थानुमाने स्तीत्य् अर्थः । त्रयाणाम् रूपाणां मध्य एकस्याप्य् अनुक्तौ । अपिशब्दाद् द्वयोर् अपि । साधनस्य आभास सदृशं साधनस्य्, न साधनम् इत्य् अर्थः । त्रयाणां रूपाणां न्यूनता नाम साधनदोषः ॥

__________नोतेस्__________

[471] परार्थे ऽनुमाने

उक्ताव् अप्य् असिद्धौ सन्देहे वा प्रतिपाद्यप्रतिपादकयोः इइइ-56 न केवलम् अनुक्त्वाव् उक्ताव् अप्य् असिद्धौ सन्देने वा । कस्येत्य् आह --- प्रतिपाद्यस्य प्रतिवादिनः, प्रतिपादकस्य चवादिनो हेत्वाभासः ॥ अथ [472]कस्यैकस्यारूपस्यासिद्धौ सन्देहे[473] वा किं संज्ञको हेत्वाभास इत्य् आह ---

__________नोतेस्__________

[472] कस्य रूप-; हेत्वाभासो ऽप्य् एकस्य रूप- [473] सन्देहे वाक्यं सं-

एकस्य रूपस्य धर्मिसम्बन्धस्य असिद्धौ सन्देहे[474]वा असिद्धो हेत्वाभासाः इइइ-57

__________नोतेस्__________

[474] सन्देहे चासिद्धो

इत्य् आशङ्क्य् आह --- एतद् उक्तं भवतीति । त्रिरूपलिङ्गाख्यानस्य स्फुटाभिधानार्थत्वं चोपलक्षणं तेन विप्रतिपत्तिनिराकरणार्थं चेति द्रष्टव्यम्, सन्दिग्धविपक्षव्यावृत्तिकत्वादोष(दिषु) विपरतिपत्तिदर्शनात् ।

सदृ[67अ]शं साधनस्येतिय् अर्थकथनम् एतद् । व्युत्पत्तिस् त्व् आभासनम् आभासः प्रतिभासः, साधनस्येवाभासः प्रतिभासो ऽस्येति तथा । न्युनता ऊनत्वम् अपूर्णता । कस्येत्य् आकाङ्क्षायाम् आह --- त्रयाणाम् इति । यस्माद् एकस्य द्वयोर् वा ऽनुक्तौ त्रीणि परिपूर्णं प्रतिपादितानि न भवन्ति तस्मात् त्रयाणाम् न्यूनतेत्य् अर्थः ।

ननु हीनाङ्गत्वं न साधनदोषः । विद्यमाने ऽपि हि रूपत्रये द्वयोर् एकस्य वा वक्त्रा ऽनभिधाने सति न्यनतायाः सम्भवात् । तत् कथं वक्तृदोषः साधनदोष इत्य् उच्यत इति चेत् । सत्यम्; केवलं नात्र साधनशब्देन लिङ्गम् अभिप्रेतम् । किं तर्हि? तत्प्रतिपादकं वाक्यं तस्य चापरिपूर्णता दोषो भवत्य् एव । वक्तृदोषस् तु निमित्त[म्] परिपूर्णताया इति किम् अवद्यम्?

एवम् उपलक्षणार्थत्वाद् अस्य यथा ऽन्यतम् एवापि रूपेणा हीनत्वान् न्यूनता साधनदोषस् तथा हेतूवचनाद् वादिना निग्रहो विवक्षित इत्य् अपीति ॥

प्रतिपाद्यस्येतादिना प्रतिपाद्यप्रतिपादकशब्दयोर् एवार्थं व्याचष्टे ।

आचार्यस्यस् तु प्रतिपाद्यस्य प्रतिपादकस्य च प्रतिपाद्यप्रपादकयोश् चेति व्यस्तसमस्तनिर्देशो ऽभिप्रेतः ।

[ध्प्र् 190] एकस्य रूपस्येति । धर्मिणा सह सम्बन्धः धर्मिन्सम्बन्धः । धर्मिणि सत्त्वं हेतोः । तस्य असिद्धौ सन्देहे वा असिद्धससञ्ज्ञको हेत्वाभासः । असिद्धत्वाद् एव च धर्मिण्य् अप्रतिपत्तिहेतुः । न साध्यस्य, न विरुद्धस्य, न संशयस्य हेतुर् अपि त्व् अप्रतिपत्तिहेतुः । न कस्य्चिद् अतः प्रतिपत्तिर् इति कृत्वा । अयं चार्थो ऽसिद्धसम्ज्ञाकरणाद् एव प्रतिपत्तव्यः ॥ उदाहरणाम् आह ---

यथा, अनित्यः शब्द इति साध्ये चाक्षुषत्वम् उभयासिद्धम् इइइ-58 यथेत्यादि । [475]अनित्यः शब्द इत्य् अनित्यत्वविशिष्टे शब्दे साध्ये चाक्षुषत्वं चक्षुर्ग्राह्यत्वं शब्दे [476]द्वयोर् अपि वादिप्रतिवादिनोर् असिद्धम् ॥ __________नोतेस्__________

[475] नित्यः [476] द्वयोर् द्वयोर् अपि

चेतनास् तरव इति साध्ये सर्वत्वगपहरणे मरणं[477]प्रतिवाद्यसिद्धम्, विज्ञानेन्द्रियायुर् निरोधलक्षणस्य मरणस्य[478]अनेन अभ्युपगमात्, तस्य च तरुष्व् असम्भवात् इइइ-59

__________नोतेस्__________

[477] मरणाद् इति प्रति- [478] -स्यानेन मरणस्याभ्यु- चेतनास् तरव इति तरूणां चैतन्ये साध्ये । सर्वा त्वक् सर्वत्वक् । तस्य अपहरणे सति मरणं दिगम्बरैर् उपन्यस्तं प्रतिबादिनो बौद्धस्यासिद्धम् । कस्माद् असिद्ध इत्य् आह ---विज्ञानं च इन्द्रियं चायुश् चेति द्वद्वः[479] । तत्र विज्ञानं[480] चक्षुरादिजनितम्[481] । रूपादिविज्ञानोत्पत्त्या यद् अनुमितं [482]कायान्तर्भूतं चक्षुर्गोलकादिस्थितं[483] रूपं

__________नोतेस्__________

[479] चायुश् च रूपा-; चायुश् च तत्र; [480] विज्ञानचक्षु- [481] जयित; चक्षुरादिविज्ञानं रूपा-; चक्षुरादिज्ञानम् रूपा- [482] कार्यान्त [483] स्थितरूपम्

अयं हेत्वाभासः कीदृशीं प्रतिपत्तिं प्रसूत इत्य् आह --- असिद्धत्वाद् एवेति । तुशब्दार्थश् चकारः । कथम् एतत् प्राप्यत इत्य् आह --- अयञ् चेति । चो यस्मादर्थे । कस्याश्चिद् अपि प्रतिपत्तेर् हेतुतया न सिद्ध इति असिद्ध उक्त इत्य् अभिप्रायः ॥

द्वयोर् अपि वादिप्रतिवादिनोर् असिद्धम् अनिश्चतम् । अनेन व्यधिकरणासिद्धो ऽप्य् उक्तो द्रष्टव्यः । यथा राज्ञो ऽयं प्रासादः, काकस्य कार्ष्ण्याद् इति । तस्यापि कार्ष्ण्यस्य प्रासादे धर्मिणि उभयोर् असिद्धत्वात्, केवलं तत्रासिद्धो ऽप्य् अर्थधर्मिगतत्वेनोपादानात् तथा व्यपदिश्यते ।

ननु व्यधिकरणम् अपि लिङ्गं गमकं दृष्टम् । यथा प्रत्यग्रशरावदर्शनं भ्रान्तिम[त्]प्रत्यग्रशरावत्वस्य भ्रान्तिमच्चक्रवत्त्वे । अस्य च हेतुत्वाद् । देश एव हि धर्मी अविदूरकुलालसम्बन्धित्वं साध्यम् तस्य च धर्मिणः प्रत्य्ग्रशरावसम्बन्धित्वं भ्रानिमच्चक्रसम्बन्धित्वञ् च धर्मो भवत्य् एव । न त्व् अत्र कुलालस्य धर्मिणः सद्भावः साध्यते, येनैव तद् उच्येतेति ।

तथा, विशेषणासिद्धविशेष्यासिद्धाव् अप्य् अनेनैवोक्तौ द्रष्टव्यौ । यथाऽनित्यः शब्दो ऽनभिधेयत्वे

[ध्प्र् 191] तद् इन्द्रियम् । आयुर् इति लोके प्राणा [484]उच्यन्ते । न चागमसिद्धम् इह युज्यते वक्तुम् । अतः [485]प्राणस्वभावम् आयुर् इह । तेषां निरोधो निवृत्तिः । स लक्षणं तत्त्वं यस्य तत् तथोक्तम् । तथाभूतस्य मरणस्य अनेन बौद्धेन पर्तिज्ञातत्वात् । __________नोतेस्__________

[484] उच्यते [485] प्रमाणस्व- यदि नामैवं तथापि कथम् असिद्धम् इत्य् आह --- तस्य च विज्ञानादिनिरोधात्मकस्य [486]तरुष्व् असम्भआत् । सत्तापूर्वको निरोधः । ततश् च यो विज्ञाननिरोधं तरुष्व् इच्छेत् स कथं विज्ञानं नेच्छेत् । तस्माद् विज्ञानानिष्टेर् निरोधो ऽपि नेष्ट्स् तरुषु । __________नोतेस्__________

[486] तरुष्वभावात् ननु च शोषो ऽपि मरणम् उच्यते । स च तरुषु सिद्धः । सत्यम् । केवलं विज्ञानसत्तया [487]व्याप्तं यत् मरणं तद् इह हेतुः । विज्ञाननिरोधश् च तत्सत्तया व्याप्तः, न शोषमात्रम् । ततो[488] यन् मरणं[489] हेतुस् तत् तरुष्व् असिद्धम् । यत् तु[490] सिद्धं शोषात्मकं तद् अहेतुः । __________नोतेस्__________

[487] सत्ताया [488] तत्र [489] मरणहेतुः [490] यच् च

दिगम्बरस् तु साध्येन [491]व्याप्तम् अव्याप्तं[492] वा मरणाम् अविविच्य मरणमात्रं हेतुम् आह । तद् अस्य वादिनो हेतुभूतं[493] मरणं न ज्ञातम् । अज्ञानात् सिद्धं शोषरूपम्, शोषरूपस्य मरणस्य तरुषु दर्शनात् । प्रतिवादिनस् तु ज्ञातम् अतो ऽसिद्धम् । यदा तु वादिनो ऽपि ज्ञातं तदा वादिनो ऽप्य् असिद्धं स्याद् इति न्यायः ॥

__________नोतेस्__________

[491] विज्ञानेन्द्रियायुर् निरोधलक्षणम् --- टि- [492] शोषलक्षणम् [493] हेतुज्ञात्ततम्; विज्ञानेन्द्रियायुर् निरोधलक्षणम् --- टि-

सति प्रमेयत्वात् । अनित्यः शब्दः प्रमेयत्वे सति अनभिधेयत्वाद् इति विशेषणविशिष्टस्य रूपस्य तत्र धर्मिणि द्वयोर् अपि वादिप्रतिवादिनोर् असिद्धत्वात् । केवलं तत्रासिद्धो विशेषणविशिष्टतयोपात्तस्य रूपस्य तथा ऽसिद्धेस् तथा तथा व्यपदिश्यत इति ॥

चेतना इति । चेतयन्त इति चेतनाः । दिश एवाम्वरं येषाम् इति व्युप्तत्त्या दिगम्बराः क्षपणका उच्यन्ते । तैः किम् प्रमाणसमधिगतम् इन्द्रियम् इत्य् आह --- रूपादीति । सत्स्व् अन्येषु कारणेष्व् अव्यापृते चक्षुरादौ रूपादिज्ञानम् अनुत्पद्यमानं स्वोत्पत्तौ कारणा[67ब्]न्तरम् अपेक्षणीयं सूचयति । प्रणिहिते तु चक्षुरादौ जायमानं तत्रस्थं तत् किम् अपि कारणम् अस्तीति ख्यापयति । अत एवाह --- कायान्तर्भूतं कायाश्रितम् । सामान्येनोक्तं कायाश्रितत्वम् । विशिष्टज्ञानाभिप्रायेनोक्तं विशिष्टाश्रयाश्रितत्वं दर्शयति चक्षुर् इति । आदिशब्देन रसनादिपरिग्रहः । प्रसन्नार्थादेर् अपि सद्भावान् न गोलकादिर् एवेन्द्रियम् इति भावः । किम् आयुर् इत्य् आह --- आयुर् इति आयुःशब्देनेत्य् अर्थः । लोके व्यवहर्त्तरि जने प्राणो ऽन्तरः शरीरे रसमलधातूनां प्रेरणादिहेतुर् एकः सन् क्रियाभेदोद्(-भेदाद्) अपानादिसम्ज्ञां लभत इति तत् तद् अवस्थाविवक्षया प्रणा इति बहुवचनम् ।

नन्व् आगमे जीवितेन्द्रियम् आयुर् इत्य् उक्तम् । तत् किम् एवं व्याख्यायत इत्य् आह --- न चेति । चो ऽवधारणे हेतौ वा । यत एवम् अतः कारणात् । इह प्रमाणसिद्धवस्तूपदर्शनप्रस्तावे तथा

[ध्प्र् 192]

अचेतनाः सुखादय इति साध्ये उत्पत्तिमत्वं अनित्यत्वं[494]वा सांख्यस्य स्वयं वादिनो असिद्धम् इइइ-60

__________नोतेस्__________

[494] अनित्यं अचेतनाः सुखादय इति --- सुखम् आदिर् येषां दुःखादीनां ते सुधादयः । तेषाम् अचैतन्ये साध्ये उत्पत्तिमत्वं, अनित्यत्वं वा लिङ्गम् उपन्यस्तम् । य उत्पत्तिमन्तो ऽनित्या वा ते न चेतनाः । यथा रूपादयः । तथा चोत्पत्तिमन्तो ऽनित्या वा सुखाद्यस् तस्माद् अचेतनाः । चैतन्यं तु पुरुषस्य [495]स्वरूपम् । अत्र चोत्पत्तिमत्त्वम् अनित्यत्वं वा पर्यायेण हेतुर् न युगपत् । तच् च द्वयम् अपि सांख्यस्य वादिनो न सिद्धम् । परार्थो[496] हि हेतूपन्यासः । तेन यः परस्य सिद्धः स हेतुर् वक्तयः । परस्य चासत उत्पाद उत्पात्तिमत्त्वम्, सतश् च निरन्वयो विनाशो ऽनित्यत्वं सिद्धम् । तादृशं च द्वयम् अपि सांख्यस्यासिद्धम् । इहाप्य् अनित्यत्वोत्पत्तिमत्त्वसाधनाद् वादिनो ऽसिद्धम् । यदि त्व् अनित्यत्वोत्पत्तिमत्त्वयोः [497]प्रमाण्यं वादिनो [498]ज्ञातं स्याद् [499]तदा वादिनो ऽपि सिद्धं स्यात् । ततः प्रमाणापरिज्ञानाद् इदं वादिनो ऽसिद्धम् ॥ __________नोतेस्__________

[495] स्वं रूपम् [496] परार्थादिहे- [497] प्रमाणं [498] विज्ञानं [499] तदा --- ओम्.

संदिग्धासिद्धं दर्शयितुम् आह ---

तथा स्वयं तदाश्रयणस्य वा सन्देहे असिद्धः इइइ-61

स्वयम् इति हेतोर् आत्मनः सन्देहे ऽसिद्धः । तदारयणस्य [500]वेति --- तस्य हेतोर् आश्रयणम् --- आश्रीयते ऽसिमिन् हेतुर् इत्य् आश्रयणं हेतोर् व्यतिरिक्त आश्रयभूतः[501] साध्यधर्मी कथ्यते । तत्र हि

__________नोतेस्__________

[500] -स्य चेति [501] आश्रयभूतसा-

तस्यैव रूपस्य । विज्ञानसत्तया व्याप्तं यद् इति यस्मिन् मरणे ऽवश्यं प्रागासीद् विज्ञानम्, तद् विज्ञान्सत्तया व्याप्तम् उक्तम् । तच् च श्वासोष्मपरिस्पन्दादिविगमलक्षणम् । दिगम्बरस्यापि कथं सिद्धम् इत्य् आह --- अज्ञानाद् इति । चैतन्याव्यभिचारिणो मरणस्याज्ञानात् । अनेनैतद् आह --- यदि तेन साध्यव्याप्तं मरणं मरणशब्दमात्रसमतां बिभ्रतः शोषमात्राद् भेदेन विवेकितं स्यात् केवलम् अज्ञानात् तत्सिद्धम् उच्यत इति ।

एतद् एवाह --- यदा त्व् इति । एवम् उत्तरत्रापि द्रष्ट्व्यम् ।

सुखम् अनुकूलवेदनीयम् । आदिशब्दाद् इच्छाद्वेषादिपरिग्रहः । पुरुषस्य सांख्यपरिकल्पितस्यात्महण् । `पुरुषश् चेतयते बुद्धिर् अध्यवस्यातीतिऽ सिद्धान्तात् । सांख्यस्य संख्यया पञ्चविशतितत्त्वानीत्यन्या व्यवहरतीति सांख्यो योगरूढिश् चैषा, कपित एवतथोच्यते ।

ननूत्पत्तिमत्त्वं कृतकत्वम् वा स्वसिद्धम् एव तेनोपन्यसनीयम् उपन्यस्तं च । तत् कथं वाद्यसिद्धतेति आह --- परार्थो हीति । हिर् यस्मात् । परार्थः परप्रतिपत्तिप्रयोजनः । निरन्वयः सर्वथोच्छेदः ।

[ध्प्र् 193] हेतुर् वर्त्तमानो गमकत्वेनार्श्रीयते । तस्याश्रयणस्य सन्देहे सन्दिग्धः ॥ [502]आत्मना सन्दिह्यमानम् उदाहर्त्तुम् आह ---

__________नोतेस्__________

[502] स्वात्मना

यथा बाष्पादिभावेन सन्दिह्यमानो भूतसंघातो अग्निसिद्धाव् उपदिश्यमानः[503]सन्दिग्धासिद्धः इइइ-62

__________नोतेस्__________

[503] संदिग्धासिद्दः --- ओम्.

यथेति । बाष्प आदिर् यस्य स बास्पादिः । तद्भावेन बाष्पादित्वेन सदिह्यामानो भूतसंघात इति भूतानां पृथिव्यादीनां संघातःम् समूहः । अग्निसिद्धौ --- अग्निसिद्ध्यर्थं उपादीयमानो ऽसिद्धः । एतद् उक्तं भवति --- यदा धूमो ऽपि बाष्पादित्वेन संदिग्धो भवति तदा ऽसिद्धः, गमकरूपानिश्चयात् । धूमतया निश्चितो [504]वह्निजन्यत्वाद् गमकः । यदा तु संदिग्धस् तदा न गमक इत्य् असिद्धताख्यो दोषः ॥ __________नोतेस्__________

[504] वह्निकार्यत्वाद् गमकः

आश्रयणासिद्धम् उदाहरति ---

यथा इह निकुञ्जे[505]मयूरः केकायिताद् इति इइइ-63

__________नोतेस्__________

[505] निगुञ्जे यथेति । इह निकुञ्ज इति धर्मी । पर्वतोपरिभागेन तिर्यङ्निर्गतेन प्रच्छादितो भूमागो निकुञ्जः । मयूर इति साध्यम् । केकायिताद् इति हेतुः । केकायितं --- मयूरध्यनिः ॥ न तु विनष्टस्यापि सत्त्वरजस्तमोरूपेणानुगम इष्टः । न केवलं पूर्वम् एवेत्य् अपिशब्दः । अनित्यत्वोत्पत्तिमत्त्वयोर् यत् साधनं प्रमाणं तस्य(स्या ऽ)ज्ञानाद् अनित्यात् यदीत्यादिनैतद् एव द्रढयति ॥

स्वयम् इत्यात्मन इति षष्ठ्यन्तस्यानुवर्त्तते । हेतोश् च प्रकृतत्वाद् हेतोर् इति विवृणोति ।आश्रीयते साधनत्वेनोपादीयते अस्मिन्न् इति ॥

यस्यात्मनः सन्देहः स आत्मना सन्दिह्यमानो भवतीत्य् अभिप्रायेणाह --- आत्मना सन्दिह्यमानम् इति । आदिशब्देन नीहारादिपरिग्रहः ।

ननु यद्य् असौ परमार्थतो धूमस् तदा सन्देहे ऽपि किं न गमक इत्य् आह --- एतद् उक्तं भवतीति । किं तद् गमकं रूपं येनानिश्चित इत्य् आह --- वह्नीति । यदा त्व् इत्यादिनोक्तम् एव स्पष्टयति । तदा न गमक इति ब्रुवतश् चायम् आशयो विह्निजन्यत्वस्यैव गमकत्वनिबन्धनस्य तदा ऽनिश्चितत्वात् ।

एतेन सन्दिग्धविशेषणासिद्धः सन्दिग्धविशेष्यासिद्धश् चोक्तो द्रष्टव्यः [68अ] यथा षड्जादिसत्त्वसन्देहे मयूरशब्दो ऽयम् षड्जादिमत्त्वे सति अवर्णात्मकत्वात् । अवर्णात्मकत्वे सति

[ध्प्र् 194]

[506]कथम् अयम् आश्रयणासिद्ध इत्य् आह ---

__________नोतेस्__________

[506] कथमाश्र-

तदापातदेशविभ्रमे इइइ-64 तदापात[507] इति । तस्य केकायितस्यापात [508]आगमनं तस्य देशः स उच्यते यस्माद् देशाद् आगच्छति केकायितम् । तस्य विभ्रमे व्यामोहे सत्य् अयम् आश्रयणासिद्धः । निरन्तरेषृ बहुषु निकुञ्जेषु सत्सु यदा केकायितापातनिकुञ्जे[509] विभ्रमः --- किम् अस्मान् निकुज्ञात् केकायितमागतम् । आहोस्विद् अन्यस्माद् इति[510], [511]तदायम् आश्रयणासिद्ध इति ॥ __________नोतेस्__________

[507] तदघात [508] आगमः [509] केकायितापातविभ्रमः [510] आहोस्विद् अस्माद् इति [511] तादाश्रय-

धर्मिणो ऽसिद्धाव् अप्य् असिद्धत्वम् उदाहरति ---

धर्म्यसिद्धाव् अप्य् असिद्धः, यथा सर्वगत आत्मा इति साध्ये सर्वत्रोपलम्भमानगुणत्वम् इइइ-65

यथेति । सर्वसिमिन् गतः स्थितः सर्वगतो व्यापीति यावत् । व्यापित्व आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्वं लिङ्गम् । सर्वत्रदेश उपलभ्यमानाः सुखदुःखेच्छाद्वेषादयो गुणा यस्यात्मनस् तस्य भावस् तत्त्वम् । न गुणा गुणिनम् अन्तरेण वर्त्तन्ते । गुणाणां गुणीनि समव्यायात् । निष्क्रियश् चात्मा । ततश् च यदि व्यापी न भवेत् कथं दाक्षिणापथ उपलब्धाः सुखादयो मध्यदेश उप्लभ्येरन् । तस्मात् सर्वगत आत्मा ।

तद् इह बौद्धस्यात्मैव न सिद्धः, किम् उत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत् तस्येत्य् असिद्धौ[512] हेत्वाभासः । पूर्वम् आश्रयणसंदेहेन धर्मिणि संदेह उक्तः । संप्रति त्व् असिद्धो धर्म्य् उक्त इत्य् अननयोर् विशेषः ।

__________नोतेस्__________

[512] धर्मिति(णि) हेतोः सम्बन्धस्य सत्त्वस्येत्य् असिद्धौ --- टि-

षड्जादिमत्त्वाद् इति । उभयत्रापि विशेषणविशिष्टस्य रूपस्य वादिप्रतिवादिनोर् द्वयोर् अप्य् अनिश्चितत्वात् केवलं विशेषणसन्देहेन च विशेषणविशिष्टेन रूपेणासिद्ध इति तथा व्यपदिश्यत इति ॥

पर्वतोपरिभागेन तिर्यग्निर्गतेनेति च भूभाग इति चोपलक्षणं द्रष्टव्यम् । न तु तत्थाविध एव निकुञ्जः, पर्वतगह्वरदेशस्यैव निकुञ्जशब्दाभिलप्यत्वात् ॥

यस्माद् देशाद् आगच्छतीति वचनव्यक्त्या चोत्पन्नः शब्दश् चतुर्दिक्कं शब्दसन्तानं जनयति, स च जलतरङ्गन्यायेन श्रोत्रदेशम् आगतो गृहीत इति दर्शयति ॥

द्वेषादीत्य् अत्रादिग्रहणेन बुद्धिप्रयत्नादीनां ग्रहणाम् । "सामान्यवान् गुणः संयोगविभागयोर् अनपेक्षो न कारणं" इति गुणलक्षणयोगाद् गुणाः । समयायात् समवेतत्वात् । प्रतिषिद्धानां

[ध्प्र् 195] तद् एवम् एकस्य[513] रूपस्य [514]धर्मिसम्बद्धस्यासिद्धाव् असिद्धो हेत्वाभासः ॥

__________नोतेस्__________

[513] सर्वेष्व् अपि असिद्धेषु एकं रूपं पक्षधर्मत्वम् असिद्धम् --- टि- [514] धर्मिबद्ध-

तथा एकस्य रूपस्य असपक्षे असत्त्वस्य असिद्धाव् अनैकान्तिको हेत्वाभासः इइइ-66 [515]तथा अप्रस्यैकस्य रूपस्य [516]असपक्षे ऽसत्त्वाख्यस्यासिद्धाव् अनैकान्तिको हेत्वाभासः । __________नोतेस्__________

[515] तथा पर- [516] विपक्षे --- टि- एको ऽन्त एकान्तो निश्चयः । स प्रयोजनम् अस्येतैकान्तिकः[517] । नैकान्तिको ऽनैकान्तिकः । अयस्मान् न साध्यस्य न विपर्ययस्य निश्चयो ऽपि तु तद्विपरीतः संशयः । साध्येतरयोः संशयहेतुर् अनैकान्तिक उक्तः ॥ __________नोतेस्__________

[517] -अयैकान्तिकः

च न समवाय इति । निष्क्रियत्वं च क्रियाया मूर्त्तद्रव्यवृत्तित्वात्, आत्मनश् चामर्त्तत्वाद् इति सिद्धान्तस्थितेः ॥

किम् उतेति निपातः किम् पुनर् इत्य् अस्यार्थे वर्त्तते ॥

आश्रयणासिद्धधर्म्यसिद्धयोः कियान् भेद इत्य् आशङ्क्य भेदम् उपपादयन्न् आह --- पूर्वम् इति । अयम् अर्थः --- पूर्वं परमार्थतो विद्यमानो ऽपि हेत्वाधाररूपतया सन्देहाद् अनिश्चित इति तद् धर्म्यसिद्ध उक्तः । सम्प्रति तु सर्वथ्तैवासौ धर्मित्वेनासिद्ध उच्यत इति । धर्म्यसिद्ध एवाश्रयासिद्ध उच्यते इति । तेन नाश्रयासिद्धो नाम अन्यः प्रभेदः ।

अन्यथासिद्धस् त्व् असिद्ध एव न भवतीति न तस्यान्तर्भावश् चिन्त्यते । तथा ह्य् अन्यथासिद्ध इति को अर्थः? किम् अन्यथैव सिद्ध आहोस्वित् अन्यथा ऽपि सिद्धः? ननु यद्य् अन्यथैव, तदा जिज्ञापयिषितविपर्ययेणैव सिद्ध उपपन्नो नानेन प्रकारेणेति विरुद्ध एव । अथान्यथा ऽपि सिद्धः, तदैतस्माद् अन्येनापि प्रकारेण सिद्धो ऽयम् इत्य् अयम् अपि भविष्यति । न च साध्यम् इति सन्दिग्धविपक्षव्यावृत्तिर् अनैकान्तिक एवेति ॥

अनैकान्तिकशब्दस्य व्युप्तत्तिम् आह --- एक इति । एक इति ब्रुवन्न् एकस् तासौ (एकश्चासौ) साध्यलक्षणैकार्थविषयत्वाद् अन्तश्च कथावसानहेतुत्वाद् आकाङ्क्षोपशमहेतुत्वाद् वेति दर्शयति । समस्तं पदम् अर्थञ् चाह --- एकान्तो निश्चय इति । साध्येतरयोर् एकतरनिश्चयफल इत्य् अर्थः । तद्विरुद्धे चायं नञ् द्रष्टव्यः । यस्माद् इत्यादिनैतद् एव स्फुटयति । यस्माद् धेतोर् इत्य् अपादाने चेयं पञ्चमी । किन् तु तद्विपरीतो निश्चयविपरीतः यत्तदोर् नित्यम् अभिसम्बन्धात् स इति द्रष्टव्यम् । क्व सम्शय इत्य् आह --- साध्येति ।

यद् वा कथम् अनैकान्तिको भवतीत्य् आह --- यस्माद् इति हेतुपञ्चमी । ऐकान्तिकप्रतिषेधेनान्यः प्रतिपत्तिहेतुर् उक्तो नञेत्य् अभिप्रायेणाह --- संशयहेतुर् इति । तेन नासिद्धस्य तथात्वप्रसङ्गः । अथ वैकान्तनियतत्वाद् एक इत्य् अन्त इति च निश्चयः प्रोक्तः । तथा हि सर्वो ऽयं पदार्थभेद

[ध्प्र् 196]

तम् उदारहति ---

यथा शब्दस्य अनित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्र एकदेशे वा वर्तमानः इइइ-67 यथेत्यादिना । अनित्यत्वम् आदिर् यस्या ऽसौ[518] अनित्यत्वादिके धर्मः । आदिशब्दाद् अप्रयत्नानन्तरीयकत्वं प्रयत्नान्तरीयकत्वं [519]नित्यत्वं च परिगृह्यते । प्रमेयत्वम् आदिर् यस्य स प्रमेयत्वादिकः । आदिश्बदाद् अनित्यत्वम्, पुनर् अनित्यतम्, अमूर्त्तत्वं च [520]गृह्यते । शब्दस्य धर्मिणो ऽनित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मो ऽनैकान्तिकः । चतुर्णाम् अपि [521]हि विपक्षे ऽसत्त्वम् असिद्धम् । __________नोतेस्__________

[518] यस्य सो ऽनित्य- [519] नित्यत्वं --- ओम्. [520] गृह्यन्ते [521] हि --- ओम्. तथा हि --- अनित्यः शब्दः प्रमेयत्वात् [522]घटवद् आकाशवद् इति प्रमेयत्व्ं सपक्षविपक्षव्यापि । __________नोतेस्__________

[522] प्रमेयत्वात्, आकाशाशवत् घटवद् इति अप्रय्त्नानन्तरीयकः शब्दो ऽनित्यत्वात्, विद्युदाकाशवद् [523]घट्वच् च --- इत्य् अनित्यत्वं सपक्षैकदेशवृत्ति --- विद्युदादाव् अस्ति, नाकाशादौ; [524]विपक्षयापि --- [525]प्रयत्नानन्तरीके सर्वत्र भावात्[526] । __________नोतेस्__________

[523] काशघटव- [524] इत आरम्भ `नाकाशादौऽ पर्यन्तः पाठो नास्ति [525] -व्यापि सर्वत्र प्रयत्नानन्तरीयके भावात् [526] अनित्यत्वस्य --- टि- अनित्यत्वात् प्रयत्नानन्तरीयकः शदो घट्वद् विद्युदाकाशवच् च --- इत्य् अनित्यत्वं विपक्षैकदेशवर्त्ति --- विद्युदादाव् अस्ति नाकाशादौ । सपक्षव्यापि[527] सर्वत्र प्रयन्तानन्तरीयके भावात्[528] । __________नोतेस्__________

[527] -व्यापि सपक्षे सर्वत्र [528] साध्यैः सह क्रमात् योज्यते --- टि- नित्यः शब्दो ऽमूर्त्तत्वाद् आकाशपरमाणुवत्[529], कर्मघटवच् च । इत्य् अमूर्तत्वम् उभयैकदेशवृत्ति --- उभयोर् एकदेश आकाशे कर्मणि च वर्तते । परमाणौ तु सपक्षैकदेशे घटादौ च विपक्षैकदेशे न वर्तते । मूर्त्तत्वात् घटप्रमाणुप्रभृतीनाम् । __________नोतेस्__________

[529] नित्यत्वस्य --- टि- नित्यास् तु परमाण्वो[530] वैशेषिकैर् अभ्युपगम्यन्ते । ततः सपक्षान्तर्गताः । __________नोतेस्__________

[530] वैशेषिकैर् अप्य् अभ्युप-

एकस्मिन्ना(न्न)न्ते ऽवतिष्ठते --- नित्यो वा ऽनित्यो वेत्यादिरूएण । स प्रयोजनम् अस्य स तथा । न तथा ऽनैकान्तिकः ॥

विपक्षे ऽसत्त्वम् असिद्धं सर्वत्रेति द्रष्टव्यम् । [68ब्] "सद् अकारणवन् नित्यम्" [वै-सू-4.1.1.] इति नित्यलक्षणयोगान् नित्या इष्टाः परमाणवः ॥

[ध्प्र् 197] अस्य चतुर्विधस्य पक्षधर्मस्यासत्त्वम् असिद्धं विपक्षे । ततो ऽनैकान्तिकता ॥ तथा --- अस्य एव रूपस्य सन्देहे अप्य् अनैकान्तिक एव इइइ-68

यथा चास्य रूपस्यासिद्धाव् अनैकान्तिकस् तथा अस्यैव विपक्षे ऽसत्त्वाख्यस्य[531] रूपस्य संदेहे ऽनैकान्तिकः ॥

__________नोतेस्__________

[531] -ख्यरूपस्य

यथा असर्वज्ञः कश्चिद् विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षव्यावृत्तिकः इइइ-69 यथेति । असर्वज्ञ इत्य् असर्वज्ञत्वं साध्यम् । कशिअद् विवक्षित इति वक्तुर् अभिप्रतः पुरुषो धर्मी । रागा आदिर् यस्य द्वेषादेः स रागादिः । स यस्यास्ति स रागादिमान् इति द्वितीयं साध्यम् । [532]वाग्रहणं रागादिमत्त्वस्य पृथक् साध्यत्वख्यापनार्थम् । ततो ऽसर्वज्ञत्वे रागादिमत्त्वे वा[533] साध्ये प्रकृते वक्ट्र्त्वं --- वचनशक्तिस् तदादिर् यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मो ऽनैकान्तिकः । __________नोतेस्__________

[532] वेति ग्रह- [533] -मत्त्वे च साध्ये सन्दिग्धा[534] विपक्षा व्यावृत्तिर् यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः । तत्र वचनादेः सत्त्वम् असत्त्वं वा सन्दिग्धम् । अतो न ज्ञायते किं[535] वक्ता सर्वज्ञ उतासर्वज्ञ इत्य् अनैकान्तिकं वक्तृत्वम् । __________नोतेस्__________

[534] संदिग्धवि- [535] किं --- ओम्.

ननु च सर्वज्ञो वक्ता नोल्पलभ्यते तत् कथं वचनं सर्वज्ञे सन्दिग्धम्? अत एव

[536]`सर्वज्ञो वक्ता न उपलभ्यतेऽ इत्य् एवंप्रकारस्य अनुपलम्भस्य अदृश्यात्मविषयत्वेन[537]सन्देहहेतुत्वात् ।[538] ततो असर्वज्ञविपर्ययाद् वक्तृत्वादेर् व्यावृत्तिः सन्दिग्धा इइइ-70

__________नोतेस्__________

[536] सर्वत्रैकदेश् वा सर्वज्ञो [537] संदेहे हेतु- [538] -त्वाद् असर्व- `सर्वज्ञो वक्ता न उपलभ्यतेऽ इत्य् एवं प्रकारस्य --- [539]एवंजातीयस्यानुपलम्भस्य संदेहहेतुत्वात् । कुत इत्य् आह --- अदृश्य[540] आत्मा विषयो यस्य तस्य भावो ऽदृश्यात्मविषयत्वं तेन सन्देहहेतुत्वम् । __________नोतेस्__________

[539] -जातीयकस्य [540] -अदृश्यात्मा

द्वेषादेर् इत्यादिग्रहणेन मोहादेर् ग्रहणम् ॥

अत एवानुपलम्भमात्राद् एवेति सिद्धान्ती । अमुम् एवार्थं मूलेन संस्यन्दयन्न् आह --- सर्वज्ञ इति । तेनादृश्यविषयत्वेन हेतुना सन्देहहेतुत्वं सन्देहहेतुत्वाद् इति । हेतुपञ्चमीम् इदानीं व्याचष्टे --- यत इति ॥

[ध्प्र् 198] यतो ऽदृश्यविशेषयो ऽनुपलम्भः संदेहहेतुर्[541] न निश्चयहेतुस् ततो ऽसर्वज्ञविपक्षात् सर्वज्ञाद् वक्तृत्वादेर् व्यावृत्तिः संदिग्धा ॥ __________नोतेस्__________ [541] संशयहेतुर् नानुपलम्भात् [542]सर्ज्ञे वक्तृत्वम् असद् ब्रूमः । अपि तु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् । एतन् न[543] । __________नोतेस्__________

[542] -भात् संदिग्धे वक्तृ- [543] एतन् न --- ओम्.

वक्तृत्वसर्वज्ञत्वयोर् विरोधाभावाच् च यः सर्वज्ञः स वक्ता न भवतीत्य् अदर्शने ऽपि व्यतिरेको न सिध्यति, संदेहात् 71 वक्तृत्वसर्वज्ञत्वयोर् विरोधो नासिति । विरोधाभावाच् च कारणाद् व्यतिरेको न सिध्यति --- इति संबन्धः । व्याप्तिमन्तं व्यतिरेकं दर्श्यति --- यः सर्वज्ञः इति । साध्यभावरूपं सर्वज्ञत्वम् अनूद्य [544] `स वक्ता न भवतिऽ इति साधनस्य वकृत्वस्याभावो विधीयते । तेन साध्याभावः साधनाभावे नियतत्वात् [545]साधनाभावेन व्प्यात उक्त इति । व्याप्तिमानीदृशो व्यतिरेको विरोधे सति वक्तृत्वसर्वज्ञत्वयोः सिध्येत् । न चास्ति विरोधः । तस्मान् न सिध्यतीति[546] । कुत इत्य् आह --- संदेहात् । यतो विरोधाभावः, तस्मात् संदेहः । सन्देहाद् व्यतिरेकासिद्धः ॥

__________नोतेस्__________

[544] न स वक्ता भवति [545] साधर्म्यभावेन [546] सिध्यति । कुतः

कथं विरोधाभावः?

द्विविधो हि पदार्थानां विरोधः इइइ-72 [547]हीति यमाद् द्विविध एव विरोधो नान्यः, तस्मान् न वक्तृत्वसर्वज्ञत्वयोर् विरोधः ॥ __________नोतेस्__________

[547] हिर् यस्मादर्थेद्विवि-; हिर् यस्मात्

कः पुनर् असौ द्विविधो विरोध इत्य् आह ---

अविकलकारणस्य भवतो अन्यभावे अभावाद्[548][549]विरोधगतिः इइइ-73

__________नोतेस्__________

[548] भावः । अभा- [549] गतिर् इति अविकलकारणस्येति । अविकलानि समग्राणि कारणानि यस्य स तथोक्तः । यस्य कारणवैकल्याद् अभावो न तस्य केनचिद् अपि विरोधगतिः । तदर्थम् अविकलकारणग्रहणम्।ननु च यस्यापि कारणसाकल्यं तस्यापि निवृत्तिर् अशक्या केनचिद् अपि कर्त्तुम् । तत् कुतो विरोधगतिः? एवं तर्हि अविकलकारणस्यापि यत्कृतात् कारणवैकल्याद् अभावस् तेन विरोधगतिः । यस्येत्यदिनाविकालकारणस्य फलं वर्णयति । एवं तर्हीत्य् उत्तरम् । तर्हि तस्मिन् काले । एवं बोद्धव्यम् इत्य् अर्थः । अपि सम्भावनायाम् । न्यायबलाद् एवं सम्भावयाम इत्य् आर्थः । विरोधस्य गतिः प्रतिपत्तिः ।

[ध्प्र् 199]. तथा च सति यो यस्य विरुद्धः स तस्य किञ्चित् कर एव । तथा हि --- शीतस्पर्शस्य जनको भूत्वा शितस्पर्शान्तरजननशक्तिं प्रतिबध्नन् शीतस्पर्शस्य निवर्त्तको विरुद्धः । तस्माद् धेतुवैकल्यकारी विरुद्धो जनक एक निवर्त्त्य् अस्य । सहानवस्थानविरोधश् चायम् । ततो विरुद्धयोर् एकस्मिन्न् अपि क्षणे सहावस्थानं परिहर्त्तव्यम् । दूरस्थयोर् विरोधाभावाच् च निकट्स्थयोर् एव निवर्त्त्यनिवर्त्तकभावः । तस्माद् यो यस्य निर्वर्त्तकः स तं यदि परं तृतीये क्षणे निवर्त्तयति । प्रथमे क्षणे सन्निपतन्न् असमर्थवस्थाधानयोग्यो[550] भवति । द्वितीये विरुद्धम् असमर्थं करोति । तृतीये त्व् असमर्थे निवृत्ते तद्देशम् आक्रामति ।

__________नोतेस्__________

[550] स्थाधाने योग्यो; -स्थानयोग्यो तत्रालोको गतिधर्मा क्रमेण जलतरङ्गन्यायेन [551]देशम् [552]आक्रामन् यदा ऽन्धकारनिरन्तरम्[553] आलोकक्षणं जनयति तदा ऽऽलोकसमीपवर्त्तिनम् अन्धकारम् असमर्थं जनयति । ततो ऽसामर्थ्यं तस्य यस्य समीपवर्त्त्यालोकः । [554]असमर्थे निवृत्ते [555]तद्देशो जायत आलोक इत्य् एवं क्रमेणा ऽऽलोकेनान्धकारो ऽपनेयः । तथोष्णस्पर्शेन शीतस्पर्शो निवर्त्तनीयः । __________नोतेस्__________

[551] तद्देशमा- [552] आक्रामयन् [553] कारे निर्- [554] असमर्थ्ये, असामर्थ्ये [555] तादृशो

किम् अतः सिद्धम् इत्य् आह तथा चेति कारणवैकल्यकारिणो विरोधावगमप्रकारे सति । किञ्चित्करत्वम् एव तथा हीत्यादिना दर्शयति । यथा चास्य जनकत्वं तथानन्तरम् एव व्यक्तीकरिष्यते ।

ननु किं कतिपयक्षणसहितयोः पश्चान् निवर्त्त्यनिवर्त्तकभावेन विरोधो ऽथ वान्यथेत्य् आशङ्क्याह सहेति । चो यस्मात् ततस् तस्मात् । न केवलं बहुषु क्षणेष्व् इत्य् अपिशब्दः । सहावस्थानम् एकत्र स्थितिः । निकटावस्थानं तु न परिहर्त्तव्यम् इति बुद्धिस्थम् । परिहर्त्तव्यं नाङ्गीकर्त्तव्यम् । तयोर् एकस्मिन्न् अपि क्षणे सहस्थित्यभावात् कथम् एवम् अङ्गीक्रियते ? अत एव । न सहस्थितयोः पश्चाद् विरोध इति वा कृतम् अनेन ।

यद्य् एवं क्वचित् प्रदेशे वर्त्तमान आलोकस् त्रिलोकीव्यवस्थितानि तमांस्य् अनेनैव क्रमेणापनयेद् इति न क्वचित् तमांस्य् अवतिष्ठेरन्न् इत्य् आह --- निकटस्थयोर् इति ययोर् निवर्त्त्यनिवर्त्तकभावो दृष्टस् तयोर् निकटस्थयोर् एव न तु निकटस्थयोर् अवश्यं निवर्त्त्यनिवर्त्तकभाव इत्य् अस्यार्थो द्रष्टव्यः । तयोर् एव कथं तथाभाव इत्य् आशङ्कायां दूरस्थयोर् इति योज्यम् । चो ऽवधारणे । यतः किञ्चित्करस्यैव निवर्त्तकत्वंतस्माद् हेतोः परंप्रकृष्टं यथा भवति । एतद् एवोपपादयन्न् आह --- प्रथम इति सन्नियतन् निकटीभवन् निवर्त्तक इति प्रकरणात् । असमर्था चोपादेयक्षणनिर्माणे अशक्तावस्था यस्यान्धकारक्षणस्य तस्याधानम् उत्पादनम्, तत्र योग्यः समर्थो भवति । द्वितीये क्षणे इत्य् अनुवर्त्तते । विरुद्धम् अन्धकारसमर्थं सजातीयक्षणान्तरजननाक्षमं करोति । तृतीये क्षणे ऽसमर्थे तस्मिन्

[ध्प्र् 200] यदा त्व् आलोकस् तत्रैवान्धकारदेशे जन्यते तदा यतः क्षणाद् अन्धकारदेशस्यालोकस्य जनकः[556] क्षणः उत्पद्यते तत एवान्धकारो ऽन्धकारान्तरजननासमर्थ[557] उत्पन्नः । [558]ततो ऽसमर्थावस्थाजनकत्वम् एव निवर्त्तकत्वम् । __________नोतेस्__________

[556] जनकक्षणः [557] अन्धकारान्तरासर्थः; अन्धकारान्तराजननासर्थः [558] ततो ऽसामर्थ्याव- अतश् च यस्मिन् क्षणे जनकस् ततस् तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्रं निवर्त्तते । जन्यजकभावाच् च [559]सन्तान्योर् विरोधो न क्षणयोः । यद्य् अपि च न सन्तानो नाम वस्तु तथापि सन्तानिनो वस्तुभूताः । ततो ऽयं परमार्थः न क्षणयोर् विरोधः । अपि तु बहूनां

__________नोतेस्__________

[559] सन्तनयोः

वन्ध्यक्षणे निवृत्ते स्वरसतो निरुद्धे तद्देशं तस्यासमर्थक्षणस्य देशं स्थानम् आक्रामति, तद्देशो भवति निवर्त्तक इत्य् अर्थात् ।

इह कश्चिन् निवर्त्तक आलोको याम् एव दिशम् आक्रामति तद्दिग्वर्त्तिनम् एव स्वविरुद्धं गतिक्रमेणैव निवर्त्तयति । कश्चित् पुनर् विरुद्धावष्टब्ध एव देशे समुत्पन्नमात्र एवानेकदिग्वर्त्तिनं विरुद्धं झटिति निवर्त्तयति । तत्र न ज्ञायते कस्य कथं किञ्चित्करतया निवर्त्तकत्वम् इत्य् आह तत्रेति वाक्योपक्षेपे । देशम् अभिमतं स्थानम् आक्रामंस् तद्देशो भवन्न् आलोक इत्य् अर्थः । अन्धकारनिरन्तरम् अन्धकाराव्यवहितम् । आलोकसमीपवर्त्तिनम् इति तज्जन्यमानालोकसमीपवर्त्तिनम् । असमर्थम् अन्धकारान्तरजननाशक्तं जनयति। यत एवं ततस् तस्य जनकत्वम् । ततस् तस्मात् समीपवर्त्त्यालोक इति गतिधर्मेति द्रष्टव्यम् । असामर्थ्यं चोपादेयक्षणोपजननं प्रतीति प्रस्तावाद् अवसेयम् । असमर्थे तस्मिन्न् अन्धकारे निवृत्ते स्वरसतो विरुद्धे (निरुद्धे) सति । सो ऽसमर्थान्धकारक्षणदेशो देशो यस्य स तथा जायते आलोकः । इतिस् तस्मात् । एवम् अनन्तरोक्तेन क्रमेण परिपाट्या गतिधर्मालोकस् तद्देशाक्रमणाय सन्निपतन्न् असमर्थावस्थाधानयोग्यो भवति । द्वितीये क्षणे ऽसमर्थं जनयति । तृतीये तद्देशो जायत इत्य् अनन्तरोक्तः क्रमो विभज्य योजनीयः ।

अमुम् एव क्रमम् अन्यत्रादिशन्न् आह --- तथेति । यथा आलोकान्धकारयोर् निवर्त्त्यनिवर्त्तकभावस् तेन प्रकारेण उष्णस्पर्शेन गतिधर्मेण दृष्टान्तवशाद् द्रष्टव्यम् ।

गतिधर्मणस् तावद् आलोकस्यायं क्रमः । विरुद्धाक्रान्तदेशमध्योत्पन्नस्य कीदृश इत्य् आह यदेति । तुर् विशेषणार्थः । यतः क्षणाद् आलोकस्य जनकः क्षण उत्पद्यते । कीदृशस्यालोककणस्येत्य् आह अन्धकारेति । अन्धकारदेशस्य निवर्त्त्यान्धकारसम्बन्धी देशो यस्य स तथा तत एव तमोदेशालोकोत्पादक्षणयोर् एकसामग्र्यधीनताम् आह । यतो ऽन्धकारदेशालोकहेतूत्पादकस्य क्षणस्य वन्ध्यान्धकाराधायकत्वतो हेतोर् अविद्यमानं सजातीयजन्मनि सामर्थ्यं यस्या अवस्थाया अन्धकारसम्बन्धिन्याः सा तथा । तज्जनकत्वम् एवालोकस्येति प्रकरणात् ।

अत्रापि तृतीये क्षणे परं निवर्त्तकत्वम् इति दर्शयन्न् आह अतश् चेति । चो ऽवधारणे । अत्रापि प्रथमे क्षणे ऽन्धकारदेशालोकहेतूत्पादकः क्षणः समुद्भवन्न् एवान्धकारासमर्थावस्थातद्देशालोकहेतुजननयोग्यो

[ध्प्र् 201] क्षनानाम् । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति सन्तानयोर् निवर्त्त्यनिवर्त्तकत्वनिमित्ते च विरोधे स्थिते सर्वेषां परमाणूनां सत्य् अप्य् एकदेशावस्थानाभावे न विरोधः, इतरेतरसन्तानानिवर्त्तनात् तेषाम् । गतिधर्मा चालोको [560]यां दिशम् आक्रामति [561]तद्दिग्वर्त्तिनो विरोधिसन्तानान् निवर्त्तयति । ततो ऽपवरकैकदेशस्था प्रदीपप्रभा [562]ऽन्ध्कारनिकटवर्त्तिन्य् अपिनान्धकारंनिवर्त्तयति अन्धकाराक्रान्तायांदिश्य् आलोकक्षणान्तरजननासामर्थ्यात् । कारणासामर्थ्यहेतुत्वकृतं[563] सन्ताननिष्ठम् एव विरोधं दर्शयता [564]भवत इति कृतम् । भवतः प्रबन्धेन[565] प्रवत्तमानस्य [566]शीतस्पर्शसन्तानस्याभावो ऽन्यस्योष्णसन्तानस्य भावे सतीति । __________नोतेस्__________

[560] दिशं क्राम- [561] तद् विवर्त्तिनः [562] अन्धकारायाक्रान्तायां [563] हेतुकृतं [564] भवतेति [565] -न्धेन वर्त्त- [566] -स्य सन्तान-

भवति । द्वितीये ऽन्धकारदेशालोकोत्पादकक्षणविरुद्धान् अन्धकारान् असमर्थान् जनयति । तृतीये त्व् असमर्थेषु निवृत्तेषु तद्देश आलोको जायत इति प्रत्येतव्यम् । तथा शीताक्रान्तदेशमध्योत्पन्नेनोष्णस्पर्शेन स्थितधर्मणा तथैव शीतस्पर्शो निवर्त्तनीय इत्य् अपि द्रष्टव्यम् ।

ननु च येनालोकक्षणेन सन्निपति(पत)तान्धकारक्षणो ऽसमर्थो न तेन तद्देश आक्रम्यते । येन चाक्रम्यते न तेनासमर्थो जन्यते । तथा यो ऽन्धकारस् तत्सन्निपतनकालभावी नासौ तद्विरुद्धः । यश् चासमर्थस् तज्जन्मा सो ऽपि तज्जन्यत्वाद् अविरोधी । ये चानुत्पत्तिधर्माणस् ते ऽप्य् असत्त्वात् कथं तैर् विरुद्धा इत्य् आशङ्क्याह जन्यजनकभावाद् इति । चो ऽवधारणे सन्तानयोर् इत्य् अस्यानन्तरं द्रष्टव्यः ।

अयम् आशयः --- जन्यजनकभावविशेष एवायं निवर्त्त्यनिवर्त्तकभावः अर्वाग्दर्शी च न क्षणयोः कार्यकारणभावं विभावयितुं विभवति । अपि तु सन्तानयोस् ततो ऽन्धकारक्षणप्रबन्धम् एकत्वेनावसाय निवर्त्त्यं विरुद्धम् अध्यवस्य् आलोकक्षणप्रबन्धं चैकत्वेनाधिमच्य तद् विरोधिनम् अधिमुञ्चतीति ।

परमार्थदृष्ट्या चेदं क्षणोल्लेखेनाख्यायते । न तु लोकस्थित्याश्रयेण । न तर्हि परमार्थतो विरोध इति चेत् । किं वै कार्यकारणभावविशेष एवैवंविधो न विद्यते, येनैवं वक्तुम् अध्यवसितो भवान् इति ? एतच् चानन्तरम् एव निरूपयिष्यते ।

ननु न सन्तानिव्यतिरेकेण सन्तानो नामान्यः सम्भवी । तत् कथं द्वयोः सन्तानयोर् विरोध उच्यत इत्य् आह यद्य् अपीत्य् अनुमतौ । यतः सन्तानिनो वस्तुभूताः सन्ति ततो हेतोर् अयं वक्ष्यमाणकः । उपपत्तिम् आह यत इति । यस्माद् ग(शी)तक्षणप्रबन्धस्याभावान् निवृत्तिधर्मकत्वम् । तथा यतः सत्स्व् आलोके(क)क्षणेषु प्रवृत्ताप्य् अन्धकारक्षणान्(-णा) निवृत्तिधर्माणो भवन्तीति द्रष्टव्यम् । अन्धकारादिक्षणप्रबन्धस्य[567](आलोकादिक्षणप्रबन्धस्य) आलोकादिक्षणप्रबन्धेन सह विरोध इति प्रकरणार्थः ।

__________नोतेस्__________

[567] कोष्ठकान्तर्गतः पाठः व्यर्थः --- सं-

[ध्प्र् 202]

ये त्व् आहुर् न विरोधो वास्तव इति त इदं वक्तव्याः --- यथा न निष्पन्ने कार्ये कश्चिज् जन्यजनकभावो

यदि येन सह यस्यैकदेशास्थितिनं भवति तेन तस्य सहानवस्थानलक्षणो विरोधस् तर्हि सर्व एव परमाणवः सप्रतिघत्वाद् अन्योन्यदेशपरिहारेण वर्त्तन्त इति सर्वेषाम् एव परमाणूनाम् अयं विरोधः किन् न व्यवस्थाप्यत इत्य् आशङ्क्याह --- सन्तानयोर् इति । चो ऽवधारणे । हेतुम् आह --- इतरेतरेति । यतः सत्स्व् अपि तेषु सर्व एव सन्तानेन प्रवहन्ति ततः सन्तानानिवर्त्तनं तेषाम् ।

ननु यद्य् आलोकान्धकारयोर् निवर्त्त्यनिवर्त्तकभावेन विरोधस् तर्हि प्रदीपमल्लिकातलवर्त्त्य् एव वरकात्माण निवर्त्ती (?) अन्धकारस् तत्समीपवर्त्तिनालोकेन किन् न निवर्त्त्यत इत्य् आशङ्क्याह --- गतिधर्मेति । चो यस्मादर्थे । तद्दिग्वर्त्तिन एवेत्यर्थाद् द्रष्टव्यः । यतो यद्दिगभिमुखगतिर् आलोकस् तदाक्रम्यमाणदिग्वर्त्तिन एव विरोधिसन्तानान् निवर्त्तयति । ततस् तस्मात् कारणात् ।

कुतो न निवर्त्तयतीत्य् आह अन्धकारेति । अन्धकाराक्रान्तायाम् इत्य् अनेन दिशो ऽन्त(न्ध)काराक्रान्तत्वम् आलोकक्षणान्तराजननासामर्थ्यकारणं नोक्तम् । किन् तर्हि? वास्तवानुवादः कृतः । या सा दिग् अन्धकाराक्रान्ता दृश्यते तत्र तस्य तज्जननासामर्थ्याद् इत्य् अर्थः । अन्यथान्धकाराक्रान्तत्वम् एव तस्य न स्यात् । आलोकेन समीपवर्त्तिनान्धकारापनयासम्भवाद् इति कथम् एनं संगच्छेत ।

अयम् अत्र परमार्थः --- दृश्यते तावत् काचिद् अन्धकारमात्रा निकटस्थितेनाप्य् आलोकेनानिवर्त्तिता । दृश्यश् चान्यस्याववरकवर्त्तिनो ऽन्धकारप्रचयस्योच्छेदः । तस्माद् आलोकस्यालोकान्तरजननासामर्थ्यम् अन्यत्र तु सामर्थं तत्त्वचिन्तकैर् अचिन्त्यत्वात् प्रतीत्यसमुत्पादस्य कल्प्यत इति । अत एव ययोर् जन्यजनकभावेन निवर्त्त्यनिवर्त्तकभावो नास्ति तयोः प्रदीपमल्लिकादितलवर्त्त्यन्धकारतदासन्नालोकयोर् विरोधः । प्रायोवृत्त्या तु तौ विरोधेनावबुद्ध्येते । अत एव पूर्वं दूरस्थयोर् विरोधाभावाच् च निकटस्थयोर् एव निवर्त्त्यनिवर्त्तकभावः इत्य् उक्तम्, न तु निकटस्थयोर् निवर्त्त्यनिवर्त्तकभाव एव इति । सति निवर्त्त्यनिवर्त्तकत्वे निकटस्थयोर् एव न तु निकटस्थयोर् अवश्यं निवर्त्त्यनिवर्त्तकभावः इति च व्याख्यातम् एव ।

सम्प्रति जन्यजनकभावनिबन्धनं सन्तानगतम् एव च विरोधं स्वयं प्रतिपादितम् आचार्यस्याप्य् अभिप्रेतम् एतद् इति दर्शयन्न् आह कारणैर् इति (कारणेति) । कारणस्य निवर्त्तयितव्यस्य शीतस्पर्शादेर् असामर्थ्यं सजातीयक्षणनिर्माणे ऽशक्तत्वं तत्र यद् धेतुत्वं निवर्त्तकस्य तत्कृतं तत् प्रयुक्तम् । अत एव सन्ताननिष्ठं सन्ताने क्षणप्रबन्धे निष्ठा व्यवस्थाप्यतया पर्यवसानं यस्य तं दर्शयता प्रकाशयताचार्येणेत्य् अर्थात् ।

ये पुनः शान्तभद्रादयः "न तावद् आलोकादेर् उत्पन्नेनान्धकारादिना विरोधः, तस्यातीतत्वेनासत्त्वात् । न चोत्पित्सुना सह तस्याप्य् अनागततयासत्त्वात् । नापि वर्त्तमानेन तस्यापि तज्जन्मतयाविरोधित्वात् । तस्मान् न विरोधो नाम द्विष्ठः सम्बन्धो ऽस्ति । किन् तु काल्पनिक एव । अत एवाचार्येण विरोधगतिर् इत्य् अभिधायि । न तु विरोध" इति । इति व्याख्यातवन्तस् तान् वचनभङ्ग्या निराचिकीऋषुर् आह ये त्व् इति ।

[ध्प्र् 203] नाम [568]द्विष्ठो ऽस्ति । कारणपूर्विका तु कार्यवृत्तिः[569] । अतो वास्तव एव । तद्वत् न निवृत्ते वस्तुनि कश्चित् [570]द्विष्ठो नाम विरोधो ऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य [571]क्षाणातरजननासामर्थ्यम् । अतो[572] विरोधो ऽपि वास्तव एव ॥ __________नोतेस्__________

[568] दृष्टो ऽस्ति [569] कार्यप्रवृत्तिः [570] कश्चिद् इष्टो; कश्चिद् दृष्टो [571] क्षणान्तरासाम- [572] ततो

उदाहरणम् आह ---

शीतौष्णस्पर्शवत् इइइ-74 [573]शीतश् चोष्णशश् चताव् एव स्पर्शौ तयोर् इव । शितोष्णस्पर्शयोर् हि पूर्ववद् विरोधो योजनीयः ॥ __________नोतेस्__________

[573] शीतञ् चो-

द्व्तीयम् अपि विरोधं दर्शयितुम् आह ---

परस्परपरिहारस्थितलक्षणतया[574]वा[575]भावाभाववत् इइइ-75

__________नोतेस्__________

[574] वा--- ओम्. [575] वा भाववत् परस्परस्य[576] परिहारः परित्याग्स् तेन स्थितं लक्षणं रूपं ययोस् तद्भावः परपरप्रिहारस्थितलक्ष्णता तया[577] । __________नोतेस्__________

[576] परस्परं; परस्परपरि [577] तया --- ओम्.

इह यस्मिन् परिच्छिद्यमाने यद् व्यवच्छिद्यते तत् परिच्छिद्यमानम् अवच्छिद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम् । नीले च परिच्छिद्यमाने ताद्रूप्यप्रच्युतिर् अवच्छिद्यते, तदव्यवच्छेदे नीलापरिच्छेदप्रसङ्गात् । तस्माद् वस्तुनो भावाभावौ परस्परिहारेण स्थितरूअपौ । नीलात् तु यद् अन्यद् रुपं तन् नीलाभाव्यभिचारि । नीलस्य दृश्यस्य पीतादाव् उपलभ्यमाने ऽनुपलम्भाद्

कारणपूर्विका कारणत्वेनाभिमतपदार्थसत्तापूर्विका कार्यस्य कार्यत्वेनाभिमतस्य वृत्तिः प्रवृत्तिर् भाव इति यावत् । तुर् विशेषणार्थः । यत एवम् अतो हेतोर् वास्तवः पारमार्थिकः । अन्यथा कार्यकारणभावो ऽप्य् अवास्तवो ऽस्त्व् इति भावः ।

ननु किं कार्यकारणभावो ऽपि द्विष्ठः सम्बन्धः कश्चिद् इष्टो येनैवम् उच्यत इति चेत् । न । कारणपूर्विकायाः कार्यवृत्तेर् वास्तवत्वात् । इहापि तर्हि दहनादिनिमित्तं शीतस्पर्शादेर् जननासामर्थ्यं वास्तवम् अस्तु । न तु विरोधः सम्बन्ध इति चेत् । न । एतावतो ऽन्यस्मात् कार्यकारणभावाद् अस्य कार्यकारणभावस्य विशेषरूपत्वाभ्युपगमात् । अस्माभिर् अपीदृश एव कार्यकारणभावविशेषो विरोध इत्य् उच्यत इति कथम् अयम् अवास्तवः स्याद् इति ।

पूर्ववत् पूर्वोपदर्शितवत् ।

[ध्प्र् 204] अभावनिश्चियात् । यथा च नीलं[578] स्वाभावं परिहरति, [579]तद्वद् अभावाव्यभिचारि पीतादिकम् अपीति[580] । तथा च भावाभावयोः साक्षाद् विरोधः[581], वस्तुनोस् त्व् अन्योन्याभावाव्यभिचारित्वाद् विरोधः । __________नोतेस्__________

[578] नीलम् अभावं [579] तम् इव अभाववत् --- टि- [580] अपि । तथा [581] विरोधौ; साक्षाद्विरोधः कः कस्य कस्य चान्यत्राभावावसायः? यो नियताकारो ऽर्थः[582], तस्य । न त्व् अनियताकारः[583], क्षणीकत्वादिवत् । क्षणीकत्वं हि सर्वषां नीलादीनां स्वरूपात्मकम् । अतो न नियताकारम् । [584]यतः क्षणिकस्त्वपरिहारेण न किञ्चिद् दृश्यते । __________नोतेस्__________

[582] अर्थः, न तु [583] -कार्प् ऽर्थः क्ष- [584] अतः; `प्रत्यन्तरे यतः इतिऽ इति टिप्पणं वर्त्तते

ननु सर्वम् एव वस्तु सत्त्वरजस्तमोरूपेणैकम् इति कथम् अन्योन्यरूपपरित्याग इत्य् आह इहेति । यद् व्यवच्छिद्यते यत्र परिच्छिद्यते । अपरिच्छेदस्यैव व्यवच्छेदरूपत्वात् । अवच्छिद्यमानपरिहारेण व्यवच्छिद्यमानपरिहारेण स्थितं व्यवस्थितं रूपं स्वरूपं यस्य तत् तथा । किम् पुनर् इदं प्रसिद्धम् इत्य् आह नीलम् इति । चो यस्मात् । तद् एव रूपम् तद्रूपम्, तद्रूपम् एव ताद्रूप्यम् तस्य प्रच्युतिर् अभावो व्यवहर्त्तव्यैकरूपः प्रसज्यप्रतिषेधात्मा तुच्छरूपः । उपपत्तिम् आह --- तद्व्यवच्छेद इति । यत एवं तस्मात् कारणात् । यदि भावाभावयोर् विरोधः, न तर्हि नीलपीतयोः स स्याद् इत्य् आह नीलाद् इति । तुर् विशेषद्योतकः । अभावाव्यभिचारित्वम् एव साधयन्न् आह --- नीलस्येति । भवत्य् एवं नीलस्य पीतादाव् अभावः, न तु तत्परिहारेण तद् व्यवस्थितम् इत्य् आह यथेति । चो यस्मादर्थे । नीलं कर्तृ स्वाभावं स्वभावं (?) स च मानभावश् च (?) तं न व्यभिचरतीति तथा । एवं सति किं व्यवस्थितम् इत्य् आह तथा चेति नीलस्य साक्षात् स्वाभावपरिहारप्रकारे तदव्यभिचारित्वाद् अर्थान्तरपरिहारप्रकारे च सति ।

न तु (ननु) यद् यदभावाव्यभिचारि यत् (तत्) तत् तेन विरुध्यते । तस्य न तदात्मकत्वेनाभावावसायस् तादात्म्याभाव(आ)वसायफलत्वाद् अन्यस्य विरोधस्य । तर्हि क्षणिकत्वम् अपि नीलाभावाव्यभिचारित्वान् नीलेन विरुद्ध्यमानं न नीलात्मकं स्यात् । तद् अपि नीलाभाववद् एव अन्यथा क्षणिकत्वं नीलात्मतैव स्यात् । तथा च यावत् क्षणिकं तावन् नीलम् इति कृत्स्ना त्रिलोकी नीलैव स्याद् इति मनसि निधायाह कस्य चेति । तुशब्दार्थश् चकारः ।

परमुखेन प्रश्नं कृत्वा प्रश्नविसर्जनम् आह य इति । नियतस्य प्रतिनियतस्य वस्तुन आकारः स्वरूपम् इति विग्रहीतव्यम् । एतद् एव व्यतिरेकमुखेणाह न त्व् इति । न पुनर् अनियतस्य सर्ववस्तुस्वरूपात्मकस्य । तद् एव दर्शयति क्षणिकत्वादिवद् इति । आदिशब्दात् परमाणुमयत्वादिपरिग्रहः । अनेनैतद् आह --- अभावाव्यभिचारित्वे ऽपि नियताकारेण तेन सम(म् अ)स्य विरोधो नानियताकारेणेति ।

अनियताकारत्वम् अस्योपपादयन्न् आह क्षणिकत्वं हीति । हिर् यस्मादर्थे । सन्मात्रानुबन्धित्वात् क्षणिकस्येत्य् अभिप्रायः । यत एवम् अतः कारणात् । न त्व् अयम् अर्थः --- नियतः प्रतिनियत

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.