Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/11

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

धर्मोत्तरप्रदीप subcommentary on धर्मोत्तर's न्यायबिन्दुटीका on धर्मकीर्ति's न्यायबिन्दु

Tác giả
दुर्वेकमिश्र
Thông tin
GRETIL — Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अथापि स्यात् । यदि ग्राह्यो विषयो न कदाचिद् अपि प्रत्यक्षस्य प्रापणीयस् तर्हि तेन दर्शितेन किम् प्रयोजनं येनोच्यते तद् अत्र ग्राह्यं विषयं दर्शता प्रत्यक्षस्य स्वलक्षणां विषय उक्त इति । नैष दोषः । एवम् एवास्य प्रवृत्तिविषयप्रदर्शनात् । यदि हि प्रत्यक्षं क्षणम् एक गृह्णाति तत्रानीलव्यावृत्तिनिश्चयोपजने सन्तानं निश्चाययत् प्रवृत्तिविषयं प्रदर्शयेत् तत्सन्तानभाविनाञ् च ज्ञानानाम् अप्रमानाण्यम् आपादयेत्, न तु किञ्चिद् अगृह्णत् । तथा हि सन्तानोल्लेखेन निश्चयाभावे ऽप्य् अनीलव्यावृत्तिस् तावद् अनागतसर्वक्षणसाधारणी प्रत्यक्षेण गृहीतनिश्चिता । तन्निश्चय एव सर्वानीलव्यावृत्तोपादानोपादेयभावस्थितनीलक्षणनिश्चयः तदभिन्नयोगक्षेमत्वाद् उत्तरप्रबन्धस्य । तथानिश्चय एव च सन्ताने निश्चय उच्यते । अत एव च तद् आद्यं ज्ञानं तथा ऽनुष्ठानं तत्सन्तानभावीनि पराञ्चि ज्ञानान्य् अनीलव्यावृत्तं रूपं गृहीतम् एव गृह्णन्त्य् अनीलव्यावृत्तिनिश्चयं च कृतम् एव कुर्वन्त्य् अनतिशयाधायीनि प्रचुराण्य् अपि प्रामाण्यात् प्रच्यावयत् प्रामाण्यम् आत्मसात्करोतीति न्याय्यं ग्राह्यप्रदर्शनम् इति सर्वम् अवदातम् ॥

इहाचार्यस्य -- स्वम् असाधारणं सन्तानान्तरसाधारणं यन् न भवति, यद् अर्थक्रियाक्षमम् एव सर्वतो व्यावृत्तं तत्त्वं तद् एव स्वलक्षणम्, न चैतद् विपरीतम् अनुमानविषयो ऽपीत्य् अभिप्रेतम् । स्वम् असाधारणं

[ध्प्र् p.74]

कः पुनर् असौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्य इत्य् आह --

यस्य अर्थस्य संनिधानासंनिधानाभ्यां ज्ञानप्रतिभासभेदस् तत् स्वलक्षणम् इ-13 यस्य अर्थस्य इत्यादि । अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । संनिधानं निकटदेशावस्थानम् । असंनिधानं दूरदेशावस्थानम् । तस्मात् संनिधानासंनिधानाच् च ज्ञानप्रतिभासस्य ग्राह्याकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् । यो हि ज्ञानविषयः संनिहितः सन् स्फुटाभासं ज्ञानस्य करोति, असंनिहितस् तु योग्यदेशस्थ एव अस्फुटं करोति, तत् स्वलक्षणम् । सर्वण्य् एव हि वस्तुनि दूराद् अस्फुटानि दृश्यन्ते, समीपे स्फुटानि । तान्य् एव स्वलक्षणानि । लक्षणं तत्त्वं स्वलक्षणम् इति विवृण्वता च धर्मोत्तरेन तद् एव दर्शितम् । केवलं न व्यक्तीकृतम् अतस् तस्य विषयः स्वलक्षणम् इति शब्दमात्रश्राविणो ऽविदिताचार्याभिप्रायस्याविभावितधर्मोत्तरविवरणार्थस्य यद्य् असाधारणं पररूपेणामिश्रं रूपं स्वलषणं तदा ऽग्नित्वम् अपि गोत्वादिसामान्येनामिश्रं स्वलक्षणं प्रसज्येतेति व्याप्तिं मन्यमानस्यायं कः पुनर् इत्यादिप्रश्नः । क इत्य् अनेन सामान्याकारेण विषयं पृच्छति । पुनर् इत्य् अनेन विशेषाकारेण । स्वलक्षणशब्दस्यासति बहुव्रीहाव् अजहल्लिङ्गत्वात् स्वलक्षणम् इति ।

चोदकेन विषयं सम्पृष्ट आचार्यः कस्माद् अर्थम् उत्तरीकरोतीत्य् आशङ्क्याह -- अर्थेति । ज्ञानस्य प्रत्यासन्नत्वाज् ज्ञानविषयो लब्ध इत्य् अभिप्रेत्य यस्य ज्ञानविषयस्येति विवृणोति । सन्निधानासन्निधानशब्दौ निकटदूरावस्थानार्थौ व्याचक्षाणो यद् अन्यैर् आख्यातं -- "असन्निधानं योग्यदेशे सर्वथा वस्तुनो ऽभावः" इति तद् अपाकरोति । अयञ् चास्याभिप्रायो यत्र वस्तु नास्ति तत्र ज्ञानम् एव न जायते । न तु तत्प्रतिभास्य भेदो नानात्वम् अस्तीति । तस्माद् इत्यादिना स[32ब्]न्निधानासन्निधानाभ्याम् इति पञ्चमी द्विवचनान्तम् एतद् इति दर्शयति । स्फुटत्वाभ्याम् इति अर्थक्रियासामर्थ्यानुगताभ्यां इति द्रष्टव्यम् ।[36]इत्थम्भूतलक्षणा चेयं तृतीया ।

__________नोतेस्__________

[36] पाणिनि 2.3.21.

पदार्थं व्याख्याय समुदायार्थं व्याचष्टे । द्वयी चेयं शैली व्याख्यातृणाम् । क्वचित् समुदायार्थं व्याख्याय पश्चात् पदार्थं विवृण्वते । क्वचित् पदार्थ्ं विवृत्य पश्चात् स्मुदायार्थं व्याचक्षत इति । हिर् अवधारणे । योग्यदेशस्थ एवत्य् अनेन दूरदेशस्थं निरस्यति । दूरस्थो हि ज्ञानम् एव न जनयति किम् अङ्ग पुनर् भिन्द्याद् इत्य् अभिप्रायः ।

स्वलक्षणलक्षणस्याव्यापित्वासम्भवित्वशङ्काम् अपाकुर्वन्न् आह -- सर्वाणीति । । सर्वशब्दो व्याप्तिप्रदर्शनार्थः । अनेनाव्यापित्वं निराकृतम् । हिर् यस्मादर्थे । दृश्यन्ते प्रतीयन्ते । अनेनासम्भवित्वं निरस्तम् । अतिव्यापित्वम् अपहस्तयन्न् आह -- तान्य् एवेति । यान्य् अमूनि प्रत्यक्षविषयस् तान्य् एव । नानुमानविषयो ऽपीति प्रकरणात् । दूराद् अस्फुटानि दृश्यन्त इति वदतश् चायम् आशयः -- दूरे हि वस्तु गृह्यमाणं प्रचुररजोनीहारादिसंसृष्टं गृह्यते । ततो ऽस्पष्टं गृह्यते। न तु

[ध्प्र् p.75]

कस्मात् पुनः प्रत्यक्षविषय एव स्वलक्षणम् । तथा हि विकल्पविषयो ऽपि वह्निर् दृश्यात्मक एव अवसीयत इत्य् आह

तद् एव परमार्थसत् इ-14 तद् एव परमार्थसद् इत्यादि । परमो ऽर्थो ऽकृत्रिमम् अनारोपितं रूपम् । तेन अस्ति इति परमार्थसत् । य एव अर्थः सन्निधानासन्निधानाभ्यां स्फुटम् अस्फुटं च प्रतिभासं करोति परमार्थसन् स एव । स च प्रत्यक्षस्य विषयो यतः, तस्मात् तद् एव स्वलक्षणम् । न गृह्यत एव । तथागृहीतस्यापि वृक्षास्य च्छायाद्यर्थक्रियाकारित्वात् । न चाधिकग्रहणं भ्रम इति ।

इदं पुनर् अत्र निरुप्यते । यदि य एवार्थः सन्निधानाद् असन्निधाच् च ज्ञानप्रतिभासं स्फुटत्वास्फुटत्वाभ्यां भिनति स एव स्वलक्षणं तर्हि स्पर्शरसौ स्वलक्षणे न स्याताम् । तौ खलु असन्निहितौ ज्ञानम् एव न जन्यतः । किं पुनर् ज्ञानप्रतिभासं स्फुटत्वास्फुटत्वाभ्यां भेत्स्यतः? किञ् चैतस्मिन् स्वलक्षणे विज्ञाणम् अस्वलक्षणं स्यात् । तस्याऽऽस्तां तावद् असन्निहितस्यास्फुटज्ञानजनकत्वं सन्निहितस्यापि स्फुटज्ञानजनकत्वं नास्ति । न च तस्य दूरान्तिकवर्त्तित्वम् अस्त्य् अदेशत्वात् । तद् ईदृशीं महतीम् अव्यापिताम् अनालोच्येदृशं स्वलक्षणं प्रणयन्न् आचार्यः, धर्मोत्तरो ऽप्य् एवं प्रसभं व्याचक्षाणः कथं न प्रमाद्यतीति? न । अभिप्रायापरिज्ञानात् । यदि हीदं लक्षणं यथाश्रुति व्यवतिष्ठेत, स्याद् एवैतत् । केवलं सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदकत्वेन यद् एकार्थसमवेतम् असाधारण्यं व्यत्यन्तरासनुयायित्वं तद् उपलक्षितम् । यतो हेतुबिन्दुः "तत्र तद् आद्यम् असाधारणविषयम्" [पृ-53] । अत एव -- "असाधारणविषयं स्वलक्षणविषयम्" इति [हेतु-टी-पृ-25] भटटार्चटो व्याचष्टे । अत एवानुमानस्यैतद् विपर्ययेण साधारणं रूप विषयो दर्शयिष्यते । तेन नाव्याप्तिर् न चान्यो लक्षाणदोषः । तस्य विषयः स्वलक्षणम् इत्य् अभिहिते ऽपि स्वलक्षणशब्दस्यान्यथापि निर्वचनसम्भवात्, नायम् अभिमतो ऽर्थो ज्ञायेत प्रतिपत्तृभिर् इति तद् अभिमतार्थ इत्थम् उपलक्षित इति च दृष्टव्यम् ॥

तस्य विषयः स्वलक्षणम् इत्य् अत्र यदि तस्यैव विषयः स्वलषाणम् इत्य् अवधार्यते तदा यत एव कारकरणं ततो ऽन्यत्रावधारणम् इति स्वलक्षणस्य प्रत्यक्षे नियमात् प्रत्यक्षम् अन्यविष्यम् अपि स्यात् । अथ स्वलक्षणम् एवेत्य् अवधार्यते । तदा ऽपि प्रत्यक्षस्य स्वलक्षणे नियतत्वाद् [33अ] अनियतं स्वलक्षणम् अनुमानस्यापि विषयः स्याद् इत्य् उभयावधारणां कार्यम् । तस्यैव विषयः स्वलक्षणम् एवेति । एतद् असहमानः पूर्वपक्षवाद्य् आह -- कस्माद् इति । कस्माद् इति सामान्येन कारणं पृच्छति । पुनर् इति विशेषतः । यद् वा यस्यार्थस्येत्य् अत्र तत्स्वलक्षणम् इति । तद् एव प्रत्यक्षविषयः स्वलक्षणं नानुमानविषय इत्य् अभिप्रेतं तद् असहमान एवम् आह । कस्मात् प्रत्यक्षविषाय एवेति ब्रुवतो ऽनुमानस्यापि विषयः किं न स्वलक्षणम् इत्य् अभिप्रायः । स एव किं न तथेत्य् आशङ्क्य पूर्वपक्षवाद्य् एवोपपत्तिम्

[ध्प्र् p.76]

कस्मात् पुनस् तद् एव परमार्थसद् इत्य् आह --

अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः इ-15

अर्थ्यत इत्य् अर्थः । हेय उपादेयश् च । हेयो हि हातुम् इष्यते उपादेयश् च उपादातुम् । अर्थस्य प्रयोजनस्य क्रिया निश्पत्तिः । तस्याम् सामर्थ्यं शक्तिः । तद् एव लक्षणं रूपं यस्य वस्तुनः

आह -- तथा हीति । विकल्पशब्दः प्रमाणविषयचिन्तनाद् अनुमानविकल्पो द्रष्टव्यः । दृश्यात्मक एव स्वलक्षणात्मक एव ।

ननु `यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस् तत् स्वलक्षणम्ऽ इत्य् उक्ते कुतो ऽस्य प्रश्नस्यावकाशः? न हि विकल्पविषयस्य सन्निधानासन्निधानाच् च ज्ञानप्रतिभासभेदो ऽस्ति यतो ऽस्योत्थानं स्यात् । सत्यम् । केवलम् अयम् अस्याशयः -- यद् एतद् भवद्भिर् लक्षणं स्वलक्षणस्य प्रतीतं तद् अस्य लक्षनं एव न भवति किन् तु यद् एव दृश्यतया ऽध्यवसीयते तद् एव स्व[लक्षण]म् इतीदं तस्य लक्षणं । सति चैवम् औमानविकल्पविषयस्यापि तथात्वम् अनिवारितम् एवेति सूत्थानः प्रश्नः । एतत् प्रश्नविषर्जनम् आचार्यीयं दर्शयन्न् आह -- तद् एवेति ।

अथ स्यात् यदि[37]............. त्य् उच्यमानं शोभेत यावतेदम् एव न सिद्धं तत् कुतो ऽयं प्रश्नविसर्जनप्रकार इति? उच्यते । स्वलक्षणम् इति स्वम् असाधारणं पारमार्थिकः स्वभाव उच्यते । स एव च पारमार्थिकः स्वभाव उच्यते, य एवार्थक्रियाक्षामः । स एव च परमार्थसन्न् इति युक्तम् इदम् उत्तरं तद् एवेति । परमे ऽर्थ इति दर्शयम् कर्मधायं दर्शयति । अकृत्रिमम् इत्यादि परमशब्दस्य व्याख्यानम् । तेनास्तीति सद् इत्य् अस्यार्थकथनम् । तेन रूपेण सद् विद्यमानम् इति विग्रहः । शत्रन्तश् चायम् असिः । "कर्त्तृकरणे कृता बहुलम्" [पाणिनि 2.1.32] इति च समासः । परमार्थसद् इत्य् अस्यार्थम् आख्याय तद् एवेत्य् एतद् विवृणोति य एवेति । प्रतिभासं ज्ञानस्येति प्रकरणात् । अर्थक्रियासमर्थो ऽर्थः । स्वलक्षणं चैवम् आत्मकम् इत्य् अभ्प्रायेण य एवार्थः स एवेत्य् आह । अस्तु तादृशः परमार्थसन् । स तु न तस्य विषयो ऽन्यापि वा विषयो भविष्यति । तथा च विवक्षितार्थासिद्धिर् इत्य् आह स चेति । चो ऽवधारणे प्रत्यक्षस्येत्य् अतः परो द्रष्टव्यः । तद् एतेति प्रत्यक्षविषयत्वेन स्थितं वस्त्व् एव न त्व् अनुमानविषयो ऽपीति । अनेन कस्मात् पुनः प्रत्यक्षविषय एव स्वलक्षणम् इत्य् एतत् प्रश्नविसर्जनस्योपसंहारः कृतो वेदितव्यः ॥

__________नोतेस्__________

[37] पङ्क्तिबाह्यं लिखितं न पठ्यते -- सं-

इदानीं स्वलक्षणस्यैव परमार्थसत्त्वम् असहमान आह -- कस्माद् इति । यम् अस्याशः -- स एव खलु परमार्ह्तसन्न् अर्थो य एवार्थ्त्वेनाध्यवसीयते । अनुमानविषयो ऽपि च वह्निस् तथा ऽध्यवसीयत इति सो ऽपि कस्मान् न परमा[33ब्]र्थसन्न् इति ।

अत्र -- अर्थेत्यादि यद् उत्तरं तद् अर्थ्यत इत्यादिना व्याचष्ते । चस् तुल्यबलत्वं समुच्चिनोति । हेयः कथम् अर्थ्यत इत्य् आह -- हेय इति । हिर् यस्मात् । यदि हातुम् अर्थ्यमानो ऽर्थो न तर्ह्य् उपादेयो ऽर्थ इत्य् आह -- उपादेय इति । चो हेयापेक्षयोपादेयस्यार्थ्यमानत्वं समुच्चिनोति । अर्थस्य प्रयोजनस्य दाहादेः । एवं च व्याचक्षाणः साध्यो दाहादिर् एव मुख्यवृत्त्योपादेया हेयो वा ।

[ध्प्र् p.77] तद् अर्थक्रियासामर्थ्यलक्षणम् । तस्य भावः तस्मात् । वस्तुशब्दः पर्मार्थपर्यायः । तद् अयम् अर्थः -- यस्माद् अर्थक्रियासमर्थं पर्मार्थसद् उच्यते, सन्निधानासन्निधानाभ्यां च ज्ञानप्रतिभासस्य भेदको ऽर्थो ऽर्थक्रियासमर्थः, तस्मात् स एव परमार्थसन् । तत एव हि प्रत्यक्षविषयाद् अर्थक्रिया प्राप्यते न विकल्पविषयात् । अत एव यद्य् अपि विकल्पविषयो दृश्य इव अवसीयते तथा अपि न स दृश्य एव ततो ऽर्थक्रियाय अभावात्, दृश्याच् च भावात् । अतस् तद् एव स्वलक्षणं न विकल्पविषयः । अन्यत् सामान्यलक्षणम् इ-16 अन्यद् इत्यादि । एतस्मात् स्वलक्षणाद् यद् अन्यत् ---- स्वलक्षणं यो न भवति ज्ञानविषयः ---- तत् सामान्यलक्षणम्, विकल्पज्ञानेन अवसीयमानो ह्य् अर्थः सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासं न भिनत्ति । तथा हि आरोप्यमाणो वह्निर् आरोपाद् अस्ति । आरोपाच् च दूरस्थो निकटस्थश् च । तस्य समारोपितस्य सन्निधानासन्निधानाच् च ज्ञानप्रतिभासस्य न भेदः स्फुटत्वेन अस्फुटत्वेन वा । ततः स्वलक्षणाद् अन्य उच्यते । सामान्येन लक्षणं सामान्यलक्षणम् । साधारणं रूपम् इत्य् अर्थः । समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततः तत् सामाण्यलक्षणम् । तम् एवोपादातुं हातुम् वा तत्साधनस्योपादानं हानं वा ऽन्यथा वा शक्यत इति तत्साधनभूतो वह्न्यादिर् उपादेयादिर् उपपद्यत इति दर्शयति । तस्याम् इत्यादि तस्माद् इत्य् अन्तं सुबोधम् । परमार्थसतस् तत्त्वे प्रतिपाद्ये किम् इति वस्तुनस् ताद्रूप्यम् आचार्येण दर्शितम् इत्य् आशङ्काम् अपाकुर्वन्न् आह -- वस्तुशब्द इति । तद् अयम् अर्थ इत्यादिर् न विकल्पविषय इत्य् अन्तो ग्रन्थस् तूक्तार्थोपसंहारः । स च सुज्ञानः ॥

इह प्रस्तुतस्वलक्षणापेक्षम् अन्यत्वम् आचार्यस्याभिप्रेतम् । स्वलक्षणशब्दस्य चान्यशब्दयोगात् पञ्चम्या भवितव्यम् इत्य् अभिप्रेत्य एतस्माद् इत्य् आह । अन्यत्वम् अभिव्यनक्ति -- स्वलक्षणं यो न भवतीति । शशविषाणादिव्यवच्छेदार्थम् आह -- ज्ञानविषय इति । प्रमाणविषयचिन्तायाः प्रस्तुतत्वाद् विज्ञानविषय इति लब्धम् । असिद्धिम् अस्य ततो ऽन्यत्वम्, अस्यापि स्वलक्षणकार्यकारित्वाद् इत्य् आह -- विकल्पेत्यादि । हिर् यस्माद् अर्थे ।

प्रतिभासाभेदकत्वं तस्य कुतो ऽवसीयते सर्वदा तस्य सन्निहितरूपत्वाद् असन्निहितरूपत्वाद् एव वेत्य् आह -- तथा हीति । आरोप्यमाणस् तथा प्रतीयमानः । आरोपात् तथोत्पादलक्षणाद् अध्यवसायाद् अस्ति वह्निरूपेण । आस्ताम् आरोपात् तथाभूतस् तथापि तस्य सन्निधानासन्निधान(ने) कुत इत्य् आह -- आरोपाद् इति । चो व्यक्तम् एतद् इत्य् अस्यार्थे । द्वितीयश् चकारो दूर्स्थात्वापेक्षया निकटस्थत्वस्यैकविषयत्वं समुच्चिनोति ।

तस्येत्याद्य् उच्यत इत्य् अन्तं स्पष्टार्थम् ।

[ध्प्र् p.78]

तच् च अनुमान्यस्य ग्राह्यं दर्शयितुम् आह --

सो अनुमानस्य विषयः इ-17 सो अनुमानस्य विषयः ग्राह्यरूपः । सर्वनाम्नो ऽभिधेयवल् लिङ्गपरिग्रहः । सामान्यलक्षणम् अनुमानस्य विषयं व्याख्यातुकामेन अयं स्वलक्षणस्वरूपाख्यानग्रन्थ आवर्तनीयः स्यात् । ततो लाघवार्थं प्रत्यक्षपरिच्छेद एव अनुमानविषय उक्तः । सामान्यशब्देन लक्षणशब्दस्य विग्र्हम् आह -- सामान्येनेति । सामान्येन, [न] विशेषेण सन्तानातरसाधारणं स्वरूपम्, साधनं कृतेति समासः । तस्य पदस्यार्थं स्पष्टयति । साधारणम् इति ।

विकल्पविषयस्याप्य् असाधारणत्वाद् असिद्धं व्यक्यन्तरसाधारणत्वाद् असिद्धं व्यक्त्यन्तरसाधारणत्वम् इत्य् आह -- सकलश् चासौ तार्णपार्णादिभेदभिन्नो वह्निश् चेति तथा । तत्साधारणं तथाविधलिङ्गबलेनानग्निव्यावृत्तवस्तुमात्रप्रतिभासनाद् इति भावः ।

ननु च तथाविधंसामान्यं विकल्पगोचरो ऽवस्तु । तद् विषयत्वे ऽनुमानस्य कथं बाह्ये प्रवर्त्तकत्वं तत्प्रापकत्वञ् च, यतः प्रमाण्यम् अस्य स्याद् इति चेद् । उच्यते । विकल्पाः खल्व् एते ऽनाद्यविद्यावशात् स्वप्रतिभासम् अनग्निव्यावृत्त अवस्यन्तो बाह्यो ऽप्य् अनग्निव्यावृत्त इति तद् अध्यसानम् एव बाह्यो वह्निर् अध्यवसित इति मन्यन्ते । अनग्निव्यावृत्ततया बाह्यसदृशवह्न्यध्यवसाय एव बाह्यवग्न्यध्यवसायः । ततोर् विवेकाप्रतिपत्तेः अत एव ते विकल्पा दृश्यविकल्प्याव् अर्थाव् एकीकृत्य बाह्ये लोकं प्रवर्त्तयन्ति । दृश्यविकप्यैकीकरणम् अपि तेषां तथा प्रवृत्तिहेतुतयोत्पत्तेर् एव द्रष्टव्यम् । [34अ] बाह्यसम्बद्धसम्ब्द्धत्वाच् चानुमानविकल्पः संवादकः, अध्यवसेयापेक्षया च प्रमाणम् । तद् आह न्यायवादी -- "भ्रान्तिर् अपि सम्बन्धतः प्रमा" इति । एष चार्थः स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तेर् इत्य् अत्राप्य् अपेक्षणीयः । समासतस् तु तत्रास्माभिः किञ्चिद् अवादीति । यत एवं तत् तस्माद् इत्य् उपसंहारः । तद् इति तदारोप्यमाणम् ॥

तच् चेत्यादिना सो ऽनुमानेत्य् अस्यावतारं दर्शयति । चो ऽवधारणे । ग्राह्यं रूपं स्वभावो ऽस्येति विग्रहः । एवं व्याचक्षाणो विषयशब्देन ग्राह्यो विषयो ऽभिप्रेतो ऽत्र प्रमाणव्यापारविषयो ऽध्यवसेयः स्वलक्षणस्यैव तद् अध्यवसेयत्वेन तथा व्यवस्थापनाद् इति दर्शयति । तस्य तु तत्र स्वरूपेणाप्रतिभासनाद् अग्राह्यत्वम् । प्रकाशमानं च रूपम् आश्रित्य ग्राह्यत्वम् उच्यत इत्य् उक्तप्रायम् ।

अनुमानस्यापि ग्राह्यविषयदर्शने ऽयम् अभिप्रायो यदीदम् अनुमानम् अनर्थम् अनग्निव्यावृत्तिमात्रं सामान्यरूपं गृह्णाति, तत्र तत्सामान्यरूपं किञ्चिद् अवभासेत, तदा तत्स्वलक्षणत्वेनावस्यत् स्वलक्षणं प्रवृत्तिविषयीकुर्यात् । तथाकुर्वच् च वस्तुविषयं प्रामाण्यम् अश्नुवीत नान्यथेति । स

[ध्प्र् p.79]

विषयविप्रतिपत्तिम् निराकृत्य फलविप्रतिपत्तिं निराकरुम् आह --

तद् एव च प्रत्यक्षं ज्ञानं प्रमाणफलम् इ-18 तद् एव इति । यद् एव अनन्तरम् उक्तं प्रत्यक्षं ज्ञानं तद् एव प्रमानस्य फलं । कथं प्रमाणफलम् इत्य् आह --

अर्थप्रतीतिरूपत्वात् इ-19 अर्थस्य प्रतीतिर् अवगमः, सा एव रूपं यस्य प्रत्यक्षज्ञानस्य तद् अर्थप्रतीतिरूपम् । तस्य भावः तस्मात् ।एतद् उक्तं भवति -- प्रापकं ज्ञानम् प्रमाणम् । प्रापणशक्तिश् च न केवलाद् अर्थाविनाभवित्वाद् भवति । बीजाद्यविनाभाविनो ऽप्य् अङ्कुरादेर् अप्रापकत्वात् । तस्मात् प्राप्याद् अर्थाद् उत्पत्ताव् अप्य् अस्य ज्ञानस्य अस्ति कश्चिद् अवश्यकर्तव्यः प्रापकव्यापारो येन कृतेन अर्थः प्रापितो भवति । स एव च प्रमाणफलं यदनुष्ठानात् प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात् प्रवृत्तिविषयप्रदर्शनम् एव प्रापकस्य प्रापकव्यापारो नाम । तद् एव च प्रत्यक्षम् अर्थप्रतीतिरूपम् अर्थप्रदर्शनरूपम् । अतस् तद् एव प्रमाणफलम् । इति पुंल्लिङ्गनिर्देशसमर्थनार्थम् आह -- सर्वेति । इवार्थे वति । तद्वल्लिङ्गस्य परिग्रह [इति षष्ठ्यन्तेन] विग्रहः । अत्रापि सामान्यलक्षणम् एवानुमानस्य विषय इत्य् अवधारणीयं न त्व् अनुमानस्यैवेति प्रत्यक्षपृष्ठभाविनो ऽपि विकल्पविशेषस्य तद्विषयत्वाद् अन्यथा लिङ्गनिश्चयायोगाद् इति ।

सम्प्रति प्रत्यक्षस्य विषयविप्रतिपत्तिनिराकरणे प्रकृते किम् अप्रकृतम् अनुमानस्य विषयविप्रतिपत्तिनिराकरणम् आचरितम् इत्य् आशङ्काम् अपाकर्त्तुं सामान्येत्यादिनोपक्रमते । एतच् चोक्त इत्य् एतद् अन्तं सुज्ञानम् ॥

विषयेत्यादि फलम् इत्य् एद् अन्तं सुबोद्धम् । फलप्रदर्शने चायं वार्त्तिककारस्याशयः -- प्रमाकरणं खलु लोके प्रमाणम् उच्यते । ततः करणसाध्या फलरूपा प्रमितिर् अवश्यदर्शयितव्येति ॥

ननु यस्मिन् विषये क्रियासाधनं व्याप्रियते[38]..... कथम् इति । किम् अन्यत् प्रमाणम् इति पुनर् इहोपेक्षैतम् अनेन । अर्थेतियादिप्रतिवचनं व्याचष्टे अर्थस्येति । एतच् च तस्माद् इत्य् अन्तं सुगमम् ।

__________नोतेस्__________

[38] अत्र पङ्क्तिबाह्यं किञ्चिल्लखितम् अस्ति । सूक्ष्मत्वात् न पठ्यते -- सं-

ननु संवादकं ज्ञानं प्रमाणम् । संवादश् च तदुत्पत्तिमात्रात् । तत् किम् अर्थे प्रतीतिस् तत् फलं मृग्यत इत्याशङ्क्याह -- एतद् उक्तं भवतीति ।

[ध्प्र् p.80]

अथ प्रापकत्वं प्रापणशक्तियोगात् । सा च शक्तिस् तत उत्पत्ते एव । तथा च कथं पूर्वपक्षातिक्रम इत्य् आह -- प्रापणशक्तिश् चेति । चो यस्मात् । न केवलाद् एकाकिनो ऽर्थप्रदर्शनविनाकृतात् । विवक्षितेन विना भवतीति विनाभावी ग्रहादित्वाण् णिनिः, व्यभिचारीत्य् अर्थः । अर्थेन विना भावीति "तृतीया" [पा-2.1.30] इति योगविभागात् समासः । तस्य भावस् तस्मात् । कथं पुनर् न केवलाद् इत्य् आह -- बीजाद् इति । यत एवं तस्मात् । यद्य् अपि सन्तान एव प्राप्यो न च तस्मात् तस्योत्पत्तिस् तथापि विषये ऽस्यैकत्वम् अध्यवसाय प्राप्याद् अर्थाद् उत्त्पत्ताव् अपीत्य् उक्तम् । प्रापकस्य ज्ञानस्यावश्यकर्त्तव्यः प्रतीतिक्रियारूपः । प्रापितो भवतीति पूर्ववद् योग्यत[34ब्]योच्यते । भवतु तस्य कर्त्तव्यम् अन्यत्, तथापि न तत्फलम् इत्य् आह -- स एवेति । च स्फुटम् एतद् इत्य् असिम्न्न् अर्थे ।

भवतु अवश्यकर्त्तव्यः प्रापकव्यापारः । स पुनर् अज्ञानात्म्को भविष्यति । तथा च कथं प्रतीतिः फलम् इत्य् आह उक्तम् इति । चो यमादर्थे । पुरस्तात् पूर्वस्मिन् । केनोक्तम् एतद् इति चेत् प्रवर्त्तकत्वम् अपि प्रवृत्तिविषयोपदर्शकत्वम् एवेत्यादिना । आस्ताम् अर्थप्रतीतिर् अवश्यकर्त्तव्या प्रमाणस्य तथापि कथं तद् एव प्रत्यक्षज्ञानं फलं तस्यातद्रूपत्वाद् इत्याशङ्क्य यद् अर्थप्रतीतिरूपत्वं प्रज्ञातं तद् उपपादयन्न् आह -- तदेवेति । चो यस्माद् अर्थे ।

नन्व् अर्थप्रदर्शनं कर्त्तव्यतया प्रदर्शितम् । तत् कथम् अर्थप्रतीत्याम् एकं तत् प्रदर्श्यत इत्य् आह -- अर्थप्रदर्शनरूपम् इति । अनयोर् अर्थाभेद इत्य् अभिप्रायः । यत एवम् अतो ऽस्मात् तद् एव प्रत्यक्षं ज्ञानम् एव नार्थान्तरम् इत्य् अर्थात् । प्रमाणाद् अन्यज्ञानम् एव फलं यदि स्यात्, किं स्यात्? येन यत्नेन गरीयसा प्रमाणाद् अभेदो ऽस्य साध्यत इति चेत् । उच्यते । "धीप्रमाणता, प्रवृत्तेस् तत्प्रधानत्वात्" [प्रमाणवा-1.4] इत्य् अत्राज्ञाणात्मनस् तावत् प्रामाण्यम् अपहस्तितम् । ज्ञानात्मनश् च प्रमाणस्या(स्य) भिन्ने ऽपि प्रमितिरूपे फले ऽवश्यम् अर्थपरिच्छेदात्मता ऽभ्युपेतव्या । अन्यथा ज्ञानत्वम् एव तस्य न स्यात् । प्रमाजनकत्वेन च ज्ञानत्वे चक्षुरादेर् अपि ज्ञानत्वं स्यात् । बोधरूपत्वं चास्वसंवेदनतया न नियामकम् । स्वसंवेदनरूपत्वे वा ग्राह्याकारसंवेदनम् एवार्थवेदनम् इति कह्तं भिन्नं फलम्? प्रतिकर्मव्यवस्था ऽनुपपत्तेश् च न निराकारत्वं विज्ञानस्याभ्युपेयम् । ज्ञानम् एवार्थस्य प्रकाश इति च सर्वतन्त्रसिद्धो ऽयम् अर्थः । ततो न ज्ञानस्याधिगमरूपतायां विप्रतिपत्तव्यं केनचित् । सत्यां च तदात्मतायां तद् एव फलं युज्यते, तावतैव प्रमाणव्यापारपरिसमाप्तेः ।

अपि च यदि ज्ञानस्य स्वयम् अर्थरूपपरिच्छेदरूपत्वेनार्थपरिच्छेदकत्वं न स्यात्, किन् तु भिन्नपरिच्छित्तिजनकत्वेन; तदा ऽर्थस्य परिच्छित्तेर् अपरोक्षतैव व्यवस्थापयितुं न शक्येत । तथा हि तद् आद्यं ज्ञानम् अर्थं परिच्छिनत्त्य् अर्थम् अपरोक्षयतीति को ऽर्थो ऽर्थविषयां परिच्छित्तिं जनयतीति । सा ऽपि यद्य् अर्थम् अपरोक्षयति तदा ऽपरां प्रतीतिं जनयतीति स्यात् । एवम् उत्तरत्राप्य् एवम् एवेति परिच्छित्तीनाम् आनन्त्यम्, न त्व् अर्थस्यापरोक्षतेत्य् आयातम् आन्ध्यम् अशेषस्य जगतः ।

अथ तासाम् एका स्वयम् अर्थपरिच्छेदरूपा अर्थापरोक्षतारूपोपेयते; तदा न भिन्नपरिच्छित्तिजनकत्वं परिच्छेदकत्वम् । किन् तर्हि? स्वयम् अर्थपरिच्छेदात्मत्वम् इति आद्यस्यापि तथात्वम् अनिवारितम् । तथा च कथं प्रमाणाद् व्यतिरिक्तं फलम् इति?

इह न क्रियैव करणं लोके तयोर् भेदेनावस्थितेः । या चेयं ज्ञानलक्षणा क्रिया सा चेत् फलं

[ध्प्र् p.81]

यदि तर्हि ज्ञानं प्रमितिरूपत्वात् प्रमानफलम्, किं तर्हि प्रमाणम् इत्य् आह --

अर्थसारूप्यम् अस्य प्रमाणम् इ-20 अर्थेन सह यत् सारूप्यं सादृश्यम् अस्य ज्ञानस्य तत् प्रमाणम् । इह यस्माद् विषयाद् विज्ञानम् उदेति तद्विषयसदृशं तद् भवति । यथा नीलाद् उत्पद्यमानं नीलसदृशम् । तच् च सारूप्यं सादृश्यम् आकार इत्य् आभास इत्य् अपि व्यपदिश्यते । ननु च ज्ञानाद् अव्यतिरिक्तं सादृश्यं । तथा च सति तद् एव ज्ञानं प्रमाणं तद् एव च प्रमाणफलम् । न च एकं वस्तु साध्यं साधनं च उपपद्यते । तत् कथं सारूप्यं प्रमाणम् इत्य् आह --

तद्वशाद् अर्थप्रतीतिसिद्धेर् इति इ-21 ॥ प्रत्यक्षपरिच्छेदः ॥ किम् अन्यत् प्रमाणं भविष्यति इत्य् आगूर्य पूर्वपक्षावादी यदीत्य् आह । यदीति सम्भावयति । तर्हिशब्दो ऽक्षमायाम् । तद् एव प्रत्यक्षं ज्ञानम् एवम् इति (एवेति) न क्षम्यत एतद् इत्य् अर्थः । प्रमाणस्य फलं साध्यम् । तर्हि तस्मिन् काले किम् प्रमाणम् इति योज्यम् ।

अत्रार्थसारूप्यम् इत्य् उत्तरं व्याचष्टे -- अ[35अ]र्थेनेति । अर्थेन विषयेण । विषयसारूप्यं च ज्ञान्स्य प्रत्यक्षाख्यस्य विषयसमानाकारतयोत्पादः । इहेत्यादिना सारूप्यम् एवोपपादयति । एतच् च नीलसदृशम् इत्य् अन्तम् सुबोधम् । केवलम् एवं वदतो ऽयम् आशयः -- अनेकप्राग्भावेनोदयमानम् अपि विज्ञानम् अर्थस्यैवाकारं बिभर्ति, नान्यस्येत्य् अनुबवसिद्धम् अपर्यनुयोज्यम्, सदृशत्वनिश्चयस्य ताद्रूप्येण सततम् उदयात् । यदि हि तदन्याकारो विषयः स्यात् तदा तदितरस्याकारधारि विज्ञानं कदाचिज् जन्येत् । यथा शुक्तिः कथञ्चिद् रजताकारज्ञानप्रबन्धोदये ऽपि तद्देशोपसृष्टस्य स्वाकारानुकारि ज्ञानं जनयति । न चाभ्रान्तस्य नीलज्ञानस्य कदाचिद् अप्य् अन्याकारत्वम् अस्ति । तस्माद् अर्थो ऽप्य् एवम् आकार इति निश्चीयते । बाह्यार्थे ऽर्थसारूप्यावगमे गतिर् इयम् एवेति ।

ननु चान्यत्र विषयाभासः प्रमाणम् उक्तस् तथाविषयाकारः, इह त्व् अर्थसारूप्यम् । तत् कथं न व्याघात इत्य् आशङ्क्याह -- तच् चेति । चो यस्माद् अवधारणे वा इत्य् अप्य् अनेनापि शब्देन । अर्थसारूप्यम् एव तेन तेन शब्देनाभिहितम् । ततो न व्याघात इत्य् अभिप्रायः ॥

किं तर्हि प्रमाणम् इति पृच्छता यच् चेतसि निहितम् आसीत् तद् इदानीं ननु चेत्यादिना कण्ठोक्तं करोति । एतच् च प्रमाणम् इत्य् एतद् अन्तं सुबोधम् ।

[ध्प्र् p.82] तद्वशाद् इति । तद् इति सारूप्यम्, तस्य वशात् सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिः अवबोधः । तस्याः सिद्धिः । तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशात् सिद्ध्यति प्रतीतं भवति इत्य् अर्थः । नीलनिर्भासं हि विज्ञानं यतः, तस्मात् नीलस्य प्रतीतिर् अवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानम् उत्पद्यते न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं शक्यते ऽवस्थापयितुम्[39] । नीलसदृशं तु अनुभूयमानं नीलस्य संवेदनम् अवस्थाप्यते । __________नोतेस्__________

[39] साधारणत्वाच् चक्षुरादीनाम् -- ट्- न च अत्र जन्यजनकभावनिबन्धनः, साध्यसाधनभावः, येन एकस्मिन् वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापनभावेन । तत एकस्य वस्तुनः किञ्चिद् रूपं प्रमाणम् किञ्चित् प्रमाणफलं न विरुध्यते । एतस्मिन् पूर्वपक्षे तद्वशाद् इत्याद्य् उत्तरम् आचार्यीयं विवृणोति तद् इति । तच्शब्दार्थं वशशब्दार्थं [च] स्फुटयति सारूप्येति । अर्थस्येति नीलपीताद्यात्मना विशिष्टस्येति द्रष्टव्यम् । यतः प्रमितिर् इयं विशिष्टेनैव कर्मणा ऽवच्छिन्ना प्रतीयते । अमुम् एवार्थम् -- अर्थस्येत्यादिना स्पष्टयति । सिद्धिशब्दस्यार्थम् अभिव्यनक्ति प्रतीतम् इति । प्रतीतं तन्नीलस्येदं ज्ञानं न पीतस्येत्याद्याकारेण निश्चितं भव्तीत्य् अर्थः । उक्तम् अर्थं नीलेत्यादिनोपसहरति । हिर् अवधारणे । यत एवं तत् तस्मात् नीलस्य प्रतीतिर् नीलस्यैवेदं ज्ञानम् इत्य् अवसीयते ।

ननु जनकेभ्य एवेयं ज्ञानस्य व्यवस्था भविष्यति । ते हि ज्ञाणं जनयितुं शक्ताः किम् अङ्ग निश्चायितुं न शक्नुयुः? अतश् च न सारूप्याधीनो ऽयं प्रतीतिनियम इत्य् आशङ्क्याह -- येभ्य इति । हिर् यस्मात् । एवं ब्रुवतो ऽयं भावः -- नेन्द्रियालोकौ नियामकौ । तयोः सर्वज्ञानसाधारणत्वात् । अर्थगतो ऽपि विशेषो न नियामकः । ज्ञानाद् एव हि स प्रत्येतव्यः । तदविशेषे स कथं विशेषव्यवस्थाया अङ्गं भवेद् इति । नीलसारूप्ये ऽपि यद्य् अयं न्यायस् तदा कथं तस्यापि नियमकत्वम् इत्य् आह -- नीलेति । तुर् इन्द्रियादिभ्यः सारूप्यं भेदवद् दर्शयति । नीलसदृशम् अनुभूयमानं संवेदनं ज्ञानं नीलस्य नीलस्यैवेति व्यवस्थाप्यते ।

अयम् अत्र प्रकरणार्थः -- यदि ज्ञानम् अर्थसरूपं न स्यात् किन् तु निराकारं बोधैकरूपं तदा ऽनुभवैकरूपतया तद् अविशिष्टं, परिच्छेद्यतया कर्मस्यानप्राप्ते नीलपीतादाव् इति नीलस्यैवेदं संवेदनम्, इदं पीतस्यैवेत्य् अनुभवसिद्धः प्रतिकर्मविभागो हीयेत । [35ब्] अर्थगतश् चाकारो ज्ञानाधीनप्रतिपत्तितया ज्ञानस्य विशिष्टरूपतासन्देहेन सन्दिग्धः । न च तेनैव सन्दिग्धरूपेण तद् एव सन्दिग्धं रूपं निश्चेतुं शक्यम् । ज्ञानगतश् च विशेषो ऽर्थकृतः सारूप्याद् अन्यो नोपपद्यते । सन्न् अपि न तावद् इदं तया ऽसौ निर्देष्टुं शक्यः । न चानिरूपितेन तदात्मकः कर्मनियमनिश्चयः । यद्रूपश् च यश् च कर्मनियमनिशयो ज्ञानस्य तस्मिन्न् निरूपिते कीदृशी तद्रूपताव्यवस्था? यथा

[ध्प्र् p.83]

व्यवस्थापनहेतुर् हि सारूप्यं तस्य ज्ञानस्य । व्यवस्थाप्यं च नीलसंवेदनरूपम्। व्यवस्थाप्यव्यवस्थापकभावो ऽपि कथम् एकस्य ज्ञानस्य इति चेत् । उच्यते । नीलसदृशम् अनुभूय तद् विज्ञानं यतो नीलस्य ग्राहकम् अवस्थाप्यते निश्चयप्रत्ययेन, तस्मात् सारूप्यम् अनुभूतं व्यवस्थापनहेतुः । निश्चयप्रत्ययेन च तज् ज्ञानं नीलसंवेदनम् अवस्थाप्यमानं व्यवस्थाप्यम् ।तस्माद् असारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः । अनीलबोधव्यावृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् । नीलादिर् अनिरूपिते क्षणिकत्वे तद्रूपो न निरूप्यत इति । तस्माद् यत इयम् अधिगतिर् अव्यवधानात् तत्त्वं प्रलभते तद् एवान्येनाव्यवधीयमानव्यापारं स्वभेदेन भेदकं प्रमाकरणं प्रमाणम् । न पुनर् अनेनैव व्यवधीयमानव्यापारम् इति । तच् चेदृशं सारूप्यम् एवेति । एष च वादो ऽस्माभिर् विस्तरेण विशेषाख्याने ऽभिहित इति ततो ऽप्य् अपेक्षितव्य इति ।

ननु चैवम् अप्य् एकस्यैव ज्ञानस्य साध्यत्वं साधनत्वञ् च कथम् उपपद्यते? न हि परशुर् एव छिदा भवति । ततः प्रमाणफलयोर् अभेदो नाभ्युपैतव्य इत्य् आशङ्क्याह -- न चेत्यादि । चो यस्मादर्थे । अत्रेति प्रमाणफलचिन्तायां विरोधो ऽनुपपत्तिः स्यात् । यद्य् एवम् न भवति कथं नामेत्य् आह -- अपि तु किन् तु । व्यवस्थाप्यं विशेषरूपेण नियाम्यम् । व्यवस्थाप्यते विशिष्टेनात्मना नियम्यते ऽनेनेति व्यवस्थानिमित्तम् व्यवस्थापनम् अभिप्रेतम् । व्यवस्थापनभावेनेत्य् अयं पाठो वक्ष्यमाणविरोधी । यदा तु व्यवस्थापकभावेनेति पाठो दृश्यते तदा करणे कर्त्तृभावविवक्षया तथा द्रष्टव्यम् । साध्व् असिश् च्छिनत्तीति यथा । तयोर् व्यवस्थाप्यव्यवस्थापनयोर् भावस् तथा ज्ञानाभिधाननिमित्तं रूपं तेन । इत्थंभूतलक्षणा चेयं तृतीया । यत एवं ततस् तस्माद् एकस्य वस्तुनः प्रत्यक्षलक्षणस्य ज्ञानस्य वस्तुनः किञ्चिद् रूपं व्यावृत्तिपरिकल्पितं कृतकत्वादिवत् । तत्रेयं ब्राह्यार्थे प्रमाणादिव्यवस्था । ग्राह्याकारो ऽर्थसारूप्याख्य आत्मनः संविदम् अर्थसंविदम् आदर्शयन्न् अर्थे प्रमाणम् । अत एव बाह्यो ऽर्थः प्रमेयः । वस्तुतः स्वविद् अपीयम् अर्थसम्बन्धिनी व्यवसीयमाना ऽर्थसंवित्तिः फल्म् इति ।

ननु किम् अत्र व्यवस्थापननिमित्तम्, किञ् च व्यवस्थाप्यं येनैतत् स्याद् इत्य् आह -- व्यवस्थापनेति । व्यवस्थापनं व्यवस्थाकारणम् । व्यवस्थायां प्रयोजकव्यापार इति यावत् । तस्य हेतुर् निम्त्तम् । हिर् यस्मात् । तस्य प्रत्यक्षज्ञानस्य । किन् तर्हि व्यवस्थाप्यम् इति? चो व्यवस्थापनहेतोर् व्यवस्थाप्यं भिनत्ति । नीलस्येदं नान्यस्येत्य् अनेनाकारेण यन् नीलसंवेदनं तद् रूपम् ।

एतद् असहमानो व्यवस्थाप्येत्यादिय् आह । न केवलम् एकस्य जन्यजनकभावो ऽनुपपन्न इत्य् अपिना दर्शयति । उच्यत इत्यादिना परिहरति । यतो यस्मान् निलसदृशम् अनुभूयेति वास्तवं रूपम् अनूदितम् । न तु नीलसदृशम् अनुभवामीति निश्चयो ऽस्ति । अपि तु नीलम् एवानुभवामीति नीलस्य ग्राकम् अवस्थाप्यते ।

[ध्प्र् p.84] व्यवस्थापकश् च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः । न तु निर्विकल्पत्वात् प्रत्यक्षम् एव नीलबोधरूपत्वेन आत्मनम् अवस्थापयितुम् शक्नोति । निश्चयप्रत्ययेन अव्यवस्थापितं सद् अपि नीलबोधरूपं विज्ञानम् असत्कल्पम् एव । तस्मान् निश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं नीलबोधात्मना सद् भवति । तस्माद् अध्यवसायं कुर्वद् एव प्रत्यक्षं प्रमाणं भवति । अकृते त्व् अध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलम् अर्थाधिगमरूपम् अनिष्पन्नम् । अतः साधकतमत्वाभावात् प्रमाणम् एव न स्याज् ज्ञानम् । ननु न तावता ज्ञानम् आत्मनैवात्मानं[40]तथा [36अ]व्यवस्थापयति, अनिश्चयात्मकत्वात् । न च निश्चयो ऽप्य् आत्मानं तथा ऽवस्थापयितुं पर्यवाप्नोति, स्वात्मन्य् अविकल्पकत्वात् । तत् केन तथा व्यवस्थायत इत्य् आह -- निश्चयप्रत्ययेनेति । निश्चयात्मकज्ञानेनोत्तरकालभाविना । तेनाप्य् अनुरूपेणेति द्रष्टव्यम् । तस्मात् सारूप्यम् अनुभूतं स्वसंवेदनेन प्रतीतं व्यवस्थापनहेतुर् नीलस्येदं संवेदनम्, न पीतस्येति नियमकरणस्य हेतुर् निमित्तम् । इदं च व्यवस्थापनहेतुर् हि सारुप्यं तस्य ज्ञाणस्येत्य् अस्य समर्थनम् । यदि ज्ञानस्य तस्य सारुप्यम् एवं व्यवस्थापनहेतुस् तर्हि किं कीदृशं च सद् व्यवस्थाप्यम् इत्य् आह -- निश्चयेति । चो ऽवधारणे । तद् इत्य् अस्मात् परो द्रष्टव्यः । यस्यैव नीलज्ञानस्य सारूप्यं तथोक्तं तद् एव ज्ञानं व्यवस्थाप्यं नीलस्यैवेत्याकारेण नियाम्यम् इत्य् अर्थः ।

__________नोतेस्__________

[40] "इतिकरणेनाभ्युपगमस्य स्वरूपं चेत्य् अन्तेनाभ्युपगमं दर्शयति" । इति पाठो ऽष्टमपंक्तिसम्बद्धत्वेन पंक्तिबाह्यभागे लिखितः प्रतौ दृश्यते किन् तु तस्य कुत्र निवेश इति न ज्ञायते -- सं-

कीदृशं सत् तथा व्यवस्थाप्यम् इत्य् आह -- नीलेति । पीतादिसंवेदनव्यावृत्त्या नीलस्येदं संवेदनं ज्ञानम् इत्य् अवस्थाप्यमानं निश्चीयमानम् । केनावस्थाप्यमानम् इत्य् आकाङ्क्षायां निश्चयप्रत्ययेनेति योजनीयम् । ननु किं ज्ञानात् सारूप्यं व्यतिरिच्यते येन सारूप्यं तथोक्तम्, ज्ञानं त्व् एवम् उच्यत इत्य् आशङ्क्योपसंहारव्याहेनाह -- तस्माद् इति । यस्मात् सारूप्याद् अन्यव्यवस्थापनहेतुर् न घटते, सारूप्यं च ज्ञानाद् अन्यं नोपपद्यते तस्मात् कारणात् । अयं च -- तत एकस्य वस्तुनः किञ्चिद् रूपम् इत्यादेर् उपपत्त्या प्रसाधितस्योपसंहारः ।

अयं प्रकरणार्थः । एकस्यैव ज्ञानस्य व्यावृत्तिकृतं भेदम् आश्रित्याह व्यवस्थाप्यव्यस्थापनभावः । वास्तवं चाभेदम् उपादाय प्रमाणफलयोर् अभेद उच्यते । न च काचित् क्षतिर् इति ।

सम्प्रति निश्चयप्रत्ययेनेति ब्रुवता यादृशो निश्चयो विवक्षितस् तं व्यवस्थापक इत्यादिनोपसंहारव्याजेन स्पष्टयति । व्यवस्थापयतीति व्यवस्थापकः । स च तद्बलोत्पन्नो ऽप्य् अनुरूपो द्रष्टव्यः । अननुरूपविकल्पेन व्यवस्थापितयोर् अपि व्यस्वथाप्यव्यवस्थापनयोर् अनुपपत्तेः । यथा मरीचीर् दृष्ट्वा तद्बलोत्पन्नेन विकल्पेनावस्थाप्यमानयोर् जलसारूप्यज्ञानयोर् न तथाभावः ।

[ध्प्र् p.85] जनितेन त्व् अध्यवसायेन सारूप्यवशान् नीलबोधरूपे ज्ञाने व्यवस्थाप्यमाने सारूप्यं व्यवस्थापनहेतुत्वात् प्रमाणं सिद्धं भवति । यद्य् एवम् अध्यवसायसहितम् एव प्रत्यक्षं प्रमाणम् स्यात् न केवलम् इति चेत् । न एतत् एवम् । यस्मात् प्रत्यक्षबलोत्पन्नेन अध्यवसायेन दृष्टत्वेन अर्थो ऽवसीयते, न उत्प्रेक्षितत्वेन । दर्शनाञ् च अर्थसाक्षात्करणाख्यं प्रत्यक्षव्यापारः उत्प्रेक्षणं तु विकल्पव्यापारः । तथा हि परोक्षम् अर्थं

येनाभिप्रायेण निश्चयप्रत्ययस्य व्यवस्थापकत्वम् उक्तं तम् अभिव्यनक्ति -- न त्व् इति । तुर् निश्चयात् प्रत्यक्षं भेदवद् दर्शयति । अवस्थापना ऽशक्तौ हेतुम् आह -- निर्विकल्पकत्वाद् इति ।

ननु परमार्थतो यदि तज् ज्ञानं नीलम् एव रूपतया सरूपं तदा तथानिश्चयो भवतु वा मा वा । स्वयम् एवाविकल्पकत्वे ऽपि तेन रूपेण सद्व्यय्वहारगोचरो भविष्यतीत्य् आश्ङ्क्याह -- निश्चयप्रत्ययेनेत्यादि । निशयप्रत्ययेनानुरूपेण । अननुरूपेणाक्षणिकविकल्पेनाववस्थापितस्यापि क्षणिकबोधस्य सद्व्यवहारस्य योग्यत्वात् । तेनाव्यवस्थापितम् असत्कल्पम् असत् तुल्यम् स्वविषये व्यवहारयितुम् अशक्तत्वात्[36ब्] । गच्छत्तृणज्ञानादिवत् ।

तस्माद् इत्यादिना ऽमुमर्थमुपसंहरति । यमान् निश्चयेन तथा ऽव्यवस्थापितम् असता सदृशं अभवति तस्मात् । नीलबोधात्मना नीलस्यायं बोध इत्याकारेण सद् भवति सद्व्यवहारयोग्यं भवति । यमात्स्वसामर्थ्योत्पन्नेनानुरूपेण निश्चयप्रत्ययेन व्यवस्थापितं तथा वहवति नान्यथा तस्मात् कारणाद् अध्यवसायम् अनुरूपं निश्चयं कुर्वत् । एवकरेणा ऽकारेणा ऽकरणावस्थायाः प्रमाणव्यवहारं निरस्यति । अमुम् एवार्थं व्यतिरेकमुखेन द्रढ्यन्न् आह -- अकृते त्व् इति । तुः करणावस्थां भेदवतीम् आह ।

भवतु तथा ऽव्यवस्थापितं किम् अत इत्य् आह -- तथा चेति । तस्मिंश् च तेनात्मना ऽव्यवस्थापनप्रकारे सति । तद् अनिष्पत्ताव् अपि किं न प्रमाणम् इत्य् आह -- अत इति । अतो ऽधिगतिक्रियायाः फलभूताया अनिष्पत्तेः । साधकतमत्वाभाव इति वाक्यभेदः । तस्मात् साधकतमत्वाभावात् । अर्थाधिगमलक्षणप्रमाणसिद्धौ हि साधकतमं प्रमाणम् उच्यते । सा चेन् न निष्पन्ना तर्हि किम् अपेक्ष्य साधकतमत्वम् आत्मसात्कुर्यात्, येन तज्ज्ञानं प्रमाण्यम् अश्नुवीतेति समुदार्यार्थः ।

ननु अवसायाभावे तावद् इयं गतिस् तद्भावे ऽपि यद्य् एषैव गतिस् तदा न प्रत्यक्षं नाम प्रमाणम् इत्य् आशङ्क्यान्वयमुखेनेदानीम् आह -- जनितेनेति । तुर् अजननावस्थाया जननावस्थां भेदवतीं दर्शयति । तेन तथाव्यवस्थाप्यमाने व्यवस्थापकत्वे च निमित्तम् आह -- सारूप्यवशाद् इति । सिद्धं प्रतीति भवति ।

यदि प्रत्यक्षं केवलम् असहायं प्रवर्त्तयितुम् अनीशनं नियमेन निश्चयम् अपेक्षते तर्हि तत् सहितम् एव प्रमाणं प्रसज्येतेत्य् अभिप्रायवान् प्राह -- यद्य् एवम् इति । एवम् अनन्तरोक्तं यद्य् अभ्युपगम्यते तदैवं स्यात् । चेद् इति पराभ्युपगमं दर्शयति । नेति प्रतिषेधति । एवं सत्य् एतन् न भवति । हेतुम् आह --

[ध्प्र् p.86] विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इत्य् उत्प्रेक्षात्मकं विकल्पव्यापारम् अनुभवाद् अध्यवस्यन्ति । तस्मात् स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारम् आदर्शयति यत्र अर्थे प्रत्यक्षपूर्वको ऽध्यवसायस् तत्र प्रत्यक्षं केवलम् एव प्रमाणम् इति ॥। [41]आचार्यधर्मोत्तरचितायां न्यायबिन्दुटीकायां प्रत्यक्षपरिच्छेदः प्रथमः ॥ __________नोतेस्__________

[41] प्रमाणम् इति न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः ॥ मङ्गलम् अस्तु ॥ अ. ॥ प्रमाणम् इति आचार्यधरोत्तरविरचितायां न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः ॥ मङ्गलम् अस्तु ॥ c.

यस्माद् इति । दृश्यत्वेन दर्शनविशिष्टत्वेन । प्रकारान्तरं निरस्यति नेति । उत्प्रेक्षितत्वं साक्षात्करणाभिमानशून्यज्ञातृत्वम् ।

ननु विकल्पव्यापारो दर्शनम् । ततः स्वव्यापारविशिष्टार्थाध्यवसाने तस्य का क्षतिर् इत्य् आशङ्क्याह -- दर्शनञ् चेति । चो यस्मादर्थे । यद्य् एवं कस् तर्हि विकल्पव्यापार इत्य् आह -- उत्प्रेक्षणम् इति ।

एतद् एव तथा हीत्यादिना ऽवस्यन्तीत्य् अनेन (-त्य् अन्तेन) ग्रन्थेन समर्थयति ।

भवत्व् एवं तथापि कथं प्रत्यक्षस्य केवलस्य प्रामाण्यं न तु विकल्पस्यापीत्य् आशङ्क्योपसंहारापदेशेनाह -- तस्माद् इति । एतच् च सुबोधम् ।

एवम् अभिधाने चायम् अस्याशयो बोद्धव्यः । स्यात् खलु विकल्पस्यापि प्राणण्यं यद्य् असौ स्वव्यापारयुक्त एव प्रत्यक्षस्य साहाय्यं भजते । न चायं तथा व्याप्रियते । स्वीकृतप्रत्यक्षव्यापारस्यैव प्रवृत्तिदर्शनात् । स च दर्शनलक्षणो व्यापारः प्रत्यक्षेणैव सम्पादित इति कथम् अयम् अपि पिष्टपेषणकारी प्रामाण्यं प्रतिलभेत ।

अथ प्रत्यक्षं तावत् स्वप्रामाण्यव्यवहाराय तम् अपेक्षते । ततः सो ऽपि प्रमाणम् एवेति मतिस् तर्हि पिता पितृव्यवहारायावश्यं पुत्रम् अपेक्षत इति पुत्रो ऽपि पिता प्रसज्यत इति कृतम् अतार्किकवचनविचारणयेति सर्वम् अवदातम् ॥

॥ पण्डितदुर्वेकविरचितधर्मोत्तरनिबन्धस्य धर्मोत्तरप्रदीपसंज्ञितस्य प्रथमः परिच्छेदः ॥

[ध्प्र् p.87] इइ क् अ प् इ त् ए ल् द्वितीयः स्वार्थानुमानपरिच्छेदः । एवं प्रत्यक्षं व्याख्याय अनुमानं व्याख्यातुम् आह --

अनुमानं द्विधा इइ-1 अनुमानं द्विधा द्विप्रकारम् । अथ अनुमानलक्षणे वक्तव्ये किम् अकस्मात् प्रकारभेदः कथ्यते । उच्यते । परार्थानुमानं शब्दात्मकम्, स्वार्थानुमानं तु ज्ञानात्मकम् । तयोर् अत्यन्तभेदात् न एकम् लक्षणम् अस्ति । ततस् तयोह् प्रतिनियतं लक्षणम् आख्यातुं प्रकारभेदः कथ्यते । प्रकारभेदो हि व्यक्तिभेदः । व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् । न अन्यथा । ततो लक्षणनिर्देशाङ्गम् एव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथनम् अन्तरेण लक्षणनिर्देशस्य ज्ञात्वा प्राक् प्रकारभेदः कथ्यत इति । प्रत्यक्षानुमानभेदेन द्वैधं प्रमाणम् उद्दिष्टम् । तत्र व्याख्यातं प्रत्यक्षम् । यथोद्देशम् अधुना ऽनुमानं व्याख्यातुम् अवसरप्राप्तम् इत्य् अभिसन्धायाह -- एवम् इति । एवम् अनन्तरोक्तेन चतुर्विधविप्रतिपत्तिनिराकरणप्रकारेण । प्रकारे धाप्रत्ययो ऽयम् इति दर्शयन्न् आह -- द्विप्रकारम् इति ।

ननु चानुमानस्य लक्षणं वक्तुकामेनास्य लक्षणम् एव वक्तव्यम् । तत् किम् इदम् अप्रस्तुताभिधानम् आस्थीयत इति पूर्वपक्षम् -- अर्थेत्यादिनोत्थापयति । अथशब्दो ऽत्र प्रश्ने । अकस्माद् इति निपातो निर्निमित्तवचनः । उच्यत इत्यादिना परिहरति । तयोर् ज्ञानाभिधानात्मनोः । एकम् इति साधारणम् । यथा चतुर्णाम् अपि प्रत्यक्षाणां ज्ञानरूपत्वाद् एकं कल्पनापोढत्वादिसाधारणं लक्षणं सम्भवति, तथा यदि स्यात् प्रत्यक्षवल् लक्षणम् एव प्रथमम् उक्तं स्याद् इति भावः । प्रतिनियतं प्रातिस्विकम् । प्रकारस्य भेदो नानात्वम् ।

ननु प्रतिव्यक्तिनियतं लक्षणं व्यक्तिविशेषोपदर्शनं विना न शक्यते दर्शयितुम् इति व्यक्तिभेद एव कथयितव्यः । तत् किं प्रकारभेदः कथ्यत इत्य् आह -- प्रकारेति । हिर् यस्मात् । यदि तस्मिन् दर्शिते ऽपि प्रतिनियतलक्षणाख्यानं न शक्यं तर्हि किं तेन कथितेनेत्य् आह -- व्यक्तीति । चो यस्मादर्थे । प्रतिशब्दो ऽत्र नियतार्थवृत्तिः, तेन प्रति विशिष्टा व्यक्तिस् तत्र नियतम् इति,

[ध्प्र् p.88]

किम् पुनस् तद् द्वैविध्यम् इत्य् आह --

स्वार्थं परार्थं च इइ-2 स्वस्माय् इदं स्वार्थम् । येन स्वयम् प्रतिपद्यते तत् स्वार्थम् । परस्माय् इदं परार्थम् । येन परम् प्रतिपादयति तत् प्ररार्थम् । स्प्तमी [पाणिनि 2.1.40] इति योगविभागात् समासः । यद् वा नियतं विशिष्टं लक्षणां न शक्यं वक्तुम् । क्व च नियतम् इत्य् आशङ्क्योक्तं -- प्रतिव्यक्तीति । व्यक्तौ व्यक्ताव् इत्य् अव्ययीभावः । यस्माद् अन्यथा प्रतिनियतलक्षणाख्यानस्याशक्यत्वं ततस् तस्मात् । लक्षणनिर्देशाङ्गम् एवेति लक्षणनिर्देशनिमित्तम् एव ।

एतेन यच् चोद्यते "लक्षणमात्रे कथिते विशिष्टलक्षणम् अनुमानम् एकम् अनेकं वा ऽस्तु । किं तस्य प्रकारभेदकथनेन" इति तत् परिहृतम् । यदि हि साधारणं लक्षणम् अभिप्रेत्येदम् उयते तदा तन् नास्तीति किं कथ्येत । अथ विशिष्टं लक्षणं तद् अपि व्यक्तिभेदकथनम् अन्तरेण वक्तुं यदि शक्येत किं न कथ्य्त । केवलम् इदम् एव नास्तीति । अत एवादाव् एव तद् अभिधानं न्याय्यम्, न तु पश्चाद् इति दर्शयितुम् आह -- अशक्यताम् इति । तद् अन्यतरेण लक्षणनिर्देशस्याशक्यतां ज्ञात्वा । चो ऽअवधारणे । प्राग् लक्षणकथनात् पूर्वम् ।

स्याद् एतत् -- स्वार्थानुमानम् एवंलक्षणं परार्थानुमानम् एवंलक्षणम् इति किं विशिष्टं लक्षणं न शक्यते वक्तुम्? एवम् अपि किम् अनुमानद्वैतं नावेदितं भवति येन ससंख्येया संख्या -- अनुमानं द्विधा स्वार्थं परार्थं चेत्य् उच्यत इति? सत्यम् एतत् । केवलं नियमार्थम् एतद् विभागवचनम् इति ब्रूमः । अनुमानं द्विधा -- द्विधैवैवम् आत्मकम् इति कथं नाम[37ब्] प्रतीयेतेति । इतरथेह तावद् एतावद् एव व्युत्पाद्यतया प्रस्तुतम्, अन्यत्र पुनर् अन्यद् अप्य् अनुमानं व्युत्पाद्यम् अस्तीत्य् आशङ्का नाहत्य निराकृता स्याद् इति ॥

पूर्ववच्छेषवदादिरूपेण अन्यथा ऽपि द्वैविध्यसम्भवात् संशयानः पृच्छति -- किं पुनर् इति । किम् इति सामान्यात् पृच्छति । पुनर् इति विशेषतः ।

स्वार्थशब्दस्य विग्रहं दर्शयति -- स्वस्माय् इति । अर्थशब्देन नित्यसमासाद् अस्य पदविग्रहम् आह । इदम् इत्य् अनुंआनन् । स्वार्थम् इति समस्तपदनिर्देश एषः । अस्य चात्मप्रतिपत्तिः प्रयोजनम् इत्य् अर्थः । अमुम् एवार्थं स्फुटयन्न् आह -- येनेति । येनानुमानेन करणभूतेनानुमाता स्वयं प्रतिपद्यते परोक्षम् अर्थम् इति शेषः, प्रकरणलभ्यं वा । तत् स्वार्थज्ञानम् आत्मप्रतिपत्तिप्रयोजनम् इति यावत् ।

अयम् आशयः -- त्रिरूपलिङ्गस्य ज्ञानं यस्य सन्तान उत्पद्यते तत् तदर्थम् एव । तेना ऽन्यस्याप्रतिपत्तेः । ततः स्वार्थम् उच्यते । न तु किञ्चिज् ज्ञानं क्वचित् पुंसि नियतम् अस्ति । यद् अपेक्षयाष् स्वार्थम् उच्येत । येन स्वयं प्रतिपद्यत इति ब्रुवतश् चायम् अभिप्रायः । यद्य् अपि प्रतिपत्तिर् अनुमानज्ञानात्मिका तथाप्य् एकस्यापि व्यवस्थाप्यव्यवस्थापनभावेन क्रियाकरणभेदो दर्शित इति सारूप्यभागः करणम् अनुमानम्, अधिगमरूपा फलावस्था प्रतिपत्तिर् इति ।

[ध्प्र् p.89]

तत्र स्वार्थं त्रिरूपाल् लिङ्गाद् यद् अनुमेये ज्ञानं तद् अनुमानम् इइ-3

तत्र तयोः स्वार्थपरार्थानुमानयोर् मध्ये स्वार्थं ज्ञानं किं विशिष्टम् इत्य् आह -- त्रिरूपाद् इति । त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणानि तत् त्रिरूपम् । लिङ्ग्यते गम्यते ऽनेन अर्थम् इति

परार्थम् इत्य् अस्य विग्रहम् आह -- परस्माय् इति । पूर्ववद् अस्य पदविग्रहः । परराथम् इति समस्तं पदम् उक्तम् । अस्य च परप्रतिपत्त्ः प्रयोजनम् इत्य् अर्थः । अमुम् अर्थं येनेति । येन वाक्येन करणेन परं प्रति वाच्यं प्रतिपाद्यति परोक्षम् अर्थं बोधयति तत् त्रिरूपलैङ्गाख्यानं वाक्यं परार्थम् अनुमानम् ।

अत्राप्य् अयम् अस्याभिप्रायः -- यद्य् अपि अभिधानरूपम् अप्य् अनुमानं न नियतं पुंसि तथा ऽपि तत् परार्थम् एव । तथा हि यद् यद् उद्दिश्य प्रवर्त्तते तत् तद् अर्थम् उच्यते । परम् उद्दिश्य प्रवर्त्तते च शब्दो नात्मानम् । अतो नानवस्थितपारार्थ्यः शब्दः । प्रयोक्तृसमीहाविष्यस्यार्थस्य पर एव प्रयोजको यस्माद् इति । परोक्षार्थप्रतिपत्तिफलत्वेन पारम्पर्येणाविशिष्टविषयत्वे ऽपि स्वार्थाद् अस्य पृथग्वचनम्, साक्षाद् अनयोर् व्यापारभेदाद् इति च द्रष्टव्यम् ।

ननु च परार्थानुमानोत्पादकवाक्यवद् अस्ति किञ्चिद् वाक्यं यत् परप्रत्यक्षोपयोगि । यथा `एष कलभो धावतिऽ वाक्यम् । अतः परार्थानुमानवत् परार्थं प्रत्यक्षं किं न व्युत्पाद्यत इति? अत्रोच्द्यते -- परोक्षार्थप्रतिपत्तेर् या सामग्री -- लिङ्गस्य पक्षधर्मता साध्यव्याप्तिश् च -- तदाख्यानाद् वाक्यम् उपचारतः परार्थानुमानम् उच्यते । न तु तत्र कर्थञ्चिद् अङ्गभावमात्रेण, स्वास्थ्यादेर् अपि तथा प्रसङ्गात् । इदं पुनः `अयं कलभःऽ इत्यादिवाक्यं न प्रत्यक्षोत्पत्तेर् या सामग्रीन्द्रियालोकादि तदभिधानात् तन्निमित्तं भवत् तथा व्यपदेशम् अश्नुते येन व्युत्पाद्यताम् अप्य् अश्नुवीत । किं तर्हि? कस्यचिद् दिदृक्षामात्रजननेन । यथा कथञ्चित् परप्रत्यक्षोत्पत्ताव् अङ्गभावमात्रेण ताद्रूप्ये नेत्रोत्सवे वस्तुनि सन्निहिते ऽपि कथञ्चित् पराङ्मुखस्य परेण यद् अभिमुखीकरणं [38अ]शिरसस् तद् अपि वचनात्मकं परार्थप्रत्यक्षं व्युत्पादयितुर् व्युत्पाद्यम् आपद्येत । एतच् च कः स्वस्थात्मा मनसि निवेशयेत् । किञ् च भवतु तथाविधं वचनं परार्थं प्रत्यक्षम् । किं नश् छिन्नम्? तस्यापि व्युत्पादनार्थस्याव्युत्पादनात् प्रमाद एव महती क्ष्तिर् इति चेत् । न तथारूपस्य व्युत्पादनम्, अविप्रतिपत्तेः । विप्रतिपत्तिनिराकरणेन हि स्वरूपप्रतिपादनं व्युत्पादनम् । न तु केचित् तथाविधे वचने परार्थप्रत्यक्षोपयोगिनि विप्रतिपद्यन्ते । येन तद् अपि व्युत्पाद्येत । परार्थानुमाने[42]............... वस्तु प्रतिपद्यमाना अपि तद्धर्मव्याप्तिव्यतिरेकाभ्यां निगदन्तो दृष्टाः, अविनाभावावचनात्, उपनयसाध्यतदावृत्तिवचनानाञ् च प्रयोगाद् इति तद् व्युत्पाद्यते । यदि तु तत्रापि न विप्रतिपद्येरन् परे तदा तद् अपि नैव व्युत्पादितं स्याद्, इत्य् अलम् अतिविस्तरेण ॥

__________नोतेस्__________

[42] अस्पष्टम् -- सं-

इह यथैव स्वयं प्रतिपन्नः परोक्षार्थस् तथैव परस्मै पर्तिपाद्यत इति स्वार्थाणुमानपूर्वकत्वात् प्ररार्थानुमानस्य प्रथमं स्वार्थानुमानम् उक्तम् । यथोद्देशम् एव च लक्षणप्रणेयम् इति स्वार्थानुमानस्यैवं

[ध्प्र् p.90] लिङ्गम् । तस्मात् त्रिरूपाल् लिङ्गात् यत् जातं ज्ञानम् इति । एतद् हेतुद्वारेण विशेषणम् । तत् त्रिरूपात् च लिङ्गात् त्रिरूपलिङ्गालम्भनम् अप्य् उत्पद्यत इति विशिनष्टि -- अनुमेय इति । एतच् च विषयद्वारेण विशेषणम् । त्रिरूपाल् लिङ्गात् यद् उत्पन्नम् अनुमेयालम्भनम् ज्ञानम् तत् स्वार्थम् अनुमानम् इति ।

लक्षणविप्रत्तिम् निराकृत्य फलविप्रतिपत्तिं निराकर्तुम् आह --

प्रमाणफलव्यवस्था अत्र अपि प्रत्यक्षवत् इइ-4

प्रमाणस्य यत् फलं तस्य वा व्यवस्था सा अत्र अनुमाने ऽपि प्रत्यक्ष इव प्रत्यक्षवत् वेदितव्या ।

लक्षणं तत्रेत्यादिना ऽऽदित उपदिष्टम् आचार्येण तद् व्याचष्टे तत्रेति । स्वार्थपरार्थानुमानसम्दायात् स्वार्थानुमानं स्वार्थत्वजात्या निर्धायते । तस्मात् त्रिरूपाल् लिङ्गाद् यज् जातम् इति व्याचक्षाणो मूले त्रिरूपाल् लिङ्गाद् इति या पञ्चमी सा गम्यमानजनिक्रियापेक्षया "जनिकर्त्तुः प्रकृतिः" [पाणिनि 1.4.30] इत्य् अनेन लब्धापादानसंज्ञकाद् अपादान एवेति दर्शयति । हेतुद्वारेण जनकमुखेन । त्रिरूपाल् लिङ्गाद् इति चाचक्षाणेनाचार्येणैकद्विपदव्युदासेन षट्पक्षीं प्रतिक्षिप्य सप्तमपक्षपरिग्रहेण लिङ्गस्य लक्षणम् अभिप्रेतं प्रकाशितम् इति । यथा चैतत् तथा भट्टार्चटनिबन्धनम् अर्चटालोकसंज्ञितं विधास्यन्तो विस्तरेण स्पष्टयिष्यामः ।

औमेयग्रहणस्य व्यावर्त्त्यं दर्शयति -- त्रिरूपाच् चेति । चो यस्मादर्थे । इतिर् हेतौ । त्रिरूपलिङ्गालम्बनम् इति धूमं दृष्ट्वा सर्वत्रायं वह्निनान्तरीयक इति ज्ञानं वाच्यम् । तद् धि परम्परया त्रिरूपाल् लिङ्गाज् जातम् इति । इतिना विशेषणस्य स्वरूपम् उक्तम् । विशेषितम् एव ज्ञानम् । किम् पुनर् विशिष्यत इत्य् आह -- एतच् चेति । चो यस्मात् । विषयद्वारेणावसीयमानविषयद्वारेण विशेषणं व्यवच्छेदकम् ।

अवयवार्थं व्याख्याय समुदायार्थं त्रिरूपेत्यादिना व्याचष्टे । अनुमेयो धर्मधर्मिसमुदायः आलम्ब्यत इत्य् आलम्बनं यस्येति विग्रहः । इतिर् वाक्यार्थपरिसमाप्तौ एवम् अर्थः सन् नापरेण सम्बद्ध्यते -- एवम् उक्तेन पकारेणा लक्षणविप्रतिपत्तिं निराकृत्येति ॥

ननु च प्रमाणस्य फलम् इति यद्य् आचार्यस्य विवक्षितं धर्मोत्तरेण चैवं व्याख्यायते तदा प्रमाणभागव्यवस्थायां किम् उक्तम् आचार्येण, धर्मोत्तरेणापि `नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्ऽ इत्य् उपरिष्टात् [पृ-91] किम् इति दर्शयिष्यते इति चेत् । नैष दोषः । न हि प्रमानस्येत्यादिना

[ध्प्र् p.91] यथा हि नीलसरूपं प्रत्यक्षम् अनुभूयमानं नीलबोधरूपम् अवस्थाप्यते, तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्, नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम्; तद्वद् अनुमानं नीलाकारम् उत्पद्यमानं नीलबोधरूपम् अवस्थाप्यते, तेन नीलसारूप्यम् अस्य प्रमाणम्, नीलविकल्पनरूपं त्व् अस्य प्रमाणफलम् । सारूप्यवषाद् धि तन् नीलप्रतीतिरूपम् सिद्ध्यते । न अन्यथा इति । एवम् हि संख्यालक्षणफलविप्रतिपत्तयः । प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्तिं निराकृता । लक्षणनिर्देशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम् । तद् एव व्याख्यातुम् आह --

त्रैरूप्यं पुनर् लिङ्गस्य अनुमेये सत्त्वम् एव सपक्ष एव सत्त्वम्, असपक्षे च असत्त्वम् एव निश्चितम् इइ-5

त्रैरूप्यम् इत्यादि । लिङ्गस्य यत् त्रैरूप्यं यानि त्रीणि रूपाणि तत् इदम् उच्यते इति शेषः । किं पुनस् तत् त्रैरूप्यम् इत्य् आह -- अनुमेयं वक्ष्यमाणलक्षणम् । तस्मिन् लिङ्गस्य सत्त्वम् एव निश्चितम् -- एकं रूपम् । यद्य् अपि च अत्र निश्चितग्रहणम् न कृतं तथा अपि अन्ते कृतं प्रक्रान्तयोर् द्वयोर् अपि रूपयोर् अपेक्षणीयम् । यतो न योग्यतया लिङ्गं परोक्षज्ञानस्य निमित्तम् । यथा

मौलस्य प्रमाण्शब्दस्य फलशब्देन विग्रहो दर्शितः । किन् त्व् [38ब्] अर्थप्रदर्शनं कृतम् । एतच् चोपलक्षणं तेन फलस्य साधनं च यत् तस्यापि या व्यवस्था सा ऽपि गृह्यते । मूले तु द्वन्द्वसमास एवाभिप्रेतो वार्त्तिककारस्य । पूर्वनिपातविधेश् चानित्यत्वात् न फलशब्दस्य पूर्वनिपातः । अत एव निश्चयः -- "न पर्माणफलयोर् विषयभ्देदः" इति ।[43]..... लक्षणगोचरफलविषय । नीलसारूप्यम् अस्पष्टनीलसारूप्यम्, अनुमान्स्यापरोक्षीकरणाभावात्, विजातीयमात्रव्यावृत्तस्यानुमानेन प्रतीतेः । नीलप्रतीतिरूपं नीलविकल्पनरूपं सिद्ध्यति निश्चीयते ॥

__________नोतेस्__________

[43] पङ्क्तिबाह्यं लिखितं न पष्ठ्यते -- सं-

ननु सङ्ख्यालक्षणफलविप्रतिपत्तय एवानुमानस्य निराकृता, न तु विषयविप्रतिपत्तिर् इत्य् आह -- एवम् इति । एवम् अनन्तरोक्तेन प्रकारेण इहानुमानपरिच्छेदे निराकृता इति शेषः, वक्ष्यमाणं वा नीराकृतेति पदं वचनविपरिणामेन सम्बन्धनीयम् ।

त्रैप्रूयम् इत्यादिग्रन्थस्य यत उत्थानम्, तत् लक्षणेत्यादिना दर्शयति । प्रसङ्गेन प्रस्ताव् एन यानि त्रीणि रूपाणि तान्य् एव तथेत्य् आवेदयति । तत् इदं त्रैरूप्यम् इति प्रकृतत्वात् शेषो ऽध्याहारः । अबाधितविषयत्वाद्यनेकरूपसम्भवे पृच्छति किं पुनर् इति । किम् इति सामान्यतः पृच्छति । पुनर् इति विशेषतः । कस्मात् पुनस् तद् अपेक्षनीयम् इत्य् आह --यत इति । परोक्षो यो ऽर्थस् तस्य यज्ज्ञानं तस्य । बीजं वैधर्म्यदृप्टान्तः । कस्मान् न तथेत्य् आह -- अदृष्टाद् इति । अप्रतिपत्तेः परोक्षार्थस्येति प्रकरणात् । यद्य् अज्ञातं । लिङ्गं न परोक्षज्ञाननिमित्तं तर्हि पक्षधर्मतया ज्ञातम् एवास्तु परोक्षप्रकाशनं

[ध्प्र् p.92] बीजम् अङ्कुर्स्य । अदृष्टाद् धूमाद् अग्नेर् अप्रतिपत्तेः । नापि स्वविषयज्ञानापेक्षं परोक्षार्थप्रकाशनम् । यथा प्रदीपो घटादेः । दृष्टाद् अप्य् अनिश्चितसम्बन्धाद् अप्रतिपत्तेः । तस्मात् परोक्षार्थनान्तरीयकतया निश्चयनम् एव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः । न अपरः कश्चित् । अतो ऽन्वयव्यतिरेकपक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वाद् अवश्यकर्तव्य इति सर्वेषु रूपेषु निश्चितग्रहणम् अपेक्षणीयम् । तत्र सत्त्ववचनेन असिद्धं चाक्षुषत्वादि निरस्तम् । एवकारेण पक्षैकदेशासिद्धो निरस्तः । यथा चेतनास् तरवः स्वापाद् इति । पक्षीकृतेषु तरुषु पत्रसङ्कोचलक्षणः स्वाप एकदेशे न सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसङ्कोचभाजः किन् तु केचिद् एव । सत्त्ववचनस्य

तत् किम् अन्वयव्यतिरेकनिश्चयेन तस्य? इत्य् आशक्याह -- नापीति । लिङ्गम् इति सम्बध्यते । प्रदीपो ऽपि दृष्टा[द्] अनिश्चिताद् अपि । न केवलम् अदृष्टाद् इत्य् अपिशब्दः । यत एवं तस्माद् हेतोः । अन्तरं व्यवधानम्, न तथा नान्तरम् । "नभ्राड्" [पाणिनि 6.3.71] इत्यादिसूत्रे नेति योगविभागान् नलोपाभावः । नान्तरे भव इति गहादित्वाच् छ । ततः स्वार्थिकः कन् । परोक्षस्य वह्न्यादेर् नान्तरीयको ऽविनाभावीतस्य भावस् तत्ता तया निश्चयनम् -- सर्वत्रायम् एतद् अविनाभावीति विकल्पनम् । लिङ्गस्य गमकस्य व्यापृतं रूपं व्यापारः । तथा निश्चयारूढस्यैव रूपस्य लिङ्गत्वात् । एवकारेण व्यवच्छिन्नम् एवान्यस्य तद् व्यापाराररूपत्वं स्पष्टार्थं नापर इत्य् अनेनानूदितम् । यत् पुनर् अत्राप्य् अयम् एतन् नान्तरीयक इति ज्ञाणं तद् अनुमानज्ञानम् इति ज्ञेयम् । पूर्वकं तु लिङ्गज्ञानम् इति । अतः सत्त्वेनानिश्चिताल् लिङ्गाद् अनिश्चितसम्बन्धाच् चाप्रतिपत्तेः कारणाद् अन्वयादिनिश्चियो ऽवश्यकर्त्तव्यः । तथापि कथं कर्त्तय इत्य् आशङ्क्य व्यतिरेकमुखेणोक्तम् एव हेतुम् अन्व्ययमुखेनापि दर्शयन्न् आह -- लिङ्गेति । लिङ्गव्यापारस्य परोक्षप्रतिपादने गमकव्यापारस्यात्मा स एव तथेति स्वार्थिकः कन् कर्त्तव्यः । तस्य भावस् तस्माद् इति हेतुपदं कृट्वा ऽयम् उपसंहारः । सर्वेष्व् अनुमेयसत्त्वादिषु रूपेषु लक्षणेषु । [39अ]

सम्प्रत्य् एकैकस्य रूपस्य यद् व्यावर्त्त्यं तत् क्रमेण दर्शयितुम् आह -- तत्रेति । आदिग्रहणाद् व्यधिकरणासिद्धविशेषणासिद्धविशेष्यासिद्धानां सङ्ग्रहः । अमीषाम् अपि स्वरूपासिद्ध एकान्तर्भावात् । यथा तु प्रभेदो यथा वान्तर्भावस् तथोपरिष्टाद् वक्ष्यामः । केचिद् एव तिन्तिङ्काप्रभृतयः ।

अथापि स्यात् स्वापवत् धूमो ऽप्य् अयम् एकदेशासिद्ध एव । तथा हि पर्वतादिर् इह पक्षस् तत्र च क्वचिद् एव देशे सिद्धो न सर्वत्र । न च पर्वतादिर् एको ऽवयव्यभ्युपगतः । अथैवंविधो ऽपि पक्षव्यापक उच्यते तर्हि स्वापेन किम् अपराद्धं येनासाव् एवैको न युक्त इति ।

[ध्प्र् p.93] पश्चात् कृतेन एवकारेण असाधारणो धर्मो निरस्तः । यदि हि अनुमेय एव सत्त्वम् इति कुर्यात् श्रावणत्वम् एव हेतुः स्यात् । निश्चितग्रहणेन सन्दिग्धासिद्धः सर्वो निरस्तः । सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्न् एव सत्त्वम् निश्चितम् इति द्वितीयं रूपम् । इह अपि

अत्र केचिद् एवं प्रतिविदधति । जिञासितधर्मविशेषवत्त्वेन हि रूपेण पक्ष उच्यते । यश् चासौ पर्वतादिस् तत्र न वह्निर् जिज्ञासितः । किन् तर्हि? यत्र तत्रोद्देशे । तत्रैकदेशस्थधूमदर्शने ऽप्य् एकदेशवह्निर् जिज्ञासितो ज्ञायत इति किं सर्वपर्वतव्यापिना धूमेन कार्यम्? यदि पुनः सर्वत्रैव वह्निमत्त्वं जिज्ञासितं स्यात्, स्याद् एवायं पक्षैकदेशासिद्धः । न चैतद् एवम् । ततः कथम् अस्य तथात्वं? अत्र पुनः सर्वेषाम् एव तरूणां चैतन्यं जिज्ञासितम् इति सकलपादपव्यापिनैव स्वापेन प्रयोजनम् । यथा वेदस्य सर्वस्यैव पौरुषेयत्वे साध्ये सकलाम्नायव्यापकेनैव वाक्यत्वेन पर्योजनम् । न चायं सर्वान् व्याप्नोति । ततः पक्षैकदेशासिद्ध उच्यते ।

एके तु -- लोकाध्यवसायसिद्धं महीधरादेर् एकत्वम् अवलम्ब्यायं व्यवहारः, न च सर्वेषां तरूणां तथैकत्वं लोको ऽध्यवस्यति, येन स्वापस्यापि तथा सिद्धिर् भवति, ततः किम् अवद्यं नामेति प्रतिपन्नाः ।

अथाभिधीयते -- यदि कश्चित् तिन्तिङ्काप्रभृतीन् एव पादपान् पक्षयित्वा स्वापं हेतूकरोति, तदा ऽयं न पक्षैकदेशासिद्ध इति किं न साधयेच् चैतन्यम् इति ।

असद् एतत् -- विकल्पानुपपत्तेः । यदि सर्वजनप्रसिद्ध इन्द्रियव्यापारविरोध्यवस्थाविशेषः स्वापो निद्रापरनामा हेतुर् अभिप्रेतस् तदा ऽयं तेष्व् अपि तरुष्व् अस्द्ध इति कथं चैतन्यम् अनुमापयेत्?

अथ येन केनचिद् उपाधिना स्वापशब्दमात्रवाच्यो ऽर्थो हेतुः; तथाविधस्य स्वापस्य चैतन्येन व्याप्त्यसिधेः सन्दिग्धविपक्षव्यावृत्तिकतया ऽनैकान्तिकः ।

"षष्ठ्य् अतसर्थप्रत्येयन" [पाणिनि 2.3.30] इत्य् अनेन पश्चाच्छब्दयोगे सत्त्ववचनात् षष्ठी । असाधारणः सपक्षासपक्षसाधारणो यो न भवति । पक्षस्यैव यो धर्म इति यावत् । निरस्तो हेतुत्वेन प्रतिक्षिप्तः । पूर्वावधारणे तु नायं निराकृतः स्याद् इति दर्शयति यदीति । हिर् यस्मात् । अयम् अस्याशयः -- यद्य् अनुमेय एव सत्त्वं यस्येति लक्षणं स्यात् तदा सपक्ष एव सत्त्वम् इति वचनम् अतिरिच्यमानं लक्षणान्तरं भविष्यति । व्याघात एव वा भविष्यतीति । निश्चितग्रहणस्येहापेक्षितस्य व्यवच्छेद्यं दर्शयति -- निश्चितेति । सन्दिग्धश् चासाव् अस्य हेतुत्वेन विशेषणत्वेन चासिद्धो ऽनिश्चितशब्देति विग्रहः । सन्दिघविशेषणासिद्धः, सन्दिग्धविशेष्यासिद्धश् च सन्दिग्धासिद्ध एवान्त[39ब्]र्भवतीति, सो ऽप्य् अनेनैव निरस्तः । यथा ऽनयोर् भेदो यथा चान्तर्भावस् तथा परस्तात् प्रदर्शयिष्यामः । इहाश्रितत्वादार्थेन न्यायेन हेतुसत्त्वस्य विशेषणरूपत्वाद् अनेन सहोदिति(त) एवकारो धर्मायोगस्य व्यवच्छेदको द्रष्टव्यः ।

[ध्प्र् p.94] सत्त्वग्रहणेन विरुद्धो रिरस्तः । न हि नास्ति सपक्षे । एवकारेण साधारणानैकान्तिकः । स हि न सपक्ष एव वर्तते किन् तु उभयत्र अपि । सत्त्वग्रहणात् पूर्वावधारणवचनेन सपक्षाव्यापिसत्ताकस्य अपि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् । पश्चादवधारणे त्व् अयम् अर्थः स्यात् -- सपक्षे सत्त्वम् एव यस्य स हेतुर् इति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । निश्चितग्रहणेन सन्दिग्धान्वयो ऽनैकान्तिको निरस्तः । यथा सर्वज्ञः कश्चिद् वक्तृत्वात् । वक्तृत्वं हि सपक्षे सन्दिघ्दम् । असपक्ष व्यक्ष्यमाणलक्षणः । तस्मिन्न् असत्त्वम् एव निश्चितम् -- तृतीयं रूपम् । तत्र असत्त्वग्रहणेन विरुद्धस्य निरासः । विरुद्धो हि विपक्षे ऽस्ति । एवकारेण साधारणस्य विपक्षैकदेशवृत्तेर् निरासः । प्रयत्नानन्तरीयकत्वे साध्ये ह्य् अनित्यत्वं विपक्षैकदेशे विद्युदादौ अस्ति, आकाशादौ न अस्ति । ततो नियमेन अस्य निरासः । असत्त्वशब्दाद् धि पूर्वस्मिन्न् अवधारणे ऽयम् अर्थः स्यात् -- विपक्ष एव यो न अस्ति स हेतुः । तथा च प्रयत्नानन्तरीयकत्वं सपक्षे ऽपि सर्वत्र

साधारणश् चासौ सप्क्षासपक्षवृत्तित्वाद् अनैकान्तिकश् चैकस्मिन् साध्ये विपर्यये वा ऽव्यवस्थितश् चेति तथा निरस्त इति वर्त्तते । सपक्षाव्यापिनी सकलसपक्षावर्त्तिनी सत्ता यस्येति विग्रहः । प्रयत्नानन्तरीयकत्वम् अप्य् अनित्यत्वसिद्धौ समर्थो हेतुर् इति दर्शयितुं सकलसपक्षाव्यापि प्रयत्नानन्तरीयकत्वम् उदाहृतम् इति द्रष्टव्यम् । वस्तुतस् तु सर्व एव कार्यहेतुर् धूमादिः सपक्षैकदेशवृत्तिर् बोद्धव्यः । इतिर् एवम् अर्थे । एवं सति प्रयत्नानन्तरीयकत्वम् उपलक्षणत्वाद् अस्य धूमादिकम् अपि न हेतुः स्यात् । सन्दिग्धो यस्य स तथा । इहाश्रयत्वादार्थेन न्यायेन सपक्षलक्षणस्य धर्मिणो विशेष्यत्वाद् अनेन सहोदितो निपातः पक्षे वृक्षे वृत्तौ लब्धायां समुच्चीयमानावधारणत्वाद् असपक्षलक्षणधर्म्यनतरयोगस्य व्यवच्छेदको द्रष्टव्यः ।

तृतीयं रूपं व्याख्यातुम् आह -- असपक्ष इति । वक्ष्यमाणं लक्षणम् अस्येति विग्रहः । कथम् अस्य निरास इत्य् आह -- विरुद्धो हीति । हिर् यस्मात् । साधारणस्य सपक्षासपक्षसाधारणस्य । कस्मिन् साध्ये किन् तद् ईदृशम् इत्य् आह -- प्रयत्नेति । प्रयत्नः पुरुषव्यापारः । नियमेनावधारणेन

[ध्प्र् p.95] न अस्ति । ततो न हेतुः स्यात् । ततः पूर्वं न कृतम् । निश्चितग्रहणेन सन्दिग्धविपक्षव्यावृत्तिको ऽनैकान्तिको निरस्तः । ननु च सपक्ष एव सत्त्वम् इत्य् उक्ते विपक्षे ऽसत्त्वम् एव इति गम्यत एव । तत् किमर्थं पुनर् उभयोर् उपादानं कृतम्? उच्यते । अन्वयो व्यतिरेको वा [प्रयुज्यमानः] नियमवान् एव प्रयोक्तव्यो न अन्यथा इति दर्शयितुं द्वयोर् अप्य् उपादानं कृतम् । अनियते हि द्वयोर् अपि प्रयोगे ऽयम् अर्थः स्यात् -- सपक्षे यो ऽस्ति विपक्षे च यो न अस्ति स हेतुर् इति । तथा च सति स श्यामः तत्पुत्रत्वात् दृश्यमानपुत्रवद्

एवकारणेति यावत् । असपक्ष एवेति किं नावधार्यत इत्य् आह तथा चेति । प्रयत्नानन्तरीयकग्रहणं पूर्ववद् उपलक्षणाम् । निशिचितग्रहणस्य व्यावृत्त्यर्थ्म् आह -- निश्चितेति । विपक्षाद् व्यावृत्तिर् विपक्षव्यावृत्तिः । सन्दिग्धा विपक्षाव्यावृत्तिर् यस्य स तथा ।

ननु न सन्दिग्धविपक्षव्यावृत्तिकत्वं नामायं हेतुदोषः । तत् कथं निरस्यते? तथा हि -- य एव विपक्षे वीक्षितो हेतुः स एव प्रमेयत्वादिवद् अभिमतं न साधयेत् । यः पुनर् महता ऽपि प्रयत्नेन मृग्यमाणो ऽसपक्षे नोपलक्षितः स कथम् अङ्ग साध्यं न साधयेद् इति? तद् एतद् अवद्यम् । यतो यो ऽपि विपक्षे वीक्षितो हेतुः सो ऽपि इष्टो दुष्टः । कथं? साध्यं विना ऽप्य् उपलब्धेर् इति चेत् । ननु यदि नामासौ साध्यम् अन्तरेणान्यत्र दृष्टस् तथापि विवादाध्यासिते धर्मिणि साध्यं किं न साधयति? न हि अयम् अत्रापि साध्यं विनैव वर्र्तत इति प्रसाधकं प्रमाणम् अस्ति । न चैकत्र येन विना यो दृष्टः सर्वत्रासौ तेन विनैव वर्त्तते इति सिद्धम् । अन्यथा ऽपि बहुलं दर्शनात् । अथ साध्यम् अन्तरेण यो वृत्तः साध्ये सत्य् एवासौ वर्त्तत इति नियमाभावाद् विवादाध्यासिते सन्देहहेतुर् न सम्यग् हेतुर् भवितुम् अर्हति । हन्त तर्हि विपक्षे तस्य साध्यधर्मिणि साध्यविनाकृतां वृत्तिं सम्भावयद् हेतुम् अनिश्चियहेतूकरोतीति आयातम् । सति चैवं साध्यविपर्यये हेतुसत्ताबाधकप्रमाणादर्शनम् अपि -- यद्य् अयं च धर्मो भविष्यति, न च ततः साध्यम् इत्य् एवं विधां वृत्तिम् अस्य -- सम्भावयति तदा किम् अयं निश्चयहेतुर् भवितुम् अर्हति? ततो वि[40अ]पक्षे दर्शनं वा तथा शङ्काबीजम् अस्तु विपर्यये वा बाधकप्रमाणादर्शनं वेति को विशेषः? तथा चाह वार्त्तिककारः -- "न तु सपक्षविपक्षयोः सत्त्वम् असत्त्वं वा निशियापेक्षम् । निश्चये ऽपि सन्देहमुखेनैव दोषात् । सो ऽनिश्चये ऽपि तुल्य इति तथाविधोद्भावनम् अप्य् अत्र दूषणम् एव । तथा विपक्षप्रचाराशङ्काव्यवच्छेदेन लभ्यं गमकत्वं कथम् आत्मसात्कुर्याद्" इति ।

ननु चेत्यादिना लक्षणे चोद्यम् आशङ्कते । विपक्षे ऽसत्त्वम् एवेति गम्यत इति ब्रुबतो ऽयं भावः । पक्षे वृत्तौ लब्धायां सपक्ष एव सत्त्वं निश्चितम् इति खलु समुच्चीयमानावधारणो ऽयं निर्णयः । अयं चासपक्षे ऽसत्त्वे ऽनिश्चिते सन्दिग्धे वा न घटत इति अवश्यम् असपक्षे ऽसत्त्वम् एव

[ध्प्र् p.96] इति तत्पुत्रत्वं हेतुः स्यात् । तस्मान् नियमवतोर् एव अन्वयव्यतिरेकयोः प्रयोगः कर्तव्यो येन प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश् च प्रयोगे ऽवश्यकर्तव्ये द्वयोर् एक एव प्रयोक्तव्यो न द्वाव् इति नियमवान् एव अन्वयो व्यतिरेको वा प्रयोक्तव्य इति शिक्षणार्थं द्वयोर् उपादानम् इति । त्रैरूप्यकथनप्रसङ्गेन अनुमेयः सपक्षो विपक्षश् च उक्तः । तेषां लक्षणं वक्तव्यम् । तत्र को अनुमेय इत्य् आह --

अनुमेयो ऽत्र जिज्ञासितविशेषो धर्मी इइ-6

निश्चितम् आक्षिपतीति । एवम् उपलक्षणत्वाद् अस्यासपक्षे चासत्त्वम् एव निश्चितम् इत्य् अनेन सपक्षे वृत्तिमात्रं लब्धम् एव । तेनैव च प्रयोजनम् इति किं सपक्ष एव सत्त्वम् इत्य् अनेनेति द्र्ष्टव्यम् ।

उच्यत इति परिहारः । साध्येनान्वीयमानत्वं तयेव साध्ये भवितृत्वं साधनस्य स्वगतो धर्मो ऽन्वयः । साध्याभावे व्यतिरिच्यमानत्वम् अभवितृत्वं हेतोः सवगतो धर्मो व्यतिरेकः । स चासश् च[44]प्रयुज्यमानः शब्देन प्रतिपाद्यमाणो नियमवान् अव्यभिचारवान् प्रयोक्तव्यो ऽन्यथा परोक्षप्रतीत्य् अङ्ग नोक्तं स्यात् । कथं च तथा प्रयुक्तो भवति? यदा ऽन्वयवाक्ये साध्ये नियतं साधनं व्यतिरेकवाक्ये च साधनाभावे नियतः साध्याभावः । साधनानुवादपूर्वसाध्यविधानेन साध्याभावानुवादपूर्वसाधनाभावविधानेन वीप्सापदयुक्तेन सर्वशब्दसंहितेन एवकारोपेतेन । अन्यथा न प्रतिपाद्यते ।

__________नोतेस्__________

[44] `प्रयुज्यमानःऽ इति पाट्ःअः मूले नोपलभ्यते । प्रदीपानुरोधात् तत्र कोष्ट्ःअके स्थापितः ।

अनियमेनापि प्रयोगे यद्य् अन्वयव्यतिरेकयोस् तादृशोः प्रतीतिर् अस्ति तदा किं नियमवत् प्रयोगेणेत्य् आह -- अनियते हीति । हिर् यस्माद् अनियते विवक्षितनियमाख्यापके । आस्तां तावद् एकस्य प्रयोगे द्वयोर् अप्य् अयम् अर्थः स्याद् इत्य् अपिशब्दः । इतिर् अर्थस्याकारं दर्शयति । अस्त्व् अयम् अर्थः । का क्षतिर् इत्य् आह -- तथा चेति । काकतालीयन्यायेन चाश्यामेषु निकटवर्त्तिषु अतत्पुत्रेषु एतद् द्रष्टव्यम् । अन्यथा ह्य् अनियतो ऽपि व्यतिरेको ऽत्र नोक्त इति वचनावकाशः स्यात् । यत एवं तस्माद् येन नियमवत्प्रयोगेण पर्तिबन्धः प्रतिबद्धत्वम् आयत्तत्वम् । कस्येत्य् आकाङ्क्षायाम् आह -- साधनस्येति । कुत्रेत्य् अपेक्षायाम् आह -- साध्य इति ।

यद्य् एवम् एकस्मिन्न् एव साधनवाक्ये नियमवान् एवान्वयो व्यतिरेकश् च प्रयुज्यताम् इत्य् आह -- नियमवतोश् चेति । चो वक्तव्यान्तरसमुच्चये । अयम् आशयः -- अन्वयवाक्येनापि तथाप्रयुक्तेन सामर्थ्याद् व्यतिरेकस्य, व्यतिरेकवाक्येनापि सामर्थ्याद् अन्वयस्य प्रकाशनात् किं प्रतीतप्रत्यायकेन द्वितीयवाक्येन कार्यम् इति? यत एवम् इतिस् तस्माद् । द्वितीय इति शिक्षणस्य स्वरूपं दर्शयति । शिक्षणम् अज्ञम् उद्दिश्यज्ञापनम् । तदर्थं तन्निमित्तम् । अनेन प्रयो[40ब्]गसमास एव दर्शितो न रूपसमास इति दर्शितम् । प्रयोगदर्शनाभ्यासात् कश्चित् प्रयोगभङ्ग्यैव स्वयम् अपि परोक्षम् अर्थं प्रतिपद्यत इति स्वार्थे ऽप्य् अनुमाने निर्णीतम् इदं लक्षणकथनप्रसङ्गेन । ततो न दोष इति द्रष्टव्यम् । एतच् चोपरिष्टान् निवेदयिष्यते ॥

[ध्प्र् p.97] अनुमेयो ऽत्रेत्यादि । अत्र हेतुलक्षणे निश्चेतव्ये धर्मी अनुमेयः । अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायो ऽनुमेयः । व्याप्तिनिश्चयकाले तु धर्मो अनुमेय इति दर्शयितुम् अत्रग्रहनम् । जिज्ञासितो ज्ञातुम् इष्टो विशेषो धर्मो यस्य धर्मिणः स तथा उक्तः । कः सपक्षः । साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः इइ-7 समानो ऽर्थः सपक्षः । समानः सदृशो यो ऽर्थः पक्षेण स पक्ष उक्त उपचारात् समानशब्देन विशिष्यते । समानः पक्षः सपक्षः, समानस्य च सशब्दादेशः । ननु यदि धर्मधर्मिसमुदायो मुख्यो ऽनुमेयो ऽत्र गृह्यते तदा न कस्यचित् साधनस्य तद्धर्मत्वं ग्रहीतुं शक्येत । ग्रहणे वा व्यक्तम् एव वैयर्थ्यम् इत्य् अभिप्रायवान् पृच्छति -- तत्र क इति तेषु मध्ये ।

अत्रेत्य् अस्य तात्पर्यार्थम् अत्रेत्यादिना निरूपयति । धमिधर्म्योश् चानुमेयत्वम् । तस्मिंश् तस्मिन् काले ऽनुमेयैकदेशत्वाद् उपचारतो द्रष्टव्यम् । तद् उक्तम् --

"समुदायस्य साध्यत्वात् धर्मात्रे च धर्मिणि ।

अमुख्ये ऽप्य् एकदेशत्वात् साध्यत्वम् उपचर्यते ॥" इति ॥

अथ यद् सह पक्षेण वर्त्तते इति सपक्षो ऽभिप्रेतस् तदा ऽर्थासङ्गतिः । अथापि समानः पक्षेणेति मतं तदा पक्षसमान इति प्राप्नोतीत्य् अभिप्रेत्य पृच्छति क इति । समानो ऽर्थ इति सिद्धान्ती । समानशब्दस्यार्थम् आह -- समानः सदृशो ऽर्थ इति । अर्थशब्दो ऽत्र प्रतीयमानार्थो ऽर्थते गम्यत इति कृत्वा । न त्व् अर्थो ऽर्थक्रियासमर्थो वाच्यः । क्रमाक्रमायोगेनाक्षणिकस्य सामर्थ्याभाव(वे) साध्ये ऽम्बरारविन्दादेर् अपि सपक्षत्वेनेष्टत्वात् ।

ननु समानश् चासौ पक्षश् चेति किं नाभिप्रेतम्? तत्र पक्ष एवासौ दृष्टान्तधर्मी कथं येन समानशब्देन विशिष्यत इत्य् आह -- पक्ष इति । कथम् अन्यार्थेन तेन शब्देन स तथोच्यताम् इत्य् आह -- उपचाराद् इति । क्वचित् सपक्ष उक्त इति पाठः । तत्र सो ऽर्थः पक्ष उक्तः इति योज्यम् । उपचारे च साध्यधर्मयोगो निमित्तम् । स उपचाराद् यः पक्ष उक्तः विशि(शे)ष्यते व्यवच्छेद्यते तदसमानात् । यदि समानशब्दो विशेषणम् अस्य तर्हि सशब्दश्रुतिः कथम् इत्य् आह -- समानस्येति । समानस्य समानशब्दस्य स्थाने सशब्दादेशश् च "समानस्य" [पाणिनि 6.3.84] इति योगविभागात् । समानः पक्षो यस्य स तथेति बहुव्रीहिः किम् इति धर्मोत्तरेण नाश्रितो येनैवम् आत्मा प्रयासित इति चेत् । सत्यम् । केवलं विनिश्चयानुरोधाद् एवम्

[ध्प्र् p.98] स्यात् एतत् -- किं तत् पक्षसपक्षयोः सामान्यं येन समानः सपक्षः पक्षेन इत्य् आह -- साध्यधर्मसामान्येन इति । साध्यश् च असौ असिद्धत्वात्, धर्मश् च पराश्रितत्वात् साध्यधर्मः । न च विशेषः साध्यः, अपि तु सामान्यं । अत इह समान्यं साध्यम् उक्तम् । साध्यधर्मश् च असौ सामान्यं च इति साध्यधर्मसामान्येन समानः पक्षेण सपक्ष इति अर्थः । को ऽसपक्ष इत्य् आह --

न सपक्षो ऽसपक्षः इइ-8 न सपक्षो ऽसपक्षः । सपक्षो यो न भवति सो ऽसपक्षः ॥कश् च सपक्षो न भवति । आचरितम् । विनिश्चये हि नवपक्षधर्मप्रवेदननिर्देशप्रकरणे[44*]साध्यधर्मसामान्येन समानः पक्षः सपक्षस् तद् अभावो ऽसपक्षच् इत्य् उक्तम् । अतो वार्त्तिककारस्येव दृष्टान्तधर्मी पक्षो ऽभिप्रेत उपचाराद् इत्य् अत्राप्य् एवम् अयं व्याचष्ट इत्य् अदोषः ।

__________नोतेस्__________

[44*] चेऽए प्विन्

येन सामान्येन पक्षेण समानः सपक्ष इत्य् आहेति योज्यम् । साध्यशब्देनोपचाराद् वह्न्यादिकम् अभिप्रेतम् । साध्यत्वे हेतुम् आह -- असिद्धत्वात् तत्रानिश्चितत्वात् ।

ननु साध्यधर्मश् चासौ सामान्यं चेति कर्मधारयगर्भः कर्मधारय इत्य् आभिप्रेतः, विशेषश् च साध्यत इति कथं सामान्यशब्देन साध्यधर्मशब्दस्य समास इत्य् आशङ्क्याह -- न चेत्यादि । चो यस्मादर्थे अवधारणे वा । सामान्यम् अतद्रूपव्यावृत्तवस्तुमात्रम् । तथाविधेनैव हेतोः [41अ] व्याप्यत्वाद् इत्य् अभिप्रायः । यत एवम् अतो ऽस्य्माद् धेतोर् हि सपक्षलक्षणकाले । सामान्यस्य साध्यताम् उक्त्वा साध्यधर्मशबेदेन सह सामान्यशब्दस्य विग्रहं दर्शयति -- साध्येति । साध्यधर्म्ये(मे)त्यादिनोपसंहरति । समान एवेत्य् अवधारणियम् न तु सामान्येनैवेति, अन्येनापि वस्तुत्वादिना सादृश्यात् दृष्टान्तधर्मिणः सपक्षत्वाभावप्रसङ्गाद् इति ।

यदि सपक्षाद् अन्यो ऽसपक्षो एवान्यधर्मयोगाद् अन्य इति तत्रासपक्षे वर्त्तमानो हेतुः सर्व एवानैकान्तिकत्वाद् अहेतुः प्रसज्येत । अथ विरुद्धे नञो विधानात् सपक्षविरुद्धो ऽसपक्षः सहानवस्थानलक्षणेन विरोधेन विरुद्धस् तदा ऽग्निलक्षणो हेतुर् औष्ण्यं न गमयेत् । अथाभावे नञ् इष्यते, तदा ऽभावे कस्यचित् सत्त्वासम्भवात् साधारणानैकान्तिको न कश्चित् स्याद् इति मनसि निवेश्य पृच्छति -- को ऽसपक्ष इति । अनीदृशाशयस्याज्ञस्यैव वा प्रश्नः ।

न सपक्ष इत्याद्य् उत्तरम् । सपक्षो यो न भवतीति साध्यधर्मवान् यो न भवतीत्य् अर्थः । एवञ् चाचक्षाणः प्रसज्यप्रतिषेधवृत्तिं नञं दर्शयति । यद्य् एवम्, समासः कथं इति चेत् । गमकत्वाद् असूर्यम्पश्यानीत्यादिवत् । अपुनर्ज्ञेयानि सामानि, अलवणभोजी, असूर्यम्पशानि मुखानि "सुड्नपुंसकस्य" [पाण्निनि 1.1.43] इति । प्रयोगसंख्यानियमस् तु भाष्यकारीयो यथा ऽनुपपन्नस् तथा चाचार्येणैव विनिश्चये "दुःखं बतायं तपस्वी" इत्याद्य् उपहासपूर्वकं -- "यथा निकेतेन प्रतिपत्तेः" इत्यादिना प्रतिपादित इति नेहोच्यते ।

[ध्प्र् p.99]

ततो ऽन्यस् तद्विरुद्धस् तदभावश् च इति इइ-9

ततः सपक्षाद् अन्यः, तेन च विरुद्धः, तस्य च सपक्सय अभावः. सपक्षाद् अन्यत्वं तद्विरुद्धत्वं च न तावत् प्रत्येतुं शक्यम्, यावत् सपक्षस्वभावाभावो न विज्ञातः. तस्माद् अन्यत्वविरुद्धत्वप्रतीतिसामर्थ्यात्[45] सपक्षाभावरूपौ प्रतीताव् अन्यविरुद्धौ.

__________नोतेस्__________

[45] रेअदन्यत्वविरुद्धत्वे प्रतीति- ?

एवं सत्य् अन्यविरुद्धयोर् असपक्षत्वं न स्याद् इत्य् असपक्षशब्देन तदभावतदन्यतद्विरुद्धनां त्रयाणाम् अपि सङ्ग्रहं दर्शयितुं कश् चेत्यादिना प्रश्नपूर्वम् उपक्र[म]ते । चकारः पुनःशब्दस्यार्थे ।

अन्य इति विवक्षितधर्मानाधारः, अन्यविषये ऽपि नञि विभागेन नियोगवृत्तेः । न हि स एव ब्राह्मणस् तज्जातियोगाद्, अब्राह्मणश् च धर्मान्तरसमावेशाल् लोके प्रतीयत इति । विरुद्ध इति सहस्थितिलक्षणेनान्योन्यात्मपरिहारस्थितिलक्षणेन च विरोधेन विरुद्धः । चो ऽन्यापेक्षया विरुद्धर्मसपक्षत्वेन समुच्चिनोति । तस्य चाभावस् तुच्छरूपः प्रसज्यात्मा व्यववर्त्तव्यैकस्वभावः ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.