Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
दिव्यावदान
- Thông tin
- GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
नास्ति, कुतस्तस्य शाखापत्रफलं भविष्यतीति? अत्रान्तरे किंचिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्/ 163.016. धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानाम् {चतुर्}ऋद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां चतुर्वैशारद्यविशारद्यविशारदानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानामसंहतविहारिणां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते--को हीयते, को वर्धते, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसम्बाधप्राप्तः, को ऽपायनिंनः, को ऽपायप्रवणह्, को ऽपायप्राग्भारः, कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्, कस्यानवरोपितानि कुशलमूलान्यवरोपयेयम्, कस्यावरोपितानि परिपाचयेयम्, कस्य परिपक्कानि विमोचयेयम्/ 163.026. आह च-- 163.027. अप्येवातिक्रमेद्वेलां सागरो मकरालयः/ 163.028. न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्//1//इति/ 163.029. अथ भगवानन्यतरस्मिन् प्रदेशे स्मितमकार्षीत्/ 163.029. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति/ 163.031. या
अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहवमुत्पलं पद्म <164>महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतन्ति/
164.001. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रब्धाः/ 164.002. तेषामेवं भवति--किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति/ 164.003. तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति/ 164.003. तेषां निर्मितं दृष्ट्वा एवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्नाः/ 164.004. अपि त्वयमपूर्वदर्शनः सत्त्वः, अस्यानुभावादस्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति/ 164.005. ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति/ 164.007. या उपरिष्टागच्छन्ति, ताश्चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशाम् यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्राह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा दुःखं शून्यमनात्मेत्युद्धोषयन्ति/ 164.011. गाथाद्वयं च भाषन्ते-- 164.012. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने/ 164.013. धूनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः//2//
164.014. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति/ 164.015. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति//3//
164.016. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति/ 164.017. भगवत आस्ये ऽन्तर्हिताः/ 164.017. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-- 164.018. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः/ 164.020. अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव//4//
164.022. गाथाश्च भाषते-- 164.023. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः/ 164.026. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः//5//
164.028. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्/ 164.030. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः//6//
165.001. <165>नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति धीराः/ 165.003. यस्यार्थे स्मितमुपदर्शयन्ति नाथास्तं श्रोतुं समभिलषन्ति ते जनौघाः//7//इति/ 165.005. भगवानाह--एवमेतदानन्द, एवमेतत्/ 165.005. नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति/ 165.006. गच्छ आनन्द, भिक्षूणामारोचय--तथागतो भिक्षवः श्मशानचारिकां गन्तुकामः/ 165.007. यो युष्माकमुत्सहते तथागतेन सार्धं श्मशानचारिकां गन्तुम्, स चीवरकाणि गृह्णातु/ 165.008. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--तथागत आयुष्मन्तः श्मशानचारिकां गन्तुकामः/ 165.009. यो युष्माकमुत्सहते तथागतेन सार्धं श्मशानचारिकं गन्तुम्, स चीवरकाणि गृह्णातु/ 165.010. एवमायुष्मन्निति ते भिक्षवः सर्वे संश्रुत्य भगवत्सकाशमुपगताः/ 165.011. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वास्तपरिवारो विनीतो विनीतपरिवारो ऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गजराज इव कलभगणपरिवृतः सिंह इव दंष्टगणपरिवृतो हंसराज इव हंसगणपरिवृतः सुपर्णीव परिक्षगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो देशिक इवाध्वगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरजनपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो धृतराष्ट्र इव
गन्धर्वगणपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो ब्रह्मेव ब्रह्मकायिकपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदान्तैरिन्द्रयैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैः समलंकृतो ऽशीत्या चानुव्यञ्जनैर्विराजितगात्रो व्यामप्रभालंकृतमूर्तिः सूर्यसहस्रातिरेकप्रभो जङ्गम इव रत्नपर्वतः समन्ततो भद्रको दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च समन्वागत आज्ञातकौण्डिन्याश्वजिद्बाष्पमहानामभद्रिकशारिपुत्रमौद्गल्यायनकाश्यपयशःपूर्णप्रभृतिमहाश्रावकैः परिवृतो ऽन्येन च महता भिक्षुसंघेन अनेकैश्च प्राणिशतसहस्रैः शीतवनं महाश्मशानं संप्रस्थितः/ 165.026. अष्टादशानुशंसा बुद्धचारिकायामित्यनेकानि देवताशतसहस्राणि भगवतः पृष्ठतः पृष्ठतो ऽनुबद्धानि/ 165.027. शीतवनानुगुणाश्च वायवो वायितुमारब्धाः//
165.028. राजगृहात् द्वौ बालदारकौ ब्राह्मणदारकः क्षत्रियदारकश्च बहिर् निर्गत्य क्रीडतः/ 165.029. तयोः क्षत्रियदारको ऽवगाढश्राद्धो ब्राह्मणदारको न तथा/ 165.029. स ब्राह्मणदारकः क्षत्रियदारकस्य कथयति--वयस्य, भगवता सुभद्रस्य गृहपतेः पत्नी व्याकृता--पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति/ 165.032. सा च मृता कालगता शीतवनं श्मशानं निर्हृता--मा हैव भगवता भाषितं वितथं स्यादिति/ 165.033. स क्षत्रियदारको गाथां भाषते-- 166.001. <166>सचन्द्रतारं प्रपतेदिहाम्बरं मही सशैला सवना नभो व्रजेत्/ 166.003. महोदधीनामुदकं क्षयं व्रजेन्महर्षयः स्यूर् न मृषाभिधायिनः//8//इति 166.005. स च ब्राह्मणदारकः कथयति--वयस्य, यद्येवम्, गच्छामः शीतवनं महाश्मशानं पश्यामह्? वयस्य, गच्छामः/ 166.006. तौ स्म्प्रस्थितौ/ 166.006. भगवांश्च राजगृहान्निर्गतः/ 166.006. अद्राक्षीत् स क्षत्रियदारको भगवन्तं दूरादेव/ 166.007. दृष्ट्वा च पुनर्गाथां भाषते-- 166.008. अनुद्धतो विगतकुतूहलो मुनिर्यथा व्रजत्येष जनौघसंवृतः/ 166.010. निःसंशयं परगणवादिमर्दनो नदस्यते मृगपतिनादमुत्तमम्//9//
166.012. यथा ह्यमी शीतवनोन्मुखोत्सुकाः प्रवान्ति वाता हिमपङ्कशीतलाः/ 166.014. प्रयान्ति नूनं बहवो दिवौकसो निरीक्षितुं शाक्यमुनेर्विकुर्वितम्//10//इति/ 166.016. राज्ञा बिम्बिसारेण श्रुतम्--भगवता सुभद्रस्य गृहपतेः पत्नी व्याकृता--पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति/ 166.018. सा च मृता कालगता शीतवनं श्मशानमभिनिर्हृता/ 166.018. भगवांश्च सश्रावकसंघः शीतवनं संप्रस्थित इति/ 166.019. श्रुत्वा च पुनरस्यैतदभवत्--न भगवान् निरर्थकं शीतवनं गच्छति/ 166.020. नूनं भगवान् सुभद्रस्य गृहपतेः पत्नीमागम्य महद्विनेयकार्यं कर्तुकामो भविष्यति/ 166.021. पश्यामीति/ 166.021. सो ऽप्यन्तःपुरकुमारामात्यपौरजानपदपरिवृतो राजगृहान्निर्गन्तुमारब्धः/ 166.022. अद्राक्षीत् स क्षत्रियकुमारको राजानं मागधश्रेण्यं बिम्बिसारं दूरादेव/ 166.022. दृष्ट्वा च पुनर्गाथां भाषते-- 166.024. यथा हि श्रेण्यो मगधाधिपो ह्ययं विनिर्ययौ राजगृहात् सबान्धवः/ 166.026. प्रवर्तते मे हृदि निश्चिता मतिर्महाजनस्याभ्युदयो भविष्यति//11//इति/ 166.028. जनकायेन भगवन्तं दृष्ट्वा विवरमनुप्रदत्तम्/ 166.028. भगवान् स्मितोन्मुखो महाजनमध्यं प्रविष्टः/ 166.029. निर्ग्रन्थ भगवन्तं स्मितोन्मुखं दृष्ट्वा संलक्षयन्ति--यथा श्रमणो गौतमः स्मितोन्मुखो महाजनमध्यं प्रविष्टः, नूनमयं बोधिसत्त्वो न कालगतः/ 166.030. तैः सुभद्रो गृहपतिरुक्तह्--गृहपते, नन्वयं सत्त्वो मन्दभाग्यो न कालगत इति/ 166.031. स कथयति--आर्य यद्येवम्, <167>कथमत्र प्रतिपत्तव्यमिति? ते कथयन्ति--गृहपते, वयं शमात्तशिक्षाः, त्वमेव ज्ञास्यसीति/
167.002. स तां पत्नीं चितायामारोप्य ध्मापयितुमारब्धः/ 167.002. तस्याः सर्वः कायो दग्धः स्थापयित्वा कुक्षिसामन्तकम्/ 167.003. तथासौ कुक्षिः स्फुटितः, पद्मं प्रादुर्भूतम्/ 167.003. तस्य चोपरिपद्मकर्णिकायां कुमारो निषण्णो ऽभिरूपो दर्शनीयः प्रासादिकः/ 167.004. तं दृष्ट्वा अनेकानि प्राणिशतसहस्राणि परं विस्मयमुपगतानि/ 167.005. निर्ग्रन्था निपातमदमाना नच(नष्ट?)प्रभावाः संवृत्ताः/ 167.006. तत्र भगवान् सुभद्रं गृहपतिमामन्त्रयते--गृहपते, गृहाण कुमारम्/ 167.006. स निर्ग्रन्थानां मुखमवलोकितुमारब्धः/ 167.007. ते कथयन्ति--गृहपते, यदि प्रज्वलितामेतां चितां प्रवेक्ष्यसि, सर्वेण सर्वं न भविष्यसीति/ 167.008. स न प्रतिगृह्णाति/ 167.008. तत्र भगवाञ् जीवकं कुमारभूतमामन्त्रयते--गृहाण जीवक कुमारकमिति/ 167.009. स संलक्षयति--अस्थानमनवकाशो भगवान् मामस्थाने नियोक्ष्यति/ 167.010. गृह्णामीति/ 167.010. तेन निर्विशङ्केन चितां विगाह्य गृहीतः/ 167.011. विगाहतस्तस्य जिनाज्ञया चितां प्रतिगृह्णतश्चाग्निगतं कुमारकम्/ 167.013. जिनप्रभावान्महतो हुताशनः क्षणेन जातो हिमपङ्कशीतलः//12//
167.015. ततो जीवकं कुमारभूतमिदमवोचत्--जीवक, मासि क्षत उपहतो वेति? स कथयति--राजकुले ऽहं भदन्त जातो राजकुले वृद्धः/ 167.016. नाभिजानामि गोशीर्षचन्दनस्यापीदृशं शैत्यम् यद्भगवता अधिष्ठितायाश्चितायाः/ 167.017. तत्र भगवान् सुभद्रं गृहपतिमामन्त्रयते--गृहाणेदानीं गृहपते कुमारमिति/ 167.018. स मिथ्यादर्शनविहतः/ 167.018. तथापि न संप्रतिपद्यते/ 167.018. निर्ग्रन्थानामेव मुखं व्यवलोकयति/ 167.019. ते कथयन्ति--गृहपते, अयं सत्त्वो ऽतीव मन्दभाग्यो यो हि नाम सर्वभक्षेणाप्यग्निना न दग्धः/ 167.020. किं बहुना? यद्येवं गृहं प्रवेशयसि, नीयताम्/ 167.020. ते गृहमुत्सादयद् भविष्यसि, त्वं च प्राणैर्वियुज्यस इति/ 167.021. नास्ति आत्मसमं प्रेमेति/ 167.021. तेनासौ न प्रतिगृहीतः/ 167.022. तत्र भगवान् राजानं बिम्बिसारमामन्तयते--गृहाण महाराज कुमारमिति/ 167.022. तेन ससम्भ्रमेण हस्तौ प्रसार्य गृहीतः/ 167.023. ततः समन्ततो निरीक्ष्य कथयति--भगवन्, किं भवतु अस्य दारकस्य ज्योतिष्क इति नामेति/ 167.025. तस्य ज्योतिष्क इति नांधेयं व्यवस्थापितम्/ 167.025. ततो भगवता तस्य जनकायस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा बहुभिः सत्त्वशतैर्महान् विशेषो ऽधिगतः/ 167.027. कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चित् सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैचित् सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चिदुष्मगतानि कुशलमूलान्युत्पादितानि, कैश्चिन्मूर्धानः, कैश्चित् मृदुमध्याः क्षान्तयः, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित् प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ, कैश्चिच्छरणगमनानि, कैश्चिच्छिक्षापदानि/ 167.031. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता/ 167.032. ज्योतिष्को दारको राज्ञा बिम्बिसारेण अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तो <168>द्वाभ्यासंसधात्रीभ्यां द्वाभ्यां क्षीरधाग्त्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्/
168.002. सो ऽष्ठाभिर्धात्रीभिरुन्नीयते वर्धते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः/ 168.003. आशु वर्धते ह्रदस्थमिव पङ्कजम्//
168.004. तस्य मातुलः पण्यमादाय देशान्तरं गतः/ 168.004. तेन श्रुतम् यथा मम भगिनी सत्त्ववती संवृत्ता/ 168.005. सा भगवता व्याकृता--पुत्रं जनयिष्यति, कुलमुद्द्योयिष्यति, दिव्यामानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति/ 168.006. स पण्यं विसर्जयित्वा प्रतिपण्यमादाय राजगृहमागतः/ 168.007. तेन श्रुतम् यथा सा अस्माकं भगिनी कालगतेति/ 168.008. श्रुत्वा च पुनः संलक्षयति--भगवता असौ व्याकृता पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यां मानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति/ 168.010. मा हैव तभगवतो भाषितं वितथं स्यात्/ 168.010. तेन तिरःप्रातिवेश्याः पृष्टाह्--श्रुतं मया अस्माकं भगिनी सत्त्ववती संवृत्ता/ 168.011. सा भगवता व्याकृता पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति/ 168.013. श्रुत्वा वयं परितुष्टाः/ 168.013. सा च श्रूयते मृता कालगतेति/ 168.014. मा हैव भगवतो भाषितं वितथं स्यादिति/ 168.014. ते गाथां भाषन्ते-- 168.015. सचन्द्रतारं प्रपतेदिहाम्बरं मही सशैला सवना नभो व्रजेत्/ 168.017. महोदधीनामुदकं क्षयं व्रजेन्महर्षयः स्यूर् न मृषाभिधायिनः//13//
168.019. न भगवतो भाषितं वितथम्/ 168.019. कथं भगवतो भाषितं वितथं भविष्यति? किं तु तेन स्वामिनापि असौ तथा तथा उपक्रान्ता, यथा कालगता/ 168.020. स दारको महर्द्धिको महानुभावः/ 168.021. अग्निना न दग्धः/ 168.021. अद्यापि राजकुले संवर्धत इति/ 168.021. स सुभद्रस्य गृहपतेः सकाशं गत्वा कथयति--न युक्तं गृहपते त्वया कृतम्/ 168.022. किं कृतम्? अस्माकं सत्त्ववती भगिनी त्वया निर्ग्रन्थविग्राहितेन तथा तथा उपक्रान्ता, यथा कालगता/ 168.023. स दारको महर्द्धिको महानुभावः/ 168.023. अग्निनापि न दग्धः/ 168.024. अद्यापि राजकुले संवर्धते/ 168.024. तद्गतमेतत्/ 168.024. यदि तावत्कुमारभानयसि, इत्येवं कुशलम्/ 168.025. नो चेद्वयं त्वां ज्ञातिमध्यादुत्क्षिपामः/ 168.025. सलोकानाम् {सालोहितानाम्?} संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामह्--अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता/ 168.027. स्त्रीघातको ऽयम्/ 168.027. न केनचिदाभाषितव्यमिति/ 168.027. राजकुले च ते ऽनर्थं कारयाम इति/ 168.028. स श्रुत्वा व्यथितः/ 168.028. यथैष परिभाषते, नूनमेवं करोमीति विदित्वा राज्ञः पादयोर् निपत्य कथयति--देव, मम ज्ञातय एवं परिभाषन्ते--यदि तावत् कुमारमानयसीत्येवं कुशलम्, नो चेदानयसि, वयं त्वां ज्ञातिमध्यादुत्क्षिपामः, संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामह्--अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता/ 168.032. स्त्रीघातको ऽयम्/ 168.032. न केनचिदाभाषितव्यमिति/ 168.032. राजकुले च ते ऽनर्थं कारयाम इति/
169.001. <169>तदर्हसि ज्योतिष्कं कुमारं दातुमिति/ 169.001. राजा कथयति--गृहपते, न मया त्वत्सकाशात् ज्योतिष्कः कुमारो गृहीतः, किं तु भगवता मम न्यस्तः/ 169.002. यदि त्वं कुमारेणार्थी, भगवत्सकाशं गच्छेति/ 169.002. स भगवत्सकाशं गतः/ 169.003. पादयोर् निपत्य कथयति--भगवन्, मम ज्ञातय एवं परिभाषन्ते--यदि तावत् कुमारमानयसीत्येवं कुशलम्/ 169.004. नो चेदानयसि, वयं त्वां ज्ञातिमध्यादुत्क्षिपामः, संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामः/ 169.005. अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता/ 169.006. स्त्रीघातको ऽयम्/ 169.006. न केनचिदाभाषितव्य इति/ 169.006. राजकुले चानर्थं कारयाम इति/ 169.007. तदर्हसि ज्योतिष्कं कुमारं दापयितुमिति/ 169.007. भगवान् संलक्षयति--यदि सुभद्रो ज्योतिष्कं कुमारं न लभते, स्थानमेतद्विद्यते यदुष्णं रुधिरं छर्दयित्वा कालं करिष्यति/ 169.008. इति विदित्वा आयुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द, राजानं बिम्बिसारं मद्वचनेनारोग्यय, एवं च वद--अनुप्रयच्छ महाराज सुभद्रस्य गृहपतेर्ज्योतिष्कं कुमारम्/ 169.010. यदि सुभद्रो गृहपतिर्ज्योतिष्कं कुमारं न लभते, स्थानमेतद्विद्यते यदुष्णं शोणितं छर्दयित्वा कालं करिष्यतीति/ 169.012. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येन राजा बिम्बिसारस्तेनोपसंस्क्रान्तः/ 169.013. उपसंक्रम्य राजानं बिम्बिसारमेतदवोचत्--भगवांस्ते महाराज आरोग्ययति, कथयति च--अनुप्रयच्छ महाराज सुभद्रस्य गृहपतेर्ज्योतिष्कं कुमारम्/ 169.014. यदि सुभद्रो गृहपतिर्ज्योतिष्कं कुमारं न लभते,
स्थानमेतद्विद्यते यत् सुभद्रो गृहपतिरुष्णं शोणितं छर्दयित्वा कालं करिष्ये/ 169.016. राजा कथयति--वन्दे भदन्तानन्द बुद्धं भगवन्तम्/ 169.016. यथा भगवानाज्ञापयति तथा करिष्ये/ 169.017. आरोग्यमित्युक्ता आयुष्मानानन्दः प्रक्रान्तः/ 169.017. राजा बिम्बिसारः कथयति--गृहपते, मया अयं कुमारः संवर्धितः/ 169.018. प्रियश्च मे मनापश्च/ 169.018. समयतो ऽहं मुञ्चामि, यदि मां दिवसे दिवसे त्रिष्कालं दर्शनायोपसंक्रामतीति/ 169.019. स कथयति--देव उपसंक्रमिष्यति/ 169.020. को ऽन्य उपसंक्रमितव्य इति? स राज्ञा सर्वालंकारविभूषितं कृत्वा हस्तिस्कन्ध आरोप्य विसर्जितः//
169.022. आचरितमेतल्लोकस्य--न तावत् पुत्रस्य नाम प्रज्ञायते यावत् पिता जीवति/ 169.022. यावदपरेण समयेन सुभद्रो गृहपतिः कालगतः/ 169.023. ज्योतिष्कः कुमारः स्वगृहे प्रतिष्ठितः/ 169.023. स बुद्धे ऽभिप्रसन्नो धर्मे संघे ऽभिप्रसन्नः/ 169.024. बुद्धं शरणं गतो धर्मं संघं शरणं गतः/ 169.024. तेन यस्मिन् प्रदेशे तेन सुभद्रेण पत्नी आघातिता, तस्मिन् प्रदेशे विहारं कारयित्वा सर्वापकरणसम्पूर्णश्चातुर्दिशार्यभिक्षुसंघाय निर्यातितः/ 169.026. तथा स्थविरैरपि सूत्रान्त उपनिबद्धम्--भगवान् राजगृहे विहरति मृदितकुक्षिके दाव इति//
169.028. सुभद्रस्य गृहपतेः पौरुषेया ये पण्यमादाय देशान्तरं गताः, तैः श्रुतम्--सुभद्रो गृहपतिः कालगतः/ 169.029. ज्योतिष्कः कुमारः स्वगृहे प्रतिष्ठितः/ 169.029. स बुद्धे ऽभिप्रसन्नो धर्मे संघे ऽभिप्रसन्नो बुद्धं शरणं गतो धर्मं संघं शरणं गत इति/ 169.030. तेषां च गोशीर्षचननमयं पात्रं संपन्नम्/ 169.031. तैस्तद्रत्नानां पूरयित्वा ज्योतिष्कस्य गृहपतेः प्राभृतमनुप्रेषितम्/ 169.031. तेन तद्दीर्घे स्तम्भे आरोप्य स्थापितम्/ 169.032. घण्डावघोषणं कारितम्--नेदं केनचित् विष्टया वा <170>शीतया वा कर्कटकेन वा गृहीतव्यम्/
170.001. य एतच्छ्रमणो वा ब्राह्मणो वा महर्द्धिको वा महानुभावह् ऋद्ध्या गृह्णाति, तस्येदम् यथासुखमिति/ 170.002. तीर्थ्याः कल्यमेवोत्थाय तीर्थ्यस्पर्शनं गच्छन्ति/ 170.003. तैस्तद् दृष्टम्/ 170.003. दृष्ट्वा च पुनर्ज्योतिष्कस्य गृहपतेः कथयन्ति--गृहपते, किमेतदिति? तेन तेषां विस्तरेणारोचितम्/ 170.004. ते कथयन्ति--गृहपते, त्वं श्रमणशाक्यपुत्रेष्वभिप्रसन्नः/ 170.005. ते एवं ग्रहीष्यन्तीत्युक्त्वा प्रक्रान्ताः/ 170.005. यावत् स्थविरस्थविरा भिक्षवो राजगृहं पिण्डाय प्रविष्टाः/ 170.006. तैर्दृष्ट्वा तैरपि ज्योतिष्को गृहपतिः पृष्टह्--किमेतदिति? तेन तथैव विस्तरेण समाख्यातम्/ 170.007. ते कथयन्ति--गृहपते, किं पात्रमात्रस्यार्थायात्मानं संप्रकाशयामह्? उक्तं भगवता--प्रच्छन्नकल्याणैर्वो भिक्षवो विहर्तव्यं धूतपापैरित्युक्त्वा प्रक्रान्ताः/ 170.008. यावदायुष्मान् दशबलः काश्यपस्तमनुप्राप्तः/ 170.009. स पृच्छति--गृहपते, किमेतदिति? तेन यथावृत्तमारोचितम्/ 170.010. आयुष्मान् दशबलकाश्यपः संलक्षयति--येन मया अनादिकालोपचितं क्लेशगणं वान्तं त्यक्तं छर्दितं प्रतिनिसृष्टम्, तं मां गृहपतिस्तीर्थिकसाधारणया ऋद्ध्या आह्वयति/ 170.012. तदस्य मनोरथं पूरयामीति/ 170.012. तेन गजभुजसदृशं बाहुमभिप्रसार्य तत्पात्रं गृहीतम्/ 170.012. स तद्गृहीत्वा विहारं गतो भिक्षुभिरुच्यते--स्थविर, कुतस्तव गोशीर्षचन्दनमयं पात्रमिति? तेन यथावृत्तमारोचितम्/ 170.014. भिक्षवः कथयन्ति--स्थविर, कल्पते तव पात्रमात्रस्यार्थाय ऋद्धिं विदर्शयितुमिति? कथयति--आयुष्मन्तः, कल्पतु वा मा वा/ 170.015. कृतमिदानीम्/ 170.015. किं
क्रियतामिति? एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति/ 170.016. भगवानाह--न भिक्षुणा आगारिकस्य पुरस्तात् ऋद्धिर्विदर्शयितव्या/ 170.017. दर्शयति, सातिसारो भवति/ 170.017. अपि तु चत्वारि पात्राणि सुवर्णमयं रूप्यमयं वर्डूर्यमयं स्फटिकमयम्/ 170.018. अपराण्यपि चत्वारि पात्राणि रीतिमयं ताम्रमयं कंसमयमभ्रमयं च/ 170.019. तत्र यानि पूर्वकाणि चत्वारि पात्राणि, एतान्यनुपस्थापितानि नोपस्थापयितव्यानि, उपस्थापितानि विसर्जयितव्यानि/ 170.020. यानि पश्चिमानि चत्वारि पात्राणि, एतान्यनुपस्थापितानि नोपस्थापयितव्यानि, उअप्स्थापितानि तु भैषज्यशरवपरिभोगेन परिभोक्तव्यानि/ 170.022. अपि त्वधीष्टानि ते द्वे पात्रे आयसं मृण्मयम्/ 170.022. यावदपरेण समयेन ज्योतिष्कस्य गृहपतेर्दिव्यमानुषी श्रीः प्रादुर्भूता/ 170.023. अन्तरा च राजगृहमन्तरा च चम्पामत्रान्तरे शुल्कशाला/ 170.024. तस्यां शुल्कशालिकः कालगतः/ 170.024. स व्यालयक्षेषूपपन्नः/ 170.024. तेन पुत्राणां स्वप्नदर्शनं दत्तम्--यः कश्चित् पण्यमशुल्कयित्वा गमिष्यति, सा घण्टा तावद्विरविष्यति यावदसौ निवर्त्य शुल्कं दापयितव्यमिति (यिष्यतीति?)/ 170.027. तैस्तं स्वप्नं संबन्धिबान्धवानां निवेद्य दिवसतिथिमुहूर्तेन तस्मिन् प्रदेशे यक्षस्थानं कारितम्/ 170.028. तत्र च घण्टा बद्ध्वा लम्बिता//
170.030. चम्पायामन्यतमो ब्राह्मणः/ 170.030. तेन सदृशात् कुलात् कलत्रमानीतम्/ 170.030. सा ब्राह्मणी संलक्षयति--अयं ब्राह्मणो यैस्तैरुपायैर्धनोपार्जनं करोति/ 170.031. अहं भक्षयामि/ 170.031. न मम प्रतिरूपम् यदहमकर्मिका तिष्ठेयमिति/ 170.032. तया वीथीं गत्वा कर्पासः क्रीतः/ 170.032. तं परिकर्मयित्वा श्लक्ष्णम् <171>सूत्रं कर्तितम्/
171.001. शोभनेन कुविन्देन कार्षापणसहस्रमूल्या यमली वायिता/ 171.001. तया ब्राह्मण उक्तह्--ब्राह्मण, अस्या यमल्याः कार्षापणसहस्रं मूल्यम्/ 171.002. गृहीत्वा वीथीं गच्छ/ 171.002. यदि कश्चित् याचति, कार्षापणसहस्रेण दातव्या, नो चेदपत्तनं घोषयित्वा अन्यत्र गन्तव्यमिति/ 171.003. स तां गृहीत्वा वीथीं गतः/ 171.004. न कश्चित् कार्षापणसहस्रेण गृहणाति/ 171.004. सो ऽपत्तनं घोषयित्वा ताम् यमलीं छत्रदण्डे प्रक्षिप्य सार्थेन सार्धं राजगृहं संप्रस्थितो यावदनुपूर्वेण शुल्कशालामनुप्राप्तः/ 171.006. शुल्काशालिकेन सार्थः शुल्कितः/ 171.006. स शुल्कं दत्त्वा संप्रस्थितः/ 171.006. घण्टा रटितुमारब्धा/ 171.007. शैल्किकाः कथयन्ति--भवन्तः, यथेयं घण्टा रणति, नूनं सार्थो न निपुणं शुल्कितः/ 171.008. भूयः शुल्कयाम इति/ 171.008. तैरसौ सार्थः पुनः प्रतिनिवर्त्य शुल्कितः/ 171.008. नास्ति किंचिदशुल्कितम्/ 171.009. घण्टा रटत्येव/ 171.009. तैरसौ सार्थो भूयः प्रतिनिवर्त्य प्रत्यवेक्षितः/ 171.009. नास्त्येवकिंचित्/ 171.010. सार्थिका अवध्यातुमारब्धाह्--किम् यूयमसमान् भूषितुकामा येन भूयो भूयः प्रतिनिवर्तयध्वमिति? तैरसौ द्विधा कृत्वा मुक्तः/ 171.011. येषां मध्ये स ब्राह्मणो नास्ति, ते ऽतिक्रान्ताः/ 171.012. अन्येषां गच्छतां सा घण्टा तथैव रटितुमारब्धा/ 171.012. तैस्ते पुनः प्रत्यवेक्षिताः/ 171.013. एवं तावत् द्विधाकृताः, यावत् स चैको ब्राह्मणो ऽवस्थित इति/ 171.013. स तैर्गृहीतः/ 171.014. स कथयति--प्रत्यवेक्षत यदि मम किंचिदस्तीति/ 171.014. तैः सर्वतः प्रत्यवेक्ष्य मुक्तः/ 171.014. सा घण्टा रटत्येव/ 171.015.
तैरसौ ब्राह्मणः प्रतिनिवर्त्योक्तह्--भो ब्राह्मण कथय, नैव शुल्कं दापयामः/ 171.016. किं तु देवस्यैव सान्निध्यं ज्ञातं भवतीति/ 171.016. कथयति--सत्यं न दापयथ? न दापयामः/ 171.017. तेन च्छत्रदण्डादपनीय सा यमली दर्शिता/ 171.017. ते परं विस्मयमापन्नाह्--भवन्तः, ईदृशमपि देवस्य सान्निध्यमिति/ 171.018. तैस्तत् एकं वस्त्रमुद्धाट्य देवः प्रावृतः/ 171.018. ब्राह्मणः कथयति--यूयं कथयथ शुल्कं न दापयाम इति/ 171.019. इदानीं सर्वस्वमपहरथ इति/ 171.019. ते कथयन्ति--ब्राह्मण, नास्माभिर्गृहीतम्/ 171.020. अपि देवस्यैतत् सान्निध्यमिति कृत्वा अस्माभिः प्रावृतः/ 171.020. गृहीत्वा गच्छेति/ 171.021. स तं पुनर्गृहीत्वा पुनश्छत्रनाडिकायां प्रक्षिप्य प्रक्रान्तः/ 171.021. अनुपूर्वेण राजगृहमनुप्राप्तः/ 171.022. स वीथ्यां प्रसार्यावस्थितः/ 171.022. तत्रापि तां न कश्चित् कार्षापणसहस्रेण याचते/ 171.023. स राजगृहमप्यपत्तनं घोषयितुमारब्धः/ 171.023. ज्योतिष्कश्च कुमारो राजकुलान्निष्क्रम्य हस्तिस्कन्धाभिरूढो वीथीमध्येन स्वगृहं गच्छति/ 171.024. तेन श्रुतम्/ 171.024. स तैः शब्दितः/ 171.025. ज्योतिष्केणोक्तह्--भो ब्राह्मण, किमर्थं त्वम् अपत्तनं घोषयसि? गृहपते, अस्या यमल्याः कार्षापणसहस्रं मूल्यम्/ 171.026. न च कश्चिद्याचत इति/ 171.027. स कथयति--आनय, पश्यामः/ 171.027. तेनोपदर्शिता/ 171.027. ज्योतिष्कः कथयति--अस्त्येतदेव/ 171.028. किं तु अत्रैकं वस्त्रं परिभुक्तकम्/ 171.028. एकमपरिभुक्तकम्/ 171.028. यदपरिभुक्तम्, अस्य पञ्चकार्षापणशतानि मूल्यम्/ 171.029. यत्तु परिभुक्तकम्,
अस्यार्धतृतीयानि/ 171.029. ब्राह्मणः कथयति--किमेतदेवं भविष्यति? ज्योतिष्कः कथयति--ब्राह्मण, तव प्रत्यक्षीकरोमि/ 171.030. पश्येति/ 171.030. तेनासौ अपरिभुक्त उपरिविहायसा क्षिप्तः/ 171.031. वितानं कृत्वा अवस्थितः/ 171.031. परिभुक्तः क्षिप्तः/ 171.031. क्षिप्तमात्रक एव पतितः/ 171.032. ब्राह्मणो दृष्ट्वा परं विस्मयमापन्नः/ 171.032. कथयति--गृहपते, महर्द्धिकस्त्वम् <172>महानुभाव इति/
172.001. ज्योतिष्कः कथयति--ब्राह्मण, पुनः पश्यैनम् यो ऽसौ अपरिभुक्तक इति, स कण्टकवाटस्योपरिष्टात् क्षिप्तो ऽसज्जमानो गतः/ 172.002. सो ऽन्यः क्षिप्तः कण्टके लग्नः/ 172.002. स ब्राह्मणो भूयस्या मात्रया अभिप्रसन्नः कथयति--गृहपते, महर्द्धिकस्त्वं ंहानुभावः/ 172.003. यत् तवाभिप्रेतं तत्प्रयच्छेति/ 172.004. स कथयति--ब्राह्मण, अतिथिस्त्वम्/ 172.004. तवैव पूजा कृता भवति/ 172.004. सहस्रमेव पर्यच्छामीति/ 172.005. तेन तस्य कार्षापणसहस्रं दत्तम्/ 172.005. ब्राह्मणस्तमादाय प्रक्रान्तः/ 172.005. ज्योतिष्केण ततो यः परिभुक्तकः स दारकाय दत्तः, अपरिभुक्तकस्तु स्नानशाटकः कृतः/ 172.006. यावदपरेण समयेन राजा बिम्बिसार उपरिप्रासादतलगतो ऽमात्यगणपरिवृतस्तिष्ठति/ 172.007. ज्योतिष्कस्य स स्नानशाटक उपरि गृहस्याभ्यवकाशे शोषितो वायुना ह्रियमाणो राज्ञो बिम्बिसारस्योपरि पतितः/ 172.009. राजा कथयति--भवन्तः, राजार्हमिदं वस्त्रम्/ 172.009. कुत एतदिति?/ 172.009. ते कथयन्ति--देव, श्रूयते राज्ञो मान्धातुः सप्ताहं हिरण्यवर्षं पतितम्/ 172.010. देवस्यापि वस्त्रवर्षः पतितुमारब्धम्/ 172.011. नचिराद्धिरण्यवर्षः पतिष्यतीति/ 172.011. राजा कथयति--भवन्तः, ज्योतिष्को गृहपतिर्भगवता व्याकृतो दिव्यमानुषीं श्रियं प्रत्यनुभविष्यतीति/ 172.012. इदं च दिव्यं वस्त्रमाकाशात् पतितम्/ 172.013. स्थापयत/ 172.013. तस्यैवागतस्य दास्यामीति/ 172.013. ते चैवमालापं कुर्वन्ति, ज्योतिष्कश्चागतः/ 172.014. राजा कथयति--कुमार, त्वं भगवता व्याकृतो दिव्यमानुषीं श्रियं प्रत्यनुभविष्यतीति/ 172.014. मम चेदं दिव्यं
वस्त्रमाकाशात् पतितम्/ 172.015. गृहाणेति/ 172.015. तेन हस्तः प्रसारितः/ 172.015. देव आनय, पश्यामीति/ 172.016. स निरीक्षितुमारब्धो यावत् पश्यत्यात्मीयं स्नानशाटकम्/ 172.016. स विस्मृत्य कथयति--देव, मदीयो ऽयं स्नानशाटको वायुनोपक्षिप्त इहागत इति/ 172.017. कुमार, तव दिव्यमानुष्यकी श्रीः प्रादुर्भूता? देव, प्रादुर्भूता/ 172.018. कुमार, यद्येवम्, किमर्थं न निमन्त्रयसि? देव, निमन्त्रितो भव/ 172.019. गच्छ, भक्तं सज्जीकुरु/ 172.019. देव, यस्य दिव्यमानुषी श्रीः प्रादुर्भूता, किं तेन सज्जीकर्तव्यम्? ननु सज्जीकृतमेव, गच्छेति/ 172.020. स ज्योतिष्कस्य गृहं गतः/ 172.020. राजा बाह्यं परिजनं दृष्ट्वा इन्द्रियाण्युत्क्षिपति/ 172.021. देव, किमर्थमिन्द्रियाण्युत्क्षिपसि/ 172.021. स कथयति--कुमार, वधूजनो ऽयमिति कृत्वा/ 172.022. देव नायं वधूजनः, बाह्यो ऽयं परिजनः/ 172.022. स परं विस्मयमापन्नः/ 172.022. पुनर्मध्यं जनं दृष्ट्वा इन्द्रियाण्युत्क्षिप्तुमारब्धः/ 172.023. तथैव पृच्छति/ 172.023. राजा अपि तथैव कथयति/ 172.023. ज्योतिष्कः कथयति--देव, अयमपि न वधूजनः, किं तु मध्यो ऽयं जनः/ 172.024. स भूयस्या मात्रया परं विस्मयमापन्नः/ 172.024. तस्य मध्यमायां द्वारशालायां मणिभूमिरुपरचिता/ 172.025. तस्यां मत्स्या उदकपूर्णायामिव यन्त्रयोगोपरिभ्रमन्तो दृश्यन्ते/ 172.026. राजा प्रवेष्टुकामो वापीति कृत्वोपानहौ मोक्तुमारब्धः/ 172.026. ज्योतिष्कः कथयति--देव कस्यार्थे उपानहौ अपनयसीति? स कथयति--कुमार, पानीयमुत्तर्त्तव्यमिति/ 172.027. ज्योतिष्कः कथयति--देव नेदं पानीयम्, मणिभूमिरेषा/ 172.028. स
कथयति--कुमार, इमे मत्स्या उपरि भ्रमन्तः पश्यन्ति/ 172.029. देव यन्त्रयोगेनैते परिभ्रमन्ति/ 172.029. स न श्रद्धत्ते/ 172.029. तेनाङ्गुलिमुद्रा क्षिप्ता/ 172.029. सा रणरणाशब्देन भूमौ पतिता/ 172.030. ततो विस्मयमापन्नः प्रविश्य सिंहासने निषण्णः/ 172.030. वधूजनः पादाभिवन्दन उपसंक्रान्तः/ 172.031. तासामश्रुपातो जातः/ 172.031. राजा कथयति--कुमार, कस्मादयं वधूजनो रोदिति? देव नायं रोदिति, किं तु देवस्य काष्ठधूमेन वस्त्राणि धूपितानि, तेन <173>आसामश्रुपतो जात इति/
173.001. राजा तत्र दिव्यमानुष्या श्रिया उपचर्यमाणः प्रमत्तो न निष्क्रांति/ 173.002. राजकृत्यानि राजकरिणीयानि परिहातुमारब्धानि/ 173.002. अमात्यैरजातशत्रुः कुमारो ऽभिभूतह्--कुमार, देवो ज्योतिष्कस्य गृहं प्रविश्य प्रमत्तः/ 173.003. गच्छ, निवेदयेति/ 173.003. तेन गत्वा उक्तह्--देव, किमत्र प्रविश्यावस्थितह्? अमात्याः कथयन्ति--राजकृत्यानि राजकरणीयानि परिहीयन्त इति/ 173.005. स कथयति--कुमार, न शक्नोषि त्वमेकं दिवसं राज्यं कारयितुम्? किं देवो जानीते--ममैको दिवसः प्रविष्टसय? अद्य देवस्य सप्तमो दिवसो वर्तते/ 173.006. राजा ज्योतिष्कस्य मुखं निरीक्ष्य कथयति--कुमार सत्यम्? देव सत्यम्/ 173.007. सप्तम् एव दिवसो वर्तते/ 173.007. कुमार, कथं रात्रिज्ञायते दिवसो वा? देव, पुष्पाणां संकोचविकासान्मणीनां ज्वलनाज्वलनयोगाच्छकुनीनां च कूजनाकूजनात्/ 173.009. सन्ति तानि पुष्पाणि यानि रात्रौ विकसन्ति, दिवा म्लायन्ति? सन्ति यानि दिवा विकसन्ति रात्रौ म्लायन्ति? सन्ति ते मणयो ये रात्रौ ज्वालन्ति, न दिवा? सन्ति ये दिवा ज्वलन्ति, न रात्रौ? सन्ति ते शकुनयो ये रात्रौ कूजन्ति, न दिवा? सन्ति ये दिवा कूज्ञति, न रात्रौ? राजा विस्मयमापन्नः कथयति--कुमार, अवितथवादी भगवान्/ 173.013. यथा त्वं भगवता व्याकृतस्तथैव नान्यथेत्युक्त्वा ज्योतिष्कगृहात् निष्क्रान्तः/ 173.014. अजातशत्रुकुमारेण ज्योतिष्कसन्तको मणिरपहृत्य दारकस्य हस्ते दत्तः/ 173.014. तेन् यत एव गृहीतस्तत्रैव गत्वावस्थितः/ 173.015. अजातशत्रुः कथयति--दारक, आनय तं मणिं पश्यामीति/ 173.015. स मुष्ठिं विघाट्य कथयति--कुमार, न जाने कुत्र गत इति/ 173.016.
स तं ताडयितुमारब्धः/ 173.016. ज्योतिष्कः कथयति--कुमार, किमर्थमेनं ताडयसि? घपते, अहं चौरः, एष महाचौरः/ 173.017. मया त्वदीयो मणिरपहृतः, सो ऽप्यनेनापहृत इति/ 173.018. स कथयति--कुमार, न त्वया अपहृतो नाप्यनेन, अपि तु यत एव त्वया गृहीतस्तत्रैव गत्वा अवस्थितः/ 173.019. अपि तु कुमार, स्वकं ते गृहम्/ 173.020. यावद्भिर्मणिभिरन्येन वा प्रयोजनं तावद्गृहाण यथासुखमिति/ 173.020. स प्रतिभिन्नकः संलक्षयते--यदा पितुरत्ययाद्राजा भविष्यामि, तदा ग्रहीष्यामीति/ 173.021. यदा अजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः, स्वयमेव च पट्टं बद्ध्वा प्रतितिष्ठितः, तदा तेन ज्योतिष्को ऽभिहितह्--गृहपते, त्वं मम भ्राता भवसि/ 173.023. गृहं भाजयाम इति/ 173.024. स संलक्षयति--येन पिता धार्मिको धर्मराजः प्रघातितः, स मां मर्षयतीति कुत एतत्? नूनमयं मद्गृहमागच्छतु, कामं प्रयच्छामीति विदित्वा कथयति--देव, विभक्तमेव, किमत्र विभक्तव्यम्? मदीयं गृहमागच्छ, अहं त्वदीयं गृहमागच्छामीति/ 173.026. अजातशत्रुः कथयति--शोभनम्/ 173.027. एवं कुरु/ 173.027. स तस्य गृहं गतः/ 173.027. ज्योतिष्को ऽप्यजातशत्रोर्गृहं गतः/ 173.028. सा श्रीस्तस्माद्गृहादन्तर्हिता, यत्र ज्योतिष्कस्तत्रैव गता/ 173.028. एवम् यावत् सप्तवारानन्तर्हिता प्रादुर्भूता च/ 173.029. अजातशत्रुः संलक्षयते--एवमपि मया न शकितं ज्योतिष्कस्य मणीनपहर्तुम्/ 173.030. अन्यदुपायं करोमि/ 173.030. तेन धूर्तपुरुषाः प्रयुक्ताह्--गच्छत, ज्योतिष्कस्य गृहान्मणीनपहरतेति/ 173.031. ते हि
शीटाकर्कटकप्रयोगेनाभिरोढुमारब्धाः/ 173.031. ते ऽन्तःपुरिकया उपरिप्रासादतलगतया दृष्टाः/ 173.032. तया धूर्तधूर्तका इति नादो मुक्तः/ 173.032. ज्योतिष्केण श्रुतम्/ 173.032. तेनाशयतो वाग्निश्चारिता--तिष्ठन्तु <174>धूर्तका इति/
174.001. तेषाम् यो यत्राभिरूढः स तत्रैवास्थितो यावत् प्रभाता रजनी संवृत्ता/ 174.002. महाजनकायेन दृष्टाः/ 174.002. ते कथयन्ति--भवन्तः, अनेन कलिराजेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः//
174.003. इदानीं गृहाण्यपि मोषयति/ 174.003. तत्किं न मे मोषिष्यत इति? पुरक्षोभो जातः/ 174.004. अजातशत्रुणा ज्योतिष्कसय् दूतो ऽनुप्रेषितह्--मुञ्चत ममायं खलीकार संलक्षयते--येन नाम पिता जीविताद् व्यपरोपितः, स मां न प्रघातयित्ष्यतीति कुत एतत्? सर्वथा अहं भगवता व्याकृतह्--मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्थत्त्वं साक्षात्करिष्यतीति/ 174.008. गच्छामि, प्रव्रजामीति/ 174.008. तेन सर्वं घनजातं दीनानाथकृपणेभ्यो दत्तम्/ 174.008. अधनाः सधना व्यवस्थापिताः/ 174.009. अथ ज्योतिष्को गृहपतिः सुहृत्सम्बन्धिबान्धवानवलोक्य येन भगवांस्तेनोपसंक्रान्तः/ 174.010. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 174.010. एकान्तनिषण्णो ज्योतिष्को गृहपतिर्भगवन्तमिदमवोचत्--लभेयाहां भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्/ 174.012. चरेयमहं भगवतो ऽन्तिके ब्रह्मचर्यमिति/ 174.012. स भगवता एहिभिक्षुकया आभाषितह्--एहि भिक्षो, चर ब्रह्मचर्यमिति/ 174.013. भगवतो वाचावसानमेव मुण्डः संवृत्तः/ 174.014. संघाटीप्रावृतः पात्रकरव्यग्रहस्तः सप्ताहावरोपितकेशश्मश्रुर्वर्षशतोपसम्पन्नस्य भिक्षुरीर्यापथेनावस्थितः/ 174.016. एहीति चोक्तः स तथागतेन मुण्डश्च संघाटिपरीतदेहः/ 174.018. सद्यः प्रशान्तेन्द्रिय एव तस्थावुपस्थितो बुद्धमनोरथेन//14//
174.020. तस्य भगवता अववादो दत्तः/ 174.020. तेनोद्यच्छमानेन व्यायच्छमानेन इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्यसर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 174.023. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः/ 174.024. सेन्द्रोपेणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः//
174.025. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता ज्योतिष्केण कर्म कृतम् येन चितामारोपितः, दिव्यमानुषी श्रीः प्रादुर्भूता, भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतमिति? भगवानाह--ज्योतिष्केणैव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंहाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि/ 174.028. ज्योतिष्केण कर्माणि कृतान्युपचितानि/ 174.029. को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कार्माणि कृतान्युपचितानि पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च/
175.001. <175>न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि/ 175.002. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्//15//
175.003. भूतपूर्वं भिक्षव एकनवतिकल्पे विपश्यी नाम शास्ता लोक उदपादि तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्/ 175.005. द्वाषष्टिभिक्षुसहस्रपरिवारो जनपदचारिकां चरन् बन्धुमतीं राजधानीमनुप्राप्तो बन्धुमत्यां विहरति स्म बन्धुमतीयके दावे/ 175.006. तेन खलु समयेन बन्धुमत्यां राजधान्यां बन्धुमान् नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसम्पन्नम्/ 175.008. धार्मिको धर्मराजा धर्मेण राज्यं कारयति/ 175.009. तस्यानङ्गणो नाम गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी/ 175.010. स संलक्षयते--बहुशो मया विपश्यी सम्यक्सम्बुद्धो ऽन्तर्गृहे उपनिमन्त्रय भोजितः/ 175.011. न तु कदाचित् त्रैमासीं सर्वोपकरणैः प्रवारितः/ 175.012. यन्न्वहं विपश्यिनं सम्यक्सम्बुद्धं त्रैमासीं सर्वोपकरणैः प्रवारयेयम्/ 175.012. इति विदित्वा येन विपश्यी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः/ 175.013. उपसंक्रम्य विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 175.014. एकान्तनिषण्णमनङ्गणं गृहपतिं विपश्यी सम्यकस्म्बुद्धो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 175.015. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्/ 175.016. अथानङ्गणो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन
विपश्यी सम्यक्सम्बुद्धस्तेनाञ्जलिं प्रणम्य विपश्यिनं सम्यक्सम्बुद्धमिदवोचत्--अधिवासयतु मे भगवांस् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेति/ 175.019. अधिवासयति विपश्यी सम्यक्सम्बुद्धो ऽनङ्गणस्य गृहपतेस्तूष्णीम्भावेन/ 175.019. अथानङ्गणो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः/ 175.021. अश्रौषीद्बन्धुमान् राजा--विपश्यी सम्यक्सम्बुद्धो द्वाषष्टिभिक्षुसहस्रपरिवारो जनपदचारिकां चरन् बन्धुमतीमनुप्राप्तो बन्धुमत्यां विहरति बन्धुमतीये दावे इति/ 175.023. श्रुत्वा च पुनरस्यैतदभवत्--बहुशो मया भगवानन्तर्गृहे उपनिमन्त्र्य भोजितः/ 175.023. न तु कदाचित् त्रैमासीं सर्वोपकरणैः प्रवारितः/ 175.024. यन्न्वहं विपश्यिनं सम्यक्सम्बुद्धं सर्वोपकरणैः प्रवारयेयम्/ 175.025. इति विदित्वा येन विपश्यी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः/ 175.025. उपसंक्रम्य विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 175.026. एकान्तनिषण्णं बन्धुमन्तं राजानं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 175.027. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्/ 175.028. अथ बन्धुमान् राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन विपश्यी सम्यक्सम्बुद्धस्तेनाञ्जलिं प्रणम्य विपश्यिनं सम्यक्सम्बुद्धमिदमवोचत्--अधिवासयतु मे भगवांस्त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन/
175.031. उपनिमन्त्रितो ऽस्मि महाराज त्वत्प्रथमतो ऽनङ्गणेन गृहपतिना/ 175.031. अधिवासयतु भगवान्, अहं तथा करिष्ये यथा अनङ्गणो गृहपतिराज्ञास्यति/ 175.032. सचेत् ते महाराज अनङ्गणो <176>गृहपतिरनुजानीते, एवं ते ऽहमधिवासयामि/
176.001. अथ बन्धुमान् राजा विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तो येन स्वं निर्वेशनं तेनोपसंक्रान्तः/ 176.003. बन्धुमान् राजा अनङ्गणं गृहपतिं दूतेन प्रक्रोश्येदमवोचत्--यत्खलु गृहपते जानीयात्--अहं त्वत्प्रथमतो विपश्यिनं सम्यकस्म्बुद्धं भोजयामि, ततः पश्चात् तवापि न दुष्करं भविष्यति विपश्यिनं सम्यक्सम्बुद्धं भोजयितुमिति/ 176.005. स कथयति--देव, मया विपश्यी सम्यक्सम्बुद्धस्त्वत्प्रथमत उपनिमन्त्रितः/ 176.006. अहमेव भोजयामि/ 176.006. राजा कथयति--गृहपते, यद्यप्येवम्, तथापि त्वं मम विषयनिवासी/ 176.007. नार्हाम्यहं त्वत्प्रथमतो भोजयितुम्? देव, यद्यप्यहं तव विषयनिवासी, तथापि येन पूर्वनिमन्त्रितः स एव भोजयति/ 176.008. नात्र देवस्य निर्बन्धो युक्तः/ 176.008. न ते गृहपते कामकारं ददामि/ 176.009. अपि तु यो भक्तोत्तरिकया जेष्यति, सो ऽवशिष्टं कालं भोजयिष्यति/ 176.010. तथा भवतु इत्यनङ्गणो गृहपतिः प्रत्यश्रौषीत्/ 176.010. तथा अनङ्गणो गृहपतिस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थायोदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यते/ 176.012. अथ विपश्यी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो येनानङ्गणस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः/ 176.014. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 176.015. अथानङ्गणो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन
खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति/ 176.016. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय/ 176.018. अथ विपश्यी सम्यक्सम्बुद्धो ऽनङ्गणं गृहपतिं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 176.020. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समुत्तेज्य संप्रहर्ष्य प्रक्रान्तः/ 176.020. एवं बन्धुमता राज्ञा भोजितः/ 176.021. एष एव ग्रन्थो विस्तरेण कर्तव्यः/ 176.021. म क्वचिद्भक्रोत्तरिकया पराजयति/ 176.022. ततो बन्धुमान् राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः/ 176.022. अमात्याः कथयन्ति--देव, कस्मात् त्वं करे कपोलं दत्त्वा चिन्तापरस्तिष्ठसीति? स कथयति--भवन्तः, कथमहं न चिन्तापरस्तिष्ठामि यो ऽहं मम विषयनिवासिनं कुटुम्बिनं न शक्नोमि भक्तोत्तरिकया पराजयितुम्? ते कथयन्ति, देव, तस्य गृहपतेः काष्ठं नास्ति/ 176.025. काष्ठविक्रयो विधार्यतामीति/ 176.026. राज्ञा घण्टावघोषणं कारितम्/ 176.026. भवन्तः, न केनचित् मद्विषयनिवासिना काष्ठं विक्रेतव्यम्/ 176.027. यो विक्रीणीते, तेन मद्विषये न वस्तव्यमिति/ 176.027. अनङ्गणो गृहपतिर्गन्धकाष्ठैर्भक्तं साधयितुमारब्धः/ 176.028. सुगन्धतैलेन च वस्त्राणि तीमयित्वा खाद्यकान्युल्लाडयितुम्/ 176.028. सुरभिणा गन्धेन सर्वा बन्धुमती नगरी स्फुटा संवृत्ता/ 176.029. बन्धुमान् राजा पृच्छति--भवन्तः, कुत एष मनोज्ञगन्ध इति? तैर्विस्तरेण समाख्यातम्/
176.030. स कथयति--अहमप्येवं करोमि/ 176.030. किं मम विभवो नास्तीति? अमात्याः कथयन्ति--देव, कस्यार्थे एवं क्रियते? अयं गृहपतिरपुत्रो नचिरात् कालं करिष्यति/ 176.032. देवस्यैव सर्वं सन्तस्वापतेयं भविष्यति/ 176.032. काष्ठविक्रयो ऽनुज्ञास्यतामिति<177>/
177.001. तेन काष्ठविक्रयो ऽनुज्ञातः/ 177.001. अनङ्गणेन गृहपतिना श्रुतम्--राज्ञा काष्ठविक्रयो ऽनुज्ञात इति/ 177.002. तेन चित्तं प्रदूष्य खरा वाग् निश्चारित--तावन्मे भक्तकाष्ठमस्ति, येनाहम् एनं सहामात्यं चितामारोप्य ध्मापयामीति/ 177.003. राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः/ 177.004. अमात्याः कथयन्ति--देव, किमर्थं करे कपोलं दत्त्वा चिन्तापरिस्तिष्ठसीति? तेन विस्तरेण समाख्यातम्/ 177.005. ते कथयन्ति--देव, अलं विषादेन/ 177.005. वयं तथा करिष्यामो यथा देवश्चानङ्गणं गृहपतिं पराजयतीति/ 177.006. तैरपरस्मिन् दिवसे बन्धुमती राजधानी अपगतपाषाणशर्करकठल्या व्यवस्थापिता चन्दनवारिपरिषिक्ता सुरभिधूपघटिकोपनिबन्द्धा आमुक्तपट्टदामकलापा उच्छ्रितध्वजपताका नानापुष्पावकीर्णा नन्दनवनोद्यानसदृशा/
177.008. तत्प्रतिस्पर्धशोभाविभूषितो मण्डवाटः कारितः/ 177.009. तस्मिन् नानारत्नविभूषितासनवसनसम्पन्नशोभासनप्रज्ञप्तिः कारिता/ 177.010. मृदुविशदसुरभिगन्धसम्पन्नो विविधभक्तव्यञ्जनसहितो दिव्यसुधामनोज्ञसंकाशस्रैलोक्यगुरोरनुरूप आहार उपसमन्वाहृतः/ 177.011. ततो बन्धुमान् राजा दृष्ट्वा परं विस्मयमापन्नः/ 177.012. ततो विस्मयावर्जितचित्तसंततिर्विपश्यिनः सम्यक्सम्बुद्धस्य दूतेन कालमारोचयति--समये भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यत इति/ 177.014. अथ विपश्यी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन बन्धुमतो राज्ञो भक्ताभिसारस्तेनोपसंक्रान्तः/ 177.016. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 177.017. बन्धुमतो राज्ञो मङ्गल्याभिषेको हस्तिनागो विपश्यिनः सम्यक्सम्बुद्धस्य शतशलाकं छत्रमुपरि मूर्ध्नो धारयति, अवशिष्टा हस्तिनाहा भिक्षूणाम्/ 177.018. बन्धुमतो राज्ञो ऽग्रमहिषी विपश्यिनं सम्यक्सम्बुद्धं सौवर्णेन मणिवालव्यजनेन वीजयति, अवशिष्टा अन्तःपुरिका अवशिष्टानां भिक्षूणाम्/ 177.020. अनङ्गणेन गृहपतिना अवचरकः पुरुषः प्रेषितह्--गच्छ भोः पुरुष, पश्य कीदृशेनाहारेण बन्धुमान् राजा बुद्धप्रमुखं भिक्षुसंघं भोजयतीति/ 177.021. स गतस्तां विभूतिं दृष्ट्वा विस्मयावर्जितमनास्तत्रैवावस्थितः/ 177.022. एवं द्वितीयः, तृतीयः प्रेषितः/ 177.023. सो ऽपि तत्रैव गत्वा अवस्थितः/ 177.023. ततो ऽनङ्गणो गृहपतिः स्वयमेव गतः/ 177.023. सो ऽपि तां विभूतिं दृष्ट्वा परं विषादमापन्नः संलक्षयति--शक्यमन्यत्
संपादयितुम्/ 177.024. किं तु हस्तिनामन्तःपुरस्य च कुतो मम विभवह्? इति विदित्वा निवेशनं गतो दौवारिकं पुरुषमामन्त्रयते--भोः पुरुष, यदि कश्चिद्याचनक आगच्छति, स यत् प्रार्थयते तद्दातव्यम्, नो तु प्रवेशः/ 177.026. इत्युक्त्वा शोकागारं प्रविश्य अवस्थितः/ 177.027. शक्रस्य देवेन्द्रस्याधस्तात् ज्ञानदर्शनं प्रवर्तते/ 177.027. स संलक्षयति--ये केचिल्लोके दक्षिणीयाः, विपश्यी सम्यक्सम्बुद्धस्तेषामग्रः, दानपतीनामप्यनङ्गणो गृहपतिः/ 177.029. साहाय्यमस्य कल्पयितव्यम्/ 177.029. इति विदित्वा कौशिको ब्राह्मणवेषमभिनिर्माय येनानङ्गणस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः/ 177.030. उपसंक्रम्य दौवारिकं पुरुषमामन्त्रयते--गच्छ भोः पुरुष, अनङ्गणस्य गृहपतेः कथय--कौशिकगोत्रो ब्राह्मणो द्वारे तिष्ठति भवन्तं द्रष्टुकाम इति/ 177.031. स कथयति--ब्राह्मण, गृहपतिना अहं स्थापितह्--यः कश्चिद् याचनक आगच्छति, स यत् प्राथयते<178>, तद्दातव्यं न तु प्रवेश इति/
178.001. येन ते प्रयोजनं तद्गृहीत्वा गच्छ/ 178.001. किं ते गृहपतिना दृष्टेनेति? स कथयति--भोः पुरुष, न मम केनचित् प्रयोजनम्/ 178.002. अहं गृहपतिमेव द्रष्टुकामः/ 178.003. गच्छेति/ 178.003. तेनानङ्गणस्य गृहपतेर्गत्वा निवेदितम्--आर्य, कौशिकसगोत्रो ब्राह्मणो द्वारे तिष्ठति आर्यं द्रष्टुकाम इति/ 178.004. स कथयति--गच्छ भोः पुरुष, येन तय्स प्रयोजनं तत् प्रयच्छ--किं तेनात्र प्रविष्टेनेति? स कथयति--आर्य, उक्तो मया एवं कथयति--नाहं किंचित् प्रार्थयामि, अपि तु गृहपतिमेव द्रष्टुकाम इति/ 178.006. स कथयति--भोः पुरुष यद्येवम्, प्रवेशय/ 178.006. स तेन प्रवेशितः/ 178.007. ब्राह्मणः कथयति--कस्मात् त्वं गृहपते करे कपोलं चिन्तापरस्तिष्ठसीति? स गृहपतिर्गाथां भाषते-- 178.009. न तस्य कथयेच्छोकम् यः शोकान्न प्रमोचयेत्/ 178.010. तस्मै तु कथयेच्छोकम् यः शोकात्सम्प्रमोचयेत्//16//इति/ 178.011. शक्रः कथयति--गृहपते, कस्तव शोकह्? कथय, अहं ते शोकात्प्रमोचयामीति/ 178.011. तेन विस्तरेण समाख्यातम्/ 178.012. अथ शक्रो देवेन्द्रः कौशिकब्राह्मणरूपमन्तर्धाप्य् स्वरूपेण स्थित्वा कथयति--गृहपते, विश्वकर्मा ते देवपुत्रः साहाय्यं कल्पयिष्यतीत्युक्त्वा प्रक्रान्तः/ 178.013. अथ शक्रो देवेन्द्रो देवांस्त्रायस्त्रिंशान् गत्वा विश्वकर्माणं देवपुत्रमामन्त्रयते--गच्छ, विश्वकर्मन्, अनङ्गणस्य गृहपतेः साहाय्यं कल्पय/ 178.015. परं भद्रं तव कौशिकेति विश्वकर्मणा देवपुत्रेण शक्रस्य देवेन्द्रस्य प्रतिश्रुत्य आगतः/ 178.016. प्रतिविशिष्टतरा नगरशोभा निर्मिता, दिव्यो मण्डलवाटो दिव्यासनप्रज्ञप्तिर्दिव्य आहारः
समन्वाहृतः/ 178.017. ऐरावणो नागराजो विपश्यिनः सम्यक्सम्बुद्धस्य शतशलाकं छत्रमुपरि मूर्ध्नो धारयति, अवशिष्टा नागा अवशिष्टानां भिक्षूणाम्/ 178.018. शची देवकन्या विपश्यिनं सम्यक्सम्बुद्धं सौवर्णेन मणिवालव्यजनेन वीजयति, अवशिष्टा अप्सरसो भिक्षून्/ 178.019. बन्धुमता राज्ञा अवचरकः पुरुषः प्रेषितह्--गच्छ भोः पुरुष, कीदृशेनाहारेणानङ्गणो गृहपतिर् बुद्धप्रमुखं भिक्षुसंघं तर्पयतीति? स पुरुषस्तत्र गतस्तां विभूतिं दृष्ट्वा तत्रैव अवस्थितः/ 178.021. तेनामात्यः प्रेषितः/ 178.022. सो ऽपि तत्रैवावस्थितः/ 178.022. कुमारः प्रेषितः/ 178.022. सो ऽपि तत्रैवास्थितः/ 178.022. ततो बन्धुमान् राजा स्वयमेव तद्द्वारं गत्वा अवस्थितः/ 178.023. विपश्यी सम्यक्सम्बुद्धः कथयति--गृहपते, बन्धुमान् राजा दृष्टसत्यः/ 178.024. तस्यान्तिके त्वया खरवाक्कर्म निश्चारितम्/ 178.024. स एव द्वारे तिष्ठति/ 178.025. गच्छ क्षमयेति/ 178.025. तेनासौ निर्गत्य क्षमित उक्तश्च--महाराज, प्रविश स्वहस्तेन परिवेषणं कुरु/ 178.026. स प्रविष्टः/ 178.026. पश्यति दिव्या विभूतिम्/ 178.026. दृष्ट्वा च परं विस्मयमापन्नः कथयति--गृहपते, त्वमेवैको ऽर्हसि दिने दिने बुद्धप्रमुखं भिक्षुसंघं भोजयितुं न वयंती/ 178.027. अथानङ्गणो गृहपतिर्विपश्यिनं सम्यक्सम्बुद्धमनया विभूत्या त्रैमास्यं प्रणीतेनाहारेण संतर्प्य पादयोर् निपत्य प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारा कृता, अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेयम्, दिव्यमानुषीं श्रियं प्रत्यनुभवेयम्, एवंविधानां धर्माणां लाभी स्याम्,
एवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति//
179.001. <179>किं मन्यध्वे भिक्षवो यो ऽसौ अनङ्गणो नाम गृहपतिः, एष एवासौ ज्योतिष्कः कुलपुत्रस्तेन कालेन तेन समयेन/ 179.002. यदनेन बन्धुमतो राज्ञो दृष्टसत्यस्यान्तिके खरा वाग्निश्चारिता, तस्य कर्मणो विपाकेन पञ्चशतानि समातृकश्चितायामारोप्य ध्मापितः/ 179.003. यावदेतर्हि अपि चितामारोप्य ध्मापितः/ 179.004. यद्विपश्यिनि तथागते कारां कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः/ 179.005. दिव्यमानुषी श्रीः प्रादुर्भूता/ 179.005. मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 179.006. अहमनेन विपश्यिना सम्यक्सम्बुद्धेन सार्धं समजवः समबलः समधुरः समसामान्यप्राप्तः शास्ता आरागितो न विरागितः/ 179.007. इति हि भिक्षवह् एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः/ 179.009. तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः/ 179.010. इत्येवं वो भिक्षवः शिक्षितव्यम्//
179.011. इदमवोचद्भगवान्/ 179.011. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//
179.012. इति दिव्यावदाने ज्योतिष्कावदानमूनविंशतिमम्//
********** अवदान 20 **********
180.001. दिव्20 कनकवर्णावदानम्/
180.001. एवं मया श्रुतम्/ 180.001. एकस्मिन् समये भगवाञ् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डददस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः/ 180.002. सत्कृतो भगवान् गुरुकृतो मानितः पूजितो भिक्षुभिर्भिक्षुणीभिरुपासकैरुपासिकाभी राजभी राजमात्रैर् नानातीर्थिकश्रमणब्राहमणचरकपरिब्राजकैर्देवैर् नागैर्यक्षैरसुरैर्गरुडैर्गन्धर्वैः किन्नरैर्महोरहैः/ 180.004. लाभी भगवान् प्रभूतानां प्रणीतानां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां दिव्यानां मानुषाणां च/ 180.007. तैश्च भगवाननुपलिप्तः पद्ममिव वारिणा/ 180.007. भगवतश्चायमेवम्रूपो दिग्विदिक्षु उदारकल्याणकीर्तिशब्दश्लोको ऽभ्युद्गतह्--इत्यपि स भगवांस्तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्/ 180.009. स इमं सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषीं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसम्पद्य प्रवेदयते/ 180.011. स धर्मं देशयति आदौ कल्याणं मध्ये पर्यवसाने कल्याणम्/ 180.012. स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति/ 180.013. तत्र भगवान् भिक्षूनामन्त्रयते स्म--सचेद्भिक्षवः सत्त्वा जानीयुर्दानस्य फलं दानसंविभागस्य च फलविपाकम् यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकम्, अपीदानीम् यो ऽसौ अपश्चिमः कवलश्चरम आलोपः, ततो ऽप्यदत्वा असंविभज्य न परिभुञ्जीरन्, सचेल्लभेरन् दक्षिणीयं प्रतिग्राहकम्/
180.016. न चैषामुत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत्/ 180.017. यस्मात् तर्हि भिक्षवः सत्त्वा न जानन्ते दानस्य फलं दानसंविभागस्य च फलविपाकम् यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्माद्धेतोरदत्त्वा असंविभज्य परिभुज्यन्ते आगृहीतेंश् चेतसा/ 180.019. उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति/ 180.020. तत्कस्य हेतोह्? 180.021. भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि राजाभूत् कनकवर्णो नाम अभिरूपो दर्शनीयः प्रासादिकः परमया सुवर्णपुष्कलतया समन्वागतः/ 180.022. राजा भिक्षवः कनकवर्ण आढ्यो महाधनो महाभोगः/ 180.023. प्रभूतसत्त्वस्वापतेयः प्रभूवित्तोपकरणः प्रभूतधनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालरजतजातरूपः प्रभूतहस्त्यश्वगवेडकः परिपूणकोशकोष्ठागारः/ 180.024. राज्ञः कनकवर्णस्य खलु भिक्षवः कनकावती नाम राजधानी बभूव पूर्वेण पश्चिमेन च द्वादश योजयान्यामेन, दक्षिणेनोत्तरेण च सप्त योजनानि च विस्तारेण/ 180.026. ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च रमणीया च/ 180.027. राज्ञः कनकवर्णस्याशीतिर् नगरसहस्राण्यभूवन्/ 180.028. अष्टादश कुलकोटी ऋद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि/ 180.029. सप्तपञ्चाशद्ग्रामकोट्य ऋद्धाः स्फीताः क्षेमाः सुभिक्षा रमणीया महाजनाकीर्णमनुष्याः/ 180.030. षष्टिः कर्वटसहस्राण्यभूवन्न् ऋद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि/ 180.031. राज्ञः कनकवर्णस्याष्टादशामात्यसहस्राण्यभूवन्/ 180.031. विंशतिस्त्रीसहस्राण्यन्तःपुरमभूत्/ 180.032.
राजा भिक्षवः कनकवर्णो धार्मिको बभूव/ 180.032. धर्मेण राज्यं कारयति//
181.001. <181>अथापरेण समयेन राज्ञः कनकवर्णस्य एकाकिनो रहोगतस्य प्रतिसम्लीनस्य एवं चेतसि चेतःपरिवितर्कमुदपादि--यन्न्वहं सर्ववणिजो ऽशुल्कानगुल्मान् मुञ्चेयम्/ 181.002. सर्वजाम्बुद्वीपकान् मनुष्यानकारानगुल्मान् मुञ्चेयमिति/ 181.003. अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपरिषद्यानामन्त्रयते--अद्याग्रेण वो ग्रामण्यः सर्ववणिजो ऽशुल्कान् मुञ्चामि, सर्वजाम्बुद्वीपकान् मनुष्यानकारानशुल्कान् मुञ्चामि/ 181.005. तस्यानेनोपायेन बहूनि वर्षाणि राज्यं कारयतो ऽपरेण समयेन नक्षत्रं विषमीभूतम्, द्वादश वर्षाणि देवो न वर्षति/ 181.006. अथ ब्राह्मणा लक्षणज्ञा नैमित्तिका भूम्यन्तरिक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचरितेषु तत् संलक्षयित्वा येन राजा कनकवर्णः, तेनोपसंक्रान्ताः/ 181.008. अपसंक्रम्य राजानं कनकवर्णमिदमवोचन्--यत्खलु देवो जानीयात्--नक्षत्रं विषमीभूतम्, द्वादश वर्षाणि देवो न वर्षिष्यति/ 181.009. अथ राजा कनकवर्ण इदमेवम्रूपं निर्घोषं श्रुत्वा अश्रूणि प्रवर्तयति--अहो बत मे जाम्बुद्वीपका मनुष्याः, अहो बत मे जम्बुद्वीपह् ऋद्धः स्फीतः क्षेमः सुभिक्षो रमणीयो बहुजनाकीर्णमनुष्यो नचिरादेव शून्यो भविष्यति रहितमनुष्यः/ 181.012. अथ राज्ञः कनकवर्णस्य मुहूर्तं शोचित्वा एतदभवत्--य इमे आढ्या महाधना महाभोगाः, ते शक्ष्यन्ति यापयितुम्/ 181.013. य इमे दरिद्रा अल्पधना अल्पान्नपानभोगाः, ते कथम् यापयिष्यन्ति? तस्यैतदभवत्--यन्न्वहं जम्बुद्वीपादन्नाद्यं संहरेयम्, सर्वजाम्बुद्वीपान् सत्त्वान् गणयेयम्/ 181.015. अथ गणयित्वा मापयेयम्, मापयित्वा सर्वग्रामनगरनिगमकर्वटराजधानीष्वेकं कोष्ठागारं
कारयेयम्/ 181.016. एकं कोष्ठागारं कारयित्वा सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रत्यर्पयेयमिति/ 181.017. अथ कनकवर्णो राजा गणकमहामात्रामात्यदौवारिकपारिषद्यानामन्त्रयते--गच्छत यूयं ग्रामण्यः, सर्वजम्बुद्वीपादन्नाद्यं संहृत्य गणयत, गणयित्वा मापयत, मापयित्वा सर्वग्रामनगरनिगमकर्वटराजधानीष्वेकं कोष्ठागारं स्थापयत/ 181.019. परं देवेति गणकमहामात्रामात्यदौवारिकपारिषद्या राज्ञः कनकवर्णस्य प्रतिश्रुत्य सर्वजम्बुद्वीपादन्नाद्यं गणयन्ति, गणयित्वा मापयन्ति, मापयित्वा सर्वद्रामनगरनिगमकर्वटराजधानीष्वेकस्मिन् कोष्ठागारे स्थापयन्ति/
181.021. एकस्मिन् कोष्ठागारे स्थापयित्वा येन राजा कनकवर्णः, तेनोपसंक्रान्ताः/ 181.022. उपसंक्रम्य राजानं कनकवर्णमिदमवोचत्--यत् खलु देव जानीयाह्--सर्वग्रामनगरनिगमकर्वटराजधानीष्वन्नाद्यं संहृतम्, संहृत्य गणितम्, गणयित्वा मापितम्, मापयित्वा सर्वग्रामनगरनिगमराजधानीष्वेकस्मिन् कोष्ठागारे सथापितम् यस्येदानीं देवः कालं मन्यते/ 181.025. अथ राजा कनकवर्णः संख्यागणकलिपिकपौरुषेयानामन्त्रयित्वा एतदवोचत्--गच्छत यूयं ग्रामण्यः, सर्वजाम्बुद्वीपकान् मनुष्यान् गणयत, गणयित्वा ग्रामण्यः सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रयच्छत/ 181.027. परं देवेति संख्यागणकलिपिकपौरुषेया राज्ञः कनकवर्णस्य प्रतिश्रुत्य सर्वजाम्बुद्वीपकान् मनुष्यान् गणयन्ति, संगण्य राजानं कनकवर्णमादौ कृत्वा सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रज्ञपयन्ति/ 181.030. ते यापयन्त्येकादशवर्षाणि, द्वादशवर्षं न यापयन्ति/ 181.030. निर्गतो द्वादशस्य वर्षस्यैको मासो यावद्बहवः स्त्रीपुरुषदारकदारिका जिघत्सिताः पिपासिताः कालं कुर्वन्ति/ 181.031. तेन् खलु पुनः समयेन सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणमन्यत्र राज्ञः कनकवर्णस्यैका मानिका भक्तस्यावशिष्टा//
182.001. <182>तेन खलु समयेन अन्यतमश्चत्वारिंशत्कल्पसम्प्रस्थितो बोधिसत्त्व इमां सहालोकधातुमनुप्राप्तो बभूव/ 182.002. अद्राक्षीद् बोधिसत्त्वो ऽन्यतरस्मिन् बनषण्डे पुत्रं मात्रा सार्धं विप्रतिपद्यमनम्/ 182.003. दृष्ट्वा च पुनरस्यैतदभवत्--क्लिश्यन्ति बतेमे सत्त्वाः, संक्लिश्यन्ति बतेमे सत्त्वाः, यत्र हि नाम अस्यामेव नव मासान् कुक्षौ उषित्वा, अस्या एव स्तनौ पीत्वा, अत्रैव कालं करिष्यति इति/ 182.005. अलं मे ईदृशैः सत्त्वैरधार्मिकैरधर्मरागरक्तैर्मिथ्यादृष्टकैर्विषमलोभाभिभूतैरमातृरज्ञैश्रामण्यरैब्राह्मण्यैरकुले ज्येष्ठापचायकैः/ 182.006. क उत्सहत ईदृशानां सत्त्वानामर्थाय बोधिसत्त्वचर्यां चरितुम्? यन्न्वहं स्वके कार्ये प्रतिपद्येयम्/ 182.007. अथ बोहिसत्त्वो येनान्यतरद्वृक्षमूलं तेनोपसंक्रान्तः/ 182.008. उपसंक्रम्य तस्मिन् वृक्षमूले निषण्णः/ 182.008. पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य पञ्चसूपादानस्कन्धेषूदयव्ययानुदर्शी विहरति यदुतेदं रूपम्, अयं रूपसमुदयः, अयं रूपस्यास्तंगमः, इयं वेदना, इयं संज्ञा, इमे संक्राराः, इदं विज्ञानम्, अयं विज्ञानसमुदयः, अयं विज्ञानस्यास्तंगम इति/ 182.011. स एवं पञ्चसूपादानस्कन्धेषूदयव्ययानुदर्शी विहरन्नचिरादेव यत्किंचित् समुदयधर्मकं तत् सर्वं निरोधधर्मकमिति विदित्वा तत्रैव प्रत्येकां बोधिमधिगतवान्/ 182.013. अथ भगवान् प्रत्येकबुद्धो यथाप्राप्तानवलोक्य तस्यां वेलायां गाथां भाषते-- 182.014. संसेवमानस्य भवन्ति स्नेहाः स्नेहान्वयं संभवतीह दुःखम्/ 182.016. आदीनवं स्नेहगतं विदित्वा एकश्चरेत्
खङ्गविषाणकल्पः//1//इति/ 182.018. अथ तस्य भगवतः प्रत्येकबुद्धस्यैतदभवत्--बहूनां मे सत्त्वानामर्थाय दुष्कराणि चीर्णानि, न च कस्यचित् सत्त्वस्य हितं कृतम्/ 182.019. कमद्याहमनुकम्पेयम्, कस्याहमद्य पिण्डपातमाहृत्य परिभुञ्जीय? अथ भगवान् प्रत्येकबुद्धो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सर्वावन्तमिमं जम्बुद्वीपं समन्तादनुविलोकयन्नद्राक्षीत् स भगवान् प्रत्येकबुद्धः सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणम्, अन्यत्र राज्ञः कनकवर्णस्यैका मानिका भक्तस्यावशिष्टा/ 182.022. तस्यैतदभवत्--यन्न्वहं राजानं कनकवर्णमनुकम्पेयम्/ 182.023. यन्न्वहं राज्ञः कनकवर्णस्य निवेशनात् पिण्डपातमहृत्य परिभुञ्जीय/ 182.024. अथ भगवान् प्रत्येकबुद्धस्तत् एव ऋद्ध्या विहायसमभ्युद्गम्य दृश्यता कायेन शकुनिरिव ऋद्ध्या येन कनकावती राजधानी तेनोपसंक्रान्तः/ 182.025. तेन खलु समयेन राजा कनकवर्ण उपरिप्रासादतलगतो ऽभूत् पञ्चमात्रैरमात्यसहस्रैः परिवृतः/ 182.026. अद्राक्षीदन्यतमो महामात्रस्तं भगवन्तं प्रत्येकबुद्धं दूरत एवागच्छन्तम्/ 182.027. दृष्ट्वा च पुनर्महामात्रानामन्त्रयते--पश्यत पश्यत ग्रामण्यः/ 182.028. दूरत एव लोहितपक्षः शकुन्त इहागच्छति/ 182.028. द्वितीयो महामात्र एवमाह--नैष ग्रामण्यो लोहितपक्षः शकुन्तः, राक्षस एव ओजोहार इहागच्छति/ 182.029. एषो ऽस्माकं भक्षयिष्यति/ 182.030. अथ राजा कनकवर्ण उभाभ्यां पाणिभ्यां मुखं संपरिमार्ज्य महामात्रानामन्त्रयते--नैष ग्रामण्यो लोहितपक्षः शकुन्तः, न च राक्षस ओजोहारः/ 182.031. ऋषिरेषो ऽस्माकमनुकम्पयेहागच्छति/ 182.032. अथ स
भगवान् प्रत्येकबुद्धो राज्ञः कनकवर्णस्य प्रासादे प्रत्यष्ठात्//
183.001. <183>अथ राजा कनकवर्णस्तं भगवन्तं प्रत्येकबुद्धमुत्थायासनात् प्रत्युद्गम्य पादौ शिरसा वन्दित्वा प्रज्ञप्त एवासने निषीदयति/ 183.002. अथ राजा कनकवर्णस्तं भगवन्तं प्रत्येकबुद्धमिदमवोचत्--किमर्थम् ऋषे इहाभ्यागमनम्? भोजनार्थं महाराज/ 183.003. एवमुक्ते राजा कनकवर्णः प्रारोदीत्/ 183.004. अश्रूणि प्रवर्तयन्नेवमाह--अहो मे दारिद्र्यम्, अहो दारिद्र्यम्, यत्र हि नाम जम्बुद्वीपैश्वर्याधिपत्यं कारयित्वा एकस्यापि ऋषेरसमर्थः पिण्डपातं प्रतिपादयितुम्/ 183.005. अथ या कनकावत्यां राजधान्यामध्युषिता देवता, सा राज्ञः कनकवर्णस्य पुरस्ताद्गाथां भाषते-- 183.007. किं दुःखं दारिद्र्यं किं दुःखतरं तदेव दारिद्र्यम्/ 183.008. मरणसमं दारिद्र्यम्//2//
183.009. अथ राजा कनकवर्णः कोष्ठागारिकं पुरुषमामन्त्रयते--अस्ति भोः पुरुष, मम निवेशने किंचिद्भक्तम्, यदहमस्य ऋषेः प्रदास्यामि? स एवमाह--यत् खलु देव जानीयाह्--सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणम्, अन्यत्र देवस्यैका मानिका भक्तस्यावशिष्टा/ 183.011. अथ राज्ञः कनकवर्णस्यैतदभवत्--सचेत् परिभुञ्जे, जीविष्ये/ 183.012. अथ न परिभोक्ष्ये, मरिष्ये/ 183.012. तस्यैतदभवत्--यदि परिभोक्ष्ये, यदि वा न परिभोक्ष्ये, अवश्यं मया कालः कर्तव्यः/ 183.013. अलं मे जीवितेन/ 183.013. कथं नामेहेदृश ऋषिः शीलवान् कल्याणधर्मा मम निवेशने ऽद्य यथाधौतेन पात्रेण निर्गमिष्यति? अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपारिषद्यान् संनिपात्यैवमवोचत्--अनुमोदत यूयं ग्रामण्यः, अयं राज्ञः कनकवर्णस्यापश्चिम ओदनातिसर्गः/ 183.016. अनेन कुशलमूलेन सर्वजाम्बुद्वीपकानां मनुष्याणां दारिद्र्यसमुच्छेदः स्यात्/ 183.017. अथ राजा कनकवर्णस्तस्य महर्षेस्तत् पात्रं गृहीत्वा एकां मानिकां भक्तस्य पात्रे प्रक्षिप्य उभाभ्यां पाणिभ्यां पात्रं गृहीत्वा जानुभ्यां निपत्य तस्य भगवतः प्रत्येकबुद्धस्य दक्षिणे पाणौ पात्रं प्रतिष्ठापयति/ 183.019. धर्मता पुनर्भगवतां प्रत्येकबुद्धानां कायिकी धर्मदेशना न वाचिकी/ 183.020. अथ भगवान् प्रत्येकबुद्धो राज्ञः कनकवर्णस्यान्तिकात् पिण्डपात्रमादाय तत् एव ऋद्ध्या उपरिविहायसा प्रक्रान्तः/ 183.022. अथ राजा कनकवर्णः प्राञ्जलिर्भूत्वा तावदनिमिषं प्रेक्षमाणो ऽस्थात्, यावच्चक्षुष्पथादतिक्रान्त इति/ 183.023. अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपारिषद्यानामन्त्रयते--गच्छत
ग्रामण्यः स्वकस्वकानि निवेशनानि/ 183.024. मा इहैव प्रासादे जिघत्सापिपासाभ्यां सर्व एव कालं करिष्यथ/ 183.025. त एवमाहुह्--यदा देवस्य श्रीसौभाग्यसम्पदासीत्, तदा वयं देवेन सार्धं क्रीडता रमता कथं पुनर्वयमिदानीं देवं पश्चिमे काले पश्चिमे समये परित्यक्ष्याम इति/ 183.026. अथ राजा कनकवर्णः प्रारोदीत्/ 183.027. अश्रूणि प्रवर्तयति/ 183.027. अश्रूणि संपरिमार्ज्य गणकमहामात्रामात्यदौवारिकपारिषद्यानिदमवोचत्--गच्छत ग्रामण्यो यथास्वकस्वकानि निवेशनानि/ 183.028. मा इहैव प्रासादे जिघत्सापिपासाभ्यां सर्व एव कालं करिष्यथ/ 183.029. एवमुक्ता गणकमहामात्रामात्यदौवारिकपारिषद्याः प्ररुदन्तो ऽश्रूणि प्रवर्तयन्तो ऽश्रूणि संपरिमार्ज्य येन राजा कनकवर्णस्तेनोपसंक्रान्ताः/ 183.030. उपसंक्रम्य राज्ञः कनकवर्णस्य पादौ शिरसा वन्दित्वा अञ्जलिं कृत्वा राज्ञः कनकवर्णस्यैतदूचुह्--क्षन्तव्यं ते यदस्माभिः किंचिदपराद्धम्/ 183.032. अद्यास्माकं देवस्यापश्चिमं दर्शनम्//
184.001. <184>तद्यथा तेन भगवता प्रत्येकबुद्धेन स पिण्डपात्रः परिभुक्तः, अथ तस्मिन्नेव क्षणे समन्ताच्चतसृषु दिक्षु चत्वार्यभ्रपटलानि व्युत्थितानि, शीतलाश्च वायवो वातुमारब्धाः, ये जम्बुद्वीपादशुचिं व्यपनयन्ति, मेघाश्च प्रवर्षयन्तः पांशूञ् शमयन्ति/ 184.003. अथ तस्मिन्नेव दिवसे द्वितीये ऽर्धभागे विविधस्य खादनीयभोजनीयस्य वर्षं प्रवर्षति/ 184.004. इदमेवम्रूपं भोजनमोदनसक्तवः कुल्माषमत्स्यमांसम्, इदमेवम्रूपं खादनीयं मूलखादनीयं स्कन्धखादनीयं पत्रखादनीयं पुष्पखादनीयं फलखादनीयं तिलखादनीयं खण्डशर्करगुडखादनीयं पिष्टखादनीयम्/ 184.006. अथ राजा कनकवर्णो हृष्टतुष्टह् उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो गणकमहामात्रामात्यदौवारिकपार्षद्यानामन्त्रयते--पश्यथ यूयं ग्रामण्यः, अद्यैव तस्यैकपिण्डपातदानस्याङ्कुरः प्रादुर्भूतः/ 184.009. फलमन्यद्भविष्यति//
184.010. अथ द्वितीये दिवसे सप्ताहं धान्यवर्षं प्रवर्षन्ति, तद्यथा--तिलतण्डुला मुद्गमाषा यवा गोधूममसूराः शालयः/ 184.011. सप्ताहं सर्पिवर्षं प्रवर्षन्ति, सप्ताहं कर्पासवर्षं प्रवर्षन्ति, सप्ताहं नानाविधदूष्यवर्षं प्रवर्षन्ति, सप्ताहं सप्तरत्नानां वर्षं प्रवर्षन्ति, सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य/ 184.013. सर्वस्य राज्ञः कनकवर्णस्यानुभावेन जाम्बुद्वीपकानां मनुष्याणां दारिद्र्यसमुच्छेदो बभूव//
184.015. स्यात् खलु भिक्षवो युष्माकं काङ्क्षा विमतिर्वा अन्यः स तेन कालेन तेन समयेन राजा कनकवर्णो बभूव/ 184.016. न खल्वेवं द्रष्टव्यम्/ 184.016. अहं स तेन कालेन तेन समयेन राजा कनकवर्णो बभूव/ 184.017. तदनेन भिक्षवः पर्यायेण वेदितव्यम्/ 184.017. सचेद्भिक्षवः सत्त्वा जानीयुर्दानस्य फलं दानसंविभागस्य च फलविपाकम्--अपीदानीम् यो ऽसौ अपश्चिमकः कवलश्चरम आलोपः, ततो ऽप्यदत्त्वा असंविभज्य न परिभुञ्जीरन्, सचेल्लभेरन् दक्षिणीयं प्रतिग्राहकम्/ 184.019. न चैषामुत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठति/ 184.020. यस्मात् तर्हि भिक्षवः सत्त्वा न जानते दानस्य फलं दानसंविभागस्य च फलविपाकम्--यथा अहं जाने दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्मात्ते ऽदत्त्वा असंविभज्य परिभुञ्जते आगृहीतेन चेतसा, उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादत्तं तिष्ठति/ 184.024. न नश्यते पूर्वकृतं शुभाशुभं न नश्यते सेवनं पिण्डतानाम्/ 184.026. न नश्यते आर्यजनेषु भाषितं कृतं कृतज्ञेषु न जातु नश्यति//3//
184.028. सुकृतं शोभनं कर्म दुष्कृतं वाप्यशोभनम्/ 184.029. अस्ति चैतस्य विपाको अवश्य दास्यते फलम्//4//
184.030. इदमवोचद्भगवान्/ 184.030. आत्तमनसस्ते भिक्षवो भिक्षुण्युपासकोपासिकादेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगादयः सर्वावती च पर्षद्भगवतो भाषितमभ्यनन्दन्//
184.032. इति श्रीदिव्यावदाने कनकवर्णावदानं विंशतिमम्/
********** अवदान 21 **********
185.001. दिव्21 सहसोद्गतावदानम्/
185.002. बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे/ 185.002. आचरितमायुष्मतो महामौद्गल्यायनस्य कालेन कालं नरकचारिकां चरितुं तिर्यक्चारिकां चरितुं प्रेतचारिकां देवचारिकां मनुष्यचारिकां चरितुम्/ 185.004. स यानि तानि नारकाणां सत्त्वानामुत्पाटानुपाटनच्छेदनभेदनादीनि दुःखानि, तिरश्चामन्योन्यभक्षणादीनि, प्रेतानां क्षुत्तृषादीनि, देवानां च्यवनपतनविकिरणविध्वंसनादीनि, मनुष्याणां पर्येष्टिच्यसनादीनि दुःखानि, तानि दृष्ट्वा जम्बुद्वीपमागत्य चतसृणां पर्षदामारोचयति/ 185.007. यस्य कस्यचित् सार्धंविहारी अन्तेवासी वा अनभिरतो ब्रह्मचर्यं चरति, स तमादाय येनायुष्मान् महामौद्गल्यायनस्तेनोपसंक्रामति, आयुष्मान् महामौद्गल्यायन एनं सम्यगववदिष्यति, अनुशासिष्यतीति/ 185.009. तमायुष्मान् महामौद्गल्यायनः सम्यगववदति सम्यगनुशास्ति/ 185.010. एवमपरमपरं ते आयुष्मता महामौद्गल्यायनेन सम्यगववादिताः सम्यगनुशिष्टा अभिरता ब्रह्मचर्यं चरन्ति, उत्तरे च विशेषमधिगच्छन्ति/ 185.011. तेन खलु समयेनाउष्मान् महामौद्गल्यायनश्चतसृभिः पर्षद्भिराकीर्णो विहरति भिक्षुभिर्भिक्षुणीभिरुपासकैरुपासिकाभिश्च/ 185.013. जानकाः पृच्छका बुद्धा भगवन्तः/ 185.013. पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्/ 185.014. स कथयति--आचरितं भदन्त आयुष्मतो महामौद्गल्यायनस्य कालेन कालं नरकचारिकां चरितुं तिर्यक्चरिकां प्रेतचारिकां देवचारिकां मनुष्यचारिकां चरितुम्/ 185.015. स यानि तानि नारकाणां सत्त्वानामुत्पाटानुपाटनच्छेदनभेदनादीनि दुःखानि, तिर्यश्चामन्योन्यभक्षणादीनि, प्रेतानां क्षुत्तृषादीनि, देवानां
च्यवनपतनविकिरणविध्वंसनादीनि, मनुष्याणां पर्येष्टिव्यसनादीनि दुःखानि, तानि दृष्ट्वा जम्बुद्वीपमागत्य चतसृणां पर्षदामारोचयति/ 185.018. यस्य कस्यचित् सार्धंविहारी अन्तेवासी वा अनभिरतो ब्रह्मचर्यं चरति, स तमादाय येनायुष्मान् महामौद्गल्यायनस्तेनोपसंक्रामति, आयुष्मान् महामौद्गल्यायन एव सम्यगववदिष्यति सम्यगनुशासिष्यतीति, तमायुष्मान् महामौद्गल्यायनः सम्यगववदति सम्यगनुशास्ति/ 185.021. एवमपरमपरं ते आयुष्मता महामौद्गल्यायनेन सम्यगववादिताः सम्यगवुशिष्टा अभिरता ब्रह्मचर्यं चरन्ति, उत्तरे च विशेषमधिगच्छन्ति/ 185.023. अयं भदन्त हेतुरयं प्रत्ययो येनायुष्मान् महामौद्गल्यायनश्चतसृभिः पर्षद्भिराकीर्णो विहरति भिक्षुभिक्षुण्युपासकोपासिकाभिः/ 185.024. न सर्वत्र आनन्द मौद्गल्यायनो भिक्षुर्भविष्यति मौद्गल्यायनसदृशो वा/ 185.025. तस्माद् द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यम्/ 185.026. उक्तं भगवता द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यमिति/ 185.026. भिक्षवो न जानते कीदृशं कारयितव्यमिति/ 185.027. भगवानाह--पञ्च गतयः कर्तव्या नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च/ 185.028. तत्राधस्तात् नरकाः कर्तव्याः, तिर्यञ्चः प्रेताश्च, उपरिष्टात् देवा मनुष्याश्च/ 185.029. चत्वारो द्वीपाः कर्तव्याः पूर्वविदेहो ऽपरगोदानीय उत्तरकुरुर्जम्बुद्वीपश्च/ 185.029. मध्ये रागद्वेषमोहाः कर्तव्याः, रागः पारावताकारेण, द्वेषो भुजङ्गाकारेण, मोहः सूकराकारेण/ 185.030. बुद्धप्रतिमाश्चैतन्निर्वाणमण्डलमुपदर्शयन्त्यः कर्तव्याः/ 185.031. अनुपपादुकाः सत्त्वा घटीयन्त्रप्रयोगेण च्यवमाना उपपद्यमानाश्च
कर्तव्याः/ 185.032. सामन्तकेन द्वादशाङ्गः प्रतीत्यसमुत्पादो ऽनुलोमप्रतिलोमः कर्तव्यः/ 185.033. सर्वमनित्यतया ग्रस्तं कर्तव्यम्, गाथाद्वयं च लेखयितव्यम्--
186.001. <186>आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने/ 186.002. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः//1//
186.003. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति/ 186.004. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति//2//इति/ 186.005. उक्तं भगवता द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यमिति भिक्षुभिः कारितम्/ 186.006. ब्राह्मणगृहपतय आगत्य पृच्छन्ति--आर्य, किमिदं लिखितमिति? ते कथयन्ति--भद्रमुखाः, वयमपि न जानीम इति/ 186.007. भगवानाह--द्वारकोष्ठके भिक्षुरुद्देष्टव्यो य आगतागतानां ब्राह्मणगृहपतीनां दर्शयति/ 186.008. उक्तं भगवता भिक्षुरुद्देष्टव्य इति/ 186.008. ते अविशेषेणोद्दिशन्ति बालानपि मूढानपि अव्यक्तानपि अकुशलानपि/ 186.009. ते आत्मना न जानते, कुतः पुनरागतानां ब्राह्मणगृहपतीनां दर्शयिष्यन्ति? भगवानाह--प्रतिबलो भिक्षुरुद्देष्टव्य इति//
186.011. राजगृहे ऽन्यतमो गृहपतिः प्रतिवसति/ 186.011. तेन सदृशात् कुलात् कलत्रमानीतम्/ 186.012. स तया सार्धं क्रीडति रमते परिचारयति/ 186.012. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः/ 186.013. तस्य त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितम्/ 186.014. स पत्नीमामन्त्रयते--भद्रे, जातो ऽस्माकम् ऋणहरो धनहरः/ 186.014. तद्गच्छामि, पण्यमादाय महासमुद्रमवतरामीति/ 186.015. सा कथयति--आर्यपुत्र, एवं कुरुष्वेति/ 186.015. स सुहृत्सम्बन्धिबान्धवानामन्त्रयित्वा अन्तर्जनं च समाश्वास्य महासमुद्रगमनीयं पण्यमादाय दिवसतिथिमुहूर्तेन महासमुद्रमवतीर्णः/ 186.017. तत्रैव च निधनमुपयातः/ 186.017. तस्य पत्न्या स दारको ज्ञातिबलेन हस्तबलेन पालितः पोषितः संवर्धितो लिप्यामुपन्यस्तो लिप्यक्षरेषु च कृतावी संवृत्तः/ 186.018. स वयस्करेण सार्धं वेणुवनं गतो विहारं प्रविष्टः पश्यति द्वारकोष्ठके पञ्चगण्डकं चक्रमभिलिखितम्/ 186.019. स पृच्छति--आर्य, किमिदमभिलिखितमिति? भिक्षुः कथयति--भद्रमुख, एताः पञ्च गतयो नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च/ 186.021. आर्य, किमेभिः कर्म कृतम् येनैवंविधानि दुःखानि प्रर्यनुभवन्तीति? स कथयति--एते प्राणातिपातिका अदत्तादायिकाः काममिथ्याचारिका मृषावादिकाः पैशुनिकाः पारुषिकाः संभिन्नप्रलापिका अभिध्यालवो व्यापन्नचित्ता मिथ्यादृष्टिकाः/ 186.024. तदेभिरेते दशाकुशलाः कर्मपथा अत्यर्थमासेविता भाविता बहुलीकृताः, येन एवंविधानि दुःखान्युत्पाटानुपाटच्छेदनभेदनादीनि प्रत्यनुभवन्ति/
186.025. आर्य, गतमेतत्/ 186.026. एभिरन्यैः किं कर्म कृतम् येन एवंविधानि दुःखानि प्रत्यनुभवन्ति? दुःखान्यन्योन्यभक्षणादीनि प्रत्यनुभवन्ति/ 186.028. आर्य, एतदपि गतम्/ 186.028. एभिरन्यैः किं कर्म कृतम् येन एवंविधानि दुःखानि प्रत्यनुभवन्ति? भद्रमुख, एते ऽपि मत्सरिण आसन् कुटुकुञ्चका आगृहीतपरिष्काराः/ 186.030. तत्तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन एवंविधानि दुःखानि क्षुत्तृषादीनि दुःखानि प्रत्यनुभवन्ति/ 186.031. आर्य, एतदपि गतम्/ 186.031. एभिरन्यैः किं कर्म कृतम् येन एवंविधानि सुखानि प्रत्यनुभवन्ति? भद्रमुख, एते प्राणातिपातात् प्रतिविरता अदत्तादानात् <187>काममिथ्याचारान्मृषावादात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापादनभिध्यापन्नचित्ताः सम्यग्दृष्टयः/
187.002. तदेभिरेते दश कुशलाः कर्मपथा अत्यर्थमासेविता भाविता बहुलीकृताः, येन एवंविधानि दिव्यस्त्रीललितविमानोद्यानसुखानि प्रत्यनुभवन्ति/ 187.003. आर्य, एतदपि गतम्/ 187.004. एभिरन्यैः किं कर्म कृतम् येन सुखानि प्रत्यनुभवन्ति? भद्रमुख, एभिरपि दश कुशलाः कर्मपथास्तनुतरा मृदुतराश्चासेविता भाविता बहुलीकृताः, येन एवंविधानि हस्त्यश्वरथान्नपानशयनासनस्त्रीललितोद्यानसुखानि प्रत्यनुभवन्ति/ 187.006. आर्य, आसां पञ्चानां गतीनाम् या एतास्तिस्रो गतयो नरकास्तिर्यञ्चः प्रेताश्च, एता मह्यं न रोचन्ते/ 187.007. ये तु एते देवा मनुष्याश्च एते रोचेते/ 187.008. तत्कथमेते दश कुशलाः कर्मपथाः समादाय वर्तयितव्याह्? भद्रमुख, स्वाख्याते धर्मविनये प्रव्रज्य सचेद् दृष्ट एव धर्मे आज्ञामारागयिष्यसि, एष एव ते ऽन्तो दुःखस्य/ 187.010. अथ सावशेषसम्योजनः कालं करिष्यसि, देवेषूपपत्स्यसे/ 187.010. उक्तं हि भगवता--पञ्चानुशंसान् समनुपश्यता पिण्डतेनालमेव प्रव्रज्याधिमुक्तेन भवितुम्/ 187.011. कतमानि पञ्च? आवेणिका इमे स्वार्था अनुप्राप्तो भविष्यामीति संपश्यता पिण्डतेनालमेव प्रव्रज्याधिमुक्तेन भवितुम्/ 187.012. येषामहं दासः प्रेष्यो निर्देश्यो भुजिष्यो नयेन कामंगमः, तेषां पूज्यश्च भविष्यामि प्रशंस्यश्चेति संपश्यता पिण्डतेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्/ 187.014. अनुत्तरम् योगक्षेमं निर्वाणमनुप्राप्स्यामीति संपश्यता पिण्डतेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्/ 187.015. अनुत्तरं वा योगक्षेमं निर्वाणमनुप्राप्नुवतो ऽनापत्तिकस्य सतो देएवेषूपपत्तिर्भविष्यतीति संपश्यता पिण्डतेन अलमेव
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
