Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
धर्मोत्तरप्रदीप subcommentary on धर्मोत्तर's न्यायबिन्दुटीका on धर्मकीर्ति's न्यायबिन्दु
- Tác giả
- दुर्वेकमिश्र
- Thông tin
- GRETIL — Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[ध्प्र् प्. 151] अनुमानशब्देनोच्यते । औपचारिकं[205] वचनम् अनुमानम्, न मुख्यम् इत्यर्थः । न यावत्[206] किंचिद् उपचाराद् अनुमानशब्देन वक्तुं शक्यं तावत् सर्वं व्याख्येयम् । किन् त्व् अनुमानं व्याख्यातुकामेनानुमानस्वरूपस्य[207] व्याख्येयत्वान् निमित्तं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच् च स्वयं वा प्रतीतम् अनुमान्स्य निमित्तं भवति, परेण वा प्रतिपादितं भवति[208] । तस्माल् लिङ्गस्य स्वरूपं च [209]व्याख्येन्यम्, तत्प्रतिपादकश् च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपादकश् च[210] शब्द इह व्याख्येयः । ततः प्रतिपादकं शब्दम् अव्श्यं वक्तव्यं दर्शयन् अनुमानशब्देनोक्तवान् आचार्य इति परमार्थः ॥ __________नोतेस्__________
[205] औपचारकं --- अ [206] न च यावत् --- अब्द्फेन् [207] स्वरूपस्यैव --- च् [208] भवति ओम्. अच्पेन् [209] च ओम्. अच्पेन् [210] च ओम्. अच्पेन्
परार्थानुमान्स्य प्रकारभेदं दर्शयितुम् आह ---
तद् द्विविधम् इइइ-3
ननु च त्रिरूपलिङ्गाभिधानाद् अवगते सति धर्मिणि लिङ्गं ज्ञायते । तस्य तु व्याप्तिः स्मर्यते । तत् कथं `त्रिरूपलिङ्गवचनात् तत्स्मृतिर् उत्पद्यतेऽ इत्य् उच्यत इति चेत् । उच्यते । गृह्यमाणम् अपि धूमादिवस्तु न तावल् लिङ्गं यावद् वह्न्यादिसाध्याविनाभूततया न ज्ञायते । तथात्वं च तस्य न तदा ग्राह्यम् अपि तु पूर्वगृहीतम् एव स्मर्त्तव्यम् इति सूक्तं त्रिरूपलिङ्गस्मृतिर् उत्पद्यत इति । स्मृतेर् इति पक्षधर्मग्रहणसहिताया इति द्रष्टव्यम् ।
अयम् अर्थः --- वचनम् अपि त्रिरूपं लिङ्गं स्मरयत् परोक्षार्थज्ञानस्य परम्परया कारणं भवद् उपचाराद् अनुमानम् उच्यत इति ।
अथाबाधितत्वाद्य् अपि लिङ्गस्य लक्षणम् इत्य् आचक्षते केचिद् इति विप्रतिपत्तिदर्शनात् तद्व्युत्पादनं युक्तम्, न तु तद्वचनम्, तस्य विप्रतिपत्त्यभावाद् इति चेत् । न अत्राप्य् अव्याप्तिव्यतिरेकाभ्यां निगदन्तो विप्रतिपन्ना इत्य् अस्यापि व्युत्पादनं न्याय्यम् ।
अथाऽपि स्यात्, यदि परम्परयाऽनुमानहेतुत्वेन वचनम् उपचाराद् अनुमानम् इति व्युत्पाद्यते तर्हि जिज्ञासास्वास्थ्यादिकम् अपि परम्परयाऽनुमानहेतुत्वाद् अनुमानशब्देन वक्तुं शक्यम् इति तद् अपि किं नोच्यत इत्य् आह --- न यावद् इति ।
ननु स्वास्थ्यादिकम् अपि निमित्तम् इति तदवस्थो दोषः । न । निमित्तं व्याक्येयम् इत्य् अव्यहितम् असाधारणं निमित्तम् आख्येयम् इत्य् अर्थः ।
ननु स्वयं प्रतीतं लिङ्गम् अनुमानस्य निमित्तम् । तत्किं तद्वचनेन व्याख्यातेनेत्य् आह --- तच् चेति । चो यस्मादर्थे । वाशब्दो विकल्पार्थः । यतः परेण प्रतिपादितम् अपि तल् लिङ्गम् अनुमान्स्य निमित्तं ततस् तस्माद् अवश्यं वक्तव्यं प्रतिपादकं[58अ] लिङ्गप्रतिपादकं वचनं दर्शयन्न् अन्मुमान्शब्देनोक्तवान् आचार्यः ।
[ध्प्र् प्. 152] तद् द्विविधम् इति । तद् इति परार्थानुमानम् । द्वौ विधौ प्रकारौ यस्य तद् द्विविधम् ॥ कुतो द्विविधम् इत्य् आह ---
प्रयोगभेदात् इइइ-4 प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तः प्रयोगोर्थाभिधानव्यापारभेदाद् द्विविधम् अनुमानम् ॥ तद् एवाभिधानव्यापारनिबन्धनं[211] द्वैविध्यं दर्शयितुम् आह ---
__________नोतेस्__________
[211] अभिधानस्य व्यापारो निबन्धनं यस्य --- टि- ___________________________
साधर्म्यवद् वैधर्म्यवच् चेति[212] इइइ-5
__________नोतेस्__________
[212] वच् च ॥ --- च् साधर्म्यवद् वैधर्म्मवच् चेति । समानो धर्मो ऽस्य[213] सो ऽयं सधर्मा । तस्य भावः साधर्म्यम् । विसदृशो धर्मो । विधर्मणो भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणः सादृश्यं हेतुकृतं साधर्म्यम् उच्यते । असादृश्यं च हेतुकृतं वैधर्म्यम् उच्यते । तत्र यस्य साधनवाक्यस्य साधर्म्यम् अभिधेयं तत् साधर्म्यवत् । यथा --- यत कृतकं तद् अनित्यं यथा घटः, तथा च कृतकः शब्द इत्य् अत्र कृतक्त्वकृतं दृष्टान्तसाध्यधरिमिणोः सादृश्यम् अभिधेयम् । यस्य तु वैधर्म्यम् अभिधेयं तद् वैधर्म्यवत् । यथा --- यन् नित्यं तद् अकृतकं दृष्टं यथाकाशम् । शब्दस् तु कृतक इति कृतकत्वाऽकृतकत्वकृतं[214] शब्दाकाशयोः साध्यदृष्टान्तधर्मिणोर् असादृश्यम् इहाभिधेयम् ॥ __________नोतेस्__________
[213] धर्मो यस्य --- चफेन् [214] इति अकृतकत्वकृतम् --- च्
यद् अनययोः प्रयोगयोर् अभिधेयं भिन्नं कथं तर्हि त्रिरूपं लिङ्गम् अभिन्नं प्रकाश्यम् इत्य् आह ---
नानयोर् अर्थतः कश्चिद् भेदः इइइ-6 नानयोर् अर्थत इति अर्थः प्रयोजनम् । यत् पयोजनं प्रकाशयितव्यं वस्तु उद्दिश्यानुमाने प्रयुज्येते, ततः प्रयोजनाद् अनयोर् न भेदः[215] कश्चित् । त्रिरूपं हि लिङ्गं प्रकाशयितव्यम् । तदुद्दिश्य द्वे अप्य् एते प्रयुज्येते । द्वाभ्याम् अपि त्रिरूपं लिङ्गं प्रकाश्यते एव । ततः प्रकाशयितव्यं प्रयोजनम् अनयोर् अभिन्नम् । तथा च न ततो भेदः कश्चित् ॥ __________नोतेस्__________
[215] प्रयोजनान् नानयोर् भेदः --- ब्द्
अनेनैतद् आह --- न स्वास्थ्यादि प्रतिपन्नम् अपि परोक्षार्थप्रतिपादकं येन तद् उच्येत । तद् वचनम् अवश्यं दर्शयितव्यम् अनुमानशब्देनाभिलप्येत । स्वयम् अशक्तम् अपि तु हेतुवचनं परोक्षप्रकाशनवस्तुसूचकत्वाद् अनुमानशब्देनोक्तम् इति । इति परमार्थ एवम् अस्योपचारस्य परमः प्रकृष्टो ऽर्थः प्रयोजनम् ॥
विधशब्देन च विगृह्णतो ऽभिप्रायः प्राग् एव प्रदर्शितः ॥
अभिधानम् अर्थप्रकाशनम् ॥
[ध्प्र् प्. 153]
अभिधेयभ्देदो ऽपि तर्हि न स्याद् इत्य् आह ---
अन्यत्र प्रयोगभेदात् इइइ-7 अन्यत्र प्रयोगभेदाद् इति । प्रयोगो ऽभिधानं वाचकत्वम् । वाचकत्वभेदाद् अन्यो भेदः प्रयोजनकृतो नास्तीत्य् अर्थः ।एतद् उक्तं भवति । अन्यद् अभिधेयम् अन्यत् प्रकाश्यं प्रयोजनं । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते । प्रकाश्यं त्व् अभिन्नम् । अन्वये हि कथिते वक्ष्यमाणेन न्यान्येन व्यतिरेकगतिर् भवति । व्यतिरेके चान्वयगतिः । ततस् त्रिरूपं लिङ्गं प्रकाश्यम् अभिन्नम् । न च यत्राभिधेयभ्देदस् तत्र सामर्थ्यगम्यो ऽप्य् अर्थो[216] भिद्यते । यस्मात् `पीनो देवदत्तो दिवा न भुङ्क्तेऽ `पीनो देवदत्तो रात्रौ भुङ्क्तेऽ इत्य् अन्योर् वाक्ययोर् अभिधेयभ्देदेपि गम्यमानम् एकम् एव[217] तद्वद् इहाभिधेयभेदे ऽपि गम्यमानं वस्त्व् एकम् एव ॥ __________नोतेस्__________
[216] प्रयोजनम् --- टि- [217] गम्यं दिवा भोजनाभावविशेषं पीनत्वं रात्रिभोजनकार्यम् एकम् एव --- टि-
केन कस्य किम् कृतं च साधर्म्यं वैधर्म्यं चेत्य् आह --- दृष्टान्तेति । सादृश्यं हेतुकृतम् इति हेतुसद्भावद्वारकम् । असादृश्यं च हेतुकृतम् इति हेतुसद्भावासद्भावद्वारकं द्रष्टव्यम् । वतुबर्थं प्रयोजयितुम् आह --- तत्रेति वाक्योपन्यासे । यस्य वाक्यस्य साधर्म्यं सादृश्यम् अभिभेयम् अस्ति । एतद् एवोदाहरणेन दर्शयन्न् आह --- यथेति । यत् कृतकम् इति । यद् यद् कृतकम् इति वीप्सार्थो विवक्षितः, तद् इत्य् अत्रापि । तथा च कृतकः शब्द इति पक्षधर्मताकथनम् इदम् । न त्व् एवं पक्षधर्मो दर्शनीयः । `कृतकश् च शबदःऽ इत्य् एतावतैव गतार्थत्वेन तथाशब्दस्य वैयर्थ्यात् । ततः `कृतकश् च शब्दःऽ इत्य् एव दर्शनीयः । इतरथा परेषाम् इवोपनयप्रयोगः स्यात् । स चायुक्त इति । यन् नित्यम् इति साध्याभावानुवादस् तद् अकृतकम् इति साधनाभावविधिः ॥
अभिधेयं भिन्नम् इति ब्रुबतो ऽयम् आशयः --- साधर्म्यवत् प्रयोगस्यान्वयः पक्षधर्मता चाभिधेया । अभिन्नं साधारणं प्रकाश्यं द्वयोः प्रयोगयोः ।
अर्थः प्रयोजनवाच्याचारेणोक्तो नाभिधेयवाचीति दर्शयति यद् उद्दिश्येति स्पष्टयन् प्रयुज्यते ऽनेनेति प्रयोजनं साधनवाक्यस्य प्रवर्त्तकं लिङ्गवस्तूक्तं न फलं प्रयोजनम् इति दर्शयति । प्रकाशयितव्यं रूपत्रययोगिलिङ्गं तच् चाभिन्नं साधारणं द्वयोर् अपि प्रयोगयोः, द्वाभ्याम् अपि तस्यैव प्रतिपादनात् । अनुमानहेतुत्वाद् अनुमाने साधर्म्यवैधर्म्यवती वाक्ये कथिते । तत इति प्रयोजनसमानाधिकरणं न हेतुपदम् एतत् ॥
नन्व् अभिधेयम् एव प्रकाश्यं त त्कथं प्रकाश्याभेद इत्याशङ्क्याह --- एतद् उक्तं भवतीति । अन्यत् प्रकाश्यम् इति सामर्थ्यगम्यं प्रकाश्यम् । न तु तत्राभिधाव्यापार इत्य् आकूतम् । तत्रेति वाक्योपक्षेपे ।
यदि साधर्म्यवद्वाक्ये ऽन्वयो ऽभिधेयस् तर्हि कथं व्यतिरेकः प्रकाश्यतां गतः? वैधर्म्यवाक्ये
[ध्प्र् प्. 154]
तत्र साधर्म्यवत् प्रयोगः[218]--- यद् उपलब्धिलक्षणप्राप्तं सन् न उपलभ्यते सो असद्व्यवहारविषयः सिद्धः, यथा अन्यः कश्चिद् दृष्टः शशविषाणआदिः । न उपलभ्यते च क्वचित् प्रदेशविशेष[219]उपलब्धिलक्षणप्राप्तो घट[220]इत्य् अनुपलब्धिप्रयोगः इइइ-8
__________नोतेस्__________
[218] -वत् यदुप- [219] विषये उप- [220] घट इति तत्रेति तयोः साह्दर्म्यवैधर्म्यवतोर् अनुमानयोः साधर्म्यवत् [221]तावद् उहारन्न् अनुपलब्भिम् आह --- यद् इतियादिना । यद् उपलब्ध्दिलक्षणप्राप्तं --- यद् दृश्यं सन् नोपलभ्यते इत्य् अनेन दृश्यानुपलम्भो ऽनूद्यते । सो ऽसद्व्यवहारविषयः[222] सिद्धः --- तद् असद् इति व्यवहर्तव्यम् इत्य् अर्थः । अनेनासद्व्यहारयोग्यत्वस्य विधि[223] कृतः । ततश् चासद्व्य्वहारयोग्यत्वे दृश्यानुपलम्भो नियतः कथितः । दृश्यम् अनुपलब्धम् असद्व्यवहारयोग्यम्[224] एवेत्य् अर्थः । साधनस्य च साध्ये ऽर्थे नियतत्वकथनं व्याप्तिकथनम् । __________नोतेस्__________
[221] तावद् उहारम् {उदाहरम्} उदाहर्त्तुम् अनु- [222] विषयस् तद्- [223] योग्यत्वे दिधि [224] -हरय योग्य-
च यदि व्यतिरेको ऽभिधेयः, कथम् अन्वयः प्रकाश्यताम् आपन्न इत्य् आह --- अन्वय इति । हिर् यस्मात् । वक्ष्यमाणेन "साधर्म्येणापि ही" त्यादिना प्रतिपादयिष्यमाणेन न्यायेन युक्ता ।
स्यान् मतं --- ययोर् अभिधेयं भिन्नं तयोः सामर्थ्यगम्यम् अप्य् अवश्यं भिद्यते --- यथा गङ्गायां घोषः, कूपे गर्गकुलम् इत्य् आशङ्क्याह --- न चेति । चो यस्मादर्थे । अर्थः प्रयोजनं यदुद्दिश्य प्रवृत्तं वाक्यम् ।
उपपत्तिम् आह --- यमाद् इति । एकस्य वाक्यस्य दिवा भोजनाभावो ऽभिधेयो ऽन्यस्य रात्रिभोजनम् इत्य् अनयोर् वाक्ययोर् [58ब्] अभिद्धेयभेदो ऽस्ति । तस्मिन् सत्य् अपि यथा भोजनविशिष्टं देवदत्तस्य पीनत्वं प्रतिपाद्यं न भिद्यते तद्वद् अत्राभिधेयस्यान्वयपक्षधर्मतालक्षणस्य व्यतिरेकपक्षधर्मतालक्षणस्य भेदे ऽपे गम्यमानम् एकम् अभिननम् ।
अथ गम्ययानं सामर्थ्यात् प्रतीयमानम् उच्क्यते । तच् च दृष्टान्तदान्तिकयोर् भिद्यत एव । तथा हि दिवा भोजननिषेधवाक्यस्य गम्यमानं रात्रिभोजनं रात्रिभोजनविधानवाक्यस्य तु गम्यनानं दिवा भोजननिषेधनम्, तथा दार्षान्तिके ऽपि साधन(साधर्म्य)वद्वाक्ये व्यतिरेको गम्यमानो वैधर्म्यवद्वाक्ये चान्वयो गम्यमानः । यद् एकस्याभिधेयं तद् एकस्य गम्यमानम्, यद् अन्यस्य गम्यनानं तद् इतरस्याभिधेयम् इति संक्षेपः । ततः कथम् उच्यते वाक्ययोर् गम्यमानम् एकम् इति । किन् नोच्यते? गम्यमानशब्दस्येहान्यार्थस्य विक्षितत्वात् । तथा हि गम्यमानशब्देनात्राभिधेयं सामर्थ्यप्रकाश्यञ् च । यत् तु द्वयं प्रतीयमानतामात्रेणोपाधिना विवक्षितं तच् च दृष्टान्तवाक्ययोर् भोजननिमित्तपीनत्वलक्षणं दार्ष्टान्तिकवाक्ययोश् चान्वयव्यतिरिक्तपक्षधर्मतात्मकरूपत्रययोगलिङ्गलक्षणम् एकम् अभिन्नम् इत्य् अन्वद्यम् एतत् ॥
साधर्म्यम् अभिधेयं यस्य विद्यते तद् उदाहह्रणेन दर्शयन्न् अनुपलब्धिम् आह । तावच् छब्दः क्रमे ।
[ध्प्र् प्. 155]
यथोक्तम् "व्याप्तिर्[225]व्यापकस्य तत्र भाव एव, व्याप्यस्य[226]वा तत्रैव भावः" इति । [हेतु- पृ-53] व्याप्तिसाधनस्य प्रमाणस्य विषयो दृष्टान्तः । तम् एव दर्शयितुम् आह --- यथान्य इति । साध्यधरिमिणो ऽन्यो दृष्टान्त इत्य् अर्थः । दृष्ट इति प्रमाणेन[227]निश्चितः । शशविषाणं हि न चक्षुषा विषयीकृतम् अपि तु प्रमाणे दृश्यानुपलम्भेनासद्व्यवहारयोग्यं विज्ञातं । शशविषाणादिर् यस्यासद्व्यवहारविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्याणुपलम्भमात्रनिमित्तो ऽसद्वयवहारः प्रमाणेन सिद्धः । तत एव प्रमाणाद् अनेन वाक्येनाभिधीयमाना[228]व्याप्तिर् ज्ञातव्या ।
__________नोतेस्__________
[225] वाप्तिव्या- [226] स्य च [227] प्रतियक्षेणनिश्चित इति न व्याकरव्यम् --- टि- [228] [228]व्याप्तिसाधकेन --- टि- संप्रति व्याप्तिं कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुम् आह --- नोपलभ्यते चेति । स च द्विरावृत्त्या ऽनुपलब्धिम् इत्य् अत्रापि द्रष्तस्व्यः । तेनायम् अर्थः --- साधर्म्यवत् तावद् उदाहरन्न् अनुपलब्धिम् आह । पश्चाद् वैधर्म्यवद् उदाहरन् वक्ष्यति । तथा ऽनुपलब्धिं तावद् आह पश्चात् स्वभावकार्ये वक्ष्यतीति ।
नन्व् आचार्येणैव साधर्म्यवद् वैधर्म्यवच् चोदाहृतम् अत्रेति किम् इति धर्मोत्तरेन --- यथा यत् कृतकम् इत्यादिना साधर्म्यवद् वैधर्म्यवच् चोदाहृतं प्राग् इति चेत् । नैष दोषः । दृष्टान्तसाधयधर्मिणोः सादृश्याख्यं साधर्म्यम्, वैसदृश्याख्यां वैधर्म्यं च हेतुद्वारकम् एव न तु सामान्येन, अन्यथा प्रतियोग्यपेक्षया ऽपि साधर्म्यं वैधर्म्यं च केनचिद् आकारेनास्तीति न तन् निराकृतं स्याद् इति दर्शयितुं तद् उदाहृतम्, न त्व् आचार्येण नोदाहृतम् इत्य् उदाहृतम् इति । तेनात्राप्य् आचार्यीये निदर्शने हेतुकृतम् एव तत् प्रत्येतव्यं व्यवस्थितम् ।
असद्व्यवहारः --- असद् इति ज्ञानम् असद् इत्य् अभिधानं निःशङ्का च गमागमादिका प्रवृत्तिः । यतो दृश्यानुपलम्भो ऽभूद् अतो ऽसद्व्यहारयोग्यतं विहितम् । ततस् तस्मात् । चो अवधारणे ।
अयम् आशयः --- यद् अनूद्यते तद् व्याप्यम् । यद् विधीयते तद् व्यापकम् । व्याप्यं च व्यापके नियतं भवतीति । एवम् उत्तरत्राप्य् अनुवादविधिक्रमो द्र्ष्टव्यः ।
अथ द्व्यवयवे साधनवाक्ये दर्शितव्ये व्याप्तिः पक्षधर्मता च दर्शनीया । न चात्र व्याप्तिर् उपदर्शिता, केवलम् अनुवादविधिक्रमो दर्शितः, पक्षधर्मता च दर्शयिष्यते । तत् कथं परिपर्णं साधनवाक्यम् इदं भविष्यतीत्य् आशङ्क्याह --- साधनस्येति । चो हेतौ ।
ननु परोक्षार्थप्रतिपत्तौ सर्वथा ऽनुपयोगी दृष्टान्तस् तत् किं तेनाख्यातेनेत्य् आह व्याप्तीति । व्याप्यवापकधर्मलक्षणा [59अ] व्याप्तिः साध्यते निश्चीयते येन प्रमाणेन तस्य विषयो यत्र
[ध्प्र् प्. 156]
प्रदेश एकदेशः पृथिव्याः । स एव विशिष्यते ऽन्यस्माद् इति विशेषः एकः । प्रदेशविशेष इत्य् एकस्मिन् प्रदेशे । क्वचिद् इति । प्रतिपत्तुः प्रत्यक्ष[229] एको ऽपि प्रदेशः । स एवाभावव्यवहाराधिकरणं यः प्रतिपत्तुः प्रत्यक्षो नान्यः । उपलब्धिलक्षणप्राप्त इति दृश्यः । यथा चासतो ऽपि घटस्य समारोपितम् उपलब्धिलक्षणाप्राप्तत्वं तथा व्याख्यातम् ॥
__________नोतेस्__________
[229] प्रतियक्षे । एको
स्वभावहेहोः साधर्म्यवन्तं प्रयोगं दर्शयितुम् आह ---
तथा स्वभावहेतोः प्रयोगः --- यत् सत् तत् सर्वम् अनित्यम्, यथा घटादिर् इति शुद्धस्य[230] स्वभावहेतोः प्रयोगः इइइ-9
__________नोतेस्__________
[230] शुद्धस्वभावस्य प्रयोगः
तथेति । यथा ऽनुलब्धेस् तथा स्वभावहेतोः साधर्म्यवान् प्रयोग इत्य् अथः । यत् सद् इति
प्रवृत्तं प्रमाणं साध्यसाधनयोर् व्याप्तिम् अवस्यति । स च विषयो दृष्टो निश्चितः साध्यसाधनयोर् अन्तो ऽवसानं यथायोगं नियतत्वनियमविषयत्वनिपुणो यस्मिन्न् इति व्युत्पत्त्या दृष्टान्तशब्दो ऽभिलप्यः । तम् एव ख्यापयितुम् आहाचार्यः । अनेनैतद् आकूतम् --- व्याप्तिसाधकप्रमाणस्याधिकरणतां गच्छन् दृष्टान्तः साधनावयवस्य व्याप्तेः प्रतिपत्त्यङ्गम् । न तु साक्षात् साधनस्य । नापि साध्यसिद्धेः । तद्वचनम् अपि तत्स्मारकत्वेन साधनवाक्य उपयुज्यते । अत एव वचनसाधनवाक्यस्यावयवो ऽथ च प्रयोक्तवय इति । कुतो ऽन्य इत्य् आह --- साध्यधर्मिण इति । शशविषाणादेश् च व्याप्तिसाधकप्रमाणाधिकरणत्वेन दृष्टान्तरूपत्वाद् दृष्टान्त इत्य् अर्थ इति स्पष्टयति ।
ननु दृष्टश् चक्षुषा ज्ञात इति किं न व्याख्यायते? किं पुनर् एवं व्याख्यात इत्य् आह--- शशेति । हीति यस्मात् । विषयीकृतं विज्ञातम् इति चातीते निष्ठां प्रयुञ्जानः प्राग्भावि व्याप्तिग्रहणं दऋशयति । कथं पुनः शशविषाणादि दृष्टान्तो येन सा ख्याप्यत इत्य् आह --- शशेति । हिर् यस्मात् । दृश्यानुपलम्भ एव तन्मात्रं तन्निमित्तं यस्य स तथा । अनेन व्याप्तिसाधकप्रमाणाधिकरणत्वात् तस्य दृष्टान्तरूपताम् आह । किं तत् प्रमाणं येन तत्र प्रवृत्तेन दृश्यानुपलम्भाभावव्यवहारयोग्यत्वयोर् व्याप्तिः साध्यत इति चेत् । उच्यते । वादन्यायोक्तेन न्यायेन बुद्धिव्यपदेशाभावादेर् असद्व्यवहारानिमित्तत्वेन निमित्तान्तराभावे दृश्यानुपलम्भ एवान्यनिरपेक्षो निमित्तम् । यच् च यन् मात्रनिमित्तं ततस्मिन् सति भवति । यथा बीजादिसामग्रीमात्रनिमित्तो ऽङ्कुरः सति तस्मिन् भवति । दृश्यानुपलम्भमात्रनिमित्तश् चासद्व्यवहार इत्य् अनुमानं तत्र प्रवृत्तं साध्यसाधनयोर् व्यापितिम् अवस्यतीति । अनेन वाक्येन यद् उपलब्धिलक्षणप्राप्तम् इत्यादिना ऽभिधीयमाना प्रकाश्यमाना । तत एव प्राक्प्रवृत्ताद् अनन्तरोक्ताद् अनुमानात्मनः प्रमाणाद् व्याप्तिर् ज्ञातव्या । एतद् उक्तं भवति तत्प्रमाणसिद्धैव व्याप्तिर् अनेन वाक्येन स्मर्यत इति ॥
स्वभावेत्यादिना स्वभावहेतोः साधर्म्यवत् प्रयोगं विवरितुम् उपक्रमते । सर्वशब्दस्या ऽशेषता ऽर्थः । तयैव प्रतिपादितया साधनस्य साध्यायत्तताख्यो यो नियमः स प्रतिपादितो
[ध्प्र् प्. 157]
सत्त्वम् अनूद्य तत् सर्वम् नित्यम् इत्य् अनित्यत्वं विधीयते । सर्वग्रहणं च नियमार्थम् । सर्वम् नित्यम् । न किञ्चिन् नित्यम् । यत् सत् तद् अनियम् एव । अनित्यत्वाद् अन्यत्र नित्यत्वे सत्त्वं नास्तीत्य् एवं सत्त्वम् अनिय्त्यत्वे साध्ये नियतं ख्यापितं भवति । तथा च सति व्याप्तिप्रदर्शनवाक्यम् इदम् । यथा घटादिर् इति [231]व्याप्तिसाधकस्य प्रमाणस्य विषयकथनम् एतत् । शुद्धस्येति निर्विशेषणस्य स्वभावस्य [232]प्रयोगः ।
__________नोतेस्__________
[231] व्याप्तिसाधकस्य; नित्यक्रमयोगपद्याभ्याम् अर्थक्रियाविरोधाद् इति विपर्ययबाधकं प्रमाणम् --- टि- [232] प्रयोगस्य विशेषणं दर्श-
सविशेषणं दर्शयितुम् आह ---
यद् उत्पत्तिमत् तद् अनित्यम् इति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः इइइ-10 यद् उत्पात्तिमद् इति ।[233] उतपत्तिः स्वरूपलाभो[234] यस्यास्ति तद् उतपत्तिमत् । उत्पत्तिमत्त्वम् अनूद्य तद् अनित्यम् इत्य् अनित्यत्वविधिः[235] । तथा च सत्य् उत्पत्तिमत्त्वम् अनित्यत्वे नियतम् आख्यातम् । __________नोतेस्__________
[233] य्द् उत्पत्तिः; यद् उत्पत्तिमद् इति उत्पत्तिमत्त्वम् अनू- [234] लाभः स यस्मास्ति [235] विधेः
स्वभावं[236] भूतः [237]तदात्मको धर्मः । तस्य भेदेन । भेदं हेतूकृत्य प्रयोगः । [238]अनुत्पन्नेभ्यो हि व्यावृत्तिम् आश्रित्योत्पन्नो भाव[239] इत्य् उच्यते । सैव व्यावृत्तिर् यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुम् इष्यते तदा व्यतिरेकिनीव निर्दिश्यते --- भावस्य उत्पत्तिर् इति । यथा च व्यतिरिक्तयेवोत्पत्त्या विशिष्टं[240] वस्तु उत्पत्तिमद् उक्तम् । तेन स्वभावभूतेन धर्मेण कल्पितभेदेन
__________नोतेस्__________
[236] अग्रे स्वयं दुर्वेकेण `स्वभावभूतः स्वभावात्म्कःऽ इत्यादिना `स्वभावभूतःऽ इत्य् एव धरोत्तरसंमतः पाठ इति गृहीतस् तथापि अत्र तेनैव `स्वहावं भूतःऽ इत्य् एव्ंरूपेण गृहीतो ऽस्ति इति व्याख्यानुरोधाद् भावि --- सं- । स्वभावभूतः --- अब्च्द्फेन् [237] स्वभावात्म्को [238] ननु स्वभावभूतस्य कथं भद इत्य् आह --- टि- [239] भाव उच्यते [240] विशिष्टं च वस्तु
भवतीति नियमख्यापनार्थं सर्वग्रहणं भवति । अन्यथा निःशेषत्वानुपपत्तेर् इति । सर्वम् इत्याद्य् अस्यैव स्पस्टीकरणम् । तथा च सति नियतत्वनियमविषयत्वख्यापनप्रकारे सति । इदं वाक्यं यत् सत् तद् अनित्यम् इत्य् आत्मकम् । व्याप्तिसाधकस्य प्रमाणस्येति यस्य क्रमाक्रमा ऽयोगो न तस्य क्वचित् सामर्थ्यं यथाकाशकुशेशयस्य । अस्ति चाक्षणिके स इति व्यापकानुपलम्भसम्भबस्यानुमाणस्येति द्रष्टव्यम् । एतच् च बहुवाच्यम् अन्यत्र विपञ्चितम् नेहाप्रकृतत्वात् प्रतन्यते ।
कथं पुनर् उत्पत्तिर् भावस्य विशेषणम् इत्य् आःअ --- स्वभावम् इति । स्वभावं भूतः प्राप्त इति कर्त्तरि निष्ठा "द्वितीया" [पाणिनि 2.1.24.] इति योगविभागात् [59ब्] समासः । अस्यैव स्पष्टीकरण तदात्मक इति । यदि स्वभावः कथं विशेषणम्, भेदेन तस्य दर्शनाद् इत्य् आह ---
[ध्प्र् प्. 158] विशिष्तः स्वभावः प्रयुक्तो द्रष्टवः ॥ यत् कृतकं तद् अनित्यम् इत्य् उपाधिभेदेन इइइ-11 यत् कृतकमिति कृतक्त्वम् अनूद्य [241]अनित्यत्वं विधीयत इति अनित्यत्वे नियतं कृतकतम् उक्तम् । अतो व्याप्तिर् अनियत्वेन कृतकत्वस्य दर्शिता । उपाधिभेनेन स्वभावस्य प्रयोग इति संबन्धः । उपाधिर् विशेषणम् । तस्य भ्देदेन भिन्नोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्य् अर्थः । __________नोतेस्__________
[241] अनित्यतत्वे [242]इह कदाचिच् छुद्ध एवार्थ उच्यते, कदाचिद् अव्यतिरिक्तेन विशेषणेन विशिष्टः कदाचिद् व्यतिरिक्तेन । देवदत्त इति शुद्धः, लम्बकर्ण इत्य् अभिन्नकर्णद्व्च्यविशिष्टः , चित्रनुरिति व्यतिरिक्तचित्रगवीनिशिष्तः । तद्वत् सत्त्वं शुद्धम्, उत्पत्तिमत्त्वम् अव्यतिरिक्तव्शेषणम्, कृतकत्वं व्यतिरिक्तविशेषणम् ॥ __________नोतेस्__________
[242] परार्थानुमाने --- टि-
तस्येति । भेदेन विशेष्याव्यतिरिक्ततया विशेषकत्वलक्षणेन विकल्पसन्दर्शितेन । स्वभावभूतः स्वभात्मको धर्म इति च परमार्थाभिप्रायेणोक्तम् । भेदेनेतीयं तृतीया हेताव् इति दर्शयन्न् आह --- भेदम् इति । व्यवहारसिद्धं भेदम् उत्पत्तुः सकाशाद् अन्यत्वं हेतूकृत्य निबन्धनीकृत्य प्रयोगः सविशेषणस्य स्वभावहेतोर् इति प्रकरणात् ।
कल्पनया ऽपि कथं भेदो येनोत्पत्त्या विशिष्टम् उत्पत्त्या विशिष्टम् उत्पत्तिमद् उच्यत इत्य् आह --- अनुत्पन्नेभ्य इति । हिर् यस्मात् । अनुत्पन्नेभ्य आकाशादिभ्यो व्यावृत्तिं व्यवच्छेदम् आश्रित्य परिकल्प्य । यदि व्यावृत्त्याश्रयेणोत्पन्नो भाव उच्यते तर्हि कथम् उत्पत्तिर् अस्येति प्रयोग इत्य् आह --- सैवेति । व्यावृत्त्यन्तरं महत्त्वादि तन्निरपेक्षा वक्तुम् इष्यते यदा तदा । तेन परमार्थः स्वभावभूतेनोत्पत्त्याख्येन धार्मेण कल्पितः समारोपितो भेदो ऽर्थान्तरत्वं यस्य ये(ते)न अव्यतिरिक्तेन विशेषणेन विशिष्टस्य स्वभावहेतोः प्रयोग इत्य् अर्थः ।
पूर्वम् अव्यतिरिक्तविशेषणविशिष्टस्य स्वभावस्य प्रयोगः । अधुना तु भिन्नविशेषण विशिष्टस्येति भेदस् तद् आह --- भिन्नेनेति । यद् वा भिन्नेन पूर्वस्य्माद् अन्यादृशेन सङ्केतवशाद् अन्तर्भावितेन, न तु विद्यमानस्ववाचकेन । अत एवायम् अन्यतो भिद्यते प्रयोगः ।
इहेति परप्रतिपादनार्थे शब्दप्रयोगे । शुद्धो निर्विशेषणः । अथ किम् एको अर्थः शुद्धः कदाचिद् अव्यतिरिक्तोपाधिना विशिष्टः; कदाचिद् व्यतिरिक्तविशेषणविशिष्टो दृष्टः शिष्टैः प्रयुज्यमानो येनैवम् उच्यमानं परभागं पुष्णातीय् आह --- देवदत्त इति । वक्ष्यमाणतद्वत्शब्दात् यद्वत्शब्दो ऽत्र द्रष्टव्यः । चित्रा चासौ गौश् चेति "गोर् अतद्धितलुकि" [पाणिनि 5.4.92] इति टच्, टित्वाङ् ङीप् तया विशिष्टः । यथाक्रमम् एव दृष्टान्तदार्ष्टान्तिकयोजना कार्या ।
चित्त्रगुशब्देन कृतकशब्दस्य साम्यं नास्तीति मन्वानः पर आह --- ननु चेति । कारणानां व्यापारो नियतप्राग्भावस् तदतिरेकिणो व्यापारस्याभावात् । ननु च कृतकशब्दे न विशेषणवाचिशब्दो ऽस्तीति यद् उक्तं तत् तदवदस्थम् एवेत्य् आह --- यद्य् अपीति । अन्तर्भावितं प्रकाशितम् । कथं
[ध्प्र् प्. 159]
ननु च चित्रगुशब्दे व्यतिरेक्तस्य विशेषणस्य वाचकश् चित्रशब्दो गोशब्दश् चास्ति । कृतकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगो ऽस्तीत्य् आशङ्क्याह ---
अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति इइइ-12 अपेक्षितेति । परेषां कारणानां व्यापारः स्वभावस्य निष्पत्तौ --- निष्प्तत्त्य् अर्थम् अपेक्षितः परव्यापारो येन स तथोक्तः । हीति यस्यादर्थे । यस्माद् अपेक्षित परव्यापारः कृतक उच्यते तस्माद् व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते । यद्य् अपि व्यर्तिरिक्तं विशेषणपदं [243]न प्रयुक्तं तथापि कृतकशब्देनैव व्यतिरिक्तं [244]विशेषणपदम् अन्तर्भावितम् । अत एव संज्ञाप्रकारो ऽयं कृतकशब्दो यस्मात् संज्ञायाम् अयं कन् प्रत्ययो विहितः । यत्र च विशेषणम् अन्तर्भाव्यते तत्र विशेषणपदं न प्र्युज्यते । __________नोतेस्__________
[243] न च प्रयु- [244] विशेषणमन्त-
क्वचित्[245] तु प्रतीयमानं विशेषणं यथा कृत इत्य् उक्ते हेतुभिर् इत्य् एतत् प्रतीयते । तत्र[246] च हेतुशब्दः प्रयुज्यते, कदाचिन् न वा प्रयुज्यते ॥
__________नोतेस्__________
[245] क्वचित् प्र- [246] तत्र हेतु
एवं प्रत्ययभेदभेदित्वादयो अपि[247] द्रष्टव्याः इइइ-13
__________नोतेस्__________
[247] -दओ द्र- प्रयुज्यमानस्वशब्दश्[248] च यथा प्रययभेदभेदिशब्दे[249] प्रययभेदशब्दः[250] । यथा च कृतकशब्दो भिन्नविशेषणस्वभावाभिधायी एवं प्रययभेदभेदित्वम् आदिर् येषां प्रयत्नानतरीयकत्वादीनां ते ऽपि स्वभावहेतोः प्रयोगा भिन्नविशेषणस्वभावाभिधायिनो द्रष्टाव्याः । __________नोतेस्__________
[248] स्वशब्दो विशेषणशब्द --- टि- [249] प्रत्ययभेदशब्दे [250] प्रययभेदः प्रययानां कारणानां भेदो विशेषस् तेन प्रययकालाभेदेन भेत्तुं शीलं यस्य स प्रययभेदभेदी शब्दस् तस्य भावः प्रययभेदभेदित्वम् । ततः प्रययभेदभेदित्वाच् छब्दस्य कृतक्त्वं साध्यते । प्रयत्नानन्तरीयकत्वाद् अनित्यत्वम्[251]। तत्र प्रययभ्देदशब्दो व्यतिरिक्तविशेषणाभिधायी प्रययभेदभेदिशब्दे प्रयुक्तः । प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्दः । __________नोतेस्__________
[251] त्वं साध्यते
पुनः कृतकशब्देनान्तर्भावितम् इत्य् आह --- यस्माद् इति । संज्ञायां नाम्नि कन् प्रत्ययो विहितस् तस्माद् अन्तर्भावितम् इति । अत एव संज्ञाया कनो विधान्बाद् एवायं कृतकशब्दः संज्ञाप्रकारः संज्ञाविशेषः संज्ञाशब्द इति यावात् ।
अन्तर्भावे ऽपि कथं विशेषणपदाप्रयोग इत्य् आह --- यत्रेति । चो यस्मादर्थे । अथावसितस्याप्य् अस्ति प्रयोगो यथा कृतक इत्य् उक्ते हेतुनेति प्रतीताव् अपि हेतुशब्दप्रयोग इत्य् आह --- क्वचिद् इति । तुः पूर्वस्माद् वैधर्म्यं(-म्ये) । प्रतीयमानं स्वत उत्पादायोगात् सामर्थ्याद् अवसीयमानम् ।
[ध्प्र् प्. 160] तद् एवं तिर्विधः स्वभावहेतुप्रयोगो[252] दर्शितः शुद्धो ऽव्यतिर्क्तविशेषणो व्यतिर्क्तविशेषणश् च । __________नोतेस्__________
[252] -हेतुयोगो [253]एवमर्थं चैतद् आख्यातं --- वाचकभेदान् मा भूत् कस्यचित् स्वभावहेताव् अपि प्रयुक्ते व्यामोह इति ॥ __________नोतेस्__________
[253] एतद् अर्थम्
[254]सन्न् उत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मौपदर्शनम् [255] इइइ-14
__________नोतेस्__________
[254] अन्नोत्प- [255] अस्मिन् सूत्रे न किंचित् केनचिद् व्याख्यातम्
अथ किम् एते स्वभावहेतवः सिद्धसम्बन्धे स्वभावे साध्ये प्रयोक्तव्या आहोस्विद् असिद्धसम्बन्ध इत्य् आशङ्क्य सिद्धसम्बन्धे प्रयोक्तव्या इति दर्शयितुम् आह ---
सर्व एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्ध एव साध्यधर्मे ऽवगन्तव्याः इइइ-15
सर्व एत इति । गमकत्वात् साधनानि, पराश्रितत्वाच् च धर्माः, साधनधर्मा एव
अयम् अस्याशयः --- न कृतकशब्देन प्रतिपादितस्यार्थस्य अन्यथानुपपत्त्या हेतुव्यापारो ऽत्र प्रतीयते येनातरापि विशेषणपदस्य [60अ] प्रयोगो वक्तुर् इच्छातः स्याद् वा न वा किन् तु स्वोत्पत्ताव् अपेक्षितपरव्यापारस्यैवार्थस्येदं नामेति कुतो ऽनयोः साम्यम् इति ।
एवं तावत् कश्चिद् विशेषणभूतो ऽर्थो ऽर्थात् प्रतीयमानः स्वशब्देनोच्यते न वा वक्तुर् इच्छावशाद् इति प्रतिपाद्य कश्चित् पुनर् विशेषणभूतो ऽर्थः प्रतीयमानो ऽप्य् अवश्यं स्वशब्दोपादेय इति दर्शयितुम् आह --- प्रयुज्यमानेति । प्रयुज्यमान उपादीयमानः । स्वशब्दः स्ववाचको यस्य विशेषणरूपस्यार्थस्य स तथोक्तः । को ऽसाव् ईदृश इत्य् आह --- यथेति । प्रययभेदः प्रययभेदलक्षणो ऽर्थो विशेषणात्मा ऽवश्यं स्ववाचकेन प्रययभेदशब्देनाभिधीयते इति प्रकरणात् ।
भेत्तुं भिदां गन्तुं । कसिमिन् साध्ये साधनम् इदम् इत्य् आह --- शब्दस्येति । एतच् च मीमासकादिनां प्रति द्रष्टव्यम् ।
तद् एवम् इत्यादिनोपसहारः । स्वभावहेतोः साधर्म्यवत् प्रयोगमात्रे दर्शयितव्ये किम् अनेकस्य स्वभावहेतोः प्रयोगो दर्शित इत्य् आशङ्क्य फलम् अस्योपदर्शयन्न् आह --- एवमर्थं चैतद् इति । एवं वक्ष्यमाणको ऽर्थः प्रयोजनं यस्येति विग्रहः कार्यः । चो ऽवधारणे हेतौ वा । एतद् इति त्रैविध्यम् । एवमर्थं चैतत् हेतुजातम् इति क्वचित् पाठस् तत्र च जातं वृन्दं द्रष्टव्यम् । तम् एवार्थं वाचकेत्यादिना दर्शयति । वाचके व्यामोहो भ्रमस् तस्मात् । कस्यचित् प्रतिपत्तुः स्वभावहेताव् अपि प्रयुक्ते व्यामोहो `नायं स्वभावःऽ इति विपर्ययज्ञानम् ।
एतद् उक्तं भवति --- यदि त्रयाणाम् अन्यतम उपादीयते तदा कदाचिद् अन्येनान्यथा प्रयुक्ते स्वभावहेतौ शास्त्रोक्तस्वभावहेतुवाचक[भिन्न]त्वात् `नायं स्वभाववाचकःऽ इति वाचके
[ध्प्र् प्. 161] साधनधर्ममात्रम् । मात्रशब्देनाधिकस्यापेक्षणीयस्य निरासः । तस्यानुबन्धो ऽनुगमनम् अन्वयः । सिद्धः साधनधर्ममात्रानुबन्धो यस्य स तथोक्तः । केन सिद्ध इत्य् आह --- यथास्वं प्रमाणैर् इति[256] । यस्य साध्यधर्म्यस्य यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्य् अर्थः । स्वभावहेतूनां च बहुभेदत्वात् संबन्धसाधनान्य् अपि प्रमाणानि बहूनीति प्रमाणैर् इति बहुवचननिर्देशः । गमयितव्यत्वात् साध्यः, पराश्रितत्वाच् च धर्मः साध्यधर्मः । __________नोतेस्__________
[256] अथ नान्तरीयत्वानिश्चये ऽपि लिङ्गस्य परोक्षार्थप्रतिपादकत्वं स्याद् इत्य् आह --- टि- तद् अयं परमार्थः --- न हेतुः प्रदीपवद् योग्यतया गमको ऽपि तु नान्तरीयकतया विनिश्चितः[257] । साध्याविनाभावित्वनिश्चियनम् एव[258] हि हेतोः साध्यप्रतिपादनव्यापारो नायः कश्चित् । __________नोतेस्__________
[257] प्रमाणैर् यस्य साधनधर्मस्य यदात्मीयं; प्रमाणैर् यदात्मीयं [258] एव हेतोः
व्यामुह्य `नायं स्वभावःऽ इति साधने ऽपि व्यामुह्येत । स व्यामोहो मा भूद् इत्य् एतद् अर्थं त्रिविधः स्वभावहेतुर् उक्तः ।
अथेति सम्बोधने । सिद्धो निश्चितः सम्बन्धस् तादात्म्यलक्षणो यस्य तस्मिन् । यस्य साध्यधर्मस्य यदात्न्मीयम् इति येन प्रमाणेन यस्य साध्यस्य साधनव्याप[क]तं निश्चीयते । तद् एव तस्येत्य् अभिप्रयेणोक्तम् । व्यक्तिभेदविवक्षया बहूनीत्य् उक्तम् ।
साध्यसाधनयोः सम्बन्धो वास्तवो ऽस्तु । किं तन्निश्चयेनेत्य् आह --- तद् अयम् इति । यत एवं तत् तस्माद् अयम् अभिधास्यमानस् तात्पर्यार्थः सर्व इत्यादेर् वाक्यस्य । प्रदीपो वैधर्म्यदृष्टान्तः । योग्यतया तथाशक्त्यतया ।
ननु परोक्षार्थप्रतिपादनव्यापारसमावेशाद् हेतुर् गमकः तत् किं साध्यनान्तरीयकत्वनिश्चयेनेत्य् आह --- साध्येति । हिर् यस्मादर्थे । साध्याविनाभावित्वनिश्चयनम् अत्रापीदम् एतत् स्वभावम् इति निश्चयः । तद् एव हेतोः प्रतिपादनव्यापारः परोक्षार्थप्रतिपादनलक्षणो व्यापारः परोक्षार्थप्रतिपादकतम् इत्य् अर्थः । यद्य् एवम् अनिश्चतसम्बन्भे ऽपि साध्यधर्मे साधनधर्मस् तन्नान्तरीयकतया निश्चेतुं शक्य इति किं सिद्धसम्बन्धेन साध्येनानुसृतेनेत्य् आह --- प्रथमम् इति । प्रथमं हेतुप्रयोगात् प्राक्, बाधकेने साध्यविपर्ययो हेतो [60ब्][259].......................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................... .................................................................................................. ................. [61] साध्यसाधनभाव इति चेत् । यद् दर्शनद्वारायाताव् एतौ कृतकत्वानित्यत्वविकल्पौ व्यावृत्तिनिष्ठौ परमार्थतस् तस्य तादात्म्याद् इत्य् उक्तप्रायम् इत्य् दोषः । तादात्म्यावसायः कुत इति चेत् विपर्यये वाधकप्रमाणवशात् । तत एव तर्हि साध्यं सिद्धम् इति किं साध्यत इति चेत् । न ततो धर्म्यनवच्छेदेन प्लवमानाकारायाः प्रतीतेर् अप्रवृत्त्यङ्गस्योदयात् । यत् पुनर् इयं घर्मकालविशेषानवच्छेदेन
__________नोतेस्__________
[259] नैतत्पत्रं प्रतिबिम्बितम् --- सं-
[ध्प्र् प्. 162] [260]प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः । पुनर् अनुमानकाले[261] साधनं साध्यनान्तरीयकं[262] सामान्येन स्मर्तव्यम् । कृतकत्वं नामाणित्यस्वभावम्[263] इति सामान्येन स्मृतम् अर्थं[264] पुनर् विशेषे योजयति --- इदम् अपि कृतकत्वं शब्दे वर्तमानम् अनित्यस्वभावम्[265] एवेति । __________नोतेस्__________
[260] प्राग् अनुमानात् --- टि- [261] -कालेन साधनं [262] साध्यानन्तरीकं [263] -त्यत्वस्व- [264] स्मृतम् अर्थाय [265] -त्यत्वस्व- तत्र सामान्यस्मरणं लिङ्गज्ञानम्[266] । विशिष्टस्य तु शब्दगतकृतकत्वस्या [267]ऽनित्यत्वस्वभास्य स्मरणम् अनुमानज्ञानम्[268] । तथा च सत्य् अविनाभावित्वज्ञानम् एव परोक्षार्थप्रतिपादकत्वं नाम । तेन निश्चिततन्मात्रानुबन्धे साध्यधर्मे साध्यधर्म्ने स्वभावहेतवः प्रयोक्तव्या नान्यत्रेत्य् उक्तम् ॥ __________नोतेस्__________
[266] लिङ्गनिश्चायकं ज्ञानम् --- टि- [267] कृतकस्या [268] मानं ज्ञानं
यद्य् एवं सम्बन्धो निश्चेतव्यः साध्यस्य साधनेन सह । साधनधर्ममात्रानुबन्धस् तु साध्यस्य कस्मान् निश्चितो मृग्यत इत्य् आह ---
[269]तस्य एव तत्स्वभावत्वात् इइइ-16
__________नोतेस्__________
[269] तस्यैव --- ओम्. तस्यैवेति सिद्धसाधनधर्ममात्रानुबन्धस्य । तत्स्वभावत्वाद् इति साधनधर्मस्वभावत्वात् । यो हि साधयधर्मः साधनधर्ममात्रानुबन्धवान् स एव तस्य साधनधर्मस्य् स्वभावो नान्यः ॥ भवतु ईदृश एव स्वभावः । स्वभाव एव तु साध्ये कस्माद् धेतुप्रयोगः?
स्वभावस्य च[270] हेतुत्वात् इइइ-17
__________नोतेस्__________
[270] -स्य हेतु-
स्वभासस्य च[271] हेतुत्वात् । स्वभाव एव[272] इह हेतुः प्रक्रान्तः । तस्मात् स एव साध्यः कर्तव्यः यः साधनस्य स्वभावः स्यात् । साधनधर्ममात्रानुबन्धवांश्[273] च स्वभावो न्यायः ॥
__________नोतेस्__________
[271] -स्य हेतु- [272] स्वभाव एव हेतु; स्वभाव इह [273] -न्धश् च स्व-
यदि साध्यधर्मः साधनस्य स्वभावः[274] स्यात् प्रतिज्ञार्थैकदेशस् तर्हि हेतुः स्याद् इत्य् आह ---
__________नोतेस्__________
[274] स्वभावः प्रति-
वस्तुतस् तयोस् तादात्म्यम्[275] इइइ-18
__________नोतेस्__________
[275] -आत्म्यात्
वस्तुत इति । वस्तुतः परमार्थतः साध्यसाधनयोस् तादात्म्यम् । समारोप्तितस् तु साध्यसाधनभेदः[276] । साध्यसाधनभावो हि निश्चयारूढे रूपे । निश्चयारूढं च रूपं समारोपितेन
__________नोतेस्__________
[276] -साधनयोर् भेदः
तदात्मताप्रतीतिः प्रवृत्त्यङ्गम् इयम् अस्माद् एव लिङ्गाद् इति किम् अवद्यम्? एवं सत्त्वहेताव् अपि द्रष्टव्यम् । एतच् चोक्तम् अपि स्वार्थानुमाने ऽधिकाभिधानार्थं पुनर् उक्तम् इहेति द्रष्टव्यम् ॥
[ध्प्र् प्. 163]
भेदेनेतरेतरव्यावृत्तिकृतेन भिन्नम् इति अन्यत् साधनम्, अन्यत् साध्यम् । दूराद् धि शाखादिमान् अर्थो वृक्ष इति निश्चीयते न शिंशपेति । अथ च स एव वृक्षः सैव शिंशपा । तस्माद् अभिन्नम् अपि वस्तु निश्चयो भिन्नम् आदर्शयति व्यावृत्तिभेदेन । तस्मान् निश्चयारूढरूपापेक्षया अन्यत् साधनम् अन्यत् साध्यम् । अतो न प्रतिज्ञार्थैकदेशो हेतुः । वास्तवं च तादात्म्यम् इति ॥
कस्मात् पुनः साधनधर्ममात्रनुबन्ध्येव[277] साध्यः स्वभावो नान्य इत्य् आह ---
__________नोतेस्__________
[277] -बन्धे च साध्यः
तन्निष्पत्ताव् अनिष्पन्नस्य तत्स्वभावत्वअभावात्[278] इइइ-19
__________नोतेस्__________
[278] स तन्निष्पत्ताव् अनिष्पन्नस्य साधन तन् निष्पत्ताव् इति । यो हि यन् नानुबध्याति स[279] तन्निष्पत्ताव् अनिष्पन्नः । तस्य तन्निष्पत्ताव् अनिष्पन्नस्य साधनस्वभावत्वम् अयुक्तम् । यतो निष्पत्त्यनिष्पत्ती भावाभावरूपे । भावाभावी च परस्परपरिहारेण स्थितौ । यदि च पूर्वनिष्पन्नस्य, अनिष्पन्नस्य चक्यं भवेद् एकस्यैवार्थस्य भावाभावौ स्यातां युगपत् । न च विरुद्धयोर् भावाभावयोर् ऐक्यं युज्यते, विरुद्धधर्मसंसर्गात्मकत्वाद् एकत्वाभावस्य [280]। __________नोतेस्__________
[279] अयम् एव भेदोभावनां विरुद्धधर्माध्यासः, कारणभेदश् च --- टि- [280] व्यभिचारेत्यादि --- ओम्. किञ् च पश्चाद् उत्पद्यमानं पूर्वनिष्पन्नाद् भिन्नहेतुकम् । हेतुभेदपूर्वकश् च कार्यभेदः । ततो निष्पन्नानिष्पन्न्योर् निरुद्धधर्मसंसर्गात्म्को भेदो भेदहेतुश् च कारणभेद इति कुत एकत्वम्? तमात् साधधर्ममात्रानुबन्ध्य् एव साध्यः स्वभावो नायः ॥ मा भूत् पश्चान् निष्पन्नः पूर्वजस्य स्वभावः । साध्यस् तु कस्मान् न भवतीत्य् आह
व्यभिचारसम्भवाच् च इइइ-20
व्यभिचारेत्यादि । पूर्वजेन पश्चान् निष्पन्नस्य व्यभिचारः परित्यागो यस् तस्य स भवाच् च
ननु किम् अस्य सम्भवो ऽस्ति यद् उत्तैकात्मन एवैका व्यावृत्तिर् निश्चीयते नेतरेत्य् आह --- दूराद् इति । हिर् यस्मात् । अथ चेति निपातसमुदायः प्रतिपिपादयिषितपरमार्थद्योतकः । वृक्षः शिंशपेति चोपलक्षणम् एतत् ।
तस्माद् इत्यादिनोपसंहारः । वास्तवं वस्तुस्वरूपाद् आगतम् असमारोपितम् इत्य् अर्थः । तुशब्दार्थश् चकारः ॥
यः साध्यधर्मो यं साधनधर्मं नानुबध्याति, नानुगच्छति, तस्मिन् सति नियमेन नोपतिष्ठत इति यावत् । कस्मात् तत्स्वभावत्वम् अयुक्तम् इत्य् आह --- यत इति । भवतां भावाभावरूपे तथा ऽपि किं तयोस् तत्स्वभावत्वम् इत्य् आह --- भावेति । चो यस्मादर्थे । यद् इच्छ (यदि चे)ति चशब्दो वक्तव्यान्तरसमुच्चये ।
[ध्प्र् प्. 164]
न पूर्वनिष्पन्नस्य पश्चान् निष्पन्नः साध्यः । तस्मात् साधनधर्ममात्रानुबन्ध्य्[281] एव स्वभावः । स एव च साध्यः । तथा च सिद्धसाधनधर्ममात्रानुबन्ध एव स्वभावे स्वभाहेतवः प्रयोक्तव्या इति स्थितम् ॥
__________नोतेस्__________
[281] -बन्ध्य् एव यः स्वभावः
कार्यहेतोः[282] प्रयोगः--- यत्र धूमस् तत्राग्निः, यथा महानसादौ । अस्ति च इह धूम इति इइइ-21
__________नोतेस्__________
[282] कार्यहेतुप्रयोगः; कार्यहेतोर् अपि प्रयोगः कार्यहेतोः प्रयोगः । साधर्म्यवान् इति प्रकरणाद् अपेक्षीयम् । यत्र धूम इति धूमम् अनूद्य तत्राग्निर् इत्य् अग्नेर्[283] विधिः । तथा च[284] नियमार्थः पूर्ववद् अवगन्तव्यः । तद् अनेन कार्यकारणभावनिमित्ता व्याप्तिर् दर्शिता । __________नोतेस्__________
[283] इत्य् अग्निविधः [284] व्याप्तिर् व्यापकस्य तत्र भाव एवेत्यादिकः --- टि- व्याप्तिसाधनप्रमाणविषयं दर्शयितुम् आह --- यथा महानसआदौ । महानसादौ हि प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माविनाभावो निश्चितः । अस्ति च इहेति साध्यधर्मिणि पक्षधर्मोपसंहारः ॥ इह अपि सिद्ध एव कार्यकारणभावे कारणे साध्ये[285]कार्यहेतुर् वक्तव्यः इइइ-22
__________नोतेस्__________
[285] कार्यं हेतु- इह अपीति । न केवलं स्वभावहेताव् इहापि कार्यहेतौ[286] । सिद्ध एवेति निश्चते कार्यकारणत्वे । कार्यकारणभाव[287] निशयो ह्य् अवश्यं कर्यव्यः । यतो न योग्यतया हेतुर् गमको ऽपि तु नान्तरीयकत्वाद् इत्य् उक्तम् ॥ __________नोतेस्__________
[286] कार्यहेतोः [287] कार्यकारणत्वनिश्चियो; कार्यकारणनिश्चियो
एवं निरुद्धधर्मसंसर्गात्मकभेदं प्रतिपाद्य तस्य हेतुं कारणभेदं प्रतिपाद्यितुम् आह --- किञ् चेति निपातसमुदायो वक्तव्यान्तरसमुच्चये । पूर्वनिष्पन्नवस्तुहेतुकत्वे तदैवोत्पत्तिप्रसङेन पश्चाद् उपादायोगाद् इति भावो भिन्न्हेतुकम् इति ब्रुवतः । भिन्नहेतुकत्वे ऽपि कथं भेद इत्य् आह --- हेतुभेदेति । चो हेतौ । तत इत्यादिनो ऽपसंहारः । तस्माद् इत्यादिना ऽऽद्यस्योपसंहारः ॥
पूर्वस्मिन् काले जातः पूर्वजः । व्यभिचारस् तद् अन्तरेणा ऽपि केवलस्य स्थितिः । चो ऽस्वभावतापेक्षया ऽसाध्यतां समुच्चिनोति । तस्माद् इत्यादिना साधनधर्ममात्रानुबन्धिनस् तत् स्वभावत्वं साधनस्वभाव्त्वञ् चोपसंहरति । चशब्दः साध्य इत्यस्यानन्तरं तत्स्वभावत्वापेक्षया साध्यत्वं समुच्चिनोति । तथा च तन्निष्पत्ताव् एव निष्पन्न्सस्य तादात्म्ये तन्मात्रानुबन्धिन एव च साध्यत्वे सति ॥
[ध्प्र् प्. 165]
साधर्म्यवान् स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः । वैधर्म्यवन्तं दर्शयितुम् आह ---
वैधर्म्यवतः[288]प्रयोगः --- यत् सद् उपलब्धिलक्षणप्राप्तं तद् उपलभ्यत एव, यथा नीलादिविशेषः । न च एवम् इह उपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर् घटस्य इत्य् अनुपलब्धिप्रयोगः इइइ-23
__________नोतेस्__________
[288] वैधर्मवतः वैधर्म्यवत[289] इति यत् सद् उपलब्धिलक्षणप्राप्तम् इति यत् सत् दृश्य इत्य् अस्तित्वानुवादः । तद् उपलभ्यत इत्य् उपलम्भविधिः । [290]तद् अनेन दृश्यस्य सत्त्वं दर्शनविषयत्वेन व्याप्तं कथितम्, असत्त्वनिवृत्तिश् च सत्त्वम्, अनुपलम्भनिवृत्तिश् च उपलभः । तेन साध्यनिवृत्त्यनुवादेन साधननिवृत्तिर् अहिता । तथा च [291]साध्यनिवृत्तिः साधननिवृत्तौ नियतत्वात् साधननिवृत्त्या व्याप्ता कथिता । यदि च धर्मणि साध्यधर्मो न भवेद् [292]हेतुर् अपि न भवेत् । [293]हेत्वभावेन [294]साद्ध्याभावस्य व्याप्तत्वात् । अस्ति च हेतुः[295] । अतो व्यापकस्य साधनाभावस्याभावाद्[296] व्याप्यस्य[297] साध्याभावस्याभाव इति साध्यगतिर्[298] भवति । ततो वैधर्म्यप्रयोगे साधनाभावे साध्याभावो[299] नियतो दर्शनीयः सर्वत्रेति न्यायः ॥ __________नोतेस्__________
[289] वैधर्म्यवतः यत् सद् इति [290] तस्मात् --- टि- [291] सत्त्वं--- टि- [292] हेतुर् अपि । हेत्व-; हेतुर् अपि न स्यात् [293] उपलम्भः --- टि- [294] सत्त्वस्य --- टि- [295] अनुपलभ्यमानः --- टि- [296] उप्लम्भः --- टि- [297] सत्त्वस्य --- टि- [298] साध्यनिश्चयो भवति [299] नियमः
प्रकरणात् साधर्म्यवत् प्रयोगदर्शनप्रस्तावात् । तथा चेति धूमानुवादेनाग्निविधाने सतीत्य् अर्थः । नियमो ऽव्यभिचारः, तल्लक्षणो ऽर्थः प्रतिपाद्यतया ऽभिधेयः प्रयोजनं वा ऽस्य --- यत्र धूम इत्यादेः प्रयोगस्येति प्रस्तावात्, सो ऽनुगन्तव्यः प्रत्येतव्यः । पूर्ववद् अनुपलब्ध्यादिवत् ।
एतद् एव व्यनक्ति तद् इति यत एवं तत् तस्मात् । व्याप्तिर् अविनाभावः, साध्यनियतत्वं साधनस्येति यावत् । दर्शिता प्रदर्शिता । किं निमित्ता सेत्य् आह --- कार्येति ।
अयम् आशयः --- व्याप्तिः खलुः प्रतिबन्धः साध्यायत्तत्वम् । तच् चार्थान्तरस्यार्थान्तरे प्रतिबद्धत्वं कार्यकारणभाववशाद् इति स एव निमित्तं तस्य, अनर्थान्तरस्य तु तादात्म्यम् [61ब्] ।
महानसः सूपकारशाला । आदिशब्देनायस्कारकुट्यादेर् ग्रहणम् । किं तत्र व्याप्तिसाधकं प्रमाणं यद् अपेक्षया तस्य विषयत्वम् इत्य् आह --- प्रत्यक्षेति । हिर् यस्मात् । प्रत्यक्षानुपलम्भानां प्रत्येकं जात्येकत्वविवक्षया प्रत्यक्षानुपलम्भ्याम् इत्य् अवसेयम् । कार्यकारण्भावाद् आत्मा निश्चयारूढः स्वभावो यस्येति विग्रहः कार्यो ऽन्यथा युक्तिविरोधः स्ववचनविरोधश् चा ऽस्य स्यात् । अविनाभावो ऽव्यभिचारः साध्यायत्तता साधनस्येति यावत् ।
पक्षधर्मस्योपसंहारो ढौकनं तत्र सत्त्वप्रदर्शनम् इत्य् अर्थः ॥
[ध्प्र् प्. 166]
स्वभावहेतोर् वैधर्म्यप्रयोगम् आह ---
असत्य् अनित्यत्वे न अस्त्य् एव[300] सत्त्वम् उत्पत्तिमत्त्वं कृतकत्वं वा ।[301] संश् च शब्द उत्पत्तिमान् कृतको वा इति स्वभावहेतोः प्रयोगः इइइ-24
__________नोतेस्__________
[300] नास्ति सत्त्वम् [301] असंश् च असत्य् अनित्यत्व इति । इहानित्यत्वस्य साध्यस्याभावो हेतोर् अभावे नियत[302] उच्यते । तेन हेत्वभावेन[303] साध्याभावो व्याप्त[304] उक्तस् त्रिष्व् अपि स्वभावहेतुषु । सन्न् उत्पत्तिमान् कृतको वा शब्द इति त्रयाणाम् अपि पक्षधर्मत्वप्रदर्शनम् । इह[305] च साधनाभावस्य व्यापकस्याभाव उक्तः । ततो व्याप्यो ऽपि साध्याभावो निर्वर्तत[306] इति साध्यगतिः ॥ __________नोतेस्__________
[302] नियमः [303] सत्त्वेन --- टि- [304] नित्यत्वम् --- टि- [305] शब्दे धर्मिणी --- टि- [306] बुवृत्त इति
कार्यहेतोर्[307] वैधर्म्यवत् प्रयोगम् आह ---
__________नोतेस्__________
[307] वैधर्म्यप्रयो-
असत्य् अग्नौ न भवत्य् एव धूमः[308] । अत्र च अस्ति धूम इति कार्यहेतोः प्रयोगः इइइ-25
__________नोतेस्__________
[308] अत्र चास्तीति कार्य असत्य् अग्नाव् इति । इहापि[309] वह्न्यभावो धूमाभावेन व्याप्त उक्तः । [310]अस्ति धूम अत्र इति व्यापकस्य धूमाभास्याभाव उक्तः । ततो व्याप्यस्य वह्न्यभावे साध्यगतिः ॥ __________नोतेस्__________
[309] इहापि च [310] अत्र चास्ति धूम इति
ननु च साधर्म्यवति[311] व्यतिरेको नोक्तः । वैधर्यवति चान्वयः । तत् कथम् एतत् त्रिरूपलिङ्गाख्यानम् इत्य् आह ---
__________नोतेस्__________
[311] साधर्म्यव्यतिरेको
दृष्टान्तदार्ष्टान्तिकयोर् हेतुसद्भावासद्भावद्वारकं वैधर्म्यं विद्यते प्रतिपाद्यतया यस्य तं दर्शयितुम् आह वार्तिककारः ।
तथा चेति साध्यनिवृत्त्यनुवादेन साधननिवृत्तिप्रकारे सतीत्य् अर्थः । साध्यनिवृत्तिर् अभावः साधनस्य निवृत्त्या ऽभावेन व्याप्ता आत्मनियतीकृता कथिता प्रकाशिता । कुत इत्य् आह --- साधनस्य निवृत्ताव् अभावे नियतत्वाद् अव्यभिचारित्वात् साध्यनिवृत्तेर् इति प्रक्रमात् । यतो यत्र साध्याभावस् तन् नियतत्वम् अस्य । इमान् एव व्याप्ति व्यनक्ति यदीति । चो हेतौ । धर्मणीत्य् अनेन धर्ममात्रम् उपदर्शयन् सर्वोपसंहारवतीं व्याप्तिम् आह । कुतः पुनः साध्याभावे साधनाभाव इत्य् आह --- हेत्वभावेनेति । अस्ति हेतुर् दृश्यानुपलम्भः । अनेन व्यापकस्य साधनाभावलक्षणस्याभावो दर्शितः । अतो व्यापकाभावात् साध्याभावः सद्व्यवहारयोग्यत्वलक्षणो व्याप्यो निवर्त्तते । यत एवम्
[ध्प्र् 167]
साधर्म्येण अपि हि प्रयोगे अर्थाद् वैधर्म्यगतिर् इति[312] इइइ-26
__________नोतेस्__________
[312] गतिः । साधम्येणेति । साधर्म्यणापि अभिधेयेन उक्ते प्रयोगे क्रियमाणे अर्थात्[313] सामर्थ्यात् वैधर्यस्य व्यतिरेकस्य गतिर् भवतीति[314] । हीति यस्मात् । तस्मात् त्रिरूपलिङ्गाख्यानम् एतत्[315] । __________नोतेस्__________
[313] अर्थाद् इति [314] भवति । ही [315] आख्यानम्- एव तत् यदि नाम व्यतिरेको ऽन्वयवता[316] नोक्तस् तथापि अन्व्यवचनसामर्थ्याद् एवावसीयते ॥ __________नोतेस्__________
[316] -वति नोक्तो ऽन्वय-
कथम्?
असति तस्मिन् साध्येन हेतोर् अन्वयाभावात् इइइ-27 असति तस्मिन् व्यतिरेके[317] बुद्ध्याध्यवसिते साध्येन हेतोर् अन्व्यस्य [318]बुद्ध्याध्यवसितस्याभ्वात्[319] । [320]साध्ये नियतं साधनम् अन्वयवाक्याद् अवस्यता साध्याभावे साधनं नाशङ्कनीयम् । __________नोतेस्__________
[317] व्यतिरेकबु- [318] बुद्ध्यध्यवसिते; बुद्ध्यध्यवसितस्य [319] -सितत्वाभावात् [320] साध्ये नियतम् इत्यादिना ऽन्वयबा(बो)धसामर्थ्यात् व्यतिरेकं दर्शयति --- टि-
इतिस् तस्मात् । साध्यस्यासद्व्यवहारयोग्यत्वस्य गतिर् अवसायो भवति, सर्वत्र हेतुत्रयवैध्र्म्यप्रयोगे ॥
स्वभावहेतुम् अधिकृत्याह --- स्वभावेति । वैधर्म्यप्रतिपादकः प्रयोगस् तथोक्तः । कथं पुनस् अत्र साध्यनिश्चयो जायत इत्य् आह --- इहेति स्वभावहेतुप्रयोगत्रये । चो यस्मात् साधनाभास्य सत्त्वादिनिवृत्ते अभावः सत्त्वादिविधिर् उक्तः । ततस् तस्मात् । व्याप्यो अपि क्षणिकत्वाभावो ऽपि । अपिः साधनाभावनिवृत्त्यपेक्षया साध्याभावनिवृत्तिं समुच्चिनोति । यत एवम् इतस् तस्मात् । साध्यस्य क्षणिकत्वस्य गतिर् निश्चिय इति ॥
कार्यहेतुम् उद्दिश्याह कार्येति । न केवलं पूर्वयोर् इत्य् अपिशब्दः । धूमाभावस्याभावो धूमसत्तैव प्रतिषेधप्रतिषेधस्य विधिरूपत्वाद् एवं पूर्वत्रापि विज्ञेयम् । ततो व्यापकस्य धूमाभावस्याभावात् व्याप्यस्य वह्न्यभावस्याभाव(वे) न्यायसिद्धे सति ॥
न केवलं व्यतिरेकेणाभिधेयेन युक्त इत्य् अपिशब्दः । अभिधेयेन साक्षाद् अभिधाविश्रामविशयेण । सामर्थ्याद् अन्यथा ऽनुपपत्तेः ।
एतद् इह ज्ञातव्यम् --- अन्वयव्यतिरेकओर् भेदस्य व्यावृत्तिनिबन्धन्बत्वाद् वस्तुतस् तादात्म्यात् स्वभावहेतुजानुमानबलाद् इतरप्रतीतिर् न त्व् अन्यथा ऽनुपपत्तिलक्षणार्थापत्तिर् अनेनोच्यत इति ।
[ध्प्र् 168] इतरथा [321]साह्द्यनियतम् एव न प्रतीतं स्यात् । साध्याभावे च साधनाभावगतिर् व्यतिरेकगतिः । अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्याद् अन्व्यवाक्ये ऽवसितो व्यतिरेकः ॥ __________नोतेस्__________
[321] साध्ये नियत-
तथा वैधर्म्येण अप्य् अन्वयगतिः इइइ-28 तथेति । यथा ऽन्वयवाक्ये तथा ऽर्थाद् एव वैधर्म्येण प्रयोगे ऽन्वयस्यानभिधीयमानस्यापि गतिः ॥ कथम्?
असति तस्मिन् साध्याभावे हेत्वभावस्य असिद्धेः इइइ-29 असति तस्मिन् अन्वये बुद्धिगृहीते [322]साध्याभावे हेत्वभावस्यासिद्धेर् अनवसायात् । हेत्वभ्वे साध्याभावं नियतं व्यतिरेकवाक्याद् अवस्यता हेतुसंभवे साध्याभावो नाशङ्कनीयः । इतरथा हेत्वभावे[323] नियतो[324] न स्यात् प्रतीतः । हेतुसत्त्वे च साध्यसत्त्वगतिर्[325] अन्वयगतिः । अतः साधनाभावनियतस्य[326] साध्याभस्याभिधानसामर्थ्याद् व्यतिरेक्ये ऽन्वयगतिः ॥ __________नोतेस्__________
[322] गृहीते ते साध्या [323] साध्याभारो(वो) ऽनग्निः --- टि- [324] नियतः साध्याभावो न स्यात् [325] साध्यसत्त्वं गतिः [326] साधनाभावे नियतस्य
एतद् एव दर्शयितुम् --- यदि नामेति । विशेषाभिधाननिमित्ताभ्युपगमे चायं निपातसमुदायः । अन्वयवता ऽन्वयेनाभिधेयेन युक्ते प्रयोगेणेति प्रस्तावात् । अन्वयवचनसाम्र्थ्याद् [62अ]अन्वयाभिधानबलात् ॥
अभिप्रायम् अजानानः पर आह --- कथम् इति ।
असतीत्यादि सिद्धान्तवादी । अभिधेयतया स्थित इत्य् आशङ्काम् अपाकृत्तुम् आह --- बुद्ध्येति । तादात्म्यतदुत्पत्तिनिबन्धने प्रतिबन्धेन प्रतिबन्धेन प्रतिबद्धत्वात् साधनम् इदं साध्याभ्वे न भवत्य् एवेति बुद्ध्या ऽध्यवसिते विषयीकृते ऽसति । साध्येन हेतोर् अन्वयस्य --- अन्वीयमानत्वस्य --- यत्र साधनं तत्र सर्वत्रावश्यं साध्यम् इत्य् एवंरूपस्य बुद्ध्या ऽध्यवसितस्येत्य् एतद् अन्वयवाक्योपस्थापितया बुद्ध्या गृहीतस्याभावाद् अबावप्रसङ्गाद् इत्य् अर्थः ।
एतद् उक्तं भवति । यदि साध्याभावे ऽपि साधनं स्यात् तदा यत्रैवादः साध्याभावे ऽपि वृत्तम् इष्यते तत्रैव तत् साधनम् अप्य् अस्ति न च साध्यम् इति कथं यत्र यत्र साधनधर्मस् तत्र तत्र साध्यधर्म इति सर्वोपसंहारेणान्वय उक्तः स्याद् इति । तस्माद् हेतोर् अन्व्याभावाद् हेतोः साध्ये नियतं साध्याविनाभाविसाधनम् अन्वयवाक्वादिवास्यता (अन्वयवाक्याद् अवयता) प्रतियता साध्याभावे साधनं नाशङ्कनीयं न सन्देहनीयम् । आशङ्कानिषेधेन च विपर्ययो ऽत्यन्तं निषिद्धः ।
कथं पुनस् तेनैवं नाशङ्कनीयम् इत्य् आह --- इतरथेति --- अतो ऽन्येन प्रकारेण । अस्तु साध्याभावे साधनाभावावसायो व्यतिरेकस् तु कथं प्रतीयत इत्य् आह --- साध्येति । चो यस्माद् । यत
[ध्प्र् 169]
यदि नामाकाशादौ साध्याभावे साधनाभावस् तथापि किम् इति हेतुसम्भवे साध्यसंभव इत्य् आह ---
न हि स्वभावप्रतिबन्धे असत्य् एकस्य निवृत्ताव् अपरस्य नियमेन निवृत्तिः इइइ-30 न हीति । [327]स्वभावेन प्रतिबन्धो यस् तस्मिन्न् अस्त्य् एकस्य साधयस्य निवृत्त्या नापरस्य साधनस्य नियमेन युक्ता नियमवती निवृत्तिः ॥ __________नोतेस्__________
[327] भावः --- उत्पादः, सत्ता वा --- टि- स च द्विप्रकारः सर्वस्य । तादात्म्यलक्षणस् तदुत्पत्तिलक्षणश् च इत्य् उक्तम् इइइ-31 एवम् अतो हेतोर् इत्यादिनोपसंहारः । अस्ति व्यतिरेके प्रतिबन्धानाक्षेपाद् अन्वयस्यैवासत्त्वाद् असतश् च सत्त्वेन तत्प्रतिपादनायोगात् प्रेक्षावताम् अन्वयवचनम् एव न प्रयुक्तं स्याद् इति समुदार्यार्थः ॥
वैधर्म्येनाभिधेयेन युक्त इत्य् अध्याहारः । प्रयोगे साधनवाचकशब्दसमूहे ॥
कथम् इति परः ।
असतीत्यादि सिद्धान्तवादी । बुद्धिगृहीत इति बुद्ध्यन्तरगृहीत इति ग्राह्यम् । एतद् एव प्रतिपादयन्न् आह --- हेत्वभाव इति । इतरथा हेतुसद्भावे साध्याभावसम्भवप्रकारे सति नियतो न स्यात् प्रतीतः साध्याभाव इति शेषः ।
मा भून् नियतो ऽनुगतः किं नश् च्छिन्नम् इत्य् आह --- हेतुसत्त्वे इति । चः समुच्चये ।
अयम् आशयः --- सति साधने ऽवश्यं साध्यम् इत्य् एवंलक्षणो ऽन्वयो ऽस्त्य् एव । केवलं व्यतिरेकवाक्यान् न प्रतीयत इत्य् उच्यते पूर्वपक्षवादिना । यदा च हेत्वभावे न नियतः साध्याभावः सम्भाव्यत इति कुतो यत्र यत्र साधनं तत्र तत्र साध्यम् इत्य् एवंरूपो ऽन्वयः सिद्ध्येत । तत्रैवंसम्भावनाविषये हेतुभावे ऽपि साध्याभावाद् इति ।
यत एवम् अतो ऽस्माद् हेतोर् इत्यादिनोपसंहारः । अत्राप्य् अयम् आशयः --- यदि यत्र साधनं तत्रावश्यं साह्द्यम् इति न स्यात् तदा तत्रैव तावद् असत्य् अपि साध्ये साधनं वृत्तम् इति कुतः साध्याभ्वे साधनं न वर्त्तत इत्य् एवंरूपो व्यतिरेकः सिद्ध्येद् इति ॥
अत्राभिप्रायम् अपरिज्ञायमानः (-जानानाः) प्राह --- यदि नामेति ।
न हीत्यादि प्रतिविधानम् आचार्यीयं न हीत्यादिना व्याचष्ते । अयं च मौलो हिशब्दः पश्चाद् व्याखास्यते । नियमेनावश्यंतया । या चावशं भाविनी निवृत्तिः सा नियम् एव उक्ता भवतीत्य् अर्थकथनम् एतत् ॥
[ध्प्र् 170]
स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य [328]प्रतिबद्धस्य । तादात्म्यं लक्षनं निमित्तं यस्य स तथोक्तः । तदुत्पत्तिर् लक्षणं निमित्तं यस्य स तथोक्तः । यो यत्र प्रतिबद्धस् तस्य स प्रतिबन्धविषयो ऽर्थः स्वभावः कारणं वा स्यात् । अन्यसिमिन् प्रतिबद्धत्वानुपपत्तेः । तस्माद् द्विप्रकारः स इत्य् उक्तम् । `स च साध्ये `र्थे लिङ्गस्यऽ इत्य् ॠन्ब् इइ-21 अत्रान्तरे ऽभिहितः ॥
__________नोतेस्__________
[328] हेतोः --- टि-; प्रतिबद्धस्य इति ओम्.
तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः । तस्मात् निवृत्तिवचनम् आक्षिप्तप्रतिबन्धोपदर्शनम् एव भवति । यच् च प्रतिबन्धोपदर्शनं[329]तद् एव अन्वयवचनम् इत्य् एकेन अपि वाक्येन अन्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर् लिङ्गस्य सदसत्त्वख्यापनं[330]कृतं भवति इति न अवश्यं वाक्यद्वयप्रयोगः इइइ-32
__________नोतेस्__________
[329] तद् अन्वय- [330] सदसत्त्वाख्यापनं
[331]हिर् यस्मादर्थे । यस्मात् स्वभावपर्तिबन्धे निर्वर्त्यनिवर्तकभावस् तेन[332] साध्यस्य निवृत्तौ साधनस्य[333] निवृत्तिं काथयता प्रतिबन्धो निवर्त्यनिवर्तकयोर् दर्शनीयः । यदि हि साधनं साध्ये प्रतिबद्धं भवेद् एवं साध्यनिवृत्तौ[334]तन् नियमेन निवर्तेत । यतश् च तस्य प्रतिबन्धो दर्शनीयः तास्मात् साध्यनिवृत्तौ यत् साधननिवृत्तिवचनं[335] तेनाक्षिप्तं प्रतिबन्धोपदर्शनम् । यच् च तदाक्षिप्तं[336] प्रतिबन्धोपदर्शनं तद् एवान्वयवचनम् । पर्तिबन्धश् चेद् अवश्यं दर्शयितव्यो न वक्तव्यस् तर्ह्य् अन्वयः । यस्माद् दृष्टान्ते प्रमाणे प्रतिबन्धो[337] दर्श्यमान एवान्वयो नापरः कशिचित्,
__________नोतेस्__________
[331] पूर्वसूत्रोक्तः --- टि- [332] तेनेत्य् उपसंहरति --- टि- [333] साधननिवृत्तिं [334] निवृत्तौ नियमेन [335] अन्तर्भावितम् --- टि-; तेनाक्षिप्त प्रतिबन्धोपदर्शनं तद् एवान्वय [336] क्षिप्तप्रति [337] वचनरूपो यत्र यत्र धूमस् तत्राग्निर् इत्य् एवं न वक्तव्यस् तर्ह्य् अन्वयः प्रतिबन्धशून्यः । साध्यहेत्वोस् तादात्म्यतदुपत्तिरूपप्रतिबन्धे स्थिते सिद्ध एवान्वय इति भावः --- टि-
अथ स्वभावप्रतिबन्धश् चेद् एकनिवृत्ताव् अपरनिवृत्तिनिबन्धनं तदा कार्यहेतोर् एव व्यतिरेको न स्वभावहेतोर् [62ब्] इति[338]............. तस्यासौ न तर्हि कार्यं हेताव् इत्य् आह --- स चेति । चो यस्मादर्थे । स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं साध्यायत्तत्वम् । कस्यासाव् इत्य् आशङ्कायाम् आह --- प्रतिबद्धस्य साधनस्य । सर्वस्येत्य् अनेन व्याप्तिं दर्शयति । तत्र संयोगादिनिमित्तशङ्काव्युदासायाभिमतं द्वितं (द्वैतं) दर्शयन्न् आह --- तादात्म्यम् इत्यादि । लक्ष्यते ऽनेनेति लक्षणम् । अत एवाह निमित्तम् इति किम् पुनस् तेन स्वभावेन[339].......म् इत्य् आह --- अन्यस्मिन्न् अस्वभावे ऽकारणे च । संयोगसमवाययोः प्रमाणबाधितत्वेन निमित्तत्वानुपपत्तेर् इति भावः । यत एवं तस्माद् हेतोः । स इति प्रतिबन्धः ॥
__________नोतेस्__________
[338] पाठो ऽत्र घृष्टः । [339] पाठो ऽत्र घृष्टः ।
पूर्वकं हिशब्दम् इदानीं यथायोगं व्याचष्टे --- हिर् इति यस्माद् अर्थवृत्ति हिशब्दम् । अस्य
[ध्प्र् 171]
तस्मान् निवर्त्यनिर्वतकयोः[340] प्रतिबन्धो ज्ञातव्यः । तथा चान्वय एव ज्ञातो भवति । इतिशब्दो हेतौ । यस्माद् अन्वये ऽपि[341] व्यतिरेकगतिः व्यतिरेके चान्वयगतिः, तस्माद् एकेनापि सपक्षे चासपक्षे च सत्त्वासत्तय्ः ख्यापनं कृतम् ।
__________नोतेस्__________
[340] -वर्तकप्रति- [341] अन्वये व्य- अन्वयो मुखम् उपायो ऽभिधेयत्वाद् यस्य तद् अन्वयमुखं वाक्यम् । एवं व्यतिरेको मुखं [342]यस्येति । इत्[343]इ हेतौ । यस्माद् एकेनापि वाक्येन द्वयगतिस् तस्माद् एकस्मिन् साधनवाक्ये द्वयोर् अन्वयव्यतिरेकवाक्ययोर् अवश्यम् एव प्रयोगो न कर्त्तव्यः । __________नोतेस्__________
[342] मुखम् अस्य [343] इतिकरणो हेतौ अर्थगत्यर्थो हि शब्दप्रयोगः । अर्थश् चेद् अवगतः, किं शब्दप्रयोगेण? [344]एकम् एवान्व्यवाक्यं व्यतिरेकवाक्यं वा प्रयोक्तव्यम् ॥ __________नोतेस्__________
[344] एकम् एव त्व् अन्वय-
अनुपलब्धाव् अपि --- यत् सद् उपलब्धिलक्षणप्राप्तं तद् उपलभ्यत एव इत्य् उक्ते --- अनुपलभ्यमानं तादृशम् असद् इति प्रतीतेर् अन्वयसिद्धेःअनुपलभ्यमानं तादृशम् असद् इति प्रतीतेर् अन्वयसिद्धेः इइइ-33
हिशब्दस्य अर्थं कृत्वा शब्दपदार्थकस्या[345]............................. एवम् उक्ते वक्ष्यमाणे च सर्वत्र द्रष्टव्यम् । अमुम् एव यस्माद् अर्थम् अपेक्ष्य तेनेति योजयितुम् इति दर्शयितुम् आह --- यस्माद् इति । एतच् च न हीत्यादिवाक्यस्य प्रकाश्यम् अर्थं गृहीत्वोक्तं न त्व् अभिधेयम्, निवृत्तिनिषेधस्यैव तत्राभिधेयत्वात् ।
__________नोतेस्__________
[345] पाठो ऽत्र घृष्टः ।
ननु प्रतिबन्धः प्रतिबद्धत्वम् । स च निवर्त्तमानस्यैव न निवर्त्तकस्य । यदि हीत्यादिन च[346]................... दर्शयिष्यति । तत् कथम् इह निवर्त्यनिवर्त्तकयोर् इत्य् उक्तम् । सत्यम् । केवलम् अत्र प्रतिबधशबदेन प्रतिबद्धत्वं प्रतिबन्धविषयत्वं च विवक्षितम् ।
__________नोतेस्__________
[346] पाठो ऽत्र घृष्टः ।
तेनायम् अर्थः । प्रतिबन्धविषये प्रतिबद्धत्वं दर्शनीयम् । तथा च न कश्चिद् दोषः ।
कस्मात् पुनः प्रतिबन्धो । दर्शनीय इत्य् आशङ्क्याह --- यदीति । हीति यस्मात् । तेन व्यतिरेकवचनेनाक्षिप्तं प्रकाशितं । प्रतिबद्न्धस् तादात्म्यतदुप्तत्तिनिबन्धनं दर्शययिते प्रकाश्यते ऽनेनेति तथा । प्रतिबन्धो ऽवश्यदर्शयितव्यो ऽन्यथा व्यतिरेकस्यैवासिद्धेर् इति भावः । भवतु तत् तथा --- यद् इति । चो ऽवधारणे । तद् अयम् अर्थः --- यद् एवाक्षिप्तप्रतिबन्धोपदर्शनं तद् एवान्वयवचनम् अन्वयप्रकाशनम् ।
ननूपदर्श्यतां प्रतिबधो[347].................. स कथं तेनोक्तो भवतीत्य् आह --- प्रतिबन्ध इति । यद्य् अवश्यं दर्शयितव्यो नियमेन ख्यापनीयस् तर्हि न वक्तव्यः प्रतिपादयितव्यो ऽअन्वयः ।
__________नोतेस्__________
[347] पाठो ऽत्र घृष्टः ।
ननु च दृष्टान्तेन प्रतिबन्धसाधनकेन प्रमाणेन केवलं प्रतिबन्धः प्रदर्श्यते, न त्व् अन्वयः । तत् कथं वक्तव्यस् तेन वाक्येनेत्य् आह --- यस्माद् इति । तस्य तादात्म्यनिबन्धनस्य तदुत्पत्तिनिबन्धनस्य वा ऽन्वयात्मकत्वाद् इति भावः ॥
[ध्प्र् 172]
अनुपलब्धाव् अपि व्यतिरेकेणोक्तेनान्वयगतिः[348] । यत् सद् उपलब्धिलक्षणप्राप्तम् इति साध्यस्य --- असद्व्यवहारयोग्यत्वस्य निवृत्तिं दृश्यसत्त्वरूपाम्[349] आह । तदुपलभ्यतए एवेति अनुपलम्भस्य निवृत्तिम् उपलम्भरूपाम् आह । तद् अनेन साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शता । यदि च साधनसंभवे ऽपि [350]साध्यनिवृत्तिर् भवेत् न साधनाभावेन[351] व्याप्ता भवेत् । अतो व्याप्तिं[352] प्रतिपद्यमानेन साधनसंभवः साध्यसम्भवेन व्याप्तः प्रतिपत्तव्यः । अत एवाह --- अनुपलभ्यमानं तादृशम् इति दृश्यम् असद् इति प्रतीतेः[353] संप्रत्ययाद् अन्वयसिद्धिर् इति ॥
__________नोतेस्__________
[348] केण युक्तेन [349] सत्त्वस्वरूपाम् आह [350] सत्त्वं --- टि- [351] उपलम्भेन --- टि- [352] व्याप्तिप्रति [353] प्रतीतिः --- ओम्.
द्वयोर् अप्य् अनयोः प्रयोगयोर्[354]न अवश्यं पक्षनिर्देशः इइइ-34
__________नोतेस्__________
[354] प्रयोगे ऽवश्यं; प्रयोगे नावश्यं यतश् च साधनं साध्यधर्मप्रतिबद्धं तादात्म्यतदुत्पत्तिभ्यां प्रतिपत्तव्यं द्वयोर् अपि परयोगयोः तस्मात् पक्षो ऽवश्यम् एव न निर्देश्यः । यत् साधनं साध्यनियतं प्रतीतं तत एव साध्यधर्मिणि दृष्टात्[355] साध्यप्रतितः । अतो न किंचित् साध्यनिर्देशेनेति ॥ __________नोतेस्__________
[355] दृष्ट्वा
निवृत्तिवचनं चैतद् उपलक्षणं द्रष्टव्यम् । तेनान्व्यवचने ऽपि सर्वं यथायोगं द्रष्टव्यम् ।
यस्माद् एवम् अनुवादविधिक्रमस् तत् तस्माद् अनेन वाक्येन दर्शिता प्रकाशिता । भवत्वभावयोर् व्याप्यव्यपाकभावस् तथाप्य् अन्वयः कथं सिद्ध्यतीत्य् आह --- यदीति । चो हेतौ । न व्याप्ता भवेत् साध्यनिवृत्तिर् इति प्रकृतत्वात् ॥
तस्मात् पक्षो ऽवश्यम् एव न निर्देश्य इत्य् अनेन नावश्यं पक्षनिर्देश इत्य् अस्यार्थः कथितः ।
एवञ् च व्याचक्षाणेन यत् कैश्चित् स्वयूथ्यैर् विद्वस्यमानैः "अवश्यं पक्षनिर्देशो न; किन् तर्हि? कदाचिन् निर्देशः, कदाचिन् न" इति व्याख्यातं तद् अपहस्तितं द्रष्टव्यम् । कदाचिद् अपि तस्य प्रयोगार्हत्वे प्रतिज्ञायाः साधनाङ्गत्वप्रसङ्गात् । तथात्वे च वादन्यायस्य [63अ][356][विरोधः स्यात्] ।
__________नोतेस्__________
[356] अस्मिन् पत्रे अधिकं घृष्टं वर्तते । अत एव सम्यक् न पठयते --- सं-
नन्व् असति साध्यनिर्देशे कुतस् तद् अवगतिर् येन तदनिर्देश इत्य् आशङ्क्याह --- यद् इति । साध्यनियतं साध्यनान्तरीयकम् । प्रतिबन्धसाधकेन प्रमाणेनेति बुद्धिस्तम् । तत एव साधनात् धर्मिणि विवादास्पदीभूते दृष्टात् प्रमाणेनावगतात् साध्यस्य धर्मधर्मिसमुदायस्य प्रतीतिर् भवति ।
एतद् उक्तं भवति .........प्रतितार्थप्रतिपादकेन कर्त्तव्यम् इति । शङ्कराचार्य .. ईश्वरकारणे ................विशेषः प्रतीयेतेत्यादिना वाक्यप्रबन्धेन विरुद्धशङ्काव्यवच्छेदार्थं साध्यवचनम् इति संआधानात् । तथा हि तस्य प्रबन्धस्यायम् अर्थः --- असति साध्यवचने यत् कृतकं तद् सर्वम् अनित्यं
[ध्प्र् 173]
यथा .................. कुतश्चिद् भ्रान्तिनिमित्ताद् ईदृशं व्याप्तिवचनं संभाव्यते । अथ तथाविधाभिप्रायो वक्ता कृतकत्वं प्रयुञ्जानः तस्य नित्यतेन व्याप्तिं ब्रूयात् । तद् अयुक्तम् । यत्स् तयोर् व्याप्ति ब्रुवाणो ............... कथयेत् ................ चेत् साधन ............................ साधनविकलः षध्यविकलो वा मा भूद् दृष्टान्त इति यत् कृतकं तद् अनित्यम् इति प्रयोगो ऽपि विरुद्धवाद्य् एव द्रष्टव्यः । .......... तद् एतद् भौ[ताख्यानं] किम् अत्र ब्रूमः तथा हि कः खलु प्रेक्षावान् साधनविकलं विहायसं साध्यविकलं च कुम्भम् आलोचयितुम् ईशानो ऽभिप्रेतनित्यत्वविरुद्धेनानित्यत्वेन साध्ये(ध्य)विकलतया कुम्भसन्निभ एव घटे व्याप्तिं दर्शयेत् । भ्रान्त्या चेत् । साधनवैकल्यम् आकाशस्य ..................................... वा ऽभिप्रेतेन नित्यत्वेन कृतकत्वस्य व्याप्तिं न प्रदर्शयेत् । तत्र साधनवैकल्यम्, कुम्भे च साध्यवैकल्य ...................... कुम्भतुल्ये ऽपि घटे व्यामुह्यति, भ्रातेर् नियतनिमित्तत्वाद् इति चेत् । एवं तर्हि पक्षवचने ऽपि कथं ....................... संभाव्यत्वात् । .................... समानो ऽपि विसंवादनाभिप्रायो न ............. । न चाप्युतत्तौ न चान्यदास्यान्यादृशं वचनम् इदानीं तु द्रुतादिभेदभिन्नम् इत्यादिना प्रकारेण वचनविशेषेण ज्ञानेन कार्यभूतेनाविपरीतो ऽभिप्रायो ऽवधार्यते । तेन ............................. तद् अनित्यम् अभिधातरि ........... विशेषः । वचनसांकर्यान् नैवं तत्र निश्चय इति चेत् । एतत् पक्षवचने ऽपि समानम् । एवं निश्चेतुं शक्येति तस्य तत्र तथावावगमो भविष्यतीति चेत् सर्वं
समानमन्यत्रा ऽविशेषात् । किञ् च स एवं वादी तपस्वी ............ [63ब्] स्वयम् एव तावद् दुष्यति । न हि कशित् साधनवादी प्रतिज्ञाहेतूदाहरणान्य् एवाभिधायोपरमते । किन् तर्हि? निगमनम् अप्य् उपादत्ते --- तस्माद् अनित्यः शब्द इति । एवम् उक्ते च कुतो नित्यत्वशङ्का, यतः कृतकत्वस्य विरुद्धता भवेत्? ततश् च निगमनेनैव विरुद्धशङ्काव्यवच्छेदस्य कृतत्वात् पकास्वचनम् अपार्थकम् । यद् आहाक्षपादः[357]--- "साध्ये विपरीतशङ्काव्यवच्छेदार्थं निगमनम् इति" । तथा हेतुवचनस्याप्य् अनुत्थानम् आयातम् । निगमने ऽनाश्वास इति चेद् । हन्त प्रतिज्ञावचने ऽप्य् अनाश्वासस् तुल्यः । यत् तत्र समाधानं तन् निगमने ऽपि भविष्यति । तस्मात् तन्मते ऽपि निगमनाद् एवाभिप्रेतसाध्यप्रतीतेर् न विरुद्धाशङ्कानिरासार्थं अपेक्षावचनं करणियम् । तद् अयम् यथा नाम कश्चित् स्वाङ्गुलिज्वालया परं दिधक्षुः स प्ररं दहेद् वा न वा, स्वाङ्गुलिदाहम् एव तावद् अनुभवतीति वृत्तान्तो जातः ।
__________नोतेस्__________
[357] अत्र अक्षपादवचनत्वेन यद् उद्धृतं तन् नास्ति न्यायसूत्रे किन् तु वार्तिके --- "साध्यविपरीतप्रसङ्गप्रतिषेधार्थं यत् पुनर् अभिधानं तत् निगमनम्" इति वर्तते --- 1.1.39.
यद्य् एवं निगमनम् अप्य् अपार्थकम् आपद्यत इति चेत् । अयम् अपरो ऽस्तु दोषः । कथं नाम ताथागता जयन्ति? केवलं सति निगमने विरुद्धशङ्काव्यवच्छेदार्तह्ं पक्षावचनं न कार्यम् । निगमनेनैव तदाशङ्काव्यवअच्छेदस्य कृतत्वाद् इत्य् उच्यत इति ।
त्रिलोचचः पुनर् न्यायभाष्यटीकायाम् इदम् अवादीत् --- "साध्यवचनम् असाधनाङ्गवचनं न भवति, यतो विवादेषु परप्रतिपत्तिम् अधिकृत्य न प्रयोगनियमः शक्यः । पटुमन्दादिभावेन परपतिपत्तीनाम् अनवस्थानात् । तथा हि हेतुवचनाद् एव कश्चित् प्रतेति । कश्चित् पुनर् अन्तरेणापि हेतुवचनं वक्तृस्वरूपपरिशीलनात् प्राग् एव शब्दनिष्पत्तेर् ओष्ठादिस्थानव्यापारोपलब्धेर् वक्तुर् अभिप्रेतम् अन्वेति । तस्माद् अनपेक्षितपरप्रतिपत्तिर् एवायं ज्ञाता ज्ञानस्थम् अर्थं प्रतिपादयन्तं तस्य स्वप्रतिपत्त्या ऽऽरूढस्यार्थस्य
[ध्प्र् 174]
[358]एवम् एवार्थम् अनुपलब्धिप्रयोगे दर्शयति ---
__________नोतेस्__________
[358] एतम्
यस्मात् साधर्म्यवत्प्रयोगे अपि यद् उपलब्धिलक्षणप्राप्तं सन् न उपलभ्यते सो असद्व्यवहारविषयः[359]। न उपलभ्यते च अत्र उपलब्धिलक्षणप्राप्तो घट इत्य् उक्ते सामर्थ्याद् एव नेह घट इति भवति इइइ-35
__________नोतेस्__________
[359] विषयः सिद्धः साधर्म्यवति प्रयोगे ऽपि सामर्थ्याद् एव नेह प्रदेशे[360] घट इति भवति । __________नोतेस्__________
[360] नेह घट
किं पुनस् तत् सामर्थ्यम् इत्य् आह --- यद् उपलब्धिलक्षणाप्राप्तं[361] सन् नोपलभ्यते --- इत्य् अनुपलम्भानुवादः । सो ऽसद्व्यवहारविषयः --- इत्य् असद्व्यवहारयोग्यत्वविधिः । तथा च सति दृश्यानुप्लम्भोपलम्भो
__________नोतेस्__________
[361] प्राप्तम् इति । अनु-
वाचकं शब्दं प्रयोक्तुम् अर्हति । स्वप्रतिपत्तिश् च लिङ्गजा ज्ञापनीयधर्मविशिष्टं धर्मिणम् अभिनिविशते । तस्मात् प्ररस्य विवादयित्रा ज्ञानस्थम् अर्थं परो बोद्धव्य इति स एव परं प्रत्य् उपाय इति ।"
तद् एतत् कार्पटिककर्णाटरटितम् अश्रद्धेयं धीमताम् । तथा हि --- सत्यम्, स्वप्रतिपत्त्या ऽऽरूढ एवार्थः परस्मै प्रतिपाद्यते । केवलम् इदम् आलोच्यताम् --- किं पक्षधर्मवचनाद् व्याप्तिवचनसहितात् सो ऽर्थः प्रतिपादितो भवति न वेति । प्रतिपादने किं प्रतीतप्रत्यायकेन तद्वचनेन कार्यम्? तावतो वचनात् तत्प्रतिपत्तिम् अपह्नवान् एव (-ह्नवानेन) तु नापहनुतं नाम किञ्चिद् । अवश्यं चैतद् अन्य्था स्वार्थानुमानकाले प्रतिज्ञावचनम् अन्तरेण कथं प्रतिपत्तिः स्यात्? स्वप्रतिपत्तिकाले च यावतो ऽर्थात् साध्यप्रतीतिर् आसीत् परार्थानुमानकाले ऽपि तावत् एव वचनम् उपादेयम् । तत्र च न प्रज्ञापनीयधर्मविशिष्टधर्मिदर्शनपूर्वकादिसाधनादिदर्शनात् साध्यप्रतीतिर् आसीत् । किन् तर्हि? पक्षधर्मदर्शनात् तद् अविनाभावस्मरणसहिताद् इति तावत् एव वचनं न्याय्यम् ।
अथोक्तं पटुमन्दादिभावेन परप्रतीतीनाम् अनवस्थानान् न शक्य्ते प्रयोगनियमः कर्त्तुम् इति । सत्यम् उक्तम् [64अ] केवलं स्ववधाय कृत्योत्थापनप्रायं तत् । यतः पटुमन्दादिभेदेन प्रतिपतृणाम् अनेकप्रकारत्वात् स्याद् अपि कश्चिद् यः पञ्चावयवे ऽपि वाक्ये प्रयुक्ते पूर्वं संशयजिज्ञासादिवचनम् अन्तरेण न बुद्ध्यते बोधयितव्यम् इति तद्वचनस्याप्य् अवश्यप्रयोज्यत्वाद् अवयवत्वाद् अवगत( अपगतं) पञ्चावयवत्वं साधनवाक्यस्य । अभ्युपगमे च गौडकाश्मीरपुरुषविधायो(-विषयो)पाख्यानं कुतूहलास्पदम् अवतरते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्य् अवावयवा इति शास्त्रस्थितेर् अपसिद्धान्तो ऽपि दीप्ताज्ञः पार्थिव इव निगृह्णाति ।
अथ किम् अस्य सम्भवो ऽस्ति यो निर्दिष्टे हि साध्ये साधने वा ऽभिहिते निर्दशिते चोदाहरणे कृते ऽप्य् उपनये निगमिते च सर्वावयवव्यापारे साध्यं न बुध्यत इति? ननु अस्यापि प्रतिपत्तुः किम् अस्ति सम्भवो यत्र धर्मिणि साधनं बोधितः, तस्य साध्याविनाभावितां स्मरितो ऽपि यस् तत्र साध्यं नावबुध्यत इति? सम्भवति बुद्धिमान्द्याद् इति चेत् । सर्वं समानम् इदम् अन्यत्राभिनिवेशाद् इत्य् अलं विस्तरेण ।
[ध्प्र् 175] ऽसद्व्यवहारयोग्यत्वेन व्याप्तो दर्शितः । नोपलभ्यते च[362] इत्यादिना साध्यधर्मिणि तत्त्वं लिङ्गस्य दर्शितम् । यदि च साध्यधरमस् तत्र साध्यधर्मिणि न भवेत् साधनधर्मो ऽपि न भवेत् । साध्यनियतत्वात् तस्य साधनधर्मस्येति सामर्थ्यम् ॥ __________नोतेस्__________
[362] च --- ओम्.
तथा वैधर्म्यवत्प्रयोगे अपि --- यः सद्व्यवहारविषय उपलब्धिलक्षणप्राप्तः, स उपलभ्यत एव । न[363]तथा अत्र तादृशो घट उपलभ्यत इत्य् उक्ते सामर्थ्याद् एव नेह सद्व्यवहारविषय इति भवति इइइ-36
__________नोतेस्__________
[363] न च यथा साधर्म्यवत्प्रयोगे तथा वैधर्म्यवत्प्रयोगे ऽपि सामर्थ्याद् एव नेह सव्यवहारविषयो[364] ऽस्ति घट इति भवति । __________नोतेस्__________
[364] -व्यवहारस्य विषयो सामर्थ्यं दर्शयितुम् आह--- यः सद्व्यवहारविषय इति विद्यमानः । उपलब्धिलक्षणप्राप्त इति दृश्यः इत्य् एषा साध्यनिवृत्तिः । [365]स उपलभ्यत एवेति साधननिवृत्तिर् इति । अनेन च[366] साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । न तथेति --- यथा ऽन्यो दृश्य उपलभ्यते न तथात्र प्रदेशे तादृश इति दृश्यो घट उपलभ्यत इति । अनेन साध्यनिवृत्तेर् व्यापिका निवृत्तिर् असती साध्यधर्मिणि दर्शिता । यदि च[367] साध्यधर्मः साध्यधर्मिणि न स्यात् साधनधर्मो ऽपि न भवेत्[368] । __________नोतेस्__________
[365] स --- ओम्. [366] च --- ओम्.; अनेन न [367] च न साध्य- [368] -धर्मिणि भवेत् साधन-
तद् अपि (यद् अपि) न्यायभाष्यटीकावार्तिकयोर् विश्वरूपोद्योतक्रराव् आहतुः "पुरा विषयनिरूपणपूर्वकम् एव हि करणव्यापरणं दृष्टम् । करणं च साधन(नं) व्यापारयितव्यम् । अतो विषयनिरूपणं साध्यवचनेन क्रियते, अन्यथा करणप्रवर्त्तनस्याशक्यत्वाद् इति ।"[369]तद् अपि न चतुरस्रम् । यतो यदि हेतुं प्रयुञ्जानेन विषयः सिसाधयिषितो ऽर्थो निरूपयितव्यो बुद्धौ निवेशनीय इत्य् अभिमतम्, तदा ऽभ्युपगम एवोत्तरम् । न हि कश्चित् साध्यम् अनिश्चित्यैव परप्रतिपत्तये साधनवाक्यम् अभिधत्ते । अथ वचनेन करणस्य हेतोः स विषयो दर्शयितव्य इति मतिः, तदा तेनैव तावद् दर्शितेन को ऽर्थः? यदि परस्य प्रतीतिर् अन्यथा न स्यात् सर्वं शोभेतेत्य् उत्तरम् इति किं क्षुण्णक्षोदीकरणेन?
__________नोतेस्__________
[369] नोपलभ्यते न्यायवार्तिके --- सं-
अध्ययनः पुना रुचिटीकायाम् इदम् अवोचत् "धर्मविशिष्टस्य धर्मिणो निर्देशः क्रियते श्रोतुर् आश्वासनार्थम् । न त्व् आदौ धर्मविशिष्टस्य धर्मिणो निर्देशो युक्तः । अयुक्ततां(ता) तस्य प्रतिपत्ताव् अदृष्टत्वात् । तत्र प्रदेशमात्रम् उपलभते, तत्स्थं च धरमम् । ततो ऽविनाभावं स्मरति तदनन्तरं तद् एवेदम् इति परामृशति । ततो विशिष्टतां प्रदेशस्य प्रतिपद्यते, न त्वाद् एव (त्व् आदाव् एव) । परामर्शस्य च स्वार्थपूर्वकत्वम् । न च स्वार्थे धर्मविशिष्टस्य धर्मिणो दर्शनम् अस्ति । तेन प्रतिपत्ताव् अपि न कार्यम् । आदौ तु क्रियते, प्रतिपाद्यस्यास्थोत्पादनार्थम् इति ।"
[ध्प्र् 176]
अस्ति च साधनधर्म इति सामर्थ्यम्[370] । अतः सामर्थ्यात् नास्त्य् अत्र घट इति प्रतीतेर् न पक्षानिर्देशः । एवं कार्यस्वभावहेत्वोर् अपि सामर्थ्यात् संप्रयय इति न [371]पक्षनिर्देशः
__________नोतेस्__________
[370] सामर्थ्यात् ततः [371] पक्षो निर्देश्यः
कीदृशः पुनः[372]पक्ष इति निर्देश्यः इइइ-37
__________नोतेस्__________
[372] पक्षः निर्देशः
कीदृशः पुनर् अर्थः पक्ष इति --- अनेन शब्देन निद्देशो वक्तव्यः?इत्य् आह ---
स्वरूपेणैव स्वयम् इष्टो[373]ऽनिराकृतः पक्ष इति[374] इइइ-38
__________नोतेस्__________
[373] इष्टो निर्- [374] इति निर्देश्यः
स्वरूपेणैवेति साध्यत्वेनैव । स्वयम् इति वादिना । इष्ट इति --- नोक्त एवापि त्व् इष्टो ऽपीत्य् अर्थः । एवंभूतः सन् प्रत्य्क्षादिभिः अनिराकृतो [375]यो ऽर्थः स पक्ष इत्य् उच्यते ।
__________नोतेस्__________
[375] -कृतो ऽर्थो यः स अथ यदि [376]पक्षो न निर्देश्यः, कथम् अनिर्देश्यस्य लक्षणम् उक्तम्? न साधनवाक्यावयवत्वाद् अस्य लक्षणम् उक्तम् अपि त्व् असाध्यं [377]केचित् साध्यम्, साध्यं चासाध्यं [378]केचित् प्रतिपनाः । तत् साध्यासाध्यविप्रतिपत्तिनिकारणार्थं पक्षलक्षन् उक्तम् ॥ __________नोतेस्__________
[376] अथ यदि न पक्षो [377] किञ्चित् [378] किञ्चित् --- ओम्.
स्वरूपेणेष्ट इत्य् अस्य विवरणम् ---
स्वरूपेण इति साध्यत्वेन इष्टः इइइ-39
साध्यत्वेनेष्ट इति । पक्षस्य साध्यत्वान् नापारम् अस्ति रूपम् । अतः स्वरूपं साध्यत्वम् इति
एवशब्दं विवरितुम् आह ---
स्वरूपेणैव इति साध्यत्वेन एव इष्टो[379]न साधनत्वेन अपि इइइ-40
__________नोतेस्__________
[379] -त्वेनेष्टो
स्वरूपेणैवेति । ननु चैवशब्दः केवल एव प्रत्यवमर्ष्टव्यस् तत्[380] किमर्थं स्वरूपशब्देन
__________नोतेस्__________
[380] तत् कथम्
तेन तु तपस्विना बहूक्तं समञ्जसं । केवलं प्रतिपत्तुर् आश्वासेनैवोत्पादितेन किं प्रयोजनम्? कथं चासौ सन्द्गिधार्थाभिधायिनः प्रतिज्ञावचनाद् आस्थाम् उत्पादयतीति समीचीनं निरूपितम् । आस्था खलु इदम् एव मन्ये ऽर्थेत्य् अभिसम्प्रतययः । सा कथं वचनमात्राज् जायेत? जातौ वा साधनाद्यभिधानं न कथं वैयर्थम् अश्नुवीतेत्य् अलं बहुना ॥
अत्र सामर्थ्यात् स्वयंशब्दस्य वादिनेति विवृतिः कृता न तु स्वयम्शब्दस्य वादिनेत्य् अर्थः । एतच् चानन्तरम् एव दर्शयिष्यते ॥
[ध्प्र् 177] सह प्रत्यवमृष्टः? उच्यते । एवशब्दो निपातो द्योतकः । पदान्तराभिहितस्यार्थस्य विशेषं द्योतयति इति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत् साधनत्वेन निर्दिष्टं तत् साधनत्वेनेष्टम् । असिद्धत्वाच् च[381] साध्यत्वेनापीष्टम् । तस्य निवृत्त्यर्थ[382] एवशब्दः ॥ __________नोतेस्__________
[381] -त्वात् साध्य- [382] -अर्थम्
तदुदाहरति --- यथा शब्दस्य अनित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्दे असिद्धत्वात् साध्यम् । न पुनस् तद् इह साध्यत्वेन एव इष्टम्[383], साधनत्वेन अभिधानात्[384] इइइ-41 __________नोतेस्__________
[383] साध्यत्वेनेष्टम् [384] -त्वेनाप्यभिधानात् [385]यथेति । शब्दस्य अनित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्दे असिद्धत्वात् साध्यम् --- इत्य् अनेन साध्यत्वेनेष्टम् आह । __________नोतेस्__________
[385] यथा --- ओम्. तद् इति चाक्षुषत्वम् । इहेति शब्दे । साध्यत्वेनैवेष्टम् --- इति साधयत्वेनेष्टनियमाभावम् आह । साधनत्वेन अभिधानाद् इति --- यतः साधनत्वेनाभिहितम्, अतः साधनत्वेनापीष्तम् । न साध्यत्वेनैवेति ॥ स्वयम् इत्य् अनेन स्वयंशब्दं व्याख्येयम् उपक्षित्य तस्यार्थम् आह ---
स्वयम् इति वादिना इइइ-42 वादिनेति । स्वयंशब्दो निपात आत्मन इति [386]षष्ठ्यन्तस्यात्मनेति च तृतीयान्तस्याथ[387] वर्त्तते । तद् इह तृतीयान्तस्यात्मशब्दस्यार्थे वृत्तः स्वयंशब्दः । आत्मशब्दश् च सम्बन्धिशब्दः । वादी च प्रत्यासन्नः[388] । ततो यस्य वादिन आत्मा तृतीयार्थयुक्तः[389] स एव[390] तृतीयार्थयुक्तो निर्दिष्टो वादिनेति । न[391] तु स्वयंशब्दस्य वादिनेत्येष पर्यायः ॥ __________नोतेस्__________
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
