Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/11

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

धर्मोत्तरप्रदीप subcommentary on धर्मोत्तर's न्यायबिन्दुटीका on धर्मकीर्ति's न्यायबिन्दु

Tác giả
दुर्वेकमिश्र
Thông tin
GRETIL — Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

ननु च देशनियतम् आकारनियतं च प्रापयितुं शक्यम्, यत्कालं तु परिच्छिन्नम्, तत्कालं न शक्यं प्रापयितुम्. न उच्यते -- यस्मिन्न् एव काले परिच्छिद्यते, तस्मिन्न् एव काले प्रापयितव्यम् इति. अन्यो हि दर्शनकालः, अन्यश् च प्राप्तिकालः. किं तु -- यत्कालं परिच्छिन्नम्, तद् एव तेन प्रापणीयम्. अभेदाध्यवसायाच् च सन्तानगतम् एकत्वं द्रष्टव्यम् इति.

अर्धरात्रः काल आगमनकालो यस्य तस्मिन् न प्रमाणम् । अथ वा यो ऽर्धरात्रे सुप्तो ऽह्नो मध्यम् उद्गते सवितरि पुत्रम् आगतं दृष्टवा प्रभातायां रात्रौ सम्पन्ने मध्यन्दिने तस्मिन्न् एव च देशे तम् एव सुत(-तं) प्रागतं प्रबुद्धो ऽपि पश्यति । तस्य तज् ज्ञानं संवादमात्रभाग् अपि न प्रमाणम्, यतो ऽर्धरात्रे मध्याह्नम्, तदानीम् अनागतम् अपि पुत्रम् आगतं, तेनावगतम् । न चार्धरात्रे देशकालनियतस्य पुत्रस्य, तस्य च कालस्यास्ति सद्भावः । तदा त्व् अर्धरात्रः परमार्थतः प्रतिभासकालो यस्य मध्याह्नकालयुक्तवस्तुन इति योज्यम् ।

एतेन सुप्तस्य केनचित् पठ्यमानं ग्रन्थं शृण्वतो ज्ञानम् असत्यार्थं व्याख्यातम् अवसेयम् । यस्माद् देशकालभिन्नात्मानं श्रोतारं ग्रन्थं च श्रोतव्यं पश्यति निद्रोपहतः । न च तद्देशकालसम्बद्धौ स्तः । यद्देशकालौ च स्तस् तथा न गृह्णातीति ।

अनयैव च दिशा वाजिस्वप्नो ऽपि व्याख्यातो द्रष्तव्यः । यतस् तत्रापि घोटकस्वप्ने यत्कालदर्शनवि[12अ]षया भावा दृश्यन्ते न तथा सन्ति, यत्कालाश् च सन्ति तत्काला न दृश्यन्ते । अर्धरात्रादिषु हि स्वप्नदर्शनम्, सूर्योदयादिसम्बद्धाश् च ते भावा दृश्यन्ते । तस्मात् स्वप्ने केषाञ्चिद् अनुभूतानां अत्यन्तम् अभावाद् अर्थक्रियाया नास्ति सत्त्वम् । केचित् तु अर्थक्रियाकारितया अभिमताह् सत्य् अस्वप्ने विषया दृष्टकालभेदव्यभिचारिणो न सन्त्य् एवेति प्रकरणार्थः ।

इदम् ईदृग्विशिष्टं स्वप्नज्ञानम् उदाहरतो धर्मोत्तरस्यायम् आशयः -- एवंविधस्य स्वप्नज्ञाणस्य सदर्थत्वाभिमानः केषाञ्चित् सत्यस्वप्नवादिनाम् अस्तीति तद् अभिमानशमनायेदं मयोदाहरणीकृतम् । न त्व् अस्माद् अन्यस्य स्वप्नज्ञानस्य कशिच्द् विशेषः । सर्वस्यैव स्वप्नज्ञाणस्य निरालम्बनतया मिथ्याज्ञानत्वाद् इति ।

इदानीं `परिच्छिद्यमानस्य यत्कालं परिच्छेदनं तत्कालम् एव प्राप्यमाणस्यप्रापणं अभिमतम्ऽ -- एवं ब्रुवत इति मत्वा ऽस्यार्थस्यानुपपत्तिं चोद्यति -- ननु च -- इति । देशे नियतम् आकारे नियतं च शक्यं प्रापयितुम् इत्य् अभिदधानो ऽनयोर् अविप्रतिपत्तिम् आह । इदं तु न सम्भाव्यत इत्य् आह -- यत्कालं तु -- इति । तुना ऽनन्तरोक्ताभ्यां विधाभ्यां वैधर्म्यम् आह । यः कालो स्य परिच्छेदनस्य तद् यथा भवति तथा परिच्छिन्नम् । स कालो यस्य प्रापणस्य तद् यथा भवति । तथा न शक्यं प्रापयितुम् । यस्मिन् काले परिच्छिन्नम् तस्मिन् काले न शक्यते प्रापयितुम् इत्य् अर्थः । एवं च ब्रुवता ऽनेन कालान्तरग्राहीति यद् उक्तं तद् अयुक्तम् इति दर्शितम् । सर्वस्यैव ज्ञानस्य एवंशीलत्वाद् इति ।

नोच्यत इत्यादिना सिद्धान्तवादी चोदकस्यानुक्तोपालम्भम् आह । अनेनापि न किञ्चित्

[ध्प्र् p.27] सम्यग्ज्ञानम् पूर्वं कारणं यस्याः सा तथा उक्ता । कार्यात् पूर्वं भवत् कारणं पूर्वम् उक्तम् । कारणशब्दोपादाने तु पुरुषार्थस्हिद्धिः साक्षात्कारणं गम्येत । पूर्वशब्दे तु पूर्वमात्रम् । कारणम् उक्तम् । तत् किं त्वयैवं नोच्यत इति पार्श्वस्थं प्रत्य् अस्यैवाभिप्रायं प्रकाशयति -- अन्यो हि -- इति । ःईति यस्मात् । यद्य् एवं नोच्यते तर्हि किं नामोच्यत इत्य् आह -- किन् तु -- इति । निपातानिपातसमुदायो ऽयं केवलम् इत्य् अस्यार्थे ।

ननु असङ्गतम् इदं वाक्यं । न हि यद् एव परिच्छिन्नम् इत्य् अस्ति येनैवम् उच्यते । यत्कालं तु प्ररिच्च्छिन्नं तत्कालम् इति तु युक्तं वक्तुम्, न तद् एवेति । सयम् एतत् । केवलं बोधे यत्नः करणीयः । यत्कालम् इत्य् अनेन हि तकालम् इति प्राप्तम्, तद् एवेति तच्छब्देन वस्तुविषयो यच्छब्द आकृष्यते । ततो ऽयम् अर्थः -- यत्कालं परिच्छिन्नं यद् वस्तु तकालं तद् एव वस्तु प्रापनीयम् इति । अहो गडुप्रवेशे ऽक्षतारानिर्गमो जातः । एवं खलु वाक्यं स्यात् समर्थितम्, पूर्वपक्षात् पुनर् अस्याविशेषः प्राप्तः । अस्ति विशेषो महान्, केवलं भवता न समीचीनं निरूपितः । तथा हि पूर्वपक्षावस्थायां यत्कालं तत्कालं इति चात्र बहुव्रीहिणा परिच्छेदनलक्षणा प्रापणलक्षणा च क्रिया ऽभिधीयते । इदानीं पुनर् वस्तुतो नायम् अर्थः । यद् वस्तु येन कालेन सम्बद्धं परिच्छिन्नं तद् एव तेन कालेन सम्बद्धं स्वरूपेण प्रापणीयं तदा ऽन्यदा वा । परिच्छेदस्य यादृशः कालस् तस्मिन् काले यद् विद्यमानं तद् एव प्रापणीयम् इति यावत् । ततश् च परिच्छेदका[12ब्]ला ऽसतो यद् ग्राहकं तन् न प्रमाणम् इत्य् अवतिष्ठते । नोच्यते यस्मिन् काल इत्यादिना च यद् एतद् उक्तं तद् बाह्यप्रापणाभिप्रायेण द्रष्टव्यम् । परमार्थतस् तु ज्ञानस्य प्रदर्शनाद् अन्यः प्रानपणाव्यापारो नास्तीति यस्मिन्न् एव काले परिच्छिद्यते ऽर्थस् तस्मिन्न् एव काले प्राप्यत इति । एतच् चानन्तरम् एवानेनैव विस्तरेण प्रतिपादितम् इति स्ववचनव्याघातो ऽन्यथा ऽस्य स्याद् इति ।

नन्व् एवम् अपि परिच्छेदकालवर्त्तिनः प्रापणं न सम्भवत्य् एव । सर्वस्यैव विषयस्य क्षणिकत्वात् । तथा चोपदर्शितार्थप्रापकत्वं नाम कस्यचिद् अपि ज्ञानस्य नास्तीत्य् असम्भवितैव सम्यग्ज्ञानत्वलक्षनस्य स्याद् इत्य् आशङ्क्याह -- अभेदेति । अभेदेनैकरूपत्वेन तद् एवेदम् इत्य् आकारेणाध्यवसायात् । उपादानोपादेयकृतक्षणप्रबन्धः सन्तानस् तदाश्रितः ।

अयम् अस्य भावः -- सांव्यवहारिकस्येह प्रमाणस्य लक्षणाम् उच्यते । तेन नैकान्तेन वस्तुस्थितिर् अपेक्ष्यते । तत्र यद्य् अपि वस्तुस्थित्या परिच्छिन्नप्राप्ययोर् नानात्वं तथापि व्यवहर्त्तारो निरन्तरापरापरोत्पत्तेर् अविद्यावशाच् च हेतुफलरूपं क्षणप्रचयं तद् एवेदम् इत्य् एकत्वेनाधिमुञ्चन्ति ततः परिच्छेदकालभाविनः प्रापणं सम्भवत्य् एव । इतिः सम्यग्ज्ञानपदव्याख्यानपरिसमाप्तौ ।

तद् अनेन प्रबन्धेन समयग्ज्ञनपदं व्याख्यायाधुना पूर्वशब्दं व्याचिख्यासुस् तेन साधर्मस्य विग्रहम् आह -- सम्यग्ज्ञानम् इति ।

[ध्प्र् p.28]

द्विविधं च सम्यग्ज्ञानम् अर्थक्रियानिर्भासम्, अर्थक्रियासमर्थे च प्रवर्तकम् । तयोर् मध्य यत् प्रवर्तकम्, तद् इह परीक्ष्यते. तच् च पूर्वमात्रम्. न तु साक्षात्कारणम्. सम्यग्ज्ञाने हि सति पूर्वदृष्टस्मरणम्, स्मरणाद् अभिलाषः, अभिलाषात् प्रवृत्तिः, प्रवृत्तेश् च प्राप्तिः. ततो न साक्षाथेतुः.

___________________________________________________________________________

ननु पुरुषार्थसिद्धिः सम्यग्ज्ञानस्य प्रयोजनं कार्यत्वेन । तथा च सम्यग्ज्ञानकारणिकेति वक्तुम् उचितं तत्किम् एवम् उक्तम् इत्य् आह -- कार्याद् इति । अनेन व्यवस्थावाची सन्न् एव पूर्वशब्दः कारणे वर्त्तत इति दर्शयति ।

भवद् इति `लक्षणहेत्वोः क्रियायाःऽ [पाणिनि 3.2.126] इति हेतौ शतुर् विधानात् हेतुपदम् एतत् । यद्य् एवं कारणशब्द एव क्रियताम् इत्य् आह -- कारणेति । अयं भावः -- करोतीति कारणम् उच्यते, न त्व् अकुर्वद् रूपम् । अकुर्वति पुनः कारणव्यपदेशः कारणकारणत्वाद् औपचारिकः । न च मुख्ये सम्भवति अमुख्ये प्रत्ययो युज्यते । ततो यद् एव ज्ञानम् अव्यवधानेन पुरुषार्थसिद्धेर् निबन्धनम्, तद् एव कारणशब्देन प्रतीयेतेति. यदि पूर्वग्रहणे ऽप्य् एवं प्रत्ययस् तदा को विशेष इत्य् आह -- पूर्वशब्द इति । तुः कारणशब्दाद् विशेषम् अस्याह -- पूर्वमात्रम् इति साक्षात्कारणम् इतरश् च ।

ननूभयोः सम्भवे साक्षात्कारणपरिहारेणेतरग्रहणाय पूर्वशब्दः शोभते । न चैवम् अस्ति, सर्वस्यैव पुरुषार्थसिद्धिं प्रति साक्षात्कारणत्वाद् इत्य् आह -- द्विविधं च -- इति । चो यस्मादर्थे । कथं द्वैविध्यम् इत्य् आह -- अर्थक्रियेति. निर्भासते ऽस्मिन्न् इति निर्भासः. अर्थक्रियाया निर्भासो यस्मात् तत् तथा. यतः साधनज्ञानाद् अनन्तरं दाहादिप्रतिभासज्ञाणम् उत्पद्यते, तद् एवम् उच्यते.

केचित् तु क्षणेन कार्यकारणाव्यवहारस्यार्वाग्दर्शनेन कर्त्तुम् अशक्यत्वाद् दाहादिप्रतिभासम् एव ज्ञानम् एवं ब्रुवते । अर्थक्रियाया[13अ]निर्भासो ऽस्मिन्न् इति कृत्वा । अपरम् अर्थक्रियासमर्थे च प्रवर्त्तकम् । यत् प्रवृत्तिसमधिगम्यार्थक्रियागोचरं तद् एवम् उक्तम् । चो ऽर्थक्रियानिर्भासापेक्षया समुच्चये । अन्योः किं परीक्ष्यत इत्य् आह तयोः -- इति । प्रवर्त्तकम् अपि साक्षात्कारणं तत् को ऽन्यत्र विद्वेषो येनेदम् एव विचार्यते? किं वा पूर्वशब्देनेत्य् आह -- तच् च इति. चो यस्मात्.

अयम् आशयः -- यतः प्रवर्त्तन्ते तत् सर्वम् अर्थप्राप्तेर् व्यवहितं कारणम् । अतश् च सम्भवत् प्रतिबन्धं तत् प्रवृत्त्यङ्गत्वात् पूर्वमात्रम्, न त्व् अनन्तरं कारणम् इति । पूर्वमात्राभिधानेन सान्तरम् । अमुम् एव द्रढ्यन्न् आह -- न तु -- इति । तुर् विशेषार्थः । कुत एतद् इत्य् आह -- सम्यग्ज्ञान इति । हिर् यस्मात् । तस्मिन् सम्यग्ज्ञाने प्रकरणात् साधननिर्भासे सति । स्मृतिबीजोपजननयोग्यज्ञानज्ञातस्य दाहादेः स्मरणम् । ततो ऽभिलाषः -- तत्प्राप्तीच्छा । ततः प्रवृत्तिः प्रवर्त्तकज्ञानोपदर्शितम् अर्थं प्राप्तुकामा व्यापारसहाया बुद्धिः । तस्याश् च प्राप्तिर् उपादित्सितलाभः । यस्मात् स्मरणादिना व्यवधानं ततः तस्मात् न साक्षाट् हेतुः प्राप्तेर् उपायः पुरुषार्थसिद्देर् इति प्रकरणात् ।

[ध्प्र् p.29]

अर्थक्रियानिर्भासां[24]तु यद्य् अपि साक्षात्प्राप्तिः, तथा अपि तन् न परीक्षणीयम्. यत्र एव हि प्रेक्षावन्तो ऽर्थिनः साशङ्काः, तत् परीक्ष्यते. अर्थक्रियानिर्भासे च ज्ञाने सति सिद्धः पुरुषार्थः. तेन तत्र न साशङ्का अर्थिनः. अतस् तन् न परीक्षणीयम्. तस्मात् परीक्षार्हम् असाक्षात्कारणं सम्यग्ज्ञानम् आदर्शयितुं कारणशब्दं परित्यज्य पूर्वग्रहणं कृतम्.

__________नोतेस्__________

[24] -निर्भासे तु अच्फ्न्;-निर्भासात् तु बेद्

यदि परम्परया ऽपि प्राप्तिहेतुः परीक्ष्यते तर्हि साक्षात् हेतुर् अतितरां परीक्षणीय इत्य् आह -- अर्थक्रियानिर्भासम् इति । तुः प्रवर्त्तकाध्यक्षाद् अर्थक्रियानिर्भासं भेदवद् दर्शयति ।

यद प्राप्तिहेतुर् इति पाठस् तदा अर्थक्रियानिर्भासम् इत्य् अस्यान्त्यव्याख्यानपक्षे भिन्ना सन्तोषादिप्राप्तिर् लोकाध्यवसायसिद्धा या तस्या हेतुः । प्राप्तिपाठे तु तद्व्याख्यानानवद्यता । पूर्वव्याख्याने तूपचारात् प्राप्तिहेतुः प्राप्तिशब्देन वक्तव्यः । करणासाधनो वा प्रात्पिशब्दो द्र्ष्टव्यः ।

कस्मात् तत् न परीक्ष्यत इत्य् आह -- यत्रैव हि -- इति । हिर् यस्मात् । साशङ्काः ससन्देहाः । आशङ्काग्रहणस्योपलक्षणत्वात् सविपर्यासा इत्य् अपि द्रष्टव्यम् ।

एवं ब्रुवतश् चायम् आशयः -- न व्यसनम् एतच् छास्त्रकृतो येन ज्ञानम् अप्रीक्षमाणः स्वास्थ्यम् अलभमानः परीक्षते । किन् तर्हि? व्युत्पाद्यजनप्रयोजनोद्देशेनायम् अस्यारम्भः । संशयविपर्यासापसारणं च व्युत्पाद्यजनप्रयोजनम् । ततो यत्रैव ते तथाप्रवृत्तयस् तद् एव परीक्ष्यत इति । अर्थक्रियानिर्भासे ऽपि ते तथावृत्तय इत्य् आह -- अर्थक्रियेति । चशब्दस् तुशब्दस्यार्थे ।

कुतो न तथावृत्तयः? येन साक्षात्कारणे ऽस्मिन् सति सिद्धः पुरुषार्तः, तेनानन्तरम् एव फलस्यानुभूयमानत्वात्, तद् एव सन्तोषादिगमनाद् वा । व्याख्यानद्वये ऽपि अर्थक्रियानिर्भासशब्दवाच्यद्वये स्थिते द्वयम् एतत् शङ्कायाः कारणम् -- अनन्तरफलादर्शनम्, अध्यवसायसिद्धभिन्नप्राप्त्यभावो वा । तदभाबे तु कथं शङ्केरन्न् इति भावः ।

मा भूवंस् तत्र साशङ्कास् तत् किं सिद्धम् इत्य् आह-- अत इति ।

यदि व्यवहितं प्रवर्त्तकं पुरुषार्थसिद्धेर् न कारणं तर्हि कथम् उक्तम् -- `कार्यात् पूर्वं भवत् कारणं पूर्वम् उक्तम्ऽ इति? असाक्षात्कारणे चाकारणे कारण[13ब्]विशेषणं साक्षाद् इति निरर्थकम् इत्य् आशङ्क्याह -- तस्माद् इति । यस्मात् साक्षात्कारणम् आशङ्कानास्पदं सद् अपरीक्षणीयं तस्माद् यद् असाक्षात्कारणम् अत एव च परीक्षार्हं परीक्ष्क्षायोग्यं प्रवर्त्तकं सम्यग्ज्ञानम् आदर्शयितुम् आदर्शयिष्यामि -- इति कारणशब्दं विहाय पूर्वगहणं कृतम् आचार्येणेत्य् अर्थात् ।

एतद् उक्तं भवति -- यो ऽयं कारणशब्दो व्यवहिते कारणकारणे वर्त्तते नायं तत्राभिधायकत्वेन वर्त्तते करोतीति कारणम् इति व्युत्पत्तेः । किन् तर्हि? तादर्थ्याद् उपचारत इति । [ध्प्र् p.30]

पुरुषस्य अर्थः पुरुषार्थः. अर्थ्यत इत्य् अर्थः काम्यत इति यावत्. हेयो ऽर्थ उपादेयो वा. हेयो ह्य् अर्थो हान्तुम् इष्यते, उपादेयो ऽपि उपादातुम्. न च हेयोपादेयाभ्याम् अन्यो राशिर् अस्ति. उपेक्षणीयो ह्य् अनुपादेयत्वात् हेय एव. तस्य सिद्धिः हानम् उपादानं च. हेतुनिबन्धना हि सिद्धिर् उत्पत्तिर् उच्यते, ज्ञाननिबन्धना तु सिद्धिर् अनुष्ठानम्. हेयस्य च हानम् अनुष्ठानम्, उपादेयस्य च उपादानम्. ततो हेयोपदेययोर् हानोपादानलक्षणानुष्ठितिः सिद्धिर् इत्य् उच्यते.

स्याद् एतत् -- सत्य् अपि कारणग्रहणे विचारार्हम् एव सम्यग्ज्ञाणं प्रतिपत्स्यते । यतस् तद् व्युत्पाद्यत इत्य् अर्थः, साध्यत्वात् । प्रातिपदिकार्थस् तु कारकत्वाद् गुणः प्रधानानुयायी । तेन प्रधानानुरोधात् तच्छब्दो वर्णितया नीत्या मुख्यस्य कारणस्य सम्यग्ज्ञानस्य व्युत्पत्तिकर्मताऽनुपपत्तेस् तत्परित्यागेन लक्षणया तादर्थ्यभूतया प्रत्यासत्त्या ऽर्थक्रियासमर्थप्रवर्त्तक एव प्रवर्त्तिष्यते । यथा मञ्चाः क्रोशन्तीत्य् अत्र प्रधानानुरोधात् मञ्चशब्दः क्रोशनक्रियाकर्त्तृत्वानुपपत्तेऋ मुख्यम् अर्थं त्यक्त्वा लक्षणया तात्स्थ्यभूतया प्रत्यासत्त्या पुरुषेषु वर्त्तत इति । सत्यम् एतत् । केवलम् एवं सति व्याख्यातॄणाम् इदं कौशलं स्यान् न शास्त्रकृत इति सर्वम् अनवद्यम् ।

इदानीं पुरुषार्थसिद्दिपदं विवरिषुः पुरुषशब्देन सार्धम् अर्थशब्दस्य विग्रहम्, अर्थस्य च स्वरूपं पुरुषस्येत्यादिना चाष्टे । अर्थ्यत इत्य् आचक्षाणो[25]`अर्थ याच्ञायाम्ऽ इत्य् अतो णिजन्तात् कर्मण्यचं दर्शयति । अर्थ्यत इत्य् अस्यार्थं स्पष्टयति -- काम्यत इष्यत इत्य् अनेन यावान् एवार्थं उक्तस् तावान् एवार्थ्यत इत्य् अनेनापीति इति यावद् इत्य् अस्यार्थः ।

__________नोतेस्__________

[25] अर्थ उपयाच्ञायाम् -- धातुपाठ 10,373 । {नछ् औस्गबे इन् ब्öथ्लिन्ग्क् इस्त् एस् इन् 10,357}

को ऽसाव् अर्थं इत्य् आह -- हेय इति । वाशब्दश् च शब्दस्यार्थे । अर्थ्यमान इष्यमाणो ऽर्थः । न तर्हि हेयो ऽर्थ इत्य् आह -- हेय इति । हिर् यस्मात् । हेयो हातुं त्यक्तुम् इष्यते तस्माद् अर्थः । अयम् आशयः -- इष्यमाणः खल्व् अर्थः । अत्र यद्य् अपि स्वीकरणेच्छा नास्ति तथापि परिहारेच्छा तावद् अस्तीति । यदि हातुम् इष्यमाणो ऽर्थः कथम् उपादेयो ऽर्थ इत्य् आह -- उपादेयो ऽपीष्यते केवलम् उपादातुम् । न केवलं हेय इष्यते इत्य् अपिशब्दः ।

ननु च न हेयोपादेयाव् अर्थो ऽपि त्व् अन्यो ऽपि । ततः सो ऽपि कस्मान् न प्रदर्श्यत इत्य् आह -- न चेति । चो ऽवधारणे यस्माद् अर्थे वा ।

ननूपेक्षणीयो ऽपि राशिर् अस्ति । यत्र न प्रवृत्तिर् यतश् च न निर्वृत्तिः । तत् कथम् अनुभवसिद्धस्यापह्न्व इत्य् आह -- उपेक्षणीय इति । हिर् यस्मात् ।

अत्र कश्चिद् आह -- "यथा ऽसाव् अनुपादेयस् तथा ऽहेयो ऽपि । तत्त्र यद्य् अनुपादेयत्वाद् धेयस् तदा ऽहेयत्वाद् उपादेयः किं न भवति" इति । साधूक्तं तेन भदन्तेन केवलं हेयशब्दार्थविचारे मनो न

[ध्प्र् p.31]

सर्वा चासौ पुरुषार्थसिद्धिश् चेति. सर्वशब्द इह द्रव्यकार्त्स्न्ये वृत्तः, न तु प्रकारकार्त्स्न्ये. ततो न अयम् अर्थः -- द्विप्रकारा अपि सिद्धिः सम्यग्ज्ञाननिबन्धना एव इति. अपि त्व् अयम् अर्थः -- या काचित् सिद्धिः, सा सर्वा कृत्स्ना एव असौ सम्यग्ज्ञाननिबन्धना इति. मिथ्याज्ञानाद् धि काकतालीयापि नास्त्य् अर्थसिद्धिः. तथा हि -- यदि प्रदर्शितम् अर्थम् प्रापयत्य् एवम् ततो भवत्य् अर्थसिद्धिः.

प्रणिहितम् । तथा हि । हीयते, त्यज्यते, न स्वीक्रियते इति हेयः । हानञ् चास्वीकरणम् । न तु गृहीत्वा परित्यागः । तेन अहिविषकण्टकादीनाम् अपि हानं तत्रा [14अ] ऽप्रवृत्तिर् एव । सा चोपेक्षणिये ऽप्य् अस्ति । तथा च यदि तस्य स्वीकारो भवेत्, तदा ऽहेयत्वं सिद्धिम् अध्यासीत । न च तत् स्वीक्रियत इति व्यक्तम् अयं हेतुर् असिद्धस् तस्य । न त्व् अस्माकम् असिद्धः । अनुपादेयत्वस्य अस्वीकर्त्तव्यत्वस्य सिद्धत्वात् ।

अथानुभवसिद्धस्य तृतीयराशेर् उपेक्षणियस्यास्वीकरणमात्राद् धेयेन सार्धम् ऐक्यप्रतिपादनम् अयुक्तम् इति चेत् । प्रियम् उक्तं प्रयेण । न हि वयम् अपि प्रसिद्ध्योर् हेयोपेक्षणिययोर् अर्थयोर् एकस्वभावताम् आतिष्ठामहे । किन् तु क्रियानिमित्तेन हेयशब्देनैकाभिधानम् तथा ऽस्वीकरणार्थेन हानशब्देनोपेक्षाया अभिधानम् इति किम् अवद्यम्? एतच् च हेयोपादेयत्वम् अर्ह्तयैकपुरुषैककालापेक्षया प्रत्येयम् ।

अधुना सिद्धिशब्दस्यार्थपदेन विग्रहं ब्रुवन्न् अर्थम् आह -- तस्य -- इति ।

ननु लोके सिद्धिर् निष्पत्तिर् उच्यते, यथौदनस्य सिद्धिर् इति. तत् कथम् एवं वर्ण्यत इत्य् आह -- हेतुनिबधनेति. हेतुः कारणं निबद्ध्यते ऽस्मिन्न् इति निबन्धनं प्रतिबन्धविषयः । हेतुर् निबन्धनम् अस्या इति विगृह्य हेतुप्रतिबद्धेत्य् अर्थो वक्तव्यः ।

यदि जनकनिबन्धना सिद्धिर् ईडृशी तर्हि ज्ञाननिबन्धना कीदृशी भविष्यतीत्य् आह -- ज्ञानेति । तुः पूर्वस्याः सिद्धेर् अस्या भेदं दर्शयति । एवं च व्याचक्षाण अर्थपदव्याख्याने "अर्थः प्रयोजनं दाहादि", सिद्धिपदव्याख्याने च "तस्य दाहादेर् निष्पत्तिः" इति यद् विनीतदेवशान्तभद्रौ व्याचक्षातां तद् द्वयम् अप्य् अपास्यति । यतः स्वहेतोर् एव वह्न्यादेर् दाहादेर् निष्पत्तिर् न तु ज्ञानात् तस्य तदकारकत्वाद् इति ।

ननु यदि सिद्धिर् अनुष्ठानम्, तर्हि हानम् उपादानं सिद्धिर् इत्य् आह -- हेयस्य च -- इति. चो हेतौ, अवधारणे वा हानम् इत्य् अस्मात् परो द्रटव्यः. द्वितीयश् चकारः समुच्चयार्थः । किम् एवं सति सिद्धम् इत्य् आह -- तत इति । यतो ज्ञाननिबन्धना सिद्धिर् ईदृशी ततस् तस्मात् कारणात् ।

पुरुषार्थसिद्धिशब्दानां विग्रहम् अर्थं व्याख्याय सम्प्रति सर्वशब्दं व्याख्यातुं विग्रहम् आह -- सर्वा च -- इति । एवं च विगृह्णन् यद् विनीतदेवेन व्याख्यातम् -- "सर्वश् चासौ लौकिको लोकोत्तरश् चासन्नदेशो दूरदेशश् च पुरुषार्थश् चेति, तथा तस्य सिद्धिः" इति, तद् दूषयति. एवं हि

[ध्प्र् p.32]

प्रदर्शितं च प्रापयत् सम्यग्ज्ञानम् एव. प्रदर्शितं च अप्रापयत् मिथ्याज्ञानम्. अप्रापकं च कथम् अर्थसिद्धिनिबन्धनं स्यात्. तस्माद् यन् मिथ्याज्ञानम्, न ततो अर्थसिद्धिः. यतश् च अर्थसिद्धिः, तत् सम्यग्ज्ञानम् एव. अत एव सम्यग्ज्ञानम् यत्नतो व्युत्पादनीयम्. यतस् तद् एव पुरुषार्थसिद्धिनिबन्धनम्,

व्याख्यायमाने सर्वशब्देन पुरुषार्थसिद्धेर् अविशेषणाद् मिथ्याज्ञानात् काकतालीयार्थसिद्धिर् निवारिता स्यात् । न च सा सम्भयिनी । यथा च सा न सम्भवति, तथा ऽनन्तरम् एव प्रतिपादयिष्यते ।

यो ऽपि शान्तभद्रः "सर्वश् चासौ पुरुषार्थश् च, सर्वेषां वा पुरुषाणाम् अर्थस् तस्य सिद्धिः" इति व्याचष्टे, सो ऽप्य् अनयैव द्वारा निराकृतः ।

ननु सर्वशब्दस्य प्रकारकात्स्नर्यवृत्तेर् अपि दर्शनान् न ज्ञायते किं वृत्तिर् अत्राभिप्रेत इत्य् आह -- सर्वशब्द इति. द्रव्यस्य निःशेषतायां वृत्तः प्रवृत्तो वाचकभावेन । यथा "सर्वोत्पत्तिमताम् ईश्वरो निमित्तकारणम्" इत्य् अ[14ब्]त्र । द्रव्यशब्देन चेदं तद् इति व्यपदेशयोग्यं ग्रहीतव्यम् । न तु वैशेषिकसिद्धान्तप्रसिद्धं पृथिव्यादि । तद् उक्तम् --

"वस्तूपलक्षणं यत्र सर्वनाम् प्रसज्यते ।

द्रव्यम् इत्य् उच्यते सो ऽर्थो भेद्यत्व विवक्षितः" इति

पुरुषार्थसिद्धिर् अपीदं तद् इति व्यपदेशयोग्या । तेन सा ऽपि द्रव्यम् । तथावृत्तेर् अस्य ग्रहणाद् अन्यवृत्तितया प्रसिद्धस्यापि प्रतिषेधं कण्ठोक्तं करोति । वृत्त इति वर्त्तते । यथा पूर्वे व्याचक्षते "सर्वरसभोक्ता ऽयं भिक्षाकः" इति । यथा ऽयम् सर्वशब्दः प्रकारकार्त्स्न्यवाची तद्वद् अत्रापीति । प्रकारकार्त्स्न्यवृत्तेर् अग्रहणे को गुण इत्य् आह -- तत इति । ततः प्रकारकार्त्स्न्यवृत्तस्याग्रहणत् । तथापि कथम् अयम् अर्थो भवतीति चेत् । भवति हि प्रकारकार्त्स्न्यवचने सर्वशब्दे सत्य् अयम् अर्थः -- न सो ऽस्ति पुरुषार्थसिद्धेः प्रकारः फललक्षणो वा यो न सम्यग्ज्ञाननिबन्धन इति । सति चैवं द्विप्रकारा ऽपि सिद्धिः सम्यग्ज्ञानपूर्विकेत्य् अयम् अर्थो भवति ।

ननु चास्मिन्न् अप्य् अर्थे प्रकारद्वितयस्य संगृहीतत्वात् किम् असंगृहीतं नाम येनायम् अर्थो यत्नेन महता हीयत इति? कथं न हीयतां कस्याश्चित् तत्प्रकारान्तःपतिताया हानव्यक्ते[26].....................न हि षड् अपि रसप्रकारान् भुञ्जानः कश्चिन् मधुराम्लादिरसव्यक्तीः सर्वा एव भुङ्क्ते । न च तथा ऽकुर्वन् सर्वरसभोक्ता न भवतीति ।

__________नोतेस्__________

[26] सम्यक्{-ङ्} न पठ्यते ।

यद्य् अयं नार्थः कस् तर्हीत्य् आह -- अपि तु -- इति । निपातसमुदायो ऽयं किन् त्वत् यस्यार्थे सर्वत्र वर्त्तते ।

ननु कृत्स्नैवासौ सम्यग्ज्ञाननिबन्धनेत्य् उच्यमाने मिथ्याज्ञानात् काकतालीया ऽप्य् अर्थसिद्धिर् नास्तीति दर्शितं स्यात् । न चैतद् युज्यते । यतो यद्य् अपि मिथ्याज्ञानान् नियमवती नास्त्य् अर्थसिद्धीह्, तथापि कादाचित्की विद्यते एव । यथा कश्चित् दहनोपरिवर्त्तिं मशकवर्त्तिं धूमम् अवसायाग्निम् अनुमाय यदि प्रवृत्त्या ऽग्निम् आसादयति । अत एव च मिथ्याज्ञानस्य कादाचित्कार्थ--

[ध्प्र् p.33]

सिद्धिनिबन्धनत्वात्, सम्यग्ज्ञानस्य तु नियमेनार्थसिद्धिनिबन्धनहेतुत्वात् सम्यग्जानम् एव यत्नतो व्युत्पाद्यते । न त्व् एतावता मिथ्यज्ञानान् नास्त्य् एवार्थसिद्धिः । प्रकारकार्त्स्न्यवृत्तग्रहणे तु नायं दोषः । एवं हि सम्यग्ज्ञानासाध्यः परप्रकारो निराक्रियते । न तु तत्प्रकारान्तःपातिन्याः कस्याश्चित् सिद्धिव्यक्तेर् मिथ्याज्ञानसाध्यत्वम् । न च हानोपादानव्यक्तयः प्रत्येकं प्रकारशबदवाच्याः प्रकारानन्त्यप्रसङ्गात् । तस्मात् सर्वशबदः प्रकार्कार्त्स्न्यवृत्तिर् एव प्रहीतव्यः -- इति पुर्वेषां मतम् आशङ्क्याह -- मिथ्येति । काततालयोः संयोग इवाकस्मकी काकतालीया । कुतो नास्तीत्य् आह -- तथा हीति । तत इति मिथ्याज्ञानात् । तद् अपि प्रापयत्य् एवेत्य् आह -- प्रदर्शितम् इति । चो यस्मात् ।

प्रदर्शितं प्रापयद् अपि मिथ्याज्ञानं भविष्यति । ततः सम्यग्ञानम् एवेत्य् अवधारणम् अयुक्तम् इत्य् आह -- प्रदऋशितम् इति । चो ऽवधारणे अप्रापयद् इत्य् अतः परो द्रष्टव्यः । `लक्षणहेत्वोःऽ [पाणिनि 3 ।2 ।126] इति हेतौ शतुर् विधानात् । प्रदर्शितार्थाप्रापणाद् एव मिथ्याज्ञान[15अ]म् इत्य् अर्थः । मिथ्याज्ञाणस्य हीदम् एव तत्त्वं यत् प्रदर्शिताप्रापत्वं नाम । प्रापके तु मिथ्याजानव्यपदेशः समारोपितः स्याद् इति भावः । मा भूत प्रापकम्, तद् अर्थसिद्धेस् तु बिबन्धनं किंन स्याद् इत्य् आह अप्रापकम् इति । चो यस्माद् अर्थे ।

तस्माद् इत्यादिनोक्तार्थोपसंहारं करोति । यस्माद् उपदर्शिताप्रापकम् एव मिथ्याञाणम् तस्माद् यत् किञ्च्न् मिथ्याञाणं ततः सरत एव नार्थसिद्धिः । यः पुनर् अकस्माद् वह्नेर् उपरि मशकवर्त्तिं धूमम् अवसाय वह्निम् अस्वस्यति, सो ऽप्य् अनुमाकालात् पूर्वं यावन् मशकवर्त्त्यादिभ्यो व्यावृत्तं वह्निकार्यं नियतं धूमरूपं निरूप्य विवेचितं तदानीम् अनुमानकाले नानुसरति, तदनुसरणे भ्रान्त्ययोगात्, तावद् अनिवर्त्तिते संशयहेतौ, तिष्ठतु तावन् मशकर्वर्त्तिदर्शनम्, सत्य् अधूमदर्शने ऽपि सन्दिग्धवह्निकार्यत्वात् कथं निःशङ्को नाम सचेतनः । तस्मान् निश्चितनियतरूपाद् एव धूमाद् वह्निनिश्चियः । अन्यस्मात् त्व् एकांशावग्रहो ऽप्य् अनिवर्तितशङ्काहेतुः संशय एव । संशयश् च भावाभावानियतस्यार्थस्याशक्यप्रापणस्य दर्शको नार्थसिद्धेर् निबन्धनम् । ज्ञाणातराद् एव तु सा प्राप्तिर् इत्य् अस्याभिप्रायः । एवम् अन्यत्रापि मिथ्याज्ञाने यथा प्रामाण्यं न युज्यते, यथा च ज्ञानान्तराद् एव सा प्राप्तिस् तथा धरमोत्तरेणैव विनिश्चयटीकायां विपञ्चितम् इति नेह प्रतन्य्ते ।

कुतश्चिद् अर्थसिद्धिर् अपि स्याद् इत्य् आह -- यतश् च -- इति । चो ऽन्यस्माद् भेदवद् रूपम् उपदर्शयति । अर्थसिद्धिनिबन्धनं मिथ्याज्ञानम् आचार्यस्यापि नाभिमतम् इति सामर्थ्याद् दर्शयति । यदा ऽऽह -- अत एवेति । यत एव मिथ्याज्ञानाद् अर्थसिद्धिर् नास्ति, सम्यग्ज्ञानाच् चास्त्य् एव । अतो ऽस्माद् एव हेतोः । यत्नग्रहणम् अनुषङ्गेण मिथ्याज्ञानव्युत्पादनं दर्शयति । मिथ्याज्ञाणस्यापि कस्यचिद् व्युत्पादनाद् इत्य् उक्तप्रायम् । अत एवेत्य् एनेन यद् एव हेतुत्वेनापेक्षितं तद् एव यत इत्यादिना सुखप्रतिपत्त्यर्थं कण्ठोक्तं करोति । अयम् आशयः -- यद्य् आचार्यो मिथ्याज्ञानाद् अप्य् अर्थसिद्धिं भवित्रीम् अभिप्रेयात्म् तदा न सम्यग्ज्ञानम् एव प्रस्तारेण व्युत्पादयेत् । तद् एव च तथा व्युत्पादितवान् । अतो ऽवसीयते नैव तस्येदम् अभिप्रेतम् इति.

ननु सम्यग्ज्ञानपूर्विकैवेत्य् अवधारणे सति मिथ्याज्ञानाद् अर्थसिद्धिर् नास्तीति लभ्यते. न चोपात्तम् अवधारणम्, तत् कथम् अयम् अर्थो लभ्यत इत्य् आह -- तत इति । यतः सर्वशब्दे दर्व्यकार्त्स्न्य--

[ध्प्र् p.34]

ततो यावद् ब्रूयात् -- या काचित् पुरुषार्थसिद्धिः, सा सम्यग्ज्ञाननिबन्धना एव इति, तावद् उक्तं सर्वा सा सम्यग्ज्ञानपूर्विका इति. इतिशब्दस् तस्माद् इत्य् अस्मिन्न् अर्थे. यत्तदोश् च नित्यम् अभिसम्बन्धः. तद् अयम् अर्थः -- यस्मात् सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात् तत् सम्यग्ज्ञानं व्युत्पाद्यते.

यद्य् अपि च समासे गुणीभूतम् सम्यग्ज्ञानम्, तथा अपि इह प्रकरणे व्युत्पादयितव्यत्वात् प्रधानम्. ततस् तस्य एव तत्शब्देन सम्बन्धः.

व्युत्पाद्यत इति विप्रतिपत्तिनिराकरणेन प्रतिपाद्यत इति.

____________________________________________________

वृत्तौ सति सर्वा कृत्स्ना पुरुषार्थसिद्धिः सम्यग्ज्ञानपूर्विका, न तु काचिद् व्यक्तिर् अस्ति या न तत्पूर्विकेत्य् अयम् अर्थो लभ्यते, ततः कारणात् पूरुषार्थसिद्धिः सम्यग्ज्ञाननिबन्धनैवेति सावधारणं वाक्यम् । यत् परिमाणम् अभिधेयं ब्रूयाद् वक्तुं शक्नोति, तावत् परिमाणम् उक्तम् सर्वा सम्यग्ज्ञानपूर्विकेत्य् अनेन । वर्त्तताम् इतिशशब्दस् तस्माद् इत्य् अस्यार्थे । क्व पुनर् यत्शब्दो ऽस्ति येन वक्ष्यमाणार्थसङ्गतिर् इत्य् आह -- यद् इति । चो [15ब्] व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे । शब्दयोः साक्षाद् अन्योन्यापेक्षाभावात् यत्तदर्थयोर् इति द्रष्टव्यम् । अभिसम्बन्धो व्यपेक्षा । एवं सति कीदृशो ऽर्थो व्यवतिष्ठत इत्य् आह -- तद् इति ।

ननु बहुव्रीहौ गुणीभूतं सम्यग्ज्ञानम्, तत् कथं तस्याप्रधानस्य प्रधानप्रत्यवमर्शिना तच्छब्दे परामर्शः स्याद् इत्य् आह -- यद्य् अपि चेति । यद्य् अपि चेति निपातसमुदायो विशेषाभिधानार्थाभ्युपगमे वर्त्तते । महाभाष्ये चायं प्रायेण दृश्यते । समास इति समासार्थ इत्य् अर्थः । व्युत्पादयितव्यत्वात् प्रधानम् इत्य् अभिदधतो ऽयम् आशयः -- द्वेधा हि प्राधान्यं शब्दतो ऽर्थतश् च । तत्र शाब्देन न्यायेनासत्य् अपि प्राधान्ये सम्यग्ज्ञानस्य व्युत्पादयितव्यतया बुद्ध्यन्तरेणोपस्थापितस्य स्वतन्त्रस्याऽऽर्थेन न्यायेन प्राधान्यं को ऽपहस्तयेद् इति तच्छब्देन तस्य परामर्शो न विरुद्ध्यत इत्य् एवं व्याचक्षाणो विनीतदेवव्याख्यां तिरस्करोति । एवं ह्य् असौ व्याचष्टे -- "तद् इति नपुंसकलिङ्गेन निर्देशात् सम्यग्ज्ञानं परामृश्यत" इति । सम्यग्ज्ञानस्याप्राधान्येन परामर्शानुपपत्तौ तल्लिङ्गप्रहणस्यैवायोगात् कथम् असिद्धेन साध्यताम् इत्य् आशयः । ततः प्राधान्यात् तस्यैव सम्यग्ज्ञानस्य

[ध्प्र् p.35]

चतुर्विधा च अत्र विप्रतिपत्तिः संख्यालक्षणगोचरफलविषया. तत्र संख्याविप्रतिपत्तिम् निराकर्तुम् आह --

द्विविधं सम्यग्ज्ञानम् । nb i 2

द्विविधम् इति -- द्वौ विधौ प्रकाराव् अस्य इति द्विविधम्. संख्याप्रदर्शनद्वारेण च व्यक्तिभेदो दर्शितो भवति.

________________________________________ tacchabdena sambandhanaṃ sambandhaḥ svīkāra iti yāvat | tato 'yam arthaḥ -- tat samyagjñānaṃ karamabhūtaṃ vipratipattinirākaraṇena pratipādyate bodhyate śiṣyajana ity arthāt | ata eva tad iti dvitīyāntam etad iti sopapattikam āha |[27]"samyaṃ sva(-smā)ryate paraḥ"[pv iv 267]iti yathā | vipratipattinirākaraṇena pratipādyata iti bruvatā lakṣaṇaṃ na virudhyate | "prasiddhāni pramāṇāni" [cf. psṭ ms a 12b1; na k.2; pvṭ 96a7f]ityādi tad apahastitaṃ veditavyam |

__________नोतेस्__________

[27] "स्मार्यते समयं परः" pv iv 267 -- सं-

ननु वार्त्तिकादिनैव सम्यग्ज्ञानस्य व्युत्पादनात् कथम् अस्य न वैयर्थ्यम् इति चेत् संक्षिप्तरुचीन् प्रज्ञान् अधिकृत्येदं प्रकरणं प्रणीतम् इत्य् अदोषः ।

अथ का ऽत्र विप्रतिपत्तिः यन्निराकरणेनेदं प्रतिपाद्यत इत्य् आह -- चतुर्विधेति । चो यस्मात् । चतुर्विधा चतुःप्रकारा । अत्र सम्यग्ज्ञाने विरुद्धा प्रतिपत्तिर् विप्रतिपत्तिः । किंविषया सेत्य् आह । संख्येति । अनेन विषयभेदाच् चातुर्विध्यं विप्रतिपत्तेर् दर्शितम् । तथा हि संख्याविप्रतिपत्तिस् तावत् प्रत्यक्षम् एवैकं प्रमाणम् इति लोकायतिकानाम् । प्रत्यक्षानुमानाप्तवचनानि त्रीण्य् एव प्रमाणानीति सांख्यानाम् । आर्षस्य ज्ञानस्य प्रतिभाप्रनाम्नः कदाचिद् इह लौकिकानाम् उत्पद्यमानस्य प्रत्यक्षानुमानयोर् एकत्राप्य् अन्तर्भावाप्रदर्शनात् प्रत्यक्षानुमानार्षाण्य् एवेति चिरन्तनवैशेषिकाणाम् । प्रत्यक्षानुमानोपमानशब्दा एवेति नैयायिकानाम् । प्रत्यक्षानुमानोपमानशब्दार्थापत्तय एवेति प्रभाकराणाम् इति । प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यभावा एवेति कौमारिलानाम् ।

लक्षणविप्रतिपत्तिर् अपि -- सविकल्पकम् एव प्रत्यक्षम् इति वैयाकरणबार्हस्पत्यादीनाम् । सविकल्पकं निर्विकल्पकं चेति नैयायिकमीमांसकादीनाम् । पीतशङ्खादिज्ञानं भ्रान्तम् अपि प्रत्यक्षम् इत्य् अंशवादवादिनाम् । एकलक्षणहेतुजम् अनुमानम् इत्य् अह्रीकाणाम् । षड्लक्षणहेतुजम् इति पूर्वयौगानाम् । पञ्चलक्षणहेतुजं चतुर्लक्षणहेतुजं चे(वे)ति नैयायिकानाम् ।

विषयविप्रतिपत्तिर् अपि -- सामान्यविषये प्रत्यक्षानुमाने इति नैयायिकमीमासकादीनाम् ।

फलविप्रतिपत्तिर् अपि -- सर्वेषां प्रमाणा(-ण)व्यतिरिक्तम् एव प्रमाणरू(प्रमारू)पं फलम् इति ।

तत्र तासु मध्ये संत्ख्या त्व् अजात्या निर्धार्यते । ततो निर्धारणे युक्तं द्वौ विधौ प्रकाराव् अस्येति विगृह्णन् विधशब्दो ऽप्य् अस्ति प्रकारवाचीति दर्शयति । तथा हि प्रकीर्णवृत्तिकृदधर्मपालेनापि

[ध्प्र् p.36]

द्वे एव सम्यग्ज्ञानव्यक्ती इति. व्यक्तिभेदे च प्रदर्शिते प्रतिव्यक्तिनियतं सम्यग्ज्ञानलक्षणम् आख्यातुं शक्यम्. अप्रदर्शिते तु व्यक्तिभेदे सकलव्यक्त्यनुयायि[28]सम्यग्ज्ञानलक्षणम् एकम् न शक्यं वक्तुम्. ततो लक्षणकथनाङ्गम् एव संख्याभेदकथनम्. अप्रदर्शिते तु व्यक्तिभेदात्मके संख्याभेदे लक्षणभेदस्य दर्शयितुम् अशक्यत्वात्. लक्षणनिर्देशाङ्गत्वाद् एव च प्रथमं संख्याभेदकथनम्.

__________नोतेस्__________

[28] -व्यक्त्य्-एम्.: -व्यक्तत्य्-ध्प्र्

_____________________________________________________

विधशब्दः प्रकारवाची प्रदर्शितः । न पुनर् अस्यायम् अभिप्राहः -- विधा(-ध)शब्दो जातिवाचित्वात् प्रकारवाची न भवतीति । अनेकार्थत्वात् तस्य प्रकारवाचिनो ऽपि प्रयोगस्य "चतसृषु चैवेंविधासु तत्त्वं परिसमाप्यते" [न्यायभा- पृ- 2] इत्यादाव् अनेन प्रायशो दृष्टत्वात् ।

ननु कथं नाम प्रमाणाद् एव प्रवर्त्तेय नाप्रमाणाद् इति प्रवर्त्तितुमनाः प्रमाणस्य लक्षणम् एव जिज्ञासते, न सङ्ख्याम्. ततो लक्षणम् एव व्युत्पाद्यं न सङ्ख्या. तच् च लक्षनं यद्य् एकस्यैवास्ति, तद् एकम् एव प्रमाणम्. अथ बहूनाम्, तदा प्रमाणबाहुल्यम् अनिवार्यम् एव. अथ तल् लक्षणं नैकस्यैवास्ति नापि बहूनाम्, तर्हि लक्षणव्युत्पत्तौ सामर्थ्यात् संख्याविप्रतिपत्तिर् निराकृता भवतीति किं पृथक् संख्याविप्रतिपत्तिनिराकरणेनेतिय् आह -- संख्येति. चो यस्मादर्थे. द्वारम् उपायः.

केनाकारेण दर्शितो भवतीत्य् आह -- द्वे इति. इतिना व्यक्तिभेदस्य स्वरूपम् आह. व्यक्तिभेदेनैव दर्शितेन किं प्रयोजनम् इत्य् आह -- व्यक्तिभेदे चेति. चो यस्मादर्थे. यद्य् अदर्शिते ऽपि व्यक्तिभेदे लक्षणाख्यानं शक्यम्, तथापि किं दर्शितेनेत्य् अन्वयमात्राद् अप्रतिपत्तेर् व्यतिरेकम् अपि दर्शयितुम् आह -- अप्रदर्शित इति. तुः प्रदर्शनपक्षाद् अप्रदर्शनपक्षस्य भेदम् आह. सकलव्यक्त्यनुयायीति ब्रुवतो ऽयं भावः -- व्यक्तिभेदानुपदर्शने प्रतिव्यक्तिनियतस्य लषणस्याख्यातुम् अशक्यत्वात्. लक्षणम् उच्यमानं सकलव्यक्त्यनुयायि तद् एकं वक्तव्यम् । न च तद् वक्तुं शक्यम्, असम्भवाद् एवेति.

ननु किम् उच्यते -- सकलव्यक्त्यनुयायि वक्तुम् अशक्यम् इति यावता ऽविसंवादिज्ञानं प्रमाणम् इत्य् अस्ति लक्षणम् एकं सुवचम् अपीति. सत्यम्. केवलं ज्ञानानां यत् प्रातिस्विकं रूपं प्रवृत्तिकामानां प्रवृत्त्युपयोगि, तद् उपलक्षणं नास्तीत्य् अभिप्रायाद् अदोषः. यद् वा विप्रतिपत्तिनिराकरणप्रवणं यत्साधारणं लक्षणम्, तन् नास्ति. यच् चाविसंवादित्वं लक्षणम्, न तेन विप्रतिपत्तिर् निराकृता भवति. अन्यत्रापि परैर् अविसंवादित्वस्येष्टत्वाद् इत्य् अनेनाभिप्रायेणोक्तम् -- न शक्यम् एकं वक्तुम् इति विशेषप्रतिषेधसामर्थ्यात् शेषविधिसिद्धौ च तथाभूतस्य साधारणस्य सम्भवाद् एव सकलशब्दो ऽयम् उपयुक्तकार्त्स्न्ये प्रवर्त्तनीयः. तेनायम् अर्थः -- प्रदर्शितव्यक्तिभेदात्मकचतुर्विधप्रत्यक्षानुयायि कलपना ऽपोढाभ्रान्तत्वम्, प्रदर्शितव्यक्तिभेदात्मकद्विविधानौमानानुयायि त्रिरूपलिङ्गजत्वं शक्यं वक्तुम् इति. यदि नामैवम्, ततः किम् इत्य् आह -- तत इति. यतो ऽप्रदर्शिते न शक्यम् एकं तथाविधं दर्शयितुम्, ततस् तस्मात्. लक्षणकथनाङ्गम् इति प्रतिव्यक्तिनियतलक्षणकथनाङ्गम् इत्य् अवसेयम्.

[ध्प्र् p.37]

किं पुनस् तद् द्वैविध्यम् इत्य् आह --

प्रत्यक्षम् अनुमानं च इति ॥nb i 3

______________________________________________________

अथ तथाविधं लक्षणम् एकं वक्तुं न शक्यतां नाम । किम् अतः? केवलम् अदर्शिते ऽपि संख्याभेदे लक्षणभेदो दर्शयितुं शक्यताम् । तत् कस्मात् तत्कथनाङ्गं संख्याभेदकथनम् इत्य् आशङ्क्यान्वयमुखेनोक्तम् अर्थं द्रढयितुं व्यतिरेकमुखेणाह -- लक्षणेति । लक्षणभेदस्य प्रतिव्यक्तिभिन्नस्य दृष्टस्य । कदा दर्शयितुम् अशक्यत्वं यत एवं भवतीत्य् आकाङ्क्षायाम् -- अप्रदर्शित इति पश्चाद् योजनीयम् । तुर् अवधारयति, प्रदर्शिताद् वा भिनत्ति ।

ननु च न संख्याभेद एव व्यक्तिभेदः, तत् कथं व्यक्तिभेदात्म्क इत्य् उच्यत इति चेत्. वस्तुतः संख्येयाद् अन्यस्याः संख्याया वास्तव्या अभावेन संख्यासंख्येययोर् एकत्वविवक्षया चैवम् उच्यते । पूर्वं तु कल्पनानिर्मितात्मनां(-ना)भिन्नाम् अवलम्ब्य संख्याप्रदर्शनद्वारेणेत्युक्तम् । संख्यासम्ख्येययोर् एकत्वविवक्षयैव च संख्येयविप्रतिपत्तिर् एव निराकृतेति । अथ वा वस्तु(व्यक्ति)भेदस् तदात्मा तथाविधः कल्पनाशिल्पिनिर्मितो यस्य संख्याभेदस्य स तथोक्तः । परमार्थतो भिन्ने हि वस्तुनि संख्याभेदः कल्प्यत इति वास्तवरूपानुवादम् इदम् उक्तम् इति किम् अवद्यम्? सर्वेण चानेन नै(चानेनै)तद् उक्तम् -- प्रवृत्तिकामानाम् उपयोगित्वाल् लक्षणम् एव वक्तुं युक्तं तद् एतत् त्व् अन्यथा न शक्यम् आख्यातुम् इति संख्याभेदप्रदर्शनम् इति ।

नन्व् असत्य् अपि द्विविधम् इति संख्याभेदप्रदर्शने तत् सम्यग्ज्ञानं चेत्य् उक्ते ऽपि व्यक्तिभेदो दर्शितो भवत्य् एव । सति चैवं लक्षणाभ्देदाख्यानम् अपि सुकरम् इति कृतं द्विविधशब्देनेति चेत् । सिद्धे सतीदं वचनं द्विविधम् एवेति नियमार्थम् इति ब्रूमः । इतरथेह तावद् एतावद्व्युप्ताद्यतया प्रस्तुतम् अन्यत्र पुनर् अन्यद् अप्य् अस्ति व्युत्पत्त्यं सम्यग्ज्ञानम् इत्य् आशङ्काहत्य न निराकृता स्याद् इति । यत् पुनर् उक्तम् -- तर्हि लक्षणव्युत्पत्त्यैव संख्याविप्र्तिपत्तिर् निराकृता भवतीति तद् अत्यन्तम् असङ्गतम् । यतो यदि विशेषलक्षणम् अभिप्रेत्येदम् उच्यते; तदा व्यक्तिभ्देदानुपदर्शने प्रतिव्यक्तिनियतं तद् एवाशक्यं(-य) कथनम् इत्य् उक्तम् । न चोक्तम् इति तथा कर्तुम् ईष्टे । यतस् तद् ईदृशं प्रत्यक्षम् अनुमाणं चेत्य् एतत् कर्तुं शक्नोति । न त्व् आभ्याम् अन्यन् न सम्यग्ज्ञाणम् इति । अथ सामान्यलक्षणम् । तद् अपि तथाविधं साधारणं वक्तुम् अशक्त्यम् इति केन तथा क्रियताम्? न च तेनोक्तेनापि तादृशी विप्रतिपत्तिर् निराक्रियत इत्य् उक्तम् । अथापि स्यात् -- द्विविधम् इत्य् उक्ते ऽपि कथ[17अ]म् आभ्याम् अन्यस्यासम्यग्ज्ञानत्ववि(-त्वाधि)गमः? उच्यते । ये तावद् आचार्यप्रमाणका व्युत्पत्सवस् ते तद्वचनमात्रेणैव विवक्षितम् अर्थं बोध्यन्ते । ये ते युक्त्यनुसारिणस् तेभ्यो ऽपि प्रकरणान्तरेषूपपत्तिर् उदाहृता । प्रज्ञजनाधिकारेण चास्य प्रकरणस्य प्रारम्भात् स्वयम् एव तैर् उपपत्तिर् उक्तेति न संख्यावचनम् अनुपादेयम् इति । अस्तु लक्षणनिर्देशाङ्गम्, आदौ तु कस्माद् उच्यत इत्य् आह -- लक्षण इति । चस् तुल्योपायत्वं समुच्चिनोति ।

यथाकथञ्चिद् द्वैविध्यसम्भवे पृच्छति -- किं पुनर् इति । किम् इति सामान्यतः, पुनर् इति

[ध्प्र् p.38]

प्रत्यक्षम् इति प्रतिगतम् आश्रितम् अक्षम्. अत्यादयः क्रान्ताद्यर्थे द्वितीयया[वा 4 अद् पाण् 2.2.18]इति समासः. प्राप्तापन्नालङ्गतिसमासेषु परवल् लिङ्गप्रतिशेधाद् अभिदेयवल् लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः.[29]अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य, न तु प्रवृत्तिनिमित्तम्. अनेन त्व् अक्षाश्रितत्वेन एकार्थसमवेतम् अर्थसाक्षात्कारित्वम् लक्ष्यते. तद् एव शब्दस्य प्रवृत्तिनिमित्तम्. ततश् च यत्किञ्चिद् अर्थस्य साक्षात्कारि ज्ञानं तत् प्रत्यक्षम् उच्यते.

__________नोतेस्__________

[29] ननु चास्यां व्युत्पत्तौ इन्द्रियज्ञानस्यैव प्रत्यक्षशबवाच्यता स्याद् न योगिज्ञानादेर् इत्य् आह -- टि-

___________________________________________

विशेषत । अभिमतम् आह -- प्रत्यक्षं इति । प्रत्यक्षम् इत्य् अत्र कः समासः, केन च सूत्रेणेत्य् आशङ्क्य सुखप्रतिपत्त्यर्थं विप्रतिपत्तिनिराकरणार्थं चाह प्रतिगतं इत्यादि । अक्षम् इन्द्रियं गतम् आश्रितं जन्यतया, न त्व् आधेयभावेन । एवं च विगृह्णन्[29*]अक्षम् अक्षं प्रति वर्त्ततअ इति व्युत्पत्तिप्रकारेणाव्ययीभावं निरस्यति । समास एकार्थीभावः । स चायं समासस् तत्पुरुषसंज्ञको ज्ञातव्यः । केन सूत्रेणायम् इत्य् आह -- अत्यादय इति । आहोपुरुषिकयायम् प्रकारस् त्वया दर्शितो न त्व् अस्य कश्चिद् गुणो ऽस्तीत्य् आह -- सर्वलिन्ग इति । अव्ययीभावपक्षे प्रत्यक्षो वृक्षः प्रत्यक्षा मृगाश् चेति न स्यात् । प्रत्यक्षस्येति श्रुतिश् च न स्याद् इत्य् अभिप्रायः । कथं पुनः सर्वलिङ्गता ऽस्येत्य् आह -- अभिधेयवद् इति । अभिधेयस्येवाभिधेयवत् । अभिधेयवल् लिङ्ग यस्य, तत् तथा. तस्मिंश् च सत्य् अयं प्रत्यक्षशब्दः सर्वलिङ्गः.

__________नोतेस्__________

[29*] a cf. nbh ...

ननु च परवल् लिङ्गं द्वन्द्वतत्पुरुषयोः[पाण् 2.4.26]इति समस्तेन प्रत्यक्षशब्देन प्रतिशब्दो(-ब्दा)पेक्षया परस्थानस्थितस्याक्षशब्दस्य लिङ्गपरिग्रहात् कथम् अस्याभिधेयवल् लिङ्गतेत्य् आह -- प्राप्तेति.

ननु केनास्य परवल् लिङ्गनिषेधः? न तावत् प्राप्तापन्नालङ्गतिसमासेन तेषां स्वरूपग्रहणात् तत्र. अत्र च तदभावात्. गतिसमासाद् इति चेत्, तद् अप्य् असत्, उपसर्गाः क्रियायोगे[पाण् 1.4.59]इत्य् अतः क्रियायोगे वर्त्तमाने गतिश् च[पाण् 1.4.60]इत्य् अनेन क्रियायोग एव गतिसंज्ञाविधानात्. न चायं प्रतिशब्दः क्रियायोगी, न च गमनक्रियायोगो ऽत्रास्तीति वाच्यम्. प्रतिशब्दस्यैव तत्रार्थे वर्त्तमाना(-नत्वा)त् नायं दोषः, गतिग्रहणेन तत्र येषां गतिसंज्ञा दृष्टा तेषां अर्हणात् । प्रत्यादीनां सा दृष्टेति तेषाम् अपि तथात्वेन सङ्ग्रह इति ।

यद्य् एवं समासस् तर्हि कथम् आचार्यदिग्नागेन अक्षम् अक्षं प्रति वर्त्तत इति प्रयक्षम्[न्मु]इत्य् उक्तम्? तदर्थमात्रं कथितम् इत्य् अदोषः ।

[ध्प्र् p.39]

यदि त्व् अक्षाश्रितत्वम् एव प्रवृत्तिनिमित्तम् स्याद् इन्द्रियविज्ञानम् एव प्रत्यक्षम् उच्येत, न मानासादि । यथा गच्छति गौः इति गमनक्रियायाम् व्युत्पादितो ऽपि गोशब्दो गमनक्रियोपलक्षितम् एकार्थसमवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति । तथा च गच्छत्य् अगच्छति च गवि गोशब्दः सिद्धो भवति । मीयते ऽनेन इति मानम् । करणसाधनेन मानशब्देन सारूप्यलक्षणम् प्रमाणम् अभिधीयते । लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चात् मानम् अनुमानम् । गृहीते पक्षधर्मे स्मृते च साध्यसाधनसम्बन्धे ऽनुमानं प्रवर्तत इति पश्चात्कालभाव्य् उच्यते । ___________________________________

अथ प्रतिगतम् आश्रितम् अक्षम् इत्य् अस्याम् अपि व्युत्पत्तौ मानसस्वसंवेदनयोगिप्रत्यक्षाणां न स्यात् प्रत्यक्षशब्दवाच्यतेत्य् आह -- अक्षाश्रितत्वम् इति । चो यस्मात् । प्रकृत्यादिविभागेन शब्दस्य निष्पत्तिर् व्युत्पत्तिः । प्रवृत्तिर् अर्थाभिधानम् शब्दस्येति प्रकृतस्य प्रत्यक्षशब्दस्य । तुर् अवधारणे । किं तर्हि प्रवृत्तिनिमित्तम् इत्य् आह -- अनेन -- इति । तुना व्युत्पत्तिनिमित्ताद् अस्य भेदं दर्शयति. यत्तदोर् नित्यम् अभिसम्बन्धात् यद् अक्षाश्रितत्वेनार्थसाक्षात्कारित्वम् अर्थापरोक्षीकरणम् उपलक्ष्यते तद् एव तु प्रत्यक्षशब्दस्य प्रवृत्तिनिमित्तम् । कथं पुनर् अन्येनासम्बद्धेनान्यस्योपलक्षणम्? मा भूद् इ(अ)तिप्रसक्तिर् इत्य् आह -- एकार्थसमवेतम् इति हेतुभावेन विशेषणात् । यत एकार्थसमवेतं ततो लक्ष्यत इत्य् अर्थः । एकस्मिन्न् अर्थे ज्ञानलक्षणे ऽर्थसाक्षात्कारित्वम् अक्षाश्रितत्वेन समं समवेतम् । यद्य् अपि परमार्थतः समवायसमवायिनौ न स्तः, तथापि तद्व्यावृत्तिनिबन्धनयोस् तथाभूतवस्त्वाश्रयेण कल्पितयोर् अक्षाश्रितत्वार्थसाक्षात्कारित्वयोर् एकार्थसमवायस्य च कल्पितस्य सम्भवाद् एवम् अभिधाने को विरोधः? परप्रसिद्ध्या वा एवम् उक्तम् इति का क्षतिः? एवम् अपि कथं पूर्वदोषातिवृत्तिर् इय आह -- ततश् चेति । साक्षात्कारित्वस्य प्रवृत्तिनिमित्तत्वात् । चशब्द एव तस्माद् इदम् उच्यत इत्य् अर्थं द्योतयति ।

अक्षाश्रितत्वे प्रवृत्तिनिमित्ते को दोष इति पार्श्वस्थस्याश्रुतचोदकवाक्यस्य वचनम् आशङ्क्याह -- यदि-- इति । तुना भेदवद् एतद् दर्शयति ।

अथाभिधीयते -- यद् अर्थसाक्षात्करणम् अक्षाश्रितत्वेन समवेतं तद् एवानेनोपलक्षाणीयम् इति तदवस्थे(-स्थो) मानसादेर् असङ्ग्रह इति । न । अक्षजत्वस्योपलक्षणत्वेनाप्राधान्याद् अर्थसाक्षाकारित्वम् उपलक्ष्यमाणं प्रधानम् उपलक्ष्यैव निवृत्तेर् अदोष एव । यथा काकेभ्यो दधि रक्ष्यताम् इत्य् अत्र । अन्यथा ऽत्रापि काकत्वेनैकार्थसमवेतस्योपघातकत्वस्योपलक्षणात्, श्वादिभ्यो दधिरक्षा न स्यात् । अथ यद् एवोपघातकं(-कत्वं) काकेषु समवेतं तद् एवान्यत्रापि । तच् चोपलक्षितम् इति तद् अन्यतो ऽपि दधिरक्षोच्यते । अर्थसाक्षात्कारित्वे ऽपि समानम् इति कथं न मानसादेः प्रत्यक्षशब्दाभिलाप्यत्वम् इति । किं दृष्टम् इदं यद् अन्यत्र व्युत्पादितो ऽपि शब्दो ऽन्यत्र तत्प्रवृत्तिविषयीकरोतीत्याह -- यथेति । सुगमम् एतत्, केवलम् अपिर् अवधारणे गोत्वम्(म् इत्य् अ)स्मात् परो द्रष्टव्यः ।

प्रत्यक्षमूलत्वाद् अनुमानस्यादौ प्रत्यक्षम् उपात्तं प्रत्येयम् । यत्र हि निमित्तान्तरं दर्शयतुम्

[ध्प्र् p.40] चकारः प्रत्यक्षानुमानयोस् तुल्यबलत्वं समुच्चिनोति । यथा अर्थाविनाभावित्वाद् अर्थं प्रापयत् प्रत्यक्षं प्रमाणम्, तद्वद् अर्थाविनाभावित्वाद् अनुमानम् अपि परिच्छिन्नम् अर्थं प्रापयत् प्रमाणम् इति । तत्र प्रत्यक्षं कल्पनापोधम् अभ्रान्तम् इ-4

तत्र इति सप्तम्य् अर्थे वर्तमानो निर्धारणे वर्तते । ततो ऽयम् वाक्यार्थः -- तत्र तयोर् प्रत्यक्षानुमानयोर् इति समुदायनिर्देशः । प्रत्यक्षम् इत्य् एकदेशनिर्देशः । तत्र समुदायात् प्रत्यक्षत्वजात्येकदेशस्य पृथक्करणं निर्धारणम् । तत्र प्रत्यक्षम् अनुद्य कल्पनापोढत्वम् अभ्रान्तत्वं च विधीयते । यत् तत् बवताम् अस्माकं अर्थेषु साक्षात्कारि ज्ञानं प्रसिद्धं तत् कल्पनापोढाभ्रान्तत्वयुक्तं द्रष्टव्यम् ।

अशक्यं तत्र क्रमप्रवृत्तित्वाद् वाचः, क्रमस्य न्यायप्राप्तत्वाद् इत्य् उच्यते, न तु सत्य् अपि निमित्तान्तरे यथोद्देशम् एव व्याख्यानं युक्तम् इति ।

प्रत्यक्षपदं व्याख्यायाधुना ऽनुमानपदं व्याचिख्यासुः मानशब्दस्य तावद् अर्थम् आचष्टे मीयत इति । एवं व्युत्पादितेनानेअ शब्देन किं प्रतिपाद्यत इति? करणेति । करणस्यानुमानलक्षणक्रियासिद्धौ साधकतमस्य साधनेन वाचकेन । सारूप्य(-रूप्यं) लक्षणं स्वभावो यस्य तत् तथा । हेतुभावेन चैतद् विशेषणम् ।

यद्य् एवं कथं तर्हि क्वचित् "त्रिरूपाल्लिङ्गाद् यद् अनुमेये ज्ञानं तद् अनुमानम्" इति? सारूप्योपलक्षितं ज्ञानम् एव तथा ऽभिधास्यत इति को विरोधः? एवं तावन् मानम् । अनुमानं तु कथम् इत्य् आह -- पश्चाद् इति । अनेन पश्चाद् अर्थवृत्तेनानुशब्दस्य मानशब्देन सह "गतिप्रादय" इत्य् अनेन तत्पुरुषस्मासं दर्शयति । न च मानस्य पश्चाद् इति [18अ] विवक्ष्तिअम्, येनानुरथादिवद् अव्ययीभावो भवेत् । अत्र हि मानम् एव पक्षधर्मग्रहणादेः पश्चाद्भावि विवक्षितम् । न मानस्य पश्चाद्भावि किञ्चिद् इति । अययीभावपक्षे तु न केवलं विवक्षितार्थक्षतिः, किन् त्व् अनु मानस्येति षष्ठी च न श्रूयेत । कस्य पश्चाद् इत्य् आह -- लिङ्गेति । "षष्थ्य् अतसर्थप्रत्ययेन" [पाणिनि -- 2.3.30] इत्य् अनेन पश्चात् शब्दयोगे षष्ठीयम् । कथम् एतद् द्वयस्य पश्चाद्भाव्य् अनुमानम् इत्य् आह -- गृहीत इति । तुल्यबलत्वं तुल्यसामर्थ्यम् । प्रामाण्यासादनायेति प्रकरणवशात् । यथेत्यादिनैतद् एव समर्थयते । अनुमानस्य त्व् अर्थाविनाभावित्वं पारम्पर्येणा द्रष्टव्यम् । न चैवं प्रापणे प्रामाण्यावहे कश्चिद् विशेषः । परिच्छिन्नम् इत्य् अध्यवसितम् । एवं ब्रुवतः प्रत्यक्षम् अप्य् अध्यवसितम् एव सन्तानं प्रापयत् प्रमाणम् । इदम् अपि तथेति कथम् अस्य न तथात्वम् इति भावः । तुल्यबलप्रदर्शने ऽप्य् अयम् भावः । प्रत्यक्षस्यापि यद् अर्थाविनाभावित्वं तत् तदुत्पत्तिनिमित्तकम् एव । तच् चानुमान्स्यापि समानम् इति अर्थाव्यभिचारेणापि निमित्तिना समानेन भाव्यम् इति ।

[ध्प्र् p.41] न च एतन् मन्तव्यम् -- कल्पनापोढाभ्रान्तत्वम् चेद् अप्रसिद्धम्, किम् अन्यत् प्रत्यक्षय ज्ञानस्य रूपम् अवशिष्यते यत् प्रत्यक्षशब्दवाच्यं सद् अनूद्येतेति । यस्माद् इन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु साक्षात्कारिज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां प्रसिद्धम्, तद् अनुवादेन कल्पनापोढाभ्रान्तत्वविधिः । कल्पनाया अपोढम् अपेतं कल्पनापोढं । कल्पनास्वभावेन रहितम् इत्य् अर्थः । अभ्रान्तम्

अनेन "प्रत्यक्षम् एकं प्रमानम्" इति ब्रुवाणश् चार्वाकः, "अनुमानाद् अर्थनिश्चयो दुर्लभः । कनिष्ठं च तत्प्रमाणम्" इत्य् आचक्षाणो मीमांसकश् च निरस्तः । सर्वत्रायम् इतिर् वाक्यार्थपरिसमाप्तौ । यत्र त्व् अर्थविशेषे वर्त्तते स कथ्यत एव ।

तत्रेत्यादि निर्धारणम् इत्यन्तं सुगमम् । केवलम् इन्द्रियज्ञानादिप्रत्यक्षानुयायित्वात् प्रत्यक्षत्वाख्या जातिर् या व्यवहारसिद्धा तयेति द्रष्टव्यम् ।

तत्रेत्य् अयम् एवं व्यवस्थिते सतीति वाक्योपन्यासे । एवं चानुवादविधिक्रमेण यद् अन्यद् अन्येन व्याख्यातम् "प्रत्यक्षम् इति संज्ञा कल्पनापोढत्वादि संज्ञ्य् एव । तेन संज्ञासंज्ञिसम्बन्धः प्रतिपाद्यते" इति तद् विप्रतिपत्तिनिराकरणे प्रस्तुते ऽप्रस्तुतम् । ततो ऽपव्याख्यानम् इति प्रकाशयति । यद् अप्य् अपरेण व्याख्यातं "प्रदेशान्तरप्रसिद्धयोः कल्पनापोढ्त्वाभ्रान्तत्वयोर् अनुवादेन प्रत्यक्षत्वं विधीयते" इति तद् अपि न चतुरस्रम् इति प्रतिपादयते । यतः प्रसिद्धे लक्ष्यलक्षणभावे लक्षणानुवादेन लक्ष्यं विधेयम्, अप्रसिद्धे तु लक्षणवाक्येन लक्षणम् एव विधेयम्, न लाक्ष्यम् इति न्याय इति । अन्योश् च पक्षयोर् यावान् समर्थनदूषणप्रकारस् तावान् अनेनैव विनिश्चयटीकायां स्वयं विवेचित इति नेहोच्यते । कथं प्रत्यक्षत्वानुवादेन कल्पनापोढत्वादिविधानम् इत्य् आह । प्रदिद्धम् इति । अनेन पूर्व प्रसिद्धस्य पश्चाच् छब्देनाभिधानम् अनुवाद इति दर्शयति । तद् एवं द्रष्टव्यम् इति विदधानो ऽज्ञातस्य शब्देन ज्ञापनं विधिर् इति दर्शयति ।

न चैतद् इत्यादीतिशब्दान्तं सुबोधम् ।

इन्द्रियान्वयव्यतिरेकानुविधायिग्रहणं मानसाद्यसाधारणतया ऽनुपन्यासार्हम् अपि प्रत्यक्षशब्दप्रवृत्तिनिमित्तस्यार्थसाक्षात्कारित्वस्य यद् उपल्षकं तद् उपदर्शनार्थम् उपन्यस्तम् इति ज्ञातव्यम् । परिपाट्या प्रसिद्धत्वप्रदर्शनार्थं वा । तथा हि प्रथमं यत् तद् इन्द्रियान्वयव्यतिरेकानुविधायितया प्रत्यक्षं प्रसिद्धम् इति प्रतिपाद्यते । तदनु यदीदम् इन्द्रियाश्रितं ज्ञानं भवतां प्रत्यक्षं प्रसिद्धं तत्रापि प्रत्यक्षश[18ब्]ब्दप्रवृत्ताव् अर्थसाक्षात्कारित्वम् एव निमित्तं जानीते इति प्रतिपादते । तदनुवादेनेति ।

यत् कल्पनया ऽपोढं रहितं तत् कल्पनाया अपोढम् अपगतं भवतीत्य् अर्थाभेदं मत्वा कल्पनाया अपोढम् इति कर्त्तरि निष्ठाम् आह । न तु कल्पनापोढम् इति कर्त्तरि निष्ठैव । एवं हि तया रहितम् इत्य् आचार्यविवरणविरोधः स्यात् ।

[ध्प्र् p.42] अर्थक्रियाक्षमे वस्तुरूपे ऽविपर्यस्तम् उच्यते । अर्थक्रियाक्षमं च वस्तुरूपं सन्निवेशोपाधिवर्णात्मकम् । तत्र यन् न भ्राम्यति तद् अभ्रान्तम् । ननु किम् एकस्मिन् ज्ञाने ज्ञानान्तरसम्भवो ऽस्ति येनायं प्रतिषेधः शोभेत? कल्पनाज्ञाने ऽपि च कल्पनान्तरं नास्तीति तद् अपि कल्पनापोढं प्रसज्येतेति वचनावकाशं पश्यन् कल्पनास्वभावेने[30]त्यादिना ऽस्य विविक्षितम् अर्थं स्फुट्यति ।

__________नोतेस्__________

[30] धर्मोत्तरे सर्वत्र प्रतिषु `कल्पनास्वभावरहितम्ऽ इत्य् एव पाठो लभ्यते न तु `कल्पनास्वभावेन रहितम्ऽ इति ।

एवञ् च ब्रुवन् कल्पनाऽपोढम् इत्य् अत्राचार्ये लक्षणवाक्ये भावप्रधानो ऽयं कल्पनाशब्दः, तेन कल्पनात्वेन रहितम् इत्य् अर्थ इति दर्शयति । धर्मणा वा क्लपनाख्येन धर्मस्याभिलापसंसर्गयोग्यप्रतिभासत्त्वाख्यस्य निर्देशं दर्शयति । उभयथा ऽपि `कल्पनास्वभावरहितम् इत्य् अर्थःऽ इत्य् अस्य स्फुटीकरणस्य घटनात् । कल्पना च चक्ष्यमाणा ग्राह्या । एवं च शब्दार्थं स्फुटयता ऽनेन यद् आचार्यदिग्नागीयप्रत्यक्षलक्षणदूषणावसरे -- "कल्पना नामजात्यादियोजना । तेन यन् नाम्ना नाभिधीयते, जात्यादिना च न व्यपदिश्यते विषयभेदानुविधायि यज् ज्ञानं तत्प्रत्यक्षम्" [न्यायवा- पृ- 41] इत्य् अर्थं परिकल्प्य "अथ प्रत्यक्षशब्देन को ऽर्थो ऽभिद्दीयते । यदि प्रत्यक्षं कथम् अवाच्यम्? अथ न प्रत्यक्ष्म् अवाचकस् तर्हि प्रत्यक्षशब्दः । प्रत्यक्षत्वसमान्याभिद्धाने ऽपि यदि तद्व्यतिरेकि; न प्रत्यक्षम् उक्तम् । अथाव्यतिरेकि । कथं नोक्तम्? कल्पेनापोढशब्देनापि यदि तद् उच्यते कथं न व्याघातः? अथ नोच्यते तस्योच्चारणवैयर्थ्यम्? प्रत्यक्षं कल्पनाऽपोढ्म् इति च व्यपदिश्यते, न चाभिधेयम् इति को ऽन्यो भदन्ताद् कतुम् अर्हति" [न्यायवा- पृ- 41] इत्यादि यद् अवादीद् उद्द्योतकरस् तत् सर्वं कल्पनापोढशब्दार्थाऽपरिज्ञानविलसितं तस्य तपस्विन् इति सूचितम्

"इहाविषम्वादकत्वम् अभ्रान्तत्वम् अभिप्रेतम् । तेन द्विचन्द्रादिज्ञानं व्यवच्छिन्नम्, योगाचारमतम् अपि सगृहीतं भवती"ति पूर्वयाख्यानम् अवमन्यमानो ऽभ्रान्तशदस्यार्थम् आह -- अभ्रान्तम् इति । अभ्रान्तम् अर्थक्रियाक्षमे ऽविपर्यस्यस् तं यत् तद् उच्यते । न त्व् अविसंवादकम् इह ग्रहीतव्यम् इति बुद्धिस्थं पश्चाद् व्यक्तीकर्तव्यम् । अनर्थो ऽपि वस्तुतया ऽध्यवसीयत इत्य् अर्थक्रियाक्षम इति विशेषेषणम् । तर्ह्य् अर्थक्रियाक्षम इत्य् एवास्तु । न । अर्थक्रियाक्षमस्यैव वस्तुत्वज्ञापनार्थत्वात् । किं तद् अर्थक्रियाक्षमम्? किम् अव्यवि? अथान्यद् एवेत्य् आह -- अर्थक्रियेति । सन्निवेशश् चतुरस्रत्वादिः प्रतिभासधर्मः । स उपाधिर् विशेषणम् यस्य वर्णस्य वस्तुशब्दवाच्यस्य शुक्लादिपरमाणुसंघातस्य तथोत्पन्नस्य स तथा । सन्निवेशविशिष्टस्यैव वर्णस्यान्वयव्यतिरेकाभ्याम् अर्थक्रियायाम् उपयोगदर्शनाद् एतद् आह । स एवात्मा स्वभावो यस्येति तत् तथा । एतच् च चाक्षुषज्ञानविषयाभिप्रायेणोक्तं द्रष्टव्यम् । अन्यथा बह्वसमञ्जसं स्याद् इति । अनेन परमाणुप्रचयमात्रस्यैवार्थक्रि[19अ]याकारित्वं नावयविनस् तस्यासत्त्वाद् इति सूचितम् । न भ्राम्यति न विपर्यस्यति -- अन्यथाग्राहि न भवति ।

स्यात् एतत् -- परमाण्वर्थ एव भवन्मते बाह्यं वस्तु । सर्वं च विज्ञानं तेषु परमसूक्ष्मेषु [ध्प्र् p.43]

स्थूलाभासम् आजायते । तत् कथं किञ्चिद् अभ्रान्तं नामेति? अत्रोच्यते । एकसामग्रीजन्मनां परमाणुनां भिन्नदेशस्वभावनां तद्धेत्वभावतच्छायालोकपरमाणुस्वभावेनान्तरेण रहितत्वान् निरन्तरत्वेन प्रतिभास एव देशवितानावभासात्मा स्थौल्यं नापरं किञ्चित् । तत्र तथाभूतपरमाणुसमुदायनिष्ठं निर्विकल्पकं विज्ञानं कथं भ्रान्तं स्यात्? यद्य् एकैकं परमाणुम् अनेकदेशावष्टम्भेन गृह्णीयान् न पुनर् अनेकम् अनेकदेशावष्टम्भेन गृह्णत् । इतो ऽपि विपर्यस्येद् यदि भिन्नदेशान् परमाणून् एकदेशान् गृणीयात् । न चैतद् अस्ति, अणुमात्रकपिण्डप्रतिभासाभावात् । एकदेशग्रहणे हि पिण्डो भासेत अणुमात्रको न तु विततदेशः । न चानेकग्रहो भ्रमः । अतस्मिंस् तद् इति प्रत्ययस्य तादात्म्यात् । तद् अयम् अर्थः -- एकज्ञानग्राह्यास् तथाविधा बहवः परमाणवः स्थूल इति । एको ऽयं स्थूल इति तु तथाभूतप्रतिभासाश्रयेण व्यवस्थाप्यमानत्वात् प्रतिभासधर्म इत्य् उच्यते । न वस्तुधर्मः, प्रत्येकम् अपरिसमाप्तेर् इत्य् अलम् इह विस्त्रेण ।

ननु चैवम् अप्य् अन्योन्यम् असंसृष्टस्वभावान् प्रमाणून् संसृष्टान् गृह्णद् विज्ञानं कथम् इवाविपर्यस्तं नामेति । अत्राप्य् उच्यते । किं इदम् असंषृष्टत्वम् इष्टं भवता, यद् विपर्ययग्रहणाद् भ्रान्तं ज्ञानम् उपवर्ण्यते? किं नानारुपत्वम्, अथ नानादेशत्वम्, उत रूपेणैव विजातीयेन व्यवहितत्वम्, आहोस्विद् इन्द्रियान्तरग्राह्येणार्थेन व्यवकीर्णत्वम्? तत्र यदि नानारूपत्वम् असंसृष्टत्वम् इष्टं तदा न कश्चित् संसृष्टग्रहो नाम सम्भावति यतो ऽसंसृष्टा एव परमाणवः सर्वदा गृह्यन्ते । विततदेशस्वभावानाम् एव तेषाम् अवभासनात् । यदि ह्य् एकरूपा भासेरन्, अणुमात्रकः पिण्डो भासेत । न तु विततदेशभासनं स्यात् ।

अथ नानादेशत्वम् अस्ंसृष्टत्वम् अभिप्रेतं तद् अपि नतराम् संसृष्टग्रहो यतो नानादेशा नीला परमाणवो नानादेशा एव च गृह्यन्ते । एकदेशत्वभासने हि पिण्डो भासेताणुमात्रक इत्य् उक्तम् ।

अथ रूपेणैव विजातीयेन व्यवहितत्वम् असंसृष्टत्वं विवक्षितम्; तदा तु तद् असम्भवाद् एव न तद् विपरीतग्रहः । यतो रूपान्तरव्यवधानरहिता एव निरन्तरा नीलाः परमाणावः, भासन्ते च तथाभूता इति कथं विभ्रमः । मध्यवर्त्तिनो विजातीयस्यालोकादिपरमाणोर् अनुत्पत्तेर् अप्रतिभासनाच् च । अथ च्छायालोकपरमाणुर् उत्पद्यमानः केन प्रतिबद्धो यतो नोत्पद्यते । न च शक्यं वक्तुम् -- मध्ये परमाण्वोर् नास्ति परमाण्वन्तरस्यावकाश इति । यतो निरवयवः परमाणुः सर्वत्र सावकाश इति । सत्यम् एतत् । केवलं नावकाशाभावात् तद् अनुत्पत्तिर् अपि तु हेत्वभावात् । कस्माद् हेतुर् न भवति? स्वहे[19ब्]त्वभावाद् इत्य् अपर्यनुयोग एव ।

अथ भिन्नेन्द्रियग्राह्यस्पर्शादिव्यवकीर्णत्वम् असंसृष्टत्वम् अभिमतम् । तदा संसृष्टान् परमाणून् गृह्णाति विज्ञानम् इति इन्द्रियान्तरग्राह्यशून्यान् गृह्णातीत्य् उक्तं भवति । तथा च न किञ्चिद् अनिष्टम् । तथा हि यदि नामेन्द्रियान्तरग्राह्यस्पर्शादिर् न गृह्यते तथापि नीलरूपं तावत् स्वदेशस्वभावस्थितं गृह्यत एव । न च भिन्नेन्द्रियग्राह्यशून्यानां स्वरूपं गृह्यमाणं विपरीतं गृहीतं भवति । देशकालाकाराणाम् एकस्याप्य् अविपर्यासात् । न चाग्रहो भ्रम इति । ननु च प्रमाणूनाम् अन्तराण्याकाशात्मकानि सन्ति । न च ते सान्तराः प्रतिभासन्ते । तत् कथम् अविपर्यास इति । अथ किम् इदम् आकाशं नाम । यदि रूपान्तरात्मकं तन् नास्तीत्य् उक्तम् । अथापि स्पर्शाद्यात्मकं तत्राप्य् उक्तम् । अथ सप्रतिघद्रव्याभावः । एवम् अप्य् अवस्त्व् आकाशम् । ततश् चाकाशम् अन्तरम् इत्य् अन्यवस्त्व् अन्तरं न किञ्चिद्

[ध्प्र् p.44]

एतच् च लक्षणद्वयं विप्रतिपत्तिनिरासार्थम्, न त्व् अनुमाननिवृत्त्यर्थम् । यतः

अन्तरम् इत्य् उक्तं स्यात् । तथा निरन्तराः परमाणव इत्य् उक्तं भवति । ततो निरन्तराश् च परमाणवो निरन्तरा एव भासन्ते । तत् किम् उच्यते ऽन्तरम् आकाशम्, न च तत् प्रतिभासत इति? यत् खल्व् अत्यन्तम् असत् शशविषाणप्रख्यं तत् कथं भासेत?

नन्व् आकाशात्मनो ऽप्य् अन्तरस्याभावे रूपसंसर्गः परमाणूनां प्रसज्येत । नैष दोषः । नास्माभिर् उच्यते रूपम् एकं परमाणूनां देशो नैक इति । अपि तु भिन्नरूपदेशा उत्पन्ना मध्यवर्त्तिविजातीयरूपरहितास् तथैव भासन्त इति तत् कथं रूपसंसर्गप्रसङ्गः?

ननु च रसादिदेशे नीलरूपं प्रत्भासते । ततश् चातद् देशं तद्देशतया गृह्णद् विज्ञाणं कथम् अभ्रान्तं नामेति? तत्राप्य् उच्यते । यदा देशः प्रतिभासते तदा तस्मिन् देशे प्रतिभासमाने यः प्रतिभासते ऽर्थः स देशविशिष्ट उच्यते । यदि च रसादिश् चक्षुर्विज्ञाणे प्रतिभासेत तदा तद्देशव्यापिनि नीले गृह्यमाणे स्याद् भ्रान्तं विज्ञानम् । न च तत्र रसादिः प्रतिभासते, इन्द्रियान्तरग्राह्यस्येन्द्रियान्तरज्ञाने प्रतिभासायोगात् । तत् कुतस् तद्देशनीलग्रहणम्? नीलम् एव हि भासमानं देशः नापरो देशः कश्चिद् आभासते । इन्द्रियान्तरग्राह्याप्रतिभासे च शुद्धरूपप्रतिभासः । शुद्धरूपप्रतिभास एव च निरन्तरप्रतिभासः । ततो निरन्तरा नीलाः परमाणवो गृह्यन्ते । तस्मात् स्वदेशस्थायिनो नीलपरमाणवः स्वरूपेणैव गृह्यन्ते । ततो देशकालाकाराणाम् एकस्याप्य् अपरित्यागान् नीलाभासं विज्ञानम् अभ्रान्तम् एव । सर्वं चैतद् ग्राह्यतत्त्वं विनिश्चये धर्मोत्तरेणैव निस्तरेण निरूपितम् इति नेह प्रतन्यते ।

नन्व् एवम् अभ्रान्तत्वे योगाचारमतम् असङ्गृहीतं स्यात् । ग्राह्यग्राहकाकारतया प्रवृत्तेः सर्वस्यैवासर्वज्ञविज्ञानस्यालम्बने भ्रान्तत्वात् । तत् कथं पूर्वव्याख्यानावज्ञा न क्रियत इति चेत् । उच्यते । न योगाचारनये लक्षणम् इदम्, किन् तु सौत्रान्तिकनय एव । न च सर्वं विज्ञानवादे योजयि[20अ]तुं शक्यम् । "तस्य विषयः स्वलक्षणम्" इत्यादेर् अशक्ययोजनत्वात् । तस्मिन् किं प्रत्यक्षलक्षणम् इति चेत् । कल्पनापोढत्वम् एव । द्विचन्द्रादिनिरासः कथम् इति चेत् सम्यग्ज्ञानं सद् एवम् इत्य् अभिप्रायाद् अदोषः । सौत्रान्तिकनये ऽपि किं नैवं? ततश् चाभ्रान्तग्रहणम् अतिरिच्यत इति चेत् । सत्यम् एतत् । केवलं विप्रतिपत्तिनिरासार्थं वर्णयिष्यत इति । "इहाभ्रान्तपदं तैमिरिकादिज्ञानव्यवच्छेदार्थम् । कल्पनाऽपोढग्रनणं तु अनुमाननिरासार्थम् इति" यत् पूर्वकैर् व्यख्यातं तद् व्यक्तम् एवापहस्तयन्न् आह -- एतच् च -- इति । चो ऽवधारणे । विप्रतिपत्तिनिरासार्थम् इत्य् अतः परो द्रष्टव्यः । पूर्वेषाम् अभिप्रेतं प्रतिषेधति । न त्व् इति भेदार्थः । ननु किम् उच्यते न त्व् अनुमाननिवृत्त्यर्थम् इति? यावतैकैकेनानुमाननिवर्त्तनाद् इति चेत् । उच्यते । लक्षणद्वयम् इति द्वयोर् उपादानं विप्रतिपत्तिनिराकरणार्थम्, एकैकेनानुमानव्यवच्छेदसिद्धेर् इति समुदितफलम् एतत् । ततो नानुमाननिवृत्त्यर्थम् इति नानुमाननिवृत्त्यर्थम् एवेति सावधारणं निषिध्यते । यदि तु विप्रतिपत्तिनिराचिकीर्षया क्रियमाणम् अनुमानं व्यवच्छिनत्ति न तदर्थम् एव द्वयम् इति ।

ननु नेदं लक्षणद्वयम् अनुमानव्यवच्छेदार्थं पूर्वकैर् व्याख्यातम् । किन् तु कल्पनाऽपोढग्रहणम् एव । अभ्रान्तग्रहणं तु द्विचन्द्रादिज्ञानव्यवच्छेदार्थम् । तत् कथं `न त्व् अनुमाननिवृत्त्यर्थम्ऽ तथ

[ध्प्र् p.45] कल्पनापोढग्रहणेन एव अनुमानं निवर्तितम् । तत्र असत्य् अभ्रान्तग्रहणे गच्छद्वृक्षदर्शनादि प्रत्यक्षम् कल्पनापोढत्वात् स्यात् । ततो हि प्रवृत्तेन वृक्षमात्रम् अवाप्यते इति संवादकत्वात् सम्यग्ज्ञानम्, कल्पनापोढत्वाच् च प्रत्यक्षं इति स्याद् आशङ्का । तन्निवृत्त्यर्थम् अभ्रान्तग्रहणम् । तद् धि भ्रान्तत्वात् न प्रत्यक्षम् । त्रिरूपलिङ्गजत्वाभावाच् च न अनुमानम् । न च प्रमाणान्तरम् अस्ति । अतो गच्छद्वृक्षदर्शनादि मिथ्याज्ञानम् इति उक्तं भवति । `यतः कलप्नापोढग्रणेनैवानुमानं निर्वर्त्तितम्ऽ इत्य् उच्यत इति चेत् । सत्यम् । केवलं यद्य् अभ्रान्तग्रहणं व्यवच्छेदार्थम् एव तदानुमानव्यवच्छेदार्थम् एव युज्यते । न तु द्विचन्दादिज्ञाननिरासार्थम्, तस्य सम्यग्ज्ञानाधिकाराद् एव व्यवच्छेदसिद्धेः । तथा हि द्विदिधं सम्यग्ज्ञानम् इति प्रस्तुत्य लक्षणम् इदं विधीयमानं तद् अधिकारेणैव विहितं भवति ।

नन्व् एवं सति कल्पनापोढग्रणेनैव निवृत्ते अभ्रान्तग्रहणम् अतिरिच्यते । अयम् अपरस् तेषां दोषो ऽस्ति । न तु द्विचन्द्रादिज्ञाननिवृत्त्यर्थम् इदं युज्यत इति धर्मोत्तरस्याशयः । यद्य् एतद् अर्थम् अभ्रान्तग्रहणं न भवति तर्हि किम् अनेनेत्य् आह -- तत्र -- इति ।

ननु गच्छद्वृक्षदर्शणादेः कल्पनापोढस्यापि विसंवादकत्वेन सम्यग्ज्ञानत्वाभावाद् एव व्यवच्छेदे सिद्धे किम् एतद् अर्थेनाभ्रान्तपदेनेत्य् आह -- ततो हि -- इति । वृक्षमात्रम् इति गमनेनाऽनवच्छिन्नम् । इति हेतौ । अस्तु सम्यग्ज्ञानम्, प्रत्यक्षसम्भावना त्व् अस्य कथम्? न हि यद् एव सम्यग्ज्ञानम् तद् एव प्रत्यक्षम् इत्य् आशङ्क्य पूर्वोक्तम् एव प्रसङ्गेनाह -- कल्पना -- इति । चः संवादकत्वापेक्षया समुच्चयार्थः । इतिकरणाशङ्कायाः स्वरूपं दर्शयति । आशङ्का चेयम् ईदृशी यौक्ती द्रष्टव्या । यद् वा चो यमादर्थे । .................... असत्य् अभ्रान्तग्रहणे स्याद् इयम् आशङ्का । यदि सत्य् अपि स्यात् तदा किम् अनेनेत्य् आह -- तन्निवृत्त्यर्थम् इति शङ्कानिवृत्त्यर्थमात्रम् । अनेन एतद् दर्शति -- यद्य् अपि परमार्थतः सम्यग्ज्ञानाधिकाराद् एवमादिज्ञानं व्यवच्छेद्यते । तथाप्य् अंशसंवादवादिनाम् आहत्य विप्रतिपत्तिनिराकरणार्थं क[20ब्]र्त्तव्यम् एवाभ्रान्तग्रहणम् इति ।

स्याद् एतत् -- किम् आभ्रान्तग्रणेनाधिकं कृतम् । येनैतद् विप्रतिपत्तिनिराकरणार्थं भवतीत्य् आशङ्कायां दूरस्थितम् अपि गच्छद्वृक्षदर्शनादि मिथ्याज्ञानम् इत्य् उक्तं भवतीति योजनीयम् । इतिना उक्तेनाकारं कथयति । उक्तं प्रकाशितं भवत्य् अभ्रान्तग्रहणेनेति प्रकरणात् । कुतो मिथ्याज्ञाणं तद् उक्तम् इत्य् अपेक्षायां प्रथमम् उक्तं तद् इति योजनीयम् । हिर् यस्मात् ततो ऽयम् अर्थः -- यस्मात् तद् गच्छद्वृक्षदर्शनादिभ्रान्तत्वात् न प्रत्यक्षम्, अतो मिथ्याज्ञानम् इत्य् अभ्रान्तग्रहणेनोक्तं भवति । भवतु भ्रान्तत्वाद् अप्रत्यक्षम्, अनुमानरूपत्वे त्व् अनिर्वर्त्तते कथम् अस्य तथात्वम् इत्य् आशङ्कायां योज्यम्, चो यस्मान् नानुमानम् । कथं नानुमानम्? त्रिरूपलिङ्गजवाभावात् । यद्य् एवम् अन्यत् प्रमाणम् भविष्यति, तथापि कथं मिथ्याज्ञानम् इत्य् आशङ्कायां वाच्यम् । चो यस्मान् नाभ्यां प्रमाणान्तरम् अस्ति । अतः प्रत्यक्षत्वादिस्वाभावत्वाभावात् । यद् वा ऽतो ऽभ्रान्तग्रहणाद् इत्य् अर्थः ।

नन्व् अनुमानादिरूपनिराकरणे यद्य् अभ्रान्तग्रहणस्य व्यापारो भवेत्, भवेद् एव मिथ्याज्ञानत्वाभिधाने सामर्थ्यं यावतो(-ता) यथा स्वयम् उपपत्त्यैवानुमानादिभावो व्युदस्तस् तत् कथम् अभ्रान्त

[ध्प्र् p.46] यदि मिथ्याज्ञानं कथं ततो वृक्षावाप्तिर् इति चेत्, न ततो वृक्षावाप्तिः । नानादेशगमी हि वृक्षस् तेन परिच्छिनः । एकदेशनियतश् च वृक्षो ऽवाप्यते । ततो यद्दृशो गच्छद्वृक्षो दृष्टः, तद्दृशो न अवाप्यते । यद्देशश् च अवाप्यते स न दृष्ट इति न तस्मात् कश्चिद् अर्थो ऽवाप्यते । ज्ञानान्तराद् एव तु वृक्षादिर् अर्थो ऽवाप्यते । इत्य् एवं अभ्रान्तग्रहणम् विप्रतिपत्तिनिरासार्थम् । तथा अभ्रान्तग्रहणेन अप्य् अनुमाने निवर्तते कल्पनापोढग्रहणं विप्रतिपत्तिनिराकरणार्थम् ।

ग्रहणेन तन् मित्याज्ञानम् इत्य् उक्तं भवतीय् उच्यते । सत्यम् । किन् त्व् अनुमानादिरूपतानिराकरणहेतुना दत्तसाहायकेन सता ऽभ्रन्तग्रहणेन तन् मिथ्याज्ञानम् इत्य् उक्तं भवतीत्य् उक्तम् इति बोद्ध्यव्यम् ।

ननु प्रत्यक्षलक्षणशून्यस्याप्रत्यक्षतैव दर्शयितव्या, तत् किम् अनुमानादिरूपतानिराक्रणम् अप्रकृतं कृतम् इति चेत् । अप्रत्यक्षत्वप्रदर्शने प्रसङ्गेन कृतम् इति का क्षतिः?

यदीत्यादि सुगमम् । केवलं तत इति गच्छद्वृक्षदर्शनरूपान् मिथ्याज्ञानात् परिच्छिन्नो दृष्टः । वृक्ष इति वृक्षत्वेन प्रथनाद् उच्यते न त्व् असौ तथा ऽवभासमानो वृक्ष एव । एकदेशनियत इति प्राप्यमाणपरमार्थवृक्षाभिप्रायेणोक्तम् । चो हेतौ । ततस् तस्माद् अनन्तरोक्तात् कारणात् ।

ननु ततो ऽपि प्रवृत्तस्यास्ति च्छायाद्यर्थक्रियाकारिरूपस्य पादपस्य प्राप्तिस् तत्कथम् अपह्नूयत इति? आह -- ज्ञानान्तराद् -- इति । तद्देशोपसर्पणजन्मनः स्थितवृक्षप्रतिभासात्मनो ज्ञानान्तरात् । तत्र मिथ्याज्ञानम् अर्थिनः प्रवृत्तिमात्रहेतुर् न तु वृक्षप्रापकम् इति संक्षेपार्थः । यदि मिथ्याज्ञानत्वप्रतिपादनार्थम् अभ्रान्तग्रहणं न तर्हि विप्रतिपत्तिनिराकरणार्थम् इत्य् आह -- एवम् इति । एवम् इत्य् अनेनानन्तरोक्तस्योपपत्तिप्रकारस्याकारो दर्शितः । ततो ऽयम् अर्थः -- एवम् अनन्तरोक्तेन युक्तिप्रकारेण । एतादृशम् अपि प्रत्यक्षम् इति विरुधायाः प्रतिपत्तेर् निरासार्थम् अभ्रान्तग्रणाम् इति । यद्य् एवं अभ्रान्तग्रहणम् एव विप्रतिपत्तिनिराकरणार्थम् । न तु कल्पनापोढग्रहणं । उक्तं च द्वयम् एतत् तन्निरासार्थम् इत्य् आशङ्क्याह -- तथेति । यथा ऽभ्रान्तपदं तथेदम् इत्य् अर्थः ।

विप्रतिपत्तिनिराकरणार्थम् इति प्रत्यक्षपृष्ठभाविनो ऽपि विकल्पस्य व्यावहारिकलोकाध्यवसायेनाभ्रान्तस्य यत् प्रत्यक्षत्वं कैश्चिद् इष्टम्, तन्नि[21अ]राकरणार्थम् इति द्रष्टव्यम् । तत्रासति कल्पनापोढ्ग्रहणे घटो ऽयम् इत्यादिज्ञानं प्रत्यक्षम् अभ्रान्तत्वात् स्यात् । ततो हि प्रवृत्तेन घटादिर् अर्थः प्राप्यत इति संवादकत्वान् सम्यग्ज्ञानम् अभ्रान्तत्वाच् च प्रत्यक्षं स्यादा[द् इत्य् आ]शङ्का । तन्निवृत्त्यार्थम् । कल्पनात्मकत्वान् न प्रत्यक्षम्, त्रिरूपलिङ्गजत्वाभावाच् च नानुमानम् ।

[ध्प्र् p.47] अभ्रान्तम् हि अनुमानं स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तत्वात् [pvin ii 2,8] । प्रत्यक्षम् तु ग्राह्ये रूपे न विपर्यस्तम् । न त्व् अविसंवादकम् अभ्रान्तम् इह ग्रहीतयम् । यतो सम्यग्ज्ञानम् एव प्रत्यक्षम्, न अन्यत् । तत्र सम्यग्ज्ञानत्वाद् एव अविसंवादकत्वे लब्धे पुनर् अविसंवादकग्रहणम् निष्प्रयोजनम् एव । एवं हि वाक्यार्थः स्यात् -- प्रत्यक्षाख्यम् यद् अविसंवादकं ज्ञानं तत् कल्पनापोढम् अविसंवादकं च इति । न च अनेन द्विरविसंवादकग्रहणेन किञ्चित् । तस्माद् ग्राह्ये ऽर्थक्रियाक्षमे वस्तुरूपे यद् अविपर्यस्तम् तद् अभ्रान्तम् इह वेदितव्यम् । कीदृशी पुनः कल्पना इह गृह्यते इत्य् आह --

अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना इ-5

[31]अभ्लाप इत्यादि । अभिलाप्यते ऽनेन इत्य् अभिलापः वाचकः शब्दः । अभिलापेन संसर्गः अभिलापसंसर्गः एकस्मिन् ज्ञाने ऽभिधेयाकारस्य अभिधानाकारेण सह ग्राह्याकारतया

__________नोतेस्__________

[31] अह्बिलापेति -- ए.प्. `अभिलापेत्यादिऽ इति नास्ति -- अ.ब्.ह्.न्.

न च प्रमाणातरम् अस्ति । अतो घटो ऽयम् इत्यादिज्ञानम् असम्यग्ज्ञानं भवतीति पूर्ववद् वचनीयं योजनीयं च ।

ननु च संवादिनो ऽस्य कथम् असम्यग्ज्ञानत्वम्? यदि नाम विसंवादकत्वलक्षणम् असम्यग्ज्ञानत्वं नास्ति तथापि गृहीतार्थग्राहिणो ऽस्यापूर्वाधिगमाभावात् करणार्थाभावरूपम् असम्यग्ज्ञान्त्वं स्मरणादेर् इव किं नानुमन्यते? जात्यादिविशिष्टवस्तुग्राहिणो ऽस्यापूवार्थाधिगमो ऽस्तीति चेत् । इदम् अन्यत्र विस्तरेण निरस्तम् इत्य् आस्तां तावद् इहेति । स्वप्रतिभास इत्यादेर् ग्रन्थस्य तु सत्यम् अर्थं विषयविप्रतिपत्तिनिराकरणवाक्यविवरणं विवेचयिष्यन्तो विवेचयिष्यामः । सम्प्रति यद् दोषदर्शनात् पूर्वेषां व्याख्यानम् अवमन्यान्यथा ऽयम् अभ्रान्तार्थं व्याचष्टे तं कण्ठोक्तम् कर्त्तुं तेषाम् अभिमतम् अभ्रान्तार्थं पूर्वं सामर्थ्यान् निषिद्धम् अपि साक्षान् निषेधन्न् आह -- न तु -- इति । तुर् अतिशये । यत इत्यादि वेदितव्यम् इत्य् अन्तं सुबोधम् ।

यदि जात्यादियोजनात्मिका कल्पना । सा जात्याद्यभावाद् एव न सम्भवति । अथ ग्राह्यग्राहकभावेन प्रवर्त्तमानं ज्ञानं कल्पना तदा सर्वम् असर्वज्ञज्ञाणं तथा प्रवृत्तम् इति किम् अवशिष्यते यद् अविकल्पकं स्याद् इत्य् अभिप्रेत्य कल्पनायाः स्वरूपं पृच्छति -- कीदृशीति सामाण्यतः पृच्छति । पुनर् इति विशेषतः । इहेति प्रत्यक्षलक्षणे । अभिलप्यते उच्यते ऽनेनेत्य् अभिलापो वाचकः शब्दः । स च सङ्केन्त -- मिलनम् । [ध्प्र् p.48]

ततो यदा एकस्मिञ् ज्ञाने ऽभिधेयाभिधानयोर् आकारौ संनिविष्टौ भवतस् तदा संसृष्टे अभिधानाभिधेये भवतः । अभिलापसंसर्गाय योग्यो अभिधेयाकाराभासो यस्यां प्रतीतौ सा तथा उकता । तत्र काचित् प्रतीतिर् अभिलापसंसृष्टाभासा भवति । यथा व्युत्पन्नसङ्केतस्य घटार्थकल्पना घटशब्दसंसृष्टावभासा भवति । काचित् त्व् अभिलापेन असंसृष्टा अपि अभिलापसंसर्गयोग्याभासा भवति । यदा बालकस्य अव्युत्पन्नसङ्केतस्य कल्पना । तत्र अभिलापसंसृष्टाभासा कल्पना इत्य् उक्ताव् अव्युत्पन्नसङ्केतस्य कल्पना न संगृह्येत । योग्यग्रहणे तु सा अपि संगृह्यते । यद्य् अप्य् अभिलापसंसृष्टाभासा न भवति तदहर्जातस्य बालकस्य कल्पना, अभिलापसंसर्गयोग्यप्रतिभासा तु भवत्य् एव । या च अभिलापसंसृष्टा सा अपि योग्या । तत उभयोर् अपि योग्यग्रहणेन संग्रहः । कालेन दृष्टेन रूपेणैक्यम् आपादितो ऽन्तर्जल्पाकारस् तथा प्रतिभासमानो वाच्यः । संसर्गपदेन सार्धम् अस्य विग्रहं प्राह -- अभिलापेन -- इति । अभिलापेन वादकेन संसर्गः सम्बन्धः । "तृतीये"ति [पाणीनि -- 2.1.30.] योगविभागात् समासः । अथ वा ऽर्थकथनम् इदं कृतम्, ससासस् तु षष्ठीतत्पुरुषः कार्यः । कथं पुनर् वाच्यवाचकयोः संसर्गः सम्भवतीत्याह -- एकसिमिन् इति । ग्राह्याकारतया मिलनम् इत्य् एकज्ञानग्राह्याकारतया ऽवस्थानम् इति वाच्यम् । अर्थाकारश् चेद् वाचकशब्दाकारेण सहैकज्ञानारूढो भवति तदा वाच्यवाचकयोः संसर्ग इति यावत् । भवत्व् अभिधानाभिधेयाकारयोर् एकज्ञानारोहः । किम् एतावता ऽभिधानाभिधेये वाच्यवाचकतया सम्बद्धे भवतः, येन तद् ग्राहि विज्ञानं सविकल्पकं स्याद् इत्याशङ्क्योपसंहारव्याजेनाह -- तत इति । यदाकारौ संनिनिविष्टौ प्रतिभासितौ भवतस् तदा संसृष्टे तथातया सम्बद्धे भवतः । एकस्मिन् ज्ञाने विशेष्यविशेषणत्वेनाकारप्रतिभास एवानयोर् वाच्यवाचकत्वग्रहणम् इति भावः । अभिलापसंसर्गाय योग्य इत्य् अर्थकथनम् इदं [21ब्] कृतम् । समासस् त्व् अभिलापसंसर्गस्य योग्य इति कर्त्तव्यः । तादर्थ्यचतुर्थ्याः प्रकृतिविकार एव समासात् ।

यद्य् एवम् अभिलापसंसृष्टप्रतिभासेत्य् एवास्तु किं योग्यग्रहणेनेत्य् उपालम्भं पश्यन् यथा ऽस्य साफल्यं तथा दर्शयितुम् उपक्रमते -- तत्रेति । वाक्योपन्यासे चैतत् । अभिलापसंसृष्ट आभासो यस्याः सा तथा । कस्येवेत्य् आह -- यथेति । `इदम् अस्य वाच्यम् इदम् अस्य वाचकम्ऽ इत्य् उभयांशावलम्बिज्ञानं

[ध्प्र् p.49] असत्य् अभिलापसंसर्गे कुतो योग्यता अवसितिर् इति चेद् । अनियतप्रतिभासत्वात् । अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोर् अभावात् । ग्राह्यो ह्य् अर्थो विज्ञानं जनयन् नियतप्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनयद् नियतप्रतिभासं जनयति । विकल्पविज्ञानं त्व् अर्थान् न उत्पद्यते । ततः प्रतिभासनियमहेतोर् अभावाद् अनियतप्रतिभासं । सङ्केतः, शब्दार्थप्रयोगप्रतिपत्त्योः कार्यकारणभावरूपो वा । व्युत्पन्नो ज्ञातः संकेतो येन स व्युत्पन्नसंकेतः । तस्य यदि सर्वैव तादृशी तदा काचिद् इति न वाच्यम्, योग्यग्रहणेअन् च न किञ्चिद् इत्य् आह -- काचिद् इति । तुः व्युत्पन्नसंकेतप्रतीतेर् बालप्रतीतिं भेदवतीम् आह । कस्य सदृशी सम्भवतीत्य् आह -- यथेति । बालक इत्य् अल्पार्थे कन् । यद्य् अभिलापसंसृष्टाभासेति कृते ऽपि तथाभूतायाः प्रतीतेः सङ्ग्रहः, कृतं तर्हि योग्यग्र्हणेनेत्य् आह-- तत्रेति । तयोर् मध्ये ऽव्युप्तन्नसंकेतस्य या सा न सङ्गृह्यते । कदा तु सङ्गृह्यतेत्य् आह -- अभिलापेति । अर्थप्रदर्शनत्वाद् अस्याभिलापसंसृष्टाभासा प्रतीतिः कल्पनेत्य् उक्तौ वचने सतीत्य् अर्थः । इतिनोक्तेर् आकारः कथितः । असति तावद् अयं दोषः । यदि सत्य् अपि योग्यग्रहणे तदसंग्रहस् तथापि किं तेनेत्य् आह -- योग्येति । तुर् अकरणावस्थाया विशेषम् आह । न केवलं तत्संसृष्टाभासेत्य् अपिशब्दः । तथाविधबालस्य च कल्पना ऽनुमानसिद्धा । तेन सा ऽवश्यं ग्राह्येति भावः । कथं पुनर् योग्यग्रहणेन तस्याः सङ्ग्रह इत्य् आह -- यद्य् अपीति । निपातसमुदायो ऽयं विशेषाभिधानार्थाभ्युपगमे सर्वत्र । अह्नि जातं जन्मास्येति तथा । अह्नि वा जात उत्पन्न इति तथा । अहर्जातस्यैतदहर्जातस्येति द्रष्टव्यम् । यद्य् एवं व्युत्पन्नसङ्केतस्य सा कथं सङ्गृह्यत इत्य् आह -- या चेति । च पूर्वापेक्षया समुच्चये । यदि सा तत्संसर्गयोग्या न स्यात् कथं तत्संसर्गम् अनुभवेद् इति भावः । यत एवं तस्मात् ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.