Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/11

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

धर्मोत्तरप्रदीप subcommentary on धर्मोत्तर's न्यायबिन्दुटीका on धर्मकीर्ति's न्यायबिन्दु

Tác giả
दुर्वेकमिश्र
Thông tin
GRETIL — Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अयम् अत्र प्रकरणार्थः -- सपक्षाभावो ऽसपक्षः । साध्यधर्मवान् यो न भवतीत्य् अर्थः । साध्यधर्माभावार्थत्वाद् असपक्षशब्दस्य । न चैवं निषेधमात्रम् असपक्षः । किन् तर्हि? सर्वः प्रतियोगी निषेधः पर्युदतश् च, अतत्त्वलक्षणत्वाद् असपक्षस्य । तद् विवक्षिते प्रतियोगिनि तुल्यं, व्यतिरेकगतेः सर्वत्र तुल्यत्वात्, साक्षाद् अर्थापत्त्या वेति । चः पूर्वापेक्षः समुच्चये । अन्यविरुद्धयोर् अपि वस्तुसतोः कल्पितयोश् चासपक्षत्वात् । तत्र वर्त्तमानस्य साधारणानैकान्तिकत्वान् न तदभावदोषः, अन्यविरुद्धयोश् च स्वरूपकथनेन तदसपक्षत्वपक्षोक्तो दोषो निरस्त इति सर्वम् अवदातम् ।

ननु च सपक्षो यो न भवतीति वचनेन यस्य सपक्षाभावस्वभावत्वं तस्यैवासपक्षत्वं [41ब्] प्रतिपाद्यते । न चान्यविरुद्धयोस् तद्भावस्वभावता सम्भव(वि)नी, विधिरूपत्वात् । तत् कथं तयोस् तथात्वम् इत्य् आशङ्क्याह -- सपक्षाद् इति । अन्यत्वं ततो भिद्यमानत्वं पृथक्त्वम् इति यावत् । तेन च विरुद्धत्वं तावन् न शक्यं ज्ञातुम्, यावत् सपक्षाभावस्वभावो न विज्ञातो भवति । सो ऽन्यो विरुद्धश् चेत्य् अर्थात् ।

अयम् आशयः -- यदि तस्यान्यत्वाभिमतस्य यतो ऽन्यत्वं व्यवहर्त्तव्यं तद्रूपता चेत्तस्यासिद्धा सन्दिग्धा वा भवेत् तदा ऽन्यत्वम् एव न स्यात्, तदात्मवत्, धूमस्येव वा बाष्पादिभावेन सन्दिह्यमानस्य न बाष्पादेर् अन्यत्वनिश्चयः । येन च विरुद्धं यत् तद् रूपं चेत् सिद्धं सन्द्गिधं वा ताद्रूप्येण, तदा तेन सह तस्यावस्थितः, तदात्मपरिहारेण वा ऽवस्थानं कथम्, कथं च निश्चीयेत तदात्मवत् पूर्वोक्तधूमवत्?

यत एवं तस्मात् । तयोः साध्यधर्म्वत्त्वाभावाद् इत्य् अर्थः । यत एवं ततो हेतोः साक्षाद् अव्यवधानेन । अनेन यद्य् एक एवासपक्षो वक्तव्यः तदा तदभाव एवेति सूचितं । तुर् अभावाद्

[ध्प्र् p.100] ततो ऽभावः साक्षात् सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ तु सामर्थ्याद् अभावरूपौ प्रतीयेते । ततस् त्रयाणाम् अप्य् असपक्षत्वं । त्रिरूपाणि च त्रीण्य् एव लिङ्गानि इइ-10 उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्य् एव लिङ्गानि इति । चकारो व्यक्तव्यान्तरसमुच्चयार्थः । त्रैरूप्यम् आदौ पृष्टं त्रिरूपाणि च लिङ्गानि परेण । तत्र त्रैरूप्यं उक्तम् । त्रिरूपाणि च उच्यन्ते । -- त्रिण्य् एव त्रिरूपाणि लिङ्गानि । त्रयस् त्रिरूप लिङ्गप्रकारा इत्य् अर्थः । कानि पुनस् तानि इत्य् आह

अनुपलब्धिः स्वभावः कार्यं च इति इइ-11 प्रतिषेध्यस्य साध्यस्य अनुपलब्धिस् त्रिरूपा । विधेयस्य साध्यस्य स्वभावश् च त्रिरूपः, कार्य च । अन्यविरुद्धयोर् वैधर्म्यम् आह । यतो ऽन्यो निरुद्धश् चोक्तया नीत्या सपक्षाभवरूपौ ततस् तस्मात् । आस्ताम् एकस्य द्वयोर् वा त्रयाणाम् अपीत्य् अपिशब्दः ।

त्रैरूप्येण त्रिरूपेणेत्य् अर्थः । त्रीणि रूपाणि लक्षणानि येषाम् इति विग्रहः । त्रिण्य् एव त्रिसंख्यान्य् एव । त्रिय्रूपाणीत्य् अनेनाबाधितविषयत्वादिरूपानतरयोगेन चतुर्लक्षणत्वं षड्लक्षणत्वं वा पराभिमतं हेतोः प्रतिषेधति, त्रीण्य् एवेत्य् अनेन संयोग्यादिभेदेन भूयिष्थसंख्यत्वम् ।

पृष्ट इति पाठे त्व् आचार्य इति शेसः । यत् त्रैरूप्यं पृष्टो यद् वा यत् त्रैरूप्यं पृष्टं तत् त्रैरूप्यम् उक्तम् उक्तेन ग्रन्थेन । अथ वा यद् यस्मात् त्रैरूप्यं पृष्ट आचार्यः, पृष्टं वा तत् तस्मात् त्रैरूप्यम् उक्तम् इति । चस् त्रैरूप्येण समं त्रिरूपाणाम् उक्तकरम्तां समुच्चिनोति ।

ननु न तावत् परस्यैतद् द्वितयप्रश्नवाक्यं श्रुतम् । तत् कथं परस्य द्वेधा प्रणः संकीर्त्त्यत इति चेत् । उच्यते । त्रिरूपाल् लिङ्गाद् इति श्रुतवता पूर्वपक्षवादिना ऽवश्यं किं तत् त्रैरूप्यं कियच् च त्रिरूपं लिङ्गम् इत्याकाङ्क्षितव्यम्, तेन पृष्टम् इत्य् उच्यते । एतद् एव कथम् अवसीयत इति चेत् । त्रैरूप्यं लिङ्गस्यैवम् आत्मकम् इत्य् अभिधानाद् आचार्यस्य पूर्वपक्षवादिन एवंरूप प्रश्नो ऽवसीयते । त्रिरूपाणि च त्रीण्येवेत्य् अभिधानाच् च सम्ख्याप्रश्नः । ततः साधूक्तं त्रैरूप्यम् आदाव् इत्यादि । लिङ्गप्रकारा लिङ्गस्वरूपाणि ॥

संयोग्यादिभेदेन त्रित्वासम्भवात् पृच्छति -- कानीति । सामान्यविशेषाकाराभ्यां प्रश्नः । कार्यं च विधेयस्येति प्रकृतम् । केवलं विधेयस्येति पूर्वं सामर्थ्याद् अनर्थान्तरस्य विधेयस्य, अधुना त्व् अर्थान्तरस्य विधेयस्येत्य् अवसेयम् । विधेयस्यार्थान्तरस्य कार्यं त्रिरूपम् इति योजनीयम् । चकारौ पूर्वापेक्षया समुच्चयार्थौ ॥

[ध्प्र् p.101]

अनुपलब्धिम् उदाहर्तुम् आह --

तत्र अनुपलब्धिर् यथा न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिलक्षणप्राप्तस्य अनुपलब्धेर् इति इइ-12 यथा इत्यादि । यथा इत्य् उपप्रदर्शनार्थम् । यथा इयम् अनुपलब्धिस् तथा अन्या अपि । न त्व् इयम् एव इत्य् अर्थः । प्रदेश एकदेशः । विशिस्यत इति विशेषः प्रतिपत्तृप्रत्यक्षः । तादृशश् च न सर्वः प्रदेशः । तद् आह -- क्वचिद् इति । प्रतिपत्तृप्रत्यक्षे क्वचिद् एव प्रदेश इति धर्मी । न घट इति साध्यम् । उपलब्धिर् ज्ञानम् । तस्या लक्षणं जनिका सामग्री । तथा हि उपलब्धिर् लक्ष्यते । तत्प्राप्तो ऽर्थो जनकत्वेन सामग्र्यन्तर्भावात् । उपलब्धिलक्षणप्राप्तो दृश्य इत्य् अर्थः । तस्य अनुपलभ्देः -- इत्य् अयम् हेतुः । अथ यो यत्र न अस्ति स कथं तत्र दृश्यः । दृश्यत्वसमारोपड् असन्न् अपि दृश्य उच्यते । यश् च एवं सम्भाव्यते -- यद्य् असाव् अत्र भवेद् दृश्य भवेद् इति । स तत्र अविद्यमानो ऽपि दृश्यः समारोप्यः । कश् च एवं सम्भाव्यः? यस्य समग्राणि स्वालम्भनदर्शनकारणानि भवन्ति । कदा च तानि समग्राणि गम्यते? यदैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भः । एकैन्द्रियज्ञानग्राह्यं लोचनादिप्रणिधानाभिमुखं वस्तुद्वयम् अन्योन्यापेकेषम् एकज्ञानसंसर्गि कथ्यते । तयोर् हि

न घट इति घटाभावव्यवहारयोग्यतेति द्रष्टव्यम् । घटाभावस्य प्रत्यक्षसिद्धत्वात् । एतच् च परस्ताद् अभिधास्यते । तया लक्ष्यत इति ब्रुवता लक्ष्यते ऽनेनेति लक्षणम् इति व्यक्तीकृतम् । तद् इत्य् उपलब्धिलक्षणम् । कथं तत्प्राप्त इत्य् आह जनकत्वेन । किं तेनैकेन सा जन्यते येनैवम् उच्यत इत्य् आह सामग्र्यन्तर्भावाद् इति ।

समुदायार्थं स्फुटयति । दृश्यो दर्शनयोग्यः । इतिर् एवमर्थे । एवम् अभिधेयो यस्योपलब्धिलक्षणप्राप्तशब्दस्य ।

यद्य् अविद्यमानः समारोपाद् दृश्य उच्यते तदा भिन्नेन्द्रियग्राह्यम् अपि तत्रानेकम् अस्ति । तस्यापि तर्हि तथात्वम् आयातम् इत्य् आशङ्क्याह यश् चैवम् इति । चो ऽवधारणे । स तादृशो दृश्यतया समारोप्यो न सर्व इत्य् अर्थात् । कश् चैवं सम्भाव्य इति पृच्छति । पुनःशब्दार्थश् चकारः ।

यस्येति सिद्धान्ती । यस्येति प्रतिषेधस्य । स्वम् आत्मानम् आलम्बत इत्य् आलम्बनं । यस्य दर्शनस्य । तस्य कारणानि । तच् चेन् नास्ति कथं तद्दर्शनकारणसामग्र्यावगतिर् इत्य् आशयः पृच्छति कदेति । च पूर्ववत् । एकस्मिञ् ज्ञाने संसर्गः प्रतिभासः स यस्यास्ति । तच् च तद्वस्त्वन्तरं चेति तथा तस्योपलम्भो यदेत्य् उक्तम् ।

[ध्प्र् p.102] सतोर् न एकनियता भवति प्रतिपत्तिः । योग्यताया द्वयोर् अप्य् विशिष्टत्वात् । तस्माद् एकज्ञानसंसर्गिणि दृश्यमाने सत्य् एकस्मिन्न् इतरत् समग्रदर्शनसामग्रीकं यदि भवेद् दृष्यम् एव भवेद् इति सम्भावितं दृश्यत्वम् आरोप्यते । तस्य अनुपलम्भो दृश्यानुपलम्भः । तस्मात् स एव घटविविक्तप्रदेशस् तदालम्भनं च ज्ञानम् दृश्यानुपलम्भनिश्चयहेतुत्वात् द्र्श्यानुपलम्भ उच्यते । यावद् धि एकज्ञानसंसर्गि वस्तु न निश्चितम् तज्ज्ञानं च न तावद् दृश्यानुपलम्भनिश्चयः । ततो वस्तु अनुपलम्भ उच्यते तज्ज्ञानं च । दर्शननिवृत्तिमात्रं तु स्वयम् अनिश्चितत्वाद् अगमकम् । ततो दृश्यघटरहितः प्रदेशः तज्ज्ञानं च वचनसामर्थ्याद् एव दृश्यानुपलम्भरूपम् उक्तं द्रष्टव्यम् ।

तत्र यदि निराकारं विज्ञानम् इति स्थितिस् तदैकशब्दो द्वयादिसंख्यानिरासार्थः । यदा तु साकारम् इति स्थितिस् तदा पक्षद्वयम् -- एकम् एव वानेकाकारम् अशक्यविवेचनं चित्रं ज्ञानम्, प्रतिवस्त्व् अनेकम् एव वा तत्तदाकारानुकारि । पूर्वस्मिन् पक्षे पूर्ववद् एकशब्दः । शेषपक्षे त्व् एकचक्षुरायतनप्रभवत्वाद् एकरूपालम्बनत्वाच् चैकशब्दो गौणः ।

ननु यदि तत् प्रतिषिध्यमानम् अनेन भूतलादिना सहैकस्मिन् ज्ञाने प्रतिभासेत तदपेक्षम् इदम् एकज्ञानसंसर्गि कथ्यते । यावतेदम् एव नास्तीत्य् आशङ्क्य तथात्वम् एव तयोर् एकेन्द्रियेत्यादिना दर्शयति । लोचनादीनां प्रणिधानं स्वज्ञानोपजनने योग्यीभवनं तत्राभिमुखम् अनुगुणम् । अन्योन्यापेक्षम् इति घटाद्यपेक्षं भूतलादि, तदपेक्षं च घटादीत्य् अर्थः ।

यदि नाम द्वयं तत्रावस्थितं तथाप्य् एकम् एव तत्रावभासिष्यत इत्य् आह -- तयोर् इति । हिर् यस्मात् । उपपत्तिम् आह -- योग्यताया इति । यत एव तयोर् घटादिभूतलाद्योर् एकज्ञानसंसर्गः सम्भवी तस्मात् । एकस्मिन् भूतलादिके दृश्यमाने सतीतरद् घटादिकं परिपूर्णदर्शनसामग्रीकं ज्ञातव्यम् । तथासद् अविद्यमानम् अपि समारोपाद् दृश्यम् उच्यत इति दर्शयति ।

भवेद् इतिना सम्भावनाया आकारः कथितः । तस्यैव सम्भावनार्हस्यानुपलम्भस् तदविविक्तान्योपलम्भरूपः । यस्मात् तस्यैकज्ञानसंसर्गिणो भूतलादेर् दर्शनात् तदनुपलम्भो निश्चीयते तस्मात् ।

ननु भूतलादिज्ञाननिश्चय एव तदनुपलम्भनिश्चयहेतुत्वाद् अनुपलम्भो ऽस्तु भूतलादिकं तु कथम् इत्य् आह -- यावद् इति । हिर् यस्मात् । अनेन ज्ञानविशिष्टं भूतलादि, भूतलाद्यवच्छिन्नञ् च ज्ञानं दृश्यस्यानुपलम्भम् उपलम्भाभावं व्यवहर्त्तव्यैकस्वभावं निश्चाययतीति दर्शितम् । वस्त्व् इति भूतलादि । ज्ञानम् इति तद्ग्राहि । चस् तुल्योपायत्वं समुच्चिनोति ।

[ध्प्र् p.103]

का पुनर् उपलब्धिलक्षणप्राप्तिर् इत्य् आह --

उपलब्धिलक्षणप्राप्तिर् उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश् च इइ-13

उपलब्धिलक्षणप्राप्तिः उपलब्धिलक्षणप्राप्तवं घातस्य उपलम्भप्रत्ययान्तरसाकल्यम् इति. ज्ञानस्य घटो ऽपि जनकः, अन्ये च चक्षुरादयः. घटाद् दृश्याद् अन्ये हेतवः प्रत्ययान्तराणि. तेषां साकल्यम् सन्निधिः. स्वभाव एव विशिष्यते तदन्यस्माद् इति विशेष विशिष्त इत्य् अर्थः. तद् अयम् विशिष्टः स्वभावः प्रत्ययान्तरसाकल्यं च एतत् द्वयम् उपलब्धिलक्षनप्राप्तत्वं घटादेर् द्रष्टव्यम् ।

यद्य् एकस्मिन् ज्ञाने ययोः संसर्गो ऽस्ति तयोर् एकतरोपलम्भस् तदितरानुपलम्भनिश्चयहेतुत्वाद् अनुपलम्भस् तस्माच् च तस्याभावव्यहारस् तदा नीलज्ञानानुभवे पीतज्ञानाभावव्यवहारो न स्यात् तयोर् एकज्ञानसंसर्गाभावात् । न हि भवन्मते ज्ञानं ज्ञानान्तरेण वेद्यते, स्वसंवेदनत्वाभावप्रसङ्गाद् इति चेत् । सत्यम् एतत् । केवलम् एकज्ञानसंसर्गिशब्देनान्योन्याव्यभिचरितोपलम्भत्वम् इह विवक्षितम् । तच् च ज्ञाने ऽप्य् अस्ति । यदि हि तज्ज्ञानं विद्यमानं स्यात् तदा नीलज्ञानवत् संविदितम् एव भवेत् । न च संवेद्यते । तस्मान् नास्तीति व्यवह्रियत इति किम् अवद्यम् ।

स्याद् एतत् । किं पुनर् ज्ञातृज्ञेयधर्मोपलब्धिव्युदासेन पर्युदासवृत्तिना नञा ज्ञातृज्ञेयधर्मलक्षणा द्विविधोपलब्धिः प्रतिपाद्यते ? न तूपलम्भाभावमात्रं प्रसज्यप्रतिषेधाश्रयेणोच्यते यथेश्वरसेनो मन्यत इत्य् आशङ्क्याह -- दर्शनत्यादि । दर्शनम् उपलब्धिस् तस्य निवृत्तिर् अभावस् तुच्छरूपः सैव तन्मात्रं वस्त्वन्तरसंसर्गविरहः । तुः पूर्वस्माद् अनुपलम्भाद् वैधर्म्यम् अस्य द्योतयति । स्वयम् अनिश्चितत्वाद् इति ब्रुवतानुपलम्भात् तत्प्रतिपत्ताव् अनवस्थादोषप्रसङ्गेन तस्य साधकाभावः सूचितः । अनिश्चितत्वाद् एवागमकः । एवञ् च व्याचक्षाणेन इदं सूचितम् -- तथाविधानुपलब्धिः प्रमाणनिवृत्ताव् अप्य् अर्थाभावाभावाद् अभावव्यवहारे साध्ये ऽनैकान्तिकीति । वचनसामर्थ्याद् इत्य् उपलब्धिलक्षणप्राप्तस्येतिवचनसामर्थ्यात्, अन्यथैतद् अतिरिच्येतेति भावः ॥

ननूपलब्धिलक्षणप्राप्तः स उच्यते यस्योपलब्धिलक्षणप्राप्तिर् अस्ति । यथा यस्याप्तिर् यथार्थदर्शनादिरूपास्ति स आप्त इत्य् उच्यते । सा चोपलब्धिलक्षणप्राप्तिर् यद्य् आत्ममनःसन्निकर्षः, इन्द्रियमनःसंयोगः, इन्द्रियार्थसन्निकर्षः, विषयप्रकाशसंयोगः, अनेकद्रव्यवत्त्वम्, रूपं चोद्भूतं समाख्यातं तदा त्वन्मते ऽमीषाम् अभावाद् उपलब्धिलक्षणप्राप्तिर् असम्भविनीति मन्यमानः पृच्छति का पुनर् इति । सामान्यविशेषाकाराभ्याम् अयं प्रश्नः । आचार्यस्यापि नामून्य् उपलब्धिलक्षणप्राप्तिशब्देन विवक्षितानि ।

किं तर्हीयम् इत्यभिप्रायेण यद् उपलब्धिलक्षणेत्यादिप्रतिवचनं तद् उपलब्धीत्यादिना व्याख्यातुम् उपक्रमते । व्याख्येयम् एवोपलब्धिलक्षणप्राप्तिशब्दसामानार्थेनोपलब्धिलक्षणप्राप्तत्वशब्देनानुवदति । अयं चास्याशयः यस्योपलब्धिलक्षणप्राप्तिस् तस्यावश्यम् उपलब्धिलक्षणप्राप्तत्वम् अस्तीति । अत एवोपलब्धिलक्षणप्राप्तिर् उपलब्धिलक्षणप्राप्तत्वम् इत्य् उक्तम् । कस्येत्य् आकाङ्क्षायाम् आह घटस्येति ।

ननु साकल्यं नामानेकधर्मः । न च ज्ञानस्य हेतवो बहवः । किञ् च यदि प्रतिषेध्यो ऽपि ज्ञानस्य हेतुः स्यात् तदा तस्मात् प्रत्ययाद् अन्ये प्रत्ययाः प्रत्ययान्तराण्य् उच्यन्त इत्य् आशङ्क्याह ज्ञानस्येति ।

[ध्प्र् p.104]

कीदृशः स्वभावविशेष इत्य् आह

यः स्वभावः सत्स्व् अन्येषु उपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभावविशेषः इइ-14 सत्स्व् इत्यादि । उपलम्भस्य यानि घटाद् दृश्याद् प्रत्ययान्तरानि तेषु सत्सु विद्यमानेषु यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः । तद् अयम् अत्र अर्थः -- एकप्रतिपत्त्रपेक्षम् इदम् प्रत्यक्षलक्षणम् । तथा च सति द्रष्टुं प्रवृत्तस्य एकस्य द्रष्टुर् दृश्यमान उभयवान् भावः । अदृश्यमानास् तु देशकालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययान्तरसाकल्यवन्तस् तु । यैर् हि प्रत्ययैर् स द्रष्टा पश्यति ते सन्निहिताः । अतश् च सन्निहिता यद् द्रष्टुं प्रवृत्तः सः । न केवलं प्रत्ययान्तरसाकल्यम् उपलब्धिलक्षणप्राप्तिः किन् त्व् अन्यद् अपीत्य् आह -- स्वभावेति । चस् तुल्यबलत्वं समुच्चिनोति । तदन्यस्मात् पिशाचादेर् विशिष्यते । ज्ञानजननयोग्यतया विशेषणत्वे प्य् अस्य राजदन्तादिपाठाद् विशेषशब्दस्य पूर्वनिपाताभावः । कर्मसाधनस्यैव विशेषशब्दस्यार्थम् विशिष्ट इति ।

द्वयम् एतन् मिलितम् एवोपलब्धिलक्षणप्राप्तिशब्दवाच्यम् उपसंहारव्याजेन तद् इत्यादिना दर्शयति । यतः प्रत्ययान्तरसाकल्यं स्वभावविशेषश् चोपलब्धिलक्षणप्राप्तिर् विवक्षिता तत् तस्माद् उपलब्धिलक्षणप्राप्तिशब्दवाच्यम् उपलब्धिलक्षणप्राप्तत्वं घटादेः प्रतिषेध्यस्य ॥

अथ किं स्थवीयान् स्वभावः स्वभावविशेष उतस्वित् पररूपामिश्रस्वलक्षणात्मक इत्य् अभिप्रेत्य पृच्छति कीदृश इति । सत्स्व् इत्याद्य् उत्तरम् उपलम्भस्येत्यादिना व्याचष्टे ।

ननु किम् अस्य सम्भवो ऽस्ति यद् उत प्रत्ययान्तरसाकल्ये सत्य् अपि स्वभावः प्रत्यक्ष एव भवतीति । तथा हि सत्य् अपि घटस्य तादृशे स्वभावे विदूरवर्त्तिनः पुरुषस्य लोचनादिप्रणिधाने पि नासौ प्रत्यक्षो भवतीत्य् आशङ्क्याह तद् अयम् इति । यस्माद् द्वयम् एतद् उपलब्धिलक्षणप्राप्तिम् अवोचद् आचार्यस् तत् तस्माद् अत्र प्रस्तवे ऽयम् अर्थो वाच्यो ऽभिमतः । को ऽसाव् इत्य् आह एकेति । एकश् चासौ विवक्षितः प्रतिपत्ता चेति तथा तदपेक्षम् इदं प्रत्यक्षलक्षणम् । यः स्वभावः सत्स्व् अन्येषूपलम्भप्रत्ययान्तरेषु सन् प्रत्यक्ष एव भवतीत्य् एवं रूपं । एकश् च प्रतिपत्ता स एव वाच्यो यो ऽव्यवधानादिदेशो द्रष्टुं प्रवृत्तश् च । तथाविधे च द्रष्टरि तथाविधो ऽवश्यं प्रत्यक्ष एव भवतीति । तथापि कथं पूर्वपक्षातिक्रम इत्य् आह तथा चेति तस्मिंश् च प्रकारे सति । दृश्यमान इति हेतुभावेन विशेषणम् । उभयवान् स्वभावविशेषवान् प्रत्ययान्तरसाकल्यवांश् च । यद्य्

[ध्प्र् p.105] द्रष्टुम् अप्रऋत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः प्रत्ययान्तरवैकल्यवन्तः, स्वभावविशेषयुक्तास् तु । दूरदेशकालास् तु उभयविकलाः । तद् एवं पश्यतः कस्यचिन् न प्रत्ययान्तरविकलो नाम, स्वभावविशेषविकलस् तु भवेत् । अपश्यतस् तु द्रष्टुं शक्यो योग्यदेशस्थः प्रत्ययान्तरविकलः । अन्ये तु उभयविकला इति । अदृश्यमानापि स्वभावविशेषवन्तस् तदा किं स्वभावविशेषग्रहणेनेत्य् आह अदृश्यमाना इति । तुर् दृश्यमानेभ्यो ऽदृश्यमानान् भिनत्ति । देशादिविप्रकृष्टत्वम् अदृश्यमानत्वे निबन्धनम्, हेतुभावेन विशेषणात् । ते प्रत्ययान्तरसाकल्यवन्तः । तुः स्वभावविशेषविरहात् प्रत्ययान्तरसाकल्यवत्त्वेन तान् विशिनष्टि । द्रष्टुं प्रवृत्तस्येत्य् अस्यानुवृत्ताव् इदं द्रष्टव्यम् ।

अयम् अत्र प्रकरणार्थः एकप्रतिपत्त्रपेक्षया यस् तथाविधः स्वभावः सो ऽपि यद्य् उपलब्धिलक्षणप्राप्तिलक्षणत्वेन नोपादीयते, तदा तेषाम् अपि देशादिविप्रकर्षिणां प्रत्ययान्तरसाकल्यम् उपलब्धिलक्षणप्राप्तिर् अस्तीत्य् उपलब्धिलक्षणप्राप्तानाम् अनुपलम्भाद् अभावव्यवहारः प्रवर्त्तनीयः स्यात् । न चैतद् युज्यते । तस्माद् विशिष्टप्रतिपत्त्रपेक्षम् इदं स्वभावविशेषस्य लक्षणम् इत्य् उपलब्धिलक्षणप्राप्तिलक्षणं सूक्तम् इति ।

प्रत्ययान्तरसाकल्यवत्त्वम् एव तेषां साधयन्न् आह यैर् इति । हिर् यस्मादर्थे । एतद् एव कुतः सिद्ध्यतीत्य् आह अत इति । अत इत्य् अयं निपातो वक्षय्माणहेत्वर्थः । चो वक्तव्यम् एतद् इत्य् अस्मिन्नर्थे । सन्निहितास् ते प्रत्यया यद् यस्माद् द्रष्टुं प्रवृत्तस् तद्विविक्तं द्रष्टुं प्रवृत्तो यत इत्य् अर्थः । यद् वा तद् एव निरीक्षितुं प्रवृत्तो यत इति । तदा तु [43ब्] प्रेक्षापूर्वकारीति द्रष्टव्यम् । दर्शनप्रवृत्तपुरुषापेक्षया तावद् अर्थस्यैवंप्रकारवत्त्वं, द्रष्टुम् अप्रवृत्तस्य तु स कीदृश इत्य् आह द्रष्टुम् अप्रवृत्तस्येति । तुना द्रष्टुं प्रवृत्ताद् अप्रवृत्तस्य भेदम् आह । यावत्य् एव देशे सति तस्मिन् प्रत्ययान्तरे दृश्यन्ते ऽर्थः स एव योग्यो देशः तत्रस्थाः ।

तस्माद् दृश्याद् अन्ये ये चक्षुरादयो हेतवस् तानि प्रत्ययान्तराणि । तेषां वैकल्यम् अभावस्, तद्वन्तः हेतुभावेन विशेषणाद् । अत एव द्रष्टुं ते न शक्याः । स्वभावविशेषस् तु तेषाम् अस्तीति दर्शयन्न् आह स्वभावेति । तुना प्रत्ययान्तरवैकल्यवत्त्वात् स्वभावविशेषयुक्तत्वेन तान् विशिनष्टि । तथाविधपुरुषापेक्षया देशकालविप्रकृष्टानां तु का वार्त्तेत्य् आह दूरेति । दूरौ देशकालौ येषां ते तथोक्ताः । ये हि देशेन विप्रकृष्टास् ते दूरदेशा ये च कालेन ते दूरकाला भवन्तीति भावः । तुः पूर्वेभ्य इमान् भिनत्ति । अत्रापि द्रष्टुम् अप्रवृत्तस्येत्य् अनुवर्त्तते । तद् एवम् इत्यादिनोक्तम् एवोपसंहरति ।

अथवा एकप्रतिपत्त्रपेक्षम् इदम् इत्य् अन्यथा व्याख्यायते -- इहोपलब्धिलक्षणप्राप्तस्येत्य् अनेन देशकालस्वभावविप्रकृष्टतयानुपलब्धिलक्षणप्राप्ताः किल व्यावर्तयितव्याः । न च ते ऽप्य् अनुपलब्धिलक्षणप्राप्ताः शक्या वक्तुं यतो व्यवच्छिद्येरन् तथापि पिशाचो ऽपि सजातीयैर् उपलभ्यते एवं देशविप्रकृष्टो ऽपि तद्देशीयैः । तथा कालविप्रकृष्टो ऽपि तत्कालिकैर् इति व्यावर्त्त्याभावाद् उप--

[ध्प्र् p.106]

अनुपलब्धिम् उदाहृत्य स्वभावम् उदाहर्तुम् आह --

स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः इइ-15 स्वभाव इत्यादि । स्वभावो हेतुर् इति सम्बन्धः । कीदृशो हेतुः साध्यस्य स्वभाव इत्य् आह -- स्वस्य आत्मनः सत्ता । सा एव केवला स्वसत्तामात्रम् । तस्मिन् सति भवितुं शीलं यस्य इति । यो हेतोर् आत्मनः सत्ताम् अपेक्ष्य विद्यमानो भवति, न तु हेउत्सत्ताया व्यतिरिक्तं कञ्चिद् धेतुम् अपेक्षते स स्वसत्तामात्रभावी साध्यः । तस्मिन् साध्ये यो हेतुः स स्वभावः तस्य साध्यस्य न अन्यः । उदाहरणम् --

यथा वृक्षो अयं शिंशपात्वाद् इति इइ-16

यथा इति । अयम् इति धर्मी । वृक्ष इति साध्यम् । शिंशपात्वाद् इति हेतुः । तद् अयम् अर्थः -- वृक्षव्यवहारयोग्यो ऽयम्, शिंशपाव्यवहारयोग्यत्वाद् इति । यत्र प्रचुरशिंशपे देशे ऽविदितशिंशपाव्यवहारो जडो यदा केनचिद् उच्चां शिंशपां उपादर्श्य उच्यते `अयं वृक्षःऽ इति तदासौ जाड्याच् छिंशपाया उच्चत्वम् अपि वृक्षव्यवहारस्य निमित्तम् अवस्यति तदा याम् एव अनुच्चाम् पश्यति शिंशपां ताम् एव अवृक्षम् अवस्यति । स मुडः शिंशपामात्रनिमित्ते

लब्धिलक्षणप्राप्तस्येति विशेषणम् अनर्थकम् इत्य् आशङ्क्याह तद् अयम् अत्रार्थ इति ।

तदा तु प्रत्यक्षशब्देनोपलब्धिलक्षणप्राप्तत्वं वाच्यं तस्य लक्षणम् इदं पूर्वोक्तम् इति योज्यम् । एकप्रतिपत्त्रपेक्षम् इदं प्रत्यक्षलक्षणम् उपलब्धिलक्षणम् इत्य् अर्थः । तथापि कथं चोद्यातिक्रम इत्य् आह तथा चेति । शेषं पूर्वं एव कृतव्याख्यानम् ॥

सम्प्रति स्वभावहेतुं विवरितुम् अनुपलब्धिम् इत्यादिनोपक्रमते । सामान्यवृत्तिर् अप्य् अयं स्वभावशब्दः साध्यधर्मस्य श्रुतत्वात् तस्यैव स्वभावे वर्तते इत्य् अभिप्रायेण साध्यस्य स्वभाव इत्य् अभ्यवादीत् । हेतोः स्वरूपस्य चिन्तनात् स्वशब्देन तस्यैवात्मा विवक्षितः । एतद् एव यो हेतोर् इत्यादिना स्फुटयति । तस्मिन् साध्ये यो हेतुर् गमकः ॥

[ध्प्र् p.107] वृक्षव्यवहारे प्रवर्त्यते । न उच्चत्वादि निमित्तान्तरम् इह वृक्षव्यवहारस्य । अपि तु शिंशपात्वमात्रं निमित्तं -- शिंशपागतशाखादिमत्त्वम् निमित्तम् इत्य् अर्थः । कार्यम् उदाहर्तुम् आह --

कार्यं यथा वह्निर् अत्र धूमाद् इति इइ-17 वह्निर् इत्य् साध्यम् । अत्र इति धर्मी । धूमाद् इति हेतुः । कार्यकारणभावो लोके प्रत्यक्षानुपलम्भनिबन्धनः प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणम् उक्तम् । उदाहरणम् अस्यार्थस्येति प्रकरणात् । उदाह्रियते प्रदर्श्यते स्वभावहेतुर् अनेनेत्य् उदाहरणं स्वभावहेतुप्रतिपादकं वाक्यम् । इदं च स्वभावहेतोर् अर्थकथनं न तु तत्प्रयोगोपदर्शनम् । प्रयोगस् तु यः शिंशपात्वव्यवहारयोग्यः स वृक्षत्वव्यवहारयोग्यः । यथा प्रवर्तितवृक्षत्वव्यवहारा पूर्वाधिगता शिंशपा । शिंशपाव्यवहारयोग्यश् चायम् इति ।

ननु च यः शिंशपा पश्यति स वृक्षं जानात्य् एव । तत् कथम् अत्र साध्यसाधनभाव इत्य् आह तद् अयम् इति । यस्मात् शिंशपा साधनत्वेनोपन्यस्ता, वृक्षः साध्यत्वेन । न चैतद् यथाश्रुति सङ्गच्छते तत् तस्मात् वृक्षो ऽयं वृक्षव्यवहारयोग्यो ऽयं शिंशपात्वात् शिंशपाव्यवहारयोग्यत्वाद् इत्य् अयम् अर्थो वाच्यः वृक्षो ऽयं शिंशपात्वाद् इत्य् अस्य वाक्यस्येति प्रकरणात् । इतिर् वाक्यार्थस्यैव स्वरूपं दर्शयति ।

ननु यो विदितवृक्षव्यवहारः स स्वयं प्रत्यक्षेणैव तं व्यवहारं प्रवर्तयिष्यति तत् कथम् अस्यानुमानस्यावतार इत्य् आह तत्रेति वाक्योपक्षेपे । निमित्तम् इत्य् अन्तं सुबोधम् ।

अनेन च प्रबन्धेन मूढं प्रत्य् एतद् व्यवहारसाधनम् अनुमानम् इति दर्शितम् । केवलम् इदम् अत्र निरूपणीयम् । [यदा च] वृक्षत्वव्यवहारव्युत्पत्तिं कार्यमाण एवारोपितोच्चत्वादिनिमित्तः, तदा केन दृष्टान्तेन बोधयितव्यः? आदित एव तेन शाखादिमत्त्वमात्रं निमित्तं न गृहीतम् इति । सत्यम् एतत् । केवलं बोधे यत्नः करणीयः । तदासौ जाड्याद् उच्चत्वम् अपि निमित्तम् अवस्यतीतीदम् एतस्मिन् मूढे प्रतिपत्तरि योजनीयम् । यः प्रथमं तावत् शिंशपागतं शाखादिमत्त्वमात्रम् एव निमित्तम् अवसाय वृक्षव्यवहारं प्रावर्तयत् पश्चाज् जाड्यवशात् तन्मात्रं निमित्तं विस्मृत्यान्यद् एव वृक्षव्यवहारकाले उच्चत्वम् अपि निमित्तम् आसीद् इति व्यामुह्य तदोच्चत्वम् अपि वृक्षव्यवहारनिमित्तम् अवकल्पयतीति । स चैवंभूतो जडः शिंशपाव्यवहारयोग्यत्वेन हेतुना प्रथमं प्रवर्तिततन्मात्रनिमित्तवृक्षव्यवहारया तदानीं तथास्मारितया शिंशपया दृष्टान्तेन वृक्षव्यवहारयोग्यतां बोधयितुं शक्यत एव । यः पुनर् आदित एवारोपितोच्चत्वादिनिमित्तस् तं प्रति हेतूपन्यास एव न युज्यते । किं तर्हि? वृक्षव्यवहारसमयम् एवासौ ग्राहयितव्य इति सर्वम् अवदातम् । [ध्प्र् p.108]

ननु त्रिरूपत्वाद् एकम् एव लिङ्गः युक्तं । अथ प्रकारभेदाद् भेदः । एवं सति स्वभावहेतोर् एकस्यानन्तप्रकारत्वात् त्रिरूपम् अयुक्तम् इत्य् आह --

अत्र द्वौ वस्तुसाधनौ एकः प्रतिषेधहेतुः इइ-18 अत्र द्वौ इति । अत्र इत्य् एषु त्रिषु मध्ये द्वौ हेतू वस्तुसाधनौ -- विधेः साधनौ गमकौ । एकः प्रतिषेधस्य हेतुगमकः । प्रतिषेध इति च अभावो ऽभवव्यवहारश् च उक्तो द्रष्टव्यः । इदानीं कार्यहेतुं विवरीतुम् आह -- कार्यम् इति । हेतोः प्रकृतत्वात् कार्यम् इति कार्यहेतुम् इत्य् अवसेयं सुखप्रतिपत्त्य् अर्थम् ।

साध्यादिस्वरूपम् आह वह्निर् इति । एतद् अपि हेतोर् अर्थकथनम् । न तु प्रयोगप्रदर्शनम् । व्याप्तेर् दर्शयितव्याया अप्रदर्शनात् । अनिर्देश्यायाश् च प्रतिज्ञाया निर्देशात् । व्याप्तिवेदिन्य् अपि पुंसि हेतुर् अनुवाद्येनैव रूपेण निर्दिश्यमान प्रथमान्त एव निर्देश्यः अत्र धूम इति । न तु धूमाद् इति । न च तथाविधं प्रत्य् अपि प्रतिज्ञा अन्यथा क एनाम् असाधनाङ्ग ब्रूयात् । साधनाङ्गत्वे च शतमुखी बाधा वादन्यायस्यापद्येत ।

ईदृशस् तु प्रयोगः करणीयः -- यत्र धूमस् तत्र सर्वत्र वह्निर् यथा महानसे, धूमश् चात्रेति । स्वभावानुपलब्ध्योर् इव कार्यहेतोर् अपि कस्माल् लक्षणम् आचार्येण न प्रणीतम् इत्य् आशङ्काम् अपाकुर्वन्न् आह -- कार्येति । लोके व्यवहर्त्तरि जने । प्रतीतः प्रसिद्धः । इतिर् हेतौ । नोक्तम् आचर्येणेति शेषः ।

अयम् अभिप्रायः अनुपलब्धौ खलु बहवो विप्रतिपन्नाः । उपलब्ध्यभावमात्रम् अनुपलब्धिम् ईश्वरसेनो मन्यते । कुमारिलस् तु वस्त्वन्तरस्यैकज्ञानसंसर्गिताम् अनपेक्ष्यैवान्यमात्रस्य ज्ञानम् अनुपलब्धिम् अभावप्रमाणतया वर्णयति । तथा, विवक्षितज्ञानानाधारतालक्षणम् आत्मनो ऽपरिणामं स्वापादिसाधारणम् [44ब्] अपि तथात्वेन वर्णयति । यद् आह -- "सात्मनो ऽपरिणामो वा विज्ञानं वान्यवस्तुनि" इति ।[46]

__________नोतेस्__________

[46] श्व् अभावपरिच्छेद 11च्द्सात्मनः परिणामो वा विज्ञानं वाक्यवस्तुनि ।

तथा स्वभावे ऽपि हेतौ बहवो विप्रतिपेदिरे । केचिद् अर्थान्तरापेक्षिण्य् अपि धर्मे स्वभावं हेतुम् अध्यवसिताः । केचित् तु वस्तुनो धर्मिविशेषम् आश्रितं स्वभावम् इति ।

तद्विप्रतिपत्तिनिराकरणार्थं तयोर् लक्षणम् आख्यातम् । अत्र तु कार्यत्वरूपे न केचिद् विप्रतिपद्यन्त इति नास्य लक्षणाम् उक्तम् इति । कार्यकारणभावेन गम्यगमकभावे सर्वथा गम्यगमकभावप्रसङ्ग इत्यादिकायां विप्रतिपत्ताव् अपि न कार्यस्य लक्षणे विप्र्तिपत्ति । किन् तर्हि? तस्य गमकत्वे । सा चान्यत्र निराकृता ऽत्रापि प्राज्ञैः स्वयम् अभ्यूह्या प्राज्ञजनाधिकारेणास्य प्रारम्भाद् इति ॥

सम्प्रति त्रिरूपाणि च त्रीण्य् एवेत्य् असहमानः प्राह -- नन्व् इति । ननु प्रश्नः । अथशब्दो यदिशब्दस्यार्थे । प्रकारस्य स्वरूपस्य भेदाद् विशेषात् भेदो नानात्वम् । एवम् अभ्युपगमे सति । एकस्येति अभिन्नस्य । अभिन्नत्वञ् चास्वभावहेतुत्वव्यावृत्तेः सर्वत्र भावात् । [ध्प्र् p.109] तद् अयम् अर्थः -- हेतुः साध्यसिद्द्यर्थत्वात् साध्याङ्गम्, साध्यं प्रधानम् । अतश् च साध्योपकरणस्य हेतुः प्रधानसाध्यभेदाद् भेदः, न स्वरूपभेदात् । साध्यश् च कश्चिद् विधिः, कश्चित् प्रतिशेधः । विधिप्रतिषेधयोश् च परस्परपरिहारेण अवस्थानात् हेयोर् हेतू भिन्नौ । विधिर् अपि कश्चिद् धेतोर् भिन्नः, कश्चिद् अभिन्नः । भेदाभेदयोर् अप्य् अन्योन्यत्यागेनात्मस्थितेर् भिन्नौ हेतू । ततः साध्यस्य परस्परविरोधात् हेतवो भिन्नाः, न तु स्वत एवेति ॥ कस्मात् पुनस् त्रयाणाम् हेतुत्वम्, कस्मात् च अन्येषाम् हेतुत्वम् इत्य् आशङ्क्य यथा त्रयाणाम् एव हेतुत्वम् अन्येषां च अहेतुत्वं तद् उभयं दर्शयितुम् आह --

स्वभावप्रतिबन्धे हि सत्य् अर्थो अर्थं गमयेत् इइ-19

अनन्तप्रकारत्वाद् इति ब्रुवतो ऽयं भावः -- सविशेषणनिर्विशेषणव्यतिरिक्ताव्यतिरिक्तविशेषणत्वादिभेदेनानन्तस्वभावत्वाद् इति । गमकाव् इति विवृण्वन् साधयत इति साधनाव् इति कर्तरि ल्युटं दर्शयति । अत्र च वस्तुनः साधनाव् एवेत्य् अवधारणीयं न तु वस्तुन एवेति । इतरव्यवच्छेदस्यापि ताभ्यां साधनात् । प्रतिपत्त्रध्यवसायानुरोधात् तु विधिसाधनत्वम् अनयोर् उच्यते । प्रतिषेधस्य हेतुर् एवेत्य् अवधारणीयं न त्व् अयम् एवेति पूर्वाभ्याम् अपि सामर्थ्यात् प्रतिषेधस्य साधनात् ।

ननु न दृश्यानुपलम्भेनाभावः साध्यते तस्य प्रत्यक्षसिद्धत्वात् । किन् तु व्यवहारः । तत् कथं प्रतिषेधो ऽनुपलम्भसाध्यः । अथाभावव्यवहारः प्रतिषेध उच्यते । तर्हि व्यापकानुपलम्भादिना व्याप्याद्यभावे साध्ये केनाभावः साधितः । ततः किम् अत्र प्रतिषेधशब्देन प्रतिपत्तव्यम् इत्य् आशङ्क्याह प्रतिषेध इति । इतिः प्रतिषेधशब्दं प्रत्यवमृशति ।

तेन प्रतिषेध इत्य् अनेन शब्देनाभावो ऽभावव्यवहारश् चोक्तो द्रष्टव्य इत्य् अर्थः । एकस्य प्रतिषेधेन इति मुख्यया वृत्त्या सङ्ग्रहो ऽन्यस्य प्रतिषेधाश्रयतया गौण्या वृत्त्येति भावः । नास्तीति ज्ञानं नास्तीत्यभिधानं निःशङ्कात्र गमनागमनलक्षणा प्रवृत्तिर् व्यवहारः । स च हठात् प्रवर्त्तयितुं न शक्यत इति तद्योग्यतैव साध्येति द्रष्टव्यम् । एवं तु स्वभावहेताव् अन्तर्भावे ऽप्य् अनुपलम्भस्य ततः पृथक्करणं प्रतिपत्त्रध्यवसायवशाद् इत्य् अवसेयम् ।

ननु विधिप्रतिषेधसाधनत्वे ऽप्य् अमीषां त्रिरूपत्वम् अविशेष्टम् । तत्त्वाद् एव चाधेदश् चोदितः । तत् कथम् इदम् उत्तरं पूर्वपक्षम् इति वर्त्तताम् इत्य् आशङ्क्याह -- तद् अयम् इति । यस्माद् इदम् उत्तरीकृतम् आचार्येण यथाश्रुति च पूर्वपक्षं नातिक्रामति तत् तस्माद् अयम् अर्थो वाक्यस्यायं तात्पर्यार्थ् इत्य् अर्थः । एतम् एवार्थं हेतुर् इत्यादिना न तु स्वत एवेत्य् अन्तेन ग्रन्थे प्रतिपादयति ॥

अथ कथम् अन्यो ऽर्थो ऽन्यम् अर्थं न व्यभिचरति येनैते त्रयो हेतवः? य[45अ]था चामीषां स्वसाध्यसाधनाद् गमकत्वं तथा ऽन्येषाम् अप्य् अकार्यस्वभावानुपलम्भात्मनां किं न भवतीति मन्वानः प्रश्नेनोपक्रमते -- कस्माद् इति । कस्माद् इति सामान्यतो हेतुं पृच्छति पुनर् इति विशेषतः । त्रयाणाम् अनुपलब्ध्यादीनाम् । चः पूर्वनिमित्तापेक्षया निमित्तान्तरसमुच्चयार्थः । अन्येषाम् अनीदृशात्मनां संयोग्यादीनाम् ।

[ध्प्र् p.110] स्वभावप्रतिबन्ध इत्य् । स्वभावेन प्रतिबन्धः । "साधनं कृता" [व्या-महा- 2.1.33.] इति समासः । स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावम् इत्य् अर्थः । कारणे स्वभावे वा साध्ये स्वभावेन प्रतिबन्धः कार्यस्वभावयोर् अविशिष्ट इत्य् एकेन समासेन द्वयोर् अपि संग्रहः । हिर् यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे सति साधनार्थः साध्यार्थं गमयेत् तस्मात् त्रयाणां गमकत्वम् अन्येषाम् अगमकत्वम् । कस्मात् पुनः स्वभवप्रतिबन्ध एव सति गम्यगमकभावो न अन्यथेत्य् आह --

तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् इइ-20 तदप्रतिबद्धस्येत्य् । तद् इति स्वभाव उक्तः । तेन स्वभावेन अप्रतिबद्धः -- तदप्त्रतिबद्धः । यो यत्र स्वभावेन न प्रतिबद्धः तस्य तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् । तस्याप्रतिभन्दविषयस्याव्यभिचारः तदव्यभिचारः तस्य नियमः तदव्यभिचारनियमः तस्याभावात् । तद् अयम् अर्थः -- न हि यो यत्र स्वभावेन न प्रतिबद्धः, स तम् अप्रतिबन्धविषयम् अवश्यम् एव न व्यभिचारतीति नास्ति तयोर् अव्यभिचारनियमः -- अविनाभावनियमः । अव्यभिचार--

स्वभावेन स्वरूपेण । "साधनं कृता" [व्या-महा-2.1.33.] इति पाणिनीयभाष्यकारस्येदं सूत्रम् । तेन "कर्त्तृकरणे कृता बहुलम्" [पाणिनि 2.1.32] इति सूत्रम् अपनीय गलेचोपक इत्यादिसिद्ध्य् अर्थ "साधनं कृता" इति सूत्रं कृतम् । वार्त्तिकसूत्रिकाणां तु "तृतीया" [पाणिनि 2.1.30] इति योगविभागात् समासो ऽवसेयः । अनेन च तृतीयासमासेनैव कार्यस्वभावयोः संग्रहाद् आवृत्त्या षाष्ठीसप्तमीसमासाभ्यां कार्यस्वभावयोः संग्रह इति यत् पूर्वैर् व्याख्यातं तद् अपव्याख्यानम् इति ख्यापितम् ।

समस् तस्य पदस्यार्थम् आह-- स्वभावेति । अनेन प्रतिबन्धशब्देन प्रतिबद्धत्वम् आयत्तत्वम् उच्यत इति दर्शयति । अस्यैवार्थं स्पष्टयति । प्रतिबद्धेति यः स्वरूपेण क्वचिद् आयत्तस् तस् तस्य स्वभास् तत्र प्रतिबद्ध आयत्त इत्य् अर्थाभेदेन प्रतिबद्धस्वभावत्वम् इत्य् अर्थ इति स्पष्टीकृतम् ।

ननु पूर्वेषाम् अभिमतसमासव्युदासेन तृतीयासमासं दर्शयता किं स्विद् अति यो लब्धः? केवलम् आहोपुरुषिका प्रकाशितेत्य् आशङ्क्य पूर्वं बुद्धिस्थम् एव स्फुटयितुम् आह -- कारण इति । कस्यासौ

[ध्प्र् p.111] नियमाच् च गम्यगमकभावः । न हि योग्यतया प्रदीपवत् परोक्षार्थप्रतिपत्तिनिमित्तम् इष्टं लिङ्गम् अपि त्व् अव्यभिचारित्वेन निश्चितम् । ततः स्वभावप्रतिबन्धे सत्य् अविनाभावित्वनिश्चयः, ततो गम्यगमकभावः । तस्मात् स्वभावप्रतिबन्धे सत्य् अर्थो ऽर्थं गमयेन् नान्यथेत्य् स्थितम् । ननु च परायत्तस्य प्रतिबन्धो ऽपरायत्ते । तद् इह साध्यसाधनयोः कस्य क्व प्रतिबन्ध इत्य् आह --

स च प्रतिबन्धः साध्ये अर्थे लिङ्गस्य इइ-21

प्रतिबन्ध इत्य् अकाङ्क्षायाम् आह -- कार्यस्वभावयोस् तयोर् एव प्रकृतत्वात् । अविशिष्टः साधारणः । द्वयोर् अपि कार्यस्वभावयोर् अतिशये सङ्ग्रहः स्वीकारः । अयम् एवातिशय इति भावः । साधनलक्षाणो ऽर्थः साध्यलक्षणम् अर्थं गमयेत् बोधयतुं शक्नोति । यत एवं तस्माद् अन्येसां तद्व्यतिरिक्तानाम् ।तेषां स्वभावप्रतिबन्धाभावात् । तदभावश् च तादात्म्यतदुत्पत्त्यभावात् । तदन्यस्य च सम्बन्धस्याभावात् । तादात्म्यतदुत्पत्तिभावे च कार्यस्वभावयोर् एवान्तर्भाव इति भावः ॥

तद् इत्यादिना समासं प्रदर्श्य तदप्रतिबद्धस्येति योजयता धर्मोत्तरेण मूले तदपतिबद्धस्येति पाठो दर्शितः । दृश्यते च बहुशस् तदप्रतिबद्धस्वभावस्येति पाठः । तत्रापि पाठे तदप्रतिबद्धः साध्याप्र्तिबद्धः स्वभावः स्वरूपं यस्य लिङ्गस्येति विग्रहः कार्यः । प्रतिबन्धः प्रतिबद्धत्वम् आयत्तत्वं यत्साधनस्य, तस्य विषयो ऽव्यभिचारस् तेन विना ऽभवितृत्वम् । तस्य नियमो ऽवस्य(श्य)न्ता ।

ननु तद् अप्रतिबद्धत्वे ऽपि अद्यतन आदित्योदयो ऽस्तमयम् अप्रतिबन्धविषयं न व्यभिचरतीत्य् आशङ्क्याह -- तद् अयम् अर्थम् इति । यत एवं उक्तम् तत् तस्माद् अयं तात्पर्यार्थः । आदित्योदयो ऽपि हि भविष्यति । न च तदहरस्तमयः, महर्षिणा ऽन्येन वा महर्धिना केनचित् तस्यास्तमयविबन्धसम्भवात् । तस्माद् आदित्यस्य तस्माद् अस्तमययोग्यतैव साध्या -- अयम् आदित्योदयो ऽस्तमययोग्य उदयत्वात् । श्वस्तनोदयवद् इति । सति चैवं स्वभावहेतुत्वम् अस्यायातम् इति भावः ।

ननु चाव्यभिचारमात्रेण प्रयोजनम्, तत् किं नियमेनेत्य् आह । अव्यभिचारेति । चो ऽवधारणे हेतौ वा । एतद् एव कुत इत्य् आह -- न हीति । [45ब्] हिर् यस्मात् । प्रदीपो वैधर्म्यदृष्टान्तः । अपि तु किन् त्व् व्यभिचारित्वेन साध्यस्य प्रकृतत्वात् साध्याविनाभावित्वेन निश्चितम् । नियमाभावे च कुतो ऽव्यभिचारनिश्चय इत्य् अस्य तात्पर्यार्थः । निश्चीयतां तद् अव्यभिचारो ऽन्येषाम् अपि, प्रतिबन्धस् तु कस्मान् मृग्यत इत्य् आह -- तत इति । यतो ऽवश्यम् अव्यभिचारो निश्चेतव्यस् ततस् तस्मात् । अन्यथा ऽव्यभिचार एव न शक्यते निश्चेतुम् इत्य् अर्थाद् अनेन दर्शितम् । एतावता ऽपि कथं गमकत्वं इत्य् आह -- तत इति ततो निश्चिताद् अव्यभिचाराल् लिङ्गस्य गमकत्वे सिद्धे साध्यस्यापि गमक(गम्य)त्वं सिद्ध्यतीति द्वयोर् उपन्यासः । उक्तम् अर्थम् उपसंहरन्न् आह -- तस्माद् इति । अर्थो लिङ्गलक्षणः, अर्थं लिङ्गलक्षणम् ॥

तत् तस्माद् इहानुमानानुमेयचिन्तायां स्वभावप्रतिबन्धचिन्तायां वा ।

[ध्प्र् p.112]

स चेति । स च स्वभावप्रतिबन्धो लिङ्गस्य साध्ये ऽर्थे । लिङ्गं परायत्तत्वात् प्रतिबद्धम् । साध्यस् त्व् अर्थो ऽपरायत्तत्वात् प्रतिबन्धविषयो न तु प्रतिबद्ध इत्य् अर्थः । तत्रायम् अर्थः -- तादात्म्याविशेषे ऽपि यत् प्रतिबद्धं तद् गमकम् । यत् प्रतिबन्धविषयः तद् गम्यम् । यस्य च धर्मस्य यो नियतः स्वभावः स तत्प्रतिबद्दः । यथा प्रयत्नानन्तरीयकत्वाख्यो ऽनित्यत्वे । यस्य तु स चान्यश् च स्वभावः च प्रतिबन्धविषयः, न तु प्रतिबद्धः । यथानित्यत्वाख्यः प्रयत्नानतरीयकत्वाख्ये । निश्चयापेक्षो हि गम्यगमकभावः । प्रयत्नान्तरीयकत्वम् एव चानित्यत्वस्वभावं निश्चितम् । अतस् तद् एव अनित्यत्वे प्रतिबद्धम् । तस्मान् नियतविषय एव गम्यगमकभावः नान्यथेति ।

ननु भिन्नयोर् गम्यगमकभावे लिङ्गं तदुत्पत्त्या परायत्तत्वात् प्रतिबद्धम् । साध्यस् त्व् अपरायत्तत्वात् प्रतिबन्धविषयः । तदाश्रयश् च साध्यसाधनभावनियमः स्यात् । स्वभावयोस् तु तद्भावे हेतोस् तादात्म्यप्रतिबद्धत्वम् । तादात्म्यं चोभयोर् अविशिष्टम् । ततः प्रतिबद्धत्वं प्रतिबन्धविषयत्वं वा द्वयोर् अविशिष्टम् आयाति । तदाश्रयश् च नियतः साध्यसाधनभावः प्रसक्त इत्य् आह -- तत्रायम् अर्थ इति । न केवलम् अर्थान्तरत्व इत्य् अपि शब्दः । यत् प्रतिबद्धम् इति यत् साध्यप्रतिबद्धतया तदायत्ततया निश्चितम् इति द्रष्टव्यम् । प्रतिबन्धविषयो ऽपि तत्त्वेन निश्चितो द्रष्टव्यः ।

ननु तादात्म्याविशेषाद् एकस् तत्र प्रतिबन्धविषयतया न तु प्रतिबद्धतयेत्य् अयम् एव विभागः कुत इत्य् आह -- यस्येति । यद् वा तादात्म्यानुभाविनि द्वये किन् तत्र प्रतिबद्धं यद् गमकं किञ् च प्रतिबन्धविषयो यद् गम्यम् इत्य् अजानन्तम् प्रत्य् आह -- य्स्येति । चो हेतौ द्वितीयपक्षे ऽवधारणे । यस्य धर्मस्य व्यावृत्तिकल्पितस्य यो नियतः प्रतिनियतः स एव स्वभावो न तद् अन्यो ऽपि । स इति यस्येति षष्ठ्यन्तेनोक्तः परामृष्टः । तद् इति य इति प्रथमान्तेनोक्तः प्रत्यवमृष्टस् तस्मिन् प्रतिबद्ध इति विग्रहः । निश्चीयत इति शेषः । प्रकरणलभ्यं वा । कः पुनरीदृश इत्य् आह -- यथेति । प्रय्त्नः पुरुषव्यापारस् तस्यानन्तरम् अव्यवधानम् । तत्र भव इति दिगादित्वाद् यत् । ततः स्वार्थे कन् । तस्य भावस्तत्त्वम् । तदाख्या नाम यस्य स तथा । प्रयत्नानन्तर्यकत्वस्य ह्य् अनित्यत्वम् एव स्वभावो न तु नित्यत्वम् अपि । ततो ऽनित्यत्वे प्रतिबद्धं निश्चीयते ।

ईदृशस्य तावद् इयं गतिर् अन्यस्य तु का वार्त्तेत्याह -- यस्येति । धर्मस्येत्य् अनुवृत्तेर् यस्येति धर्मस्य । तुर् विशिष्टं धर्मं दर्शयति । स च सो ऽपि प्रयत्नानन्तर्याख्यो ऽन्यश् च सश् च(चा)प्रयत्नानन्तरीयको वनकुसुमादिर् अपि । स प्रतिबधस्य साधनगतप्रतिबद्धत्वस्य विषयो गोचरः । एतद् एव व्यतिरेकमुखेण द्रढयति -- न त्व् इति । पुनर् अर्थे तुशब्दः । को ऽसाव् ईदृश इत्य् आह -- यथेति । अनित्यत्वाख्यः प्रयत्नानन्तर्यत्वाख्येन प्रतिबद्ध इति योज्यम् । एवञ् चार्थात् प्रतिबन्धविषये चेत्य् अव[46अ]तिष्ठते । एतच् चानित्यत्वस्य तद् असत्स्वभावत्वेनानियतस्वभात्वम् अनित्यत्वसामान्याभिप्रायेणोक्तम् । अन्यथा घटादिगतानित्यत्वस्य प्रयत्नानन्तरीयकत्वम् अन्तरेण कुतो ऽवस्थानम् । येनान्यस्वभातया ऽस्यानियतत्वं स्याद् इति ।

[ध्प्र् p.113]

कस्मात् पुनः स्वभावप्रतिबन्धो लिङ्गस्येत्य् आह --

वस्तुतस् तादात्म्यात् तदुत्पत्तेश् च इइ-22

वस्तुत इत्यादि । स साध्यो ऽर्थ आत्मा स्वभावो यस्य तत् तदात्मा । तस्य भावस् तादात्म्यम् । तस्मात् हेतोः । यतः साध्यस्वभावं साधनं तस्मात् तत्र स्वभावप्रतिबन्ध इत्य् अर्थः ।

यदि साध्यस्वभावं साधनं साध्यसाधनयोर् अभेदात् प्रतिज्ञार्थैकदेशो हेतुः स्याद् इत्य् आह -- वस्तुत इति । परमार्थसत्ता रूपेणाभेदस् तयोः । विकल्पविषयस् तु यत् समारोपितं रूपम् । तदपेक्षः साध्यसाधनभेदः । निश्चयापेक्ष एव हि गम्यगमकभावः । ततो निश्चयारुद्धरुपापेक्ष एव तयोर् भेदओ युक्तः वास्तवस् त्व् अभेद इति । न केवलात् तादात्म्याद् अपि तु ततः साध्याद् अर्थाद् उत्पत्तिर् लिङ्गस्य -- तदुत्पत्तेश् च साध्ये ऽर्थे स्वभावप्रतिबन्धो लिङ्गस्य ।

स्याद् एतत् तादात्म्यं तावत् तयोर् अस्ति । तत् किं प्रतिबद्धत्वप्र्तिबन्धविषयत्वनिश्चयेन गम्यगमकत्वव्यवस्थानिबन्धनीकृतेनेत्य् आह -- निश्चयेति । हीति यस्मात् । तद् अपेक्षायाम् अपि किम् इति प्रयत्नानन्तरीयकत्वम् एव गमकम् इत्य् आह -- प्रयत्नेति । चो यस्मादर्थे । यतस् तत्स्वभावं निशितम् अतो ऽस्तो ऽस्मात् तद् एवाव्नित्यत्वे प्रतिबद्धम् उच्यत इति शेषः । यतस् तादात्म्याविशेषे ऽपि यत्पतिब्द्धतया निश्चितं तद् एव गमकम् इतरद् गम्यं तस्मान् नियतः पतिनियतः प्रयत्नान्तरीयकम् एव गमकम्, अनित्यत्व च गम्यम् एवेत्य् एवंरूपो विषयो यस्य गम्यगमकभावस्य स तथा । एतद् एव व्यतिरेकमुखेन द्रढयति नान्यथेति ॥

ननु च य एकस्यान्यत्र प्रतिबन्धस् तदायत्तत्वं स तावन् नाहेतुकः । कश् चासौ हेतुर् इत्य् अभिप्रेत्य प्रश्नयति -- कस्माद् इति । निमित्तप्रश्नश् चैषः । तादात्म्याद् इति मौलम् उत्तर व्याख्यातुम् आह -- यत इति । तत्र साध्ये स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं लिङ्गस्येति शेषः ।

प्रतिज्ञा साध्यनिर्देशः । तस्या अर्थो धर्मधर्मिसमुदायः । अत्र च साध्यसाधनयोर् ऐकात्म्यस्य प्रतुतत्वात् साध्यलक्षणस्य प्रतिज्ञार्थस्य हेतुवमासक्तम् । ततश् च साध्यधर्मवत्साधनधर्मस्याप्य् असिद्धिः । सिद्धौ वा हेतुवैयर्थ्यम् इति भावः । यदि परमार्थतो ऽभेदः, कथं तर्हि भेदनिबन्धनो गम्यगमकभाव इत्य् आह -- विकल्पेति । तुः पारमार्थिकाद् अभेदाद् वैधर्म्यम् आह । को ऽसौ विकल्पविषयः? यदि बाह्यस् तदा तदवस्थो दोष इत्य् आह -- यद् इति । तम् अपेक्षत

[ध्प्र् p.114]

कस्मान् निमित्तद्वयात् स्वभावप्रतिबन्धो लिङ्गस्य नान्यस्माद् इत्य् आह --

अतत्स्वभावस्य अतदुत्पत्तेश् च तत्र अप्रतिबद्धस्वभावत्वात् इइ-23 अतत्स्वभावस्येति । स स्वभावो अस्य सो ऽयं तत्स्वभावः । न तत्स्वभावो ऽतत्स्वभावः । तस्माद् उत्पत्तेर् अस्य सो ऽयम् तदुत्पत्तिः । यो यत्स्वभावो यदुत्पत्तिश् च न भवति तस्य अतत्स्वभावस्यातदुत्पत्तेश् च । तत्र अतत्स्वभावे अनुत्पादके चाप्रतिबद्दः स्वभावो ऽस्येति सो ऽयम् अप्रतिबद्धस्वभावः । तस्य भावो अप्रतिबद्धस्वभावत्वं । तस्माद् अप्रतिबद्धस्वभावत्वात् । यद्य् अतत्स्वभावे ऽनुत्पादके च कश्चित् प्रतिबद्धस्वभावो भवेद्, भवेद् अन्यतो ऽपि निमित्तात् स्वभावप्रतिबन्धः । प्रतिबद्धस्वभावत्वं हि स्वभावप्रतिबन्धः । न चान्यः कश्चिद् आयत्तस्वभावः । तस्मात् तादात्म्यतदुत्पत्तिभ्याम् एव स्वभावप्रतिबन्धः । इति तदपेक्षः । इदं साधनम् इदं साध्यम् इति साध्यसाधनरूपो भेदो नानात्वम् इत्य् अर्थः । यदि नाम कल्पनानिर्मितो भेदस् तथापि कथं गम्यगमकभाव इत्य् आह -- निश्चयेति । हिर् यस्मात् । निश्चयापेक्ष इति निश्चयविषयीकृतरूपापेक्ष इत्य् अर्थः । यत एवं ततस् तस्यात् तयोः साध्यसाधनयोर् भेदो नानात्वं युक्त्या सङ्गतो युक्तः । वस्तुनो ऽकृत्रिमाद् रूपाद् आगतो वास्तवः ।

स्यान् मतम् -- भेदेन कल्पितयोर् न तादात्म्यं गम्यगमकभावनिबन्धनम् अस्ति । वास्तवेन च रूपेणैकत्वान् न गम्यगमकभाव इति कथं स्वभावहेतोर् गमकत्वम्? नाहेतुत्वम् । यद् दर्शनद्वारायाताव् एतौ धर्मौ तथाप्रतीयमानौ तत् तावत् परमार्थतस् तदात्मकम् इत्य् एकस्य धर्मस्य धर्मान्तराव्यभिचारः । वास्तवं तदात्म्यगतं च यस्य गमकत्वं स स्वभावहेतुर् उच्यत इति को विरोधः?

अयं प्रकरणार्थः -- न निश्चयस्थे समारोपिते रूपे समारोपितत्वेनाध्यवसीयमाने गम्यगमके किन् तु स्वलक्षणत्वेनाध्यवसीयमाने । तत्र तादात्म्यम् अस्ति । एतद् उक्तं भवति -- आरोप्यमाणं रूपमारोपितभेद[46ब्]म् । आरोपितसदृशं च स्वलक्षणम् । तेनारोपितेन रूपेणानुगम्यमानं भिन्नम् अध्यवसीयते । तद् अवध्यवसितभेदनिबन्धनो गम्यगमकभावस् तस्य स्वतश् च तादात्म्यम् इति

द्वितीयं प्रतिबन्धकारणं व्याख्यातुम् आह -- न केवलाद् इति । चः साधारणं निमित्तं समुच्चनोति ॥

ननु च समवायादितो ऽपि निमित्तात् प्रतिबन्धो नासम्भवी । तत् कथं तादात्म्यात् तदुत्पत्तेर् एव च स उच्यते इत्य् अभिप्रायवान् पृच्छति -- कस्माद् इति । अन्यनिमित्तस्यानभिधानान् निमित्तद्वयाद् इत्य् आह ।

अतत्स्वभास्येत्यादि ब्रुवतश्चाचार्यस्यायमाशयः -- भवेदेवान्यतः सम्बन्धात् प्रतिबन्धो

[ध्प्र् p.115]

यदि समवायादिर् अन्यः सम्बन्धः प्रमाणबाधितो न भवेत् । न चासौ न बाध्यते । तत् कुतो ऽसाव् असन्न् अस्य निमित्तं भवेति ।

समुदायार्थं व्याचष्टे -- यो यत्स्वभाव इति । अप्रतिबद्धस्वभावत्वाद् इति मूलस्य भावप्रत्ययं त्यक्त्वा विग्रहम् आह -- अप्रतिबद्ध इति । तस्य भावस् तत्त्वम् । तस्माद् इति तु योज्यम् । अमुम् एवार्थं यदीत्यादिना स्फुटयति । कस्मात् पुनर् अन्यतो निमित्तान् न भवतीय् आह -- प्रतिबद्धेति । हिर् यस्मात् । प्रतिबद्धस्वभावत्वम् एवान्यस्यान्यत्र भ्वविष्यतीय् आह -- न चेति । चो ऽवधारणे हेतौ वा । अन्यस्य सम्बन्धस्याभावात् तादात्म्यतदुत्पत्त्यभावे चेति प्रकरणलभ्यं कृत्वा न चान्यः क्श्चिद् आयत्तस्वभाव इत्य् उक्तम् ।

ननु चासत्य् अपि तादात्म्ये तदुत्पत्तौ चान्यत्रास्वभावे ऽनुत्पादके चान्यत् प्रतिबद्धं यथा -- आतपो वृक्षच्छायायाम् । तुलाया अर्वाग्भागनमनावनमने परभागोन्नमनावनमनयोः । अर्वाग्भागः परभागे । रसो रूपे । पाणिः पादयोः । अपतज्जलम् आधारे । बलाका सलिले । नदीपूर उपरिवृत्तायां वृष्टौ । चन्द्रोदयः समुद्रवृद्धौ कुमुदविकासे च । कृत्तिकोदयो रोहिण्युदये । पिपिलिकोत्सरणं मत्स्यविकारश् च वृष्टौ । शरदि जलप्रसादो ऽगस्त्योदये । विशिष्तो मेघो[द]यो वर्षकर्मणि । अद्यादित्योदयो ऽस्तमये श्वस्तनोदये च । कुष्माण्डगुडको ऽन्तः स्थितबीजे । परिव्राजको दण्डे । सन्त्रस्तो नकुलः सर्पे । कियद् वा शक्यते निदर्शयितुम्? एतावत् तूच्यते -- यद् येनाविनाभूतं दृश्यते तत् तत्र प्रतिबद्धम् । तस्य च लिङ्गम् । अत एव त्रीण्य् एव लिङ्गानीति संख्यानियमो ऽप्य् अयुक्तः । केवलं लिङ्गस्य रूपाण्य् एव वक्तव्यानि । यद् दर्शनात् हेतुत्वम् असीयत इति ।

नैष दोषः । अमीषां मध्ये येषां प्रतिबन्धो ऽस्ति तेषां तादात्म्यतदुत्पत्त्योर् अन्यतरम् सम्भवाद्, येषु च तद् अभावस् तेषाम् अप्रतिबन्धाद् अगमकत्वात् । तथा हि वृक्षस्य छायायाम् एकसामग्र्यधीनतयैव प्रतिबन्धः । ततस् तत्प्रतिपत्तिः कार्यलिङ्गजैव । छाया हि प्रतिभासमानरूपसंस्थानवती शैत्याद्यर्थक्रियाकारिणी वस्त्व् एव, न त्व् एवालोकाभावः । सा च पूर्वस्माद् आलोलोपादानात् पूर्ववृक्षक्षणाद् वृक्षक्षणेन सार्धम् उत्पद्यते । तथा ऽर्वाग्भागनमनावनमने अपि तुलायाः परभागोन्नमनावनमनाभ्याम् एव समं पुरुषप्रयत्नाद् एव तथाविधात् तदुपादानसह[47अ]कारिण उत्पद्येते । तथा ऽर्वाग्भागपरभागयोर् असरूपयोर् अप्य् एकसामग्र्यधीनतैव । पाणिस् त्व् अप्रतिबद्ध एव, व्यङ्गस्यापि सम्भवात् । अव्यभिचारे चैकसंसर्गाधीनतैव निबन्धनम् । तादृशं च जलमाधारस्य कार्यम् एव, तादृशी च बलाका सलिकस्य । नदीपूरो ऽपि तथाविध उपरिवृष्टेः । दृश्यादृश्यसमुदायश् च यथायोगं सर्वत्र धर्मी कर्त्तव्यः । नदीपूरे चान्यो ऽपि प्रकारो वक्तुं शक्यः । नदी धर्मिणी । उपरिवृष्टिमद् देशसंबन्धित्वम् अस्याः साध्यम् । तथाविधपूरत्वमात्रं हेतुः । एवं चन्द्रोदयसमुद्रवृद्धिकुमुदविकाशा(सा)नाम् अप्य् एकसामग्र्यधीनतैव । एकस्माद् एव महाभूतविशेषात् कालव्यवहारविषयाद् एतद् उत्पादापेक्षिणस् तेषाम् उत्पादात् । तथा य एव कृत्तिकोदयहेतुर् महाभूतविशेषः कालसंज्ञितः स एव कतिपयकालव्यवधानेन रोहिण्युदयहेतुर् इति तद् दर्शनाद् हेतोस् तज्जननयोग्यताधर्मो ऽनुमीयते एव । तथा पिपीलिकोत्सरणस्य मत्स्यविकारस्य च यो हेतुः स एव कतिपयकालव्यवधानेन वर्षकरणयोग्यस् ततः पूर्ववद् हेतुधर्मानुमानम्, रूपरसयोर् इवैकसामग्र्यधीनतयैव वा तत् समकालिकवर्षणानुमानम् । तदा त्व् अश्रवणीयबहिःस्थितशब्दगर्भगृहादिव्यवस्थितो ऽनुमाता प्रत्येतव्यः । तथा शरदादिजलप्रसादो ऽगस्त्योदयस्य कार्यम् एव । अथ जलप्रसादं दृष्ट्वोदेष्यतीत्य् अनुमीयते, तदा तस्माद् एव महाभूतात् कालसंज्ञिताज् जलप्रसादः । स

[ध्प्र् p.116]

भवतु नाम तादात्म्यतदुत्पत्तिभ्याम् एव स्वभावप्रतिबन्धः । कार्यस्वभावयोर् एव तु गमकत्वं

कथं इत्य् आह --

ते च तादात्म्यतदुपत्ती स्वभावकार्ययोर् एव इति ताभ्याम् एव वस्तुसिद्धिः इइ-24 ते चेति । इतिः तस्मादर्थे । यस्मात् स्वभावे कार्ये एव च तादात्म्यतदुत्पत्ती स्थिते तन्निबन्धनश् च गम्यगमकभावस् तस्मात् ताभ्याम् एव कार्यस्वभाव्यां वस्तुनो विधेः सिद्धिः । अथ प्रतिषेधसिद्धिर् दृश्यानुपलम्भाद् अपि कस्मान् नेष्टेत्य् आह --

प्रतिषेधसिद्धिर् अपि यथोक्ता या एव अनुपलब्धेः इइ-25 प्रतिषेधव्यवहारस्य सिद्धिर् यथोक्ता या दृश्यानुपलब्धिस् तत एव भवति यतस् तस्माद् अन्यतो नोक्ता । ततस् तावत् कस्माद् भवतीत्य् आह --

सति वस्तुनि तस्या असम्भवात् इइ-26 सति तस्मिन् प्रतिष्ध्ये वस्तुनि यस्माद् दृश्यानुपलब्धिर् न सम्भवति तस्माद् असम्भवात् ततः प्रतिषेधसिद्धिः ॥ च कतिपयकालव्यवधानेन तदुदयनिमित्तम् इति पूर्ववद् हेतुधर्मानुमानम् । मेघस्यापि तथाविधस्यात्यन्तायोग्यताव्यावृत्त्या वृष्टकरणायोग्यता ऽनुमेया । न तु भाविवर्षव्यभिचारसम्भवात् । सा च स्वभावभूतैवानुमीयत इति तादात्म्यम् एव निबन्धनम् । आदित्योदयस्य तु प्रभावातिशयवता योग्यादिना विबन्धसम्भवात् नास्त्य् एवाविनाभावः । अन्यथाद्य गर्दभदर्शनस्याप्य् अस्तमयश्वस्तनोदययोस् तथात्वं स्यात् । एवं तु युक्तम् -- अयम् उदेता अस्तमयश्वस्तनोदययोग्य इति । तथा चोदयतथाविधयोग्यतयोस् तादात्म्यम् एव निबन्धनम् । कुष्माण्डस्यापि बीजेनैकसामग्र्यधीनतैव । परिव्राजकनकुलौ दण्डसर्पयोर् अप्रतिबद्धाव् एव । अन्यथापि सम्भवात् । कियद् वा शक्यते परिहर्त्तुम्? एतावद् उच्यते -- असति तादाम्ये तदुप्तत्तौ वा कस्यचित् क्वचित् प्रतिबन्धे ताद्रूप्येण च गमकत्वे सर्वं सर्वत्र प्रतिबद्धं तद्गमकं प्रसज्येतेति ॥

कार्यस्वभावयोर् एव तु गमकत्वं कथम् इति ब्रुवतः पूर्वपक्षवादिनो ऽयम् आशयः -- तादात्म्यतदुपत्ती एवान्यस्य भविष्यतः, ततश् च गमकत्वम् इति । कार्यस्वभावयोर् इति द्वयो[र् उ]च्चारणे चायं तस्य भावः -- भवदिभर् एवानुप्ललम्भो ऽनयोर् अन्तर्भावित इति ॥

........................................... नुपलब्धिर् इत्य् उक्ते कुतो ऽस्य पूर्वपक्षस्योत्थानम्? सत्यम् एतत्, केवलं तद् एवा ......................................... म् इत्य् अस्याप्य् अनुपलब्धेः

[ध्प्र् p.117]

अथ तत एव कस्माद् इत्य् आह --

अन्यथा च अनुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेष्व् अर्थेष्व् आत्मप्रत्यक्षनिवृत्तेर् अभावनिश्चयाभावात् इइ-27 अन्यथा चेति । सति वस्तुनि तस्या अदृश्यानुपलब्धेः सम्भवाद् इत्य् अन्यथाशब्दार्थः । एतस्मात् कारणात् नान्यस्या अनुपलब्धेः प्रतिषेधसिद्धिः । कुत एतद् -- सत्य् अपि वस्तुनि तस्याः सम्भव इत्य् आह -- अनुपलब्धिलक्षणप्राप्तेष्व् इत्यादि । इह प्रत्ययान्तरसाकल्यात् स्वभावविशेषाच् चोपलब्धिलक्षणप्राप्तो ऽर्थ उक्तः । द्वयोर् एकैकस्याप्य् अभावे ऽनुपलब्धिलक्षणप्राप्तो ऽर्थ उच्यते । तद् इहानुपलब्धिलक्षणप्राप्तेष्व् इति प्रत्ययान्तरवैकल्यवन्त उक्तः । देशकालस्वभावविप्रकृष्टेष्व् इति स्वभावविशेषरहिता उक्ताः । देशश् च कालश् च स्वभावश् च तैर् विप्रकृष्टा इति विग्रहः । तेष्व् अभावनिश्चयस्याभावात् । सत्य् अपि वस्तुनि तस्या भाव इष्टः । कस्मान् निश्चयाभाव इत्य् आह -- तेषु प्रत्पत्तुर् आत्मनो यत् प्रत्यक्षम् तस्य निवृत्तेः कारणात् निश्चयाभावः । यस्माद् अनुपलब्धिलक्षणप्राप्तेषु आत्मप्रत्यक्षनिवृत्तेर् अभावनिश्चयाभावः, तस्मात् सत्य् अपि वस्तुनि आत्मप्र्त्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः सम्भवः । ततो यथोक्ताया एव प्रतिषेधसिद्धिः । प्रतिषेधसम्भवाद् इत्य् अभिप्रायेण पूर्वपक्षप्रवृत्तेर् अदोष एषः । प्रतिषेधशब्देन व्यवहारो ऽभिप्रेत इति प्रतिषेधव्यवहार इति विवृतम् । मूले त्व् अपिशब्दः साध्यान्तरसमुच्चये । कासौ यथोक्तेत्य् आह येति ।

मूलसामर्थ्यस्थितम् अभिव्यनक्ति तस्माद् अन्यतो ऽदृश्यस्यानुपलब्धेर् नोक्ता प्रतिषेधसिद्धिर् इति प्रकृतेन सम्बन्धः ।

यद्य् अदृश्यानुपलब्धेर् न भवति तदानुपलब्धित्वाविशेषे विवक्षितायापि मा भूद् इत्य् अभिप्रेत्याह ततस् तावद् इति । तस्माद् असम्भवात् कारणात् तत इति तत एव दृश्यानुपलब्धेर् इति विवक्षितम् इतरथा न्यस्यापि प्रतिषेधसिद्धिकथनप्रसङ्गात् ॥

ननु ततो ऽप्य् अस्त्य् अन्यतो ऽपि । कथं पुनस् तत एवेति नियमो लभ्यते इत्य् अभिप्रायवान् आह अथेति । अथशब्दः प्रश्ने । अन्यथा चेत्य् उत्तरं व्याचक्षाण इहैव च्छेदं दर्शयति चशब्दञ् च यस्मादर्थे । दृश्यानुपलब्धेर् उक्तात् प्रकाराद् अदृश्यानुपलब्धेर् अन्यप्रकारत्वम् अन्यथात्वं विवक्षितम् आचार्यस्येति

[ध्प्र् p.118]

अथेयं दृश्यानुपलब्धिः कस्मान् काले प्रमाणम्, किंस्वभावा, किंव्यापारा चेत्य् आह --

अमूढस्मृतिसंस्कारस्यातीतस्य वर्त्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिर्[47]अभावव्यवहारप्रवर्त्तनी[48] इइ-28

__________नोतेस्__________

[47] निवृत्तिर् अनुपलब्धिर् च्द् [48] -हारसाधनी ब्च्द्फेन् अमूढेत्यादि[49] । प्रतिपत्तुः प्रत्यक्षो घटादिर् अर्थः, तस्य निवृत्तिर् अनुपलब्धिः तदभावस्वभावेति यावत् । अत एवाभावो न साध्यः स्वभावानुपलब्धेः सिद्धत्वात् ।[50]अविद्यमानो ऽपि च[51]घटादिर् एकज्ञानसंसर्गिणि भूतले[52]भासमाने समग्रसामग्रीको ज्ञायमानो दृश्तया[53]सम्भावितत्वात् प्रत्यक्ष उक्तः । अत एकज्ञानसंसर्गी[54]दृश्यमानो ऽर्थस् तज्ज्ञानं च प्रत्यक्षनिवृत्तिर् उच्यते । ततो हि दृश्यमानाद् अर्थात् तद्बुद्धेश् च समग्रदर्शनसामग्रीकत्वेन प्रत्यक्षतया सम्भावितस्य निवृत्तिर् अवसीयते । तस्माद् अर्थज्ञाने एव प्रत्यक्षस्य घटस्याभाव उच्यते । न तु निवृत्तिमात्रम् इहाभावः निवृत्तिमात्राद् दृश्यनिवृत्त्यनिश्चयात् । __________नोतेस्__________

[49] अमूढेति अपे अमूढेत्यादि; ओम्. ह्न्. [50] यथा च प्रतिपत्तृप्रत्यक्षनिवृत्त्र् अनुपलब्धिः प्रदेशस् तज्ज्ञानं चोच्यते तथा अविद्यमानो ऽपीत्यादिना दर्शयाति -- टि- [51] च ओम्. च् [52] भूतले ओम्. अएप् [53] दृश्यमानतया ब्ध्न् [54] एकज्ञानसंसर्गात् -- ब्

दर्शयन्न् आह सतीति । एतस्मात् सति वस्तुनि तत्सम्भवात् । मूले त्व् अन्यथा चानुपलब्धिलक्षणप्राप्तेष्व् इत्य् एकवाक्यतयैवार्थः सङ्गच्छते । ना यशब्दार्थव्याख्या, नाप्य् उत्तरपदव्याख्याने पूर्वपक्षवचना(न)प्रयासः कश्चित् । तथा तु न प्रक्रान्तं धर्मोत्तरेणेति किम् अत्र कुर्मः? कुत एतद् इति सामान्येनोक्त्वा विशेषनिष्ठं करोति सत्य् अपीति । एतच् च विग्रह इत्य् अन्तं सुगमम् ।

तेष्व् अनुपलब्धिलक्षणप्राप्तेष्व् अभावनिश्चयाभावात् । सत्य् अपि वस्तुनि अस्यानुपलब्धेर् भाव इष्टः । अनेनैतद् आह -- नास्माकम् अत्र प्रमाणम् अस्ति यत् सत्य् एव वस्तुनि सा भवतीति । किन् तु तस्यां सत्याम् अपि यस्मात् प्रत्ययो दोलायते तस्माद् एवम् उच्यत इति ।

सम्प्रति निश्चयाभावस्यावधिं प्रयेषमाण आह कस्मात् सकाशाद् इति । परप्रत्यक्षनिवृत्तेर् अशक्यनिश्चयत्वे तन्निवृत्त्यर्थम् आत्मप्रत्यक्षग्रहणम् । ननु यद्य् अयम् अपादानप्रश्नो न तु हेतुप्रश्नस् तदा कथम् इदम् आह तस्य निवृत्तेः कारणान् निश्चयाभाव इति चेत् । न । अन्यार्थत्वात् कारणशब्दस्य । निश्चयाभावस्य शब्देन न्यायेन जायमानस्यैषा प्रकृतिः कारणम् । "जनिकर्तुः प्रकृतिः" [पाणिनि 1.4.30] इत्य् अनेन लब्धापादानसंज्ञकाद् अस्माद् इत्य् अर्थस्य विवक्षितत्वात् । अन्यथा त्व् असमञ्जसं स्यात् । यस्माद् इत्यादिनोक्तम् अर्थम् उपसंहरति । एतच् च प्रतिषेधसिद्धिर् इत्य् एतद् अन्तं सुगमम् ॥

सम्प्रत्य् अनुपलब्धेर् अनुमानज्ञानहेतुत्वात् प्रामाण्यं स्वभावविशेषो व्यापारश् चोक्तो ऽपि कालपुरुषविशेषपरिग्रहणेन वक्तुम् अथेत्यादिना प्रश्नपूर्वम् उपक्रमते । अथशब्द आरम्भे पूर्ववत् ।

[ध्प्र् p.119]

ननु च दृश्यनिवृत्तिर् अवसीयते दृश्यानुपलम्भात् । सत्यम् एवैतत् । केवलम् एकज्ञानसंसर्गिणि दृश्यमाने घटो यदि भवेद् दृश्य एव भवेद् इति दृश्यः सम्भावितः । ततो दृश्यानुपलब्धिर् निश्चिता । दृश्यानुपलब्धिनिश्चयसामर्थ्याद्[55] एव च[56]दृश्याभावो निश्चितः । यदि हि दृश्यस् तत्र भवेद् दृश्यानुपलम्भो न भवेत् । अतो दृश्यानुपलम्भनिश्चयाद् दृश्याभावः सामर्थ्याद् अवसितः न[57]व्यवहृत इति दृश्यानुपलम्भेन व्यवहर्त्तव्यः । तस्माद् अर्थानत्रम् एकज्ञानसंसर्गि दृश्यमानम् तज्ज्ञानं च प्रत्यक्षनिवृत्तिनिश्चयहेतुत्वात् प्रत्यक्षनिवृत्तिर् उक्तं द्रष्टव्यम् ।

__________नोतेस्__________

[55] -अनुपलम्भ- च्द् [56] च ओम्. ए [57] न तु व्यव- अफेन्

प्रत्यक्षपरिच्छेद्यत्वात् प्रत्यक्षो घटादिः । निवृत्तिशब्देनाचार्यस्यानुपलब्धिर् विवक्षितेति दर्शयति तस्य निवृत्तिर् अनुपलब्धिर् इति । अनुपलब्धिशब्देनापि विवक्षितकर्तृकर्मधर्मोपलब्धिपर्युदासेनान्यद् एकज्ञानसंसर्गि वस्तु तज्ज्ञानं च विवक्षितम् । एतद् एव स्पष्टयति तदभावस्वभावेति यावद् इति । तस्य प्रतिषेध्यस्य घटादेर् अभावो विशिष्टो भावस् तत्स्वभावा । तदभावस्वभावशब्देन यावान् अर्थ उक्त तदनुपलब्धिशब्देनापीति इति यावद् इत्य् अस्यार्थः । यतो ऽन्योपलब्धिर् एव तदनुपलब्धिः । सैव च तदभावो नान्यो ऽत एवास्माद् एव कारणाद् अभावो घटादेर् न साध्यः । कुतो न साध्य इति स्वभावानुपलब्धेर् लिङ्गात् । कुतो न साध्य इत्य् आह सिद्धत्वात् निश्चितत्वाद् घटाभावस्येति प्रकरणात् ।

एवं मन्यते -- तदेकज्जानसंसर्गि वस्तु तज्ज्ञानं च घटाद्यनुपलब्धिस् तदभावश् च । तच् चेन्द्रियजेन प्रत्यक्षेण स्वसंवेदनेन च सिद्धम् इति न लिङ्गाद् अभावः साध्यत इति । नन्व् अविद्यमानो घटादिः कथं प्रत्यक्षः ? अथ प्रत्यक्षः, कथं तदनुपलब्धिर् उच्यत इत्य् आह अविद्यमानो ऽपि चेति । न केवलं विद्यमानः प्रत्यक्ष उच्यते इत्य् अपिशब्दः । [समग्रा समस्ता सामग्री] कारणकलापो यस्येति विग्रहः । शेषाद् विभाषा [पाणिनि 5.4.154] इति कप् । न कपि [पाणिनि 7.4.14] इति ह्रस्वत्वप्रतिषेधः । ज्ञायमानो निश्चीयमानो [घटादिर् एकज्ञान]संसर्गिणि प्र ... तदनुपलब्धेर् एवेत्य् अवधारणीयम् । प्रत्यक्षनिवृत्तिर् घटाद्यनुपलब्धिः । कस्मात् तु द्वयं तथोच्यत इत्य् आह ततो हीति । हीति यस्मात् । यस्माद् अमू एव दृश्यघटादितुच्छरूपनिवृत्त्यवसेयहेतू तस्मात् करणात् । अर्थ एकज्ञानसंसर्गिवस्त्वन्तरम्, ज्ञानं च तस्यैव । एतद् एव व्यतिरेकमुखेण द्रढयति न त्व् इति । निवृत्तिमात्रम् उपलब्ध्यभावमात्रम् । तस्य तथात्वे को दोष इत्य् आह निवृत्तिमात्राद् इति । दृश्यनिवृत्त्यनिश्चयाद् दृश्याभावनिश्चयात् ।

इह निवृत्तिमात्रस्य प्रसज्यप्रतिषेधात्मनो निश्चेतुम् अशक्यत्वान् न हेतुत्वं युज्यत इति धर्मोत्तरस्याशयो निवृत्तिमात्राद् दृश्यनिवृत्त्यनिश्चयाद् इति ब्रुवतः । पूर्वपक्षवादिना त्व् एवं ज्ञातम् निवृत्तिमात्रान् निर्विशेषणाद् अयम् एवं प्रतिषेधति । तद् अहं सविशेषणं निवृत्तिमात्रम् एव दर्शयामीति प्रमोदमान आह ननु चेति । दृश्यनिवृत्तिर् दृश्याभावः । दृश्यानुपलम्भाद् इत्य् अत्रानुपलम्भशब्देनोपलम्भाभावमात्रं विवक्षितम् इतरथा पूर्वपक्षवादिनः प्रकृतं हीयेत । अनेन सविशेषणम् एवोपलम्भाभावमात्रं प्रसज्यप्रतिषेधरूपं

[ध्प्र् p.120]

यथा चैकज्ञानसंसर्गिणि प्रत्यक्षे घटस्य प्रत्यक्षत्वम् आरोपितम् असतो ऽपि तथा तस्मिन्न् एकज्ञानसंसर्गिण्य् अतीते चामूढस्मृतिसंस्कारे वर्त्तमाने च घटस्य[58]तत्तद्रूपम्[59]आरोपितम् असत इति द्रष्टव्यम् । अनेन च[60]दृश्यानुपलब्धिः प्रत्यक्षघटनिवृत्तिस्वभावोक्ता । सा च सिद्धा । तेन न[61]घटाभावः साध्यः अपि तु अभावव्यवहार इत्य् उक्तम् ।

__________नोतेस्__________

[58] अतीते वर्त्तमाने चामूढस्मृतिसंस्कारे च घटस्य [59] तद्रूपम् अब्फेन् [60] च ओम्. -- अनेन दृश्या अब्फे [61] न ओम्. -- तेन घटा --ब्

लिङ्गम् अस्तु, न तु नञः पर्युदासवृत्त्या तदेकज्ञानसंसर्गि वस्तु, तज्ज्ञानं चेति पूर्वपक्षवादी दर्शयति । सत्यम् इत्यादिना प्रतिविधत्ते । किन् त्व् एकज्ञानसंसर्गिणि भूतलादौ दृश्यमाने सति दृश्यः सम्भावित आरोपितः स प्रतिषेध्य इति प्रकरणात् । ततो दृश्यत्वसमारोपात् दृश्यानुपलब्धिर् दृश्यज्ञानाभावस् तुच्छरूपो व्यवहर्तव्यमात्रं निश्चिता भवति । निश्चीयताम् उपलब्ध्यभावो ज्ञेयाभावस् तावन् न निश्चित इति तन्निश्चयार्थं निवृत्तिमात्रं व्यापरिष्यत इत्य् आह दृश्येति । दृश्यज्ञानाभावनिश्चयसामर्थ्याद् अन्यथानुपपत्तेः । चो हेतौ । दृश्यस्य ज्ञेयस्याभावो व्यवहर्तव्यैकरूपः । सामर्थ्यम् एव यदीत्यादिना दर्शयति । हिर् यस्मादर्थे । दृश्यानुपलम्भ इति दृश्योपलम्भाभाव इत्य् अर्थः । अतो ऽस्माद् दृश्यानुपलम्भनिश्चयात् । दृश्यस्य ज्ञेयस्याभाव उक्तात् सामर्थ्याद् अवसितः । दृश्योपलम्भाभावनिश्चयस् त्व् एकज्ञानसंसर्गिवस्त्वन्तरोपलम्भेनेति द्रष्टव्यम् ।

ननु यदि ज्ञेयाभावो ऽप्य् अवसितस् तर्हि कथं लिङ्गेन साध्यत इत्य् आह न व्यवहृत इति । अदृष्टानाम् अपि सत्त्वशङ्कया न प्रत्यक्षं व्यवहारयितुं शक्नोतीति भावः । केन तर्हि व्यवह्रियत इत्य् आह दृश्यानुपलम्भेन लिङ्गभूतेन । ......भावव्यवहार एव ........ ज्ञानं चेति । चकारस् तुल्यकक्षताम् दर्शयति । द्वयोश् च निवृत्तिनिश्चयहेतुत्वम्; ज्ञानम् अन्तरेण यस्माद् अयं केवलः प्रदेशस् तस्मात् घटादिर् नास्तीत्य् अध्यवसातुम् अशक्यत्वात्; तथा विषयम् अन्तरेण यस्मात् केवलप्रदेशापरोक्षीकरणं तस्मात् तज्ज्ञानं नास्ति इति निश्चेतुम् अशक्यत्वाद् इति द्रष्टव्यम् । प्रत्यक्षस्य घटादेर् निवृत्तिनिश्चयहेतुत्वात् प्रत्यक्षनिवृत्ति[र् उक्तं द्रश्तव्यम्] ।

ननु च प्रतिषेध्यस्य घटादेर् असतो ऽपि तथास्तु प्रत्यक्षत्वम् । यत् पुनस् तत्र नासीद् एव तस्य कथम् अतीतत्वम्; यच् च तत्र नास्त्य् एव तस्य कथं वर्त्तमानत्वम्, कथं च तत्रानुपलब्धेर् व्यापार इत्य् आशङ्काम् उपाकुर्वन्न् आह -- यथेति । येन प्रकारेण घटो यदि भवेद् दृश्य एव भवेद् इत्य् एवंरूपेण । चो हेतौ । तस्मिन्न् एकज्ञानसंसर्गिण्य् अतीते ऽमूढस्मृतिसंस्कारे । चो वक्तव्यान्तरसमुच्चये । वर्त्तमाने च । समुच्चये चकारः । तथा तेन प्रकारेण यदि तत्र पूर्वं घटः स्थितो यदि स्यात्, उपलब्धः स्यात्; न चोपलभ्यते इत्य् एवम् आत्मना घटस्यारोपात् प्रत्यक्षस्य तदानीम् असतस् तद्रूपम् अतीतत्वं वर्त्तमानत्वञ् चारोपितम् आरोपसिद्धम् इतिर् एवं द्रष्टव्याकारं दर्शयति । द्रष्टव्यं ज्ञातव्यम् इति योजनीयम् इदम् ।

[ध्प्र् p.121] अमूढो ऽभ्रष्टो दर्शनाहितः स्मृतिजननरूपः संस्कारो यस्मिन् घटादौ स तथोक्तः । तस्य अतीतस्य प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । वर्त्तमानस्य च प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । अमूढस्मृतिसंस्कारग्रहणं तु न वर्त्तमानविशेषणम् । यस्माद् अतीते घटविविक्तप्रदेशदर्शने स्मृतिसंस्कारो मूढो दृश्यघटानुपलम्भे दृश्ये च घटे मूढो भवति । वर्त्तमाने तु[62]घटरहितप्रदेशदर्शने न स्मृतिसंस्कारमोहः । अत एव न घटाभावे नापि घटानुपलम्भे मोहः । तस्मान्[63]न वर्त्तमाननिषेध्यविशेषणम् अमूढस्मृतिसंस्कारग्रहणम् स्मृतिसंस्कारव्यभिचाराभावाद्[64]वर्त्तमानस्यार्थस्य । अत एव वर्त्तमानस्य चेति चशब्दः कृतः विशेषणरहितस्य वर्त्तमानस्य विशेषणवतातीतेन समुच्चयो यथा विज्ञायेतेति[65]। __________नोतेस्__________

[62] वर्त्तमाने च घट अब्फेन् [63] अत एव न घटानुपलम्भे नापि घटे मोहः -- अच्द्फेन्. अत एव न घटानुपलम्भे नापि घटे मोहः -- ब् [64] -ग्रहणम् व्यभिचार- -- c. [65] इति ओम्. -- विज्ञायेतेति । तद् -- ब्. तद् अयम् अर्थः अतीतो ऽनुपलम्भः स्फुटः[66]स्मर्यमाणः प्रमाणम् वर्त्तमानश् च । ततो `नासीद् इह घटः अनुपलब्धत्वात्ऽ `नास्ति अनुपलभ्यमानत्वात्ऽ इति शक्यं ज्ञातुम् । `न तु न भविष्यत्य् अत्र घटः अनुपलप्स्यमानत्वात्ऽ इति[67]शक्यं ज्ञातुम्[68]। अनागताया अनुपलब्धेः सत्त्वसन्देहाद् इति कालविशेषो ऽनुपलब्धेर् व्याख्यातः । __________नोतेस्__________

[66] स्फुटं -- ब्फेन्. [67] अनुपलभ्यमानत्वात् -- अ [68] ज्ञातुम् शक्यम् -- च्

ननु दृश्यानुपलब्धिः कस्मिङ् काले प्रमाणं किंस्वभावा किंव्यापारा चेति त्रितयं पृष्ट आचार्यस् तत्रानेन किम् आख्यातम् आचार्येणेत्य् आशङ्काम् अपाकुर्वन्न् आह अनेनेति । अनेन प्रतिपत्तृप्रत्यक्षस्य निवृत्तिर् इति वचनेन । चो ऽवधारणे । स्वभावस्ये (-भावे)त्य् अस्यानन्तरं द्रष्टव्यः । प्रत्यक्षस्य घटस्य । प्रसज्यप्रतिषेधलक्षणनिवृत्तिनिश्चयहेतुत्वात् प्रत्यक्षघटनिवृत्तिः प्रत्यक्षघटानुपलब्धिः । नञः पर्युदासवृत्त्या । तदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च द्वयं स्वभावो रूपं यस्या दृश्यानुपलब्धेः सा तथोक्ता व्याख्यातेति शेषः । ननु दृश्यानुपलब्धिरूपं लिङ्गम् अस्तु पर्युदासरूपम्, साध्यस् तु प्रसज्यप्रतिषेधरूपः किं न भवतीत्य् आह सेति । चो यस्मात् । सा तथाविधानुपलब्धि .............. उक्तम् आचार्येण साभावव्यवहारप्रवर्तनीत्य् अनेन शब्देनेति भावः । धर्मोत्तरेण चात एव अभावो न साध्य इत्य् अनेन ।

घटविविक्तप्रदेश[49अ]दर्शनेनाहित आरोपितः संस्कारो विशिष्टशक्तियुक्तविज्ञानात्मिका वासना, न तु पराभिमतो भावनाख्यः । अनुरूपस्मरणं जनयितुम् अनीशानो मूढ इति व्यपदिश्यते । दृश्यघटानुपलम्भे दृश्यस्य घटस्योपलब्ध्यभावे तुच्छरूपे । अत एव च दृश्ये घटे । अमूढस्मृतिसंस्कारग्रहणं कस्मान् न वर्त्तमानविशेषणम् इत्य् आह वर्त्तमाने त्व् इति । तुर् अतीताद् वर्तमानस्य वैधर्म्यम् आह । अतो मोहाभावान् न घटाभावे व्यवहर्तव्यैकरूपे । नापि घटानुपलम्भे घटोपलब्ध्यभावे तुच्छरूपे । प्रत्यक्षवद् आरोपाद् वर्तमानस्यार्थस्य घटादेः । अत एव वर्तमानग्रहणस्य निर्विशेषणत्वाद् एव ।

[ध्प्र् p.122] व्यापारं दर्शयति । अभावस्य व्यवहारः नास्तीत्य् एवम् आकारं ज्ञानम् शब्दश् चैवम् आकारः निःशङ्कं गमनागमनलक्षणा[69]च प्रवृत्तिः कायिको ऽभावव्यवहारः । घटाभावे हि ज्ञाते निःशङ्कं गन्तुम् आगन्तुं च प्रवर्तते । __________नोतेस्__________

[69] निःशङ्कगमनागमलक्षणा -- द्ब्; निःशाङ्का गमनागमनयो (?) लक्षणा -- c. तद् एतस्य[70]त्रिविधस्याप्य् अभावव्यवहारस्य[71]दृश्यानुपलब्धिः प्रवर्त्तनी[72]साधनी प्रवर्त्तिका । __________नोतेस्__________

[70] तद् एवम् अस्य-- च्द्; तद् एवम् एतस्य, तद् एव तस्य -- ब्. [71] अप्य् अभावस्य व्यवहारस्य] -- c. [72] [प्रवर्त्तनी ओम्. अब्च्द्फेन्.

यद्य् अपि च नास्ति घटः इति ज्ञानम् अनुपलब्धेर् एव भवति अयम् एव चाभावनिश्चयः तथापि यस्मात् प्रत्यक्षेण केवलः प्रदेश उपलब्धस् तस्मात् इह घटो नास्तीत्य् एवं च[73]प्रत्यक्षव्यापारम् अनुसरत्य् अभावनिश्चयः तस्मात् प्रत्यक्षस्य केवलप्रदेशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृतः ।

__________नोतेस्__________

[73] च ओम्. -- c.

ननु यथा विकल्पेन विषयीक्रियमाणो ऽतीतो ऽनुपलम्भः प्रमाणम् उच्यते तथा विकल्पस्याव्याहतप्रसरत्वाद् अनागतो ऽप्य् अनुपलम्भो विकल्प्यमानः किं न तथा प्रमाणम् इत्य् आह तद् अयम् इति । यस्मात् केवलप्रदेशदर्शनाहितः संस्कारो ऽतीते घटादाव् अमूढो गृह्यते, वर्तमाने तु तस्मिन् स्मृतिसंस्कारे मोहो न सम्भवत्य् एव तत् तस्माद् अयं तात्पर्यार्थः । अनुपलम्भनिश्चयहेतुत्वाद् अनुपलम्भः केवलप्रदेशादिः स्फुटो यथासौ केवलो ऽनुभूतस् तथा स्मृत्वा विषयीक्रियमाणः प्रमाणम् । वर्तमानश् च तादृग् अनुपलम्भः स्फुटो ऽभ्रान्तेन ज्ञानेन गृह्यमाण इति द्रष्टव्यम् । यत ईदृशो ऽनुपलम्भः प्रमाणं ततस् तस्मात् । कुतो न शक्यते ज्ञातुम् इत्य् आहानागताया इति । तथात्वेन निश्चितो हि हेतुर् गमको ऽन्यथा सन्दिग्धासिद्धता हेतुदोषः स्याद् इत्य् अभिप्रायः । प्रत्यक्षनिवृत्तिशब्देन तावद् दृश्यानुपलब्धेः स्वभावो दर्शितो ऽमूढेत्यादिना तु किं दर्शितम् इत्य् आह कालेति । [इतरेवम् अर्थेते] नैवं कालविशेषो ऽनुपलब्धेर् व्याख्यात इति । कालविशेषो ऽतीतो वर्त्तमानश् च व्याख्यातः कथितो नेनेति शेषः । एतच् चातीते वर्त्तमाने च काले ऽनुपलब्धेः प्रमाणाख्यानम् अस्योपलक्षणं द्रष्टव्यम्, कार्यस्वभावहेत्वोर् अपि तयोः कालयोः प्रामाण्यात् । तथा ह्य् आसीद् अत्र वह्निर् धूमस्योपलब्धत्वात् । अस्ति वह्निर् इह धूमस्योपलभ्यमानत्वात् । तथासीद् इह पादपः शिंशपाया उपलब्धत्वात् । अस्तीह वृक्षः शिंशपाया उपलभ्यमानत्वाद् इत्य् अपि भवत्य् एव ।

ननु दृश्यानुपलम्भे भवतु ज्ञानाभिधानलक्षणो व्यवहारः । कायिकस् तु कथम् इत्य् आह घटेति । हिर् यस्मात् । प्रवर्तत इति योग्यतयोच्यते । प्रवृत्तियोग्यस् तावद् भवतीति । अत एव चाभावयोग्यता साध्योच्यते । तदेतस्येति लोकोक्तिर् एषा । तच् चैतच् चेति विग्रहः कार्यः । यद्वा यतो ऽभावनिश्चयो नुपलब्धिनिमित्तकस् तत् तस्मात् । अपिर् अतिशये । आस्ताम् एकस्य द्वयोर् वा प्रवर्तनी, त्रिविधस्य यावत् प्रवर्तनीत्य् अर्थः । प्रवर्तनीत्य् अस्य द्वयम् एतद् विवरणं स्पष्टार्थं साधनी प्रवर्त्तिकेति प्रवर्तयतीति प्रवर्तनीति योग्यतयोक्तम् । साभावत्रितयम् अभावव्यवहारं प्रवर्तयितुं योग्या तावन्मात्रनिमित्तकत्वात् तस्य । सत्य् अर्थित्वे पुरुषस् तान् व्यवहारान् आचरतु मा वा । अत एवाभावव्यवहारयोग्यता प्रदेशादेः साध्यते दृश्यानुपलम्भेनेति परमार्थः ।

[ध्प्र् p.123]

किञ् च । दृश्यानुपलम्भनिश्चयकरणसामर्थ्याद् एव पूर्वोक्तया नीत्या प्रत्यक्षेणैवाभावो निश्चितः । केवलम् अदृष्टानाम् अपि सत्त्वसम्भवात् सत्त्वशङ्कया न असत्त्वं[74]व्यवहर्त्तुम् । अतो ऽनुपलम्भो ऽभावं[75]व्यवहारयति दृश्यो यतो ऽनुपलम्भः तस्मान् नास्तीति । अतो दृश्यानुपलम्भो ओ ऽभावज्ञानं कृतं प्रवर्त्तयति न तु अकृतं करोतीत्य्[76]अभावनिश्चयो ऽनुपलम्भात् प्रवृत्तो ऽपि प्रत्यक्षेण कृतो ऽनुपलम्भेन प्रवर्त्तित उक्त इत्य् अभावव्यवहारप्रवर्त्तन्य् अनुपलब्धिः[77]॥ कस्मात् पुनर् अतीते वर्त्तमान चानुपलब्धिर् गमिकेत्य् आह

__________नोतेस्__________

[74] शक्नोत्य् अभावं -- च् [75] [ऽभावं ओम्. -- अ [76] इति ओम्. -- c. [77] अभावव्यवहारे प्रवर्त्तन्य् अनुपलब्धिः -- च्; प्रवर्त्तन्य् उपलब्धिः -- अ; प्रवर्तिन्य् उपलब्धिः -- फ्. प्रवर्तिन्य् अनुपलब्धिः -- ब्.

तस्या एवाभावनिश्चयात् इइ-29 तस्या एव यथोक्तकालाया अनुपलब्धेर् अभावनिश्चयात् । अनागता ह्य् अनुपलब्धिः स्वयम् एव सन्दिग्धस्वभावा । तस्या असिद्धाया ना ऽभावनिश्चयो ऽपि त्व् अतीतवर्त्तमानाया इति ॥ ननु यदि नास्तीत्य् एवम् आकारं ज्ञानम् अनुपलब्धेर् लिङ्गाद् भवति, कथं तर्हि प्रत्यक्षावसितो ऽभाव उक्त इत्य् आह -- यद्य् अपि चेति निपातसमुदायो यद्य् अपिशब्दवद् विशेषाभिधाननिमित्ताभ्युपगमे वर्त्तते । अभावनिश्चयशब्दसामानाधिकरण्याद् अयम् एवेति निर्देशः । चशब्दो वक्तव्यम् एतद् इत्य् अस्यार्थे त्र वर्त्तते ।

अभावनिश्चयस्य तदा स्थैर्यलाभाद् अनुपलम्भाद् एवेत्य् उक्तं द्रष्टव्यम् । तथापीति लौकिकोक्तिर् इयं निगदाभिधानारम्भे । तस्माच्छब्देन यस्माच्छब्द आक्षिप्तः । तेनायम् अर्थः । यस्मात् केवलप्रदेशग्रहणलक्षणव्यापारानुसारी घटो नास्तीत्य् अभावनिश्चयः तस्मात् प्रत्यक्षकृत उच्यत इति शेषः । कस्य व्यापारानुसारीत्य् आकाङ्क्षायाम् उक्तम् -- प्रत्यक्षस्य प्रमाणविशेषस्येति ।

अथ स्याद् -- यद्य् अयं प्रत्यक्षकृतस् तदा प्रत्यक्षप्रवर्त्तितो ऽपि । तत् किं दृश्यानुपलम्भेन क्रियत इत्य् आशङ्क्याह -- किञ्चेति वक्तव्यान्तरसमुच्चये । तद्विविक्तप्रदेशादिग्राहिणा प्रत्यक्षेणाइवाभावो निषेध्याभावः प्रसज्यप्रतिषेधात्मा निश्चितः । कथं? दृश्यस्यानुपलम्भ उपलम्भाभावस् तुच्छरूपस् तन्निश्चयकरणसामर्थ्याद् अन्यथानुपपत्तेः । पूर्वोक्तया नीत्या युक्त्या यदि हि दृश्यस् तत्र भवेत्, दृश्यानुपलम्भो न भवेद् इत्य् एवमात्मिकया । यदि प्रत्यक्षम् इत्थं प्रतिषेध्याभावं निश्चाययति, व्यवहारयितुम् अपि शक्नोत्य् एवेत्य् आह -- केवलं किन् तु न शक्नोति व्यवहर्तुम् इत्य् अन्तर्भूतणिजार्थत्वान् निर्देशस्य व्यवहारयितुम् इत्य् अर्थः । कुतो न शक्नोतीत्य् आह -- सत्त्वशङ्कयेति प्रतिषेध्यसत्त्वस्य स्वरूपस्य सत्त्वशङ्कया सन्देहेन हेतुना । नन्व् अदर्शने ऽपि कथं सन्देह इत्य् आह -- अदृष्टेति । तेन प्रत्यक्षेणादृष्टानाम् अपि पिशाचादीनां सत्त्वस्य सद्भावस्य सम्भवात् सम्भाव्यमानत्वात् नित्यं शङ्क्यमानानुपलम्भव्यभिचारो ह्य् अभाव इति भावः । अतः प्रत्यक्षस्य तत्राशक्तत्वात् सापि कथं व्यवहारयतीत्य् आह -- दृश्य इति । अतो ऽस्मात्कारणात् कृतं प्रत्यक्षेणेति प्रकरणात् । एतद् एव व्यतिरेकमुखेण द्रढयति -- न त्व् इति । यस्मात् प्रत्यक्षव्यापारानुसार्यभावनिश्चय इतिस् तस्मात् । अभावनिश्चयो

[ध्प्र् p.124]

सम्प्रत्य् अनुपलब्धेः प्रकारभेदं दर्शयितुम् आह --

सा च प्रयोगभेदाद् एकादशप्रकारा इइ-30 सा च एषानुपलब्धिः एकादशप्रकारा -- एकादश प्रकारा अस्या[78]इत्य् एकादशप्रकारा । कुतह् प्रकारभेदः ? प्रयोगभेदात् । प्रयोगः प्रयुक्तिः शब्दस्याभिधाव्यापार[79]उच्यते । शब्दो हि साक्षात् क्वचिद् अर्थान्तराभिधायी, क्वचित् प्रतिषेधान्तराभिधायी । सर्वत्रैव तु दृश्यानुपलब्धिर् अशब्दोपात्तापि गम्यत इति वाचकव्यापारभेदाद् अनुपलम्भप्रकारभेदो न तु स्वरूपभेदाद् इति यावत् ॥ __________नोतेस्__________

[78] -धिः एकादशप्रकारा अस्या -- अपे. [79] अभिधानव्या- -- अब्च्द्फेन्.

प्रकारभेदान् आह --

स्वभावानुपलब्धिर् यथा -- नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेर् इति इइ-31

नुपलम्भात् प्रवृत्तो ऽपि दृढीभूतो ऽपि प्रत्यक्षेण केवलप्रदेशादिवेदिना सामर्थ्यात् कृत उत्पादितो ऽनुपलम्भेन दृश्यानुपलम्भेन प्रवर्तितः साधित उक्त आचार्येणाभावव्यवहारप्रवर्तनीत्य् अनेन शब्देनेति बुद्धिस्थम् । इतीत्यादिनोपसंहारः । इतिर् एवम् उक्तेन क्रमेणानुपलब्धिर् दृश्यानुपलब्धिस् तस्या एव प्रकृतत्वात् ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.