Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 9/19

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

दिव्यावदान

Thông tin
GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

प्रव्रज्याधिमुक्तेन भवितुम्/ 187.016. अनेकपर्यायेण प्रव्रज्या वर्णिता बुद्धैश्च बुद्धश्रावकैश्च/ 187.017. आर्य, शोभनम्/ 187.017. किं तत्र प्रव्रज्यायां क्रियते? भद्रमुख, यावज्जीवं ब्रह्मचर्यं चर्यते/ 187.018. आर्य, न शक्यमेतत्/ 187.018. अन्यो ऽस्ति उपायह्? भद्रमुख, अस्ति, उपासको भव/ 187.019. आर्य, किं तत्र क्रियते? भद्रंख, यावज्जीवं प्राणातिपातात् प्रतिविरतिः संरक्ष्या, अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतिः संरक्ष्या/ 187.021. आर्य, एतदपि न शक्यते/ 187.021. अन्यमुपायं कथयेति/ 187.021. भद्रमुख, बुद्धप्रमुखं भिक्षुसंघं भोजय/ 187.022. आर्य, कियद्भिः कार्षापणैर्बुद्धप्रमुखो भिक्षुसंघो भोज्यते? भद्रमुख, पञ्चभिः कार्षापणशतैः/ 187.023. आर्य, शक्यमेतत्/ 187.023. स तस्य पादभिवन्दनं कृत्वा प्रक्रान्तः/ 187.023. येन स्वं निवेशनं तेनोपसंक्रान्तः/ 187.024. उपसंक्रम्य मातरमिदमवोचत्--अम्ब, अद्याहं वेणुवनं गतः/ 187.024. तत्र मया द्वारकोष्ठके पञ्चगण्डकं चक्रमभिलिखितं दृष्टम्/ 187.025. तत्र पञ्च गतयो नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च/ 187.026. तत्र नारका उत्पाटनुपाटनच्छेदभेदनादीनि दुःखानि प्रत्यनुभवन्ति/ 187.027. तिर्यञ्चश्चान्योन्यभक्षणादीनि/ 187.027. प्रेताः क्षुत्तृषादीनि/ 187.027. देवा दिव्यस्त्रीललितोद्यानविमानसुखानि प्रत्यनुभवन्ति/ 187.028. मनुष्या हस्त्यश्वरथान्नपानशयनासनस्त्रीललितोद्यानानि प्रत्यनुभवन्ति/ 187.028. आसां मम तिस्रो गतयो नाभिप्रेताः, द्वे अभिप्रेते/ 187.029. तत्किमिच्छसि त्वं मां देवेषूपपद्यमानम्? पुत्र,

सर्वसत्त्वानिच्छामि देवेषूपपद्यमानान् प्रागेव त्वाम्/ 187.030. अम्ब, यद्येवम्, प्रयच्छ पञ्च कार्षापणशतानि/ 187.031. बुद्धप्रमुखं भिक्षुसंघं भोजयामि/ 187.031. पुत्र, मया त्वं ज्ञातिबलेन हस्तबलेन चाप्यायितः पोषितः संवर्धितः/ 187.032. कुतो मे पञ्चानां कार्षापणशतानां विभवह्? अम्ब, यदि <188>नास्ति, भृतिकया कर्म करोमि/

188.001. पुत्र, त्वं सुकुमारः/ 188.001. न शक्यसि भृतिकया कर्म कर्तुम्/ 188.002. अम्ब गच्छामि, शक्यामि/ 188.002. पुत्र, यदि शक्यो ऽसि, गच्छ/ 188.002. स तया अनुज्ञातो भृतकवीथीं गत्वा अवस्थितः/ 188.003. ब्राह्मणगृहपतयो ऽन्यान् भृतकपुरुषान् गृह्णन्ति, तं न कश्चित् पृच्छति/ 188.004. स तत्र दिवसमतिनाम्य विकाले गृहं गतः/ 188.004. स मात्रा पृष्टह्--पुत्र, कृतं ते भृतिकया कर्म? अम्ब, किं करोमि? न मां कश्चित् पृच्छति/ 188.005. पुत्र, न एवंविधा भृतकपुरुषा भवन्ति/ 188.005. पुत्र, स्फटितपरुषा रूक्षकेशा मलिनवस्त्रनिवसनाः/ 188.006. यद्यवश्यं त्वया भृतिकया कर्म कर्तव्यम्, ईदृशं वेषमास्थाय भृतकवीथीं गत्वा तिष्ठ/ 188.007. अम्ब, शोभनम्/ 188.007. एवं करोमि/ 188.007. सो ऽपरस्मिन् दिवसे तादृशं वेषमास्थाय भृतकवीथीं गत्वा अवस्थितः/ 188.008. यावदन्यतरस्य गृहपतेर्गृहमुत्तिष्ठते/ 188.009. स भृतकानामर्थे वीथीं गतः/ 188.009. तेन तं प्रत्याख्याय अन्ये भृतकपुरुषा गृहीताः/ 188.010. स कथयति--गृहपते, अहमपि भृतिकया कर्म करोमीति/ 188.010. गृहपतिः कथयति--पुत्र, त्वं सुकुमारः, न शक्ष्यसि भृतिकया कर्म कर्तुम्/ 188.011. तात्, किं त्वं पूर्वं भृतिं ददासि, आहोस्वित् पश्चात्?/ 188.012. तात्, अद्य तात्वत् कर्म करोमि/ 188.012. यदि तोषयिष्यामि, दास्यसि भृतिमिति/ 188.013. स संलक्षयति--शोभनमेष कथयति/ 188.013. अद्य तावत् जिज्ञास्यामि यदि शक्ष्यति कर्म कर्तुम्, दास्यामि/ 188.014. न शक्ष्यति, न दास्यामीति विदित्वा कथयति--पुत्र आगच्छ, गच्छाम इति/ 188.015. स तेन गृहं नीतः/ 188.015. ते

ऽन्यभृतकाः शाठ्येन कर्म कुर्वन्ति/ 188.015. स त्वरितत्वरितं कर्म करोति/ 188.016. तांश्च भृतकान् समनुशास्ति/ 188.016. वयं तावत् पूर्वकेण दुश्चरितेन दरिद्रगृहेषूपपन्नाः/ 188.017. तद्यदि शाठ्येन कर्म करिष्यामः, इतश्च्युतानां का गतिभविष्यति? ते कथयन्ति--भागिनेय, त्वं नवदान्तः/ 188.018. स्थानमेतद्विद्यते यदस्माकं पृष्ठतो गमिष्यसि/ 188.018. आगच्छ पश्यामः/ 188.019. स लोकाख्यायिकायां कुशलः/ 188.019. तेंस् तेषां तादृशी लोकाख्यानकथा प्रस्तुता, यां श्रुत्वा ते भृतकपुरुषा आक्षिप्ताः/ 188.020. तस्यातिस्वरेण गच्छतो ऽनुपदं गच्छन्ति, मा लोकाख्यायिकां न श्रोष्याम इति/ 188.021. तस्मिन् दिवसे तैर्भृतकपुरुषैस्तद्द्विगुणं कर्म कृतम्/ 188.022. सो ऽधिष्ठायकपुरुषं पृच्छति--भोः पुरुष, किं त्वया अपरे भृतका गृहीताह्? आर्य, न गृहीताः/ 188.023. अथ कस्मादद्य द्विगुणं कर्म कृतम्? तेन यथावृत्तमारोचितम्/ 188.024. श्रुत्वा गृहपतिस्तस्य दारकस्य द्विगुणां भृतिं दातुमारब्धः/ 188.025. स कथयति--तात्, किं द्विदैवसिकां भृतिं ददासीति? स कथयति--पुत्र, न द्विदैवसिकां ददामि, अपि तु प्रसन्नो ऽहं प्रसन्नाधिकारं करोमीति/ 188.026. स कथयति--तात्, यदि त्वं ममाभिप्रसन्नः, यावत् तव गृहे कर्म कर्तव्यं तावत् तवैव हस्ते तिष्ठतु/ 188.028. पुत्र एवं भवतु/ 188.028. यदा तस्य गृहपतेस्तद्गृहं परिसमाप्तम्, तदा असौ दारको भृतिं गणयितुमारब्धो यावत् पञ्च कार्षापणशतानि न परिपूर्यन्ते/ 188.029. स रोदितुमारब्धः/ 188.029. स गृहपतिः कथयति--पुत्र, किं रोदिषि? मासि मया किंचित् व्यंसितः/ 188.030. तात्, महात्मा

त्वम्, किं मां व्यंसयिष्यसि? अपि तु अहमेव मन्दभाग्यः/ 188.031. मया पञ्चानां कार्षापणशतानामर्थाय भृतिकया कर्म प्रारब्धं बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामि, ततो देवेषूपपत्स्यामीति/ 188.032. तानि <189>न परिपूर्णानि/

189.001. पुनरपि मया अन्यत्र भृतिकया कर्म कर्तव्यमिति/ 189.001. स गृहपतिर्भूयसा मात्रया अतिप्रसन्नः/ 189.002. स कथयति--पुत्र, यद्येवम्, अहं पूरयामि/ 189.002. तात्, मा देवेषूपपत्स्ये/ 189.002. पुत्र, अभिश्रद्दधासि त्वं भगवतह्? तात् अभिश्रद्दधे/ 189.003. पुत्र गच्छ, भगवन्तं पृच्छ/ 189.003. येन भगवांस्तेनोपसंक्रान्तः/ 189.004. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 189.004. स गृहपतिपुत्रो भगवन्तमिदमवोचत्--भगवन्, मया पञ्चानां कार्षापणशतानामर्थाय भगवन्तं सश्रावकसंघं भोजयिष्यामीत्यमुकस्य गृहपतेर्भृतिकया कर्म कृतम्/ 189.006. तानि मम न परिपूर्णानि/ 189.007. स गृहपतिः परिपूरयति/ 189.007. भगवन् किम्? आह--वत्स गृहाण, श्राद्धः स गृहपतिः/ 189.007. भगवन्, मा देवेषु नोपपत्स्ये? वत्स उपपत्स्यसे, गृहाण/ 189.008. स परितुष्टो भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तो येन स गृहपतिस्तेनोपसंक्रान्तः/ 189.009. उपसंक्रम्य गृहपतेरन्तिकात् पञ्च कार्षापणशतानि गृहीत्वा मातुः सकाशं गतः/ 189.010. कथयति--अम्ब, एतानि पञ्च कार्षापणशतानि/ 189.011. भक्तं सज्जीकुरु/ 189.011. बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति/ 189.011. सा कथयति--पुत्र, न मम भाण्डोपस्करो न शयनासनम्/ 189.012. स एव गृहपतिर्विस्तीर्णभाण्डोपस्करः श्राद्धश्च/ 189.013. तमेव गत्वा प्रार्थय/ 189.013. शक्नोत्यसौ संपादयितुमिति/ 189.013. स तस्य सकाशं गतः शिरःप्रणामं कृत्वा कथयति--त्वयैव एतानि पञ्च कार्षापणशतानि दत्ताअनि/ 189.014. अस्माकं गृहे न

भाण्डोपस्करो नापि शयनासनम्/ 189.015. तदर्हसि ममानुकम्पया भक्तं सज्जीकर्तुम्/ 189.015. अहमागत्य स्वहस्तेन बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति/ 189.016. गृहपतिः संलक्षयति--ममेदं गृहमचिरोत्थितं बुद्धप्रमुखेन भिक्षुसंघेन परिभुक्तं भविष्यति, प्रतिजागर्मि/ 189.017. इति विदित्वा कथयति--पुत्र, शोभनम्/ 189.018. स्थापयित्वा कार्षापणान् गच्छ, श्वो बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्रय/ 189.018. अहमाहारं सज्जीकरोमीति/ 189.019. स संजातसौमनस्यः शिरःप्रणामं कृत्वा प्रक्रान्तो येन भगवांस्तेनोपसंक्रान्तः/ 189.020. उपसंक्रम्य वृद्धान्ते स्थित्वा कथयति--सो ऽहं बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्रयामीति/ 189.021. अधिवासयति भगवांस्तस्य गृहपतिपुत्रस्य तूष्णीभावेन/ 189.021. अथ स गृहपतिपुत्रो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो ऽन्तिकात् प्रक्रान्तः//

189.023. तेनापि गृहपतिना तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय गृहं संमार्जितम्/ 189.024. सुकुमारी गोमयकार्षी दत्ता, आसनप्रज्ञप्तिः कारिता, उदकमणयः प्रतिष्ठापिताः/ 189.025. तेनापि गृहपतिपुत्रेण गत्वा भगवत आरोचितम्--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यते इति/ 189.026. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः/ 189.027. षड्वर्गीयाः पृच्छन्ति--केनाअयं बुद्धप्रमुखो भिक्षुसंघ उपनिमन्त्रित इति? अपरे कथयन्ति--अमुकेन गृहपतिपुत्रेणेति/ 189.029. ते परस्परं संजल्पं कुर्वन्ति--नन्दोपनन्द, भृतकपुरुषः सः/ 189.029. किमसौ दास्यति? गच्छाम कुलोपकगृहेषु गत्वा पुरोभक्तकां कर्म इति/ 189.030. ते कुलोपकगृहाण्युपसंक्रान्ताः/ 189.030. तैरुक्ताह्--आर्य, पुरोभक्तकां कुरुतेति/ 189.031. ते कथयन्ति--एवं कुर्म इति/ 189.031. तैः पुरोभक्तका कृता/ 189.031. भगवांस्तस्य गृहपतेर् निवेशने पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 189.032. षड्वर्गीया अपि पुरोभक्तकां कृत्वा <190>संघमध्ये निषण्णः/

190.001. अथ स गृहपतिपुर्तः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभिजनीयेन स्वहस्तं संतर्पयति संप्रवारयति/ 190.002. सततपरिवेषणं कुर्वाणः पश्य्ति षड्वर्गीयान् न सत्कृत्य परिमुञ्जानान्/ 190.003. दृष्ट्वा च पुनर्भगवन्तं विदित्वा धौतहस्तमपनीतपात्रं भगवतः पुरस्तात् स्थित्वा कथयति--भगवन्, कैश्चिदत्रार्यकैर् न सत्कृत्य परिभुक्तमाहारम्/ 190.005. देवेषु नोपपत्स्ये इति? भगवानाह--वत्स, शयनासनपरिभोगेन तावत् त्वं देवेषूपपद्येथाः प्रागेवान्नपानपरिभोगेनेति/ 190.006. अथ भगवांस्तं गृहपतिपुत्रं च धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः//

190.008. अत्रान्तरे पञ्चमात्राणि वणिक्शतानि महासमुद्रात् संसिद्धयानपात्राण्नि राजगृहमनुप्राप्तानि/ 190.009. राजगृहे च पर्व प्रत्युपस्थितमिति न किंचित् क्रयेणापि लभ्यते/ 190.009. तत्रैको वणिग्भिक्षुगोचरिकः/ 190.010. स कथयति--भवन्तः, आगमयत कस्याद्य गृहे बुद्धप्रमुखेन भिक्षुसंघेन भक्तम्, तत्रावश्यं किंचिदुत्सदनधर्मकं भवतीति/ 190.011. ते श्रवणपरम्परया चान्वेषमाणास्तस्य गृहपतेः सकाशमुपसंक्रान्ताः/ 190.012. कथयन्ति--गृहपते, तवाद्य बुद्धप्रमुखेन भिक्षुसंघेन भुक्ते इह पर्व प्रत्युपस्थितमिति न किंचित् क्रयेणापि लभ्यते/ 190.013. यदि किंचिदुत्सदनधर्मकमस्ति, मूल्येन दीयतामिति/ 190.014. न ममैतद्भक्तम्, अपि तु तस्यैतद्गृहपतिपुत्रस्य भक्तम्/ 190.014. एनम् याचध्वमिति/ 190.014. ते तस्य सकाशमुपसंक्रम्य कथयन्ति--गृहपतिपुत्र, दीयतामस्माकं भुक्तशेषम् यदस्ति/ 190.015. मूल्यं प्रयच्छाम इति/ 190.016. स कथयति--नाहं मूल्येनानुप्रयच्छामि/ 190.016. अपि तु एवमेव प्रयच्छामीति/ 190.016. ते तेनान्नपानेन संतर्पिता गृहपतेर्गत्वा कथयन्ति--तस्य ते गृहपते लाभाः सुलब्धा यस्य ते निवेशने बुद्धप्रमुखो भिक्षुसंघो ऽन्नपानेन संतर्पितः, इमानि च पञ्च वणिक्शतानीति/ 190.018. स कथयति--अनेन गृहपतिपुत्रेण लाभाः सुलब्धाः/ 190.019. अनेन बुद्धप्रमुखो भिक्षुसंघो ऽन्नपानेन संतर्पितो न मयेति/ 190.020. ते पृच्छन्ति--कतरस्यायं गृहपतेः पुत्रह्? अमुकस्य सार्थवाहस्य/ 190.020. सार्थवाहः कथयति--भवन्तः, ममैष वयस्यपुत्रो भवति/ 190.021. तस्य पिता महासमुद्रमवतीर्णो

ऽनयेन व्यसनमापन्नः/ 190.021. शक्यं बहुभिरेकः समुद्धर्तुम्, न त्वेव एकेन बहवः/ 190.022. तदयं पटकं प्रज्ञप्तो येन वो यत् परित्यक्तम्, सो ऽस्मिन् पटके ऽनुप्रयच्छत्विति/ 190.023. ते पूर्वमेवाभिप्रसन्नाः सार्थवाहेन च प्रोत्साहिता इति तैर्यथासम्भाव्येन मणिमुक्तादीनि रत्नानि दत्तानि/ 190.024. महान् राशिः संपन्नः/ 190.024. सार्थवाहः कथयति--पुत्र, गृहाणेति/ 190.025. स कथयति--तात्, न मया मूल्येन दत्तमिति/ 190.025. सार्थवाहः कथयति--पुत्र, न वयं तव मूल्यं प्रयछामः/ 190.026. यदि च मूल्यं गण्यते, एकेन रत्नेनेदृशानां भक्तानामनेकानि शतानि संविद्यन्ते/ 190.027. किं तु वयं तवाभिप्रसन्नाः प्रसन्नाधिकारं कुर्मः, गृहाणेति/ 190.027. स कथयति--तात्, मया बुद्धप्रमुखो भिक्षुसंघो भोजितो देवेषूपपत्स्ये इति/ 190.028. तस्मादवशिष्टम् युष्मभ्यं दत्तम्/ 190.029. यदि ग्रहीष्यामि, स्थानमेतद्विद्यते यद्देवेषु नोपपत्स्ये? सार्थवाहह्--पुत्र, अभिश्रद्दधासि त्वं भगवतह्? तात्, अभिश्रद्दधे/ 190.030. गच्छ, भगवन्तं पृच्छ/ 190.030. स येन भगवांस्तेनोपसंक्रान्तः/ 190.031. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 190.031. स गृहपतिपुत्रो भगवन्तमिदमवोचत्--भगवन्, मया बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा यदन्नपानमवशिष्टम् <191>तद्विणिजां दत्तम्/

191.001. ते मम प्रसन्नः प्रसन्नाधिकारं कुर्वन्ति/ 191.001. किं कल्पते तन्मम ग्रहीतुमाहोस्विन्न कल्पत इति? भगवानाह--यदि प्रसन्नाः प्रसन्नाधिकारं कुर्वन्ति, गृहाण/ 191.002. भगवन्, मा देवेषु नोत्पपत्स्ये? भगवानाह--वत्स, पुष्पमेतत्, फलमन्यद्भविष्यति/ 191.003. तेन भगवद्वचनाभिसम्प्रत्ययात् परितुष्टेन गत्वा रत्नानि गृहीतानि//

191.005. अत्रान्तरे राजगृहे ऽपुत्रः श्रेष्ठी कालगतः/ 191.005. ततो राजगृहनिवासिनः पौराः संनिपत्य संजल्पं कुर्वन्ति--भवन्तः, श्रेष्ठी कालगतः/ 191.006. कं श्रेष्ठिनमभिषञ्चाम इति? तत्रैके कथयन्ति--यः पुण्यमहेशाख्य इति/ 191.007. अपरे कथयन्ति--कथमस्माभिर्ज्ञातव्यमिति? ते कथयन्ति--नानावर्णानि बीजानि पक्ककुम्भे प्रक्षिपामः, य एकवर्णान्युद्धरिष्यति, तं श्रेष्ठिनमभिषिञ्चाम इति/ 191.009. तैर् नानावर्णानि बीजानि पक्ककुम्भे प्रक्षिप्तानि/ 191.009. आरोचितं च--भवन्तः, य एकवर्णानि बीजानि एतस्मात् कुम्भादुद्धरेत्, स श्रेष्ठ्यभिषिच्यते/ 191.010. यस्य वः श्रेष्ठित्वमभिप्रेतं च, उद्धरतु इति/ 191.011. त उद्धर्तुमारब्धाः/ 191.011. सर्वैर् नानावर्णान्युद्धृतानि/ 191.011. तेन तु गृहपतिपुत्रेणैकवर्णान्युद्धृतानि\ 191.012. पौरजानपदाः कथयन्ति--भवन्तः, अयं पुण्यमहेशाख्यः/ 191.012. सर्व एनं श्रेष्ठिनमभिषिञ्चामः/ 191.013. तत्रैके कथयन्ति--भवन्तः, अयं भृतकपुरुषः/ 191.013. कथमेनं श्रेष्ठिनमभिषिञ्चाम इति? अपरे कथयन्ति--पुनरपि तावत् जिज्ञासामः/ 191.014. तेन यावत् त्रिरप्येकवर्णान्युद्धृतानि/ 191.014. ते कथयन्ति--भवन्तः, मनुष्यका अप्यस्य साक्षेपमनुप्रयच्छन्ति/ 191.015. आगच्छत, एनमेवाभिषिञ्चाम इति/ 191.016. स तैः श्रेष्ठी अभिषिक्तः/ 191.016. स गृहपतिः संलक्षयति--यदप्यनेन मम भृतिकया कर्म कृतम्, तथाप्ययं पुण्यमहेशाख्यः सत्त्वः/ 191.017. संग्रहोस्य कर्तव्य इति/ 191.017. तेन तस्य सर्वालंकारविभूषिता दुहिता भार्यार्थं दत्ता/ 191.018. तच्च गृहम्, प्रभूतं स्वापतेयम्/ 191.018. सहसैवं भोगैरभ्युद्गत इति तस्य सहसोद्गतो गृहपतिः सहसोद्गतो गृहपतिरिति संज्ञा संवृत्ता//

191.020. स संलक्षयति--या काचिदस्माकं श्रीसौभाग्यसम्पत्, सर्वासौ बुद्धं भगवन्तमागम्य/ 191.021. यन्न्वहं पुनरपि बुद्धप्रमुखं भिक्षुसंघमन्तर्गृहे उपनिमन्त्र्य भोजयेयम्/ 191.021. इति विदित्वा येन भगवांस्तेनोपसंक्रान्तः/ 191.022. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 191.022. एकान्तनिषण्णं सहसोद्गतं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 191.024. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्/ 191.025. अथ सहसोद्गतो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु भगवाञ् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति/ 191.026. अधिवासयति भगवान् सहसोद्गतस्य गृहपतेस्तूष्णीभावेन/ 191.027. अथ सहसोद्गतो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः/ 191.028. अथ सहसोद्गतो गृहपतिस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्योदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यत इति/ 191.031. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो येन सहसोद्गतस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः/ 191.032. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य<192> प्रज्ञप्त एवासने निषण्णः/

192.001. अथ सहसोद्गतो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति/ 192.002. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तात् निषण्णो धर्मश्रवणाय/ 192.005. तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरायसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सहसोद्गतेन गृहपतिना विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्/ 192.007. स दृष्टसत्यस्त्रिरुदानमुदानयति--इदमस्माकं भदन्त न मात्रा कृतं न पित्रा नेष्टेन न स्वजनबन्धुवर्गेण न राज्ञा न देवताभिर् न पूर्वप्रेतैर् न श्रमणब्राह्मणैर्यद्भगवता अस्माकं कृतम्/ 192.009. उच्छोषिता रुधिराश्रसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः, स्मो देवमनुष्येषु/ 192.011. अभिक्रान्तो ऽहं भदन्त अभिक्रान्तः/ 192.011. एषो ऽहं बुद्धं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च/ 192.012. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतमभिप्रसन्नमिति/ 192.012. अथ भगवान् सहसोद्गतं गृहपतिं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः//

192.015. भिक्षवः संशयजाताअः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त सहसोद्गतेन गृहपतिना कर्म कृतम् येन भृतिकया कर्म कृतम्, येन सहसा भोगैरभिवृद्धः, सत्यदर्शनं च कृतमिति? भगवानाह--सहसोद्गतेनैव भिक्षवो गृहपतिना कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यभावीनि/ 192.018. सहसोद्गतेन गृहपतिना कर्माणि कृतान्युपचितानि/ 192.019. को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपष्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च/ 192.023. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि/ 192.024. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्//3//

192.025. भूतपूर्वं भिक्षवो ऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी/ 192.026. तेन सदृशात् कुलात् कलत्रमानीतम्/ 192.027. स तया सार्धं क्रीडति रमते परिचारयति/ 192.027. तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता/ 192.028. सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता/ 192.029. दारको जातः/ 192.029. तस्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितम्/ 192.030. स उन्नीतो वर्धितो महान् संवृत्तः/ 192.031. यावदपरेण समयेन स गृहपतिः संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवंजीवकोन्नादितम्<193> वनखण्डमन्तर्जनसहाय उद्यानभूमिं निर्गतः/

193.001. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्या/ यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः/ 193.004. प्रान्तशयनासनसेविनस्ते न/ 193.004. सो ऽप्रविश्यैव कर्वटकम् येन तदुद्यानं तेनोपसंक्रान्तः/ 193.004. अद्राक्षीत् स गृहपतिस्तं प्रत्येकबुद्धं कायप्रासादिकं च शान्तेनेर्यापथेनोद्यानं प्रविशन्तम्/ 193.005. दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातस्त्वरितत्वरितं प्रत्युद्गतः/ 193.006. प्रत्येकबुद्धः संलक्षयति--आकीर्णमिदमुद्यानम्/ 193.007. अन्यत्र गच्छे/ 193.007. इति विदित्वा प्रतिनिवर्तितुमारब्धः/ 193.007. स गृहपतिः पादयोर् निपत्य कथयति--आर्य, किं निवर्तसे त्वम्? पिण्डकेनार्थी/ 193.008. अहमपि पुण्येन/ 193.008. अस्मिन्नेवोद्याने विहर, पिण्डकेनाविघातं करोमीति/ 193.009. परानुग्रहप्रवृत्तास्ते महात्मानः/ 193.009. स तस्यानुकम्पाचित्तमुपस्थाप्य तस्मिन्नेवोद्याने विहर्तुमारब्धः/ 193.010. सो ऽपि तस्य पिण्डकेन योगोद्वहनं कर्तुं प्रवृत्तः/ 193.011. यावदपरेण समयेन तस्य गृहपतेरन्यतरकर्वटके किंचित् करणीयमुत्पन्नम्/ 193.011. स पत्नीमामन्त्रयते--भद्रे, ममामुष्मिन् कर्वटके किंचित् करणीयमुत्पन्नम्/ 193.012. तत्राहं गच्छामि/ 193.012. त्वया तस्य महात्मनः प्रव्रजितस्यान्नपानेनाविघातः कर्तव्यः/ 193.013. इत्युक्त्वा प्रक्रान्तः/ 193.013. अपरस्मिन् दिवसे सा गृहपत्नी काल्यमेवोत्थाय तदर्थमन्नपानं साधयितुमारब्धा/ 193.014. सा पुत्रेणोच्यते--अम्ब, कस्यार्थे ऽन्नपानं साध्यत इति? सा कथयति--पुत्र, यो ऽसौ उद्याने शान्तात्म

प्रव्रजितस्तिष्ठति, तस्यार्थे साध्यत इति/ 193.016. स रुषितः कथयति--अम्ब, किमर्थं भृतिकया कर्म कृत्वा न भुङ्क्त इति? सा कथयति--पुत्र, मा एवं वोचः/ 193.017. अनिष्टो ऽस्य कर्मणो विपाक इति/ 193.018. स निवार्यमाणो ऽपि नावतिष्ठते/ 193.018. यावदसौ गृहपतिरागतः/ 193.018. पत्नीमामन्त्रयते--भद्रे, कृतस्ते तस्य पिण्डकेनाविघातह्? आर्यपुत्र कृतः/ 193.019. किं तु अनेन दारकेण तस्यान्तिके खरावाग्निश्चारिता/ 193.020. स कथयति--भद्रे, किं कथयति? तया विस्तरेण समाख्यातम्/ 193.020. स संलक्षयति--क्षमो ऽयं तपस्वी/ 193.021. गच्छामि, तं महात्मानं क्षमापयामि--मा अत्यन्तमेव क्षतो भविष्यति/ 193.022. इति विदित्वा तं दारकमादाय येन प्रत्येकबुद्धस्तेनोपसंक्रान्तः/ 193.022. अद्राक्षीत् स प्रत्येकबुद्धस्तं गृहपतिमात्मना द्वितीयमागच्छन्तम्/ 193.023. स संलक्षयति--न कदाचिदयं गृहपतिरात्मना द्वितीयमागच्छति/ 193.024. तत् किमत्र कारणमिति? असमन्वाहृत्य श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तते/ 193.025. स समन्वाहर्तुं प्रवृत्तः/ 193.025. तेन् समन्वाहृत्य विज्ञातम्/ 193.025. कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी/ 193.026. स तस्यानुकम्पार्थं विततपक्ष हव हंसराज उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः/ 193.027. आशु पृथग्जनस्य ऋद्धिरावर्जनकरी/ 193.028. स मूलनिकृत्त इव द्रुमः सपुत्रः पादयोर् निपतितः/ 193.028. ततः स दारक आहृष्टरोमकूपः कथयति--अवतर अवतर सद्भूतदक्षिणीय, मम कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति/ 193.030. स

तस्यानुकम्पार्थमवतीर्णः/ 193.030. स गृहपतिपुत्रस्तीव्रेणाशयेन पादयोर् निपत्य प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये खरा वाग्निश्चारिता, मा तस्य कर्मणो भागी स्याम्/ 193.032. यत्तु इदानीं चित्तमभिप्रसादितम्, अनेनाहं कुशलमूलेनाढ्ये महाधने <194>महाभोगे कुले जायेयम्, एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति//

194.003. किं मन्यध्वे भिक्षवह्? यो ऽसौ गृहपतिपुत्रः, एष एवासौ सहसोद्गतो गृहपतिः/ 194.004. यदनेन प्रत्येकबुद्धस्यान्तिके खरा वाग्निश्चारिता, तेन पञ्च जन्मशतानि भृतकपुरुषो जातः/ 194.005. यावदेतर्ह्यपि भृतिकया कर्म कृतम्/ 194.005. यत् पुनस्तस्यैवान्तिके चित्तमभिप्रसाद्य प्रणिधानं कृतम्, तेन सहसैव भोगैरभिवृद्धः/ 194.006. ममान्तिके सत्यदर्शनं कृतम्/ 194.006. अहं चानेन प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागितः/ 194.007. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः/ 194.009. तस्मात्तर्हि एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः/ 194.010. इत्येवं वो भिकवः शिक्षितव्यम्//

194.010. (इयं तावदुत्पत्तिर् न तावत् बुद्धो भगवाञ् श्रावकाणां विनये शिक्षापदम्/?) 194.012. इदमवोचद्भगवान्/ आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//

194.013. सहसोद्गतस्य प्रकरणावदानमेकविंशतिमम्//

********** अवदान 22 **********

195.001. दिव्22 चन्द्रप्रभबोधिसत्त्वचर्यावदानम्/

195.002. एवं मया श्रुतम्/ 195.002. एकस्मिन् समये भगवान् भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धमर्धत्रयोदशाभिर्भिक्षुशतैः/ 195.003. तत्र भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त, यावदायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ तत्प्रथमतरं निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ, न त्वेव पितृमरणमागमितवन्तौ/ 195.005. अत्रेदानीं भिक्षवः किमाश्चर्यम् यदेतर्हि शारिपुत्रमौद्गल्यायनौ भिक्षू विगतरागौ विगतद्वेषौ विगतमोहौ परिमुक्तौ जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासौर् निस्तृष्णौ निरुपादानौ प्रहीणसर्वाहंकारममकारास्मिमानाभिनिवेशानुशयौ तिष्ठति बुद्धप्रमुखे भिक्षुसंघे तत्प्रथमतरं निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ, न त्वेव पितृमरणमागमितवन्तौ/ 195.009. यत्त्वतीते ऽध्वनि शारिपुत्रमौद्गल्यायनौ सरागौ सद्वेषौ समोहावपरिमुक्तौ जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्ममान्तिके चित्तमभिप्रसाद्य कालं कृत्वा कामधातुमतिक्रम्य ब्रह्मलोक उपपन्नौ, न त्वेव पितृमरणमागमितवन्तौ, तच्छ्रूयताम्//

195.013. भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्युत्तरापथे भद्रशिला नाम नगरी राजधानी अभूत्, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च/ 195.014. द्वादशयोजनान्यायामेन द्वादशयोजनानि विस्तरेण चतुरस्रा चतुर्द्वारा सुविभक्ता उच्चैस्तोरणगवाक्षवातायनवेदिकाप्रतिमण्डिता नानारत्नसम्पूर्णा सुसमृद्धसर्वद्रव्यवणिग्जननिकेता पार्थिवामात्यगृहपतिश्रेष्ठिराष्ट्रिकनीति(?)मौलिधराणामावासो वीणावेणुपणवसुघोषकवल्लरीमृदङ्गभेरीपटहशङ्खनिर्नादिता/ 195.018. तस्यां च राजधान्यामगुरुगन्धाश्चन्दनगन्धाश्चूर्णगन्धाः सर्वकालिकाश्च कुसुमगन्धा नानावातसमीरिता अतिरमणीया वीथीचत्वरशृङ्गाटकेषु वायवो वायन्ति स्म/ 195.019. हस्त्यश्वरथपत्तिबलकायसम्पन्ना युग्ययानोपशोभिता विस्तीर्णातिरमणीयवीथीमहापथा उच्छ्रितविचित्रध्वजपताका तोरणगवाक्षार्धचन्द्रावनद्धा अमरालय इव शोभते/ 195.021. उत्पलपद्मकुमुदपुण्डरीकानि सुरभिजलजकुसुमपरिमण्डितानि स्वादुस्वच्छशीतलजलपरिपूर्णपुष्किरिणीतडागोदपानप्रस्रवणोपशोभिता शालतालतमालसूत्र(?)कर्णिकाराशोकतिलकपुंनागनागकेशरचम्पकबकुलातिमुक्तकपाटलापुष्पसंछन्ना कलविङ्कशुकशारिकाकोकिलबर्हिगणजीवंजीवकोन्नादितवनषण्डोद्यानपरिमण्डिता/ 195.025. भद्रशिलायां च राजधान्यामन्यतरं मणिगर्भं नाम राजोद्यानं नानापुष्पफलवृक्षविटपोपशोभितं सोदपानं हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवंजीवकशकुनिमनोज्ञरवनिर् नादितमतिरमणीयम्/ 195.027. एवं सुरमणीया भद्रशिला राजधानी बभूव/ 195.027. भद्रशिलायां राजाधान्यां राजाभूच्चन्द्रप्रभो नाम अभिरूपो दर्शनीयः प्रासादिको दिव्यचक्षुश्चतुर्भागचक्रवर्ती धार्मिको धर्मराजा जम्बुद्वीपे राज्यैश्वर्याधिपत्यं कारितवान् स्वयम्प्रभुः/ 195.029. न खलु राज्ञश्चन्द्रप्रभस्य गच्छतो ऽन्धकारं भवति, न च मणिर्वा प्रदीपो वा उल्का वा पुरस्तात् नीयते, अपि तु स्वकात् कायात् राज्ञश्चन्द्रप्रभस्य प्रभा निश्चरन्ति तद्यथा चन्द्रमण्डलाद्रश्मयः/ 195.032. अनेन कारणेन राज्ञश्चन्द्रप्रभस्य चन्द्रप्रभ इति संज्ञा बभूव//

196.001. <196>तेन खलु समयेनास्मिञ् जम्बुद्वीपे ऽष्डषष्टिनगरसहस्राणि बभूवुर्भद्रशिलाराजधानीप्रभुखानि ऋद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि/ 196.002. अपीदानीं जम्बुद्वीपका अकरा अभूवन्न् अशुल्का अतरपण्याः/ 196.003. कृषिसम्पन्नाः सौम्या जनपदा बभूवुः/ 196.003. कुक्कुटसम्पातमात्राश्च ग्रामनिगमराष्ट्रराजधान्यो बभूवुः/ 196.004. तेन खलु समयेन चतुश्चत्वारिंशद्वर्षसहस्राणि जम्बुद्वीपे मनुष्याणामायुषः प्रमाणमभूत्/ 196.005. राजा चन्द्रप्रभो बोधिसत्त्वो ऽभूत् सर्वंददः सर्वपरित्यागी निःसङ्गपरित्यागी च/ 196.006. महति त्यागे वर्तते/ 196.006. तेन भद्रशिलायां राजधान्यां निर्गत्य बहिर्धा नगरस्य चतुर्षु नगरद्वारेषु चत्वारो चत्वारो महायज्ञवाटा मापिताश्छत्रध्वजयूपपताकात्युच्छ्रिताः/ 196.007. ततः सुवर्णभेरीः संताड्य दानानि दीयन्ते, पुण्यानि क्रियन्ते, तद्यथा--अन्नमन्नार्थिभ्यः, पानं पानार्थिभ्यः, स्वाद्यभोज्यमाल्यविलेपनवस्त्रशयनासनापाश्रयावासप्रदीपच्छत्राणि रथा आभरणान्यलंकाराः, सुवर्णपात्र्यो रूप्यचूर्णपरिपूर्णाः, रूप्यपात्र्यः सुवर्णपरिपूर्णाः, सुवर्णशृङ्गाश्च गावः कामदोहिन्यः/ 196.011. कुमाराः कुमारिकाश्च सर्वालंकारविभूषिताः कृत्वा प्रदानानि दीयन्ते/ 196.011. वस्त्राणि नानारङ्गानि नानादेशसमुच्छ्रितानि नानाविचित्राणि, तस्यथा--पट्टांशुकचीनकौशेयधौतपट्टवस्त्राण्यूर्णादुकूलमयशोभनवस्त्राण्यपरान्तकफलकहर्यणिकम्बलरत्नसुवर्णप्रावरकाकाशिकांशुक्षोमकाद्याः/ 196.014. राज्ञा चन्द्रप्रभेण तावन्तं दानमनुदत्तम्, येन सर्वे जम्बुद्वीपका मनुष्या आढ्या महाधना महाभोगाः संवृत्ताः/

196.015. राज्ञा चन्द्रप्रभेण तावन्ति हस्त्यश्वरथच्छत्राणि प्रदानमनुप्रदत्तानि, यथा अस्मिञ् जम्बुद्वीपे एकमनुष्यो ऽपि पद्भ्यां न गच्छति/ 196.016. सर्वे जम्बुद्वीपका मनुष्या हस्तिपृष्ठैश्च चतुरश्वयुक्तैश्च रथैरुपरिसुवर्णमयै रूप्यमयैश्चातपत्रैरुद्यानेनोद्यानं ग्रामेण ग्राममनुविचरन्ति स्म/ 196.018. ततो राज्ञश्चन्द्रप्रभस्यैतदभवत्--किं पुनर्मे इत्वरेण दानेन प्रदत्तेन? यन्न्वहम् यादृशान्येव मम वस्त्रालंकाराण्याभरणानि, तादृशान्येव दानमनुप्रयच्छेयम्, यत् सर्वे जम्बुद्वीपका मनुष्या राजक्रीडया क्रीडेयुः/ 196.020. अथ राजा चन्द्रप्रभो जम्बुद्वीपकेभ्यो मनुष्येभ्यो मौलिपट्टवस्त्रालंकाराभरणाण्यनुप्रयच्छति, तद्यथा--हर्षकटककेयूराहारार्धहारादीन् प्रदानमनुप्रयच्छति स्म/ 196.022. राज्ञा चन्द्रप्रभेण तावन्ति राजार्हाणि वस्त्राण्यलंकाराणि मौलयः पट्टाश्चानुप्रदत्ताः, येन सर्वे जम्बुद्वीपका मनुष्या मौलिधराः पट्टधराश्च संवृत्ताः/ 196.023. या राज्ञश्चन्द्रप्रभस्याकृतिस्तादृशा एव सर्वे जम्बुद्वीपका मनुष्याः संवृत्ताः/ 196.024. ततो राज्ञा चन्द्रप्रभेणाष्टषष्टिषु नगरसहस्रेषु घण्टावघोषणं कारितम्--सर्वे भवन्तो जम्बुद्वीपका मनुष्या राजक्रीडया, क्रीडन्तु, यावदहं जीवामीति/ 196.026. अथ जम्बुद्वीपका मनुष्या राज्ञश्चन्द्रप्रभस्य घण्टावघोषणां श्रुत्वा सर्व एव राजक्रीडया क्रीडितुमारब्धाः/ 196.027. वीणावेणुपणवसुघोषकवल्लरीभेरीपटहमृदङ्गतालशङ्खसहस्रैस्तूर्यशब्दशतैश्च वाद्यमानैः केयूरहारमणिमुक्ताभरणकुण्डलधराः सर्वालंकारविभूषितप्रमदागणपरिवृता राजश्रियमनुभवन्ति स्म/ 196.029. तेन खलु

समयेन जम्बुद्वीपकानां मनुष्याणां राजलीलया क्रीडताम् यश्च वीणावेणुपणवसुघोषकवल्लरीभेरीमृदङ्गपटहशब्दो यश्चाष्टषष्टिषु तालवंशनिर्घोषो यश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां वर्णमनोज्ञशब्दो निश्चरति, तेन सर्वो जम्बुद्वीपो मनोज्ञशब्दनादितो ऽभूत् तद्यथा देवानां त्रायस्त्रिंशानामभ्यन्तरं देवपुतम् <197>नृत्तगीतवादितशब्देन निर्नादितम्/

197.001. एवमेव तस्मिन् काले तस्मिन् समये सर्वो जम्बुद्वीपवासिनां जनकायस्तेन गीतवादितशब्देन एकान्तसुखसमर्पितो ऽत्यर्थं रमते/ 197.002. तेन खलु समयेन भद्रशिलायां राजधान्यां द्वासप्ततिरयुतकोटीशतानि मनुष्याणां प्रतिवसन्ति स्म/ 197.004. तेषां राजा चन्द्रप्रभ ऋष्टो बभूव प्रियो मनापश्च/ 197.004. अपीदानीं वर्णाकृतिलिङ्गस्थैर्यमस्य निरीक्षमाणा न तृप्तिमुपयान्ति स्म/ 197.005. यस्मिंश्च समये राजा चन्द्रप्रभो महायज्ञवाटं गच्छति, तस्मिन् समये प्राणिकोटीनियुतशतसहस्राण्यवलोकयन्ति, एवं चाहुह्--देवगर्भो बतायं राजा चन्द्रप्तभ इह जमुद्वीपे राज्यं कारयति/ 197.007. न खलु मनुष्या ईदृग्वर्णसंस्थाना यादृशा देवस्य चन्द्रप्रभस्येति/ 197.008. राजा चन्द्रप्रभो येन येनावलोकयति, तेन तेन स्त्रीसहस्राण्यवलोकयन्ति--धन्यास्ताः स्त्रियो यासामेष भर्तेति/ 197.009. तच्च शुद्धैर्मनोभिर् नान्यथाभावात्/ 197.009. एवं दर्शनीयो राजा चन्द्रप्रभो बभूव/ 197.010. चन्द्रप्रभस्य राज्ञो ऽर्धत्रयोदशामात्यसहस्राणि/ 197.010. तेषां द्वौ अग्रामात्यौ महाचन्द्रो महीधरश्च/ 197.011. व्यक्तौ पण्डितौ मेधाविनौ गुणैश्च सर्वामात्यमण्डलप्रतिविशिष्टौ सर्वाधिकृतौ राजपरिकर्षकौ राजपरिपालकौ/ 197.012. अल्पोत्सुको राजा सर्वकर्मान्तेषु/ 197.013. महाचन्द्रश्चाग्रामात्यो ऽभीक्ष्णं जम्बुद्वीपकान् मनुष्यान् दशसु कुशलेषु कर्मपथेषु नियोजयति--इमान् भवन्तो जम्बुद्वीपका मनुष्या दश कुशलान् कर्मपथान् समादाय वर्तथेति/ 197.014. यादृशी च राज्ञश्चक्रवर्तिनो ऽववादानुशासनी, तादृशी महाचन्द्रस्यामात्यस्याववादानुशासनी बभूव/ 197.016. महाचन्द्रस्याग्रामात्यस्य राजा चन्द्रप्रभ इष्टश्चाभूत् प्रियश्च मनाअपश्च/ 197.016. अपीदानीं वर्णाकृतिलिङ्गसंस्थानमस्य निरीक्षमाणो न तृप्तिमुपयाति//

197.018. यावदपरेण समयेन महाचन्द्रेणाग्रामात्येन स्वप्नो दृष्टह्--राज्ञश्चन्द्रप्रभस्य धूमवर्णैः पिशाचैर्मौलिरपनीतः/ 197.019. प्रतिविबुद्धस्य चाभूद्भयम्, अभूच्छङ्कितत्वम्, अभूद्रोमहर्षह्--मा हैव देवस्य चन्द्रप्रभस्य शिरोयाचनक आगच्छेत्/ 197.020. देवश्च सर्वंददः/ 197.020. सर्वपरित्यागे नास्त्यस्य किंचिदपरित्यक्तं दीनानाथकृपणवनीपकयाचनकेभ्य इति/ 197.021. तस्य बुद्धिरुत्पन्ना--न मया राज्ञश्चन्द्रप्रभस्य स्वप्नो निवेदयितव्यः/ 197.022. अपि तु रत्नमयानि शिरांसि कारयित्वा कोषकोष्ठागारं प्रवेश्य स्थापयितव्यानि/ 197.023. यदि नाम कश्चिद्देवस्य शिरोयाचनक आगच्छेत्, तमेनमेभी रत्नमयैः शिरोभिः प्रलोभयिष्यामि/ 197.024. इति विदित्वा रत्नमयानि शिरांसि कारयित्वा कोषकोष्ठागरेषु प्रक्षिप्य स्थापितवान्/ 197.025. अपरेण समयेन महीधरेणाग्रामात्येन स्वप्नो दृष्टह्--सर्वरत्नमयः पोतश्चन्द्रप्रभस्य कुलस्थः शतशो विशीर्णः/ 197.026. दृष्ट्वा च पुनर्भीतस्त्रस्तः संविग्नह्--मा हैव राज्ञश्चन्द्रप्रभस्य राज्यच्युतिर्भविष्यति जीवितस्य चान्तरस्य चान्तराय इति/ 197.027. तेन ब्राह्मणा ये नैमित्तिका विपश्चिकाश्चाहूय उक्ताह्--भवन्तः, मयेदृशः स्वप्नो दृष्टः, निर्दोषं कुरुतेति/ 197.028. ततस्तैर्ब्राह्मणैर् नैमित्तिकैर्विपश्चिकैश्च समाख्यातम्--यादृशो ऽयं त्वया स्वप्नो दृष्टः, नचिरादेव राज्ञश्चन्द्रप्रभस्य शिरोयाचनक आगमिष्यति/ 197.030. स चास्यामेव भद्रशिलायां राजधान्यामवतरिष्यतीति/ 197.030. ततो महीधरो ऽग्रामात्यः स्वप्ननिर्देशं श्रुत्वा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--अतिक्षिप्रं राज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानित्यताबलं प्रत्युपस्थितमिति/ 197.032. अथापरेण समयेनार्धत्रयोदशाभिरमात्यसहस्रैह्<198> स्वप्नो दृष्टह्--राज्ञश्चन्द्रप्रभस्य चतुर्षु यज्ञवाटेषु करोटपाणिभिर्यक्षैश्चछत्रध्वजपताकाः पातिताः, सुवर्णभेर्यश्च भिन्नाः/

198.002. दृष्ट्वा च पुनर्भीतास्त्रस्ताः संविग्नाह्--मा हैव राज्ञश्चन्द्रप्रभस्य महापृथिवीपालस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानित्यताबलमागच्छेत्, मा हैव अस्माकं देवेन सार्धं नानाभावो भविष्यति विनाभावो विप्रयोगः, मा हैव अत्राणो ऽपरित्राणो जम्बुद्वीपो भविष्यतीति/ 198.005. राज्ञा चन्द्रप्रभेण श्रुतम्/ 198.005. तेन श्रुत्वा अष्टषष्टिनगरसहस्रेषु घण्टावघोषणं कारितम्--राजलीलया भवन्तः सर्वे जम्बुद्वीपका मानुष्याः क्रीडन्तु यावदहं जीवामि/ 198.007. किम् युष्माकं मायोपमैः स्वप्नोपमैश्चिन्तितैह्? राज्ञश्चन्द्रप्रभस्य घण्टावघोषणं श्रुत्वा सर्व एव जम्बुद्वीपका मनुष्या राजलीलया क्रीडितुमारब्धाः, वीणावोणुपणवसुघोषकवल्लरीभेरीमृदङ्गतालशङ्खसहस्रैस्तूर्यशब्दशतैश्च वाद्यमानैः केयूरहारमणिमुक्ताभरणकुण्डलधराः सर्वालंकारविभूषितप्रमदागणपरिवृताअ राजश्रियमनुभवन्ति स्म/ 198.010. तेन खलु समयेन जम्बुद्वीपकानां मनुष्याणां राजक्रीडया क्रीडताम् यश्च राज्ञश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां वल्गुर्मनोज्ञः शब्दो निश्चरति, तेन सर्वो जम्बुद्वीपो मनोज्ञशब्दनिर् नादितो ऽभूत्/ 198.013. तद्यथा देवानां त्रायस्त्रिंशानामन्यतरं देवपुरं नृत्तगीतवादितम्, एवमेव तस्मिन् काले तस्मिन् समये सर्वो जम्बुद्वीपनिवासी जनकायस्तेन गीतशब्देनैकान्तसुखसमर्पितो ऽत्यर्थं रमते//

198.016. तेन खलु समयेन गन्धमादने पर्वते रौद्राक्षो नाम ब्राह्मणः प्रतिवसति स्म इन्द्रजालविधिज्ञः/ 198.017. अश्रौषीद्रौद्राक्षो ब्राह्मणो भद्रशिलायां राजधान्यां चन्द्रप्रभो नाम राजा सर्वंददो ऽस्मीत्यात्मानं प्रतिजानीते/ 198.018. यन्न्वहं गत्वा शिरो याचेयमिति/ 198.018. तस्यैतदभवत्--यदि तावत् सर्वददो भविष्यति, मम शिरो दास्यति/ 198.019. अपि तु दुष्करमेतदस्थानमनवकाशो यदेवमिष्टं कान्तं प्रियं मनापमुत्तमाङ्गं परित्यक्ष्यति यदुत शीर्षम्, नेदं स्थानं विद्यते/ 198.021. इति विदित्वा गन्धमादनात् पर्वतादवतीर्णः/ 198.021. अथ गन्धमादननिवासिनी देवता विक्रोष्टुमारब्धा--हा कष्टं रज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य महाकारुणिकस्य सत्त्ववत्सलस्यानित्यताबलं प्रत्युपस्थितमिति/ 198.023. तेन खलु समयेन सर्वजम्बुद्वीप आकुलाकुलः, धूमान्धकारः, उपकापाताः, दिशोदाहाः, अन्तरीक्षे देवदुन्दुभयो ऽभिनदन्ति/ 198.024. भद्रशिलायां च राजधान्यां नातिदूरे पञ्चाभिज्ञो ऋषिः प्रैवसति विश्वामित्रो नांना पञ्चशतपरिवारो मैत्रात्मकः कारुणिकः सत्त्ववत्सलः/ 198.026. अथ स ऋषिः सर्वजम्बुद्वीपमाकुलं दृष्ट्वा माणवकानामन्त्रयते--यत्खलु माणवका जानीत सर्वजम्बुद्वीप एतर्ह्याकुलाकुलो धूमान्धकारः/ 198.027. सूर्याचन्द्रमसौ एवमहानुभावौ न भासतो न तपतो न विरोचतः/ 198.028. नूनं कस्यचिन्महापुरुषस्य निरोधो भविष्यति/ 198.028. तथा हि-- 198.029. रोदन्ति किन्नरगणा वनदेवताश्च धिक्कारमुत्सृजन्ति देवगणा पि न स्थुः/ 198.031. चन्द्रो न भाति न विभाति सहस्ररश्मिर् नैव वाद्यवादितरवो ऽपि निशाम्यते ऽत्र//1//

199.001. <199>एते हि पादपगणाः फलपुष्पनद्धा भूमौ पतन्ति पवनैरपि चालितानि/ 199.003. संश्रूयते ध्वनिरयं च यथातिभीमो व्यक्तो भविष्यति पुरे व्यसनं महान्तम्//2//

199.005. एते भद्रशिलानिवासनिरताः सर्वे सदुःखा जना अत्यन्तप्रतिशोकशल्यविहताः प्रस्पन्दकण्ठाननाः/ 199.007. एताश्चन्द्रनिभानना युवतयो रोदन्ति वेश्मोत्तमे सर्वे च प्ररुदन्ति तीव्रकरुणाः सन्तः श्मशाने यथा//3//

199.009. किं कारणं पुरनिवासिजनाः समग्राः संपिण्डितं मनसि दुःखमिदं वहन्ति/ 199.011. उत्क्रोशतामनिशमर्धकृताग्रहस्तैरैश्वर्यमप्रतिसमं निरुणद्धि वाचम्//4//

199.013. एते पयोदा विनदन्त्यतोया जलाश्रयाः शोकममी व्रजन्ति/ 199.015. भुवोरिवाम्भसि च बालसमीरणास्ता वाताः प्रवान्ति च खरा रजसा विमिश्राः//5//

199.017. अशिवानि निमित्तानि प्रवरणि हि साम्प्रतम्/ 199.018. क्षेमां दिशमतो ऽस्माकमितो गन्तुं क्षमो भवेत्//6//

199.019. अपि तु खलु माणवका राज्ञश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां न भूयो मनोज्ञः स्वरो निश्चरति/ 199.020. नूनं बत भद्रशिलायां महानुपद्रवो भविष्यतीति//

199.021. अथ रौद्रक्षो ब्राह्मणो भद्रशिलायां राजधान्यामनुप्राप्तः/ 199.021. ततो नगरविवासिनी देवता रौद्राक्षं ब्रह्मणं दूरादेव दृष्ट्वा येन राजा चन्द्रप्रभास्तेनोपसंक्रान्ता/ 199.022. उपसंक्रम्य राजानं चन्द्रप्रभमिदमवोचत्--यत्खलु देव जानीयाह्--अद्य देवस्य याचनक आगमिष्यति हिंसको विहेठको ऽवतारप्रेक्षी अवतारगवेषी/ 199.024. स देवस्य शिरो याचिष्यतीति/ 199.024. तद्देवेन सत्त्वानामर्थायात्मानं परिपालयितव्यमिति/ 199.025. अथ राजा चन्द्रप्रभः शिरोयाचनकमुपश्रुत्य प्रमुदितमना विस्मयोत्फल्लदृष्टिर्देवतामुवाच--गच्छ देवते, यद्यागमिष्यति, अहमस्य दीर्घकालाभिलषितं मनोरथं परिपूरयिष्यमीति/ 199.027. अथ सा देवता राज्ञश्चन्द्रप्रभस्य इदमेवम्रूपं व्यवसायं विदित्वा दुःखिनी दुर्मनस्का विप्रतिसारिणी तत्रैवान्तर्हिता/ 199.028. अथ राज्ञश्चन्द्रप्रभस्यैतदभवत्--किमत्राश्चर्यम् यदहमन्नमन्नार्थिभ्यो ऽनुप्रयच्छामि, पानं पानार्थिभ्यो वस्त्रहिरण्यसुवर्णमणिमुक्तादींस् तदर्थिभ्यः/ 199.030. यन्न्वहम् याचनकेभ्यः स्वशरीरमपि परित्यजेयमिति/ 199.030. ततो रौद्राक्षो ब्राह्मणो दक्षिणेन नगरद्वारेण प्रविशन् देवतया निवारितह्--गच्छ पापब्राह्मण, मा प्रविश/ 199.031. कथमिदानीं त्वम् <200>मोहपुरुष राज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानेकगुणसम्पन्नस्य जम्बुद्वीपपरिपालकस्यादूषिणो ऽनपकारिणः शिरश्छेत्स्यसि? रौद्रचित्त पापब्राह्मण, मा प्रविशेति/

200.003. यावदेतत् प्रकरणं राज्ञा चन्द्रप्रभेण श्रुतम्--याचनको मे नगरद्वारे देवतया विधार्यते इति/ 200.004. श्रुत्वा च पुनर्महाचन्द्रमग्रामात्यमामन्त्रयते--यत्खलु महाचन्द्र जानीयाह्--याचनको मे नगरद्वारि देवतया विधार्यते/ 200.005. गच्छ, शीघ्रं मत्सकाशमानयेति/ 200.005. एवं देवेति महाचन्द्रो ऽग्रामात्यो राज्ञश्चन्द्रप्रभस्य प्रतिश्रुत्य नगरद्वारं गत्वा तां देवतामुवाच--यत्खलु देवते जानीयाह्--प्रविशत्वेष ब्राह्मण, राजा चन्द्रप्रभ एनमाह्वापयत इति/ 200.007. ततो नगरनिवासिनी देवता महाचन्द्रमग्रामात्यमिदमवोचत्--यत्खलु महाचन्द्र जानीयाह्--एष ब्राह्मणो रौद्रचित्तो निष्कारुणिको राज्ञश्चन्द्रप्रभस्य विनाशार्थं भद्रशिलामनुप्राप्तः/ 200.009. किमनेन दुरात्मना प्रवेशितेन? एष मया देवते उपायश्चिन्तितो येनायं ब्राह्मणो न प्रभविष्यति देवस्य शिरो ग्रहीतुमिति/ 200.011. अथ महाचन्द्रो ऽग्रामात्यो रौद्राक्षं ब्राह्मणमादाय नगरं प्रविश्य रत्नधरानाज्ञापयति--आनीयन्तां भवन्तो रत्नमयानि शिरांसि/ 200.013. अस्मै ब्राह्मणाय दास्यामीति/ 200.013. भाण्डागारिकै रत्नमयानां शीर्षाणां राजद्वारे राशिः कृतः/ 200.014. महाचन्द्रेणाग्रामात्येन रौद्राक्षस्य रत्नमयानि शीर्षाण्युपदर्शितानि--प्रतिगृह्ण त्वं महाब्राह्मण प्रभूतानि रत्नमयानि शीर्षाणि/ 200.015. यावदाप्तं च ते हिरण्यसुवर्णमनुप्रयच्छामि, येन ते पुत्रपौत्राणां जीविका भविष्यति/ 200.016. किं ते देवस्य शीर्षेण मज्जाशिङ्घाणकवसादिपूर्णेनेति? एवमुक्ते रौद्राक्षो ब्राह्मणो महाचन्द्रमग्रामात्यमिदमवोचत्--न रत्नमयैर्मे शिरोभिः प्रयोजनम्/ 200.018. नापि हिरण्यसुवर्णेन/ 200.018. अपि

त्वहमस्य महापृथिवीपालस्य सर्वंददस्य सकाशमागतः शिरसो ऽर्थाय/ 200.019. एवमुक्ते महाचन्द्रमहीधरौ अग्रामात्यौ करे कपोलं दत्त्वा चिन्तापरौ व्यवस्थितौ--किमिदानीं प्राप्तकालमिति/ 200.020. अथैतद्वृत्तान्तमुपश्रुत्य राजा चन्द्रप्रभो महाचन्द्रमहीधरौ अग्रामात्यौ दूरेण प्रक्रोश्यैतदवोचत्--आनीयतामेष मत्समीपम्/ 200.021. अहमस्यैवं मनोरथं पूरयिष्यामीति/ 200.022. एवमुक्ते महाचन्द्रमहीधरौ अग्रामात्यौ साश्रुदुर्दिनवदनौ करुणकरुणं परिदेवमानौ अभिरुद्य देवस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलास्यानेकगुणसमुदितस्य ज्ञानकुशलस्य दिव्यचक्षुषो ऽनित्यताबलं प्रत्युपस्थितम्, अद्यास्माकं देवेन सार्धं नानाभावो भविष्यति विनाभावो विप्रयोगो विसम्योगः/ 200.025. इति विदित्वा राज्ञः पादयोर् निपत्य एकान्ते निषण्णौ/ 200.025. अथ राजा चन्द्रप्रभः परमत्यागप्रतिविशिष्टं त्यागं परित्यकुकामो दूरत एव तं ब्राह्मणमामन्त्रयते--एहि त्वं ब्राह्मण, यच्छताम् यत् प्रार्थयसे तद्गृहाणेति/ 200.027. अथ रौद्राक्षो ब्राह्मणो येन राजा चन्द्रप्रभस्तेनोपसंक्रान्तः/ 200.028. उपसंक्रम्य राजानं चन्द्रप्रभं जयेनायुषा च वर्धयित्वा राजानं चन्द्रप्रभमिदमवोचत्-- 200.029. धर्मे स्थितो ऽसि विमले शुभबुद्धिसत्त्व सर्वज्ञतामभिलषन् हृदयेन साधो/ 200.031. मह्यं शिरः सृज महाकरुणाग्रचेता मह्यं ददस्व मम तोषकरो भवाद्य//7//

201.001. <201>अथ राजा चन्द्रप्रभो ब्राह्मणस्यान्तिकादिदमेवम्रूपं वाक्प्रव्याहारं श्रुत्वा प्रमुदितमनाः प्रीतिविस्फारिताक्षो रौद्राक्षं ब्राह्मणमुवाच--हन्तेदं ब्राह्मण शिरो ऽविघ्नतः साधु प्रगृह्यतामुत्तमाङ्गमिति/ 201.003. आह च-- 201.004. प्रियो यथा यद्यपि चैकपुत्रकस्तथापि मे खर्पमिदं गृहाण/ 201.006. त्वच्चिन्तितानां फलमस्तु शीघ्रं शिरःप्रदानाद्धि लभेय बोधिम्//8//

201.008. इत्युक्त्वा स्वयमेव स्वशिरसो मौलिमपनीतवान्/ 201.008. यदा च राजा चन्द्रप्रभेण शिरसो मौलिरपनीतः, तत्समनन्तरमेव सर्वेषां जम्बुद्वीपकानां मनुष्याणां मौलयः पतिताः/ 201.010. भद्रशिलायां च राजधान्यां चतुर्दिशमुल्कापाता दिशोदाहाश्च प्रादुर्भूताः/ 201.010. नगरदेवताभिश्च शब्दो निश्चारितह्--अस्य राज्ञश्चन्द्रप्रभस्य पापब्राह्मणो शिरश्छेत्स्यतीति/ 201.011. तच्छ्रुत्वा महाचन्द्रमहीधरौ अग्रामात्यौ राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं शरीरपरित्यागं विदित्वा साश्रुदुर्दिदवदनौ राज्ञश्चन्द्रप्रभस्य पादौ परिष्वज्याहतुह्--धन्यास्ते पुरुषा देव य एवमत्यद्भुतरूपदर्शनं वा द्रक्ष्यन्तीरि/ 201.014. तौ अभिमुखमुद्वीक्ष्यमाणौ राजनि चन्द्रप्रभे चित्तमभिप्रसाद्य रौद्राक्षे च ब्राह्मणे मैत्र्यचित्तमुत्पाद्य नावां शक्ष्यामो निरुपमगुणाधारास्य देवस्यानित्यतां द्रष्टुमिति तस्मिन्नेव मुहूर्ते कालगतौ/ 201.016. कामधातुमतिक्रम्य ब्राह्मलोकमुपपन्नौ/ 201.016. राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं व्यवसायं बुद्ध्वा तां च नगरनिवासिनीनां देवतानामार्तध्वनिमुपश्रुत्य भौमा यक्षा अन्तरिक्षचराश्च यक्षाः क्रिन्दितुमारब्धाह्--हा कष्टमिदानीं राज्ञश्चन्द्रप्रभस्य शरीरनिक्षेपो भविष्यतीति//

201.019. अत्रान्तरे च राजकुलद्वारे ऽनेकानि प्रणिशतसहस्राणि संनिपतितान्यभूवन्/ 201.019. ततो रौद्राक्षो ब्राह्मणस्तं महाजनकायमवेक्ष्य शिरो ग्रहीतुम्/ 201.021. यदि च ते शिरः परित्यक्तम्, एकान्तं गच्छाव इति/ 201.022. एवमुक्ते राजा चन्द्रप्रभो रौद्राक्षं ब्राह्मणमवोचत्--एवं महाब्राह्मण क्रियताम्/ 201.023. ऋद्ध्यन्तां तव संकल्पाः, परिपूर्यन्तां मनोरथा इति/ 201.023. अथ राजा चन्द्रप्रभो राजा आसनादुत्थाय तीक्षणमसिमादाय येन मणिरत्नगर्भमुद्यानं तेनोपसंक्रान्तः/ 201.024. अथ राजा चन्द्रप्रभस्य इदमेवम्रूपं व्यवसायं दृष्ट्वा भद्रशिलायां राजधान्यामनेकानि प्राणिशतसहस्राणि विक्रोशमानानि पृष्ठतः पृष्ठतः समनुबद्धानि/ 201.026. सो ऽद्राक्षीद्राजा चन्द्रप्रभो महाजनसंनिपातं विक्रोशान्तम्/ 201.026. दृष्ट्वा च पुनः समाश्वासयन्नाह--अप्रमादः करणीयः कुशलेषु धर्मोष्विति/ 201.027. संक्षेपेण धर्मदेशनां कृत्वा रौद्राक्षं ब्राह्मणमादाय मणिरत्नगर्भमुद्यानं प्रविष्टः/ 201.028. समनन्तरप्रविष्टस्य राज्ञश्चन्द्रप्रभस्य मणिरत्नगर्भ उद्याने भद्रशिलायां छत्राणि ध्वजपताकाश्च येन मणिरत्नगर्भमुद्यानं तेनावनामिताः/ 201.029. ततो राजा चन्द्रप्रभो मणिरत्नगर्भस्योद्यानस्य द्वारं पिधाय तं तं रौद्राक्षं ब्राह्मणमामन्त्रयते--प्रतिगृह्यतां ब्राह्मण ममोत्तमाङ्गमिति/ 201.031. एवमुक्ते रौद्राक्षो ब्राह्मणो राजानं चन्द्रप्रभमुवाच--नाहं शक्ष्यामि देवस्य शिरश्छेत्तुमिति/ 201.032. मणिरत्नगर्भस्य चोद्यानस्य मध्ये कुरबकः/ 201.032. तत्र सर्वकालिकश्चम्पकवृक्षो<202> जातः/

202.001. ततो राजा चन्द्रप्रभस्तीक्ष्णमसिं गृहीत्वा येन सर्वकालिकश्चम्पकवृक्षस्तेनोपसंक्रान्तः/ 202.002. अथ या देवतास्तस्मिन्नुद्याने ऽध्यवसिताः, ता राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं स्वशरीरपरित्यागं विदित्वा विक्रोष्टुमारब्धाः/ 202.003. एवं चाहुह्--कथमिदानीं त्वं पापब्राह्मण राज्ञश्चन्द्रप्रभस्यादूषिणो ऽनपकारिणो महाजनवत्सलस्यानेकगुणसम्पन्नस्य शिरश्छेत्स्यसीति? ततो राजा चन्द्रप्रभ उद्यानदेवता निवारयति--मा देवता मम शिरोयाचनकस्यान्तरायं कुरुत/ 202.006. तत्कस्य हेतोह्? भूतपूर्वं देवता ममोत्तमाङ्गम् याचनकस्य देवताया अन्तरायः कृतः/ 202.007. तया देवतया बहु अपुण्यं प्रसूतम्/ 202.007. तत्कस्य देतोह्? यदि तया देवतया अन्तरायो न कृतो ऽभविष्यत्, मया लघु लघ्वेवानुत्तरज्ञानमधिगतमभविष्यत्/ 202.008. अतश्च त्वामहमेवं ब्रवीमि--मा मे त्वमुत्तमाङ्गयाचनकस्यान्तरायं कुरुष्वेति/ 202.009. अस्मिन्नेव ते मणिरत्नगर्भ उद्याने मया सहस्रशः शिरःपरित्यागः कृतः, न च मे केनचिदन्तरायः कृतः/ 202.010. तस्मात् त्वं देवते ममोत्तमाङ्गयाचनकस्यान्तरायं मा कुरु/ 202.011. एष एव देवते स पृष्ठीभूतो मैत्रेयो यो व्याघ्र्या आत्मानं परित्यज्य चत्वारिंशत्कल्पसम्प्रस्थितो मैत्रेयो बोधिसत्त्व एकेन शिरःपरित्यागेनावपृष्ठीकृतः/ 202.013. अथ सा देवता राज्ञश्चन्द्रप्रभस्य महर्द्धितामवेत्य तस्मिन् राजनि परं प्रसादं प्रवेदयन्ती तूष्णीमवस्थिता/ 202.014. अथ राजा चन्द्रप्रभः सम्यक्प्रणिधानं कर्तुमारब्धह्--शृण्वन्तु भवन्तः, ये दशादिक्षु स्थिता देवतासुरगरुडगन्धर्वकिन्नरा अध्युषिताः, इहाहमुद्याने त्यागं करिष्यामि,

अस्मिंस् त्यागं स्वशिरःपरित्यागम् येन चाहं सत्येन स्वशिरः परित्यजामि, न राज्यार्थाय न स्वर्गार्थाय न भोगार्थाय न शक्रत्वाय न ब्रह्मत्वाय न चक्रवर्तिविजयाय नान्यत्र कथमहमनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्ध्य अदान्तान् सत्त्वान् दमयेयम्, अशान्ताञ् शमयेयम्, अतीर्णांस्तारयेयम्, अमुक्तान् मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्/ 202.020. अनेन सत्येन सत्यवचनेन सफलः परिश्रमः स्यात्, परिनिर्वृतास्य च सर्षपफलप्रमाणधातवो भवेयुः, अस्य च मणिरत्नगर्भस्योद्यानस्य मध्ये महान् स्तूपः स्यात् सर्वस्तूपप्रतिविशिष्टः/ 202.022. ये च सत्त्वाः शान्तकाया महाचैत्यं वन्दितुकामा गच्छेयुः, ते तं सर्वस्तूपप्रतिविशिष्टं धातुपरं दृष्ट्वा विश्रान्ता भवेयुः/ 202.023. परिनिर्वृतस्यापि मम चैत्येषु, जनकाया आगत्य कारां कृत्वा स्वर्गमोक्षपरायाणा भवेयुरिति/ 202.024. एवं सम्यक् प्रणिधानं कृत्वा तस्मिंश्चम्पकवृक्षे शिखां बद्ध्वा रौद्राक्षं ब्राह्मणमुवाच--आगच्छ महाब्राह्मण, प्रतिगृह्यताम्/ 202.026. मा मे विघ्नं कुरुष्वेति/ 202.027. ततो राजा चन्द्रप्रभ आत्मनः कायस्य स्थाम च बलं च संजन्य तस्मिंश्च ब्राह्मणे करुणासहगतं मैत्रचित्तमुत्पाद्य शिरशिछत्त्वा रौद्राक्षाय ब्राह्मणाय निर्यातितवान्/ 202.028. कालं च कृत्वा अतिक्रम्य ब्रह्मलोकं प्रणीतत्वाच्छुभकृत्स्ने देवनिकाये उपपन्नः/ 202.029. समनन्तरपरित्यक्ते राज्ञा चन्द्रप्रभेण शिरसि अयं त्रिसाहस्रमहासाहस्रो लोकधातुस् त्रिः कम्पितः संकम्पितः संप्रकम्पितः, चलितः संचलितः संप्रचलितः, व्यधितः प्रव्याधितः संप्रव्याधितः/ 202.031. गगनतलस्थाश्च

देवता दिव्यान्युत्पलानि क्षेप्तुमारब्धाः, पद्मानि कुमुदानि पुण्डरीकान्यगरुचूर्णानि तगरचूर्णानि चन्दनचूर्णानि तमालपत्राणि दिव्यानि <203>मान्दारवाणि पुष्पाणि, दिव्यानि च वाद्यानि प्रवादयित्मारब्धाः, चैलविक्षेपांश्च चाकर्षुः/

203.002. ततो रौद्राक्षो ब्राह्मणः शिरोग्रहायोद्यानान्निर्गतः/ 203.002. अथास्मिन्नन्तरे ऽनेकैः प्राणिशतसहस्रैर् नादो मुक्तह्--हा कष्टम्/ 203.003. प्रघातितो देवः सर्वजनमनोरथपरिपूरक इति/ 203.003. तत एकत्याः पृथिव्यामावर्तन्ते परिवर्तन्ते, एके बाहुभिः प्रक्रोशन्ति, काश्चित् प्रकीर्णकेश्यो रुदन्ति/ 203.004. अनेकानि च प्राणिशतसहस्राणि संनिपतितानि/ 203.005. तत एकत्यास्तस्मिन्नेव प्रदेशे स्थित्वा ध्यानान्युत्पाद्य तत्रैव कालं कृत्वा शुभकृत्स्ने देवनिकाये उपपन्ना राज्ञश्चन्द्रप्रभस्य सभागतायाम्/ 203.006. अपरे ध्यानान्युत्पाद्य तत्रैव कालं कृत्वा भास्वरे देवनिकाये उपपन्नाः/ 203.007. अपरे प्रथमध्यानमुत्पाद्य कालं कृत्वा ब्रह्मलोकसभागतायामुपपन्नाः/ 203.008. अपरैः संनिपात्य राज्ञश्चन्द्रप्रभस्य शरीरं सर्वगन्धकाष्ठैश्चितां चित्वा, ध्मापितानि च अस्थीनि सौवर्णकुम्भे प्रक्षिप्य, चतुर्महापथे शरीरस्तूपः प्रतिष्टापितः/ 203.010. छत्रध्वजपताकाश्चारोपिताः/ 203.010. गन्धैर्माल्यैर्धूपैर्दीपैः पुष्पैः पूजां कृत्वा चन्द्रप्रभे राजनि स्वचित्तमभिप्रसाद्य कालगताः षट्सु देवनिकायेषु कामावचरेषु देवेषूपपन्नाः/ 203.012. यैश्च तत्र काराः कृताः, सर्वे ते स्वर्गमोक्षपरायणाः संवृत्ता इति//

203.013. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा अन्या सा तेन कालेन समयेनोत्तरापथे भद्रशिला नाम राजधान्यभूदिति/ 203.014. न खलु एवं द्रष्ट्व्यम्/ 203.014. तत्कस्य हेतोह्? एषैव सा तक्षशिला तेन कालेन तेन समयेन भद्रशिला नाम राजधानी बभूव/ 203.015. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेनोत्तरापथे भद्रशिला नाम राजधान्यभूदिति/ 203.014. न खलु एवं द्रष्टव्यम्/ 203.014. तत्कस्य हेतोह्? एषैव सा तक्षशिला तेन कालेन तेन समयेन भद्रशिला नाम राजधानी बभूव/ 203.015. स्यात्खलु युष्माकं भिक्षुवः काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेन चन्द्रप्रभो नाम राजाभूदिति/ 203.017. न खलु एवं द्रष्टव्यम्/ 203.017. तत्कस्य हेतोह्? अहमेव तेन कालेन तेन समयेन राजा चन्द्रप्रभो बभूव/ 203.018. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन रौद्राक्षो नाम ब्राह्मणो ऽभूदिति/ 203.019. न खल्वेवं द्रष्टव्यम्/ 203.019. तत्कस्य हेतोह्? एष एव स तेन कालेन तेन समयेन देवदत्तो बभूव/ 203.020. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यौ तौ तेन समयेन महाचन्द्रमहीधरौ अग्रामात्यौ बभूवतुरिति/ 203.020. न खल्वेवं द्रष्टव्यम्/ 203.022. तत्कस्य हेतोह्? एतावेव महाचन्द्रमहीधरौ अग्रामात्यौ शारिपुत्रमौद्गल्यायनौ बभूवतुः/ 203.023. तदाप्येतौ तत्प्रथमतः कालगतौ, न त्वेव पुतृमरणमारागितवन्तौ इति//

203.024. इदमवोचद्भगवान्/ 203.024. आत्तमनसस्ते भिक्षवो ऽन्ये च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्//

203.026. चन्द्रप्रभबोधिसत्त्वचर्यावदानं नाम द्वाविंशतिमम्/

after this, ṃss. add:

तथा च चन्द्रप्रभभूपतिर्भूते मणिकनकरजतवैड्र्रुयेन्द्रनीलादिद्रविणवसनयानभोजनालांकारग्रामनगरनिगमविषयराज्यादयो राज्यरथसुतकलत्रमांसरुधिरकरचरणशिरोक्षिग्रीवादिसर्वपरित्यागमन्तरेण दुर्गतिजननमरणजराकरचरणकरणविकलताप्रियवियोगादितरदुःखोपनिपातभयाभिहतजनपरित्राणकरणसमर्था सकलभुवनाधिपत्याभिषेकमहती गाथाधुनी गुणसमृद्धिर् न शक्यते ऽधिगन्तुमिति कारुण्यादशेषजगद्दुःखोपशमकृतनिश्चयह् प्रणतसकलसामन्तचूडामणिमयूखाविच्छुरितपादपीठह् तुरगगजरथवस्त्रालंकारादिपरित्यागेन परीपूरितनिरवशेषजाम्बूद्वीपकजनमनोरथह् सकलजनमनोनयनहारी शिरः परित्यक्तवान्/ कथमित्येवमनुश्रूयते इति//

********** अवदान 23 **********

204.001. दिव्23 सङ्घरक्सितावदानम्/

204.002. किं महाल्लेनाधिगतम्? एकोत्तरिका/ 204.002. अयं तावत् खुस्तिकया एकोत्तरिकया धर्मं देशयति--अमी भिक्षवो धर्मकथिका युंक्तमुत्कमुक्तप्रतिभानाः/ 204.003. कस्मान्नैतानध्येषयसि? स तैरभिहितह्--महल्ल, किं त्वया अधिगतम्? स कथयति--एकोत्तरिका/ 204.004. ते कथयन्ति--त्वं तावन्महल्ल खुस्तिकया एकोत्तरिकया धर्मं देशयसि/ 204.005. अमी भिक्षवस्तृपिता धर्मकथिका युक्तमुक्तप्रतिभानाः/ 204.006. कस्मान्नैतानध्येषयसि? स कथयति--आर्याः, यूयं कस्यार्थे न देशयत? किमहं निवारयामीति? ते कथयन्ति--नन्दोपनन्द, प्रतिवदत्येषो ऽस्माकं महल्लः/ 204.007. कुरुत अस्योत्क्षेपणीयं कर्म/ 204.008. स संलक्षयति--यदि मे उत्क्षेपणीयं कर्म करिष्यन्ति, नागभवने ऽप्यहमवकाशं न लप्स्ये/ 204.009. स तेषां शयितकानां तं विहारमन्तर्हापयित्वा महासमुद्रं प्रविष्टः/ 204.009. ते वालुकास्थले शयितकास्तिष्ठन्ति/ 204.010. नन्दोपनन्द, उत्तिष्ठ सिंहासनं प्रज्ञापय, धर्मं देशयामः/ 204.010. ते कथयन्ति--को ऽप्यसौ देवो वा नागो वा यक्षो वा भगवत्यभिप्रसन्नो बुद्धे धर्मे संघे कारान् कुर्वन्, सो ऽस्माभिर्विहेठितः/ 204.012. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति/ 204.012. भगवानाह--यो ऽसौ भिक्षवो निर्मितो यदि षड्वर्गिकैर्भिक्षुभिर् न विहेठितो ऽभविष्यत्, यावच्छासनकोटिमुद्धाटको बुद्धे धर्मे संघे कारानकरिष्यत्/ 204.014. भगवान् संलक्षयति--यः कश्चिदादीनवो भिक्षवः, अनधीष्टो धर्मं देशयति, तस्मान्न भिक्षुणा^नधीष्टेन धर्मो देशयितव्यः/ 204.015. भिक्षुरनधीष्टो धर्मं देशयति, सातिसारो भवति/ 204.016. अनापत्तयस्तन्मुखिकया निर्गता भवन्ति//

204.017. श्रावस्त्यां बुद्धरक्षितो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः/ 204.017. तेन सदृशात् कुलात् कलत्रमानीतम्/ 204.018. स तया सार्धं क्रीडते रमते परिचारयति/ 204.018. तस्य क्रीडतो रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता/ 204.019. आयुष्माञ् शारिपुत्रो वैनेयापेक्षया तत्कुलमुपसंक्रान्तः/ 204.020. तेन स गृहपतिः सपत्नीकः शरणगमनशिक्षापदेषु प्रतिक्ष्ठापितः/ 204.020. अपरेण समयेन सा तस्य पत्नी आपन्नसत्त्वा सवृत्ता/ 204.021. आयुष्माञ् शारिपुत्रस्तस्य च वैनेयकालं ज्ञात्वा एकाक्येव तत् कुलमुपसंक्रान्तः/ 204.022. स गृहपतिः कथयति--नास्त्यार्यशारिपुत्रस्य कश्चित् पश्चाच्छ्रमणह्? स कथयति--गृहपते, किमस्माकं काशधानाद्वा कुशधानाद्वा पश्चाच्छ्रमणा भवन्ति? अपि तु ये भवद्विधानां सकाशाल्लभ्यन्ते, अस्माकं ते पश्चाच्छ्रमणा भवन्ति/ 204.025. बुद्धरक्षितो गृहपतिह्--आर्य, मम पत्नी आपन्नसत्त्वा संवृत्ता/ 204.025. यदि पुत्रं जनयिष्यति, तमहमार्यस्य पश्चाच्छ्रमणं दास्यामि/ 204.026. स कथयति--गृहपते, औपयिकम्//

204.027. सा अष्टानां वा नवानां वा मासानाम् {अत्ययात्} प्रसूता/ 204.027. दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः/ 204.029. तस्य ज्ञातयः संगम्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नाम? अयं दारको बुद्धरक्षितस्य गृहपतेः पुत्रः/ 204.031. भवतु दारकस्य संघरक्षितो नाम/ 204.031. यस्मिन्नेव दिवसे संघरक्षितो जातः, तस्मिन्नेव दिवसे पञ्चानां वणिक्शतानां पञ्च पुत्रशतानि जातानि/ 204.032. तेषामपि कुलसदृशानि <205>नामधेयानि व्यवस्थापितानि/

205.001. संघरक्षितो दारक उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः/ 205.002. आशु वर्धते ह्रदस्थमिव पङ्कजम्/ 205.003. यदा महान् समृत्तः, तदा आयुष्माञ् शारिपुत्रस्तस्य वैनेयकालं ज्ञात्वा एकाक्येव तत्कुलमुपसंक्रम्य निमित्तमुपदर्शयितुमारब्धः/ 205.004. बुद्धरक्षितेन गृहपतिना संघरक्षितो ऽभिहितह्--पुत्र, अजात एव त्वं मया आर्यशारिपुत्रस्य पश्चाच्छ्रमणो दत्त इति/ 205.006. चरमभविकः स आयुष्मता शारिपुत्रेण प्रव्राजित उपसम्पादित आगमचतुष्टयं च ग्राहितः//

205.007. अथापरेण समयेन तानि पञ्च वणिक्शतानि महासमुद्रगमनीयं पण्यं समुदानीय महासमुद्रमवतर्तुकामानि कथयन्ति--किंचिद्वयं भवन्त आर्यकमवतारयाम यो ऽस्माकं महासौद्रमध्यगतानां धर्मं देशयिष्यति/ 205.009. ते कथयति--भवन्तः, अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः/ 205.010. एतमेवावतारयामः/ 205.010. ते तस्य सकाशमुपसंक्रान्ताः/ 205.010. आर्य संघरक्षित, त्वमस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः/ 205.011. वयं च महासमुद्रं संप्रस्थिताः/ 205.012. त्वमप्यस्माभिः सार्धमवतर, समुद्रमध्यगतानां धर्मं देशयिष्यसि/ 205.012. स कथयति--नाहं स्वाधीनः/ 205.013. उपाध्यायमवलोकयत/ 205.013. ते येनायुष्माञ् शारिपुत्रस्तेनोपसंक्रान्ताः/ 205.013. उपसंक्रम्य कथयन्ति--आर्य शारिपुत्र, अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः/ 205.014. वयं महासमुद्रं संप्रस्थिताः/ 205.015. एषो ऽप्यस्माभिः सार्धमवतरतु, अस्माकं महासमुद्रमध्यगतानां धर्मं देशयिष्यति/ 205.016. स कथयति--भगवन्तमवलोकयत/ 205.016. ते भगवतः सकाशमुपसंक्रान्ताः/ 205.016. भगवन्, वयं महासमुद्रं संप्रस्थिताः/ 205.017. अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः/ 205.018. एषो ऽप्यस्माभिः सार्धं महासमुद्रमवतरतु/ 205.018. अस्माकं महासमुद्रमध्यगतानां धर्मं देशयिष्यति/ 205.019. भगवान् संलक्षयति--अस्त्येषां कानिचित् कुशलमूलानि? अस्ति/ 205.019. कस्यान्तिके प्रतिबुद्धानि? संघरक्षितस्य भिक्षोः/ 205.020. तत्र भगवान् संघरक्षितमामन्त्रयते--गच्छ संघरक्षित, भयभैरवसहिष्णुना भवितव्यम्/ 205.021. अधिवासयत्यायुष्मान् संघरक्षितो भगवतस्तूष्णीभावेण//

205.023. अथ तानि पञ्च वणिक्शतानि कृतकौतुकमङ्गलस्वस्त्ययनानि शक्टैर्भारैर्मूढैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं पण्यमारोप्य महासमुद्रं संप्रस्थितानि/ 205.025. ते निपुणतः समुद्रयानपात्रं प्रतिपद्य महासमुद्रमवतीर्णा धनहारकाः/ 205.026. तेषां महासमुद्रमध्यगतानां नागैर्वहनं विधारितम्/ 205.027. ते देवतायाचनं कर्तुमारब्धाह्--यो ऽस्मिन् महासमुद्रे देवो वा नागो वा यक्षो वा प्रतिवसति, स आचक्षतु किं मृगयतीति/ 205.028. महासमुद्राच्छब्दो निश्चरति--आर्यसंघरक्षितमस्माकमनुप्रयच्छथेति/ 205.029. ते कथयति--आर्यसंघरक्षितो ऽस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनको भदन्तशारिपुत्रेणानुप्रदत्तको भगवतानुपरीतकः/ 205.030. श्रेयो ऽस्माकमनेनैव सार्धं कालत्रिया, न त्वेन वयं संघरक्षितं परित्यक्ष्यामः/ 205.031. ते मन्त्रयन्ते आयुष्मता संघरक्षितेन श्रुताः/ 205.032. स कथयति--भवन्तः, किं कथयन्ते? कथयन्ति--आर्य संघरक्षित महासमुद्राच्छब्दो <206>निश्चरितह्--आर्यसंघरक्षितमस्माकमनुप्रयच्छथेति/

206.001. स कथयति--कस्मान्नानुप्रयच्छध्वम्? ते कथयन्ति--आर्य, त्वमस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः/ 206.002. भदन्तशारिपुत्रेणानुप्रदत्तको भगवतानुप्रदत्तकः/ 206.003. श्रेयो ऽस्माकं त्वयैव सार्धं कालक्रिया/ 206.003. न त्वेव वयमार्य संघरक्षित त्वां परित्यक्ष्यामः/ 206.004. आयुष्मान् संघरक्षितः संलक्षयति--यदुक्तं भगवता भयभैरवसहिष्णुना ते भवितव्यमितीदं तत्/ 206.005. स पात्रचीवरं गृहीत्वा आत्मानं महासमुद्रे प्रक्षेप्तुमारब्धः/ 206.006. स तैर्दृष्टः/ 206.006. ते कथयन्ति--आर्यसंघरक्षित किं करोषि, आर्यसंघरक्षित किं करोषीति/ 206.006. स तेष विक्रोशतां महासमुद्रे प्रपतितः/ 206.007. मुक्तं तद्वहनम्/ 206.007. स नागैर्गृहीत्वा नागभवनं प्रवेशितः//

206.008. आर्य संघरक्षित, इयं विपश्यितः सम्यक्सम्बुद्धस्य गन्धकुटी/ 206.008. इयं शिखिनो विश्वभुवः क्रकुच्छन्दस्य कनकमुनेः काश्यपस्येयं भगवतो गन्धकुटी/ 206.009. आर्य संघरक्षित, भगवतः सूत्रं मातृका च देवमनुष्येषु प्रतिष्ठितम्/ 206.010. वयं नागा विनिपतितशरीराः/ 206.010. अहो बत, आर्यः संघां रक्षित इहाप्यागमचतुष्टयं प्रतिष्ठापयेत्/ 206.011. स कथयति--एवं भवतु/ 206.011. तेन त्रयो नाग्कुमारा उत्साहिताः/ 206.012. एको ऽभिहितह्--त्वं तावत् सम्युक्तकमधीष्व/ 206.012. द्वितीयो ऽभिहितह्--त्वमपि मध्यमम्/ 206.013. तृतीयो ऽभिहितह्--त्वमपि दीर्घममधीष्व/ 206.013. स कथयति--अहमपि तामेवैकोत्तरिकां विमृष्टरूपां प्रज्वालयामि/ 206.014. ते ऽध्येतुमारब्धाः/ 206.014. तत्रैकश्चक्षुषी निमीलियत्वोद्वेशं गृह्णाति, द्वितीयः पृष्ठतोमुख उद्देशं गृह्णाति, तृतीयो दूरतः स्थित्वोद्देशं गृह्णाति/ 206.015. स एव तेषामेकः सगौरवः सप्रतीश इति करणीयैश्च सर्वत्र पूर्वंगमः/ 206.016. आर्य उत्तिष्ठ, दन्तकाष्ठ, दन्तकाष्ठं विसर्जय, भगवतो मण्डलकमामार्जय, चैत्याभिवन्दनं कुरु, भुङ्क्ष्व, शय्यां कल्पयेति/ 206.017. सर्वैस्तैरागमान्यधीतानि/ 206.018. स कथयति--आर्य, अधीतान्येभिरागमानि/ 206.018. किं धारयिष्यन्ति आहोस्विन्नधारयिष्यन्ति? स कथयति--स्मृतिमत्तका ह्येते धारयिष्यन्ति, अपि तु दोषो ऽस्त्येषाम्/ 206.019. स कथयति--आर्य, को दोषह्? सर्वे ह्येते ऽगौरवा अप्रतीशाः/ 206.020. एकस्तावच्चक्षुषी निमीलयित्वोद्वेशं गृह्णाति, द्वितीयः पृष्टतोमुख उद्देशं गृह्णाति, तृतीयो दूरतः स्थित्वोद्देशं गृह्णाति/ 206.021.

त्वमेवैकः सगौरवः सप्रतीश इति करणीयैश्च सर्वत्र पूर्वंगमः/ 206.022. स कथयति--आर्य, न ह्येते ऽगौरवा अप्रतीशाः/ 206.023. यस्तावदयं चक्षुषी निमीलयित्वोद्देशं गृह्णाति, अयं दृष्टिविषः/ 206.023. यो ऽप्ययं पृष्ष्ठतोमुख उद्देशं गृह्णाति, एषो ऽपि श्वासविषः/ 206.024. यो ऽप्येष दूरतः स्थित्वोद्देशं गृह्णाति, एषो ऽपि स्पर्शविषः/ 206.025. अहमेको दंष्ट्राविषः/ 206.025. स भीत उत्पाण्डूत्पाण्डुकः कृशालुको दुर्बलको म्लानको ऽप्राप्तकायः संवृत्तः/ 206.026. स कथयति--आर्य, कस्मात् त्वमुत्पाण्डूत्पाण्डुकः कृशालुको दुर्बलको म्लानको ऽप्राप्तकायः संवृत्तह्? स कथयति--भद्रमुख, अमित्रमध्ये ऽहं वासं कल्पयामि/ 206.028. सचेत् युष्माकमन्यतमो ऽन्यतमं प्रकुप्येत, मां नामावशेषं कुर्यात्/ 206.028. स कथयति--आर्यास्य वयं न प्रहरामः/ 206.029. अपि तु इच्छसि त्वं जम्बुद्वीपं गन्तुम्? भद्रमुख, इच्छामि/ 206.030. तच्च वहनमागतम्/ 206.030. स तैरुत्क्षिप्तः//

206.031. विणिग्भिर्दृष्टः/ 206.031. ते कथयन्ति--स्वागतमार्यसंघरक्षिताय/ 206.031. स कथयति--अनुमोदन्तां भवन्तः/ 206.032. मया नागोष्वागमचतुष्टयं प्रतिष्ठापितम्/ 206.032. ते कथयन्ति--आर्य संघरक्षित, अनुमोदयामह्<207>/

207.001. ते तं वहने प्रक्षिप्य संप्रस्थिताः/ 207.001. ते ऽनुपूर्वेण समुद्रतीरं गत्वा सर्वे ते वणिजः शयिताः/ 207.002. आयुष्मान् संघरक्षितो महासमुद्रं द्रष्टुमारब्धः/ 207.002.उक्तं भगवता--पञ्चसेचनका दर्शनेन/ 207.004. हस्तिनागश्च राजा च सागरश्च शिलोच्चयः/ 207.005. असेचनका दर्शनेन बुद्धश्च भगवतां वरः//1// इति/ 207.006. चिरं महासमुद्रं पश्यञ् जागरितः/ 207.006. सो ऽपश्चिमे यामे गढनिद्रावष्टब्धः शयितः/ 207.007. ते ऽपि वणिजः सरात्रमेवोत्थाय स्थोराम्ल्लर्दयित्वा संप्रस्थिताः/ 207.007. ते कथयन्ति प्रभातायां रजन्याम्--कुत्रायं संघरक्षितह्? तत्रैक एवमाहुह्--पुरस्ताद्गच्छति/ 207.009. अपर एवमाहुह्--पृष्ठत आगच्छति/ 207.009. ते कथयन्ति--आर्यसंघरक्षितो ऽस्माभिश्छोरितः/ 207.010. न शोभनमस्माभिः कृतम्/ 207.010. प्रतिनिवर्तयामः/ 207.010. आर्यसंघरक्षितो भवन्तो महर्द्धिको महानुभावो यः समुद्रमध्ये न कालगतः/ 207.011. स इदानीं कालं करिष्यति? स्थानमेतद्विद्यते यदसौ अग्रत एव यास्यति/ 207.012. आगच्छत, गमिष्यामः/ 207.012. ते संप्रस्थिताः//

207.013. आयुष्मानपि संघरक्षितः सूर्यस्याभ्युद्गमनसमये सूर्यांशुभिस्ताडितः प्रतिबुद्धो यावन्न किंचित्पश्यति/ 207.014. प्रक्रान्ता वणिजः/ 207.014. सो ऽपि पन्थलिकां गृहीत्वा संप्रस्थितः/ 207.014. यावदन्यतमस्यां सालाटव्यां विहारं पश्यत्युद्गतं मञ्चपीठवेदिकाजालवातायनगवाक्षपरिमण्डितम्, भिक्षूंश्च संप्रावृतान् संप्रच्छन्नाञ् शान्तेनेर्यापथेनावस्थितान्/ 207.016. स तेषां सकाशमुपसंक्रान्तः/ 207.016. स तैरुक्तह्--स्वागतं भदन्तसंघरक्षिताय/ 207.017. स तैर्विश्रामितः/ 207.017. विश्रामयित्वा विहारं प्रवेशितो यावत् पश्यति शोभनां शयनासनप्रज्ञप्तिं कृतां प्रणीतं चाहारमुपहृतम्/ 207.018. स तैरुक्तह्--भदन्त संघरक्षित, मा तृषितो ऽसि, मा बुभुक्षितो ऽसि? कथयति--आर्याः, तृषितो ऽस्मि, बुभुक्षितो ऽस्मि/ 207.019. भदन्त संघरक्षित भुङ्क्ष्व/ 207.020. स कथयति--संघमध्ये मोक्ष्यामि/ 207.020. ते कथयन्ति--भदन्त संघरक्षित, मुङ्क्ष्व, आदीनवो ऽत्र भविष्यति/ 207.021. तेन मुक्तम्/ 207.021. स भुक्त्वा एकान्ते ऽपक्रम्यावस्थितः/ 207.021. यावत् तेषां गण्डराकोटिता/ 207.022. ते स्वकास्वकानि पात्राण्यादाय यथागत्य निषण्णः/ 207.022. स च तेषां विहारो ऽन्तर्हितः/ 207.023. अयोमुद्गताः प्रादुर्भूतम्/ 207.023. तैस्तावदयोमुद्गरैः परस्परमार्तस्वरं क्रन्दद्भिः शिरांसि भग्नानि, यावत् कालादकालीभूतम्/ 207.024. ततः पश्चात् पुनरपि तेषां विहारः प्रादुर्भूतः, ते च भिक्षवः शान्तेनेर्यापथेनावस्थिताः/ 207.025. आयुष्मान् संघरक्षितस्तेषां सकाशमुपसंक्रान्तः/ 207.026. के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? भदन्त संघरक्षित,

दुष्कुहका जम्बुद्वीपका मनुष्याः/ 207.027. नाभिश्रद्दधास्यसि/ 207.027. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित, वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्/ 207.028. तैरस्माकं भक्ताग्रे रणमुत्पादितम्/ 207.029. ते वयं भक्ताग्रे रणमुत्पादयित्वा इह प्रत्येकनरकेषूपपन्नाः/ 207.0स्थानमेतद्विद्यते यदस्माभिरितश्च्युतैर् नरकृषूपपत्तव्यं भविष्यति/ 207.030. साधु संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारोचय--मा आयुष्मन्तः संघमध्ये रणमुत्पादयिष्यथ/ 207.031. मा अस्यैवम्रूपस्य दुःखदौर्मनस्यस्य भागिनो भविष्यथ तद्यथा श्रमणाः काश्यपीयाः//

208.001. <208>स संप्रस्थितः/ 208.001. यावत् पश्यति द्वितीयं विहारमुद्गतं मञ्चपीठवेदिकाजालवातायनपरिक्षिप्तं गवक्षपरिमण्डितं भिक्षूंश्च सुप्रावृतान् सुप्रतिच्छन्नाञ् शान्ताञ् शान्तेर्यापथे व्यवस्थितान्/ 208.003. तेषामुपसंक्रान्तः/ 208.003. स तैरुक्तह्--स्वागतं भदन्तसंघरक्षिताय/ 208.003. स तैर्विश्रामितः/ 208.004. विश्रामयित्वा विहारं प्रवेशितो यावत् पश्यति/ 208.004. शोभनां शयनासनप्रज्ञप्तिः कृत्वा प्रणीतं चाहारं समन्वाहृत्य स तैरुक्तह्--भदन्त संघरक्षित मुङ्क्ष्व/ 208.005. तेन दृष्टादीनवेन भुक्तम्/ 208.005. मुक्त्वा एकान्ते ऽपक्रम्यास्थितः/ 208.006. तेषां गण्ड्याकोटिता/ 208.006. ते स्वकस्वकानि पात्राण्यादाय यथागत्य निषण्णाः/ 208.007. स च विहारो ऽन्तर्हितः, तदन्नपानमयोरसं प्रादुर्भूतम्/ 208.007. तैरातस्वरं क्रन्दद्भिस्तावदयोरसेन परस्परमात्मा सिक्तो यावत् कालदकालीभूतम्/ 208.008. ततः पश्चात् पुनरपि स तेषां विहारः प्रादुर्भूतः/ 208.009. ते च भिक्षवः पुनरपि शान्ताः शान्तेर्यापथेनावस्थिताः/ 208.009. स तेषां सकाशमुपसंक्रान्तह्--के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? दुष्कुहका भदन्त संघरक्षित जम्बुद्वीपका मनुष्याः, नाभिश्रद्दद्धास्यन्ति/ 208.011. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित, वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्/ 208.013. संघस्य च स्नेहलाभे संपन्ने आगन्तुका भिक्षव आगताः/ 208.013. तैरस्माभिरनार्यपरिगृहीतैरेवं चित्तमुत्पादितम्--न तावद्भोजयिष्यामो यावदेते आगन्तुका भिक्षवो न प्रक्रान्ता भविष्यन्तीति/ 208.015. तैरस्माभिस्तत्तथैव कृतम्/ 208.015. सप्ताहिकं चाकालदुर्दिनं प्रादुर्भूतम्/ 208.015. तेन तदन्नपानं क्लेदं गतम्/ 208.016. वयं श्रद्धादेयं विनिपातयित्वा इह प्रत्येकनरकेषूपपन्नाः/ 208.016. स्थानमेतद्विद्यते यदस्माभिरिह च्युतैर् नरकेषूपपत्तव्यं भविष्यति/ 208.017. साधु भदन्त संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारओचय--मा आयुष्मन्तः श्रद्धादेयं विनिपातयिष्यथ, मा अस्य एवम्रूपस्य दुःखदौर्मनस्यस्य भागिनो भविष्यथ, तद्यथा ब्राह्मणाः काश्यपीयाः//

208.020. स संप्रस्थितो यावत् पश्यति तृतीयं विहारमुद्गतं मञ्चपीठविदिकाजालवातायनगवाक्षपरिमण्डितं पूर्ववद्यावदायुष्मान् संघरक्षितो संघरक्षितो भुक्त्वा एकान्ते ऽपक्रम्याव्स्थितः/ 208.021. गण्ड्याकोटिता/ 208.022. स तेन विहार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्मायितुमारब्धः/ 208.022. ते ऽपि तस्मिन्नार्तस्वरं क्रन्दतस्तावद्दग्धा यावत् कालादकालीभूतम्/ 208.023. ततः पश्चात् पुनरपि तेषां विहारः प्रादुर्भूतः, ते च भिक्षवः शान्तशान्तेनेर्यापथेनावस्थिताः/ 208.024. स तेषां सकाशमुपसंक्रान्तह्--के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? दुष्कुहका भदन्त संघरक्षित जम्बुद्वीपका मनुष्याः, नाभिश्रद्दधास्यसि/ 208.026. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्/ 208.027. दुःशीलास्ते वयं शीलवद्भिर्भिक्षुभिर् निष्कासिताः/ 208.028. तैरस्माभिरेकः शून्यविहार आवासितः/ 208.028. यावत् तत्रैकः शीलवान् भिक्षुरागतः/ 208.029. अस्माकं बुद्धिरुत्पन्ना--तिष्ठतु अयं भिक्षुः/ 208.029. अयमप्येको ऽस्माकं दक्षिणां शोधयिष्यति/ 208.030. स तत्रैव स्थितो यावत् तस्यानिसङ्गेन(?) पुनरपि बहवः शीलवन्तो भिक्षव आगताः/ 208.031. ते वयं तत्रापि निर्वासिताः/ 208.031. तैरस्माभिरमर्षजातैः शुष्कानि काष्ठानि शुष्कानि तृणानि शुष्कानि गोमयानि उपसंहृत्य तस्मिन् विहारो ऽग्निर्दग्धः/ 208.032. तत्र प्रभूताह् <209>शैक्षाशैक्षाः पुद्गला दग्धाः/

209.001. <209>ते वयं शैक्षाशैक्षान् पुद्गलान् दग्ध्वा इह प्रत्येकनरकेषूपपन्नाः/ 209.002. स्थानमेतद्विद्यते यदस्माभिरिह च्युतैर् नरकेषूपपत्तव्यं भविष्यति/ 209.002. साधु भदन्त संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारोचय--मा आयुष्मन्तः सब्रह्मचारिणामन्तिके प्रदुष्टचित्तमुत्पादयिष्यथ, मा अस्यैवम्रूपस्य दुःखदौर्मनस्यस्य भगिनो भविनो भविष्यथ तद्यथा श्रमणः काश्यपीयाः//

209.006. आयुष्मान् संघरक्षितः संप्रस्थितो यावत् सत्त्वानद्रक्षीत् स्तम्भाकारान् कुड्याकारान् वृक्षाकारान् पत्राकारान् पुष्पाकारान् फलाकारान् रज्ज्वाकारान् संमार्जन्याकारानुदूखलाकारान् खट्वाकारान् स्थालिकाकारान्//

209.009. आयुष्मान् संघरक्षितो जनपदान् गतः/ 209.009. अन्यतमस्मिन्नाश्रमपदे पञ्चमात्राणि ऋषिशतानि प्रतिवसन्ति/ 209.010. तैरायुष्मान् संघरक्षितो दूरत एव दृष्टः/ 209.010. ते कथयन्ति--भवन्तः, क्रियाकारं तावत् कुर्मह्--बहुबोल्लकाः श्रमणाः शाक्यपुत्रीया भवन्ति/ 209.011. नास्य केनचिद्वचनं दातव्यम्/ 209.012. ते क्रियाकारं कृत्वा अवस्थिताः/ 209.012. आयुष्मांश्च संघरक्षितस्तेषां सकाशमुपसंक्रान्तः/ 209.013. उपसंक्रम्य प्रतिश्रयम् याचितुमारब्धः/ 209.013. न कश्चिद्वाचमनुप्रयच्छति/ 209.013. तत्रैक ऋषिः स शुक्लधर्मः/ 209.014. कथयति--किम् युष्माकं प्रतिश्रयं न दीयते? अपि तु युष्माकं दोषो ऽस्ति/ 209.014. बहुबोल्लका यूयम्/ 209.015. समयेनाहं भवतः प्रतिश्रयं दास्ये, सचेत् किंचिन्न मन्त्रयसि/ 209.015. आयुष्मान् संघरक्षितः कथयति--ऋषे, एवं भवतु/ 209.016. तत्रैक ऋषिर्जनपदचारिकां गतः/ 209.016. तस्य कुटिः शून्यावतिष्ठति/ 209.017. स कथयति--अस्यां कुटिकायां शाय्यां कल्पय/ 209.017. आयुष्मता संघरक्षितेन सा कुटिका सिक्ता संमृष्टा संमार्जिता सुकुमारीं गोमयकासिं चानुप्रदत्ता/ 209.018. तैर्दृष्टः/ 209.018. ते कथयति--भदन्त, शुच्यपि मार्जन्त्येते श्रमणाः शाक्यपुत्रीयाः/ 209.019. आयुष्मान् संघरक्षितो बहिः कुटिकायाः पादौ प्रक्षाल्य कुटिकां प्रविश्य निषण्णः पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्ह्ताप्य/ 209.021. य तस्मिन्नाश्रमपदे देवता प्रतिवसति, सा रात्र्याः प्रथमे यामे येनायुष्मान् संघरक्षितस्तेनोपसंक्रान्ता/ 209.022. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय/ 209.022. आयुष्मान्

संघरक्षितः कथयति--सुखिता त्वम्/ 209.023. न पश्यसि मया त्रियाकारेण प्रतिश्रयं लब्धम्, किं निष्कासापयितुमिच्छसि? सा संलक्षयति--श्रान्तकायो ऽयम्, स्वपितु/ 209.024. मध्यमे यामे उपसंक्रमिष्यामि/ 209.025. सा मध्यमे याम उपसंक्रान्ता/ 209.025. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय/ 209.025. आयुष्मान् संघरक्षितः कथयति--सुखिता त्वम्/ 209.026. न पश्यसि मया क्रियाकारेण प्रतिश्रयं लब्धम्? किं निष्कासापयितुमिच्छसि? सा संलक्षयति--श्रान्तकायो ऽयम्, स्वपितु/ 209.027. पश्चिमे यामे उपसंक्रमिष्यामि/ 209.028. सा पश्चिमे यामे उपसंक्रान्ता/ 209.028. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय/ 209.029. आयुष्मान् संघरक्षितः कथयति--सुखिता त्वम्/ 209.029. न पश्यसि मया क्रियाकारेण प्रतिश्रयं लब्धम्? किं निष्कासापयितुमिच्छसि? सा कथयति--आर्य संघरक्षित, प्रभातमिदानीम्/ 209.031. सचिन्निष्कासयिष्यन्ति, गमिष्यसि/ 209.031. अपि तु ननूक्तं भगवता भयभैरवसहिष्णुना ते भवितव्यमिति/ 209.032. आयुष्मान् संघरक्षितः संलक्षयति--शोभनं कथयति--सचेत् स निष्कासयिष्यति, <210>गमिष्यामि/

210.001. स संलक्षयति--ब्राह्मणा ह्येते/ 210.001. ब्राह्मणप्रतिसम्युक्तं भाषयामीत्यायुष्मान् संघरक्षितो ब्राह्मणवर्गं स्वाध्यायितुमारब्धह्-- 210.003. न नग्नचर्या न जटा न पङ्को नानाशनं स्थण्डलशायिका वा/ 210.005. न रजोमलं नोत्कुटुकप्रहाणं विशोधयेन्मोहमविशीर्णकाङ्क्षम्//2//

210.007. अलंकृतश्चापि चरेत धर्मं दान्तेन्द्रयः शान्तः सम्यतो ब्रह्मचारी/ 210.009. सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमण स भिक्षुः//3//

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.