Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/11

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

धर्मोत्तरप्रदीप subcommentary on धर्मोत्तर's न्यायबिन्दुटीका on धर्मकीर्ति's न्यायबिन्दु

Tác giả
दुर्वेकमिश्र
Thông tin
GRETIL — Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कस्माद् इत्यादि वर्तमानाया इत्य् अन्तं सुगमम् । अनागताया अप्य् अनुपलब्धेर् अभावनिश्चयः कस्मान् न भवतीत्य् आह -- अनागतेति । हिर् यस्मादर्थे । तस्या इति पञ्चम्यन्तम् इदम् । अयम् एव च सामर्थ्यावसितो मौलो[र्थो ऽनागता हि] इत्यादिना धर्मोत्तरेण ....काङ्क्षोपशमार्थं पुरस्ताद् उक्तः । स्याद् एतत् -- प्रतिषेधसिद्धिर् {nb ii 25} इत्यादिना निश्चयाभावाद् {nb ii 27} इत्य् अन्तेन ग्रन्थेनास्यार्थस्य गतत्वात् तस्या एवाभावनिश्चयाद् {nb ii 29} इत्य् अयम् आचार्यीयो ग्रन्थः पुनरुक्त इति । न पुनरुक्तः । यतो यथातीते ऽपि काले घटादेस् तत्कालवर्तिदृश्यानुपलब्धेर् अतीतायाः स्मृत्यारूढाया स्व(अ)भावनिश्चयस् तथानगते ऽपि काले घटादेर् अभावनिश्चयः किं न भवतीति केनापाकृतं येनायं पुनरुक्तः स्याद् इति ॥

सम्प्रति [अनुपलब्धेः] प्रकारस्य स्वरूपस्य भेदं नानात्वं.......प्रकारभेद........द्रष्टव्यम् । चो वक्तव्यान्तरसमुच्चये । सेति मूलानुवादः । एषेति तस्य व्याख्यानम् । एकादशग्रहणं चाचार्यस्योपलक्षणार्थं यथा प्रमाणवार्त्तिके...ग्रहणं...... षोडशरकारेति तु द्रष्टव्यम् । एतच् च कारणविरुद्धकार्योपलब्धिव्याख्यानान्तरं दर्शयिष्यामः । विवक्षितान्योपलम्भैकरूपत्वाद् दृश्यानुपलब्धेः, कथम् अयं भेद उपपद्येतेत्य् अभिप्रेत्य पृच्छति कुत इति ।

[ध्प्र् p.125]

स्वभावेत्यादि । प्रतिषेध्यस्य यः स्वभावस् तस्यानुपलब्धिर् यथेति । अत्रेति धर्मी । न धूम इति साध्यम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेर् इति हेतुः, अयं च हेतुः पूर्ववद् व्याख्येयः ॥ प्रतिषेध्यस्य यत् कार्यं तस्यानुपलब्धिर् उदाह्रियते

कार्यानुपलब्धिर् यथा -- नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावाद् इति[80] इइ-32

__________नोतेस्__________

[80] इति ओम्. -- ब्फेन् यथेति । इहेति धर्मी । अप्रतिबद्धम् अनुपहतं धूमजननं प्रति सामर्थ्यं येषां तान्य् अप्रतिबद्धसामर्थ्यानि न सन्तीति साध्यम् । धूमाभावाद् इति हेतुः । प्रयोगभेदाद् इत्य् आचार्यीयम् उत्तरम् अनूद्य प्रयोगशब्दं व्याचष्टे प्रयोग इति । प्रयुक्त्यर्थम् आह शब्देति । शब्दशब्देन प्रकरणाद् वाचकः शब्दो गृह्यते । अभिधा अर्थप्रकाशनम् । तत्र व्यापारो व्यापत्तिः प्रवृत्तिर् यद्वाभिधा अर्थप्रकाशनं तल्लक्षणो व्यापारस् तस्य प्रयोगस्य भेदाद् भिद्यमानत्वाद् इति तु सुबोधत्वात् धर्मोत्तरेण न व्याख्यातम् ।

ननु शब्दस्यैवानुपलम्भवाचकस्यानुपलम्भ एव वाच्यस् तत् कथं प्रयोगभेदो येनानुपलम्भस्य प्रकारभेद उच्यत इत्य् आह शब्दो हीति । हिर् यस्मात् । साक्षाद् अव्यवधानेन । क्वचिद् विरुद्धोपलम्भादौ प्रतिषेध्याच् छीतस्पर्शादेर् अर्थान्तरम् अग्न्याद्यभिधत्ते । क्वचित् व्यापकानुपलब्धादौ विवक्षितात् शिंशपादिप्रतिषेधात् प्रतिषेधान्तरं वृक्षादिप्रतिषेधम् अभिधत्ते । यद्य् अर्थान्तरविधिर् अर्थान्तरप्रतिषेधश् च क्रियते तर्हि ...................... द्यत इत्य् आह -- सर्वत्रेति । तुर् विशेषार्थः । अशब्दोपात्ता स्ववाचकपदानुपात्ता । यथा च शब्दोपात्तापि सा प्रतीयते तथा पुरस्ताद् अभिधास्यते । अपिर् अवधारणे अतिशये वा । इतिस् तस्मादर्थे एवमर्थे...................अत एवार्थी गतिम् आश्रित्योक्तं न तु शाब्दीम् इति द्रष्टव्यम् ॥

अनुपलम्भस्य प्रकृतत्वात् प्रकारभेदान् इति मन्तव्यम् । तस्यानुपलब्धिः पुर्वोक्तया नीत्या तद्विविक्तः प्रदेशस् तज्ज्ञानं चावसेयम् । एवं कार्यानुपलब्ध्यादिषु द्विरूपैवानुपलब्धि ..................ति निदर्शनेन ।

ननु कीदृश्युपलब्धिलक्षणप्राप्तिः ? कथं चाविद्यमान.................अयञ् चेति । पूर्वस्मिन्न् अनुपलब्धिलक्षणाख्यान इव । चो [50ब्] यस्मादर्थे ऽवधारणार्थे वा पूर्ववद् इत्य् अस्यानन्तरं द्रष्टव्यः । एतच् च स्वभावानुपलम्भस्यार्थकथनं कृतम् आचार्येण न प्रयोगो दर्शितः, असाधनाङ्गस्य प्रतिज्ञाया उपादानात् साधनाङ्गस्य च व्याप्तेर् अप्रदर्शनात् हेतोश् चानुवाद्य रूपस्य प्रथमान्तस्यानिर्देशात् । एवम् इतरासु सर्वास्वेनानुपलब्धिषु बोद्धव्यम् ।

प्रयोगः पुनर् ईदृशः -- यद् यत्रोपलब्धिलक्षणप्राप्तं सन् नोपलभ्यते तत् सर्वं तत्रासद्व्यवहारयोग्यम् -- यथा -- तुरङ्गमोत्तमाङ्गे शङ्गम् । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति । अनेन सामान्यादिनिराकरणे दृश्यानुपलम्भः प्रयोक्तव्य इति दर्शितम् आचार्येण तुल्यन्यायत्वाद् इत्य् अवसेयम् ।

[ध्प्र् p.126] कारणानि च नावश्यं कार्यवन्ति भवन्तीति कार्यादर्शनाद् अप्रतिबद्धसामर्थ्यानाम् एवाभावः साध्यः[81]न त्व् अन्येषाम् । अप्रतिबद्धशक्तीति चान्त्यक्षणभावीन्येव, अन्येषां प्रतिबन्धसम्भवात् । __________नोतेस्__________

[81] साध्यते -- c. कार्यानुपलब्धिश् च यत्र कारणम् अदृश्यम् तत्र प्रयुज्यते । दृश्ये तु कारणे दृश्यानुपलब्धिर् एव गमिका । तत्र धवलगृहोपरिस्थितो[82]गृहाङ्गणम् अपश्यन्न् अपि चतुर्षु पार्श्वेष्व् अङ्गणभित्तिपर्यन्तं पश्यति । भित्तिपर्यन्तसमं चालोकसंज्ञकम् आकाशदेशं धूमविविक्तं पश्यति । तत्र धूमाभावनिश्चयात् । यद्देशस्थेन वह्निना जन्यमानो धूमस् तद्देशः स्यात् । तस्य च वह्नेर् अप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशेन च वह्निना जन्यमानो धूमस् तद्देशः स्यात् । तस्मात् तद्देशस्य वह्नेर् अभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशं भित्तिपरिक्षिप्तं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेनाकाशदेशेन सह धर्मिणं करोति । __________नोतेस्__________

[82] धवल- ओम्. -- ब्च्द्

इह -- नुपलम्भः केवलप्रदेशादिर् अभावव्यवहारयोग्यता च साध्या दृश्यानुपलम्भस्य तादात्म्यलक्षण एव प्रतिबन्धो गम्यगमकभावनिबन्धनम् इति केषाञ्चिन् मतम् । केचित् तु अनुपलम्भाभावव्यवहारयोग्यतयोर् गम्यगमकभावे विपर्ययतादात्म्यलक्षणः प्रतिबन्धो निमित्तम् इति प्रतिपदिरे । अत एवानुपलम्भः कार्यस्वभावाभ्यां भेदेन निर्दिष्टः, स्वसाध्ये प्रतिबन्धानपेक्षणाद्, इतरयोश् च तद्वैपरीत्याद् इति च । एवं चैतत् समादधतीति । तथा हि उपलब्ध्यव्यभिचारात् तादृशी अनुपलब्धेर् एव सत्ता । तत उपलब्धिलक्षणप्राप्तसत्त्वे तदुपलम्भयोस् तादात्म्याद् एवानुपलम्भासद्व्यवहारयोर् गम्यगमकभावः । यदि तु तद्विविक्तप्रदेशाद्युपलम्भरूपस्यानुपलम्भस्य तदसद्व्यवहारयोग्यतायाश् च यत् तादात्म्यं तन्निमित्तम् उच्येत, तदा तस्य भूतलादेर् अनुपलब्धिलक्षणप्राप्तासद्व्यवहारयोग्यताप्य् आत्मभूतैवेति पिशाचाद्यभावव्यवहारम् अप्य् अनुपलम्भः साधयेत् तत्प्रतिबन्धाद् इति ॥

ननु कार्याभावात् कारणाभावः साध्यताम् । किम् अप्रतिबद्धसामर्थस्येति साध्यधर्मविशेषणेनेत्य् आह कारणानीति । चो यस्माद् । इतिस् तस्मात् । साध्यः साधयितुं युज्यत इत्य् अर्थः । एतद् एव व्यतिरेकमुखेण द्रढयति न त्व् इति । तुर् वैधर्म्यार्थं एवकारार्थो वा । नान्येषां कारणकारणतयोपचरितकुर्वद् रूपाणाम् ।

अथ परिपूर्णयापि सामग्र्या विधारकसम्भवात् प्रतिबन्धः सम्भाव्यते । तद् असम्भवीदं

[ध्प्र् p.127] तस्माद् दृश्यमानादृश्यमानाकाशदेशावयवः[83]प्रत्यक्षाप्रत्यक्षसमुदायो वह्न्यभावप्रतीतिसामर्थ्यायातो धर्मी, न दृश्यमान एव[84]। इह इति तु प्रत्यक्षनिर्देशो दृश्यमानभावापेक्षः । न केवलम् इहैव दृश्यादृश्यसमुदायो धर्मी, अपि त्व् अन्यत्रापि । शब्दस्य क्षणिकत्वे साध्ये कश्चिद् एव शब्दः प्रत्यक्षो ऽन्यस् तु परोक्षस् तद्वद् इहापि । यथा चात्र धर्मी साध्यप्रतिपत्त्यधिकरणभूतो दृश्यादृश्यावयवो दर्शितस् तद्वद् उत्तरेष्व् अपि प्रयोगेषु स्वयं प्रतिपत्तव्यः ॥ __________नोतेस्__________

[83] दृश्यमानाकाश- -- च. [84] इव -- च्

विशेषणम् इत्य् आह अप्रतिबद्धेति चशब्दस् तुशब्दस्यार्थे हेतौ वा । कुत एतद् इत्य् आह अन्येषाम् इति । अन्त्यक्षणप्राप्तानि च कारणानि योगिनापि प्रतिबद्धु(-बन्धु)म् अशक्यानि, इतरथा ताद्रूप्यम् एव हीयेत । अतस् तथाविधानि कारणानि कार्याव्यभिचारीणि कार्येण व्याप्यन्ते । ततः कार्यं निवर्तमानं कारणानि तादृशानि निवर्त्तयतीति द्रष्टव्यम् ।

इह यद्य् अप्य् अनेनान्त्यक्षणेनेदं कार्यं कृतम् इति नावगतं तथापि वस्तुनः काचिद् अवस्था कार्यं कुर्वतो प्रतीतैव यद् अनन्तरं कार्यम् उपलब्धम् । सैव चावस्थात्रापि निषिध्यते । अत एवायं क्षणिकाक्षणिकसाधारणावस्थातिशयनिषेधः ।

ननु कार्यस्य तावद् दृश्यस्यात्रानुपलम्भो हेतुर् उपादातव्यः । तत् किम् अस्य सम्भवो ऽस्ति यत् कार्यम् एव दृश्यं न तु कारणं येन कार्यानुपलब्धिः प्रयुज्यत इत्य् आशङ्क्य विषयम् अस्या दर्शयितुम् आह कार्येति । को ऽसाव् एवंविधो विषय इत्य् आह तत्रेति वाक्योपक्षेपे । यदि पुनर् गृहाङ्गणं पश्येत् दृश्यानुपलब्धिर् एव प्रयुक्ता स्याद् इत्य् अभिप्रायेणाह गृहङ्गणम् अपश्यन्न् अपीति । अपिर् अवधारणे । अङ्गणभित्तेः पर्यन्तम् अवसानं । भित्तिपर्यन्तेन समं तुल्यम् । सौत्रान्तिकानाम् अलोकतमःस्वभाव एवाकाश इति । तन्मयत्या(-तन्मत्या) आलोकसंज्ञकम् इत्य् उक्तम् । अत्राकाशे किं प्रत्येतव्यम् इत्य् आह यद्देशेति । यदा यद्देशे चेति पाठस् तदा यो देशो ऽस्येति विग्रहः । यदा तु यद्देशस्थेनेति तदा यश् चासौ देशश् च तत्र तिष्ठतीति तद्देशस्थ इति । स देशो ऽस्येति विग्रहः । एतावतापि न ज्ञायते कस् तेन प्रतिपत्त्रा धर्मी कृत इत्य् आह तद्गृहेति । स चासौ गृहाङ्गणदेशश् चेति समासः । अङ्गणस्य प्रकृतत्वाद् भित्तिः तस्यैव तया परिक्षिप्तं परिच्छिन्नं धर्मिणं करोतीति सम्बन्धः । किम् एतावद् एवेत्य् आह भित्तीति । भित्तिर् अङ्गणस्यैव । भित्तेश् च प्रान्तो वाच्यस् तस्याः पर्यन्तो ऽवसानं निष्ठा तेन परिक्षिप्तं परिच्छिन्नं तेन । चस् तुल्यबलत्वसमुच्चयार्थः ।

तस्माद् इत्यादिनोपसंहारव्याजेन लोकाध्यवसायसिद्धं धर्मिणं दर्शयति । दृश्यादृश्यसमुदायो लोकेनैकत्वेनाकलितः । तावान् देशो दृश्यमानः किम् आत्मकः ? देशावयवो भागो यस्य

[ध्प्र् p.128]

प्रतिषेधस्य व्याप्यस्य यो व्यापको धर्मस् तस्यानुपलब्धिर् उदाह्रियते --

स तथा । कथम् एवंविधो धर्मीत्य् आह -- वह्न्यभावेति । वह्निर् इति विशिष्टो धूमजनने ऽव्यवधेयशक्तिः । तस्याप्य् उपलक्षणत्वाद् अन्यस्य धूमजनने ऽप्रतिबद्धस्याभावप्रतीतिर् ग्रहीतव्या । अयम् अर्थः -- लोकस् तावत् तथाविधदेशे धूमम् अनुपलभमानस् तावति देशे तथाभूतवह्न्यभावं प्रत्येति । न चैतद् एवंविधं धर्मिणम् अन्तरेण घटत इति सामर्थ्यम् अन्यथानुपपत्तिस् तस्माद् आयात उपस्थितः । अत एवाचार्येणापि इष्टं विरुद्धकार्ये ऽपि देशकालाद्यपेक्षणम् । (pv i 6=8) इति ब्रुवतैवं धर्मीष्ट एवेति भावः ।

नन्व् अप्रत्यक्षस्यापि धर्मित्वे कथम् इहेतीदम् ??? इहप्रत्ययान्तरस्य निर्देश इत्य् अशङ्क्याह -- इहेति । तुशब्दो यस्मादर्थे । इतिर् इहशब्दस्य निर्दिष्टस्याकारं प्रत्यवमृशति । प्रत्यक्षवस्तुप्रतिपादको निर्देशस् तथोक्तः । ननु यदि दृश्यादृश्यसमुदायो धर्मी घटते तदा कार्यस्वभावहेत्वोर् अपि किम् अयं न सम्भवतीत्य् आह -- न केवलम् इति । इहैव कार्यानुपलम्भ एव । अपि तु किन् त्व् अन्यत्रापि कार्यविशेषे स्वभावविशेषे च तत्र तत्र कार्यहेतोर् धूमवाक्याद् अग्निपौरुषेयत्वाद् असिद्धौ तथाविधो धर्मी सुव्यक्त इति न तत्र दर्शितस् तुल्यत्वा(-न्या)यतया वा द्रष्टव्यः ।

कथं हेताव् अप्य् एवंविधस्य धर्मिणः सम्भव इत्य् [वेर्ब्. इत्थ्--] आह -- शब्दस्येति । कश्चिद् एव श्रूयमाणः प्रत्यक्षो ऽन्यस् त्व् अश्रूयमाणः परोक्षः । अनेनावश्यं दृश्यादृश्यशब्दसमुदायो ऽत्र धर्मीति दर्शितम् । दृश्यादृश्यात्मना च शब्देन धर्मिणा भाव्यम् इति प्रतिपाद्यजनसंशयारोपाभ्याम् आयातम् । न हि प्रतिपाद्यः शब्दस्यानित्यत्वे संशयानो विपर्यस्यति, अर्थात् घटशब्द एव, श्रूयमाण एव च सन्देग्धि, विपर्यस्यति वा । किन् त्व् अहे(ह)घटपटादिशब्दे श्रूयमाणे श्रुते श्रोष्यमाणे च । ततस् तदनुरोधात् प्रत्यक्षाप्रत्यक्षशब्दसमुदायो ऽनित्यत्वे साध्ये धर्मी प्रसह्य पतितः । तद्वद् इहापि कार्यानुपलम्भे । अमुम् एव न्यायम् अन्यत्राप्य् अतिदिशन्न् आह -- यथा चेति । चो ऽवधारणे साध्यप्रतिपत्त्यधिकरणभूत इति विशेषणव्याजेन धर्मिणो लक्षणम् उक्तम् । कार्यानुपलब्धिप्रयोगस् त्व् एवं कर्त्तव्यः । यत्र यस्य कार्यम् उपलब्धिलक्षणप्राप्तं नोपलभ्यते तत् तु तज्जननाप्रतिबद्धसामर्थ्यं नास्ति । यथा क्वचिद् दृश्यमाने ऽङ्कुरे तथाविधं बीजम् । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति । अनेन च कार्यानुपलम्भप्रदर्शनेन यज् जल्पितं जल्पमहोदधिना निःशब्दे देशे शब्दमात्राभावे साध्ये कस् तदेकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो येन शब्दाभावव्यवहारो बौद्धानां भवेद् इति तत् प्रत्युक्तं द्रष्टव्यम् । तथा हि नेहाप्रतिबद्धसामर्थ्यानि श्रोत्रज्ञानकारणानि सन्ति । श्रोत्रज्ञानाभावाद् इति कार्यानुपलब्धिः स्फुटैव । श्रोत्रज्ञानानुपलम्भश् च तदन्यज्ञानोपलम्भरूपः संविदितो ऽस्त्य् एव । एकज्ञानसंसर्गित्वं चान्योन्याव्यभिचरितोपलम्भत्वम् इत्य् उक्तं पुरस्तात् । प्रयोगस् त्व् अनन्तरवद् विज्ञानत्व्य इति ॥

[ध्प्र् p.129]

व्यापकानुपलब्धिर् यथा न अत्र शिंशपा वृक्षाभावाद् इति इइ-33 यथेति । अत्रेति धर्मी । न शिंशपेति शिंशपाभावः साध्यः । वृक्षस्य व्यापकस्याभावात् इति हेतुः । इयम् अप्य् अनुपलब्धिर् व्याप्यस्य शिंशपात्वस्यादृश्यस्याभावे प्रयुज्यते । उपलब्धिलक्षणप्राप्ते तु व्याप्य दृश्यानुपलब्धिर् गमिका । तत्र यदा पूर्वापराव् उपश्लिष्टौ देशौ भवतः, तयोर् एकस् तरुगहनोपेतो ऽपरश् चैकशिलाघटित्प् निर्वृक्षकक्षकः । द्रष्टापि तस्थान् वृक्षान् पश्यन्न् अपि शिंशपादिभेदं यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्षं अप्रत्यक्षं तु शिंशपत्वम् । स हि निर्वृक्ष एकशिलाघटिते वृक्षाभावं दृश्यत्वाद् दृश्यानुपलम्भाद् अवस्यति । शिंशपात्वाभावं तु व्यापकस्य वृक्षत्वस्याभावाद् इति । तादृशो विषये ऽस्या अभावसाधनाय प्रयोगः । स्वभावविरुद्धोपलब्धिर् यथा न अत्र शीतस्पर्शो वह्नेर् इति इइ-34 प्रतिषेधस्य स्वभावेन विरुद्धस्योपलधिर् उदाह्रियते यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शप्रतिषधः साध्यः । वह्नेर् इति हेतुः । इयं चानुपलब्धस् तत्र प्रयोक्तव्या यत्र शीतस्पर्शो दृश्यः, दृश्ये दृश्यानुपलब्धिप्रयोगात् । व्यापकानुपलब्धिं व्याख्यातुम् आह -- प्रतिषेध्यस्येति । तादात्म्याविशेषे ऽपि यथा कश्चिद् एव धर्मी व्याप्य इतरो व्यापकश् च तथा प्राग् एव धर्मोत्तरेण निर्णीतम् । धर्म इति च धर्म्यपेक्षया वृक्षत्वादि । न शिंशपेति न शिंशपात्वम् इत्य् अर्थः । वृक्षस्येति च धर्मिणा धर्मस्य वृक्षत्वस्य निर्देशः । ननूपलब्धिलक्षणप्राप्तस्य तावद् वृक्षत्वस्यानुपलब्धिः प्रयोक्तव्या । तथा च शिंशपात्वम् अपि दृश्यम् एव निषेध्यम् इति दृश्यानुपलब्धिर् एव प्रयोगार्हत्य् आह -- इयम् अपीति । न केवलं पूर्विका विशिष्टे विषये किन् त्व् अयम् अपीत्य् अपिशब्दः । शिंशपात्वस्यादृश्यस्येति -- यदि स्याद् दृश्यम् एव स्याद् इति सम्भावनाम् अतिवृत्तस्येत्य् अर्थः । एवम् उत्तरत्राप्य् अदृश्यत्वम् ईदृश्यम् एव द्रष्टव्यम् । तस्याभावे साध्य इत्य् अध्याहारः ।

[ध्प्र् p.130] तस्माद् यत्र वर्णविशेषाद् वह्निर् दृश्यः शीतस्पर्शो दूरस्थत्वात्[85]सन्न् अप्य् अदृश्यः तत्रास्याः प्रयोगः ॥ __________नोतेस्__________

[85] दूरत्वात् -- ब्द्

विरुद्धकार्योपलब्धिर् यथा नात्र शीतस्पर्शो धूमाद् इति इइ-35 प्रतिषेध्येन यद् विरुद्धं तत्कार्यस्योपलब्धिर् गमिका यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शाभावः साध्यः । धूमाद् इति हेतुः । यत्र शीतस्पर्शः सन् दृश्यः

को ऽसाव् एवंविधो विषय इत्य् आह -- तत्रेति वाक्योपन्यासे । उपश्लिष्टौ प्रत्यासन्नौ समुन्नताव् उच्चौ । तरूणां गहणं गह्वरं तेनोपेतो युक्तः । द्वितीय एकया शिलया घटते निमित्त एकशिलारूपस् तूप इति यावत् । तत्त्वेनैव च निर्वृक्षकक्षकः । कक्षस् तृणम् । निर्गतौ वृक्षकक्षौ यत इति विग्रहः । भवत्य् एवं तथापि कथम् अस्याः प्रयोग इत्य् आह द्रष्टापीति । अपिर् अवधारणे न विवेचयतीत्य् अस्यानन्तरं द्रष्टव्यम् (-व्यः) । तस्य तादृशस्य द्रष्टुः । भवतु द्रष्टु[स्] तावद् दूरदेशस्थायितया शिंशपायाविवेकस् तथापि येनैव वृक्षाभावं प्रतिपद्यते तेनैव शिंशपाभावम् अपि किं न प्रतिपद्यत इत्य् आह स हीति । हिर् यस्मात् । कथं दृश्यानुपलम्भाद् अवस्यतीत्य् आह दृश्यत्वाद् वृक्षत्वस्येति प्रकरणात् । कुतस् तर्हि शिंशपात्वाभावम् अवैतीत्य् आह शिंशपेति । तुशब्दो वैधर्म्ये । इतिस् तस्मादर्थे ।

अभावशब्देनाभावो ऽभावव्यवहारश् चोक्तो द्रष्टव्यः । एवम् उत्तरत्रापि प्रत्येयम् । प्रयोगः पुनर् ईदृशः कार्यः यत्र यस्य व्यापकं नास्ति न तत् तत्रास्ति । यथाअसति प्रमेयत्वे प्रामाण्यम् । नास्ति च वृक्षत्वं शिंशपात्वस्य व्यापकम् इति । अनेन व्यापकानुपलम्भस्य व्याप्याभावे गमकत्वप्रतिपादनेन नित्यानाम् अर्थक्रियाकारित्वाभावः क्रमयौगपद्ययो व्यापकयोर् अभावाद् इत्यादि दर्शितं द्रष्टव्यम् ॥

प्रतिषेध्येत्यादिना स्वभावविरुद्धोपलब्धिं व्याचष्टे मूले तूदाह्रियत इत्य् अध्याहार इति दर्शयन्न् आह उदाह्रियत इति । सुखप्रतिपत्त्यर्थं मौलं धर्म्यादिप्रविभागं दर्शयन्न् आह अत्रेति । एतेनेश्वरे ऽप्य् एकोपादानादिविकल्पे सम्प्रदानादिविकल्पाभावो विरुद्धोपलब्धिप्रसङ्गेन दर्शितः । विकल्पस्य विकल्पान्तरेण सहास्थितिलक्षणस्य विरोधस्य स्वसन्ताने सिद्धत्वात् । ततश् च तस्यानिरूप्यकर्त्तृत्वम् आयातम् । अन्यथा युगपद् दृष्टोत्पादानाम् अनुत्पत्तिः प्रसज्येत । अनिरूप्यकर्त्तृत्वे चधिपत्यमात्रेण कर्त्तृत्वं स्यात् । तथा च कर्मणा सिद्धसाधनत्वम् ईश्वरसाधनानां कार्यत्वादीनाम् इत्यादि दर्शितम् ॥

विरुद्धकार्योपलब्धिं व्याचक्षाण आह प्रतिषेध्येनेति । मूलगमिका विवक्षिताभावप्रतिपादकेति विवक्षितम् इति दर्शयितुम् आह गमिकेति । पूर्ववद् धर्म्यादिकथनम् ।

[ध्प्र् p.131] स्यात् तत्र दृश्यानुपलब्धिर् गमिका । यत्र विरुद्धो वह्निः प्रत्यक्षः तत्र विरुद्धोपलब्धिर् गमिका[86]। द्वयोर् अपि तु परोक्षत्वे विरुद्धकार्योपलब्धिः[87]प्रयुज्यते । तत्र[88]समस्तापवरकस्थं शीतं निवर्तयितुं समर्थस्याग्नेर् अनुमापकं यदा विशिष्टं धूमकलापं निर्यान्तम् अपवरकात् पश्यति तदा विशिष्टाद् वह्नेर् अनुमितात् शीतस्पर्शनिवृत्तिम् अनुमिमीते[89]। इह दृश्यमानद्वारप्रदेशसहितः सर्वो ऽपवरकाभ्यन्तरदेशो[90]धर्मी साध्यप्रतिपत्त्य् अनुसरणात् पूर्ववद् द्रष्टव्य इति[91]॥ __________नोतेस्__________

[86] -उपलब्धिः -- अब्फेन् [87] विरोधकार्योपलब्धिः -- अ. [88] यत्र -- अ [89] -निवृत्तिर् अनुमीयते -- अच्. [90] सर्वापवरक- -- अफेन्. [91] इति ओम्. -- अफेन्.

विरुद्धव्याप्तोपलब्धिर् यथा न ध्रुवभावी भूतस्यापि भावस्य विनाशः हेत्वन्तरापेक्षणाद् इति[92]इइ-36

__________नोतेस्__________

[92] इति ओम्. -- ए. प्रतिषेध्यस्य यद् विरुद्धं तेन व्याप्तस्य धर्मान्तरस्य उपलब्धिर् उदाहर्तव्या । यथेति । ध्रुवम् अवश्यं भवतीति[93]ध्रुवभावी नेति ध्रुवभावित्वनिषेधः[94]साध्यः । विनाशो धर्मी । __________नोतेस्__________

[93] इति ओम्. -- ब्च्द्. [94] -प्रतिषेधः -- c.

तस्मिन्न् इयं प्रयोक्तव्येत्य् आह -- यत्रेति । द्वयोर् विरुद्धशीतस्पर्शयोः । अपिर् अवधारणे । तु पुर्वस्माद् वैधर्म्ये । कः पुनर् ईदृशो विषय इत्य् आह -- तत्रेति । ननु च प्रदीपशिखाप्रभावे(-भवे) धूमे ऽपि न शीतस्पर्शाभावः, तत् कथम् इयं गमिकेत्य् आह समस्तेति । अपवरकग्रहणं शीतस्थानोपलक्षणार्थम् । अपवरकात् निर्यान्तं निर्गच्छन्तम् । अन्यत्र च गम्यमानो धूमः कथम् अन्यत्र शीताभावं साधयतीत्य् आह इहेति । इह विरुद्धकार्योपलब्धौ । दृश्यमानश् चासौ द्वारदेशश् च तेन सहितः । उपपत्तिम् आह -- साध्येति । साध्यस्य शीतस्पर्शाभावस्य प्रतिपत्तिर् अवबोधस् तस्य प्रतिपत्तेर् अनुसरणं निरूपणं तस्मात् । पूर्ववद् इति यथापूर्वं कार्यानुपलम्भे वह्न्याद्यभावप्रतीतिसामर्थ्यायातस् तादृशो धर्मी तद्वत् । अयम् अस्य भावः शीतस्पर्शाभावप्रतीतिर् एवेयं विमृश्यमाणावश्यम् एवंविधधर्मिणम् आकर्षतीति । प्रयोगः पुनर् अस्या एवं कर्त्तव्यः यत्र धूमविशेषस् तत्र शीतस्पर्शाभावः । यथा महानसादौ । तथाविधश् चात्र धूम इति । एतच् चात्यन्ताभ्यासाज् झगिति धूमदर्शनाच् छीतस्पर्शाभावप्रतीत्युदये विरुद्धकार्योपलम्भजम् एकम् अनुमानम् आचार्येणोक्तम् इति द्रष्टव्यम् । अनभ्यासदशया

[ध्प्र् p.132] भूतस्यापि भावस्येति धर्मिविशेषणम् । भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यंभावी किम् उताजातस्येति अपिशब्दार्थः । जनकाद्[95]धेतोर् अन्यो हेतुः हेत्वन्तरं मुद्गरावि[96]। तद् अपेक्षते विनश्वरः । तस्यापेक्षणाद्[97]इति हेतुः । हेत्वन्तरापेक्षणं नामाध्रुवभावित्वेन[98]व्याप्तं यथा वाससि रागस्य रञ्जनादिहेत्वन्तरापेक्षणम् अध्रुवभावित्वेन व्याप्तम्[99]। ध्रुवभावित्वविरुद्धं चाध्रुवभावित्वम् । विनाशश् च विनश्वरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुद्धव्याप्तहेत्वन्तरापेक्षणदर्शनाद् ध्रुवभावित्वनिषेधः । __________नोतेस्__________

[95] जननाद् -- अफे. [96] मुद्गरादिः -- c. [97] विनश्वरस्यापेक्षणाद् -- अ. [98] नाध्रुव- -- ब्. [99] तद्वद् -- c.

इह ध्रुवभावित्वं नित्यत्वम् अध्रुवभावित्वं चानित्यत्वम्[100]। नित्यत्वानित्यत्वयोश् च परस्परपरिहारेणावस्थानाद् एकत्र विरोधः । तथा[101]च सति परस्परपरिहारवतोर् द्वयोर् यदैकं दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यनिषेधश् च दृश्यतया[102]ऽभ्युपगतस्य संभवति । यत एवं[103]तादात्म्यनिषेधः क्रियते यद्य् अयं दृश्यमानो नित्यो भवेन्न् इत्य् अरूप दृश्येत । न च नित्यरूपो दृश्यते । तस्मान् न नित्यः । एवं च प्रतिषेध्यस्य नित्यत्वस्य दृश्यमानात्मकत्वम्[104]अभ्युपगम्य प्रतिषेधः कृतो भवति ।[105]वस्तुनो ऽप्य् अदृश्यस्य पिशाचादेर् यदि[106]दृश्यघटात्मकत्वनिषेधः[107]

__________नोतेस्__________

[100] च ओम्. -- ब्द्. [101] स्वभावानुपलब्धिरूपता स्यात् । स्वभावानुपलब्धिरूपा चाभ्युपेता पूर्वाचार्यैर् इत्य् आह -- टि- [102] तया -- अ. [103] य एवं -- अ. [104] दृश्यमानात्मत्वम् -- अफेन्. [105] अथ न वस्त्व् एकत्वविरोधो ऽनयोः परं यो विषेधो ध्रुवभावित्वस्य विधीयते स । यद्य् अया (?) दृश्यत्वे सति पूर्वानुपलब्धिष्व् इव भवेत् तदा नास्यानुपलब्धेः । अथ भवतु नित्यत्वस्यावस्तुन एवं निषेधः, पिशाचादीनां तु सतां कथं निषेध इत्य् आह -- टि- [106] यदैव -- ब्. [107] -आत्मत्वनिषेधः -- अफेन्.

पुनर् अज्ञाते ऽनुमाने कार्यलिङ्गजविरुद्धोपलम्भजे भवतः । तथा हि यत्र धूमस् तत्र सर्वत्र वह्निर् यथा यस्कारकुट्यां धूमश् चात्रेति कार्यलिङ्गजम् एकम् अत्र नियतप्राग्भावि, तदनु यत्र वह्निर् न तत्र शीतस्पर्शो यथा रसवतीप्रदेशे वह्निश् चात्रेति विरुद्धोपलम्भजं द्वितीयम् इति ॥

प्रतिषेध्यस्येत्यादिना विरुद्धव्याप्तोपलब्धिं [52ब्] व्याचष्टे । पूर्ववत् साध्यादिप्रदर्शनं ।

किम् उतेति निपातसमुदायः किम् पुनर् इत्य् अस्यार्थे वर्त्तते ।

ननु किम् अजातस्यापि वस्तुनो नाशम् अवश्यं भाविनं केचिद् इच्छन्ति येनापिशब्दः समुच्चयो व्याख्यात इति ? नैष दोषः । अजातस्य तावद् अनिष्टत्वाद् एव नावश्यम्भावी विनाशः, जातस्यापि नावश्यम्भावीतीत्थं मूले ऽपिशब्दः । केवलं किम् उताजातस्येति व्याचक्षाणेन धर्मोत्तरेणायम् अर्थो न व्यक्तीकृतः । तत्रापि किम् पुनर् अजातस्य यस्य विनाश एव नेष्ट इत्य् अभिप्रायेण

[ध्प्र् p.133] क्रियते दृश्यात्मकत्वम्[108]अभ्युपगम कर्तव्यः । यद्य् अयं घटो[109]दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृष्टो भवेत् । न च दृष्टः । तस्मात् न पिशाच इति । दृश्यात्मत्वाभ्युपगमपूर्वको दृश्यमाने घटादौ वस्तुनि[110]वस्तुनो ऽवस्तुनो वा दृश्यस्यादृश्यस्य च तातात्म्यप्रतिषेधः[111]। तथा च सति यथा घटस्य दृश्यत्वम् अभ्युपगम्य प्रतिषेधो दृश्यानुपलम्भाद् एव तद्वत् सर्वस्य परस्परपरिहारवतो ऽन्यत्र दृश्यमाने निषेधो दृश्यानुपलम्भाद् एव । तथा चास्यैवञ्जातीयकस्य प्रयोगस्य स्वभावानुपलब्धाव् अन्तर्भावः ॥ __________नोतेस्__________

[108] -आत्मत्वम् -- अफेन्. [109] घटो ओम्. -- अफेन्. [110] वस्तुनि घटादौ -- c. [111] -निषेधः -- अब्पेह्न्.

योजनीयः । यद्वा प्रागभावस्यानादेर् अजातस्यापि नाशम् अवश्यम्भाविनं केचिद् इच्छन्तीति तदपेक्षया अपिशब्दः समुच्चये । तन्मुद्गराद्यपेक्षते विनश्वरो विनंष्टुम् इति शेषः । तस्य हेत्वन्तरस्य । प्रयोगः पुनर् ईदृशः कर्त्तव्यः यद्यदवस्थाप्राप्तौ हेत्वन्तरम् अपेक्षते न तद् अवश्यं तद्रूपं भवति । यथा वस्त्रं रक्तरूपतापत्तौ रागद्रव्यसंयोगापेक्षं नावश्यं रक्तं भवति । अपेक्षते च भावो विनंष्टुं हेत्वन्तरम् इति विरुद्धव्याप्तोपलब्धिप्रसङ्ग एषः । अत एव मूले ऽपिशब्दः प्रसङ्गसाधनत्वप्रसङ्गार्थो लक्ष्यते । स्वतन्त्रसाधनं तु विरुद्धव्याप्तोपलम्भाख्यम् एवं द्रष्टव्यम् -- यो विरुद्धधर्मसंसर्गवान् नासाव् एको यथा द्रवकठिने । विरुद्धधर्मसंसर्गवांश् च सामान्यादिर् इति । ननु च को ऽर्थयोर् विरोधः, किञ् चास्य विरोधस्य साधकं प्रमाणम् इत्य् आशङ्काम् अपकार्त्तुम् आह इहेति । नित्यत्वशब्देनावश्यम्भावित्वम् अनित्यत्वशब्देनानवश्यम्भावित्वम् उक्तं द्रष्टव्यं । अन्यथा केन नित्यो विनाशो ऽभ्युपेतो येनास्यानित्यतापि (प)द्येत । यच् च पूर्वं ध्रुवभावित्वशब्दं विवृण्वतानेन ध्रुवम् अवश्यं भवतीति विवृतं तच् च व्याहन्येत । सम्प्रति विरोधम् उपपादयति नित्यानित्ययोर् इति । चो हेतौ ।

इदानीं परस्परपरिहारस्थितलक्षणविरोधव्यवस्थापकं दृश्यानुपलम्भं दर्शयितुम् आह तथा चेति । कथं दृश्यतयाभ्युप[ग]तस्य निषेध इत्य् आह यत इति । एवम् वक्ष्यमाणेन प्रकारेण । तम् एवाह यद्य् अयम् इति । न च नैवं नित्यरूपवश्यम्भाविस्वरूपो दृश्यते प्रतीयते । यद्य् अप्य् एवं तथापि दृश्यात्मकाभ्युपगम इत्य् आह एवम् इति । चो यस्मात् । एवम् अनन्तरोक्तेन क्रमेण दृश्यमानस्यादृश्येनावस्तुनान्योन्यपरिहारस्थितलक्षणविरोधव्यवस्थायां तावद् एवं दृश्यानुपलम्भ उपायः । वस्तुनाप्य् अदृश्येन तथात्वव्यवस्थायाम् एवोपाय इति दर्शयितुं वस्तुनो ऽपीत्यादिनोपक्रमते । न केवलं कल्पितस्यावस्तुन इत्य् अपिशब्दः । इतिर् हेताव् एवमर्थे वा । दृश्यस्येति वस्त्वपेक्षया ।

[ध्प्र् p.134]

कार्यविरुद्धोपलब्धिर् यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति वह्नेर्[112]इति इइ-37

__________नोतेस्__________

[112] अग्नेर् -- ब्च्फेन्. प्रतिषेध्यस्य यत् कार्यं तस्य यदिव्रुद्धं तस्योपलब्धेर् उदाहरणम् यथेति । इहेति धर्मी । अप्रतिबद्धं सामर्थ्यं येषां शीतकारणानां शीतजननं प्रति तानि न सन्तीति[113]साध्यम् । वह्नेर् इति हेतुः । __________नोतेस्__________

[113] प्रति न तानि सन्तीति -- अफेन्.

यत्र शीतकारणानि अदृश्यानि शीतस्पर्शो ऽप्य् अदृश्यः तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिर् दृश्यानुपलब्धिर् वा गमिका । तस्माद् एषाप्य् अभावसाधनी । ततो यस्मिन् उद्देशे[114]सद् अपि शीतकरणम् अदृश्यम् शीतस्पर्शश् च दूरस्थत्वात् प्रतिपत्तुर् वह्निर्भास्वरवर्णत्वाद् दूराद् अपि दृश्यस् तत्रायं प्रयोग इति[115]॥

__________नोतेस्__________

[114] देशे -- अब्च्द्फेन्. [115] इति ओम्. -- अब्फेन्.

वाशब्दार्थश् चकार इति केचित् । अन्ये तु अवस्तुनो ऽदृश्यत्वस्य सिद्धत्वात् किं तदनुवादेन कार्यम् ? ततो द्वयम् अप्य् एतद् वस्त्वपेक्षया योज्यं । वस्तुनो दृश्यस्य घटादेर् अदृश्यस्य पिशाचादेः । अन्यथा पिशाचादिवस्तुनस् तथात्वं नोक्तं स्यात् । प्रकृतं च तद् एव इति प्रतिपन्नाः । भवत्य् एवं ततः किं सिद्धम् इत्य् आह -- तथा च सतीति । तद्वद् घटवत् । अन्यत्र अन्यस्मिन् दृश्यमाने वस्तुनि । ननु भवतु दृश्यानुपलम्भाद् दृश्यामानेङ्गुल्यादौ सर्वस्य सुमेर्वादेस् तादात्म्यनिषेधस् तथाप्य् उक्तास्वनुपलब्धिषु कुत्रायम् अन्तर्भवतीत्य् आशङ्काम् अपकार्त्तुम् उपसंहारव्याजेनातिदेशम् अप्य् आह एवम् इति । एवंजातीयकस्यैवम् प्रकारवतः । एवम् प्रकारस्येत्य् उक्ते वचनभं (वचनलभ्यं ?) स्यात् । तत्रान्तर्भावो दर्शित एवेति भावः । अथ यदि दृश्यानुपलम्भाद् अन्यत्रान्यस्य दृश्यस्यादृश्यस्य वा तादात्म्यनिषेधः कथं विरुद्धे(-द्ध)व्याप्तोपलब्धेर् अवतार इति चेत् । न दोषः । विरोधप्रतिपत्तिकाले दृश्यानुपलम्भस्य व्यापारात् । तदवगतविरोधेन तु व्याप्तं यत्र दृश्यते विरुद्धव्याप्तोपलम्भाद् एव विवक्षिताभावप्रतीतिर् इति किम् अवद्यं ॥ प्रतिषेध्यस्येत्यादिना कार्यविरुद्धोपलब्धिं विवृणोति । पूऋववद् धर्म्यादिप्रदर्शनं । वह्नेर् इति शीतनिवर्त्तनक्षमाद् विशिष्टाद् इति द्रष्टव्यं । अन्यथा प्रति(दी)पाद्यात्मनः शीतनिवर्त्तकत्वेनानैकान्तिकतापत्तेः ।

[ध्प्र् p.135]

व्यापकविरुद्धोपलब्धिर् यथा नात्र तुषारस्पर्शो वह्नेर्[116]इति इइ-38

__________नोतेस्__________

[116] अग्नेर् -- ब्च्फेन्. प्रतिषेध्यस्य यद् व्यापकं तेन यद् विरुद्धं तस्योपलब्धिर् उदाहर्तव्या यथेति । अत्रेति धर्मी । तुषारस्पर्शो नेति साध्यम् । वह्नेर्[117]इति हेतुः । यत्र व्याप्यस् तुषारस्पर्शो[118]व्यापकश् च[119]शीतस्पर्शो न दृश्यस् तत्रायं हेतुः । तयोर् दृश्यत्वे स्वभावस्य व्यापकस्य चानुपलब्धिर् यतः प्रयोक्तव्या । तथा च[120]सत्य् अभावसाधनीयम् । दूरवर्तिनश् च प्रतिपत्तुस् तुषारस्पर्शः शीतस्पर्शविशेषः शीतमात्रं च[121]परोक्षम् । वह्निस् तु रूपविशेषाद् दूरस्थो ऽपि प्रत्यक्षः । ततो वह्नेः शीतमात्राभावः । ततः शीतविशेषतुषारस्पर्शाभावनिश्चयः । शीतविशेषस्य शीतसामान्येन व्याप्तत्वाद् इति विशिष्टविषये[122]ऽस्याः प्रयोगः ॥ __________नोतेस्__________

[117] अग्नेर् -- अफेन्. [118] प्रतिषेध्यतुषारस्पर्शो -- c. [119] व्यापकं च d. [120] च ओम्. ब्पे. [121] च ओम्. -- ब्. [122] विशिष्टे विषये -- ब्.

कारणानुपलब्धिर् यथा नात्र धूमो वह्न्यभावाद्[123]इति इइ-39

__________नोतेस्__________

[123] अग्न्यभावाद् -- ब्च्फ्ने.

प्रतिषेध्यस्य यत् कारणं तस्यानुपलब्धेर् उदाहरणं यथेति । अत्रेति धर्मी । न धूम

कीदृशि विषये ऽस्याः प्रयोग इत्य् आह यत्रेति । न केवलं पूर्वं इत्य् अपिशब्दः । अभावो भावव्यवहारश् चाभावशब्देनोक्तः । स्यान् मतं । कथं पुनः शीतस्पर्शशीतकारणे ऽदृश्ये वह्निस् तु दृश्यः सम्भवति येनास्याः प्रयोगो घटत इत्य् आह यस्मिन्न् इति । उद्देशे प्रदेशे प्रतिपत्तुर् दूरस्थत्वाद् इति शीतस्पर्शशीतकारणयोर् अदृश्यत्वे कारणं । भास्वरवर्णत्वाद् इति वह्नेर् दृश्यते निबन्धनं । भास्वरो भासनशीलो वर्णो यस्य तद्भावस् तस्मात् । न केवलं निकट इत्य् अपिशब्दः । तत्र तस्मिन् देशे । प्रयोगः पुनर् एवं कार्यः यत्र विशिष्टो वह्निर् न तत्र शीतोपजननाप्रतिबद्धशक्तीनि शीतकारणानि । यथा क्वचिद् अनुभूते प्रदेशे । तथाभूतश् चात्र वह्निर् इति । एतच् चाभ्यासाज् झगिति वह्निदर्शनेन तथाभूतशीतकारणाभावप्रतीतिजन्मन्य् एकं कार्यविरुद्धोपलम्भजम् अनुमानम् उक्तम् आचार्येणेति द्रष्टव्यं । अन्यथा तु विरुद्धोपलम्भकार्यानुपलम्भजे द्वे एते अनुमाने । तथा हि यत्र वह्निर् न तत्र शीतस्पर्श इति स्वभावविरुद्धोपलम्भजम् एकम् अनुमानं । यत्र च यत्कार्यं नास्ति न तत्र तत्कारणं तज्जननाप्रतिबद्धसामर्थ्यम् अस्तीति कार्यानुपलम्भजं द्वितीयम् इति ॥

[ध्प्र् p.136] इति साध्यम् । वह्न्यभावाद् इति हेतुः । यत्र कार्यं सद् अपि अदृश्यं[124]भवति तत्रायं प्रयोगः । दृश्ये तु कार्ये दृश्यानुपलब्धिर् गमिका । ततो ऽयम् अप्य् अभावसाधनः[125]। निष्कम्पायतसलिलपूरिते ह्रदे हेमन्तोचितबाष्पयोद्गमे विरले सन्ध्यातमसि सति सन्न् अपि तत्र धूमो न दृश्यत इति कारणानुपलब्ध्या प्रतिषेध्यते[126]। वह्निस् तु यदि तस्यासम्भव उपरि प्लवमानो भवेत् प्रज्वलितो[127]रूपविशेषाद् एवोपलब्धो भवेत् । अज्वलितस् तु इन्धनमध्यनिविष्टो भवेत् । तत्रापि दहनाधिकरणम् इन्धनं प्रत्यक्षम् इति स्वरूपेण आधाररूपेण वा दृश्य[128]एव वह्निर् इति तत्रास्य[129]प्रयोग इति[130]। __________नोतेस्__________

[124] न दृश्यं, दृश्यं न अफेन्. [125] -साधकः -- c. [126] प्रतिषिध्यते -- ब्. [127] भवेज् ज्वलितो रूप- -- अफेन्.[भवेज् ज्वलितरूप- -- ए. [128] [दृश्यमानरूप एव -- c. [129] अस्याः -- अब्च्द्फेन्. [130] इति ओम्. vl.] -- अब्फेन्.

व्यापकविरुद्धोपलब्धिं व्याख्यातुम् आह प्रतिषेध्येत्यादि । पूर्ववद् धर्म्यादिप्रदर्शनं । अत्रापि विशिष्टाद् वह्नेर् इति द्रष्टव्यं । अस्यापि प्रयोगविषयम् आह यत्रेति । कथं तयोर् अदृश्यत्वं वह्नेश् च दृश्यत्वं कथं च न शीतस्पर्श एव तुषारस्पर्श इत्य् आशङ्कात्रितयम् अपाकुर्वन्न् आह दूरेति । चो हेतौ नियमे वा । तयोर् भेदम् उपपादयति तुषारेति । शीतमात्रम् अशीतव्यावृत्तिमात्रं । ततः शीतमात्राभावात् । शीतविशेषश् चासौ तुषारस्पर्शश् चेति विग्रहः । कथं तदभावनिश्चय इत्य् आह शीतविशेषस्येति । एष च वास्तवो निवृत्तिक्रमः परामर्शदशायां दर्शितो न तु तत्प्रयोगकालिकः । तथात्वे हि नैकम् अनुमानम् इदं स्यात् । इतीत्यादिनोपसंहरति । इतिर् एवमर्थे । तस्मादर्थे वा । एतेन यद् यत्र नियतसहोपलम्भं तत् ततो न भिद्यते । यथैकस्माच् चन्द्रमसो द्वितीयश् चन्द्रमा । नियमसहोपलम्भस् तु नीलादिज्ञानेनेत्यादि दर्शितं द्रष्टव्यं ॥ कारणानुपलब्धिं विवरिषुर् आह प्रतिषेध्येति । ननु द्वयोर् अपि तुल्यस्वज्ञानजननयोग्यतारूपत्वात् तुल्यदृश्यत्वम् इति कथम् अस्याः प्रयोग इत्य् आशङ्क्य विषयम् अस्या दर्शयितुं यत्रेत्यादिनोपक्रमते । ननु मनोमोदकोपयोग्य्मात्रम् एतत् न पुनर् ईदृशो विषयो ऽस्ति यत्राग्निर् एव दृश्यो न धूम इति कथं पूर्वोक्तातिक्रम इत्य् आह निष्कम्पेति । ह्रदो जलाधारविशेषः । निर्गतः कम्पश् चलनं यस्मात् स तथा स चासाव् आयतो महान् इति तथा । स चासौ सलिलपूरितश् चेत्य् एवं विग्रहः कार्यः । आयतग्रहणेन ह्रदस्य महत्त्वाद् वाष्पे भूयस् त्व् अमत एव धूमस्य ततो भेदेनानुपलक्षणम् इति दर्शयति । पुनः किं विशिष्टे ? हेमन्ते हेमन्तसंज्ञके काले । उचितो ऽधिकृतश् चासौ वाष्पश् चेति

[ध्प्र् p.137]

कारणविरुद्धोपलब्धिर् यथा -- नास्य रोमहर्षादिविशेषाः, सन्निहितदहनविशेषत्वाद् इति इइ-40

प्रतिषेध्यस्य यत् कारणं तस्य यद् विरुद्धं तस्योपलब्धेर् उदाहरणं यथेति । अस्येति धर्मी । रोम्णां हर्ष उद्भेदः । स आदिर् येषां दन्तवीणादीनां शीतकृतानाम्, ते विशिष्यन्ते[131]तद् अन्येभ्यो भयश्रद्धादिकृतेभ्य इति रोमहर्षादिविशेषाः । ते न सन्तीति साध्यम् । दहन एव विशिष्यते तदन्यस्माद्[132]दहनाच् छीतनिवर्तनसामर्थ्येनेति दहनविशेषः । कश्चिद् दहनः सन्न् अपि न शीतनिवर्तनक्षमो यथा प्रदीपः । तादृशनिवृत्तये विशेषग्रहणम् । सन्निहितो दहनविशेषो यस्य स तथोक्तः । तस्य भावस् तस्माद् इति हेतुः । यत्र शीतस्पर्शः सन्न् अप्य् अदृश्यो दहनविशेषो यस्य स तथोक्तः । तस्य भावस् तस्माद् इति हेतुः । यत्र शीतस्पर्शः सन्न् अप्य् अदृश्यो रोमहर्षादिविशेषाश् चादृश्याः, तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्या । शीतस्पर्शस्य दृश्यत्वे कारणानुपलब्धिः । तस्माद् अभावसाधनो ऽयम् । रूपविशेषाद् धि दूराद्

__________नोतेस्__________

[131] विशेष्यन्ते -- ब्. [132] विशेष्यन्ते ऽन्यस्माद् -- ब्.; विशिष्यन्ते ऽन्यस्माद् -- c.द्.

तथा तस्योद्गम ऊर्ध्वं गमनं यस्मिन् यस्माद् वा स तथा । कालविशेषे ऽप्य् अस्याः प्रयोग इति दर्शयति विरले । सन्ध्याकालोचितं तमः सन्ध्यातमः तस्मिन् विरले मन्दप्रचारे । कुत्र ? ह्रदे तथाविधे च तमसि सति । इतिस् तस्माद् । वह्नेर् अपि तत्रेयं गतिर् भविष्यतीत्य् आह -- वह्निस् त्व् इति । तुः पूर्ववत् । अम्भस इति षष्ठी पुनः षष्ट्य् अतस् अर्थेत्यादिना (पाणिनि 2.3.30) उपरिशब्दस्यातसर्थप्रत्ययान्तरत्वात् । तथा हि ऊर्ध्वं[र्ध्व]शब्दाद् उपर्युपरिष्ठाद् (पाणिनि 5.3.39) इतिर् इत्प्रत्ययो निपातितः । तेनैव सूत्रेणोर्ध्वशब्दस्योपादेशो ऽपि । प्लवमानो ऽवतिष्ठमानः । अनेकार्थत्वाद् धातोर् गच्छन्न् इति वा । स्वरूपेण ज्वालारूपेणाधाररूपेणेन्धननिविष्टेन । इतिर् हेतौ । तत्र तस्मिन् स्थानविशेषे । अस्य कारणानुपलम्भस्य । तमिस्रायाम् एव तु रात्रौ निराधारके प्रदेशे कारणानुपलब्धेः प्रयोगः सुकरः तत्र वह्नेर् दृश्यत्वाद् धूमस्य सतो ऽप्य् अदृश्यत्वात् । अनेन पुनर् एवंविधं विषयं परित्यज्यान्यं विषयम् उपपादयता किम् इत्य् आत्मायासति इति न प्रतीमः । एवं तु प्रयोगः कार्यः -- यत्र यस्य कारणं नास्ति न तत् तत्रास्ति । यथा बीजाभावे ङ्कुरः । नास्ति चात्र धूमस्य कारणं वह्निर् इति । एतेन यत्र यत्र विज्ञानस्य कारणं विज्ञानं नास्ति न तत्र विज्ञानम् उपपद्यते । यथोपलशकले । नास्ति च प्राग्भवीयं विज्ञानं कललावस्थायाम् इति कारणानुपलब्धिप्रसङ्गः सुचितस् तुल्यन्यायार्थः ॥ कारणविरुद्धोपलब्धिं व्याख्यातुम् आह प्रतिषेध्यस्येति । पूर्ववद् धर्म्यादिप्रदर्शनं । उद्भेदः पुलक इत्य् अर्थः । दन्तवीणाधरोपरिस्थितदन्तपङ्क्तिभ्यां सत्वरम् अभिहन्यमानाभ्यां कटकटकारणं । आदिशब्देन शरीरकम्पस्य ग्रहणं । सुखाद् इत्य् आदिग्रहेण हर्षवीररसयोर् ग्रहणं ।

[ध्प्र् p.138] वहनं पश्यति । शीतस्पर्शस् त्व् अदृश्यो रोमहर्षादिव्शेषाश् च । तेषां कारणैरुद्धोपलम्ब्ध्या ऽभावं[133] प्रतिपद्यत इति तत्रास्य प्रयोग[134] इति ॥ __________नोतेस्__________

[133] भावः प्रति -- फेन्. भाव प्रति -- अ. [134] तत्रास्याः प्रयोग -- अब्च्द्फेन्.

कारणविरुद्धकार्योपलन्धर् यथा -- न रोससर्षादिविशेषयुक्तपुरुषवानयं प्रदेशः, धूमादिति इइ-41

प्रतिषेध्यस्य यत् कारणं तस्य यद् विरुद्धं तस्य यत कार्यं तस्योपपब्धिर् उदारर्त्तव्या -- यथेति अयं प्रदेश इति[135]धर्मी । योगो युक्तम् । योमहर्षादिविशेषैर् युक्तं रोमहर्षादिविशेषयुक्तम्[136]। तस्य सम्बन्धी पुरुषो[137][138]रोमाहर्षादिविशेषयुक्तपुरुषः । तद्वान् न वह्बतीति साध्यम् । धूमादिति हेतुः ।

__________नोतेस्__________

[135] अयं देश इति अफेन्. [136] -हर्षविशेष- -- c. `रोमहर्षादिविशेषयुक्तम्ऽ नास्ति -- ब्. [137] `पुरुषोऽ नास्ति -- c. [138] विशेषयुक्त -- ब्.

किं शीतनिवर्त्तनाक्षमो ऽप्य् अस्ति दहनो येन ततो विशिष्यत इत्य् आह -- कश्चिद् इति । सन्निहितो दहनविशेषो यस्येति विग्र्ःणन् सन्निहितश् चासौ दहनविशेषश् चेति यद् अन्येन व्याख्यतुं तदपहस्तयति । तदा हि व्यधिकरणासिद्धो हेतुः स्याद् इति । क्व पुनर् अस्याः प्रयोग इत्य् आह -- यत्रेति । ननु शीतस्पर्शरोमहर्षविशेषाणाम् अदृश्यत्वे कथं वह्नेर् दृश्यत्वम् इत्य् आह -- रूपेति । हिर् यस्मात् । इतिर् एवम् अनन्तरोक्तेन न्यायेन । तत्र विशेषे ऽस्य कारणविरुद्धोपलम्भस्य । एष तु प्रयोगो ऽभिधानीयः -- यत्र यत्कारणविरुद्धम् अस्ति न तत् तत्रास्ति । यथा श्लेष्मविरुद्धे पित्ते न श्लैष्मिको व्याधिः । अस्ति च रोमहर्षादिकारणविरुद्धो वह्निर् अत्रेति । एतद् अप्य् अत्यन्ताभ्यासाञ् झग् इति सन्निहितदहनविशेषत्वावगममात्रे रोमहर्षादिविशेषाभावप्रतीत्युदये सत्य् एकम् आचार्येणोक्तं । धर्मोत्तरेणापि तथा व्याख्यात इति द्रष्टव्यं । अन्यथा तु विरुद्धोपलम्भकारणानुपलम्भसम्भवे द्वे इमे अनुमाने । तथा हि -- यत्र वह्निर् न तत्र शीतस्पर्श इति विरुद्धोपलम्भजम् एकम् अनुमानं । यत्र शीतस्पर्शाभावो न तत्र तत्कार्यरोमहर्षादीति कारणानुपलम्भजं द्वितीयम् इति ॥ प्रतिषेध्यस्येत्यादिना कारणविरुद्धकार्योपलब्धिं व्याचष्टे । पूर्ववद् धर्म्यादिप्रदर्शनं । रोमहर्षादिविशेषैर् युक्तश् चासौ पुरुषश् चेति कर्मधारयं कृत्वा स विद्यते यत्र स तद्वान् इति शान्तभद्रेन व्याख्यातं । तच् चावद्यं । यतः कर्मधारयमत्त्वर्थीयाद् बहुव्रीहिर् एव लाघवेन इति वचनाद् रोमहर्षादिविशेषयुक्तः पुरुषो यत्रेत्य् एवं विशिष्टे प्रदेशे ऽवगते किं मत्वर्थीयेनेति मन्यमानो महावैयाकरणो यं धर्मोत्तरः प्राह -- योगो युक्तम् इति भावे निष्ठा । यद्य् एवं कृष्णः सर्पो

[ध्प्र् p.139]

रोमहर्षादिविशेषस्य[139]प्रत्यक्षत्वे दृश्यानुपलब्धिः । कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः । वह्नेस् तु[140]प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्या । तर्याणाम् अप्य् अदृश्यत्वे ऽयं प्रयोगः । तस्माद् अभावसाधनो ऽयम् । तत्र[141]दूरस्थस्य प्रतिपत्तुर् दहनशीतस्पर्शरोमहर्षादिविशेषा अप्रत्यक्षाः सन्तो ऽपि, धूमस् तु प्रत्यक्षो यत्र, तत्रैतत् प्रमाणम् । धूमस् तु यादृशस् तद्देशे[142]स्थितं शीतं निवर्तयितुं समर्थस्य वह्नेर् अनुमापकः स इह ग्राह्यः । धूममात्रेण तु[143]वह्निमात्रे ऽनुमिते ऽपि न शीतस्पर्शनिवृत्तिः, नापि रोमहर्षादिविशेषनिवृत्तिर्[144]अवसातुं शक्येति न धूममात्रं[145]हेतुर् इति द्रष्टव्यम् इति॥

__________नोतेस्__________

[139] रोमहर्षविशेष -- द्ब्. [140] वह्नेः -- cd. [141] यत्र -- अ. [142] तस्मिन् देशे -- अच्फेन्. [143] तु ओम्. -- अ. [144] हर्षादि- -- द्ब्. [145] शक्यत इति -- c.; शक्येति धूम- -- अ.; शक्येते न धूम- -- ह्.

यस्मिन् वल्मीके लोहितः शालिर् यस्मिन् ग्रामे गौरः खरो यस्मिन् नरण्य इति बहुव्रीहिणा भवितव्यं । ततश् च कृष्णसर्पवान् वल्मीको लोहितशालिमान् ग्रामो गौरखरवद् अरण्यम् इति न स्यात् । साधवश् चामी प्रयोगस् तत् कथम् अनेनैवं व्याख्यातम् इति चेत् । नैष दोषः । यस्मात् कर्मधारयमत्वर्थीयाद् बहुव्रीहिर् लाघवेन इतीदं वचनं संज्ञाशब्दं वर्जयित्वा वेदितव्यं । संज्ञाशब्दाश् चैते कृष्णसर्पलोहितशालिगौरखरशब्दा इति साधूक्तं योगो युक्तम् इति । रोमहर्षादिविशेषयुक्तम् इति रोमहर्षादिविशेषयोग इत्य् अर्थः । तस्य तद्युक्तस्य तद्योगस्य सम्बन्धी । सम्बन्धीत्य् अनेन सम्बन्धषष्ठीयं समस्यत इति दर्शयति । यतो ऽयं रोमहर्षादिविशेषयोगः स्वात्मना पुरुषं व्यवच्छिनत्ति । ततो व्यवच्छेदकः सन् पुरुषं स्वसम्बन्धिनम् उपपादयति । कदायं प्रयोगो द्रष्टव्य इत्य् आह -- त्रयाणाम् इति वह्निशीतस्पर्शरोमहर्षादिविशेषाणां । अपिर् अवधारणे । कस्माद् एवम् इत्य् आह -- रोमहर्षादिविशेषस्येत्यादि । हिशब्दार्थश् चात्रार्थाद् द्रष्टव्यः । यत एवं तस्मात् । अयम् इत्य् अयम् अपीति द्रष्टव्यं । क्व पुनस् त्रयाणाम् अप्रत्यक्षत्वं धूमस्य तु प्रत्यक्षत्वम् इत्य् आह -- तत्रेति वाक्योपेक्षेपे । विद्यमाना प्य् अप्रत्यक्षा यद्य् अभविष्यन् नियतम् उपालप्स्यन्तेति सम्भावनाम् अतिवृत्ताः । दूरस्थस्येति हेतुभावेन विशेषणं । ततो ऽयम् अर्थः -- दूरस्थत्वात् प्रतिपत्तुस् ते सन्तो ऽप्य् अप्रत्यक्षा इति । तत्र स्थाने । एतत् कारणविरुद्धकार्यरूपं साधनं प्रमाणम् इत्य् अनुमानाख्यप्रमाणजनकवात् । अदूरस्थत्वे तु प्रतिपत्तुः प्राकारादिव्यवहितोद्देशे ऽयं प्रयोगो द्रष्टव्यः । धूमशब्देन विशिष्टो धूमो विवक्षित इति दर्शयति -- धूमस् त्व् इति । तुशब्दो विशेषार्थः । एतद् एव व्यतिरेकमुखेण द्रढयन्न् आह -- धूममात्रेणेति । तुः पूर्वस्माद् वैधर्म्यम् आह । इतिर् हेतौ । द्वितीय इतिर् एवम् अर्थः ।

[ध्प्र् p.140]

यद्य् एकः प्रतिषेधहेतुर् उक्तथ् कथम् एकादशा ऽभावहेतव इत्य् आह

इमे सर्व कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ सङ्ग्रहम् उपयान्ति इइ- 42 इमे सर्वे इत्यादि[146]। इमे ऽनुपलब्धिप्रयोगाः । इदम् आनन्तरप्रक्रान्ता निर्दिष्टाः । तत्र कियताम् अपि ग्रहणे प्रसक्त आह -- कार्यानुपलब्ध्यादय इति । कार्यानुपलब्ध्यादीनाम् अपि त्रयाणां चतुर्णां वा ग्रहणे प्रसक्त आह[147]-- दशेति । तत्र[148]दशानाम् अप्य् उदाहृतमात्राणां ग्रहणप्रसङ्गे सत्य् आह[149]-- सर्व इति । एतद् उक्तं भवति अप्रयुक्ता[150]अपि प्रयुक्तोदाहरणसदृशाश् च सर्व एवेति । दशग्रहणम् अन्तरेण सर्वग्रहण क्रियमाणे प्रयुक्तोदाहरणकार्त्स्न्यं गम्येत[151]। दःअग्रहणात्[152]तूदाहरणकार्त्स्न्ये[153]ऽवगते सर्वग्रहणम् अतिरिच्यमानम् उदाहृतसदृशकार्त्स्न्यावगतये[154]जायते[155]। __________नोतेस्__________

[146] इमे सर्वे इत्यादि ओम्. -- ह्न्. इम इत्यादि -- अब्देप्. [147] प्रसक्ते सत्याह -- फेन्.; प्रसक्तेत्य् आह -- अ. [148] तत्र ओम्. -- अब्फेन्. [149] प्रसङ्गे आह -- फेन्. [150] भवति । प्रयुक्ता -- c. [151] गम्यते -- अब्च्द्फेन्. [152] दशग्रहणोदाहरण- -- ब्. [153] -ग्रहणाद् आहृतका- -- ब्. [154] -अधिगतये] -- c. [155] जातम् -- ए.

प्रयोगः पुनर् ईदृशो वाच्यः -- यत्र यत्कारणविरुद्धकार्यम् अस्ति तत्र तन् नास्ति । यथा रुदितविशेषे सति न स्मितविशेषः । रोमहर्षादिविशेषयुक्तपुरुषवत्त्वकारणशीतस्पर्शविरुद्धवह्निकार्यञ् चात्र धूम इति । एतद् अप्य् अत्यन्ताभ्यासाञ् झग् इति धूमदर्शनेन रोमहर्षादियुक्तपुरुषवत्त्वाभावप्रतीत्युदये सति कारणविरुद्धकार्योपलब्धिजम् एकम् अनुमानम् उक्तम् आचार्येणेति द्रष्टव्यं । अन्यथा कार्यहेतुविरुद्धोपलम्भकारणानुपलम्भसम्भवानि त्रीण्य् अमून्य् अनुमानानि । तथा हि -- तदेयं परिपाटिः -- यत्र धूमस् तत्राग्निर् इति कार्यहेतुजम् एकम् अनुमानं । यत्र वह्निर् न तत्र शीतस्पर्श इति विरुद्धोपलम्भजं द्वितीयं । यत्र शीतस्पर्शाभावो न तत्र तत्कार्यरोमहर्षादिविशेषयुक्तपुरुषभाव इति कारणानुपलम्भजं तृतीयम् इति । एते च प्रकारा अनुपलब्धेर् उपलक्षणं वेदितव्याः । अन्यासाम् अपि विधानसम्भवात् । तथा हि व्यापकविरुद्धकार्योपलब्धिर् अप्य् अस्ति -- यथात्र तुषारस्पर्शो धूमाद् इति । कार्यविरुद्धकार्योपलब्धिर् अप्य् अस्ति -- यथा नायं नित्यः कदाचित्कार्यकारित्वाद् इति । प्रतिषेध्यस्य नित्यत्वस्य व्यापकं निरतिशयत्वात् । तस्य विरुद्धं सातिशयत्वं । तेन व्याप्तं कदाचित्कार्यकारित्वम् इति । आसाञ् च यथास्वं यथायोगं प्रयोगाः स्वयम् ऊह्याः ।

[ध्प्र् p.141]

ते स्वभावानुपलब्धौ सङ्ग्रहं तादात्म्येन गच्छन्ति । स्वभावानुपलब्धिस्वभावा इत्य् अर्थः ॥ ननु च स्वभावानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपलब्ध्यादयः । तत् कथम् अन्तर्भवन्ति इत्य् आह --[156]

__________नोतेस्__________

[156] अन्तर्भाव इत्य् आह -- c.

पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदे ऽपि इइ- 43

प्रयोगभेदे ऽपि प्रयोगस्य शब्दव्यापारस्य भेदे ऽपि अन्तर्भवन्ति । कथं प्रयोगभेद इत्य् आह अर्थान्तरविधीति[157]। प्रतिषेध्याद् अर्थाद्[158]अर्थान्तरस्य विधिर् उपलब्धिः स्वभावविरुद्धाद्युपलब्धिप्रयोगेषु । प्रतिषेधः कार्यानुपलब्ध्यादिषु प्रयोगेषु । अर्थान्तरविधिना, अर्थान्तरप्रतिषेधेन

__________नोतेस्__________

[157] विधीत्यादि -- फेह्. [158] अर्थाद् ओम्. -- ब्.

केचित् तु नेहाप्रतिबद्धसामर्थ्यानि वह्निकारणानि सन्ति तुषारस्पर्शाद् इति कार्यविरुद्धव्याप्तोपलब्धिम् इच्छन्ति । नात्र धूमस् तुषारस्पर्शाद् इति कारणविरुद्धव्याप्तोपलब्धिम् अपीति ॥ सा च प्रयोगभेदाद् एकादश प्रकारेति यद् उक्तं तदसहमानश् चोदयति यदीति । अत्र [nb ii 17, एदितोर्] द्वौ वस्तुसाधनाव् एकः प्रतिषेधहेतुर् इत्य् अनेनैकः प्रतिषेधहेतुर् उक्त इति चोदयितुर् आशयः । कार्येत्यादिना दशग्रहणस्य तात्पर्यार्थं व्याचष्टे । अपिशब्दः शङ्कायां । सर्वग्रहणस्यापि तात्पर्यार्थम् आह -- तत्रेति वाक्योपन्यासे । अपिः पूर्ववत् । उदाहृत एवोदाहृतमात्राणि तेषां । अनेन द्रव्यकार्त्स्न्यवृत्तः सर्वशब्दो गृहीत इति दर्शितं । तर्हि सर्वग्रहणम् एवास्तु किं दशग्रहणेनेत्य् आह -- दशेति । प्रयुक्तोदाहरणकार्त्स्न्यं गम्येतेति लोके सर्वे पदातु(त)यो ऽत्र योद्धारः इत्यादौ सर्वशब्दस्योपदर्शितकार्त्स्न्यवृतस्य दर्शनाद् उक्तं । यद्य् एवं दशग्रहणे ऽप्य् एवं किं न स्याद् इत्य् आह -- दशग्रहणाद् इति । तुर् शब्दग्रहणरहितपक्षाद् वैधर्म्यम् आह । अतिरिच्यमानम् अधिकीभवद् गतार्थं सद् इति यावत् उपदर्शिततुल्याव् अबोधाय सम्पद्यते । स्याद् एतत् -- इमे सर्वे दशानुपलब्धिप्रयोगा इत्य् एतावतैव क्रियतां ग्रहणप्रसङ्गो निराकृत एवेति कथं कार्यानुपलब्ध्यादिग्रहणम् आचार्यस्य नातिरिच्यते कथं च धर्मोत्तरस्यैषा तात्पर्यार्थव्याख्या -- तत्कियताम् अपि प्रसक्त आहेत्य् अपर्यालोचितव्याख्यानं [न] भवतीति चेत् । नैष दोषः । तथा हि -- प्राक्तनैकादशग्रहणस्योपलक्षणार्थत्वेनान्येषाम् अपि व्यापकविरुद्धव्याप्तोपलब्ध्यादिप्रयोगाणाम् अभिमतत्वाद् आद्याङ् कार्यानुपलब्ध्यादिप्रयोगान् विहाय दशसंख्यापूरणं कृतं भवत्य् एवेति तदाशङ्कानिवृत्त्यर्थं कार्यानुपलब्ध्यादिग्रहणं कृतम् आचार्येण । धर्मोत्तरेणापि तथा व्याख्यातम् इति । न तर्हि दशग्रहणं कर्त्तव्यम् इति चेत् । न -- अस्योपलक्षणार्थत्वाद् अदोष एषः ।

[ध्प्र् प्. 142]

च प्रयोगो भिद्यन्ते । यदि प्रयोगान्तरेष्व् अर्थान्तरविधिप्रतिषेधौ कथं तर्हि[159]अन्तर्भवन्ति इत्य् आह पारम्पर्येणेति प्रणालिकयेत्य् अर्थः । एतद् उक्तं भवति न साक्षाद् एते प्रयोगा दृश्यानुपलब्धिम् अभिदधति दृश्यानुपलब्ध्यव्यभिचारिणं त्व् अर्थान्तरस्य विधिं निषेधं वा ऽभिदधति । ततः प्रणालिकयामीषां स्वभावानुपलब्धौ सङ्ग्रहो न साक्षाद् इति ॥ यदि प्रयोगभेदाद् एष भेदः[160]परार्थानुमाने वक्तव्य एषः । शब्दभेदो हि प्रयोगभेदः । शब्दश् च[161]परार्थानुमानम् इत्य् आशङ्क्याह --

__________नोतेस्__________

[159] तर्हि ओम्. -- c. [160] प्रयोगभेदेन भेदः -- अफेन्.; प्रयोगभेदाद् एव भेदः -- ब्च्. [161] तु -- ब्च्.

प्रयोगदर्शनाभ्यासात् स्वयम् अप्य् एवं व्यवच्छेदप्रतीतिर् भवतीति स्वार्थे ऽप्य् अनुमाने ऽस्याः प्रयोगनिर्देशः[162] इइ-44

__________नोतेस्__________

[162] व्यवच्छेदप्रतीतिर् इति स्वार्थानुमाने ऽप्य् अस्याः प्रभेदनिर्देशः -- c. प्रयोगदर्शनेत्य् आदि । प्रयोगाणां शास्त्रपरिपठितानां[163]दर्शनम् उपलम्भः । तस्याभ्यासः पुनः पुनर् आवर्त्तनम् । तस्मान् निमित्तात् । स्वयम् अपीति प्रतिपत्तुर् आत्मनो ऽपि । एवम् इत्य् अनन्तरोक्तेन क्रमेण[164]। व्यवच्छेदस्य प्रतिषेधस्य प्रतीतिर् भवतीति[165]इतिशब्दस् तस्माद् अर्थे । __________नोतेस्__________

[163] शास्त्रघटितानाम् -- अफेन्.; शास्त्रपरिघटितानाम् -- ब्.; शास्त्रगदितानां पाठान्तरम्, --टि- [164] प्रयोगदर्शनाभ्यासक्रमेण -- टि- [165] इति ओम्. -- च्ब्.

कथं सङ्ग्रहम् अन्तर्भावं गच्छन्तीत्य् आह -- तादात्म्येनेति । तस्याः स्वभावानुपलब्धेर् आत्मा तदात्मा तस्य भावस् तेन स्वभावानुपलब्धित्वेन । अनुपलब्धिस्वभावा इत्य् अर्थः -- इतीदं स्पष्टीकरणम् अपि स्वभावानुपलब्धिस्मारकत्वेन तत्स्वभावा इति द्रष्टव्यं ॥ ...र् एव किं न शब्दाख्या यत इति चेत् न -- परम्पर्यग्रहणव्याघातप्रसङ्गात्, न साक्षाद् एत इत्यादिवक्ष्यमाणधर्मोत्तरीयव्याख्यानव्याघातप्रसङ्गाच् चेति । शब्दस्य व्यापारो ऽभिघातलक्षणः तस्य भेदे भिद्यमानत्वे ऽपि । स्वभावविरुद्धादीत्यादिग्रहणेन कारणविरुद्धादीनां ग्रहणं । कार्यानुपलब्ध्यादीत्यादिग्रहणेन व्यापकानुपलब्ध्यादीनां ग्रहणं । अर्थान्तरविधिप्रतिषेधाभ्याम् इति मूले कारणतृतीयाद् विवचनान्तम् एतद् इति दर्शयन्न् आह -- अर्थान्तरेति । चस् तुल्यबलत्वं समुच्चिनोति । भिद्यन्ते नानारूपा भवन्ति । प्रयोगान्तरेष्व् इत्य् अन्तरशब्दो ऽन्यवचनः स्वभावानुपलब्ध्यपेक्षया । परम्परा परिपाटिः । सैव पारम्पर्यम् इति स्वार्थिकः प्रत्ययः । एतद् एव स्पष्टयति -- प्रणालिकयेति । ननु यद्य् अमीषां दृश्यानुपलब्धाव् अन्तर्भावस् तदा साक्षात् तदभिधानं तथात्वे च कथं पारम्पर्येणेत्य् आशङ्क्याह -- एतद् उक्तं भवति । यदि नाभिदधति तदा -- न साक्षाद् इति न कर्त्तव्यं ।

[ध्प्र् प्. 143] तद् अयम् अर्थः यस्मात् स्वयम् अप्य् एवम् अनेनोपायेन[166]प्रतिपद्यते प्रयोगाभ्यासात् तस्मात् स्वप्रतिपत्ताव् अप्य् उपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानुमाने निर्देशः ।[167]यत् पुनः परप्रतिपत्ताव् एवोपयुज्यते तत् परार्थानुमान एव वक्तव्यम् इति ॥ __________नोतेस्__________

[166] अनेन मेयेन -- पाठः -- टि- [167] यत् पुनस् त्रिरूपं लिङ्गाख्यानम् -- टि-

सङ्ग्रहश् च कथम् इत्य् आह -- दृश्येति । तुर् विशेषार्थे यस्मादर्थे वा । विधिम् अग्न्यादेः । निषेधं व्यापकादेः । चकारो वाशब्दार्थे । ततस् तदव्यभिचारिविधिनिषेधाभिधानात् । न साक्षात् नाव्यवधानेन । अर्थान्तरविधिप्रतिषेधयोश् च दृश्यानुपलम्भाव्यभिचारित्वं कार्यकारणभावादिग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकादि द्रष्टव्यं । एष भेद इति स्वभावानुपलब्ध्यादिरूपः । कस्मात् तत्र वाच्य इत्य् आह शब्देति । हिर् यस्मात् । शब्दभेदस् त्रिरूपलिङ्गवाक्यनानात्वं । यद्य् अप्य् एवं तथापि कथं तत्र वक्तव्य इत्य् आह -- शब्दश् चेति । चो हेतौ । शास्त्रपरिपठितानाम् इति शास्त्रपरिपठितद्द्वारेण परिज्ञातानां स्वभावाद्यनुपलब्ध्यादिवाचकानां वाक्यानाम् इति द्रष्टव्यं । उपलम्भो द्विविधो वाच्यरूपो वाचकरूपश् च । अत एवावर्त्तनम् अपि द्वेधा शब्दरूपावर्त्तनम्, अर्थावर्त्तनं च । तत्रार्थावर्त्तनं पुनः पुनश् चेतसि विवेशनं । शब्दावर्त्तनं पुनः पुनर् उच्चारणं । मूले स्वयंशब्द आत्मन इति षष्ट्यर्थे वर्त्तमानो गृहीत इत्य् आशयेनाह -- प्रतिपत्तुर् आत्मन इति । स्वार्थानुमानप्रस्तावात् प्रतिपत्तृशब्देन यस् त्रिरूपेण लिङ्गेन परोक्षम् अर्थं प्रतिपद्यते स गृह्यते । अपिशब्दात् परो ऽपि तस्मात् प्रतिपद्यत इति सम्बन्धनीयं । मूले तु न केवलं परस्येति योजनीयं । अनन्तरोक्तेन परिपठितस्वभावानुपलब्ध्यादिसूचितेन स्वभावानुपलब्ध्यादिप्रयोगक्रमेण । यत इतिशब्दस् तस्मादर्थे ततस् तस्माद् अयं वक्षमाणो ऽर्थः । तस्माच् छब्देन यस्माच् छब्दस्यान्वयाद् यस्माद् इत्य् उक्तं । अनेन स्वभावानुपलब्ध्यादिप्रयोगलक्षणेनोपायेन प्रतिपद्यत इत्य् आशङ्क्य पूर्वम् एव स्मरयति

प्रयोगाभ्यासाद् इति । स्यान् मतम् -- न स्वयम् उच्चरितः शब्दस् तत्प्रतिपत्तेर् निमित्तं । प्रतिपन्ने शब्दप्रयोगात् ॥ अन्यथा प्रतिनियतप्रयोगायोगात् । तत् कथं पिष्टपेषणकारी शब्द उपायत्वेनोच्यत इति नैतद् अस्ति । यतो लिङ्गदर्शनेनान्यतो वा निमित्तात् प्रबुद्धवासनो मन्दप्रचारार्थस्मरणो ऽत्यन्राभ्यस्तप्रयोगस् तथाविधप्रयोगम् उच्चार्यैवं तत्त्वम् अवगाहमानस् तदर्थं प्रतिपद्यते -- यथा कश्चिद् अभ्यासात् सति धर्मिणि धर्माणां लोके चिन्ता प्रवर्त्तत इत्य् उच्चार्यैवास्यार्थं प्रतिपद्यते, तद्वत् त्रिरूपाख्यानं वाक्यम् उच्चार्यैव कश्चिद् अभ्यस्तप्रयोगः परोक्षम् अर्थं प्रतिपद्यते । ततो ऽयम् उपायो भवत्य् एव । ततो परस्यापि प्रतीत्युदयात् परार्थानुमानम् अपि स्याद् इति चेत् । भवतु । का क्षतिः ? स्वप्रतिपत्तिप्रयोजनं सत्व्सार्थानुमानं तदैव च तेनान्यः प्रतिपद्यत इति परप्रतिपत्तिप्रयोजनं सत् परार्थानुमानं । अत एवम् अशब्दे ऽपि कश्चिन् नियतो ऽस्तीत्य् अवाचामेति ।

[ध्प्र् प्. 144]

ननु च कार्यानुपलब्ध्यादिषु कारणादिनाम् अदृश्यानाम् एव निषेधः[168]दृश्यनिषेधे स्वभावानुपलब्धिप्रयोगप्रसङ्गात्[169]। तथा च सति[170]न तेषां दृश्यानुपलब्धिनिषेधः । तत् कथम् एषां प्रयोगाणां दृश्यानुपलब्धाव् अन्तर्भाव इत्य् आह --

__________नोतेस्__________

[168] प्रतिषेधः -- अफेन्. [169] स्वभावानुपलम्भ- -- अब्फेन्. [170] अदृश्यानां निषेधे सति -- टि-

सर्वत्र चास्याम् अभावव्यवहारसाधन्याम्[171]अनुपलब्धौ येषां स्वभावविरुद्धादीनाम्[172]उपलब्ध्या कारणादीनाम् अनुपलब्ध्या च प्रतिषेध उक्तस् तेषाम् उपलब्धिलक्षणप्राप्तानाम् एवोपलब्धिर् अनुपलब्धिश् च वेदितव्या इइ- 45

__________नोतेस्__________

[171] अभावाभावव्यवहारसाधन्याम् -- ए [172] -विरुद्धानाम् -- c. सर्वत्र चेत्य् आदि[173]। अभावश् च तद्व्यवहारश् च अभावव्यवहारौ[174]। स्वभावानुपलब्धाव् अभावव्यवहारः साध्यः । शिष्टेष्व् अभावः । तयोः साधन्याम् अनुपलब्धौ । सर्वत्र चेति चशब्दो हिशब्दस्यार्थे । यस्मात् सर्वत्रानुपलब्धौ[175]येषां प्रतिषेध उक्तस् तेषाम् उपलब्धिलक्षणप्राप्तानां दृश्यानाम्[176]एव[177]प्रतिषेधस् तस्माद् दृश्यानुपलब्धाव् अन्तर्भावः । __________नोतेस्__________

[173] सर्वत्र चेत्य् आदि ओम्. -- ह्न् [174] तस्य च व्यवहारो ऽभावव्यवहारौ -- अफे [175] सत्यां -- भ्ल् [176] दृश्यमानानाम् -- ब् [177] स -- अफेन् कुत एतद् दृश्यानाम् एवेत्य् आह स्वभावेत्य् आदि । अत्रापि चकारो हेत्वर्थः । यस्मात् स्वभावविरुद्धादिर् येषां तेषाम् उपलब्ध्या कारणमादिर् येषां तेषाम् अनुपलब्ध्या प्रतिषेध उक्तस् तस्माद् दृश्यानाम् एव प्रतिषेध इत्य् अर्थः ।यदि नाम स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या[178]च प्रतिषेध उक्तस् तथापि कथं डृश्यानाम् एव प्रतिषेध इत्य् आह उपलब्धिर् इत्य् आदि । अत्रापि चकारो हेत्वर्थः । यस्माद् ये विरोधिनः व्याप्यव्यापकभूताः कार्यकारणभूताश् च ज्ञातास् तेषाम् अवश्यम् एवोपलब्धिः उपलब्धिपूर्वा चानुपलब्धिर् वेदितव्या ज्ञातव्या[179]। उपलब्ध्यनुपलब्धी च द्वे येषां स्तस् ते दृश्या एव । तस्मात् स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या चोपलब्ध्यनुपलब्धिमतां विरुद्धादीनां प्रतिषेधः क्रियमाणो दृश्यानाम् एव कृतो द्रष्टव्यः । __________नोतेस्__________

[178] कारणानुपलब्ध्या -- च् [179] ज्ञातव्या ओम्. -- अब्फेन्

केचित् पुनर् एवं व्याकषते -- स्वयम् इत्यादिना ग्रन्थेन वार्त्तिककृतेदम् उक्तम् -- स्वभावादीनाम् अनुपलब्ध्या विरुद्धादीनाञ् चोपलब्ध्या यथायोगम् अभावं तद्व्यवहारं च प्रयोगनिरपेक्ष एव प्रतिपत्ता प्रत्येति । न केवलं प्रयोगाभ्यासात् प्रतिपत्तिसमय एव प्रयोगम् उच्चारयति । न तु ततो पूर्वम् अवगच्छतीतरथा प्रतिनियतशब्दोच्चारणं न भवेद् इति । अनेनोपायेनेति चोपाय इहोपायस् तथाशब्दोच्चारणक्रमस् तेनेति वर्णयन्ति । एतेन चानुपलब्धिप्रयोगसमर्थनन्यायेन ।

[ध्प्र् प्. 145]

बहुषु चोद्येषु प्रक्रान्तेषु परिहारसमुच्चयार्थश् चकारो हेत्वर्थो भवति । यस्माद् इदं चेदं च समाधानम् अस्ति तस्मात् तत्तच्चोद्यम् अयुक्तम् इति चकारार्थः ॥ कस्मात् पुनः प्रतिषेध्यानां विरुद्धादीनाम् उपलब्ध्यनुपलब्धी वेदितव्ये इत्य् आह

अन्येषां विरोधकार्यकारणभावाभावासिद्धेः[180] इइ-46

__________नोतेस्__________

[180] -कारणभावासिद्धेः -- ए; -कारणभावासिद्धिः -- ब्फ्

अन्येषाम् इति । उपलब्ध्यनुपलब्धिमद्भयो ऽन्ये ऽनुपलब्धा एव ये तेषां विरोधश् च कार्यकारणभावश् च केनचित् सहाभावश् च व्याप्यस्य व्यापकस्याभावे[181]न सिध्यति यस्मात् ततो विरोधकार्यकारणभावाभावासिद्धेः[182]कारणाद् उपलब्ध्यनुपलब्धिमन्त एवं विरुद्धादयो निषेध्याः । उभयवन्तश् च दृश्या एव । तस्माद् दृश्यानाम् एव प्रतिषेधः । तद् अयम् अर्थः । विरोधश् च[183]कार्यकारणभावश् च व्यापकाभावे व्याप्याभावश् च दृश्यानुपलब्धेर् एवेति । एकसंनिधाव् अपराभावप्रतीतौ[184]ज्ञतो विरोधः । कारणाभिमताभावे च कार्याभिमताभावप्रत्यये ऽवसितः कार्यकारणभावः[185]। व्यापकाभिमताभावे च[186]व्याप्याभिमताभावे

__________नोतेस्__________

[181] व्यापकाभावे -- च् [182] विरोधिकार्य- -- अब्पेह्न् [183] च ओम्. -- अफेन् [184] एकसंनिधाने पराभावप्रतीतौ -- च् [185] अवसितकार्यकारणभावः -- अफे [186] च ओम्. -- अब्च्फेन्

अन्ये पुनर् अन्यथा व्यवस्थिताः -- स्वयम् अपीत्यादिकं नाविर्भूतप्रयोगम् अधिकृत्योक्तम्, किन् त्व् अन्तर्जल्पाकारप्रवृत्तं स्वप्रतिपत्तिकालभाविनम् इति । अत्र च साध्व् असाधु वा व्याख्यानं साधुभिर् एव ज्ञातव्यम् इति । स्याद् एतत् -- यथा प्रयोगभेदः स्वार्थानुमाने कथ्यते तथा च न किञ्चिद् वाच्यं परार्थानुमाने स्याद् इत्य् आशङ्क्याह -- यत् पुनर् इति । परप्रतिपत्ताव् एव, न तु स्वप्रतिपत्ताव् अपीत्य् अवधारणार्थः ॥ सम्प्रति दृश्यानुपलब्धाव् अन्तर्भावं सर्वानुपलब्धीनाम् असहमान आह -- ननु चेति । तथा च सति कारणादीनाम् अदृश्यानां निषेधप्रकारे सति । शिष्टेषु परिशिष्टेषु अभाव इत्य् अभावो ऽपीति द्रष्तव्यं । न त्व् अभाव एव व्यवहारस्यापि साधनात् । कारणा[द्य्]अनुपलब्ध्या च करणभूतया । कार्यकारणभावादिग्रहणकाले योपलब्धिर् अनुपलब्धिश् च पूर्वम् आसीत् तद्वतां प्रतिषेधः क्रियमाणो दृश्यानाम् एव कृतो द्रष्टव्यो ज्ञातव्यः । यथा अर्थविरोधादिग्रहणकाले ऽवश्यंभाविनी दृश्यानुपलब्धिस् तथानन्तरम् एव धर्मोत्तरेण प्रसाधयिष्यते । ननु च कारणादीनां चेत्य् अनेन प्र(च)कारणेनावश्यं समुच्चयार्थेन भाव्यम्, तत् कथं हेत्वर्थे व्याख्यायत इत्य् आशङ्क्य पूर्वं बुद्धिस्थं स्पष्टयन्न् आह -- बहुष्व् इति । एवम् मन्यते -- समुच्चयार्थे वर्त्तमान एवायं हेत्वर्थे वर्त्तते । न त्व् एवं समुच्चयार्थो निराक्रियते, हेतूनां परस्परसमुच्चयस्य प्रतीयमानत्वात् । तथा स न हेत्वर्थो भवति । इतिर् एवं चकारस्यार्थः प्रयोजनं ॥

[ध्प्र् प्. 146] मताभावे मिश्चिते निश्चतो व्याप्यव्यापकभावः । तत्र[187] व्याप्यवयापकभावप्रतीतेर् निमित्तमभावः प्रतिपत्तव्यः । इह गृहीते वृक्षाभावे हि शिशपात्वाभावप्रतीतौ [188]प्रतीतो व्याप्यवापकभावः । अभावप्रतिपत्तिश् च सर्वत्र दृश्यानुपलब्धेर् एव । तस्माद् विरोधम् कार्यकारणभावम्, व्याप्यव्यापकभावं च स्मरता विरोध--कार्यकारणभाव--व्याप्यव्यापकभाविविषयाभावप्रतिपत्ति[189] निबन्धनं दृशानुपलब्धिः स्मर्तव्या । दृश्यानुपलब्ध्यस्मरणे विरोधाकीनाम् अस्मरणम् । तथा च सति न निरुद्धादिविधिप्ल्रत्षेधाभ्यामितराभावप्रतीतिः स्यात् । व्चिरोधादिग्रहणकालभाविन्यां च दृशानुपलब्धाववश्यस्मर्तव्यायां तत एवाभावप्रतीतिः । __________नोतेस्__________

[187] तत् -- c. [188] -भावप्रतीतौ व्या- -- ब्. [189] देशकालस्वभावविप्रकृष्टाः पिशाचाद्ययस् तेषां पिशाचादीनां विरोधश् च केनचिद् अग्निना सह न सिध्यतीति सम्बन्धः । तथा कार्यकारणभावश् च पिशाचादीनां केनचिद् धूमेन सार्धं न सिध्यति । -- टि- तत्र यद्य् अपि संप्रतितनी[190] नास्ति दृश्यानुपलब्धिर् विरोधादिग्रहणकाले त्व् आसीत् । या दृश्यानुपलब्धिः सम्प्रति स्म्र्यमाणा सैवाभावप्रतिपत्तिनिबन्धनम् । ततः सम्प्रति नास्ति [191]दृश्यानुपलब्धिर् इत्य् अभावसाधनत्वेन दृश्यानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपलब्ध्यादिप्रयोगाः । __________नोतेस्__________

[190] संप्रति सास्ति -- अ.ब्.प्.ह्.ए.न्. [191] दृश्योपलब्ध- -- अ.ब्.प्.ह्.ए.न्.

विरुद्धशब्देन प्रतिषेध्यस्य विरुद्धं ग्राह्यं । आदिशब्देन विरुद्धकार्यादीनां ग्रहणं । येषाम् एकदोपलब्धिस् तेभ्यो --न्ये --नुपलब्धा एव । कदाचित् क्वचिद् अज्ञाता एव । व्यापकस्याभावे ऽभावश् च व्याप्यस्य न सिद्ध्यिति (?) यस्मात् । अयम् आशयः -- यदि पूर्वं व्यापकाभिमतस्याभावे व्याप्याभिमताभावो निश्चितो भवेत् तदा व्याप्यव्यापकभावः सिद्ध्येत्, तदा च व्यापकानुपलब्धिर् गमिका स्यात्, नान्यदेति । अयम् अत्र प्रकरणार्थः -- प्रबन्धेन भवतो यद्भावे यस्याभावस् तस्य विरोधगतिर् यत् स्वभावश् च येनोपलभ्यते तेन सह कार्यकारणभावो ऽपि पञ्चप्रत्यक्षानुपलम्भम् अधिगम्यः, व्याप्यव्यापकभावो पि प्रत्यक्षानुपलम्भावसेय इति कथम् अदृश्यस्य सिध्यन्तीति । ननु भवन्तु ते ऽन्यत्र दृश्याः, तत्र तावद् अदृश्या एव वक्तव्याः । दृश्यत्वे दृश्यानुपलम्भप्रयोगात् । तत् कथं दृश्यानुपलब्धावितरासाम् अनुपलब्धीनाम् अन्तर्भाव इत्य् आशङ्क्य तथा तत्रान्तर्भावस् तथा दर्शयितुम् आह -- तद् इति । यस्माद् अन्यत्र दृश्यत्वे ऽपि विरुद्धादीनां दृश्यानुपलम्भे ऽन्तर्भावो न घटते, स चाचार्येणोक्तस् तत् तस्माद् अयम् अर्थः -- सर्वत्र चेत्यादेर् वाक्यस्य तात्पर्यार्थः । कथं दृश्यानुपलब्धेर् इत्य् अयम् अमुम् अर्थं तावत् प्रसाधयति -- एकेति । कार्यकारणभावे का वार्त्तेत्य् आह -- कारणेति । यद्य् एवं व्याप्यव्यापकभावस्य का गतिर् इत्य् आह -- व्यापकेति । ननु च व्याप्यव्यापकभावनिश्चये तयोर् एकत्वात् किम् अभावनिश्चयेनेत्य् आह -- तत्र व्याप्यव्यापकभावनिश्चये कर्त्तव्ये । कथम् अभावप्रतीतिर् व्याप्यव्यापकभावप्रतीतेर् निमित्तम् इत्य् आह -- इहेति ।

[ध्प्र् प्. 147] विरुद्धविधिना, कारणादिनिषेधेन च यतो दृश्यानुपलब्धिर् आक्षिप्ता ततो दृश्यानुपलब्धेर् एव[192]कालान्तरवृत्तायाः स्वृतिविषयभूताया अभावप्रतिपत्तिः । अभीषां च प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः । तद् अनेन सर्वेण दृश्यानुपलब्धावन्तर्भावो दशानामनुपलभ्धिप्रयोगाणां पारब्प्र्येण दर्शित इति वेदितव्यम् ॥ __________नोतेस्__________

[192] -लब्धिर् एव -- च्

आस्तां सर्वत्र विरोधादाव् अभावप्रतीतिः, दृश्यानुपलब्धिस् तु क्वोपयुज्यत इत्य् आह -- अभावेति । चो हेतौ । ननु यदि नाम विरोधादिग्रहणकाले दृश्यानुपलब्धिर् आसीत्, तथापि न सा विरुद्धोपलब्धिव्यापकानुपलब्ध्याद्प्रयोगविषये सम्प्रत्य् अनुवर्त्तते । तत् कथं विरुद्धोपलब्ध्यादीनां तत्रान्तर्भाव इत्य् आह -- तस्माद् इति । यतो ऽभावप्रतीतिम् अन्तरेण न विरोधादिसिद्धिः, अभावसिद्धिश् च दृश्यानुपलब्धेस् तस्माद् हेतोर् विरोधादिकं स्मरतेति विरुद्धोपलम्भव्यापकानुपलम्भादिप्रयोगकाल इति द्रष्टव्यं । तदस्मरणे हि यतो विरुद्धादिर् इहास्ति, यतो ऽयं व्यापकादिर् नास्ति, तस्मात् तत् तन्नास्तीत्य् अस्याः प्रतीतेर् अयोगात् -- इत्य् अपि द्रष्टव्यं । स्मरतेति च तदानीं विरोधादेर् ग्रहणाद् गृहीतस्यैव विकल्पनाद् उक्तं । कुतः पुनर् अवश्यस्मर्त्तव्या सेत्य् आह -- दृश्येति । अथ स्यात् -- प्राक्तनी दृश्यानुपलब्धिः सदा स्मर्यताम्, तथापि कथम् असौ विवक्षिताभावसिद्धाव् उपयोगं भजते, येनात्मनीतरा अनुपलब्धौ(-ब्धी)र् अन्तर्भावयतीत्य् आह -- विरोधेति । चो यस्मात् तस्यां नियतस्मरणायां सत्यां । ननु विरुद्धोपलब्धिकारणाद्यनुपलब्धिप्रयोगविषये सा नास्ति तत् कथम् अविद्यमाना सैवाभावप्रतीतेर् निबन्धनम् इत्य् आह -- तत्रेति वाक्योपन्यासे । सम्प्रतीदानीं स्मर्यमाणा सैवाभावप्रतीतेर् निबन्धनं विरुद्धाद्यभावज्ञानस्य करणं । कथं तर्हि दृश्यानुपलब्धेर् विरुद्धोपलब्ध्यादीनां भेद इत्य् आह -- तत इति । ततो विरोधादिग्रहणकालप्रवृत्ताया दृश्यानुपलब्धेः स्मर्यमाणत्वात्, सम्प्रति सा नास्ति । इतिस् तद्माद् अत्राभावः साध्यते तेनाभावसाधनत्वेन ततो भिद्यन्ते

विरुद्धोपलब्ध्यादिप्रयोगः । विरुद्धविधिनेत्यादिनोक्तम् अर्थम् उपसंहरति । विरुद्धविधिनेत्य् उपलक्षणं । विरुद्धकार्यादिविधिनापि दृश्यानुपलम्भाक्षेपात् । अन्यथा तासां तत्रान्तर्भावो न स्यात् । ननु स्वातन्त्र्येण त्वया तस्या एव प्राक्प्रवृत्ताया अभावनिश्चयो दर्शितस् तत्र चानुपलब्धीनाम् अन्तर्भावः, न त्व् आचार्यस्यायम् अभिप्रेत इत्य् आशङ्क्याचार्यस्यैवायम् अभिप्रेतो ऽर्थ इति दर्शयन्न् आह -- तदनेनेति । अनेन इमे सर्व (nb ii 42) इत्यादिना व्यापकभावसिद्धेर् इत्य् अन्तेन । अयम् अत्र प्रकरणार्थः -- दृश्यानुपलम्भस्यावक्तव्यत्वेन दशानाम् अप्य् अनुपलब्धीनां तत्रान्तर्भावः, विरुद्धाद्यभावप्रतीताव् अनुपयोगश् चेति ।

[ध्प्र् प्. 148]

उक्ता दृश्यानुपलभ्दिर् अभावे, अभावव्यवहारे च साध्ये प्रमाणम् । अदृश्यानुपलब्धिस् तु[193] किं स्वभावा, किंव्यापारा[194] चेत्य् आह--

__________नोतेस्__________

[193] लब्धिः किं -- अ.प्.ह्.ए. [194] विषन्यानुप--- ब्छेन्

विप्रकृष्टविषया पुनर् अनुपलब्धीः प्रत्यक्षानुमाणनिवृत्तिलक्षणा संशयहेतुः इइ-47 विप्रक्ष्टेत्यादि । विप्रकृष्टस्त्रिभिर् देशकालस्वभावविप्रकर्षैर् यस्या विषयः सा विप्रकृष्टविषयेति संशयहेतुः । किंस्वभावा सेत्य् आह -- प्रत्यक्षानुमाननिवृत्तिर् लक्षणं स्वभावो य्स्याः सा प्रत्यक्षणा । न ज्ञानज्ञेयस्वभावेति यावत् ॥ केचित् पुनर् अत्रैवं ब्रुवत् -- इहैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो ऽनुपलम्भः । न च शीतस्य निषेधे साध्ये दूरत्वाद् वह्नेर् भास्वररूपोपलब्धिः शीतस्पर्शानुपलब्धिर् युज्यते । येनानुपलब्धिः सिद्ध्येत्, रूपस्पर्शयोर् एकज्ञानसंसर्गित्वाभावात् । न च विरोधग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकत्वेन दृश्यानुपलम्भत्वं वाच्यम्, प्राक्प्रवृत्तप्रत्यक्षस्मारकत्वेनापि प्रत्यक्षत्वप्रसङ्गात् । अत एव विरोधादिग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकत्वेनानुपलब्धीनां तत्रान्तर्भावो न युज्यते । नापि स्मृतायास् तस्या एवाभावनिश्चयः, व्याप्तिग्राहकप्रमाणस्मारकत्वेन परार्थानुमानस्य तत्प्रमाणान्तर्भावप्रसङ्गात् , तत एव स्मर्यमाणात् प्रमाणाद् विवक्षितप्रतीतिप्रसङ्गाच् च । तस्मात् सर्वत्रैव सम्प्रतितनो दृश्यानुपलम्भो दर्शनीयस् तद्बलेनैवाभावनिश्चयो वाच्यः, न तु प्राक्प्रवृत्ताद् दृश्यानुपलम्भात् स्मृत्या विषयीकृताद् अभावनिश्चयः । नापि तत्स्मारकत्वेनानुपलब्धीनां तथात्वम् इति । यद्य् एवं कथङ्कारं स प्रदर्श्यताम् इति चेत् । उच्यते । दूराद् वह्ने रूपविशेषं दृष्ट्वा यत्रैवंविधरूपविशेषस् तत्र तावद् देशव्यापकस् तुषारस्पर्शविशेषो ऽस्ति । यथा महानसादौ तथाविधम् एवरूपम् इत्य् आनुमानिकी विशिष्टोष्णस्पर्शप्रतीतिः । सैव च शीतस्पर्शानुपलब्धिर्

उष्णशीतस्पर्शयोर् एकज्ञानसंसर्गित्वात् । विवक्षितोपलम्भाद् अन्य उपलम्भो ऽनुपलम्भः । स क्वचित् प्रत्यक्षात्मा क्वचिद् अनुमानात्मेति न शास्त्रविरोधो न युक्तिविरोधः । तत एव तद्दृश्यानुपलम्भाच् छीतस्पर्शाभावप्रतीतिः । आहत्यन्तं (आहत्य)दृश्यानुपलब्धेर् अनुदयाद् दृश्यानुपलब्धेर् भेदेन निर्देशः । अत एव चानुमिता नुमानम् एतत् । केवलम् अत्यन्ताभ्यासाग् झटिति तथाप्रतीत्युदये सत्य् एकम् अनुमानम् उक्तं । वस्तुतस् त्व् अनेकम् अनुमानम् एतत् । एवं व्यापकविरुद्धकार्योपलब्ध्यादाव् अपि सर्वं द्रष्टव्यं । तथा च व्यापकविरुद्धोपलब्ध्यादिष्व् अपरम् अनुमानम् एकं प्लवमानम् अवसेयं । ययोश् च परस्परपरिहारस्थितलक्षणो विरोधस् तत्र दृश्यानुपलब्धिः स्फुटैव । तेन विरुद्धव्याप्तोपलब्ध्यादिषु सम्प्रत्य् एव दृश्यानुपलब्धिर् अस्ति । भेदस् तु पारम्पर्येण तदुदयात् । एवं व्यापककारणानुपलब्धादिष्व् अकारणाव्यापकादेर् धर्मस्यैवानुपलम्भाद् अभावे (सिद्धे तत एव सामर्थ्यात् कार्यादेर् अभावाव् असाव् इतीदानीन् तनस्यैव दृश्यानुपलम्भस्योपयोगो) न प्राक्तनस्य स्मृत्यादिविषयीकृतस्य । दृश्यानुपलम्भस्य च साक्षात्कारणे व्यापारात् पार्यम्पर्येण च विरुद्धाद्यभावे भावे व्यापारात् दृश्यानुपलब्धेर् भेदेन कारणानुपलब्ध्यादीनां प्रयोग इति ॥

[ध्प्र् प्. 149] ननु च प्रमाणात् प्रमेयसत्ताव्यवस्था । ततः प्रमाणाभावात् प्रमेयाभावप्रतित्तिर् युक्तेत्य् आह । प्रमाणनिवृत्ताव् अप्य् अर्थाभावासिद्धेर् इति इइ-48 ॥[195] स्वार्थानुमानपरिच्छेदो द्वितीयः समाप्तः ॥ __________नोतेस्__________

[195] ॥द्वितीयपरिच्छेदः ॥ -- द्ब्; न्यायबिन्दुप्रकरणे द्वितीयः परिच्छेदः समाप्तः ॥ -- ए.

***

pramāṇanivṛttāv apīty āḥa | kāraṇaḥ vyākaṃ ca nivrttamānaṃ kāryaṃ vyāpyaṃ ca nivarttayet | na ca pramāṇaṃ prameyasya kāraṇaṃ nāpi vyāpakam | ataḥ praṇāṇayor nivṛttāv api arthasya prameyasya nivṛttir an sidhyati | tato asiddheḥ saṃxayahetur adṛśyānupalabdhiḥ, na niścayahetuḥ | yat punaḥ pramāṇasattayā prameyasattā sidhyati tad yuktam | prameyakāryaṃ hi pramāṇam | na ca kāraṇam antareṇa kāryam asti | na [196]tu kāraṇānyavaśyaṃ kāryavanti bhavanti | tasmāt pramāṇāt prameyasattā vyavasthāpyā, na pramāṇābhāvāt prameyābhāvavyavastheti ||

__________नोतेस्__________

[196] न च -- ब्द् ॥ [197]आचार्यधर्मोत्तरकृतायां न्यायबिन्दुटीकायां स्वार्थानुमाणो द्वितीयः परिच्छेदः । __________नोतेस्__________

[197] ॥ न्यायबिन्दुटीकायां द्वितीयः परिच्छेदः समाप्तः ॥ -- अब्फे; ॥ न्यायबिन्दुटीकायां परिच्छेदः द्वितीयः समाप्तः ॥ -- द्

सम्प्रत्य् अदृश्यानुपलब्धिम् अधिकृत्योक्तं व्याचक्षाण आह -- उक्तेति । ननु यदि प्रत्यक्षानुमाननिवृत्तिमात्ररूपादृश्यानुपलब्धिर् अभावे साध्ये संशयहेतुर् अनैकान्तिकी तर्हि सा ततश् च हेत्वाभासावसर एव वक्तव्या । तत् किम् इहोच्चयत इति चेत् । नैतम्(-तद्) अस्ति । यतो न सा वचनव्यक्त्यानुपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् असद्व्यवहारे साध्ये न प्रमाणम्, एकान्तिकसद्व्यवहारनिषेधे तु प्रमाणम् इति प्रदर्शनात् । न ज्ञानज्ञेयस्वभावेति यावद् इत्य् आर्थं न्यायम् आश्रित्योक्तं न शाब्दम् इति द्रष्टव्यं ॥ यदि प्रमाणनिवृत्त्या प्रमेयानिवृत्तिस् तर्हि तत्सत्तयापि न प्रमेयसत्ता सिद्ध्येद् इत्य् आशङ्क्य तत्रोपपत्तिं दर्शयन्न् आह -- यत् पुनर् इति । ननु कारणम् अप्य् अवश्यं कार्यवद् भवति ततश् च सति ज्ञेये ज्ञानेनाप्य् अवश्यभाव्यं । तच् चेन् नास्ति ज्ञेयम् अपि नास्त्य् एव । ततः सिद्ध्यत्य् एवादृश्यस्याप्य् अभाव इत्य् आशङ्क्याह -- न त्व् इति । तुना कार्यधर्मात् कारणधर्मस्य वैधर्य्म्यम् आह । एतच् च कारणमात्राभिप्रायेणोक्तम्, तथा चैत्तथा प्राग् एव निर्णीतं । तस्माद् इत्यादिनास्यैव प्रकृतसोपसंहार इति ॥ पण्डितजितारिशिष्यदुर्वेकमिश्रविरचितधर्मोत्तरनिबन्धनस्य द्वितीयः परिच्छेदः ॥

पण्दितजितारिशिष्यदुर्वेकमिश्रविरचितधर्मोत्तरनिबन्धस्य द्वितीयः परिच्छेदः ॥

[ध्प्र् प्. 150] कपितेल् इइइ तृतीयः परार्थाणुमाणपरिच्छेदः । ***

स्वार्थपरार्थानुमान्योः स्वार्थं व्याख्याय परार्थं व्याख्यातुकाम आह ---

त्रिरूपलिङ्गाख्यानं[198]परार्थम् अनुमानम् इइइ-1

__________नोतेस्__________

[198] परार्थानुमानम् --- ब्फेन् ___________________________

त्रिरूपलिङ्गाख्यानम् इति । त्रीणि रूपाणि --- अन्वयव्यतिरेकपक्षधर्मत्वसंज्ञकानि यस्य तत् त्रिरूपम् । त्रिरूपं च [199]तल्लिङ्गं च तस्याख्यानम् । आख्यायते प्रकाश्यते ऽनेनेति --- त्रिरूपम् [200] इति आख्यानम् । किं पुनस् तत्? वचनम् । वचनेन हि त्रिरूपं [201] लिङ्गम् आख्यायते । परस्माय् इदम् परार्थम् ॥

__________नोतेस्__________

[199] च लिङ्ग च --- अ [200] त्रिरूपलि- --- ए [201] परस्माय् इति परा- --- ए

ननु [202]च सम्यग्ज्ञानात्मकम् अनुमानम् उक्तम् । तत् किमर्थं संप्रति वचनात्मकम् अनुमानम् उक्त इत्य् आह ---

__________नोतेस्__________

[202] ननु सम्य- --- अ

कारणे कार्योपचारात् इइइ-2

कारणे कार्योपचाराद् इति । [203]त्रिरूपलिङ्गाभिधानात् त्रिरूपलिङ्गस्मृतिर् उत्पद्यते[204] । स्मृतेश् चानुमानम् । तस्माद् अनुमानस्य परम्परया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन् कारणे वचने कार्यस्य अनुमानस्योपचारः समारोपः क्रियते । ततः समारोपात् कारणं वचनम्

__________नोतेस्__________

[203] त्रिरूपलिङ्गालम्बना स्मृतिः --- च्द्ब् [204] श्रोतुः --- टि-

त्रिरूपं लिङ्गं ज्ञातम् अपि वक्तुम् अविदुषो बालस्य व्युत्पादनार्थं त्रिरूपलिङ्गाख्यानलक्षणं यत् परार्थम् अनुमानम् उक्तं तद् व्याख्यातुं स्वार्थेत्यादिना प्रस्तौति । द्वयो रूप्योर् अभिधानाद् एकस्य गम्यमानत्वाद् आख्यायते प्रकाश्यते ऽनेनेति त्रिरूपं लिङ्गम् इति विवृतं न त्व् अभिधीयते ऽनेनेति । अभिधेयस्य गम्यमानस्य च प्रकाश्यत्वं तुल्यम् इति प्रकाश्यते इत्य् अनेन द्वयोः सङ्ग्रहः । येनार्थक्रमेणात्मनः परोक्षार्थज्ञानम् उत्पन्नं तेनैव क्रमेण परसन्ताने लिङ्गिज्ञानोत्पपादयिषया त्रिरूपस्य लिङ्गस्य ख्यापकं यद् वचनं तत्परार्थम् अनुमानम् इति द्रष्तव्यम् ॥

कारणे वचने कार्यस्य ज्ञानस्योपचारात् समारोपात् ।

कथं पुनर्वचनस्यानुमानहेतुत्वम् इत्य् आह --- त्रिरूपेति

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.