Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
धर्मोत्तरप्रदीप subcommentary on धर्मोत्तर's न्यायबिन्दुटीका on धर्मकीर्ति's न्यायबिन्दु
- Tác giả
- दुर्वेकमिश्र
- Thông tin
- GRETIL — Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
ननु प्रतीतप्रतिभासस्य तत्संसर्गानुभवान्यथानुपपत्त्या योग्यता कल्पनीया । न च बालकल्पनाया अभिलापसंसर्गो ऽस्ति, संकेताव्युत्पत्तेः । तत् कथं योग्यता कल्प्यताम् इत्य् अभिसन्धिना असतीत्यादिना पूर्वपक्षम् उत्थापयति । एवं चोदयित्वा ऽनुमानतः सा सिद्ध्यतीति मन्वानः साधनम् आह -- अनियतेति । प्रतिनियताकारत्वाभावाद् इत्य् अर्थः । प्रकरणापन्ने साध्ये हेतौ चाभिहिते सुकरः साधनप्रयोग इति प्रयोगं न जगौ । एवम् उत्तरत्रापि हेतुमात्राभिधाने ऽस्यायम् अभिप्रायः प्रत्येतव्यः । प्रयोगस् त्व् एवम् इह कर्त्तव्यः -- यो ऽनियतप्रतिभासो विकल्पः, स शब्दसंसर्गयोग्यो यथाच्छात्रविकल्पः । बालस्य विकल्प एव कुतः सिद्धो येनेदम् उत्तराणि चैतदङ्गानि साधनानि ना[22अ]श्रयासिद्धानि स्युर् इति? नैष दोषः । अनुमानसिद्धं विकलपं धर्मिणं कृत्वा ऽमीषाम् उपादानस्याभिप्रेतत्वात् । तत् पुनर् अनुमानम् अनेन सुज्ञातत्वान् नोपन्यस्तम् इति वेदितव्यम् । एवं तद् द्रष्टव्यम् -- या नियमवती प्रवृत्तिः क्वचित् प्राणिनः, सा विकल्पपूर्विका । यथा व्युत्पन्नसङ्केतव्यवहारस्यान्नादिविषया प्रवृत्तिः । नियमवती च तदितरपरिहारेण स्तनादौ प्रवृत्तिर् बालकस्येति कार्यहेतुः । सा च तादृशी प्रवृत्तिः प्रत्यक्षाधिगतेति स्वसिद्धौ न प्रमाणान्तरं
[ध्प्र् p.50]
कुतः पुनर् एतद्विकल्पो र्थान् न उत्पद्यत इत्य् अर्थसन्निधिनिरपेक्षत्वात् । बालो ऽपि हि यावद् दृश्यमानं स्तनं स एव अयम् इति पूर्वदृष्टत्वेन न प्रत्यवमृशति तावन् न उपरतरुदितो
प्रयोजयति । न पुनर् अनेन बालो ऽपि हीत्यादिना विकल्पसाधनम् उपन्यस्तम् इति मन्तव्यम्, यथा ऽन्यैर् व्याख्यातम्, अर्थसन्निधिनिरपेक्षत्वसिद्धिप्रदर्शनोन्मुखत्वात् तस्य ग्रन्थस्येति ।
ननु च परोक्षत्वात् तस्यानियतप्रतिभासत्वसन्देहे सन्दिग्धासिद्धो ऽयं हेतुर् इति । आह -- अनियतप्रतिभासत्वं च -- इति । चो यस्माद् इत्य् अस्मिन्न् अर्थे । प्रतिभासस्य ज्ञानाकारस्य नियमः -- अर्थाकार एवायं शब्दाकार एव वा, रूपाकार एवायं रसाकार एव वेत्यात्मको वा तस्य हेतुर् जनकः तस्माद् । अभावाद् अनुत्पादात् । भवनं भाव उत्पादस् तन्निषेधाद् अभावो ऽनुत्पाद एव । प्रतिभासनियमहेतोर् अभावाद् -- अविद्यमानत्वाद् इति व्याखाने तु यथाश्रुति व्यधिकरणासिद्धो हेतुः स्यात् । अन्यथा हेतुवचने तु क्रियमाणे तत्रार्थे हेतुर् अनभिहित एव स्यात् । साधनस्वरूपमात्रकथने चात्र धर्मोत्तरस्य शैली लक्ष्यते । कुतः पुनर् एतद् विकल्पो ऽर्थान् नोत्पद्यते इति च पूर्वपक्षः सूत्थानो न स्यात् । मृत्वा शीर्त्वा यथा कथञ्चित् सर्वस्यास्य समर्थने च वक्तुर् अकौशलं स्याद् इति ।
ननु प्रतिभासनियमहेतुर् यः कश्चन स च तत्र भविष्यति । अथ विशिष्टः । वक्तव्यस् तदा ऽसौ यतः सकाशाद् अनुत्पादात् तथात्वं ज्ञातव्यम् इत्य् आह -- ग्राह्य इति । यद्य् अर्थ इत्य् एव क्रियते तदेन्दिर्यम् अप्य् अर्थो ज्ञानं जनयतीति तस्याप्य् आकारनियामकत्वं स्यात् । न चापोद्धारद्वारेण तस्याकारविशेषहेतुत्वं व्यवस्थापितम्, अपि तु विषयग्रहणप्रतिनियमहेतुत्वम् इति ग्राह्यग्रहणम् । ग्राह्य आलम्बनः । यद्य् एवं ग्राह्य इत्य् एवास्तु । अपोहस्यापि ग्राह्यता ऽस्ति । न चाऽसौ प्रतिभासनियमहेतुः । अतस् तन्निवृत्त्यर्थम् अर्थो ऽर्थक्रियासमर्थ इति कृतम् । कुर्यात् कर्तुं शक्नोति । अपोद्धारेण तत्रैव तच्छक्तेर् अवधृतत्वात् । अत्र निदर्शनं यथेति । नियतप्रतिभासम् इति शब्दाकारपरिहारेणार्थाकारधार्येव रसाकारपरिहारेण रूपाकारधार्येव चेति । यद्य् एवं बालविकल्पो ऽपि अर्थाद् एवोत्पत्स्यते, ततो नियतप्रतिभासो भविष्यतीत्य् आशङ्क्य पूर्वोक्तम् एव प्रसङ्गेन स्मारयति -- विकल्पेति । तुर् उदाहृताद् विज्ञान भिनत्ति । एवं तु प्रयोगः कार्यः -- यद् अर्थान् नोत्पद्यते ज्ञानं तन्नियतप्रतिभासं न भवति । यथा व्युत्पन्नव्यवहारस्यातीतादिस्मरणम्, रूपरसादिसङ्कलनाज्ञानं वा । नोत्पद्यते चा[22ब्]र्थाद् बालकस्य विकल्प इति व्यापकानुपलब्धिः ।
ननु बालविकल्पस्य परोक्षत्वात् तत् उत्पत्तिर् अनुपत्तिर् वा न शक्यते निश्चेतुम् । अतो ऽयं सन्दिग्धासिद्धो हेतुर् इत्य् अभिप्रेत्य चोदयति कुत इति सामान्यहेतोः प्रश्नः । पुनर् इति विशेषस्य । विदर्भ्योक्त्या चायं क्षेपे किमः प्रयोगः । तेन न कुतश्चिद्धेतोर् इदम् इत्य् अर्थः । हेतुम् आह अर्थेति । एवं तु प्रयोगः करणीयः -- यज् ज्ञानं स्वोत्पत्ताव् अर्थसन्निधिनिरपेक्षं तद् अर्थान् नोत्पद्यते । यथा व्युत्पन्नसंकेतस्य चिरनष्टवस्तुविषयं विज्ञानम् । अर्थसन्निधिनिरपेक्षं च बालविकल्पविज्ञानम् इति विरुद्धव्याप्तोपलब्धिः । असिद्धिम् अस्याः परिहत्तु भूमिकां रचयन्न् आह -- बालो ऽपि हि -- इत्यादि ।
[ध्प्र् p.51] मुखम् अर्पयति स्तने । पूर्वदृष्टापरदृष्टं च अर्थम् एकीकुर्वद् विज्ञानम् असन्निहितविषयम्, पूर्वदृष्टत्वस्यासन्निहितत्वात् । असन्निहितविषयं च अर्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहेतोर् अभावाद् अनियतप्रतिभासम् । तादृशं च अभिलापसंसर्गयोग्यं । न केवलं व्युत्पन्न इत्य् अपिशब्दः । हिर् यस्मात् । यावद् इति निपातो ऽवधौ । पूर्वदृष्टत्वं पूर्वदर्शनविषयत्वम् । तेन यो मया पूर्वं क्षुत्प्रतिघातहेतुत्वेन प्रतिपन्नः स एवाऽयम् इति प्रत्यवमर्षस्य रूपम् आचष्टे । न प्रत्यवमृशति प्रत्यभिजानाति । तावद् इत्य् अप्य् अवधौ । उपरतं रुदितं यस्मात् स तथा सन् नायर्पति । सर्वैर् एव स्वसन्तताव् एवमादिव्यवहारस्य दृष्टदृश्यमानयोर् एकीकरणकारणात्वेनावगत्वाद् एवम् उच्यते । तस्यैव चान्यत्र लोष्टादौ ढौकिते ऽपि तथा ऽदर्शनाच् च ।
ननु बालस्य करणानाम् अपाटवात् संकेताग्रहणाच् च नान्तर्जल्पाकारो ऽपि शब्दः सम्भवति । सम्भवे वा योग्यग्रहणानर्थक्यम् । तत् कथम् एवं यावन् न प्रत्यवमृशति -- इत्य् उच्यते? उच्यते । अन्यैव हि भङ्ग्या अस्ति सा काचिद् दृष्टदृश्यमानयोर् एकीकरणावस्था या तत्र निमित्तम् इति प्रतिपाद्यते । सा च शब्देन प्रतिपाद्यमाना अभ्यस्तेनामुना शब्देन प्रतिपाद्यते । न पुनर् एवम् एवासौ प्रत्यवमृशतीत्य् उच्यते ।
ननु द्वितीयादिदर्शनकाले भवतु पूर्वदृष्टापरदृष्टयोर् एकीकरणेन मुखार्पणम्, भूमिपातानन्तरं तु कथम्? न खलु स्तनम् अद्राद्षीद् असौ येन दृष्टेन दृश्यमानम् एकीकृत्यार्पयेत् । तदा तु जन्मान्तरानुभवाद् इति ब्रूमः । तत्रापि जन्मनि जन्मान्तरानुभवबलात् । न चादिमान् संसार इति का क्षतिः? शब्दाकारो ऽपि तत्रास्त्य् एव । तत् किम् अनेन योग्यग्रहणसफलीकरणप्रयासेनेति चेत् । अस्तु तत्र जन्मान्तराभ्यासात् मूर्च्छितः शब्दाकारः, मा च भूत् सर्वथा पश्चाद् व्युत्पत्स्यमानेन विशिष्टेन शब्देन संसृष्टार्थप्रतिभासः, न भवति तस्य विकल्पप्रत्यय इत्य् उच्यते । `स एवायम्ऽ इति पूर्वदृष्टत्वेन स्तनं प्रत्यवमृशतु । किम् अत इत्य् आह -- पूर्वदृष्टेति । पूर्वदृष्टं चापरदृष्टां चेति द्वन्द्वैकवद्भावः । चो ऽवधारणे कुर्वद् इत्य् अस्मात् परो द्रष्टाव्यः। हेतौ वा शतृप्रत्ययः ।
तेनायम् अर्थः -- यस्मात् पूर्वदृष्टम् एकीकरोत्य् एव तस्माद् असन्निहितविषयम् इति । तथा कुर्वद् अपि कथम् अस्न्निहितविषयम् इत्य् आह -- पूर्वदृष्टत्वस्य[32] -- इति । अयम् आशयः -- पूर्वदर्शनविषयत्वं पूर्वदृष्टत्वम् उच्यते । निवृत्ते च पूर्वदर्शने पूर्वदर्शनविषयत्वं वस्तुनो नास्ति । तद् उत्तरकालभाविना ज्ञानेन पूर्वज्ञानविष[23अ]यत्वम् असन्निहितम् एव वतुनो दृश्यत इति । भवत्व् असन्निहितविषयम्, अर्थसन्निधिनिरपेक्षं तु कथं सिद्धम् इत्य् आह -- असन्निहितेति । चो यस्मात् । असन्निहितविषयम् अर्थसन्निधिनिरपेक्षम् । अनेनार्थसन्निधिनिरपेक्षत्वे ऽर्थसन्निधिनिरपेक्षत्वं हेतुम् आह । ईदृशस् तु प्रयोगो ज्ञातव्यः -- यद् असन्निहितविषयं ज्ञानं तद् अर्थसन्निधिनिरपेक्षम्, यथा ऽतीतानागतविषयो ऽस्मदादिविकल्पः । पूर्वदृष्टत्वेन प्रत्यभिज्ञानाच् च बालविज्ञानम् असन्निहितविषयम् इति स्वभावः ।
__________नोतेस्__________
[32] धर्मोत्तरे सर्वप्रतिषु `पूर्वदृष्टस्यऽ इति पाठः । किन् त्व् अत्र प्रदीपानुसारी पाठो गृहीतः । -- सं-
सम्प्रति शिष्याणां सुखप्रतिपत्त्यर्थं यथोत्तरोत्तरस्य हेतोः सिद्धौ पूर्वपूर्वस्य हेतोः सिद्धिर् भवति तथा दर्शयति -- अनपेक्षं च -- इति ।
[ध्प्र् p.52] इन्द्रियविज्ञानं तु सन्निहितार्थमात्रग्राहित्वाद् अर्थसापेक्षम् । अर्थस्य च प्रतिभासनियमहेतुत्वान् नियतप्रतिभासम् । ततो न अभिलापसंसर्गयोग्यम् । अत एव स्वलक्षणस्य अपि वाच्यवाचकभावम् अभ्युपगम्य एतद् अविकल्पकत्वम् उच्यते । यद्य् अपि हि स्वलक्षणम् एव वाच्यं वाचकं च भावेत् तथा अप्य् अभिलापसंसृष्टार्थविज्ञानं सविकल्पकम् । न च इन्द्रियविज्ञानम् अर्थेन नियमितप्रतिभासत्वाद् अभिलापसंसर्गयोग्यप्रतिभासं भवति इति निर्विकल्पकम् । श्रोत्रज्ञानं तर्हि शब्दस्वलक्षणग्राहि शब्दस्वलक्षणं च किण्चिद् वाच्यं किञ्चिद् वाचकम् इत्य् अभिलाप अंसर्गयोग्यप्रतिभासं स्यात् । तथा च सविकल्पकं स्यात् । न एष दोषः । सत्य् अपि स्वलक्षणस्य वाच्यवाचकभावे सङ्केतकालदृष्टत्वेन ग्रह्यमाणं
ननु किम् अनियतप्रतिभासत्वे साध्ये ऽर्थनिरपेक्षत्वं हेतुर् येन तथा सद् अनियतप्रतिभासम् इत्य् उच्यते । प्रतिभासनियमहेतोर् इति च मध्यवर्त्ती च ग्रन्थः कथं नेयः? उच्यते । नायम् अनपेक्षम् इत्यादिर् एकवाक्यतया नेयः । किं तर्हि? वाक्यभेदो ऽत्र कर्त्तव्यः । तत्र चो यस्मात् । अनपेक्षम् अर्थसन्निधिनिरपेक्षं सत्प्रतिभासनियमहेतो अनुत्पन्नम् इति प्रतिभासनियमहेतोर् अभावाद् इत्य् अस्य सामर्थ्याद् वाक्यभेदं कृत्वा । ततः प्रतिभासनियमहेतोर् अभावाद् अनुत्पादाद् अनियतप्रतिभासम् इति योजनीयम् । तादृशम् इत्य् अप्रतिभासम् । चो वक्तव्यम् इत्य् एतद् इत्य् अस्मिन्न् अर्थः ।
सर्वम् एतद् इन्द्रियज्ञाने ऽपि प्ररः कदाचिद् आशङ्कयेद् इति तन्निरासार्थम् आह -- इन्द्रियेति । तुर् विकल्पज्ञानं विशिनष्टि । ततो नियतप्रतिभासत्वात् ।
इह पूवव्याख्यातृभिः "असामर्थ्यवैयर्थ्याभ्यां स्वलक्षणस्य संकेतयितुम् अशक्यत्वाद् अवाच्यवाचकत्वम् । अवाच्यावाचकस्वलषणग्राहित्वाच् चेन्द्रियज्ञानम् अविकल्पकम् इति" व्याख्यातम् । तच् चावद्यम्, अन्यथा ऽप्य् अविकल्पत्वस्य सुसाधत्वात् किम् अन्यापोहानयनेनाप्रकृतेनेति मन्यामान आह -- अत एव -- इति । यस्माद् इन्दिर्यज्ञानं नियतप्रतिभासम् -- अत एव अस्माद् एव हेतोः । स्वलक्षणं वक्ष्यमाणलक्षणम् । अपिर् अवधारणे । वाच्यग्रहणे कथम् अविकल्पकम् इत्य् आह -- यद्य् अपि हि -- इति । यद्य् अपि हीति निपातसमुदायो `यदि नामऽशब्दस्यार्थे वर्त्तते । हिर् वाक्यालङ्कारो वा । अभिलापसंसृष्टार्थं सद् विज्ञानं विकल्पकं भवति । एवं ब्रुवतो ऽयं भावः -- कोष्ठशुद्ध्या वाच्यम् अस्तु स्वलक्षणं तथापि तदिन्द्रियज्ञाणं केवलम् एव स्वलक्षणम् आत्मन्य् आदर्शयति, न तु वाचकम् अपीति कथम् अभिलापसंसृष्टार्थप्रतिभासत्वं विकल्पकत्वम् आत्मसात् कुर्याद् इति?
[ध्प्र् p.53] स्वलक्षणं वाच्यं वाचकं च गृहीतं स्यात् । न च सङ्केतकालभावि दर्शनविषयत्वं वस्तुनः सम्प्रत्य् अस्ति । यथा हि सङ्केतकालभावि दर्शनम् अद्य विरुद्धम्, तद्वद् तद्विषयत्वम् अप्य् अर्थस्य अद्य न अस्ति । ततः पूर्वकालदृष्टत्वम् अपश्यच् छ्रोत्रज्ञानं न वाचकभावग्राहि वाच्यवाचकभावग्राहि। अनेन एव न्यायेन योगिज्ञानम् अपि सकलशब्दार्थावभासित्वे ऽपि सङ्केतकालसृष्टत्वाग्रहणान् निर्विकल्पकम् । भवतु रूपाद्यालम्बनम् इन्द्रियज्ञानम्, वाचकस्याप्रतिभासाद् वाच्यस्यैव प्रतिभासाद् अविकल्पकम् । यत् पुनर् एतद्द्वयप्रतिभासीन्द्रियज्ञानं तद् द्वयप्रतिभासाद् विकल्पकं प्राप्तम् इत्य् अभिप्रेत्य चोदयति -- श्रोत्रेति । तर्हिर् अक्षमायाम् । सर्वम् इन्द्रियज्ञानम् अविकल्पकम् इति न क्षम्यत एतद् इत्य् अर्थः । श्रोत्रज्ञाणम् अभिलापसंसर्गयोग्यप्रतिभासं स्याद् इति सम्बन्धः । किम् भूतं? शब्दस्वलक्षणाग्राहि । हेतुभावेनास्य विशेषणत्वात् शब्दस्वलषणग्राहित्वाद् इत्य् अर्थः । शब्दग्राहिणो ऽपि वाच्याग्रहणे कथं तथात्वम् इत्य् आह -- शब्देति [23ब्] । चो यस्मात् । किञ्चिद् वाचकं किञ्चिद् वाच्यम् । यथा `तरप्तमपौ घःऽ [पाणिनि -- 1.1.22] इत्यादि बुद्धिस्थम् । इतिस् तस्मात् । अस्तु तथाप्रतिभासं किम् अत इत्य् आह -- तथा चेति । तथा च सति तस्मिंश् चोक्तप्रकारे सति । एवं चैतद् द्रष्टव्यम् -- यदैकेन तरप्तमपौ संज्ञिनाव् उच्चार्येते तदैव च कथञ्चिद् अन्येन `घःऽ इति संज्ञोच्चार्यते । तदा तद् द्वितयम् एकेन श्रोत्रज्ञानेन प्रतियतः पुंसः श्रोत्रधीर् विकल्पिका प्रसज्येतेति ।
कथं तर्हि नैष दोष इत्य् आह -- सत्य् अपीति । चो यस्मात् तद् एवेदं यन् मया संकेतकालत्वेन गृह्यमाणं तथा गृहीतं भवति । यद्य् एवम् अस्तु संकेतकालदृष्टत्वेन ग्रहणम् इत्य् आह -- न चेति । चो ऽवधारणे हेतौ वा । दर्शनविषयत्वम् इति ब्रुवन् पूर्वदृष्टत्वशब्दस्यार्थम् आह । कथं नास्तीत्य् आह -- यथेति । हिर् यस्मादर्थे ।
अर्थस्येति सम्प्रतिदृश्यमानस्य । तद्भावे निगडाकर्षणन्यायेन प्राक्तनदर्शनस्यापि स्थितिः प्रसज्येतेति भावः । मा ग्रहीत् संकेतकालदृष्टत्वं तयोर् गृह्यमाणयोः शब्दयोस् तथापि कथं न वाच्यवाचकभावग्राहि तज्ज्ञानम् इत्य् आशङ्क्योपसंहरन्न् आह -- तत इति । यतः सम्केतकालत्वेन गृह्यमाणं वाच्यं वाचकं च गृहीतं भवति ततः कारणात् श्रोत्रविज्ञानं न वाच्यवाचकभावग्राहि । भवतु तथागृह्यमाणस्य स्वलक्षणास्य तथावम् । किम् अतः? एतत् पुनर् एनं तथैव ग्रहीष्यतीत्य् आह -- पूर्वेति । हेतौ शतुर्विधानात् पूर्वकालदृष्टत्वाग्रहणाद् इत्य् अर्थः ।
स्याद् एतत् -- संकेतदृटात्वेनापि न ग्रहीष्यते ऽर्थः शब्दो वा । अथ च विशिष्टवाचकवाचकत्वेन विशिष्टार्थवाचकत्वेन च ग्रहीष्यत इति । असद् एतत् । एवं हि ब्रुवतेदम् अभिप्रतम् -- येन ज्ञानेन यो अर्थः संकेतकालोपलब्धो यच् छब्दसंसर्गिणा रूपेण नैकीक्रियते, न स तेन तद्च्छब्दवाच्यो गृह्यते । तथा गोज्ञानेन संकेतकालोपलब्धाश्वशब्दसंसर्गिणा ऽश्वरूपेण सहैकत्वेनाप्रतीयमानो गौर् नाश्वशब्दवाच्यो गृह्यते । श्रोत्रज्ञानेन संकेतकालोपलब्ध`घऽशब्दसंसर्गिणा च रूपेण नैकीक्रियेते च तदा तरप्तमपाव् इति व्यापकानुपलब्धिः । तथा येन ज्ञानेन यः शब्दः
[ध्प्र् p.54]
तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् इ-6 तया कल्पनया कल्पनास्वभावेन रहितं शून्यं सज्ज्ञानं यद् अभ्रान्तं तद् प्रत्यक्षम् इति परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे प्रत्यक्षलक्षणम्, न प्रत्येकम् इति दर्शयितुं तया रहितं तत् प्रत्यक्षम् इति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषयत्वं दर्शितम् इति । संकेतकालदृष्टयदर्थसंसर्गिणा रूपेण नैकीक्रियते, न तेनासौ तदर्थवाचको गृह्यते । यथा गोशब्दज्ञानेन संकेतकालोपलब्धाश्वार्थसंसर्गिणाश्वशब्देन सहैकत्वेनाप्रतीयमानो गोशब्दो नाश्वार्थवाचको गृह्यते । श्रोत्रज्ञानेन संकेतदृष्टतरप्तमबर्थसंसर्गिणा रूपेण नैकीक्रियते च तदा `घऽशब्द इति सैव असिद्धिर् अनुभवेन निराकृता । वास्तवसम्बन्धनिराकरणाच् च व्याप्तिः सिद्धेति । यदा तु पूर्वदृष्टत्वेन ग्रहो ऽस्ति तदा तज्ज्ञानम् अभिलापसंसृष्टार्थप्रतिभासं सद् विकल्परूपम् एवेति सर्वम् अवदातम् ।
श्रोत्रज्ञाणे यथा ऽभिलापसंसर्गयोग्यप्रतिभासत्वं चोदितं तथा योगिज्ञाने ऽपि चोदयितुं शक्यम् इति तत्राप्य् अमुम् एव परिहारम् अतिदिशन्न् आह -- अनेनेति । यज् ज्ञानं सकेतकालविषयत्वं गृह्यमाणस्य न गृह्णाति, न तद् वाच्यवाचकभावग्राहीत्य् अनेन न्यानेन युक्त्या योगिज्ञानं वक्ष्यमाणलक्षणां सकलशब्दार्थावभासित्वे सत्य् अपि निर्विकल्पकम् ।
ननु चायस्य वाच्यवाचकभावग्राहिणो ज्ञानस्यास्तु निर्विकल्पकत्वम्, अस्य तु सर्वशब्दार्थग्राहिणः कथं तथात्वम् इत्य् आह -- संकेतेति । तथा ऽग्रहणम् उक्तेन न्यायेन योगिनं प्रत्य् अपि पूर्वदर्शनविषयत्वस्यासत्त्वाद् इति भावः ।
तया रहितं इत्य् आचार्यीयं विवरणं व्याच[24अ]ष्टे -- तयेति ।
ननु विकल्पे ऽपि विकल्पान्तरं नास्ति । ततस् तस्यापि कल्पनापोढत्वं किं न भवति? अथ कपनया रहितम् इति यन् न विकल्प्यते इत्य् उच्यते, तद् अपि कल्पनापोढम् इत्य् अनेनैवाकारेण विकल्प्यत इति कथम् एतद् उच्यत इति पश्यन् कल्पनया रहितम् इत्य् अस्य विवक्षितम् अर्थम् आह -- कल्पनास्वभावेनेति । कल्पनायाः स्वभावो ऽभिलापसंसर्गयोग्यप्रतिभासत्वम्, तेन । यथा विषाणी ककुद्मान् प्रान्ते वालधिर् इति विषाणादिमता(-तो) विषाण्दीन्य् एव गोत्वलिङ्गानि व्यपदिश्यन्ते । तद्वत् कल्पनाख्येन धर्मिणा धर्मो ऽभिलापसंसर्गयोग्यप्रतिभासत्वाख्यो निर्दिष्ट इति दर्शयति । अत एव चाचार्यदिग्नागीयप्रत्यक्षलक्षणे कल्पणापोढत्वाख्ये यद् उद्द्योतकरचोद्यम् इहैव पूर्वम् उपदर्शितं तत् खलु धर्मकीर्तिचोद्यसदृशम् इति स्थितम् । परेणेति परदेशस्थितेन तद् अनाहितविभ्रमं ज्ञानं प्रत्यक्षम् इत्य् अनेन । अभ्रान्तग्रहणस्यैव तद् विवरणं इति अभ्रान्तग्रहणम् इह । दूरस्थितेन सम्बन्धकरणे किम् प्रयोजनम् इत्य् आह -- कल्पनापोढेति । मिलितयोर् अनयोस् तल्लक्षणत्वात् प्रत्यक्षलक्षणम् इत्य् एकवचनेन निर्देशः । इतिना दर्शनीयस्य रूपम् आह । कथं परस्परसापेक्षतेत्य् आह -- तया रहितं यद् अभ्रान्तं तत् प्रत्यक्षम् व्यवहर्तव्यम् इति शेषः । इतीत्यादिनैव चोपसंहरति । यस्माद् एवम् इतिस् तस्मात् । प्रत्यक्षविषयत्वं दर्शितम् अन्ते प्रत्यक्षग्रहणसामर्थ्यात् ।
[ध्प्र् p.55] तिमिरम् अक्षनोर् विप्लवः । इन्द्रियगतम् इदं विभ्रमकारणम् । आशुभ्रमणम् अलातादेः । मन्दं हि भ्रम्यमाणे ऽलातादौ न चक्रभ्रान्तिर् उत्पद्यते । तदर्थम् आशुग्रहणेन विशेष्यते भ्रमणम् । एतच् च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्छन्त्यां नावि स्थितस्य गच्छद्वृक्षादिभ्रान्तिर् उत्पद्यते इति यानग्रहणम् । एतच् च बाह्याश्रयस्थितंर विभ्रमकारणम् । संक्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादिभ्रान्तिर् उत्पद्यते एतच् च अध्यात्मगतं विभ्रमकारणम् । सर्वैर् एव च विभ्रमकारणैर् इन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैर् इन्द्रियम् एव विकर्तव्यम् । अविकृते इन्द्रिये इन्द्रियभ्रान्त्ययोगात् । एते सम्क्षोभपर्यन्ता आदयो येषां ते तथोक्ताः । आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते । आशुनयनानयनादयो विशयस्थाः । आशुनयनानयने हि कार्यमाने ऽलाते ऽग्निवर्णदण्डाभासा भ्रान्तिर् भवति । हस्तियानादयो बाह्याश्रयस्थाः, गाडमर्मप्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते । तैर् अनाहितो विभ्रमो यस्मिंस् तथाविधं ज्ञानं प्रत्यक्षम् । तिमिरम् अक्ष्णोर् विप्लवहेतुत्वाद् विप्लवः । इन्द्रियगतम् इन्द्रियाश्रितम् । विभ्रमस्य भ्रान्तत्वस्य कारणं साक्षात् कारणत्वेन । अलातं विदग्धकाष्ठम् । आशुग्रहणस्य फलम् आह -- मन्दम् इति । यद्य् अपि मन्दं भ्रम्यमाणस्यालातस्य विभ्रमकारणत्वादर्शनाद् आशुभ्रमणं लभ्यते, तथापि शाश्त्रकृता स्वकीयवचनाकौशलपरिहारार्थम् आशुग्रहणं कृतम् इत्य् अवसेयम् । पूर्वस्माद् एतद्भेदेन कथम् उक्तम् इत्य् आह -- एतद् इति । चो यस्मादर्थे । आशुग्रहणेन नौयानम् अपि विशेषणीयम् । मन्दं हि गच्छन्त्यां नावि न गच्छद्वृक्षादिदर्शनं भवतीत्य् अनुभ्वसिद्धम् एतत् । इतिर् हेतौ । एतत् कस्मात् पृथग् उक्तम् इत्य् आह एतच् चेति । चो यस्मात् । संक्षोभ उपचयः । प्रकोप इति यावत् । स केषाम् इत्य् आकाङ्क्षायाम् आह -- वातेति । नासौ विभ्रमकारणम् इत्य् आशङ्काम् अपनुदन्न् आह -- वातादिषु -- इति । हिर् यस्मात् । क्षोभं प्रकोपं गतेषु संक्षुब्धेष्व् इति यावत् ।
स्याद् एतत् -- अस्तु तिमिरस्येन्द्रियोपघातहेतुकत्वाद् भ्रान्तज्ञानहेतुत्वम् । नौयानादीनां तु कथं सत्स्व् अपि तेषु तदवस्थत्वाद् इन्द्रियस्येत्य् आह -- सर्वैर् एवेति । इन्दिर्यगतस्य तिमिरादेर् इन्द्रियविकारत्वेन सम्मतस्याप्य् उपादानं दृष्टान्तार्थम् । तेनायम् अर्थः -- यथेन्द्रियगतं तिमिरादीन्द्रियविकुर्वद् विभ्रमहेतुः, तथा अन्यैर् अपि तद्विकुर्वद्भिर् एव विभ्रमहेतुभिर् भाव्यम् इति ।
कस्मात् पुनर् अमीभिर् इन्द्रियविकारो ऽवश्यकर्तव्य इत्य् आह -- अविकृत इत्यादि । एतद् उक्तं भवति । तद्विकारविकारित्वाद् आश्रयाश् चक्षुराद्य इति । प्रयोग[24ब्]स् त्व् एवं कर्तव्यः । यदि
[ध्प्र् p.56]
तद् एव लक्षणम् आख्याय यैर् इन्द्रियम् एव द्रष्टृ कल्पितं मानसप्रयक्षलक्षणे च दोष उद्भावितः, स्वसंवेदनं च न अभ्युपगतम्, योगिज्ञानं च; तेषां विप्रतिपत्तिनिराकरणार्थम् प्रकारभेदं प्रत्यक्षस्य दर्शयन्न् आह --
तत् चतुर्विधम् इ-7
तत् चतुर्विधम् इति
इन्द्रियज्ञानम् इ-8 इद्रियस्य ज्ञानम् इन्द्रियज्ञानम् । इन्द्रियाश्रितं तत् प्रत्यक्षाम् । इन्द्रियजभ्रमकारणं तद् इन्द्रियं विकरोत्य् एव तथा तिमिरादि । इन्द्रियजभ्रमकारणं च नौयानादीति स्वभावहेतुः । एवंविधस्य ज्ञानस्य भ्रमरूपत्वं बाधवशाद् अवसितम् इन्द्रियान्वयव्यतिरेकानुविधानाच् चेन्द्रियजत्वम् । तथाभूतविभ्रमकारणात्वं च नौयानादेः स्वान्वयव्यतिरेक्तानुविधानात् सिद्धम् । उपयुक्तकार्त्स्न्ये वा ऽयं सर्वशब्दः प्रवर्त्तनीयः । एत इत्यादि विभ्रमहेतवो गृह्यन्त इत्य् अन्तं सुबोधम् । केवलं पर्यन्तो ऽन्तो वाच्यः । काचो ऽक्षिविकारहेतू रोगविशेषः । कामलो च (-लो ऽत्र) नयनवदनादिविकारकारणं व्याधिविशेष एवेति द्रष्टव्यम् ।
तैर् अनाहितो विभ्रमो यस्मिन्न् इति विगृह्णंस् त्रिपदं बहुव्रीहिं दर्शयति । अनाहितओ विभ्रमो यस्मिंस् तत्तथेति प्रसाध्य तेषाम् अनाहितविभ्रम इति षष्ठीततपुरुषः कार्यः । इदन् त्व् अर्थकथनम् इति बोद्धव्यम् । यो हि तैर् अनाहितविभ्रमः स तेषां भवतीति । ज्ञानाधिकारेण लक्षणविधानाल् लब्धं ज्ञानम्, तेन ज्ञानम् इत्य् उक्तम् ॥
सम्प्रत्य् आचार्यस्यावान्तरप्रत्यक्षभेदव्युत्पादने निमित्तं दर्शयन्न् आह -- तद् एवम् इति । निपातसमुदायश् चायम् उक्तेन प्रकारेणेतिय् अस्यार्थे वर्त्तते । यैर् इति प्रत्येकं योजनीयम् । यैः स्वयूथ्यैर् वैभाषिकैः । यदि ज्ञानं द्रष्टृ स्यात्, तस्याप्रतिघत्वाद् व्यवहितम् अपि गृह्णीयात् । ततः चक्षुः पश्यति रूपाणि अभिध- 1.42] इत्यादि वादिभिर् इन्द्रियम् एव द्रष्टृ कल्पितम् । यैर् मीमांसकैर् आचार्यदिग्नागीये मानसप्रत्यक्षलक्षणे गृहीतग्राहित्वलक्षणो ऽप्रामाण्यनिमित्तो दोष उद्भावितः । लक्षणग्रहणस्योपलक्षणत्वान् मानसप्रत्यक्षाभ्युपगमे ऽपि यो दोषो ऽन्धबधिराद्यभावलक्षणः, सो ऽपि द्रष्टव्यः । यैश् च मीमांसकैः कुमारिलमतानुसारिभिर् नैयायिकवैशेषिकैश् च स्वात्मनि क्रियाविरोधेन स्वसंवेदनं नाभ्युपगतम् । यैश् च चार्वाकमीमांसकैर् योगिन एव न सम्भवन्ति, कुतस् तेषां ज्ञानम् इति वादिभिर् योगिज्ञानं च नाभ्युपगतम् इति वर्तते । त्रयो ऽपि चकारा वक्तव्यान्तरं समुच्चिवन्ति । तेषाम् अमीषां तत्र तत्र या विमतिस् तन् निराकरणार्थं प्रत्यक्षस्योक्तलक्षणस्य प्रकारो विशेषस् तस्य भेदं नानात्वम्, अवान्तरजातिभेदम् इति यावत् ।
तद् इति प्रत्यक्षं चतुर्विधं चतुर्ष्प्रकारम् ॥
तत्रैकं तावद् इन्द्रियज्ञाणम् उक्तं व्याचक्षाण आह -- इन्दिर्यस्येति । ज्ञायते ऽनेनेति ज्ञानम्,
[ध्प्र् p.57]
मानसप्रत्यक्षे परैर् यो दोष उद्भावितस् तं निराकर्तुं मानसप्रत्यक्षलक्षणम् आह --
स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन
समनन्तरप्रत्ययेन जनितं तन् मनोविज्ञानम् इ-9
इन्द्रियं च तज्ज्ञानं चेति कृत्वा शक्यम् इन्द्रियज्ञानम् इति वक्तुम्, तत् कथं विप्रतिपत्तिर् निराकृतेत्य् आशङ्काम् अपाकर्तुम् इन्द्रियज्ञानम् इत्य् अत्राचार्यस्येन्द्रियस्य ज्ञानम् इति षष्ठीतत्पुरुषो विवक्षित इति दर्शयति -- इन्दिर्यस्य ज्ञानम् इति । यद् इन्दिर्येण जन्यते तद् इन्द्रियस्य भवतीति भावः ।
ननु चेन्द्रियानुमानम् अपि कार्यप्रभवं भवतीन्द्रियस्य ज्ञानम् । ततस् तस्यापि प्रत्यक्षत्वं प्रापतम् इत्य् आह -- इन्द्रियाश्रितम् इति । आश्रितं जन्यतया तस्मिन् सत्य् एव भावात् । न चेन्द्रियानु[25अ]आमम् इन्द्रियेण साक्षाज् जन्यते, येन तस्य प्रत्यक्षत्वं स्याद् इति भावः । अनेकहेतुत्वे ऽपि ज्ञानस्येन्द्रियेण व्यपदेशो ऽसाधारणत्वात् तस्येति द्र्ष्टव्यम् । इन्दिर्यस्य ज्ञानं प्रत्यक्षम् इति कथयता नेन्दिर्यस्य द्रष्टृत्वम् इति दर्शितम् । ततो विप्रतिपत्तिर् निराकृता ।
ननु इन्द्रियज्ञानस्य द्रष्टृत्वे तस्याप्रतिघत्वाद् व्यवहितस्यापि ग्रहणं प्रसज्येतेति तैर् उक्तो दोषः । स कथं परिहृतो येन विप्रतिपत्तिर् निराकृतेति चेत् । अयम् आशयः -- न ज्ञानं गत्वा गत्वा ऽर्थं गृह्णाति, येन गमनविबन्धाभावात् व्यवहितम् ऽपि गृह्णीयात् । किन् तर्हि? यदाकारम् उत्पद्यते तद् गृह्णातीत्य् उच्यते । न चायोग्यदेशस्थो ऽर्थस् तत्स्वरूपको ऽन्वयव्यतिरेकाभ्यां विज्ञातः । तत् कथं तस्य तेन ग्रह इति सुज्ञानम् एतद् इति किम् अत्रोपपत्त्याभिहितयेति? इन्द्रियज्ञानं प्रत्यक्षम् इन्द्रियादिसामग्रीजन्यज्ञानं प्रत्यक्षम्, एकस्य जनकत्वविरोधात् । नाज्ञानम् इत्य् अर्थात् ।
एवं च दर्शयता वार्त्तिककारेण यद्वेन्द्रियं प्रमाणं स्यात् तस्य वार्थेन सङ्गतिर्[श्व् 4.60]इत्यादि वचनात् तस्यापि या प्रत्यक्षप्रमाणता मीमांसकादिभिर् अभ्युपगता सा निरस्ता वेदितव्या । तथा हि -- प्रापकं प्रमाणं भवेत् । नान्यत् । प्रापकत्वं च प्रवर्त्तकर्त्वेना[व्यवधानेन न्यान्यथा] । प्रवर्त्तकत्वं चाधिगमात्मकत्वेन, नान्यथा । न च तस्य तथात्वम् अस्ति । अधिगमोपगमेन प्रवर्त्तकत्वे च नैव व्यवधीयते । यतश् चाव्यवधानेन प्रवृत्तिः स एव प्रवर्त्तकत्वात् प्रमाणं युक्तम् । तच् च ज्ञानम् एव । तद् उक्तम् -- धीप्रमाणता, प्रवृत्तेस् तत्प्रधानत्वाद् धेयोपादेयवस्तुनि [प्रमाणवा- 1.5] इति ।
यद्वा प्रमायाः करणात् प्रमाणम् । प्रमा च नीलस्येयं न पीतस्येति विशिष्टेनैवाधिकरणेनावच्छिन्ना प्रतीयत इति तत्करणं भवितुम् अर्हति । यत इयम् अव्यवधाना ताद्रूप्येण व्यवस्थां लभते । इन्द्रियार्थसन्निकर्षादिश् च नीलपीतादि[33]................स्य भेदव्यवस्थाङ्गम् । स्वभेदेन क्रियाभेदनिबन्धनं च करणं ततो ज्ञानात्मकम् एव सारूप्यम् अधिगतिक्रियाभेदव्यवस्थाङ्गं प्रमाणं युज्यत इति । द्वयी चेयं विधा ऽन्यत्राचार्येन विपञ्चितेति नेहोच्यते, प्राज्ञजनाधिकारेणास्य प्रकरणस्य प्रारम्भात् । दिङ्मात्रं तूक्तम् इति ।
__________नोतेस्__________
[33] असपष्टम् -- सं-
[ध्प्र् p.58] स्व आत्मीयो विषय इन्दिर्यज्ञानस्य तस्य अनन्तरः -- न विद्यते ऽन्तरम् अस्य इति । अन्तरं च व्यवधानं विशेषश् च उच्यते । ततश् च अन्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण इन्द्रियविज्ञानविषयस्य गृह्यते । स सहकारी यस्य इन्द्रियज्ञानस्य तत् तथोक्तम् । द्विविधश् च सहकारी -- परस्परोपकारी एककार्योपकारी च । इह च क्षणिके वस्तुन्य् अतिशयाधानायोगाद् एककार्यकारित्वेन सहकारी गृह्यते । ननु चतुर्विधप्रत्यक्षाभिधाने निमित्तम् उक्तम् एव धर्मोत्तरेण तत् कथं तद् एव मानसेत्यादिना पुनर् आचष्टे । अथाचार्यस्य चतुष्टयाभिधाने निमित्तं यद् आसीत् बुद्धिस्थं तत् प्राग् उक्तम्, तद् एव तु यथायोगं प्रत्यक्षव्यक्तिविशेषाभिधाने ऽभिधानीयम् इति । तर्हि यैर् इन्द्रियं द्रष्टृ कल्पितं तन्निराकरणार्थम् आह -- इन्द्रियज्ञानम् इति तथा ऽन्यत्रापि स्वसंवेदनादौ तत्तन्निमित्तम् अनेन किन्नोक्तम्? तद् अत्रापि मानसं व्याख्यातुम् आहेति वक्तुं युक्तम् इति । सत्यम् एतत् । केवलं मानसस्य प्रत्यक्षस्याशक्यनिश्चयत्वेनाव्यवहाराङ्गत्वात् प्ररोक्तदोषनिराकरणमात्रम् एवास्य लक्षणाख्याने निमित्तं नान्यद् इति प्रतिपाद्यितुम् उक्तम् एव निमित्तम् अनूदितम् इति न किञ्चिद् अवद्यम् । अथेन्द्रियज्ञानस्यापि लक्षण[25ब्]म् अन्येषाम् इव किं नोक्तम्? नोक्तम् । तल्लक्षणविप्रतिपत्त्यभावात् । इन्दिर्यज्ञानम् इति निगदेनैव व्याखातत्वाच् चेति ।
स्यान् मतम् । अभिमतं चतुर्विधं प्रत्यक्षं दर्शयितव्यम् । तच् चैकदा वक्तुम् अशक्यत्वात् क्रमेण वचनीयम् । क्रमश् चैवंविधो ऽस्त्व् अन्यादृशो वा किम् अत्रादरेणेति इन्द्रियज्ञाणादिर् ईदृशः क्रमः कृतः, अथान्यद् अप्य् अस्य निमित्तम् अस्तीति? अन्यद् अप्य् अस्तीत्य् उच्यते । तथा हि सर्वस्य सर्वव्यवहाराङ्गम् इन्द्रियज्ञानम् इति तदादितो ऽभिहितम् । तेनैवेन्द्रियज्ञानेन तथाभूतेन मानसं जन्यत इति तदनु मानसं व्याख्यातम् । तस्य पश्चात् प्रत्यात्मवेद्यतया ऽस्तिवेन शक्यनिश्चयतया च स्वसंवेदनम् उदितम् । ततः सर्वज्ञज्ञानस्य सामग्रीमात्रप्रदर्शनतयऽन्तिमपुरुषार्थतया चान्ते योगिज्ञानम् उपदर्शितम् इति ।
स्व इत्यादिना स्वविषयेत्यादिलक्षणं व्याचष्टे । तच् च तत् तथोक्तम् इत्य् एतद् अन्तं सुगमम् ।
नन्व् अनुकारकस्य सहकारित्वे ऽतिप्रसङ्गाद् उपकारिणा सहकारिणा भाव्यम् । समसमययोश् चोपकार्योपकारकभावाभावात् कथम् असौ विषयक्षणस् तस्य सहकारीत्य् आशक्याह -- द्विविधश् चेति । परश्परेत्यादि । चो यस्मात् । द्विविधो द्विप्रकारः सहकरणशीलो भावः । कथं द्वैविध्यम् इत्य् आह -- परस्परेत्यादि । परस्परोपकारितया च सहकारित्वम् एकत्वाध्यवसायाधीनं सन्तानगतम् अमुख्यम् । मुख्यं तु एकार्थक्रियाकारित्वेन । यदि द्वैविध्ये ऽपि प्राक्तनस्य ग्रहणं तदा तदवस्थो दोष इत्य् आह -- इहेति । इह मानसक्रियायाम् । चो ऽवधारणे । एकार्थक्रियाकारित्वेनेत्य् अस्मात् परो द्रष्टव्यः । सहकारी हि गृह्यते विषयक्षण इति प्रकरणाद् अवसेयम् । पूर्वं कस्मान् न गृह्यत
[ध्प्र् p.59] विषयविज्ञानाभ्यां हि मनोविज्ञानम् एकं क्रियते यतस् तन् अनयोः परस्परसहकारित्वम् । ईदृशेन इन्द्रियविज्ञानेन आलम्बनभूतेन अपि योगिज्ञानं जन्यते. तन् निरासार्थं समनन्तरप्रत्ययग्रहणं कृतम्. समश् च असौ ज्ञानत्वेन, अनन्तरश् च असौ अव्यवहिततत्वेन, स च असौ प्रत्ययश् च हेतुत्वात् समनन्तरप्रत्ययः, तेन जनितम् । इत्य् आह -- क्षणिक इति । हेतुभावेन विशेषणम् । अथ यदि वस्तुनः क्षनिकत्वेनातिशयाधानासम्भवात् परस्परोपकारित्वेन न सहकारी गृह्यते द्विविधश् च सहकारीत्य् अनन्तरम् उदितम् अनेन व्याहन्येत । हेतुबिन्दुश् च विरुध्येतेति सर्वम् असमञ्जसम् । न । अभिप्रायापरिज्ञानात् । तथा हि क्षनिके वस्तुनीति धारया ऽप्रवाहिणि सजातीयाप्रसवधर्मिण्य् अन्तिमे मानसोत्पादकतया ऽभिमत इन्द्रियज्ञाननाम्नि निरोधोन्मुख इत्य् अभिप्रेतम् । न त्व् अक्षणिकव्यावृत्त्या क्षणीकपदाभिलाप्ये ऽवस्तुमात्रव्यावृत्त्या च वस्तुमात्र इति
एतद् उक्तं भवति । यदीदं मानसोपजननोन्मुखम् इन्द्रियज्ञानम् एकजातीयप्रवाहवाहि स्यात् तदा सन्तानोपकारद्वारकातिशयाधायकत्वे विषयो ऽस्य सहकारीति कल्पेयेत । केवलम् इदम् अपेतसजातीयप्रसवशक्तिकं सन्तानवर्त्तीति कथम् अस्य विषयस् तथा सहकारी कल्प्येतेति । ननु किं तद् एकं यत् कुर्वतोर् एतयोस् तथासहकारित्वम् उच्यत इत्य् आह विषयेति । हिर् अवधारेणे । यतो यस्माद् आभ्याम् एव तद् एकं किर्यते, तस्मात् । तद् इत्य् अयं तस्माद् इत्य् अस्मिन्न् अर्थे । अन्योन्यस्य सहकारित्वम् एकार्थक्रियाकारित्वेनेति प्रकरणात् ।
ईदृशेनेत्यादिना समनन्तरप्रत्ययग्रहणस्य व्यवच्छेदं दर्शयति । ईदृशेन स्वविषयानन्तरविषयग्रह[26अ]णसहकारिणा । आलम्ब्यत इति आलम्बनभूतं रूपं यस्य तेन ग्राह्यस्वभावेन सता जन्यत इत्य् अर्थः । तस्य योगिज्ञानस्य निरासर्थं मानसत्वनिराकरणार्थम् । एवञ् च व्याचक्षाणेन "समनन्तरप्रत्ययग्रहणम् अन्धबधिराद्यभावप्रसङ्गनिराकरणार्थम् इति" यद् अन्येन व्याख्यातम् -- तद् अपहस्तितम् । इन्द्रियज्ञानग्रहणेनैव तत्प्रसङ्गस्य निराकृतत्वाद् इति ।
समश् चेत्यादिना समनन्तरप्रत्ययशब्दस्य विग्रहम् अर्थं चाह । हेत्व् अर्थः प्रत्ययार्थः । शकन्ध्वादिपाठाच् च न दीर्घत्वम् । यदि नामैवं व्युत्पत्तिस् तथापि प्राक्तनम् एव विज्ञानम् उपादानभूतम् आगमे तथा रूढं नान्यत् । तद् उक्तम् अभिधर्मकोषे -- "चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः" [2.6.2] इति । सिद्धान्तप्रसिद्धया चामुया संज्ञया व्यवहरता ऽऽचार्येण सिद्धान्तप्रसिद्धत्वम् अस्य दर्शितम् ।
[ध्प्र् p.60] तद् अनेन एकसन्तानान्तर्भूतयोर् एव इन्द्रियज्ञानमनोविज्ञानयोर् जन्यजनकभावे मनोविज्ञानं प्रत्यक्षम् इत्य् उक्तम् भवति । ततो योगिज्ञानं परसन्तानवर्तिम् निरास्तम् । ननु किं कृतं समन्तरप्रत्ययग्रहणेन येन योगिज्ञानस्य तथात्वेन निरास इत्य् आह -- तद् इति । यस्मात् समनन्तरप्रत्ययरूपेणेन्द्रियज्ञानेन यज् जनितं तन् मानसं तत् तस्मात् कारणाद् अनेन समनन्तरप्रत्ययग्रहणेनैकसन्तानान्तर्भूतयोर् एकसन्ततिपतितयोर् एव जन्यजनकभावे सति मनोविज्ञानम् इति । साक्षाद् इन्द्रियाजन्यतया मनोमात्राश्रितत्वान् मानसम् एवोक्तम् । आगमे ऽपि मनःशब्देनैतद् एवोच्यत इति प्रदर्शनार्थं चैवम् अभिधानं मन्तव्यम् । तथापि कथं योगिज्ञानं तथात्वेन निरस्तम् इत्य् आह -- तत् इति । यस्माद् उपादानोपादेयभूतयोर् ग्रहणं भिन्नसन्तानवर्त्तिनोश् चोपादानोपादेयभावाभावः, तस्माद् योगिज्ञानं निरस्तं मानसत्वेन प्रतिक्षिप्तम् । यदि पुनर् इन्द्रियज्ञानेन जनितम् इत्य् एतावद् उच्येत तदा ऽऽलम्बनभूतेनापि तेनादौ जन्यत इति निरस्तं न स्याद् इति भावः ।
स्याद् एतत् -- यद्य् एतद् अर्थं सम्ननतरप्रत्ययग्रहणं तर्हि नितरां न कर्त्तव्यम् । स्वविषयानन्तरविषयक्षणसहकारिणेत्य् अनेनैव योगिज्ञानस्य निरस्तत्वात् । न हि तद् इन्द्रियज्ञानं योगिज्ञाने कर्त्तव्ये स्वविषयानन्तरविषयक्षणसहकारीति । अथोच्यते -- यदेन्द्रियज्ञानं योगिज्ञानं जनयति तदा स्वोपादेयम् अपि ज्ञानं जनयत्य् एव । ततः स्वसन्ततिपतितजन्यक्षणापेक्षया तद् भवति स्वविषयानन्तरविषयक्षणासहकारीत्य् अस्ति तज्जानितस्य तस्य मानसत्वलक्षणम् इति । अहो शब्दार्थव्यवस्थापनकौशलम्? यद् एव हि जन्यतया प्रकृतं तद् अपेक्षम् एव सहकारिणः सहकारित्वं चिन्तनीयम् । न तु यत् किञ्चिद् अपेक्षम् । न च तद् एव योगिज्ञानं प्रति तत् सहकारि तद् इन्द्रियज्ञानं येन तथात्वम् अस्योच्यमानं शोभेत । अथ तत् सहकारि तद्वस्तुवृत्त्या तद् इन्द्रियज्ञानं । तत् किम् तदपेक्षया चिन्तयेति चेत् । यद्य् एवं कृते ऽपि समनन्तरप्रत्ययग्रहणे योगिज्ञानं निरसितुम् अशक्यं तथापि यथा तद् इन्द्रियज्ञानं स्वोपादेयज्ञानापेक्षं स्वविषयानन्तरविषयसहकारि तथा तदेवापेक्ष्य समन्तरप्रत्ययो ऽप्य् अदो भ[26ब्]वत्य् एव । ततस् तथाभूतेन तेन जन्यमानस्य योगिज्ञानस्य कथं तथात्वेन निरासः । ननु न तदपेक्षं तस्य समननतरप्रययत्वम् । हन्त तत् सहकारित्वम् अपि किम् अस्य तदपेक्षम् अस्ति? अथ समननतरप्रययत्वं प्रकृतजन्यापेक्षं ग्राह्यम्, न तु वास्तवं रूपम् उपादेयं फलाभावेन तस्यानुवाद्यताऽनुपपत्तेः । अन्यथा समस्तवास्तवरूपानुवाद्यताप्रसं[गा]द् इति चेत् । समानम् इदं स्वविषयाननतरविषयक्षणसहकारिग्रहणे ऽपि । न च राजशासनसमानं किञ्चिद् उत्पश्यामो येन समनन्तरप्रत्ययजन्यत्वम् एव प्रकृतजन्यापेक्षम् इह ग्राह्यम्, न तु स्वविषयानन्तरविषयक्षणसहकारित्वम् इति कल्पनीयम् इति ।
अत्रोच्यते । यदा -- योगी इन्द्रियज्ञाणं तत्सहभुवं चार्थक्षणं च कुतश्चित् कारणाद् दिदृक्षमाणो योगिज्ञानेन तद् द्वयम् अपि पश्यति तदा तेनेन्दिर्यज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद् योगिञानं जन्यत इति असति समनन्तरन्प्रययग्रःअणे मानसप्रत्यक्षं समासज्येत । ततस् तन्निर्वृत्त्यर्थं कर्त्तयम् एव समनन्तरप्रययग्रहणम् । एवंविधम् एव च योगिज्ञानम् अभिप्रत्येत्येदृशेनेत्य् एभिहितं धर्मोत्तरेणेति सर्वम् अवदातम् । [ध्प्र् p.61] यदा च इन्द्रियविज्ञानाद् अन्यो विषयो मनोविज्ञानस्य तदा गृहितग्रहणात् आसञ्जितो ऽप्रामाण्यदोषो निरस्तः । यदा च इन्द्रियविषयोपादेयभूतः क्षणो गृहीतः, तदा इन्द्रियज्ञानेन अगृहीतस्य विषयान्तरस्य ग्रहणाद् अन्धबधिराद्यभावदोषप्रसङ्गो निरस्तः । सम्प्रति यथा गृहीतग्राहित्वद्वारको दोषः परस्य परिह्रियते तथा दर्शयन्न् आह -- यदा चेति । चो व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे । यदैवं तदा निरस्तः । इन्द्रियज्ञाणविषयाद् अन्यो ऽस्य विषय इत्य् एतद् एव कुतो येनासौ निरस्तो भवति इत्य् आश्ङ्क्याह -- यदा चेति । चो ऽवधारणे । इन्द्रियविज्ञानविषयोपादेयभूत इत्य् अस्मात् परो द्रष्टव्यः । इन्द्रियज्ञानस्य विषयो यस् तस्योपादेयभूतो यः क्षणः स गृहीत इन्द्र्यज्ञानस्य मानसोपजनने सहकारिकारणत्वेन स्वीकृतस् तदेतीहैव च्छेदः कर्त्तव्यः । एवं ब्रुवतेदम् आकूतम् -- जनकविशेषस्य विषयत्वान् मानसप्रत्यक्षस्य विषयेण भवता जनकेनावश्यभाव्यम् । जनकश् चेन्द्र्यज्ञानसहभूः क्षणस् तस्येति । सो ऽस्येन्द्रियज्ञानविषयात् प्राक्तनार्थक्षणाद् अन्यो विषय इति । अनेन च स्वविषयानन्तरविषयक्षणसहकारिग्रहणस्योपयोगो दर्शितः ।
अथेत्थं गृहीतग्राहित्वाद् अप्रमाण्यप्रसङ्गो निराक्रियताम् । अन्धबधिराद्याभावदोषप्रसग्ङ्गस् तु कथङ्कारं निराक्रियेतेत्य् आशङ्क्याह -- इन्द्रियज्ञानेनेति । अमुनागृहीतस्य विष्यान्तरस्य ग्रहणान् मानसेनेति प्रकरनात् । तस्माद् हेतोर् इन्द्रियज्ञानेनागृथीतं मानसेन गृह्यत इति दर्शयता चानेन यस्यैवेन्द्रियम् अस्ति तस्यैव तेनेन्द्रियज्ञानेन सहभूविषयक्षणसहकारिणा जनितत्वान् मानसं प्रत्यक्षम् । तेनागृहीतं तत्सहभुवः विषयक्षणं गृह्णाति । यस्य पुनः पुंसो ऽर्थविषयम् इन्द्रियज्ञाणम् एव सास्ति तस्य कथं माणसम् उत्पद्यते, गृह्णीयाद् वा तम् विष्यक्षणम् इति दर्शितम् । अतो ऽन्धबधिराद्यभावदोषप्रसङ्गो निरसत इति । अनेनेन्द्रियज्ञाणग्रहणस्य स्वविषयानन्तरविषयक्षणसहकारिसचिवस्योपयोगो दर्शितः । केवले ऽपि ज्ञानेनेति ग्रहणे [स्व][27अ]विषयानन्तरविषयक्षणसहकारिणेति विशेषणबलाद् यदि नामेन्द्रियज्ञानेनेति लभ्यते तथापि प्रतिपत्तिगौरवपरिहारार्थम् इन्देर्यग्रहणम् कृतम् इत्य् अवसेयम् । अन्धबधिरादीत्य् अत्रादिग्रहणात् काप्ति(कुष्ट)रोगिणो ग्रहणम् तस्यापि मानसेन स्पर्शज्ञानात् ।
इह शान्तभद्रेण सौत्रान्दिकानां मतं दर्शयता "पूर्वं चक्षूरूपे चक्षुर्विज्ञानं ततस् तेनेन्द्रियविज्ञानेन सहजक्षणसकारिणा तृतीयस्मिन् क्षणे मान्सप्रत्यक्षं जन्यते" इति व्याख्यातं ।
[ध्प्र् p.62] एतच् च मनोविज्ञानम् उपरतव्यापारे चक्षुषि प्रत्यक्षम् इष्यते । व्यापारवति तु चक्षुषि यद् रूपज्ञानं तत् सर्वं चक्षुराश्रितम् एव । इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिद् अपि विज्ञानस्य । तद् अवमन्यमान आह -- एतच् चेति । चो ऽवधारणे । उपरतव्यापार इत्य् अस्यानन्तरं द्रष्तव्यः । चक्षुषो व्याप्रियमाणावस्था प्रणिधानम् एव । एतन् मनोविज्ञानं प्रमाणं प्रमाणत्वेनोपगतम् उपरतव्यापार एव चक्षुषि भवतीतीष्यत इति समुदायार्थो द्रष्टवः । यदि प्रणिहिते नयने मनोज्ञानं न जन्यते तर्हि किं नाम जायत इत्य् आह -- व्यापारेति । तुर् निर्व्यापारावस्थाया व्यापारवतीम् अवस्थाम् भिनत्ति । रूपज्ञानम् इति वास्तवानुवादो न पुनर् अन्यज्ञानसम्भवेन तद्व्यवच्छेदार्थम् । यद् वा रूपशब्दः स्वभाववचनस् तेने यत् स्वभावज्ञानम् इत्य् अर्थः । सर्वग्राहणेन व्याप्तिम् आह । चक्षुराश्रितं चक्षुर्जन्यं चक्सुर्विज्ञानम् इति यावत् । उपपत्तिम् आह इतरथेति ।
ननु व्यापारवत्य् अपि चक्षुषि मानसोत्पत्तौ न चक्षुराश्रितत्वानुपपत्तिरादिम् अस्यैव ज्ञाणस्य चक्षुराश्रितत्वोपपत्तेः । सत्यम् । केवलम् अ[यम्] अभिप्रायः -- यद् अपि तद् आद्यं चक्षुर्विज्ञानं तद् अपि चक्षुरन्वयव्यतिरेके ऽ(का)नुविधानाद् एव तदाश्रितं व्यवस्थापनीयम् । सत्य् अपि तदन्वयव्यतिकेर्कानुविधाने यदि कस्यचिन् मानसत्वं तदा चक्षुरन्व्यव्यतितेकौ चक्षुराश्रितत्वव्यवस्थाया अनङ्गम् इत्य् आद्ये ऽपि तद्व्यवस्था न स्याद् इति साधीयान् प्रसङ्गः ।
स्याद् एतत् -- किम् एतन् मानसं चक्षुर्विज्ञानेनैव रूपविषये जन्यते किं वा रसादिज्ञानेनापि रसादिविषय इति? किं चातः? यदि रूप एव तदा[34]"द्विविधज्ञानविज्ञेयाह् पञ्च बाह्यविसयाः" इत्य् आगमो विरुद्ध्येत । अथ समस्तरूपादिविषयम् इष्यते तदा शब्दविषयत्वेन तस्यासम्भवः । न हि रसादिर् इव ताल्वादिजन्मा शब्दः प्रवाहवाही, येन श्रोत्रेन्द्रियज्ञाणेन स्वाविषयानन्तरविषयक्षणसहकारिणा तत्र मानसं जन्येतेति । उच्यते -- रूपादिपञ्चविषयम् एतत्, न तु रूपमात्रविषयम् । तद् आहाचार्यः -- इन्द्रियज्ञानेन, न तु चक्षुर्विज्ञानेनेति । यत् पुनर् अवादीद् भगवान् -- "द्वाभ्यां भिक्ष्वो रूपं गृह्यते, चक्षुर्विज्ञानेन तदाकृष्टेन च मनसेति" तद् रूपस्य ग्रहणप्रसङ्गेनोक्तम्, न तु रूपम् एव द्विधा गृह्यत इति विवक्षितम् ।
__________नोतेस्__________
[34] द्रष्टव्यो ऽभिधर्मकोषः -- "पञ्च बाह्या द्विविज्ञेयाः" -- 1.48.
ननूक्तं न तस्य शब्दविषयत्वेन सम्भवस् तत् कथम् एवम् अभ्युपगमः? सत्यम् एतत् । केवलं यदाभिहन्यमानं घण्टाटि रणति तदा तदुक्तः(-त्थः) शब्दः कियन्तं कालं सन्तानेन प्रवहतीति श्रोत्रज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद्विषयं मानसं जन्यते । एतावतापि द्विविधज्ञानवेद्यत्ववचनं चरितार्थम् । तद् उक्तम् अभिधर्मकोशे -- "रूपादिजात्यभिसम्बन्धिवचनाद्" इति । अस्यार्थः -- रूपादिजात्यभिसन्धिना तद् उक्तं भगवता, न तु सर्वरूपादिव्यक्त्यभिप्रायेणेति ।
इह पूर्वैः -- "बाह्यार्थालम्बनम् एवंविधं मनोविज्ञानम् अस्तीति कुतो ऽवसेयं" इत्य् आशङ्क्य "तदभावे तद्बलोत्पन्नानां विकल्पानाम् अभावाद् रूपादौ विषये व्यवहाराभावप्रसङ्गः स्याद्" इत्य् उक्तम् । "चक्षुरादिविज्ञानेनानुभूतत्वान् न विकल्पाभाव" इति चाशङ्क्याभिहितं -- "देवदत्तेनापि
[ध्प्र् p.63] एतच् च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् । न त्व् अस्य प्रसाधकम् अस्ति प्रमाणम् । एवंजतीयकं तद् यदि स्यात् न कश्चिद् दोषः स्याद् इति वक्तुं लक्षणम् आख्यातम् अस्य इति । दृष्टे यज्ञदत्तस्याषि विकल्पप्रसङ्गः ।" "सन्तानभेदा[न् न] भविष्यते" इति च पुनर् आशङ्क्य "अत्रापि सन्तानभेदाद् एव विकल्पो न प्राप्नोति, यत इहापीन्द्रियाश्रयभेदाद् एव सन्तानभेदो युगपत् प्रवृत्तेश् च । दीर्घशष्कुलीभक्षणादौ हि युगपज् ज्ञानप्रवृत्तिर् दृश्यते । न च सन्तानस्यैक्ये युगपत् प्रवृत्तिर् न्याय्या । तस्माद् रूपादिविकल्पाभावो मा भूद् इत्य् अवश्यम् अविकल्पकं मनोविज्ञानम् अभ्युपेयम् । एतेन निश्चयस्मरणाभावप्रसङ्गो ऽपि ढौकनीयः । निर्विकल्पकं मनोविज्ञानं यदि नास्त्य् एव तदा योगिज्ञानाभावप्रसङ्गः । अस्त्य् एव निर्विकल्पकं मनोविज्ञानं किन् त्व् इन्द्रियज्ञानपृष्टभावि नास्तीति चेत् । सति सम्भवे तस्याप्य् अस्तित्वे को विरोधः । न ह्य् अत्र बाधकं प्रमाणं दृश्यते, येन तन् नास्तीति स्यात् । अस्तिवे चोक्तं प्रमाणम् । तस्माद् अस्तीन्द्रियज्ञानपृष्टभावि मनोज्ञानं निर्विकल्पकम्" इत्य् एवमाद्यभिहितम् । तद् एतत् तदीयं कदलीगर्भनिःसारं मन्यमानः प्राह -- एतच् चेति । चो ऽवधारणे । सिद्धान्तप्रसिद्धम् इत्य् अतः परो द्रष्व्यः । एतद् एव व्यतिरेकमुखेण द्रढयति न त्व् अस्येति । तुर् अवधारयति भिनत्ति वा । प्रवाहानारम्भकस्यास्य ज्ञानात्मतया स्वसंवेदनरूपत्वे ऽप्य् असंविदितकल्पत्वाद् अनुभवगम्यम् इदं यथा चक्षुरादिज्ञानम् इति दर्शयितुम् अशक्यत्वान् नास्य प्रसाधकं निश्चायकं प्रमाणम् अस्ति ।
ननु तैर् दर्शितम् एव विकल्पाभावप्रसङ्गः स्याद् इत्यादिना प्रसङ्गमुखेन प्रमाणं विकल्पोदयाद् इति तत् किम् उच्यते न त्व् अस्य प्रसाधकम् अस्ति प्रमाणम् इति । अयम् अस्याशयः -- सत्यम् उक्तम् अतार्किकीयं तु तत् । तथा हि यत् तावद् उक्तम् इन्द्रियाश्रयभेदाद् युगपत् प्रवृत्तेश् च सन्तानभेदो ऽस्ति । न च सन्तानभेदे ऽन्यानुभूते ऽन्यविकल्पो युक्त इति । तद् अवाच्यम् । यदीन्द्रियाश्रयभेदाद् युगपत् प्रवृत्तेश् च सन्तानभेदस् तद्भेदे च न कार्यकारणभावः, तदा स्वापाद् उत्थितमात्रस्य पुंसश् चक्षुर्विज्ञानं ..................................................................... नोत्पद्येत । तत् खलूपजायमानं मनोज्ञानाद् वा प्राचीनाद् उत्पद्येत, इन्द्र्यज्ञानाद् वा । न तावद् इन्द्र्यज्ञाणात् तस्य पूर्वम् अभावात्, नापि जागरावस्थाभावीन्द्र्यज्ञानात् । तस्य् चिरनिरुद्धत्वात् । न च चिरातीतं कारणम् इश्यते । अथैवं भिन्नसन्तानैर् एव विकल्पितैर् विकल्पोदयो ऽस्त्य् एव न तु निर्विकल्पाद् विकल्पोदय इति चेत् । सन्तानभेदे ऽपि जन्यजनकभावे निर्विकल्पाद् अपि विकल्पोदयस्य को निषेद्धा । न चेन्द्रियाश्रयभेदाद् युगपत् प्रवृत्तेश् च सन्तानभेदो युज्यते । परस्परपरोक्षतादिप्रसङ्गात् । तस्मात् प्रभूतम् अल्पं वा सदृशाद् एव कारणाज् जायते । न तु प्रभूतस्योदयमात्रेण सन्तानभेदो ऽभ्युपेतव्यः । यथाग्निकणिकायाः [28अ] प्रभाप्रतानवती प्रदीपशिखा जायमाना न सन्तानभेदम् आत्मन्य् आवहति । यत् पुनर् योगिज्ञाणस्य तथात्वे ऽपीदानीं मनोज्ञानं निर्विकल्पकं नाभ्युपेयते तद् यादृशाः सामग्र्यास् तद् उद्भवो यदाकारञ् च तत् तत् सामग्र्यभावात् तद् आकारस्य च मनोविज्ञानस्य निर्विकल्पस्यासंवेदनाद् इति किम् अत्रादरेणेति ।
ननु च यद्य् अस्य प्रसाधकं प्रमान्ं नास्ति किमर्थं तर्हि प्रत्यक्षप्रकरण उपन्यास इत्य् आशङ्क्याह -- एवम् इति । एवंजातीयकम् एवम्प्रकारवत् । एवम् प्रकारलक्षणकथनस्यैव किम् प्रयोजनम् इति चेत् । सूत्रकारस्य सिद्धान्तप्रसिद्धमानसाभ्युपगमे प्रसक्तचोद्यनिराकरणम् -- यद्य् अस्ति मानसं प्रत्यक्षम् एवं तस्य लक्षणम् इति ।
[ध्प्र् p.64]
स्वसंवेदम् आख्यातुम् आह --
सर्वचित्तचैत्तानाम् आत्मसंवेदनम् इ-10 सर्वचित्तेत्यादि । चित्तम् अर्थमात्रग्राहि । चैत्ता विशेसावस्थाग्राहिणः सुखादयः । सर्वे च ते चित्तचैत्ताश् च सर्वचित्तचैत्ताः । सुखादय एव स्फुटानुभवत्वात् स्वसंविदिताः, न अन्या चित्तावस्था इत्य् एतद् आशङ्का निवृत्त्यर्थं सर्वग्रहणम् कृतम् । न अस्ति सा काचित् चित्तावस्था यस्याम् आत्मनः संवेदनं न प्रत्यक्षं स्यात् । येन हि रूपेण आत्मा वेद्यते तद्रूपम् आत्मसम्वेदनं प्रत्यक्षम् । वैभाषिकप्रक्रियया यदाचार्येण चित्तचैत्तौ भेदेनोक्तौ तयोर् अर्थम् आह -- चित्तम् अर्थमात्रग्राहि वस्तुमात्र ग्राहि । "तत्रार्थदृष्टिर् विज्ञानम्" इति वचनात् । चैत्ता विशेषावस्थाग्राहिणो विशेषावस्थास्वीकर्त्तारो विशेषावस्थाकारा इति यावत् । तद्विशेषे तु चैतसा इति वचनात् । क एवं रूपा इत्य् आह -- सुखादय इत्य् । सर्वे चेति । विगृह्णन् पूर्व चित्तानि च चैत्ताश् चेति समस्य पश्चात् सर्वशब्देन समास इति दर्शयति । सुखेत्यादिना सर्व ग्रहणस्य फलम् आह -- स्फुटो व्यक्तो ऽनुभवः प्रकाशो यस्य तस्यभास् तस्मात् । सर्वग्रहणे सति कीदृशो ऽर्थो भवति, येनाशङ्का निवर्त्त्यत इत्य् आह -- नास्तीति । काचिदिति भ्रान्ता वा ऽभ्रान्ता वेत्य् अर्थः ।
ननु ज्ञानस्य संवेद्यात्मः किम् अन्यद् रूपान्तरं यत् स्वसंवेदनं प्रत्यक्षं स्याद् इत्य् आशङ्क्याह -- येन हीति । हिर् यस्मादर्थे ।
अथ यद् अनुभूयते तद् अन्येनैव यथा घटादि । तत् कथम् आत्मनैवात्मनः संवेदनम् इति चेत् । न, योग्यतायास् तथाव्यवहारात् । अस्ति ज्ञानस्य सा योग्यता जडव्यावृत्तता ज्योतीरूपता यया स्वप्रकाशे प्रकाशान्तरं नापेक्षते । यथा प्रदीपः प्रकाशस्वाभाव्याद् आत्मानं स्वयम् एव प्रकाशय्ते, न तु प्रदीपान्तरम् अपेक्षत इति ।
ननु किं घडादिदृष्टान्तबलात् प्रकाशान्तरप्रकाश्यता ज्ञानस्यास्ताम्, आहोस्वित् प्रदीपदृष्टान्तसामर्थ्यात् प्रकाशान्तरनिरपेक्षतया स्वप्रकाशता? अत्रोच्यते । ज्ञानस्य स्वप्रकाशरूपत्वाभावे घटादेः स्वरूपप्रकाशनानुपपत्तेः स्वप्रकाशतैवेष्टव्या । अत्र च प्रयोगः -- यद् अव्यक्तव्यक्तिकं न तद् व्यक्तम् यथा किञ्चित् कदाचित् कथञ्चिद् अव्यक्तव्यक्तिकम् । अव्यक्तव्यक्तिकश् चायं घटादिः ज्ञानपरोक्षत्व इति व्यापकानुपलब्धिप्रसङ्गः । ज्ञानस्य ज्ञानान्तरेण व्यक्तौ हेतुर् अयम् असिद्ध इति चेन् न, नीलज्ञानोदयकाले ऽसिद्धत्वाद् हेतोर् नीलस्य परोक्षत्वप्रसञ्जनात् । न च भवताम् अपि मते सर्वं विज्ञानम् एकार्थसमवायिना ज्ञानेन ज्ञायते । बुभुत्साभावे तदभावात्, यथोपेक्षणीयविषया संवित् । तत् उपेक्षणीयम् एव तावद् अव्यक्तव्यक्तिकत्वाद् अव्यक्तं प्रसज्येत । न चेयम्
[ध्प्र् p.65] इह च रूपादौ वस्तुनि दृश्यमाने आन्तरः सुखाद्याकारस् तुल्यकालं संवेद्यते । न च गृह्यमाणाकारो नीलादिः सातरूपो वेद्यते इति शक्यं वक्तुम् । यतो नीलादिः सातरूपेण अनुभूयत इति न निश्चीयते । यदि हि सातरूपो ऽयम् नीलादिर् अनुभूयत इति निश्चीयेत, स्यात् तदा तस्य सातादिरूपत्वम् । यस्मिन् रूपे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेन अनुगम्यते तत् प्रत्यक्षम् । अनुपलब्धिः सन्दिग्धविपक्षव्यावृत्त्यानैकान्तिकी कीर्त्तनीया ।[28ब्] तथा हि यद्य् अव्यक्तव्यक्तिकम् अपि व्यक्तव्यवहारविषयस् तदा पुरुषान्तरवर्त्तिज्ञानव्यक्तिकम् अपि वस्तु स्वज्ञानोदयकालवत् तथैव व्यक्तं व्यवह्रियेत । अस्वसंवेदनात्मतया स्वपरसन्तानवर्त्तिनोर् ज्ञानयोर् विशेषाभावात् । तत्सन्ताने ज्ञानस्याभावात् कथं वस्तुनस् तथा व्यवःआर इति चेत् । भावे ऽपि तदप्रकाशे कथं तथा व्यवहारः? न हि तेनास्य किञ्चित् क्रियते ।[35]...... तदा तद् अपि पुरुषान्तरस्य किन् न तथा व्यवहारगोचर? तद् अयं व्यक्तव्यवहारो व्यक्तव्यक्तिकत्वेन व्याप्तः । सिद्धे च व्याप्यव्यापकभावे व्यापकानुपलब्धिर् नानैकान्तिकीति ।
__________नोतेस्__________
[35] पङ्क्तिबाह्यं लिखितं सम्यक् न पठ्यते -- सं-
ननु किं तद् रूपान्तरम्, येनोच्यते -- येनात्मा संवेद्यते, तद् आत्मसंवेदनं प्रत्यक्षम् इति? केवलम् अर्थशूयम् एतद् उच्यते इत्य् आशङ्क्याह -- इहेत्यादि । अन्तरे भव आन्तरो ऽध्यात्मपरिस्पन्दी । को ऽसाव् ईदृश इत्य् आह -- सुखेति ।
ननु गृह्यमाण एव रूपादिः सुखायाको ऽनुभूयते । न तु ततो ऽन्यत् सुखादिरूपं येन तस्य वेदनरूपता व्यवस्थाप्य् एतेत्य् आह -- न चेति । चो ऽवधारणे, यस्मादर्थे वा । गृह्यमाण आकारो यस्य ग्राह्यस्वभाव इत्य् अर्थः । सातरूपः सुखस्वभावः । सातग्रहणस्योपलक्षणत्वाद् दुःखरूप इत्य् अपि द्र्ष्टव्यम् । इतिना वचनस्याकारं दर्शयति । कुत एवं वक्तुं न शक्यत इत्य् आह -- यत इति । इतिर् निश्चयअस्य स्वरूपम् आह । किं ताद्रुप्येन निशये ऽपि ताद्रूप्यानुभवः सिद्ध्यति, येन तदा(द)भावान् नैवं शक्यते वक्तुम् इत्य् उच्यते इत्य् आह -- यदीति । हिर् [य]स्माद् इति । इतिकरणेन निश्चयस्वरूपम् उक्तम् । अनेन यद् एवानुरूपविकल्पेन यथात्वेन निश्चीयते तद् एव तथावव्यवहारगोचरो यथा नीलादिर् इत्य् आकूतम् । ननु च तत्प्रतिभासाद् अनुभवः प्रमाणम् ।
[ध्प्र् p.66] न च नीलस्य सातरूपत्वम् अनुगम्यते । तस्माद् सातानीलाद्यर्थाद् अन्यद् एव सातम् अनुभूयते नीलानुभवकाले । तच् च ज्ञानम् एव । ततो ऽस्ति ज्ञानानुभवः । तच् च ज्ञानरूपवेदनम् आत्मनः साक्षात्कारि निर्विकलपकम् अभ्रान्तं च । ततः प्रत्यक्षम् । निशयो भवतु, मा वा भूत् । तत् किम् एवम् उच्यते इत् आशङ्क्य पूर्वोक्तम् एव स्मारयति -- यस्मिन्न् इति । रूपे स्वभावे । शेषं प्राग् एव कृतव्याख्यानम् । गृहीतं नीलस्य सातरूपत्वं विकल्पेनानुगम्यत एवेत्य् आह -- न चेति । चः पूर्ववत् । अनुगम्यते विकल्पेनेति वर्त्तते । तस्माद् इत्यादिनोक्तम् उपसंहरति । यस्माद् गृह्य्माणाकारो नीलादिर् न तथा निश्चीयते, अस्ति च हर्षाद्याकारसंवेदनम्, तस्माद् ।
भवतु साताकारो ऽनुभूतः । केवलम् असाव् अज्ञानात्मा भविष्यति । तथा च कथम् अज्ञानेन ज्ञानात्मसंवेदनम्? कथं चात्मवेदनं प्रत्यक्षम् इत्य् आह -- तच् चेति । चो ऽज्ञात्मन एवं भिनत्ति । ज्ञानम् एवेत्य् अवधारयतः प्रकाशात्मन एव ज्ञानत्वम् अन्यथा प्रकाशायोगाद् इत्य् अभिप्रायः । यत एवं ततो ऽस्ति ज्ञानानुभवः । इत्य् अन्तर्मुखस्य सुखाद्याकारस्य ग्राहकाकाराख्यस्येत्य् अर्थः । न च ग्राह्याकाराद् अन्यद् अनुभूयमानं सातं ग्राहकाकाराद् अप्य् अन्यद् उपपद्यते । गृह्यं वा प्रकाशेत, ग्राहकं वा । न च तद् ग्राह्यम् अतो ग्राहकम् एव । अथ ज्ञानम् अस्तु तथानुभूतम् । तत् पुनर् आत्मसंवेदं प्रत्यक्षं कुत इत्य् आह -- तच् चेति । चो यस्माद् । वेद्यते ऽनेनेति वेदनम् । ज्ञानरूपस्य वेदनम् इति विग्रः[29अ] । यद् वा ज्ञानरूपं च तद् वेदनञ् चेति तथा । साक्षात्कारि अप्रोक्षताकारि, स्कुटावभासम् इति यावत्, हेतुभावेनास्य विशेषणत्वात् । अत एव च निर्विकल्पकम् । विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासित्वायोगात् । भवतु निर्विकल्पकं द्विचनेद्रादिज्ञानवद् भविष्यतीत्य् आह -- अभ्रान्तं चेति । चस् तुल्योपायत्वं समुच्चिनोति । न हि तत् स्वात्मनि अतस्मिंस् तद् इति प्रवृत्तम्, येन तत्र भ्रान्तिर् भविष्यतीति भावः । भवतां निर्विकल्पकत्वाभ्रान्तत्वे ततः किं सिद्धम् इत्य् आह -- तत इति । यत एतद् रूपद्वययोगि ततस् तस्मात् । एतावन् मात्रलक्षणत्वात् प्रत्य्क्षस्येति भावः ।
तत्र चेयं व्यवस्था । आत्मात्मयोग्यता प्रमाणम्, आत्मसंवित् फलम् इति द्रष्टव्यम् । स्यान् मतम् -- इत्यम् तस्य वेदनस्य प्रत्यक्षत्वे विकल्पात्मवेदनस्यापि तत्त्वं स्यात् । न च विकल्पात्मा प्रत्यक्षं युज्यते । युज्यते, स्वात्मनि अविकलपनाद् अभ्रान्तत्वाच् च । विकल्पो हि बाह्यं विकल्पयति न त्व् आत्मानम् । भ्राम्यति च ब्राह्ये, नात्मनि । ततः किं न प्रत्यक्षम्? प्रयोगः -- यद् अभ्रान्तत्वे सत्यविकपं तत् प्रत्यक्षं । यथेन्दिर्यज्ञाणस्य बाह्यसंवेदनम् सारूप्याख्यम् । अभ्रान्तत्वे सत्यविकल्पकं चात्मनि विकलपरूपवेदनम् इति स्वभावः । यथा च ज्ञानात्मनि सम्यासम्भवो यथा वा समितः शब्दसंसृष्टो न गृह्यते तथा ऽन्यत्र प्रपञ्चितम् इति नेहोच्यत इति ॥
[ध्प्र् p.67]
योगिप्रत्यक्षं व्याख्यातुम् आह --
भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं च इति इ-11 भूतः सद्भूतो ऽर्थः । प्रमाणेन दृष्टश् च सद्भूतः । यथा चत्वार्यार्यसत्यानि ।भूतस्य भावना पुनः पुनश् चेतसि विनिवेशनम् । भावनायाः प्रकर्षो भाव्यमानार्थाभासस्य ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो यदा स्फुटाभत्वम् ईषदसम्पूर्णं भवति । यावद् धि स्फुटाभत्वम् अपरिपूर्णं तावत् तस्य प्रकर्षगमनम् । भूतशब्दस्य विवक्षितम् अर्थम् आह -- सद्भूत इति । अर्थ इति ब्रुवाणो भूतश् चासाव् अर्थश् चेति कर्मधारयं दर्शयति । ननु सुखादिमयत्वम् अप्य् अर्थस्य सांख्यपरिकल्पितं सद्भूतम् इत्य् आह -- प्रमाणेनेति । दृष्टो निश्चितः । चकारः स्फुटम् एतद् इत्य् अर्थं द्योतयति ।
कः पुनर् ईदृशो अर्थो विविक्षित इत्य् आह -- यथेति । अनेन भूतार्थशब्देनात्र सत्यचतुष्टयं विवक्षितम् इति दर्शितम् । यथा चतुरार्यसत्यभावनाबलजं ज्ञानं योगिनः प्रत्यक्षम्, तथा ऽन्यसद्भूतार्थविषयम् अपि द्रष्टव्यम् इति यथाशब्दार्थो ऽप्य् अस्ति । यद् विनिश्चयः "[35*]चतुरायसत्यदर्शनवद्ब् इति"pvin i 74,4 । आरात् पापकेभ्यो धर्मेभ्यो याता इत्य् आर्याः । अत एव तानि सत्यतया मन्यन्त इति तेषां सत्यानि । चतुष्ट्वाच् च तेषां चत्वारीत्य् उक्तम् ।
__________नोतेस्__________
[35*] चेप्विन् इ 74,4
फलभूताः पञ्च सक्लेशस् कन्धा दुःखाख्यं सत्यम् एकम् । त एव हेतुभूतास् तृष्णासहायाः समुदयाख्यं सत्यं द्वितीयम् । चित्तस्य निष्क्लेशाव्स्था निरोधाख्यं सत्यं तृटीयम् । तदवस्थाप्राप्तिहेतुनैरात्म्याद्याकारश् चित्तविशेषो मार्गाख्यं सत्यं चतुर्थम् इति ।
भावनाशब्देन विग्रहं तस्य चार्थम् आचष्टे भूतस्येति । भूतार्थस्येति द्रष्ट्व्यम् । लक्ष्यते च भूतशब्दसान्निध्याल् लेखकेन प्रथमपुस्तके भूशब्दः प्रक्षिप्तः । तस्येति तु वचनं संक्षेपेण विग्रहं दर्शयतो धर्मोत्तरस्य पाठो ऽन्यथा यथाभूतं विग्रहं दर्शयितुकामेनार्थपदोपादाने किम् अक्षरगौरवं दृष्टम्, येन केवलभूतशब्दोपादाने प्रतिपत्तिगौरवं लिखनाकौशलञ् चाविष्कृतम् इति । भावनार्थम् आह -- पुनर् इति । पुनर् इत्य् अप्रथमतः । द्विर् वचनेनाप्रथमप्रचारस्य प्राचुर्यं दशयति । तथानिवेशनञ् च विजा[29ब्]तीयाव्यवधानेन द्रष्टव्यम् । सत्यचतुष्टयविषयो विजातीयाव्यवहितः सदृशचित्तप्रवाहो भावनेति यावत् ।
[ध्प्र् p.68] सम्पूर्णं तु यदा तदा न अस्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात् पर्यन्ताद् यज् जातं भाव्यमानस्य अर्थस्य सन्निहितस्य इव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम् । तद् इह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितम् इव यदा भाव्यमानं
यादृशो योगिनां भावनाक्रमो विनिश्चये "श्रुतमये"त्यादिनाभिहितो यथा भावनाप्रकर्षविशदाभत्वयोः कार्यकारणभावस् तत्रैव "कामशोके"त्यादिना दर्शितस् तथेहापि द्रष्टव्यः । यादृशश् चाकारस् तेषां सत्यानाम् अनित्यत्वादिके भावनीयो यावत् कालावधिका च भावना ऽनेकजमपरम्परानुयाता, यच् च निबन्धनं भावनायाः करुणा बोधिसत्त्वानाम्, तद् अन्येषां संसारोद्वेगस् तद् अपि सर्वं यथा प्रमाणवार्त्तिके निर्णीतं तथेहाप्य् अनुगन्तव्यम् । इह तु योगिज्ञाण्स्य स्व्रूपमात्रम् उपदर्शयितुम् उपक्रान्तम् इति ।
प्रकर्षशब्देन सह विग्रहं तस्य चार्यं विवक्षितम् आह -- भावनाया इति । स्फुटाभत्वस्यारम्भ उपक्रमः । स च यत्स्फुटत्वतदधिकस्फुटत्वादिना रूपेण तज्ज्ञानस्योदय एव । पर्यन्तशब्देन विग्रहं तस्य चार्थम् आचष्टे प्रकर्षस्येति । पर्यन्तो ऽवसानम् । कदा च तस्यावसानम् इत्य् आह -- यदेति । यस्मिन् काले स्फुटाभत्वं भावनार्थं विषयस्य ज्ञानस्येति प्रकरणात् । इदं लेशतो ऽसम्पूर्णं भवति यद् अ[न]न्तरं योगिप्रत्यक्षेण भवितव्यं तस्मिन् काले प्रकर्षस्य पर्यन्तो ऽवसानं ज्ञातव्यः । तत्कालोपलक्षितं तथाभूतं ज्ञानं पर्यन्त इत्य् अर्थः ।
ननु प्रकर्षस्य पर्यन्तः स युज्यते यस्मिन् सति प्रकर्षो निवर्त्तते । तच् च सम्पूर्व(ण)म् एव स्फुटभत्वम्, तत् कथम् उच्यते कथञ् च पर्यन्तजं योगिज्ञानम्, न तु तद् एव पर्यन्त इत्याशङ्क्याह -- यावद् इति । हिर् यस्मात् ।
सम्पूर्णे तु प्रकर्षगमनं नास्तीति दर्शयति -- सम्पूर्नम् इति । तुर् इमाम् अवस्थां भेदवतीम् आह । प्रकर्षस्य गतिर् गमनम् । एवं ब्रुवतो ऽयम् आशयः । प्रकर्षः प्रकृष्यमाणता सातिशयं रूपम् उच्यते । पर्यन्तश् च गत्यर्थाद् आमर्द्धातोस् तत्प्रत्ययेन(?) परिसमन्ताद् अन्त इति प्रादिसमासेन निःशेषगमनम् एवोच्यते । ततः स पर्यन्त उच्यते यद् अनन्तरं प्रकर्ष(-कृष्य)माणेन न भवितव्यम् । न तु यदर्थं येषां प्रकर्षवताम् उदय इति । एतद् एवोपसंहरति तत इति । प्राक्तनी व्यवधानशून्या यदननतरं स्फुटतरज्ञानोदयः । सम्पूर्णवस्थायाः स्फुटत्वसम्पूर्णावस्थायाः स्फुटतराकारग्रहणावस्थाया इति यावत् । सन्निहितस्येति । यथा ऽन्यस्याभावितस्य निकटस्थस्य घटघ(प)टाद(दे)र् अन्यज्ञानं स्फुटतराकारग्राहि प्रत्यक्षं तद्वद् भाव्यमानार्थस्फुटतराकारग्राहि यज्ज्ञानं तद्योगिनः प्रत्यक्षम् ।
उक्तम् एव भावनाप्रकर्षार्थं तत्पर्यन्तार्थं तज्ज्ञानं चोपसंहारव्याजेन सुखप्रतिपत्त्यर्थं पुनर् दर्शयति तद् इति । तत् तस्मात् । इहेति योगिप्रत्यक्षलक्षणप्रतीतिकाले अवस्था भावनाज्ञान--
[ध्प्र् p.69] वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवद् भाव्यमानस्य अर्थस्य यद् दर्शनं तद् योगिनः प्रत्यक्षम् । तद् धि स्फुटाभम् । स्फुटाभत्वाद् एव च निर्विकल्पकम् । विकल्पविज्ञानं हि सङ्केतकालदृष्टत्वेन वस्तु गृह्णच् छब्दसंसर्गयोग्यं गृह्णीयात् । सङ्केतकालदृष्टत्वं च सङ्केतकालोत्पन्नज्ञानविषयत्वम् । यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रत्यसत् तद्वत् पूर्वविनष्टज्ञानविषयत्वम् अपि सम्प्रति न अस्ति वस्तुनः । तद् असद्रूपं वस्तुनो गृह्णद् असन्निहितार्थग्राहिवाद् अस्फुटाभम् विकल्पकम् । ततः स्फुटाभत्वाद् निर्विकल्पकम् । स्येति प्रकरणात् । अभ्रकेनातिस्वच्छतया पाश(र्श्व)तो द्विधाकर्त्तुम् अशक्येनेति प्रस्तावाद् व्यवहितम् आवृतं तदिव । करस्वरूपं करतलं सन्निहितस्येवेत्य् अनेन यत् पूर्वम् उक्तं [30अ] तस्यायम् उपसंहारः ।
अस्तु तथाविधं योगिज्ञानम्, तत् पुनः कथं प्रत्य्क्षम् इत्य् आशङ्काम् अपाकर्त्तुं प्रत्य्क्षलक्षणेन योगम् अस्य दर्शयन्न् आह तद् धीति । हिर् यस्मात् ।
स्फुटाभं भवति, निर्विकल्पकं तु कथं येन प्रत्यक्षं स्याद् इत्य् आह -- स्फुटाभत्वाद् एवेति । चो निर्विकल्पकम् इत्य् अतः परः स्फुटाभत्वापेक्षैकविषयत्वं निर्विकल्पकत्वस्य समुच्चिनोति । अयम् अस्याशयः -- शब्दाकारसंसर्गो हि स्फुटाभत्वविरोधीति यद्य् असाव् अभविष्यत् तदा स्फुटाभम् एव नाभविष्यद् इति । अभिलापसंसर्गयोग्यप्रतिभासम् एव स्फुटाबह्ं भवैष्यति को ऽनयोर् विरोध इत्य् आशङ्क्य विकल्पेत्यादिना विरोधम् एव दर्श्यितुम् अपक्रमते । हिर् यस्मात् । वस्त्व् इति दृश्यमानं यथा चैतत् तथा पूर्वम् एव विवेदितं गृणीयाद् ग्रहीतुम् अर्हति । सङ्केतकालदृष्टत्वेन च वस्तुग्राहित्वे ऽसन्निहितविषयं स्याद् इति । चो हेतौ । भवतु सङ्केतकालदृष्टत्वस्य तथात्वम्, किम् अत इत्य् आह -- यथा चेति । चो वक्तव्यम् एतद् इत्य् अस्यार्थे ।
भवत्व् एवं तथापि वादकाकारसंसर्गिनो ऽपि कथं न स्फुटाभत्वम् इत्य् आह -- तद् इति । यत एवं तत् तस्मात् । विकल्पयतीति विकल्पकं विज्ञानम् । अस्फुटाभं तु कुतस् तद् इत्य् आह -- असन्न्निहितार्थग्राहित्वाद् इति । सन्निहिततया हि भासमानो विशदो भवेत् । पूर्ववृत्तदर्शन विषयतया च भूतपूर्वो भावो गृह्यमानो न सन्निहितरूपो भासते । तेनाविशदाभो विकल्पः । तेन शब्दाकारसंसर्गो विकल्पस्य विशदाभत्वविरोधीत्य् अस्याभिप्रायः । असन्निहितविषयत्वम् एव तस्य कुतो ऽवसीयत इत्य् आह -- असद्रूपम् इति । यत् पूर्वदृष्टत्वं सम्प्रत्य् असद्, असद्रूपं वस्तुनो गृह्यमाणस्य गृह्णद् इति हेतौ शतुर् विधानाद् असद्रूपग्रहणाद् इत्य् अर्थः ।
स्फुटाभत्वाद् एवेति यद् अवोचत्, तद् एवोपसंहरति तत इति । यतो विकल्पस्य स्पष्टाभत्वं न युज्यते, अनन्तरोक्तेन क्रमेण ततस् तस्मात् स्फुटाभत्वाद् विशदाबत्वान् निर्विकलपकं योगिज्ञानम् इति प्रकरणात् । प्रयोगः -- यत् सङ्केतकालदृष्टतया वस्तुसंस्पर्शि ज्ञानं न तत् स्फुटाभम् । यथा चिर--
[ध्प्र् p.70] प्रमाणशुद्धार्थग्राहित्वाच् च संवादकम् । अतः प्रत्यक्षम् । इतरप्रत्यक्षवत् । योगः समाधिः । स यस्य अस्ति स योगी । तस्य ज्ञानं प्रत्यक्षम् । इतिशब्दः परिसमाप्तिवचनः । इयद् एव प्रत्यक्षम् इति । तद् एवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्ये प्रकारभेदं प्रतिपाद्य विषयविप्रतिपत्तिम् निराकर्तुम् आह --
तस्य विषयः स्वलक्षणम् इ-12
तस्य इत्यादि । तस्य चतुर्विधस्य प्रत्यक्षस्य विषयो बोद्धव्यः स्वलक्षणम् । स्वम् असाधारणं लक्षणम् तत्त्वं स्वलक्षणम् । वस्तुनो ह्य् आसाधारणं च तत्त्वम् अस्ति सामान्यं च । तत्र यद् असाधारणम् तत् प्रत्यक्षस्य ग्राह्यम् । दृष्टनष्टवस्तुविकल्पः । सङ्केतकालदृष्टतया च दृश्यमानवस्तुसंस्पर्शी विकल्पः । स्फूटाभासत्वं नाम सन्निहितरूपभासनम् । असन्निहितरूपभासनेन च वस्तुनः पूर्वदृष्टत्वग्रहणं व्याप्तम् । न हि पूर्वज्ञानविषयत्वं पूर्वम्सिन् निवृत्ते वस्तुनो ऽस्ति । तद् उत्तरकालभाविना ज्ञाज्ञानेन पूर्वज्ञानविषयत्वम् असन्निहितम् एव वस्तुनः स्पृश्यते । पूर्वज्ञानविषयत्वग्रहणम् एव च सङ्केतकालदृष्टशब्दविशिष्टत्वग्रहणं । तद् इदं विरुद्धं(-द्ध)व्याप्तोपलब्धेर् भवतु निर्विकल्पकम् ।
असत्य् अभ्रातत्वे तु कथं प्रत्यक्षम् इत्य् आह -- प्रमानेति । प्रंआण्धिगतो ऽर्थः प्रमाणशुद्ध उच्यते । सत्यचतुष्टयं चैवम् आत्मकम् । तद् एव शुद्धत्वेन विवक्षितम् । चः [30ब्] संवादकम् इत्य् अतः परो निर्विकल्पत्वेन सह संवादकत्वेन संवादकत्वं सौच्छिनोति, तत्रस्था ए[व] वा पूर्वहेत्वपेक्षया हेतन्तरसमुच्चयार्थः । अतो ऽस्मान् निर्विकल्पकत्वाद् अभ्रान्तत्वाच् च ।
योगिशब्दस्य व्युत्पतिम् आह यग इति । समाधिश् चित्तैकाग्रता । इह धर्मोत्तरेण लोकप्रसिद्धिर् आश्रिता । विनिश्चयटीकायां तु शास्त्रस्थितिस् तेनाविरोधः । यद् वा समाधिग्रहणस्योपलक्षणत्वात् प्रज्ञा च विवेककरणषशक्तिर् द्रष्टव्या । स यस्यास्ति स नित्यसमाहितो विवेककरणतत्परश् च योगी । इयद् एव चतुःसंख्यावच्छिन्नम् एव ॥
तद् एवम् इत्याद्य् आहेइत्य् एतद् अन्तं सुबोधम् । विषयो बोद्धव्यः । क इत्य् आकाङ्क्षायाम् आह -- स्वलक्षणम् इति । स्वशब्दस्य लक्षणशब्दस्य चार्थम् आचक्षाणो विग्रगम् उपलक्षयति -- स्वम् इत्यादिना । स्वम् आत्मीयम् उच्यते । यस्य यत् स्वं तत् तस्यैव नान्यस्येति लक्षणया स्वशब्देना साधारणम् उक्तम् । लक्षणशब्देन च तत्त्वं स्वरूपं विवक्षितम् । स्वशब्दयोर् अर्थम् अभिधाय तयोः समस्तं पदम् आह -- स्वलक्षणं इति । अनेन स्वम् असाधारणं च तल्लक्षणं स्वरूपं चेत् कर्मधार्यो दर्शितः ।
[ध्प्र् p.71] द्विविधो हि विषयः प्रमाणस्य -- ग्राह्यश् च यदाकारम् उत्पद्यते, प्रापणीयश् च यम् अध्यवस्यति । अन्यो हि ग्राह्यो ऽन्यश् चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस् तु प्रत्यक्षबलोत्पन्नेन निश्चयेन सन्तान एव । सन्तान एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य प्रापयितुम् अशक्यत्वात् । तथा अनुमानम् अपि स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तेर् अनर्थग्राहि । ननु सम्भवे व्यभिचारे च विशेषणम् अर्थवत् । अत्र च सर्वस्यैव स्वरूपस्यासाधारणत्वात् सम्भव एव, न व्यभिचार इति किं स्वशब्देन? एवं तु वक्तव्यम् -- वस्तुरूपं तस्य विषय इत्य् आशङ्कयाह -- वस्तुन इति । हिर् यस्मात् । चो वक्ष्यमाणापेक्ष्यः[क्षः] समुच्च्ये । सामान्यं सधारणं रूपं संवृतिज्ञानघटितम् । चः पूर्वापेक्षः समुच्चये । सति चैवं द्वैरूप्ये किं पूर्वं रूपम्, अथ परं प्रत्यक्षय विषय इति सन्देहे -- यद् असाधारणं तत् प्रत्यक्षस्य ग्राह्यम् उच्यत इति शेषः । ग्राह्यम् इति ब्रुवन् विषयशब्देनाचार्यस्य ग्राह्यो विषयो ऽभिप्रेत इति दर्शयति ।
स्याद् एतत् -- प्रवृत्तिविषय एव प्रमाणस्य विषयस् ततः प्रवृत्तिविषयस् तस्य विषय इति वक्तव्यम् । तत् किं ग्राह्यम् इत्य् उच्यत इत्य् आह -- द्विविध इति । अनेन भेदः प्रतिज्ञातः । हिर् यस्मात् द्विप्रकारो विषयः प्रमाण्स्येति । जातिविवक्षयैकवचनम् । एको ग्राह्यो ऽन्यः प्रापणीयः । भेदम् उपपादयति -- यदाकारं यत्प्रतिभासं ज्ञानम् उत्पद्यते । सो ऽपि द्विविधः -- परमार्थ आरोपितश् च । द्वयोर् अपि स्वज्ञाने प्रकाशनम् अस्त्य् एवेति द्रष्टव्यम् । प्रापणीयो यम् अध्यवस्यति । ततो ज्ञानाद् यत्र प्रवर्त्तत इति यावत् । चकारौ पूर्वापरापेक्षया समुच्चयार्थौ ।
ननु ग्राह्याध्यवसेयशब्दयोर् एव भेदो न त्व् अर्थस्य । यतो यद् एव प्रकाशते तद् एवाध्यवसीयते, तत् किं एवं उयत इत्य् आह -- अन्यो हीति । हिर् यस्माद् अर्थे । चो ऽवधारणे । कस्य कीदृशो ग्राह्य इतरो वेत्य् आह -- प्रत्यक्षस्येति । हिर् अवधारणे एक इत्य् अस्मात् परो द्रष्टव्यः । कस् तर्ह्य् अवसेय अध्यवसेय इति [31अ] । तुर् ग्राह्याद् अध्यवसेयं भिनत्ति । अथ किं प्रत्यक्षम् अवसायात्मकं येन तस्यासाव् अवसेय इत्य् आह -- प्रत्यक्षेति । प्रत्यक्षपृष्ठभाविनो निशचयस्य प्रत्यक्षगृहीत एव प्रवृत्ततया ऽनतिशयाधानेन यत् तेनाध्यवसितं तत् प्रत्यक्षेणैवावसितम् इति भावः ।
ननु ग्राह्याद् अन्यः प्रापणीयो विषयः प्रत्यक्षस्योक्तः । इदानीं पुनर् अवसेयः । तद् अयं तृतीयो विषयः प्राप्त इत्य् आह -- सन्तान एवेति । चो यस्मादर्थःए । उपादानोपादेयभावेन व्यवस्थितः क्षणप्रबन्ध एकत्वेनाधिमुक्तः सन्तानः । ग्राह्य एव कस्मान् न तेन प्राप्यत इत्य् आह -- लक्षाणास्येति (इत्य् आह -- क्षणस्येति) । यदाकरं प्रत्यक्षम् उत्पद्यते तस्य क्षणस्येति प्रस्तावात् । एवञ् च विवृण्वतो ऽस्य प्रमाणस्येत्य् अत्र प्रत्यक्षाभिप्रायेण प्रमाणशब्द इन्द्रियजाप्रत्यक्षविवक्षया द्रष्टव्यः । स्वसंवेदनादिनां विषयद्वैविध्यासम्भवाद् इति ।
अथ भवत्व् एकं प्रत्यक्षं विषयद्वैविध्यवद्, अनुमानं तु कथं तथाविधम्? प्रमाणस्येति च [ध्प्र् p.72] स पुनर् आरोपितो ऽर्थो गृह्यमाणः स्वलक्षणत्वेन अवसीयते यतः, ततः स्वलक्षणम् अवसितं प्रवृत्तिविषयो ऽनुमानस्य । अनर्थस् तु ग्राह्यः । तद् अत्र प्रमाणस्य ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः । ब्रुवता तद् अपि विषयद्वैविध्यवद् अभ्युपगम् एव इत्य् आशङ्क्याह -- तथेति । येन प्रतिभासाध्यवसायलक्षणेन प्रकारेण प्रत्यक्षम् अन्यग्राह्य् अन्याध्यवसायि तथा तेन प्रकारेणेति तथाशदार्थः । न केवलं प्रत्यक्षम् अन्यद् गृह्णाति, अन्यद् अध्यवस्यति, किन् त्व् अनुमानम् अप्य् अन्यग्राह्य् अन्याध्यवसायीत्य् अपिशब्देनाह । इहैव च्छेदः कर्त्तव्यो ऽन्यथा व्याख्यानम् असमञ्जसं स्यात् । किं गृह्णातीत्य् आह -- अनर्थग्राहीति । अनुमानम् इति प्रकृतत्वात् । कथम् उपपद्यत इत्य् आशङ्क्योपपत्तिम् आह -- स्वप्रतिभास इति । स्वस्य प्रतिभास इव प्रतिभासः । शक्तिद्वययोगात् तथारोप्यभाणं रूपम् । तस्मिन्न् अनर्थे ऽबाह्यरूप्ये(-रूपे) ऽर्थध्यवसायेन बाह्याध्यवसायेन तद्भेदानवभासनात्मकाभ्देदाध्यवसानलक्षाणेन प्रवृत्तेः प्रवर्त्तनात् ।
अथानर्थे स्वप्रतिभासे ऽर्थाध्यवसायेनानुमानविकल्पो ऽन्यो वा प्रवर्त्तक इति किम् उक्तं भवति? स्वप्र्तिभासस्यारोप्यमाणस्य चार्थस्यावसीयमानस्य विवेकं न प्र्तिपद्यत इत्य् उत्कं भवति । न हि तेनैव विवेकप्रतिपत्तिः, तेन स्वप्रतिभासस्य तथात्वेनाविकल्पनात् । अत्र चानुभवः प्रमाणम् । बाह्यवह्न्यादाव् अप्रवृत्त्यादिप्रसङ्गश् च । नापि विकल्पान्तरेण । तस्यापि तथा प्रवृत्तितया पूर्वविकपप्रतिभासासंस्पर्शाद् इत्य् अलम् इह विस्तरेण । यद्य् एवं को ऽस्याध्यवसीयमानः प्रापणीयो विषय इत्य् आह -- स इति । पुनर् इति सर्वतो विशिनष्टि । आरोपित इति स्वरूपानुवादः । अर्थ इति अर्थ इवार्थो गृह्यमाणः प्रतीयमानस् तस्मिन् ज्ञाने प्रकाशमान इति यावत् । अनेन स्वलक्षणम् अध्यवस्यतीदम् इति प्रकाशितम् । तद् अनेनानुमास्य ग्राह्याध्यवसेयौ भेदेन साध्यर्थ्याद् अभिधाय सुखप्रतिपत्त्यर्थं ताव् एव कण्ठोकौ करोति -- तत इति । यतः स्वलक्षणत्वेन तस्यावसायस् ततः [31ब्] स्वलक्षणम् अवसितं प्रवृत्तिविषयो ऽनुमानस्य । स्वलक्षणम् अवसितम् इत्य् एतद् अप्य् अभिमानाद् अभिधीयते । न पुनः स्वलक्षणम् अवसायस्य गोचरः । तद्विषयत्वे तस्य निरंशत्वात् क्षणिकत्वादेर् अप्य् अवसिताव् अनुमानानवतारप्रसङ्गात् । एतच् च किञ्चिद् इहैवोपरिष्टात् स्पष्टयिष्यामः । परार्थानुमाने तु यथा ऽवसरं विष्तरेण निर्णेष्यामः ।
प्रवृत्तिविषयस्यैव प्रापणीयत्वात् प्रापणीय एव प्रवृत्तिविषयशदेनोक्तः । तुः प्रापणियाद् विषयाद् ग्राह्यं भेदवन्तं दर्शयति । तस्मिन् ज्ञाने प्रकाशमाने प्रकाशनाद् अनर्थो ग्राह्य उक्तः ।
स्याद् एतत् -- यद्य् अवसितं स्वलक्षणं प्रवृत्तिविषयो ऽनुमानस्य तदा कथम् एष धर्मोत्तरो विनिशचयटीकायां अवदीत् "अवसितश् चाकारो विकल्पानां ग्राह्यः" इति । एवं हि स्वलक्षणम् एव ग्राह्यं समर्थितं स्यान् नानर्थ इति । ततो व्यक्तो व्याघातः । परमार्थदृष्ट्या तत्र तथाभिधानान् न दोषः । तथा हि प्ररमार्थतो विकल्पानाम् आरोत्पितम् एव रूपम् अवसेयं ग्राह्यम् तथापि व्यवहर्त्तार आरोपितम् एव रूपम् अवृक्षव्यावृत्तम् अवस्यन्तो बाह्यस्यापि तथात्वाद् बाह्यं वृक्षम् अवस्याम इत्य् अभिमन्यन्ते, तयोर् विवेकाप्रतिपत्तेः ।
[ध्प्र् p.73]
तद् अनुरोधात् स्वलक्षणम् अवसितम् इत्य् उच्यते । तस्यैव त्व् आरोपितस्य परमार्थो ऽनुमेयस्य प्रतिभासमानं केवलम् आकारम् आश्रित्य ग्राह्यत्वम् उच्यते । ततस् तत्र वास्तवावसितरूपाभिप्रायेण तथाभिधानात् को विरोधः?
तद् अत्रेत्यादिनोपसंहरति । यस्मात् प्रमाणस्य द्विदिधो विषयो ग्राह्याध्यव्ससायभेदेन तत् तस्मात् । अत्र विषयविप्रतिपत्तिनिराकरणाकाले ग्राह्यं विषयं दर्शयतेति ब्रुवन् विषयशब्देनाचार्यस्य ग्राह्यो विषयो ऽभिप्रेत इति स्फुटति ।
स्याद् एतत् -- न वै ग्राह्यविषयापेक्षं प्रत्यक्षस्य प्रामाण्यम् उपपद्यते । यत एकः क्षणस् तस्य ग्राह्यः । न च तत्प्रापणं सम्भवति । नाप्य् अनुमानस्य ग्राह्यपेक्षं प्रामाण्यम् । अन्यर्थो हि तस्य ग्राह्यः । न च तत्प्राप्तिः । न च येन यस्याप्रापणं तस्य तत्र प्रामाण्यम् अभ्युपेयते, अतिप्रसङ्गापत्तेः । अथैकनीलक्षणाकारतयोत्पत्तिर् एव प्रत्यक्षस्य तत्प्रापणम्, अनुमान्स्यापि वह्न्याद्यध्यवसायितया तथोत्पत्तिर् एव तत्प्रापणम् उच्यते । तर्हि न किञ्चिद् अवशेषितं स्यात् । कस्य नाम ज्ञानस्य सविकल्पस्य निर्विकल्पकस्य वा तत्तदाकारतयोत्पत्तिर् नास्ति येन तस्य प्राणाण्यं न स्यात् । तस्मान् न द्विदिधो विषयः प्रमाणस्याभिधानीयो ऽपि त्व् एक एव प्रवृत्तिविषयाख्यो विषयः ख्यापनीय इति ।
अत्र च समाधीयते । ज्ञानानां तावद् ग्राह्याध्यवसा(से)यभेदेन द्विविधो विषयो ऽवश्यैषितव्यो ऽनुभवसिद्धत्वात् । तत्र प्रमाण्यं प्रवृत्तिविषयापेक्षं व्यवस्थाप्यते । ज्ञानत्वं तूभयापेक्षमेव । अज्ञानस्य च प्रामाण्यासम्भवेन ज्ञानान्तर्भूतं प्रमाणं विषयद्वैविध्यवद् एव भवति । केवलं न ग्राह्यापे[32अ]क्षं प्रामाण्यम् अपि तु प्रवृत्तिविषयापेक्षम् इति प्रतिपाद्यते । ग्राह्यापेक्षया तु प्रमानस्येति वचनं स्वरूपानुवादकम् । यद् वा प्रमाणशब्देन ज्ञानम् एवात्र विवक्षितम् । यथा ऽयं विनिश्चयटीकायां स्वार्थाणुमानव्याख्यानावसरे व्यक्तम् आह -- "द्विविधो ज्ञानानां विषयो ग्राह्यश् चाध्यवसेयश् च" इत्यादि । ततो न किञ्चिद् अवद्यम् ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
